विकिपीडिया sawiki https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.46.0-wmf.24 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिपीडिया विकिपीडियासम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk संस्कृतम् 0 834 498844 498176 2026-04-15T17:14:11Z AchyuthaVM 39857 /* स्वराः */ 498844 wikitext text/x-wiki {{Infobox Language |name = संस्कृतम् भाषाम् |pronunciation = {{IPA-sa|ˈsɐmskr̩tɐm||Samskritam.ogg}} |region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]] |familycolor = Indo-European | fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]] | fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]] |script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref>
ब्राह्मी |nation = ▪[[भारतम्]] •[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]] |iso1 = sa |iso2 = san |iso3 = san |image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg |imagesize = |imagecaption = [[देवनागरी|देवनागर्यां]] ''संस्कृतम्'' }} '''संस्कृतं''' जगतः समृद्धशास्त्रीयासु भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमातिप्राचीनम्। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिर् एषा भाषा प्रसिद्धा। भारतीयभाषाभिर् बाहुल्येन संस्कृतशब्दा उपयुज्यन्ते। संस्कृताद् एवाधिका भारतीयभाषाः उद्बभूवुः। तावदेव भारतयुरोपीयभाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति। व्याकरणेन सुसंस्कृतभाषा जनानां संस्कारप्रदायिनी भवति। पाणिनीयाष्‍टाध्‍यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानम् इवास्ति। संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍था वेदाः सन्‍ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिर् अनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश् चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी। == इतिहासः == [[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]] इयं भाषा न केवलं [[भारत|भारतस्‍यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्‍यूनाधिकरूपेणास्‍याः शब्‍दाः प्रयुज्‍यन्‍ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्‍यते। पुरा संस्कृतं लोकभाषा बभूव जनाश्च संस्कृतेनावदन्।‌ इदानीं तु केवलं विद्वांसो वदन्ति॥ अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणम् अप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते। विश्‍वस्‍यादिमो ग्रन्‍थ[[ऋग्वेदः]] संस्‍कृतभाषायामेवास्ति। अन्‍ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्‍कृतभाषायामेव श्रूयन्ते। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्‍धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्‍वार [[उपवेदः|उपवेदा]] अपि संस्‍कृतेनैव विरचिताः॥ सर्वय् [[उपनिषत्|उपनिषदः]] संस्‍कृतय् उपनिबद्धाः । अन्‍ये ग्रन्‍थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्‍योतिषं]] [[छन्दः|छन्दो]] [[व्‍याकरणम्|व्‍याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्‍यं]] शास्‍त्रं चेत्यादयः ॥ [[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्‍टाध्‍यायी|ऽष्टाध्यायीति]] संस्‍कृतव्‍याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते ॥ :वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् | :पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥ == लिपिः == [[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्। संस्‍कृतलेखनं पूर्वं [[सरस्‍वतीलिपिः|सरस्वतीलिप्या]] विविदे ‌| कालान्‍तरं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]] लिलिखिरे। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरभ्यत। अन्‍यरूपान्‍तराण्यधोनिर्दिष्टानि सन्ति – [[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्‍बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥ मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्याऽदर्शि। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते। == अक्षरमाला == अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते। संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैर् एभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति। अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''। संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते – {{अक्षरमाला - संस्कृतम्}} ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः इति वर्णाव् अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः। यद्यप्यक्षराणां वर्णारारब्धत्वाद् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः। अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते। :यथा – ::क् + अ = क ::क् + आ = का ::क् + इ = कि ::क् + ई = की ::क् + उ = कु ::क् + ऊ = कू ::क् + ऋ = कृ ::क् + ॠ = कॄ ::क् + ऌ = कॢ ::क् + ॡ = कॣ ::क् + ए = के ::क् + ऐ = कै ::क् + ओ = को ::क् + औ = कौ :::::इत्यादि। "क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता। अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव। == स्वराः == अच्‌‌- स्वयं राजते इति स्वरः। स्वरा उच्चारणसमयदैर्घ्याधारेण ह्रस्वदीर्घप्लुता इति त्रिधा विभक्ताः। एकमात्रः स्वरो ह्रस्वो द्विमात्रो दीर्घस्त्रिमात्रः प्लुतश्च भवेयुः। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च। उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः – # एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''। # आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''। # आ३, ई३, ऊ३ इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः'''। '''ह्रस्वस्वराः''' येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति। ::अ इ उ ऋ ऌ '''दीर्घस्वराः''' येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति। ::आ ई ऊ ॠ (ॡ) ए ऐ ओ औ '''प्लुतस्वराः''' येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति । ::आ३ ई३ ऊ३ ऋृ३ ॡ३ ए३ ऐ३ ओ३ औ३ दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। उदाहरणानि: # आगच्छ कृष्णा३, अत्र गौः चरति। # भोः बाला३ आगच्छन्तु। व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)। यथा राजे३श्। [राजेश् इति हिन्दी नाम] * एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि। * स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते। * ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। एकारस्य ह्रस्वरूपं देवनागर्यां "ऎ" इति लिख्यते। ओकारस्य ह्रस्वरूपं देवनागर्यां "ऒ" इति लिख्यते। * ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।) सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति। [[चित्रम्:Rigveda MS2097.jpg|thumb|300x300पिक्सेल|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]] अयमपि भेदः सूत्रकारवचनैरेवोच्यते – ::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः। उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''। लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते। लिपौ वैदिकस्वराः इति लिख्यन्ते–<ref>{{Cite web|url=https://archive.org/details/ShuklaYajurvedaMadhyandiniyaSamhitaChowkhambaOrientalia/mode/2up|title=Shuklayajurveda Samhita}}</ref><ref>{{Cite web|url=https://archive.org/details/ShatpathBrahmanISayanacharyaAndShriHariSwami/mode/2up|title=Shatapathabrahmana}}</ref><ref>{{Cite web|url=https://archive.org/details/cu31924023050325/mode/2up|title=Vedic grammar}}</ref><ref>{{Cite web|url=https://epustakalay.com/writer/1464-shripa/|title=श्रीपाद दामोदर सातवळेकर - Shripad Damodar Satwalekar}}</ref> {| class="wikitable" |+ ! rowspan="3" | ! rowspan="3" |उदात्तः ! colspan="2" rowspan="3" |अनुदात्तः ! colspan="4" |स्वरितः ! colspan="4" |स्वरितः (सातवलेकरेण) |- ! colspan="2" rowspan="2" |स्वतन्त्रः ! colspan="2" |आश्रितः ! colspan="2" rowspan="2" |स्वतन्त्रः ! colspan="2" |आश्रितः |- !अकुपितः !अकुपितः !अकुपितः !अकुपितः |- |ऋगथर्ववेदयोः |अ | colspan="2" |अ॒ | colspan="8" |अ॑ |- |तैत्तिरीयशाखायाम् (कृष्णयजुर्वेदे) |अ | colspan="2" |अ॒ | colspan="4" |अ॑ अ᳚ | colspan="4" |अ॑ |- |मैत्रायणीसंहितायाम् (कृष्णयजुर्वेदे) |अ॑ | colspan="2" |अ॒ | colspan="2" |अ᳗ |अ᳔ |अ᳛ | colspan="2" |अ᳗ |अ᳖ |अ᳕ |- |काठकसंहितायाम् (कृष्णयजुर्वेदे) |अ॑ | colspan="2" |अ |अ᳗ |अ᳙᳙ | colspan="2" |अ᳝᳝ |अ᳘ |अ᳕ | colspan="2" |अ |- |शुक्लयजुर्वेदसंहतयोः |अ |अ॒ |अ᳘ |अ᳖ |अ᳕ | colspan="2" |अ॑ |अ᳖ |अ᳕ | colspan="2" |अ॑ |- |शतपतब्राह्मणे (शुक्लयजुर्वेदे) |अ᳘ | colspan="6" |अ | colspan="4" style="background-color:#D3D3D3;"| |} == अयोगवाहौ == {{मुख्यलेखः|अनुस्वारः|विसर्गः}} '''अनुस्वारः''' '''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः। अं '''विसर्गः''' अः विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः। '''चन्द्रविन्दु''' '''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः। == व्यञ्जनानि == व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि। उदाहरणम्: क् + अ = क उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि #कवर्गः #चवर्गः #टवर्गः #तवर्गः #पवर्गः # अन्तस्थाः अथवा मध्यमाः # ऊष्माणः शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)। व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि। ==संयुक्ताक्षराणि== संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति। उदा: क् + व = क्व क् + य = क्य व् + य = व्य '''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति। संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत् उदाः, कुक्कुरः, तत्त्वम् == उच्चारणशास्त्रम् == वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति। वर्णानाम् सप्त उच्चारणस्थानानि सन्ति – १. कण्ठः, २. जिह्वमूलं, ३. तालु ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. नासिका॥ तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
{| class="wikitable" width="60%" style="border:none;" ! rowspan="6" |वर्णस्य उत्पत्तिस्थानानि ! rowspan="6" |वर्णानां संज्ञाः ! colspan="2" rowspan="5" |स्वराः ! colspan="4" rowspan="2" |व्यञ्जनानि !अनुनासिकाः !अन्तःस्थानि ! colspan="2" rowspan="2" |ऊष्माणः |- ! colspan="2" |द्रवाः |- ! colspan="4" rowspan="2" |स्पृष्टाः !स्पृष्टाः ! colspan="3" |ईषत्स्पृष्टाः |- ! colspan="4" |अव्याहताः |- ! colspan="2" |श्वासाः ! colspan="4" |नादाः !श्वासाः !नादाः |- !ह्रस्वाः !दीर्घाः !अल्पप्राणाः !महाप्राणाः !अल्पप्राणाः !महाप्राणाः ! colspan="2" |अल्पप्राणाः ! colspan="2" |महाप्राणाः |- !कण्ठः !कण्ठ्याः | align="center" style="background-color:#FFFFFF;height:50px;" |अ | align="center" style="background-color:#FFFFFF;height:50px;" |आ | colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" | | rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" | | align="center" style="background-color:#FFFFFF;height:50px;" |अः
(विसर्जनीयः) | align="center" style="background-color:#FFFFFF;height:50px;" |ह् |- !जिह्वमूलम् !जिह्वामूलीयाः | colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" | | align="center" style="background-color:#FFFFFF;height:50px;" |क् | align="center" style="background-color:#FFFFFF;height:50px;" |ख् | align="center" style="background-color:#FFFFFF;height:50px;" | ग् | align="center" style="background-color:#FFFFFF;height:50px;" |घ् | align="center" style="background-color:#FFFFFF;height:50px;" |ङ् | align="center" style="background-color:#FFFFFF;height:50px;" |ᳲक्
(जिह्वामूलीयः) | rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" | |- !तालु !तालव्याः | align="center" style="background-color:#FFFFFF;height:50px;" |इ | align="center" style="background-color:#FFFFFF;height:50px;" |ई | align="center" style="background-color:#FFFFFF;height:50px;" |च् | align="center" style="background-color:#FFFFFF;height:50px;" |छ् | align="center" style="background-color:#FFFFFF;height:50px;" |ज् | align="center" style="background-color:#FFFFFF;height:50px;" |झ् | align="center" style="background-color:#FFFFFF;height:50px;" |ञ् | align="center" style="background-color:#FFFFFF;height:50px;" |य् | align="center" style="background-color:#FFFFFF;height:50px;" |श्  |- !मूर्धा !मूर्धन्याः | align="center" style="background-color:#FFFFFF;height:50px;" |ऋ | align="center" style="background-color:#FFFFFF;height:50px;" |ॠ | align="center" style="background-color:#FFFFFF;height:50px;" |ट् | align="center" style="background-color:#FFFFFF;height:50px;" |ठ् | align="center" style="background-color:#FFFFFF;height:50px;" |ड् (ळ्) | align="center" style="background-color:#FFFFFF;height:50px;" |ढ् (ळ्ह्) | align="center" style="background-color:#FFFFFF;height:50px;" |ण् | align="center" style="background-color:#FFFFFF;height:50px;" | र् | align="center" style="background-color:#FFFFFF;height:50px;" |ष् |- !दन्ताः !दन्त्याः | align="center" style="background-color:#FFFFFF;height:50px;" |ऌ | align="center" style="background-color:#FFFFFF;height:50px;" |(ॡ) | align="center" style="background-color:#FFFFFF;height:50px;" |त् | align="center" style="background-color:#FFFFFF;height:50px;" |थ् | align="center" style="background-color:#FFFFFF;height:50px;" |द् | align="center" style="background-color:#FFFFFF;height:50px;" |ध् | align="center" style="background-color:#FFFFFF;height:50px;" |न् | align="center" style="background-color:#FFFFFF;height:50px;" |ल्  | align="center" style="background-color:#FFFFFF;height:50px;" |स्  |- !ओष्ठौ !ओष्ठ्याः | align="center" style="background-color:#FFFFFF;height:50px;" |उ | align="center" style="background-color:#FFFFFF;height:50px;" |ऊ | align="center" style="background-color:#FFFFFF;height:50px;" |प् | align="center" style="background-color:#FFFFFF;height:50px;" |फ् | align="center" style="background-color:#FFFFFF;height:50px;" |ब् | align="center" style="background-color:#FFFFFF;height:50px;" |भ् | align="center" style="background-color:#FFFFFF;height:50px;" |म् | align="center" style="background-color:#FFFFFF;height:50px;" |व्  | align="center" style="background-color:#FFFFFF;height:50px;" |ᳲप् (उपध्मानीयः)  |- !कण्ठतालु !कण्ठतालव्यौ | align="center" style="background-color:#FFFFFF;height:50px;" | | align="center" style="background-color:#FFFFFF;height:50px;" |ए ऐ | colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |  |- !कण्ठोष्ठः !कण्ठोष्ठ्यौ | align="center" style="background-color:#FFFFFF;height:50px;" | | align="center" style="background-color:#FFFFFF;height:50px;" |ओ औ |- !नासिका !नासिक्याः | colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |  | align="center" style="background-color:#FFFFFF;height:50px;" |अं
(अनुस्वारः) | align="center" style="background-color:#FFFFFF;height:50px;" |अँय्य् अँव्व् अँल्ल्
(चन्द्रबिन्दुः) | align="center" style="background-color:#FFFFFF;height:50px;" | |- |}
== उच्चारणभेदाः == देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः। == संस्कृतभाषाप्रभावः == संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्‍कृतेनैव क्रियमाणम् अस्ति। अस्‍यां भाषायां न केवलं भारतस्‍य अपि तु निखिलस्‍यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्‍ताः प्रतिष्‍ठापिताः सन्‍ति। इयमेव सा भाषा यत्र ध्‍वनेः लिपेश्‍च सर्वत्रैकरूपता वर्तते। [[मलयाळम्‌]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्‍यभाषाः संस्‍कृतेन भृशं प्रभाविताः।
{| class="wikitable" width="60%" style="border:none;" |+तत्सम-तद्भव-समान-शब्दाः |- !संस्कृतशब्दः ![[हिन्दी]] ![[मराठीभाषा|मराठी]] ![[मलयाळम्]] ![[कन्नड]] ![[तेलुगु]] ![[ग्रीक]] ![[लेतिन]] ![[आङ्गलिक]] ![[जर्मन]] ![[बाङ्गला]] ![[फ़ारसी]] |- !मातृ |align="center"|माता |माता |align="center"|माताव् |align="center"| |align="center"|माता/मातृ |align="center"| |align="center"|मातेर |align="center"|मदर |align="center"|मुटेर |align="center"|माता, मातृ |align="center"|मादिर/मादर |- !पितृ |align="center"|पिता |पिता |align="center"|पिताव् |align="center"| |align="center"|पिता/पितृ/तन्ड्री |align="center"| |align="center"|पातेर |align="center"|फादर |align="center"|फ़ाटेर |align="center"|पिता, पितृ |align="center"|पिदर |- !दुहितृ |align="center"| दोहता | |align="center"| |align="center"| |align="center"| |align="center"| |align="center"| |align="center"|डटर |align="center"| |align="center"|दौहित्रो | |- !भ्रातृ |align="center"|भाई, भ्राता |भाऊ |align="center"|भ्राताव् |align="center"| |align="center"|भ्राता |align="center"| |align="center"| |align="center"|ब्रदर |align="center"|ब्रुडेर |align="center"|भ्राता, भाई |align="center"|बिरादर |- !पत्तनम् |align="center"| पट्टन, पटना | |align="center"|पट्टणम् |align="center"| |align="center"|पट्टणम् |align="center"| |align="center"| |align="center"|प्लट |align="center"| | | |- !वैदूर्यम् |align="center"|लहसुनिया | |align="center"|वैडूर्यम् |align="center"|वैडूर्यम् |align="center"|वैडूर्यम् |align="center"| |align="center"| |align="center"| | | | |- !सप्तन् |align="center"|सात् |सात |सप्तम् |align="center"| |align="center"|सप्त |align="center"| |align="center"|सेप्तम् |align="center"|सेभेन |align="center"|ज़ीबेन | | |- !अष्टौ |align="center"|आठ् |आठ |align="center"|एट्ट् |align="center"| |align="center"|अष्ट |align="center"|होक्तो |align="center"|ओक्तो |align="center"|एट |align="center"|आख़्ट | | |- !नवन् |align="center"|नौ |नऊ |align="center"|नवम् |align="center"| |align="center"|नवम/नव |align="center"|हेणेअ |align="center"|नोवेम् |align="center"|नाइन |align="center"|नोएन | | |- !द्वारम् |align="center"| द्वार |दार |align="center"|द्वारम् |align="center"| |align="center"|द्वारम् |align="center"| |align="center"| |align="center"|डोर |align="center"|टोर | | |- !नालिकेरः |align="center"|नारियल् |नारळ |align="center"|नाळिकेरम् |align="center"| |align="center"|नारिकेलम |align="center"| |align="center"| |align="center"|कोकोनट |align="center"|कोकोस्नुस्स | | |- |}
== वाक्यरचना == संस्‍कृते एकस्‍य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्‍ति । प्रत्‍येकलकारे प्रथमपुरुष:, मध्‍यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्‍ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति। * [[उपसर्गाः]] * [[समासा:]] * [[धातुविमर्श:]] * [[व्‍याकरणम्]] * [[संस्कृतवाङ्मयम्]] अस्‍याः भाषायाः वैशिष्‍ट्‍यं नाम दण्डचिह्नम्‌। '''न वर्तते अत्र अन्‍यानि विरामचिह्नानि केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्‍नम्‌ उद्‍गारं च सूचयति। अत: एकस्‍यैव वाक्‍यस्‍य भिन्‍नान्‌ अर्थान्‌ प्राप्‍नुमः वयम्‌। उदाहरणार्थं वाक्‍यांशः एकः दीयते। अभ्‍युत्‍थानं च धर्मस्‍य नैव दृष्‍टं कदाचन इति एतस्‍य वाक्‍यस्‍य द्वौ अर्थौ स्‍त:॥ ==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् == कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।
{| class="wikitable sortable" border="1" |- |गत |गतक |गति |गतिक |गत्वन् |- |गत्वर |गन्तव्य |गन्तृ |गन्त्रिका |गम |- |गमक |गमथ |गमन |गमनिका |गमनीय |- |गमयितृ |गमित |गमिन् |गमिष्ठ |गमिष्णु |- |गम्य |गम्यमान |गामिक |गामुक |गामिन् |- |अतिगम् |अतिग |अधिगम् |अधिगत |अधिगन्तृ |- |अधिगम |अधिगमन |अधिगम्य |अधिगमनीय |अनुगम् |- |अनुग |अनुगत |अनुगति |अनुगतिक |अनुगन्तव्य |- |अनुगम |अनुगमन |अनुगम्य |अनुगामिन् |अनुगामुक |- |अपगम् |अपग |अपगत |अपगम |अपगमन |- |अपिगम् |अभिगम् |अभिगत |अभिगन्तृ |अभिगम |- |अभिगमन |अभिगम्य |अभिगामिन् |अवगम् |अवगत |- |अवगति |अवगन्तव्य |अवगम |अवगमक |अवगमयितृ |- |अवगम्य |आगम् |आगत |आगति |आगन्तव्य |- |आगन्तु |आगन्तुक |आगम |आगमन |आगामिन् |- |आगमिष्ठ |आगमिक |आगमिन् |आगमुक |आजिगमिषु |- |उद्गम् |उद्गा |उद्गति |उद्गम |उपगम् |- |उपग |उपगत |उपगति |दुर्गम |निगम |- |निगमन |निर्गम |निर्गत |निर्गम् |निर्गमन |- |परागम् |परागत |परागन्तृ |परागम |परिगम् |- |परिग |परिगत |परिगन्तव्य |परिगम |परिगमन |- |परिगमिन् |परिगम्य |प्रगम् |प्रगम |प्रगत |- |प्रगमन |प्रगमनीय |प्रगामन |प्रगामिन् |प्रगे |- |प्रतिगम् |प्रतिगत |प्रतिगति |प्रतिगमन |विगम् |- |विगत |सङ्गम् |सङ्ग |सङ्गत |सङ्गम |- |सङ्गति |सङ्गथ |सङ्गमन |सङ्गमक |सङ्गमनीय |- |सङ्गमिन् |सङ्गिन् |सुगम | | |} == ध्येयवाक्यानि == अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति। उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः – भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति। * भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्। * नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। * भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः। * भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्। * भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति। * भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च। * भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति। * “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्। * भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति। * आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति। * दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति। * राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते। * केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः। * ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्। * भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”। * भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्। * इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति। * विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्। * न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः। * हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्। * देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्। * आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति। * आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। * श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि। * आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्। * केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति। * केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति। एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति। == अद्यत्वे संस्कृतभाषाया: स्थितिः == अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति| ==संस्कृतं संवादभाषा == संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम् १८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति। अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति। एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्- अ) ===भाषाशास्त्रदृष्ट्या – === १ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्। २ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ? वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् – १ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा। २ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्। भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्। भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ? वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:। ३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्। पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् । आ) व्याकरणदृष्ट्या संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:। भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् - यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम् एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म। निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:। डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य। यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ ) यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्। पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्। अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति। इ) === वाङ्मयदृष्ट्या === जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्। वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते। ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव। चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति। रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्। अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे – राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्। केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६ इति सञ्जयस्य वचनम् अस्ति।
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।
===ई ऐतिहासिकदृष्ट्या – ===
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्।
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्- ===निर्णय: === अतः अस्य वादस्य निर्णय: एवमेव यत्-
1 संस्कृतम् उक्तिभाषा आसीत्।
2 शिक्षिता: जना: तया भाषया वदन्ति स्म।
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।
== संस्कृताभ्युद्धारणम् == संस्‍कृतभाषाया: साहित्‍यमतीव सरसं वर्तते । तथा अस्‍या: व्‍याकरणं नितान्तं व्‍यवस्‍थितम् अस्‍ति। संस्‍कृतसाहित्‍यं वैदिककालादारभ्‍य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्‍यविषयाणां बाहुल्‍यात्‌ अस्‍या: भाषाया: शब्‍दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि। * [[अभिनन्दन-वाक्यानि]] * == इमानि अपि पश्यन्तु == *[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्] * [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)] * [[संस्‍कृत भारती]] * [[सारस्वत-निकेतनम्]] * [[संस्कृतसम्बद्धलेखाः]] == बाह्यानुबन्धाः == *[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्] * [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key] * [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }} * [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }} * [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable] * [http://samskritabharati.org/ संस्कृत-भारती] * [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]{{Dead link|date=October 2025 |bot=InternetArchiveBot |fix-attempted=yes }} * [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि] * संस्कृत ई-जर्नल * [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }} * [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में] * [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts == आधाराः == <references/> ‎ [[वर्गः:भारतीयभाषाः|संस्कृतम्]] [[वर्गः:बाह्यानुबन्धः योजनीयः]] [[वर्गः:संस्कृतभाषा]] mpaay1ll0auyonop3ghn5io6r4gkaxg 498853 498844 2026-04-16T10:52:12Z AchyuthaVM 39857 /* स्वराः */ 498853 wikitext text/x-wiki {{Infobox Language |name = संस्कृतम् भाषाम् |pronunciation = {{IPA-sa|ˈsɐmskr̩tɐm||Samskritam.ogg}} |region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]] |familycolor = Indo-European | fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]] | fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]] |script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref>
ब्राह्मी |nation = ▪[[भारतम्]] •[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]] |iso1 = sa |iso2 = san |iso3 = san |image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg |imagesize = |imagecaption = [[देवनागरी|देवनागर्यां]] ''संस्कृतम्'' }} '''संस्कृतं''' जगतः समृद्धशास्त्रीयासु भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमातिप्राचीनम्। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिर् एषा भाषा प्रसिद्धा। भारतीयभाषाभिर् बाहुल्येन संस्कृतशब्दा उपयुज्यन्ते। संस्कृताद् एवाधिका भारतीयभाषाः उद्बभूवुः। तावदेव भारतयुरोपीयभाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति। व्याकरणेन सुसंस्कृतभाषा जनानां संस्कारप्रदायिनी भवति। पाणिनीयाष्‍टाध्‍यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानम् इवास्ति। संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍था वेदाः सन्‍ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिर् अनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश् चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी। == इतिहासः == [[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]] इयं भाषा न केवलं [[भारत|भारतस्‍यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्‍यूनाधिकरूपेणास्‍याः शब्‍दाः प्रयुज्‍यन्‍ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्‍यते। पुरा संस्कृतं लोकभाषा बभूव जनाश्च संस्कृतेनावदन्।‌ इदानीं तु केवलं विद्वांसो वदन्ति॥ अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणम् अप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते। विश्‍वस्‍यादिमो ग्रन्‍थ[[ऋग्वेदः]] संस्‍कृतभाषायामेवास्ति। अन्‍ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्‍कृतभाषायामेव श्रूयन्ते। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्‍धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्‍वार [[उपवेदः|उपवेदा]] अपि संस्‍कृतेनैव विरचिताः॥ सर्वय् [[उपनिषत्|उपनिषदः]] संस्‍कृतय् उपनिबद्धाः । अन्‍ये ग्रन्‍थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्‍योतिषं]] [[छन्दः|छन्दो]] [[व्‍याकरणम्|व्‍याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्‍यं]] शास्‍त्रं चेत्यादयः ॥ [[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्‍टाध्‍यायी|ऽष्टाध्यायीति]] संस्‍कृतव्‍याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते ॥ :वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् | :पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥ == लिपिः == [[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्। संस्‍कृतलेखनं पूर्वं [[सरस्‍वतीलिपिः|सरस्वतीलिप्या]] विविदे ‌| कालान्‍तरं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]] लिलिखिरे। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरभ्यत। अन्‍यरूपान्‍तराण्यधोनिर्दिष्टानि सन्ति – [[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्‍बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥ मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्याऽदर्शि। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते। == अक्षरमाला == अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते। संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैर् एभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति। अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''। संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते – {{अक्षरमाला - संस्कृतम्}} ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः इति वर्णाव् अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः। यद्यप्यक्षराणां वर्णारारब्धत्वाद् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः। अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते। :यथा – ::क् + अ = क ::क् + आ = का ::क् + इ = कि ::क् + ई = की ::क् + उ = कु ::क् + ऊ = कू ::क् + ऋ = कृ ::क् + ॠ = कॄ ::क् + ऌ = कॢ ::क् + ॡ = कॣ ::क् + ए = के ::क् + ऐ = कै ::क् + ओ = को ::क् + औ = कौ :::::इत्यादि। "क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता। अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव। == स्वराः == अच्‌‌- स्वयं राजते इति स्वरः। स्वरा उच्चारणसमयदैर्घ्याधारेण ह्रस्वदीर्घप्लुता इति त्रिधा विभक्ताः। एकमात्रः स्वरो ह्रस्वो द्विमात्रो दीर्घस्त्रिमात्रः प्लुतश्च भवेयुः। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च। उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः – # एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''। # आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''। # आ३, ई३, ऊ३ इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः'''। '''ह्रस्वस्वराः''' येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति। ::अ इ उ ऋ ऌ '''दीर्घस्वराः''' येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति। ::आ ई ऊ ॠ (ॡ) ए ऐ ओ औ '''प्लुतस्वराः''' येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति । ::आ३ ई३ ऊ३ ऋृ३ ॡ३ ए३ ऐ३ ओ३ औ३ दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। उदाहरणानि: # आगच्छ कृष्णा३, अत्र गौः चरति। # भोः बाला३ आगच्छन्तु। व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)। यथा राजे३श्। [राजेश् इति हिन्दी नाम] * एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि। * स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते। * ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। एकारस्य ह्रस्वरूपं देवनागर्यां "ऎ" इति लिख्यते। ओकारस्य ह्रस्वरूपं देवनागर्यां "ऒ" इति लिख्यते। * ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।) सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति। [[चित्रम्:Rigveda MS2097.jpg|thumb|300x300पिक्सेल|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]] अयमपि भेदः सूत्रकारवचनैरेवोच्यते – ::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः। उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''। लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते। लिपौ वैदिकस्वराः इति लिख्यन्ते–<ref>{{Cite web|url=https://archive.org/details/ShuklaYajurvedaMadhyandiniyaSamhitaChowkhambaOrientalia/mode/2up|title=Shuklayajurveda Samhita}}</ref><ref>{{Cite web|url=https://archive.org/details/ShatpathBrahmanISayanacharyaAndShriHariSwami/mode/2up|title=Shatapathabrahmana}}</ref><ref>{{Cite web|url=https://archive.org/details/cu31924023050325/mode/2up|title=Vedic grammar}}</ref><ref>{{Cite web|url=https://epustakalay.com/writer/1464-shripa/|title=श्रीपाद दामोदर सातवळेकर - Shripad Damodar Satwalekar}}</ref> {| class="wikitable" |+ ! rowspan="3" | ! rowspan="3" |उदात्तः ! colspan="2" rowspan="3" |अनुदात्तः ! colspan="4" |स्वरितः ! colspan="4" |स्वरितः (सातवलेकरेण) |- ! colspan="2" rowspan="2" |स्वतन्त्रः ! colspan="2" |आश्रितः ! colspan="2" rowspan="2" |स्वतन्त्रः ! colspan="2" |आश्रितः |- !अकुपितः !कुपितः !अकुपितः !कुपितः |- |ऋगथर्ववेदयोः |अ | colspan="2" |अ॒ | colspan="8" |अ॑ |- |तैत्तिरीयशाखायाम् (कृष्णयजुर्वेदे) |अ | colspan="2" |अ॒ | colspan="4" |अ॑ अ᳚ | colspan="4" |अ॑ |- |मैत्रायणीसंहितायाम् (कृष्णयजुर्वेदे) |अ॑ | colspan="2" |अ॒ | colspan="2" |अ᳗ |अ᳔ |अ᳛ | colspan="2" |अ᳗ |अ᳖ |अ᳕ |- |काठकसंहितायाम् (कृष्णयजुर्वेदे) |अ॑ | colspan="2" |अ |अ᳗ |अ᳙᳙ | colspan="2" |अ᳝᳝ |अ᳘ |अ᳕ | colspan="2" |अ |- |शुक्लयजुर्वेदसंहतयोः |अ |अ॒ |अ᳘ |अ᳖ |अ᳕ | colspan="2" |अ॑ |अ᳖ |अ᳕ | colspan="2" |अ॑ |- |शतपतब्राह्मणे (शुक्लयजुर्वेदे) |अ᳘ | colspan="6" |अ | colspan="4" style="background-color:#D3D3D3;"| |} == अयोगवाहौ == {{मुख्यलेखः|अनुस्वारः|विसर्गः}} '''अनुस्वारः''' '''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः। अं '''विसर्गः''' अः विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः। '''चन्द्रविन्दु''' '''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः। == व्यञ्जनानि == व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि। उदाहरणम्: क् + अ = क उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि #कवर्गः #चवर्गः #टवर्गः #तवर्गः #पवर्गः # अन्तस्थाः अथवा मध्यमाः # ऊष्माणः शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)। व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि। ==संयुक्ताक्षराणि== संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति। उदा: क् + व = क्व क् + य = क्य व् + य = व्य '''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति। संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत् उदाः, कुक्कुरः, तत्त्वम् == उच्चारणशास्त्रम् == वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति। वर्णानाम् सप्त उच्चारणस्थानानि सन्ति – १. कण्ठः, २. जिह्वमूलं, ३. तालु ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. नासिका॥ तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
{| class="wikitable" width="60%" style="border:none;" ! rowspan="6" |वर्णस्य उत्पत्तिस्थानानि ! rowspan="6" |वर्णानां संज्ञाः ! colspan="2" rowspan="5" |स्वराः ! colspan="4" rowspan="2" |व्यञ्जनानि !अनुनासिकाः !अन्तःस्थानि ! colspan="2" rowspan="2" |ऊष्माणः |- ! colspan="2" |द्रवाः |- ! colspan="4" rowspan="2" |स्पृष्टाः !स्पृष्टाः ! colspan="3" |ईषत्स्पृष्टाः |- ! colspan="4" |अव्याहताः |- ! colspan="2" |श्वासाः ! colspan="4" |नादाः !श्वासाः !नादाः |- !ह्रस्वाः !दीर्घाः !अल्पप्राणाः !महाप्राणाः !अल्पप्राणाः !महाप्राणाः ! colspan="2" |अल्पप्राणाः ! colspan="2" |महाप्राणाः |- !कण्ठः !कण्ठ्याः | align="center" style="background-color:#FFFFFF;height:50px;" |अ | align="center" style="background-color:#FFFFFF;height:50px;" |आ | colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" | | rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" | | align="center" style="background-color:#FFFFFF;height:50px;" |अः
(विसर्जनीयः) | align="center" style="background-color:#FFFFFF;height:50px;" |ह् |- !जिह्वमूलम् !जिह्वामूलीयाः | colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" | | align="center" style="background-color:#FFFFFF;height:50px;" |क् | align="center" style="background-color:#FFFFFF;height:50px;" |ख् | align="center" style="background-color:#FFFFFF;height:50px;" | ग् | align="center" style="background-color:#FFFFFF;height:50px;" |घ् | align="center" style="background-color:#FFFFFF;height:50px;" |ङ् | align="center" style="background-color:#FFFFFF;height:50px;" |ᳲक्
(जिह्वामूलीयः) | rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" | |- !तालु !तालव्याः | align="center" style="background-color:#FFFFFF;height:50px;" |इ | align="center" style="background-color:#FFFFFF;height:50px;" |ई | align="center" style="background-color:#FFFFFF;height:50px;" |च् | align="center" style="background-color:#FFFFFF;height:50px;" |छ् | align="center" style="background-color:#FFFFFF;height:50px;" |ज् | align="center" style="background-color:#FFFFFF;height:50px;" |झ् | align="center" style="background-color:#FFFFFF;height:50px;" |ञ् | align="center" style="background-color:#FFFFFF;height:50px;" |य् | align="center" style="background-color:#FFFFFF;height:50px;" |श्  |- !मूर्धा !मूर्धन्याः | align="center" style="background-color:#FFFFFF;height:50px;" |ऋ | align="center" style="background-color:#FFFFFF;height:50px;" |ॠ | align="center" style="background-color:#FFFFFF;height:50px;" |ट् | align="center" style="background-color:#FFFFFF;height:50px;" |ठ् | align="center" style="background-color:#FFFFFF;height:50px;" |ड् (ळ्) | align="center" style="background-color:#FFFFFF;height:50px;" |ढ् (ळ्ह्) | align="center" style="background-color:#FFFFFF;height:50px;" |ण् | align="center" style="background-color:#FFFFFF;height:50px;" | र् | align="center" style="background-color:#FFFFFF;height:50px;" |ष् |- !दन्ताः !दन्त्याः | align="center" style="background-color:#FFFFFF;height:50px;" |ऌ | align="center" style="background-color:#FFFFFF;height:50px;" |(ॡ) | align="center" style="background-color:#FFFFFF;height:50px;" |त् | align="center" style="background-color:#FFFFFF;height:50px;" |थ् | align="center" style="background-color:#FFFFFF;height:50px;" |द् | align="center" style="background-color:#FFFFFF;height:50px;" |ध् | align="center" style="background-color:#FFFFFF;height:50px;" |न् | align="center" style="background-color:#FFFFFF;height:50px;" |ल्  | align="center" style="background-color:#FFFFFF;height:50px;" |स्  |- !ओष्ठौ !ओष्ठ्याः | align="center" style="background-color:#FFFFFF;height:50px;" |उ | align="center" style="background-color:#FFFFFF;height:50px;" |ऊ | align="center" style="background-color:#FFFFFF;height:50px;" |प् | align="center" style="background-color:#FFFFFF;height:50px;" |फ् | align="center" style="background-color:#FFFFFF;height:50px;" |ब् | align="center" style="background-color:#FFFFFF;height:50px;" |भ् | align="center" style="background-color:#FFFFFF;height:50px;" |म् | align="center" style="background-color:#FFFFFF;height:50px;" |व्  | align="center" style="background-color:#FFFFFF;height:50px;" |ᳲप् (उपध्मानीयः)  |- !कण्ठतालु !कण्ठतालव्यौ | align="center" style="background-color:#FFFFFF;height:50px;" | | align="center" style="background-color:#FFFFFF;height:50px;" |ए ऐ | colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |  |- !कण्ठोष्ठः !कण्ठोष्ठ्यौ | align="center" style="background-color:#FFFFFF;height:50px;" | | align="center" style="background-color:#FFFFFF;height:50px;" |ओ औ |- !नासिका !नासिक्याः | colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |  | align="center" style="background-color:#FFFFFF;height:50px;" |अं
(अनुस्वारः) | align="center" style="background-color:#FFFFFF;height:50px;" |अँय्य् अँव्व् अँल्ल्
(चन्द्रबिन्दुः) | align="center" style="background-color:#FFFFFF;height:50px;" | |- |}
== उच्चारणभेदाः == देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः। == संस्कृतभाषाप्रभावः == संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्‍कृतेनैव क्रियमाणम् अस्ति। अस्‍यां भाषायां न केवलं भारतस्‍य अपि तु निखिलस्‍यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्‍ताः प्रतिष्‍ठापिताः सन्‍ति। इयमेव सा भाषा यत्र ध्‍वनेः लिपेश्‍च सर्वत्रैकरूपता वर्तते। [[मलयाळम्‌]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्‍यभाषाः संस्‍कृतेन भृशं प्रभाविताः।
{| class="wikitable" width="60%" style="border:none;" |+तत्सम-तद्भव-समान-शब्दाः |- !संस्कृतशब्दः ![[हिन्दी]] ![[मराठीभाषा|मराठी]] ![[मलयाळम्]] ![[कन्नड]] ![[तेलुगु]] ![[ग्रीक]] ![[लेतिन]] ![[आङ्गलिक]] ![[जर्मन]] ![[बाङ्गला]] ![[फ़ारसी]] |- !मातृ |align="center"|माता |माता |align="center"|माताव् |align="center"| |align="center"|माता/मातृ |align="center"| |align="center"|मातेर |align="center"|मदर |align="center"|मुटेर |align="center"|माता, मातृ |align="center"|मादिर/मादर |- !पितृ |align="center"|पिता |पिता |align="center"|पिताव् |align="center"| |align="center"|पिता/पितृ/तन्ड्री |align="center"| |align="center"|पातेर |align="center"|फादर |align="center"|फ़ाटेर |align="center"|पिता, पितृ |align="center"|पिदर |- !दुहितृ |align="center"| दोहता | |align="center"| |align="center"| |align="center"| |align="center"| |align="center"| |align="center"|डटर |align="center"| |align="center"|दौहित्रो | |- !भ्रातृ |align="center"|भाई, भ्राता |भाऊ |align="center"|भ्राताव् |align="center"| |align="center"|भ्राता |align="center"| |align="center"| |align="center"|ब्रदर |align="center"|ब्रुडेर |align="center"|भ्राता, भाई |align="center"|बिरादर |- !पत्तनम् |align="center"| पट्टन, पटना | |align="center"|पट्टणम् |align="center"| |align="center"|पट्टणम् |align="center"| |align="center"| |align="center"|प्लट |align="center"| | | |- !वैदूर्यम् |align="center"|लहसुनिया | |align="center"|वैडूर्यम् |align="center"|वैडूर्यम् |align="center"|वैडूर्यम् |align="center"| |align="center"| |align="center"| | | | |- !सप्तन् |align="center"|सात् |सात |सप्तम् |align="center"| |align="center"|सप्त |align="center"| |align="center"|सेप्तम् |align="center"|सेभेन |align="center"|ज़ीबेन | | |- !अष्टौ |align="center"|आठ् |आठ |align="center"|एट्ट् |align="center"| |align="center"|अष्ट |align="center"|होक्तो |align="center"|ओक्तो |align="center"|एट |align="center"|आख़्ट | | |- !नवन् |align="center"|नौ |नऊ |align="center"|नवम् |align="center"| |align="center"|नवम/नव |align="center"|हेणेअ |align="center"|नोवेम् |align="center"|नाइन |align="center"|नोएन | | |- !द्वारम् |align="center"| द्वार |दार |align="center"|द्वारम् |align="center"| |align="center"|द्वारम् |align="center"| |align="center"| |align="center"|डोर |align="center"|टोर | | |- !नालिकेरः |align="center"|नारियल् |नारळ |align="center"|नाळिकेरम् |align="center"| |align="center"|नारिकेलम |align="center"| |align="center"| |align="center"|कोकोनट |align="center"|कोकोस्नुस्स | | |- |}
== वाक्यरचना == संस्‍कृते एकस्‍य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्‍ति । प्रत्‍येकलकारे प्रथमपुरुष:, मध्‍यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्‍ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति। * [[उपसर्गाः]] * [[समासा:]] * [[धातुविमर्श:]] * [[व्‍याकरणम्]] * [[संस्कृतवाङ्मयम्]] अस्‍याः भाषायाः वैशिष्‍ट्‍यं नाम दण्डचिह्नम्‌। '''न वर्तते अत्र अन्‍यानि विरामचिह्नानि केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्‍नम्‌ उद्‍गारं च सूचयति। अत: एकस्‍यैव वाक्‍यस्‍य भिन्‍नान्‌ अर्थान्‌ प्राप्‍नुमः वयम्‌। उदाहरणार्थं वाक्‍यांशः एकः दीयते। अभ्‍युत्‍थानं च धर्मस्‍य नैव दृष्‍टं कदाचन इति एतस्‍य वाक्‍यस्‍य द्वौ अर्थौ स्‍त:॥ ==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् == कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।
{| class="wikitable sortable" border="1" |- |गत |गतक |गति |गतिक |गत्वन् |- |गत्वर |गन्तव्य |गन्तृ |गन्त्रिका |गम |- |गमक |गमथ |गमन |गमनिका |गमनीय |- |गमयितृ |गमित |गमिन् |गमिष्ठ |गमिष्णु |- |गम्य |गम्यमान |गामिक |गामुक |गामिन् |- |अतिगम् |अतिग |अधिगम् |अधिगत |अधिगन्तृ |- |अधिगम |अधिगमन |अधिगम्य |अधिगमनीय |अनुगम् |- |अनुग |अनुगत |अनुगति |अनुगतिक |अनुगन्तव्य |- |अनुगम |अनुगमन |अनुगम्य |अनुगामिन् |अनुगामुक |- |अपगम् |अपग |अपगत |अपगम |अपगमन |- |अपिगम् |अभिगम् |अभिगत |अभिगन्तृ |अभिगम |- |अभिगमन |अभिगम्य |अभिगामिन् |अवगम् |अवगत |- |अवगति |अवगन्तव्य |अवगम |अवगमक |अवगमयितृ |- |अवगम्य |आगम् |आगत |आगति |आगन्तव्य |- |आगन्तु |आगन्तुक |आगम |आगमन |आगामिन् |- |आगमिष्ठ |आगमिक |आगमिन् |आगमुक |आजिगमिषु |- |उद्गम् |उद्गा |उद्गति |उद्गम |उपगम् |- |उपग |उपगत |उपगति |दुर्गम |निगम |- |निगमन |निर्गम |निर्गत |निर्गम् |निर्गमन |- |परागम् |परागत |परागन्तृ |परागम |परिगम् |- |परिग |परिगत |परिगन्तव्य |परिगम |परिगमन |- |परिगमिन् |परिगम्य |प्रगम् |प्रगम |प्रगत |- |प्रगमन |प्रगमनीय |प्रगामन |प्रगामिन् |प्रगे |- |प्रतिगम् |प्रतिगत |प्रतिगति |प्रतिगमन |विगम् |- |विगत |सङ्गम् |सङ्ग |सङ्गत |सङ्गम |- |सङ्गति |सङ्गथ |सङ्गमन |सङ्गमक |सङ्गमनीय |- |सङ्गमिन् |सङ्गिन् |सुगम | | |} == ध्येयवाक्यानि == अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति। उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः – भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति। * भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्। * नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। * भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः। * भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्। * भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति। * भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च। * भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति। * “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्। * भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति। * आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति। * दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति। * राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते। * केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः। * ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्। * भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”। * भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्। * इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति। * विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्। * न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः। * हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्। * देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्। * आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति। * आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। * श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि। * आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्। * केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति। * केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति। एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति। == अद्यत्वे संस्कृतभाषाया: स्थितिः == अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति| ==संस्कृतं संवादभाषा == संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम् १८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति। अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति। एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्- अ) ===भाषाशास्त्रदृष्ट्या – === १ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्। २ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ? वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् – १ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा। २ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्। भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्। भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ? वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:। ३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्। पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् । आ) व्याकरणदृष्ट्या संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:। भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् - यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम् एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म। निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:। डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य। यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ ) यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्। पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्। अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति। इ) === वाङ्मयदृष्ट्या === जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्। वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते। ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव। चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति। रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्। अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे – राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्। केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६ इति सञ्जयस्य वचनम् अस्ति।
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।
===ई ऐतिहासिकदृष्ट्या – ===
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्।
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्- ===निर्णय: === अतः अस्य वादस्य निर्णय: एवमेव यत्-
1 संस्कृतम् उक्तिभाषा आसीत्।
2 शिक्षिता: जना: तया भाषया वदन्ति स्म।
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।
== संस्कृताभ्युद्धारणम् == संस्‍कृतभाषाया: साहित्‍यमतीव सरसं वर्तते । तथा अस्‍या: व्‍याकरणं नितान्तं व्‍यवस्‍थितम् अस्‍ति। संस्‍कृतसाहित्‍यं वैदिककालादारभ्‍य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्‍यविषयाणां बाहुल्‍यात्‌ अस्‍या: भाषाया: शब्‍दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि। * [[अभिनन्दन-वाक्यानि]] * == इमानि अपि पश्यन्तु == *[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्] * [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)] * [[संस्‍कृत भारती]] * [[सारस्वत-निकेतनम्]] * [[संस्कृतसम्बद्धलेखाः]] == बाह्यानुबन्धाः == *[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्] * [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key] * [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }} * [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }} * [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable] * [http://samskritabharati.org/ संस्कृत-भारती] * [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]{{Dead link|date=October 2025 |bot=InternetArchiveBot |fix-attempted=yes }} * [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि] * संस्कृत ई-जर्नल * [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }} * [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में] * [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts == आधाराः == <references/> ‎ [[वर्गः:भारतीयभाषाः|संस्कृतम्]] [[वर्गः:बाह्यानुबन्धः योजनीयः]] [[वर्गः:संस्कृतभाषा]] 2vvn86htvxt36xqsj8fo9ls3b9sz7m4 498854 498853 2026-04-16T11:20:31Z AchyuthaVM 39857 /* स्वराः */ 498854 wikitext text/x-wiki {{Infobox Language |name = संस्कृतम् भाषाम् |pronunciation = {{IPA-sa|ˈsɐmskr̩tɐm||Samskritam.ogg}} |region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]] |familycolor = Indo-European | fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]] | fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]] |script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref>
ब्राह्मी |nation = ▪[[भारतम्]] •[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]] |iso1 = sa |iso2 = san |iso3 = san |image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg |imagesize = |imagecaption = [[देवनागरी|देवनागर्यां]] ''संस्कृतम्'' }} '''संस्कृतं''' जगतः समृद्धशास्त्रीयासु भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमातिप्राचीनम्। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिर् एषा भाषा प्रसिद्धा। भारतीयभाषाभिर् बाहुल्येन संस्कृतशब्दा उपयुज्यन्ते। संस्कृताद् एवाधिका भारतीयभाषाः उद्बभूवुः। तावदेव भारतयुरोपीयभाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति। व्याकरणेन सुसंस्कृतभाषा जनानां संस्कारप्रदायिनी भवति। पाणिनीयाष्‍टाध्‍यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानम् इवास्ति। संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍था वेदाः सन्‍ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिर् अनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश् चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी। == इतिहासः == [[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]] इयं भाषा न केवलं [[भारत|भारतस्‍यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्‍यूनाधिकरूपेणास्‍याः शब्‍दाः प्रयुज्‍यन्‍ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्‍यते। पुरा संस्कृतं लोकभाषा बभूव जनाश्च संस्कृतेनावदन्।‌ इदानीं तु केवलं विद्वांसो वदन्ति॥ अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणम् अप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते। विश्‍वस्‍यादिमो ग्रन्‍थ[[ऋग्वेदः]] संस्‍कृतभाषायामेवास्ति। अन्‍ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्‍कृतभाषायामेव श्रूयन्ते। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्‍धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्‍वार [[उपवेदः|उपवेदा]] अपि संस्‍कृतेनैव विरचिताः॥ सर्वय् [[उपनिषत्|उपनिषदः]] संस्‍कृतय् उपनिबद्धाः । अन्‍ये ग्रन्‍थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्‍योतिषं]] [[छन्दः|छन्दो]] [[व्‍याकरणम्|व्‍याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्‍यं]] शास्‍त्रं चेत्यादयः ॥ [[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्‍टाध्‍यायी|ऽष्टाध्यायीति]] संस्‍कृतव्‍याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते ॥ :वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् | :पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥ == लिपिः == [[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्। संस्‍कृतलेखनं पूर्वं [[सरस्‍वतीलिपिः|सरस्वतीलिप्या]] विविदे ‌| कालान्‍तरं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]] लिलिखिरे। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरभ्यत। अन्‍यरूपान्‍तराण्यधोनिर्दिष्टानि सन्ति – [[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्‍बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥ मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्याऽदर्शि। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते। == अक्षरमाला == अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते। संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैर् एभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति। अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''। संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते – {{अक्षरमाला - संस्कृतम्}} ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः इति वर्णाव् अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः। यद्यप्यक्षराणां वर्णारारब्धत्वाद् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः। अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते। :यथा – ::क् + अ = क ::क् + आ = का ::क् + इ = कि ::क् + ई = की ::क् + उ = कु ::क् + ऊ = कू ::क् + ऋ = कृ ::क् + ॠ = कॄ ::क् + ऌ = कॢ ::क् + ॡ = कॣ ::क् + ए = के ::क् + ऐ = कै ::क् + ओ = को ::क् + औ = कौ :::::इत्यादि। "क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता। अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव। == स्वराः == अच्‌‌- स्वयं राजते इति स्वरः। स्वरा उच्चारणसमयदैर्घ्याधारेण ह्रस्वदीर्घप्लुता इति त्रिधा विभक्ताः। एकमात्रः स्वरो ह्रस्वो द्विमात्रो दीर्घस्त्रिमात्रः प्लुतश्च भवेयुः। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च। उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः – # एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''। # आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''। # आ३, ई३, ऊ३ इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः'''। '''ह्रस्वस्वराः''' येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति। ::अ इ उ ऋ ऌ '''दीर्घस्वराः''' येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति। ::आ ई ऊ ॠ (ॡ) ए ऐ ओ औ '''प्लुतस्वराः''' येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति । ::आ३ ई३ ऊ३ ऋृ३ ॡ३ ए३ ऐ३ ओ३ औ३ दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। उदाहरणानि: # आगच्छ कृष्णा३, अत्र गौः चरति। # भोः बाला३ आगच्छन्तु। व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)। यथा राजे३श्। [राजेश् इति हिन्दी नाम] * एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि। * स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते। * ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। एकारस्य ह्रस्वरूपं देवनागर्यां "ऎ" इति लिख्यते। ओकारस्य ह्रस्वरूपं देवनागर्यां "ऒ" इति लिख्यते। * ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।) सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति। [[चित्रम्:Rigveda MS2097.jpg|thumb|300x300पिक्सेल|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]] अयमपि भेदः सूत्रकारवचनैरेवोच्यते – ::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः। उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''। लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते। लिपौ वैदिकस्वराः इति लिख्यन्ते–<ref>{{Cite web|url=https://archive.org/details/ShuklaYajurvedaMadhyandiniyaSamhitaChowkhambaOrientalia/mode/2up|title=Shuklayajurveda Samhita}}</ref><ref>{{Cite web|url=https://archive.org/details/ShatpathBrahmanISayanacharyaAndShriHariSwami/mode/2up|title=Shatapathabrahmana}}</ref><ref>{{Cite web|url=https://archive.org/details/cu31924023050325/mode/2up|title=Vedic grammar}}</ref><ref>{{Cite web|url=https://epustakalay.com/writer/1464-shripa/|title=श्रीपाद दामोदर सातवळेकर - Shripad Damodar Satwalekar}}</ref> {| class="wikitable" |+ ! rowspan="3" | ! rowspan="3" |उदात्तः ! colspan="2" rowspan="3" |अनुदात्तः ! colspan="4" |स्वरितः ! colspan="4" |स्वरितः (सातवलेकरेण) |- ! colspan="2" |स्वतन्त्रः ! colspan="2" |आश्रितः ! colspan="2" |स्वतन्त्रः ! colspan="2" |आश्रितः |- !नोदात्ताग्रिमः !उदात्ताग्रिमः !अकुपितः !कुपितः !नोदात्ताग्रिमः !उदात्ताग्रिमः !अकुपितः !कुपितः |- |ऋगथर्ववेदयोः |अ | colspan="2" |अ॒ | colspan="8" |अ॑ |- |तैत्तिरीयशाखायाम् (कृष्णयजुर्वेदे) |अ | colspan="2" |अ॒ | colspan="4" |अ॑ अ᳚ | colspan="4" |अ॑ |- |मैत्रायणीसंहितायाम् (कृष्णयजुर्वेदे) |अ॑ | colspan="2" |अ॒ | colspan="2" |अ᳗ |अ᳔ |अ᳛ | colspan="2" |अ᳘ |अ᳖ |अ᳕ |- |काठकसंहितायाम् (कृष्णयजुर्वेदे) |अ॑ | colspan="2" |अ |अ᳗ |अ᳙᳙ | colspan="2" |अ᳝᳝ |अ᳘ |अ᳕ | colspan="2" |अ |- |शुक्लयजुर्वेदसंहतयोः |अ |अ॒ |अ᳘ |अ᳖ |अ᳕ | colspan="2" |अ॑ |अ᳖ |अ᳕ | colspan="2" |अ॑ |- |शतपतब्राह्मणे (शुक्लयजुर्वेदे) |अ᳘ | colspan="6" |अ | colspan="4" style="background-color:#D3D3D3;"| |} == अयोगवाहौ == {{मुख्यलेखः|अनुस्वारः|विसर्गः}} '''अनुस्वारः''' '''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः। अं '''विसर्गः''' अः विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः। '''चन्द्रविन्दु''' '''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः। == व्यञ्जनानि == व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि। उदाहरणम्: क् + अ = क उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि #कवर्गः #चवर्गः #टवर्गः #तवर्गः #पवर्गः # अन्तस्थाः अथवा मध्यमाः # ऊष्माणः शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)। व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि। ==संयुक्ताक्षराणि== संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति। उदा: क् + व = क्व क् + य = क्य व् + य = व्य '''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति। संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत् उदाः, कुक्कुरः, तत्त्वम् == उच्चारणशास्त्रम् == वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति। वर्णानाम् सप्त उच्चारणस्थानानि सन्ति – १. कण्ठः, २. जिह्वमूलं, ३. तालु ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. नासिका॥ तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
{| class="wikitable" width="60%" style="border:none;" ! rowspan="6" |वर्णस्य उत्पत्तिस्थानानि ! rowspan="6" |वर्णानां संज्ञाः ! colspan="2" rowspan="5" |स्वराः ! colspan="4" rowspan="2" |व्यञ्जनानि !अनुनासिकाः !अन्तःस्थानि ! colspan="2" rowspan="2" |ऊष्माणः |- ! colspan="2" |द्रवाः |- ! colspan="4" rowspan="2" |स्पृष्टाः !स्पृष्टाः ! colspan="3" |ईषत्स्पृष्टाः |- ! colspan="4" |अव्याहताः |- ! colspan="2" |श्वासाः ! colspan="4" |नादाः !श्वासाः !नादाः |- !ह्रस्वाः !दीर्घाः !अल्पप्राणाः !महाप्राणाः !अल्पप्राणाः !महाप्राणाः ! colspan="2" |अल्पप्राणाः ! colspan="2" |महाप्राणाः |- !कण्ठः !कण्ठ्याः | align="center" style="background-color:#FFFFFF;height:50px;" |अ | align="center" style="background-color:#FFFFFF;height:50px;" |आ | colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" | | rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" | | align="center" style="background-color:#FFFFFF;height:50px;" |अः
(विसर्जनीयः) | align="center" style="background-color:#FFFFFF;height:50px;" |ह् |- !जिह्वमूलम् !जिह्वामूलीयाः | colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" | | align="center" style="background-color:#FFFFFF;height:50px;" |क् | align="center" style="background-color:#FFFFFF;height:50px;" |ख् | align="center" style="background-color:#FFFFFF;height:50px;" | ग् | align="center" style="background-color:#FFFFFF;height:50px;" |घ् | align="center" style="background-color:#FFFFFF;height:50px;" |ङ् | align="center" style="background-color:#FFFFFF;height:50px;" |ᳲक्
(जिह्वामूलीयः) | rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" | |- !तालु !तालव्याः | align="center" style="background-color:#FFFFFF;height:50px;" |इ | align="center" style="background-color:#FFFFFF;height:50px;" |ई | align="center" style="background-color:#FFFFFF;height:50px;" |च् | align="center" style="background-color:#FFFFFF;height:50px;" |छ् | align="center" style="background-color:#FFFFFF;height:50px;" |ज् | align="center" style="background-color:#FFFFFF;height:50px;" |झ् | align="center" style="background-color:#FFFFFF;height:50px;" |ञ् | align="center" style="background-color:#FFFFFF;height:50px;" |य् | align="center" style="background-color:#FFFFFF;height:50px;" |श्  |- !मूर्धा !मूर्धन्याः | align="center" style="background-color:#FFFFFF;height:50px;" |ऋ | align="center" style="background-color:#FFFFFF;height:50px;" |ॠ | align="center" style="background-color:#FFFFFF;height:50px;" |ट् | align="center" style="background-color:#FFFFFF;height:50px;" |ठ् | align="center" style="background-color:#FFFFFF;height:50px;" |ड् (ळ्) | align="center" style="background-color:#FFFFFF;height:50px;" |ढ् (ळ्ह्) | align="center" style="background-color:#FFFFFF;height:50px;" |ण् | align="center" style="background-color:#FFFFFF;height:50px;" | र् | align="center" style="background-color:#FFFFFF;height:50px;" |ष् |- !दन्ताः !दन्त्याः | align="center" style="background-color:#FFFFFF;height:50px;" |ऌ | align="center" style="background-color:#FFFFFF;height:50px;" |(ॡ) | align="center" style="background-color:#FFFFFF;height:50px;" |त् | align="center" style="background-color:#FFFFFF;height:50px;" |थ् | align="center" style="background-color:#FFFFFF;height:50px;" |द् | align="center" style="background-color:#FFFFFF;height:50px;" |ध् | align="center" style="background-color:#FFFFFF;height:50px;" |न् | align="center" style="background-color:#FFFFFF;height:50px;" |ल्  | align="center" style="background-color:#FFFFFF;height:50px;" |स्  |- !ओष्ठौ !ओष्ठ्याः | align="center" style="background-color:#FFFFFF;height:50px;" |उ | align="center" style="background-color:#FFFFFF;height:50px;" |ऊ | align="center" style="background-color:#FFFFFF;height:50px;" |प् | align="center" style="background-color:#FFFFFF;height:50px;" |फ् | align="center" style="background-color:#FFFFFF;height:50px;" |ब् | align="center" style="background-color:#FFFFFF;height:50px;" |भ् | align="center" style="background-color:#FFFFFF;height:50px;" |म् | align="center" style="background-color:#FFFFFF;height:50px;" |व्  | align="center" style="background-color:#FFFFFF;height:50px;" |ᳲप् (उपध्मानीयः)  |- !कण्ठतालु !कण्ठतालव्यौ | align="center" style="background-color:#FFFFFF;height:50px;" | | align="center" style="background-color:#FFFFFF;height:50px;" |ए ऐ | colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |  |- !कण्ठोष्ठः !कण्ठोष्ठ्यौ | align="center" style="background-color:#FFFFFF;height:50px;" | | align="center" style="background-color:#FFFFFF;height:50px;" |ओ औ |- !नासिका !नासिक्याः | colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |  | align="center" style="background-color:#FFFFFF;height:50px;" |अं
(अनुस्वारः) | align="center" style="background-color:#FFFFFF;height:50px;" |अँय्य् अँव्व् अँल्ल्
(चन्द्रबिन्दुः) | align="center" style="background-color:#FFFFFF;height:50px;" | |- |}
== उच्चारणभेदाः == देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः। == संस्कृतभाषाप्रभावः == संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्‍कृतेनैव क्रियमाणम् अस्ति। अस्‍यां भाषायां न केवलं भारतस्‍य अपि तु निखिलस्‍यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्‍ताः प्रतिष्‍ठापिताः सन्‍ति। इयमेव सा भाषा यत्र ध्‍वनेः लिपेश्‍च सर्वत्रैकरूपता वर्तते। [[मलयाळम्‌]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्‍यभाषाः संस्‍कृतेन भृशं प्रभाविताः।
{| class="wikitable" width="60%" style="border:none;" |+तत्सम-तद्भव-समान-शब्दाः |- !संस्कृतशब्दः ![[हिन्दी]] ![[मराठीभाषा|मराठी]] ![[मलयाळम्]] ![[कन्नड]] ![[तेलुगु]] ![[ग्रीक]] ![[लेतिन]] ![[आङ्गलिक]] ![[जर्मन]] ![[बाङ्गला]] ![[फ़ारसी]] |- !मातृ |align="center"|माता |माता |align="center"|माताव् |align="center"| |align="center"|माता/मातृ |align="center"| |align="center"|मातेर |align="center"|मदर |align="center"|मुटेर |align="center"|माता, मातृ |align="center"|मादिर/मादर |- !पितृ |align="center"|पिता |पिता |align="center"|पिताव् |align="center"| |align="center"|पिता/पितृ/तन्ड्री |align="center"| |align="center"|पातेर |align="center"|फादर |align="center"|फ़ाटेर |align="center"|पिता, पितृ |align="center"|पिदर |- !दुहितृ |align="center"| दोहता | |align="center"| |align="center"| |align="center"| |align="center"| |align="center"| |align="center"|डटर |align="center"| |align="center"|दौहित्रो | |- !भ्रातृ |align="center"|भाई, भ्राता |भाऊ |align="center"|भ्राताव् |align="center"| |align="center"|भ्राता |align="center"| |align="center"| |align="center"|ब्रदर |align="center"|ब्रुडेर |align="center"|भ्राता, भाई |align="center"|बिरादर |- !पत्तनम् |align="center"| पट्टन, पटना | |align="center"|पट्टणम् |align="center"| |align="center"|पट्टणम् |align="center"| |align="center"| |align="center"|प्लट |align="center"| | | |- !वैदूर्यम् |align="center"|लहसुनिया | |align="center"|वैडूर्यम् |align="center"|वैडूर्यम् |align="center"|वैडूर्यम् |align="center"| |align="center"| |align="center"| | | | |- !सप्तन् |align="center"|सात् |सात |सप्तम् |align="center"| |align="center"|सप्त |align="center"| |align="center"|सेप्तम् |align="center"|सेभेन |align="center"|ज़ीबेन | | |- !अष्टौ |align="center"|आठ् |आठ |align="center"|एट्ट् |align="center"| |align="center"|अष्ट |align="center"|होक्तो |align="center"|ओक्तो |align="center"|एट |align="center"|आख़्ट | | |- !नवन् |align="center"|नौ |नऊ |align="center"|नवम् |align="center"| |align="center"|नवम/नव |align="center"|हेणेअ |align="center"|नोवेम् |align="center"|नाइन |align="center"|नोएन | | |- !द्वारम् |align="center"| द्वार |दार |align="center"|द्वारम् |align="center"| |align="center"|द्वारम् |align="center"| |align="center"| |align="center"|डोर |align="center"|टोर | | |- !नालिकेरः |align="center"|नारियल् |नारळ |align="center"|नाळिकेरम् |align="center"| |align="center"|नारिकेलम |align="center"| |align="center"| |align="center"|कोकोनट |align="center"|कोकोस्नुस्स | | |- |}
== वाक्यरचना == संस्‍कृते एकस्‍य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्‍ति । प्रत्‍येकलकारे प्रथमपुरुष:, मध्‍यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्‍ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति। * [[उपसर्गाः]] * [[समासा:]] * [[धातुविमर्श:]] * [[व्‍याकरणम्]] * [[संस्कृतवाङ्मयम्]] अस्‍याः भाषायाः वैशिष्‍ट्‍यं नाम दण्डचिह्नम्‌। '''न वर्तते अत्र अन्‍यानि विरामचिह्नानि केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्‍नम्‌ उद्‍गारं च सूचयति। अत: एकस्‍यैव वाक्‍यस्‍य भिन्‍नान्‌ अर्थान्‌ प्राप्‍नुमः वयम्‌। उदाहरणार्थं वाक्‍यांशः एकः दीयते। अभ्‍युत्‍थानं च धर्मस्‍य नैव दृष्‍टं कदाचन इति एतस्‍य वाक्‍यस्‍य द्वौ अर्थौ स्‍त:॥ ==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् == कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।
{| class="wikitable sortable" border="1" |- |गत |गतक |गति |गतिक |गत्वन् |- |गत्वर |गन्तव्य |गन्तृ |गन्त्रिका |गम |- |गमक |गमथ |गमन |गमनिका |गमनीय |- |गमयितृ |गमित |गमिन् |गमिष्ठ |गमिष्णु |- |गम्य |गम्यमान |गामिक |गामुक |गामिन् |- |अतिगम् |अतिग |अधिगम् |अधिगत |अधिगन्तृ |- |अधिगम |अधिगमन |अधिगम्य |अधिगमनीय |अनुगम् |- |अनुग |अनुगत |अनुगति |अनुगतिक |अनुगन्तव्य |- |अनुगम |अनुगमन |अनुगम्य |अनुगामिन् |अनुगामुक |- |अपगम् |अपग |अपगत |अपगम |अपगमन |- |अपिगम् |अभिगम् |अभिगत |अभिगन्तृ |अभिगम |- |अभिगमन |अभिगम्य |अभिगामिन् |अवगम् |अवगत |- |अवगति |अवगन्तव्य |अवगम |अवगमक |अवगमयितृ |- |अवगम्य |आगम् |आगत |आगति |आगन्तव्य |- |आगन्तु |आगन्तुक |आगम |आगमन |आगामिन् |- |आगमिष्ठ |आगमिक |आगमिन् |आगमुक |आजिगमिषु |- |उद्गम् |उद्गा |उद्गति |उद्गम |उपगम् |- |उपग |उपगत |उपगति |दुर्गम |निगम |- |निगमन |निर्गम |निर्गत |निर्गम् |निर्गमन |- |परागम् |परागत |परागन्तृ |परागम |परिगम् |- |परिग |परिगत |परिगन्तव्य |परिगम |परिगमन |- |परिगमिन् |परिगम्य |प्रगम् |प्रगम |प्रगत |- |प्रगमन |प्रगमनीय |प्रगामन |प्रगामिन् |प्रगे |- |प्रतिगम् |प्रतिगत |प्रतिगति |प्रतिगमन |विगम् |- |विगत |सङ्गम् |सङ्ग |सङ्गत |सङ्गम |- |सङ्गति |सङ्गथ |सङ्गमन |सङ्गमक |सङ्गमनीय |- |सङ्गमिन् |सङ्गिन् |सुगम | | |} == ध्येयवाक्यानि == अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति। उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः – भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति। * भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्। * नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। * भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः। * भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्। * भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति। * भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च। * भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति। * “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्। * भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति। * आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति। * दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति। * राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते। * केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः। * ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्। * भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”। * भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्। * इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति। * विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्। * न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः। * हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्। * देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्। * आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति। * आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। * श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि। * आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्। * केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति। * केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति। एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति। == अद्यत्वे संस्कृतभाषाया: स्थितिः == अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति| ==संस्कृतं संवादभाषा == संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम् १८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति। अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति। एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्- अ) ===भाषाशास्त्रदृष्ट्या – === १ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्। २ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ? वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् – १ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा। २ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्। भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्। भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ? वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:। ३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्। पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् । आ) व्याकरणदृष्ट्या संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:। भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् - यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम् एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म। निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:। डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य। यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ ) यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्। पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्। अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति। इ) === वाङ्मयदृष्ट्या === जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्। वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते। ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव। चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति। रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्। अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे – राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्। केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६ इति सञ्जयस्य वचनम् अस्ति।
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।
===ई ऐतिहासिकदृष्ट्या – ===
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्।
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्- ===निर्णय: === अतः अस्य वादस्य निर्णय: एवमेव यत्-
1 संस्कृतम् उक्तिभाषा आसीत्।
2 शिक्षिता: जना: तया भाषया वदन्ति स्म।
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।
== संस्कृताभ्युद्धारणम् == संस्‍कृतभाषाया: साहित्‍यमतीव सरसं वर्तते । तथा अस्‍या: व्‍याकरणं नितान्तं व्‍यवस्‍थितम् अस्‍ति। संस्‍कृतसाहित्‍यं वैदिककालादारभ्‍य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्‍यविषयाणां बाहुल्‍यात्‌ अस्‍या: भाषाया: शब्‍दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि। * [[अभिनन्दन-वाक्यानि]] * == इमानि अपि पश्यन्तु == *[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्] * [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)] * [[संस्‍कृत भारती]] * [[सारस्वत-निकेतनम्]] * [[संस्कृतसम्बद्धलेखाः]] == बाह्यानुबन्धाः == *[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्] * [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key] * [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }} * [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }} * [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable] * [http://samskritabharati.org/ संस्कृत-भारती] * [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]{{Dead link|date=October 2025 |bot=InternetArchiveBot |fix-attempted=yes }} * [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि] * संस्कृत ई-जर्नल * [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }} * [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में] * [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts == आधाराः == <references/> ‎ [[वर्गः:भारतीयभाषाः|संस्कृतम्]] [[वर्गः:बाह्यानुबन्धः योजनीयः]] [[वर्गः:संस्कृतभाषा]] hy0hr5sy9s5sp58ujdxj47oju3ks9ij राकेश शर्मा 0 5667 498848 482166 2026-04-16T00:47:13Z CommonsDelinker 200 Replacing Rakesh_sharma.jpg with [[File:Rakesh_Sharma.jpg]] (by [[:c:User:CommonsDelinker|CommonsDelinker]] because: [[:c:COM:FR|File renamed]]: caps). 498848 wikitext text/x-wiki {{Infobox astronaut | name = Rakesh Sharma | image = Rakesh Sharma.jpg | caption = Rakesh Sharma | status = Retired | nationality = [[India]]n | birth_date = {{Birth date and age|1949|1|13|df=yes}} | birth_place = [[Patiala]], [[Punjab]], [[India]] | occupation = [[Test pilot|Test Pilot]] | rank = [[File:Indian IAF OF-4.svg|24px]] [[Wing Commander (rank)|Wing Commander]] | selection = | time = | mission = [[Soyuz T-11]] / [[Soyuz T-10]] | insignia = [[File:Soyuz T-11 mission patch.gif|30px]] | awards = [[File:Ashoka Chakra ribbon.svg|35px]] [[Ashok Chakra Award|Ashok Chakra]]
[[Hero of the Soviet Union]] }} '''राकेश शर्मा''' भारतीय अन्तरिक्ष विमानक:।। *[[भारतीय-सूची]] ==बाह्यसम्पर्कतन्तुः== # [http://astrotalkuk.org/2013/11/03/rakesh-sharma/ Interview with Astrotalkuk.org in August 2013] {{Webarchive|url=https://web.archive.org/web/20131204071531/http://astrotalkuk.org/2013/11/03/rakesh-sharma/ |date=2013-12-04 }} # [http://www.spacefacts.de/bios/international/english/sharma_rakesh.htm Spacefacts biography of Rakesh Sharma] [[वर्गः:भारतीयविज्ञानिनः]] [[वर्गः:भारतीयविज्ञानिसम्बद्धाः स्टब्स्]] [[वर्गः:सर्वे अपूर्णलेखाः]] rykm06f02upi2daoebjgwyv72eezqxa चम्पकम् 0 23592 498850 486776 2026-04-16T02:45:28Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 498850 wikitext text/x-wiki {{ taxobox |name = Champak |color = lightgreen |image = Michelia champaca Blanco1.191-cropped.jpg |image_width = 200px |regnum = [[Plant]]ae |unranked_divisio = [[Angiosperm]]s |unranked_classis = [[Magnoliid]]s |ordo = [[Magnoliales]] |familia = [[Magnoliaceae]] |genus = ''[[Magnolia]]'' |species = '''''M. champaca''''' |binomial = ''Magnolia champaca'' |binomial_authority = ([[Carl Linnaeus|L.]]) [[Henri Ernest Baillon|Baill.]] ex [[Jean Baptiste Louis Pierre|Pierre]]<ref name=wcsp1>''Fl. Forest. Cochinch.'' 1: t. 3 (1880). {{cite web |url=http://apps.kew.org/wcsp/namedetail.do?name_id=117504 |title=WCSP (2013). World Checklist of Selected Plant Families. Facilitated by the Royal Botanic Gardens, Kew. |accessdate=July 17, 2013 |archive-date=September 24, 2021 |archive-url=https://web.archive.org/web/20210924205658/http://wcsp.science.kew.org/namedetail.do?name_id=117504 |deadurl=yes }}</ref> |synonyms = * ''Champaca michelia'' Noronha * ''Magnolia membranacea'' P.Parm. * ''Michelia aurantiaca'' Wall. * ''Michelia blumei'' Steud. * ''Michelia champaca'' L. * ''Michelia euonymoides'' Burm.f. * ''Michelia pilifera'' Bakh.f. * ''Michelia pubinervia'' Blume * ''Michelia rheede''i Wight * ''Michelia rufinervis'' Blume * ''Michelia rufinervis'' DC. * ''Michelia sericea'' Pers. * ''Michelia suaveolens'' Pers. * ''Michelia tsiampacca'' Blume * ''Michelia velutina'' Blume nom. illeg. * ''Sampacca euonymoides'' (Burm.f.) Kuntze * ''Sampacca suaveolens'' (Pers.) Kuntze * ''Sampacca velutina'' Kuntze * ''Talauma villosa'' f. ''celebica'' Miq. |synonyms_ref = <ref>{{cite web|url=http://www.theplantlist.org/tpl/search?q=magnolia+champaca|title=The Plant List: A Working List of All Plant Species|accessdate=2014-08-18|archive-date=2012-06-06|archive-url=https://web.archive.org/web/20120606090554/http://www.theplantlist.org/tpl/search?q=Magnolia+champaca|deadurl=yes}}</ref> }} चम्पकम्(Michelia champaca Linn.) इति नाम्ना किंचन श्वेतपुष्पं वर्णस्य पुष्पं वर्तते। न केवलं श्वेतम् अपितु पीतं किंच सुवर्णस्य वर्णम् इव अपि भवति। अस्य पुष्पस्य वृक्षः चीरहरित्वृक्षः नाम आवर्षं वृक्षे पत्राणि तिष्ठन्ति। पुष्पं सुरभीगन्धयुक्तं भवति। वर्षऋतुतः वसन्तऋतुपर्यन्तं अस्य पुष्पस्य प्रस्फुटणस्य कालः। तथापि वसन्तऋतौ एव अधिकानि विकसन्ति। किंच एतत् वक्तुं शक्यते शैत्यकालं विहाय प्रायः आवर्षं पुष्पाणि विकसन्ति। ==बाह्यसम्पर्कतन्तुः== * [http://www.rngr.net/Publications/ttsm/Folder.2003-07-11.4726/PDF.2004-03-15.2835/file Chittagong University, Bangladesh: ''Michelia champaca'' - detailed information] {{Webarchive|url=https://web.archive.org/web/20090924085449/http://www.rngr.net/Publications/ttsm/Folder.2003-07-11.4726/PDF.2004-03-15.2835/file |date=2009-09-24 }} [[वर्गः:पुष्पाणि]] [[वर्गः:सस्यविज्ञानसम्बद्धाः स्टब्स्]] [[वर्गः:सर्वे अपूर्णलेखाः]] [[वर्गः:सारमञ्जूषा योजनीया‎]] cat4e4i6o78ndppw2p5rx6xw23to4hc सुनसरीमण्डलम् 0 36789 498840 351394 2026-04-15T12:25:12Z Ganesh Paudel 6561 /* सम्पूर्णविवरणम् */ 498840 wikitext text/x-wiki {{Infobox Nepal district |district = सुनसरीमण्डलम् |area = 1257 |population = 763497 |pop_year = २०११<ref name="CBS">[http://cbs.gov.np/wp-content/uploads/2012/11/VDC_Municipality.pdf Household and population by districts, Central Bureau of Statistics (CBS) Nepal]</ref> |density =auto |map=Sunsari district location.png |caption = नेपालदेशस्य मानचित्रे सुनसरीमण्डलम् |region = [[पूर्वाञ्चलविकाशक्षेत्रम्]] |zone = [[कोशी अञ्चलम्|कोशी]] |established = १९६२ | seat_type = मुख्यालयः | seat = [[इनरुवा]] |ethnic groups = [[मैथिली]] (81%)), [[थारू]] (4%)), [[नेपालीमुसलमानः]] (11%)others (4%) |languages = [[मैथिली]] (81%), [[उर्दू]] (11%), [[नेपाली]] (6%), अन्या(2%) |website = {{official website|http://www.ddcsunsari.gov.np}} }} '''सुनसरीमण्डलम्''' एतत् मण्डलं नेपालदेशस्य पूर्वाञ्चलविकाशक्षेत्रस्य कोशी अञ्चले अवस्थितं एकं मण्डलं वर्तते । ==सम्पूर्णविवरणम्== सुनसरी मण्डले [[धरान]] [[इटहरी]] [[इनरूवा]] इत्यादि ख्यातः नगराणि सन्ति। ==अत्रापि दर्शनीयम् == {{ नेपालदेशस्य मण्डलानि}} ==आधाराः== {{reflist}} ==बाह्यानुबन्धाः== [[वर्गः:नेपालदेशः]] [[वर्गः:नेपालदेशस्य मण्डलानि]] [[वर्गः:सर्वे अपूर्णलेखाः]] mbr1dgtdanx8cw3lxf76cyguioyxqle 498841 498840 2026-04-15T12:28:03Z Ganesh Paudel 6561 498841 wikitext text/x-wiki {{Infobox Nepal district |district = सुनसरीमण्डलम् |area = 1257 |population = 763497 |pop_year = २०११<ref name="CBS">[http://cbs.gov.np/wp-content/uploads/2012/11/VDC_Municipality.pdf Household and population by districts, Central Bureau of Statistics (CBS) Nepal]</ref> |density =auto |map=Sunsari district location.png |caption = नेपालदेशस्य मानचित्रे सुनसरीमण्डलम् |region = [[पूर्वाञ्चलविकाशक्षेत्रम्]] |zone = [[कोशी अञ्चलम्|कोशी]] |established = १९६२ | seat_type = मुख्यालयः | seat = [[इनरुवा]] |ethnic groups = [[मैथिली]] (81%)), [[थारू]] (4%)), [[नेपालीमुसलमानः]] (11%)others (4%) |languages = [[मैथिली]] (81%), [[उर्दू]] (11%), [[नेपाली]] (6%), अन्या(2%) |website = {{official website|http://www.ddcsunsari.gov.np}} }} '''सुनसरीमण्डलम्''' एतत् मण्डलं नेपालदेशस्य पूर्वाञ्चलविकाशक्षेत्रस्य कोशी अञ्चले अवस्थितं एकं मण्डलं वर्तते । ==सम्पूर्णविवरणम्== सुनसरी मण्डले [[धरान]] [[इटहरी]] [[इनरूवा]] इत्यादि ख्यातः नगराणि सन्ति। [[बराहक्षेत्र]], [[पिण्डेश्वर]], [[दन्तकाली]], [[विष्णुपादुका]], [[बुढासुब्बा]], [[रामधुनी]] इयम् जनपदे वर्तते। ==अत्रापि दर्शनीयम् == {{ नेपालदेशस्य मण्डलानि}} ==आधाराः== {{reflist}} ==बाह्यानुबन्धाः== [[वर्गः:नेपालदेशः]] [[वर्गः:नेपालदेशस्य मण्डलानि]] [[वर्गः:सर्वे अपूर्णलेखाः]] dcjs1obnsl7clzfy0ilfo71nngpzc0g कोशीटप्पु वन्यजन्तु आरक्ष 0 92089 498838 2026-04-15T12:20:46Z Ganesh Paudel 6561 नूतनलेख सृजितम् 498838 wikitext text/x-wiki '''कोशी टप्पू वन्यजीवसंरक्षणम्''' कोशीनद्याः तटे स्थितं संरक्षितक्षेत्रम् अस्ति । २०३२ (१९७६) तमे वर्षे स्थापितः अयं कोशी टप्पू वन्यजीवसंरक्षणं १७५ वर्गकिलोमीटर् क्षेत्रे विस्तृतः अस्ति । अयं आरक्षकः [[सुनसरीमण्डल|सुनसरी]], [[सप्तरीमण्डल|सप्तरी]], [[उदयपुरमण्डल|उदयपुर]] इति त्रयः मण्डलेषु विस्तृतः अस्ति । नेपालदेशस्य प्रथमं बृहत् रामसारस्थलम् इति प्रसिद्धम्, यत् १९८७ तमे वर्षे रामसारसूचौ सूचीकृतम्, अस्मिन् आरक्षे ४८९ भिन्नाः पक्षिणः, २१९ दुर्लभाः पक्षिणः, १२/१२ दुर्लभाः [[शिशुमार|शिशुमाराः]] च सन्ति । tferwh924ftpvow7330ttb6kr6brfku 498839 498838 2026-04-15T12:21:10Z Ganesh Paudel 6561 added [[Category:वन्यजन्तु आरक्षण]] using [[Help:Gadget-HotCat|HotCat]] 498839 wikitext text/x-wiki '''कोशी टप्पू वन्यजीवसंरक्षणम्''' कोशीनद्याः तटे स्थितं संरक्षितक्षेत्रम् अस्ति । २०३२ (१९७६) तमे वर्षे स्थापितः अयं कोशी टप्पू वन्यजीवसंरक्षणं १७५ वर्गकिलोमीटर् क्षेत्रे विस्तृतः अस्ति । अयं आरक्षकः [[सुनसरीमण्डल|सुनसरी]], [[सप्तरीमण्डल|सप्तरी]], [[उदयपुरमण्डल|उदयपुर]] इति त्रयः मण्डलेषु विस्तृतः अस्ति । नेपालदेशस्य प्रथमं बृहत् रामसारस्थलम् इति प्रसिद्धम्, यत् १९८७ तमे वर्षे रामसारसूचौ सूचीकृतम्, अस्मिन् आरक्षे ४८९ भिन्नाः पक्षिणः, २१९ दुर्लभाः पक्षिणः, १२/१२ दुर्लभाः [[शिशुमार|शिशुमाराः]] च सन्ति । [[वर्गः:वन्यजन्तु आरक्षण]] jeg1el9gks6z2gzsv6v30496ih5hbyz सदस्यसम्भाषणम्:EliasvdHam 3 92090 498842 2026-04-15T13:08:12Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् 498842 wikitext text/x-wiki {{Template:Welcome|realName=|name=EliasvdHam}} -- [[सदस्यः:NehalDaveND|ॐNehalDaveND]]•[[योजकसम्भाषणम्:NehalDaveND|✉]]•[[विशेषम्:योगदानम्/NehalDaveND|✎]] १३:०८, १५ एप्रिल् २०२६ (UTC) r3emrbrf8cj7ghlwrnq306dxcm9w6al सदस्यसम्भाषणम्:Sorbiodunensis 3 92091 498843 2026-04-15T15:43:02Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् 498843 wikitext text/x-wiki {{Template:Welcome|realName=|name=Sorbiodunensis}} -- [[सदस्यः:NehalDaveND|ॐNehalDaveND]]•[[योजकसम्भाषणम्:NehalDaveND|✉]]•[[विशेषम्:योगदानम्/NehalDaveND|✎]] १५:४३, १५ एप्रिल् २०२६ (UTC) si0uaf89ecorlyafwxyidv3dg49ua1l सदस्यसम्भाषणम्:Rory Shields 3 92092 498845 2026-04-15T18:01:41Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् 498845 wikitext text/x-wiki {{Template:Welcome|realName=|name=Rory Shields}} -- [[सदस्यः:NehalDaveND|ॐNehalDaveND]]•[[योजकसम्भाषणम्:NehalDaveND|✉]]•[[विशेषम्:योगदानम्/NehalDaveND|✎]] १८:०१, १५ एप्रिल् २०२६ (UTC) 0jb6cnnp1ly5s2dnki6bskt73o6yac9 सदस्यसम्भाषणम्:Mdktb 3 92093 498846 2026-04-15T19:03:20Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् 498846 wikitext text/x-wiki {{Template:Welcome|realName=|name=Mdktb}} -- [[सदस्यः:NehalDaveND|ॐNehalDaveND]]•[[योजकसम्भाषणम्:NehalDaveND|✉]]•[[विशेषम्:योगदानम्/NehalDaveND|✎]] १९:०३, १५ एप्रिल् २०२६ (UTC) qialbno4aehdg2qyzaslgeuog3ajuwb सदस्यसम्भाषणम्:RavirRavish 3 92094 498847 2026-04-16T00:29:22Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् 498847 wikitext text/x-wiki {{Template:Welcome|realName=|name=RavirRavish}} -- [[सदस्यः:NehalDaveND|ॐNehalDaveND]]•[[योजकसम्भाषणम्:NehalDaveND|✉]]•[[विशेषम्:योगदानम्/NehalDaveND|✎]] ००:२९, १६ एप्रिल् २०२६ (UTC) k2syq260v6nwgueips2zz87q3n81517 सदस्यसम्भाषणम्:Andreitshua 3 92095 498849 2026-04-16T02:06:31Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् 498849 wikitext text/x-wiki {{Template:Welcome|realName=|name=Andreitshua}} -- [[सदस्यः:NehalDaveND|ॐNehalDaveND]]•[[योजकसम्भाषणम्:NehalDaveND|✉]]•[[विशेषम्:योगदानम्/NehalDaveND|✎]] ०२:०६, १६ एप्रिल् २०२६ (UTC) cz7p1b2jtqa1tp1gw42sgfbpgbkp3sy सदस्यसम्भाषणम्:Kejinke 3 92096 498851 2026-04-16T03:44:19Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् 498851 wikitext text/x-wiki {{Template:Welcome|realName=|name=Kejinke}} -- [[सदस्यः:NehalDaveND|ॐNehalDaveND]]•[[योजकसम्भाषणम्:NehalDaveND|✉]]•[[विशेषम्:योगदानम्/NehalDaveND|✎]] ०३:४४, १६ एप्रिल् २०२६ (UTC) fa8gjkyex6qtpg453qqv7v0g4umqm81 सदस्यसम्भाषणम्:Citexji 3 92097 498852 2026-04-16T05:34:53Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् 498852 wikitext text/x-wiki {{Template:Welcome|realName=|name=Citexji}} -- [[सदस्यः:NehalDaveND|ॐNehalDaveND]]•[[योजकसम्भाषणम्:NehalDaveND|✉]]•[[विशेषम्:योगदानम्/NehalDaveND|✎]] ०५:३४, १६ एप्रिल् २०२६ (UTC) 518cg0lkshsd2v9g3w1pep8zkh3lww7