विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.46.0-wmf.26
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
वरुण-ग्रहः
0
21371
499082
495622
2026-05-05T01:44:24Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
499082
wikitext
text/x-wiki
[[चित्रम्:Neptune Voyager2 color calibrated.png|thumb| '''वरुणग्रस्य''' चित्रम्]]वरुण-ग्रहः सौरमण्डले सूर्यात् अष्टमः दूरतमः च ग्रहः अस्ति। सः ग्रहः हिमयुक्तः विशालग्रहः। सः सौरमण्डलस्य चतुर्थः बृहत्तमः ग्रहः अस्ति।
वरुण-ग्रहस्य द्रव्यमानं पृथिव्याः सप्तदशगुणम् अस्ति। अरुण-ग्रहस्य (युरेनस्-ग्रहस्य) द्रव्यमानात् किञ्चित् अधिकम्। वरुण-ग्रहः अरुण-ग्रहात् घनतरः लघुतरः च अस्ति। तस्य अधिकद्रव्यमानस्य कारणात्, वरुण-ग्रहस्य गुरुत्वाकर्षणं तस्य वायुमण्डलं लघुतरं घनतरं च करोति।
पाश्चात्ये अस्य नाम रोमन-समुद्र-देवस्य नेप्च्यूनस्य नाम्नि आधारितम् अस्ति। वरुणग्रहस्य ज्योतिष-चिह्नम् ♆ अस्ति, यत् नेप्च्यून-देवस्य त्रिशूलः एव।
वरुण-ग्रहेस्य वायुमण्डले मुख्यतया उदजनः सूर्यातिः स्तः। अत्र अल्पमात्रायां प्रोदीन्यम् अपि विद्यते, येन कारणेन ग्रहः नीलः दृश्यते।<ref>{{Cite web |last=info@noirlab.edu |title=Gemini North Telescope helps explain why Uranus and Neptune are different colors - observations from Gemini Observatory, a program of NSF's NOIRLab, and other telescopes reveal that excess haze on Uranus makes it paler than Neptune |url=https://www.noirlab.edu/public/news/noirlab2211/ |access-date=2022-07-30 |website=www.noirlab.edu |language=en}}</ref><ref>{{Cite web |last=Laboratory |first=By NSF’s NOIRLab (National Optical-Infrared Astronomy Research |title=Why Uranus and Neptune Are Different Colors |url=https://solarsystem.nasa.gov/news/2232/why-uranus-and-neptune-are-different-colors |access-date=2023-03-06 |website=NASA Solar System Exploration}}</ref><ref>{{Cite web |last1=Magazine |first1=Smithsonian |last2=Kuta |first2=Sarah |title=Why Neptune Appears Bluer Than Its Cousin Uranus |url=https://www.smithsonianmag.com/smart-news/why-neptune-appears-bluer-than-its-cousin-uranus-180980186/ |access-date=2022-07-30 |website=Smithsonian Magazine |language=en}}</ref> वरुण-ग्रहस्य नीलवर्णः अरुण-ग्रहेण वर्णसदृशः, किन्तु किञ्चित् घनतरः वर्तते। प्रतिघण्टं शताधिकद्विसहस्र-किलोमीटर-मितं गच्छन्तः तीव्रतमाः वायवः वर्तन्ते सौरमण्डले वरुण-ग्रहे एव। <ref name="Suomi19912">{{cite journal|last=Suomi|first=V.E.|author2=Limaye, S.S.|author3=Johnson, D.R.|date=1991|title=High Winds of Neptune: A possible mechanism|journal=[[Science (journal)|Science]]|volume=251|issue=4996|pages=929–32|bibcode=1991Sci...251..929S|doi=10.1126/science.251.4996.929|pmid=17847386|s2cid=46419483}}</ref>
उर्बैन-लेवेरियरः, जॉन-कौच-आदम्सः च वरुण-ग्रहम् अन्विष्टवन्तौ अभूताम्। वरुण-ग्रहः दूरदर्शकेण न अन्विष्टः। गणितेन अन्विष्टः प्रथमः ग्रहः वरुणग्रहः। एकविंशत्युत्तराष्टशताधिकैकसहस्र-तमे वर्षे अरुणस्य कक्षा अपेक्षातः भिन्ना इति ज्योतिर्विदः दृष्टवन्तः अभूवन्। अन्यस्य समीपस्थग्रहस्य गुरुत्वम् अरुणस्य कक्षाम् परिवर्तितवत् अभूत। सः समीपस्थग्रहः वरुण-ग्रहः एव इति ज्ञातम्।
वोयजर-द्वितीयं यानं नवाशीत्युत्तराधिकनवशताधिकैकसहस्र-तमस्य वर्षस्य अगस्तमासस्य पञ्चविंशतितमे दिनाङ्के वरुण-ग्रहं प्राप्तवत् अभूत्। एतत् ग्रहम् प्राप्तम् एकमेव यानम् अभूत्। वरुणग्रहे 'महाकृष्णबिन्दुः' इति नाम्ना प्रसिद्धः महान् झञ्झावातः अभूत्। वोयजर-द्वितीयेन यानेन एकविंशत्युत्तराष्टशताधिकैकसहस्र-तमे वर्षे सः बिन्दुः अन्विष्टः। चतुर्णवत्युत्तराधिकनवशताधिकैकसहस्र-तमे वर्षे कृष्णबिन्दुः न दृष्टः, किन्तु ततः परम् नवाः बिन्दवः अन्विष्टाः। कृष्णबिन्दुः किमर्थं विलुप्तः इति न ज्ञायते। अन्यैः अन्तरिक्षयानैः भ्रमणानि आयोजितानि सन्ति।
वरुण-ग्रहं परितः पञ्च वलयाः सन्ति। किन्तु ते वलयाः पृथ्व्यां द्रष्टुं कठिनाः।
== चरित्रम् ==
[[File:Galileo.arp.300pix.jpg|thumb|196x196px|गलीलियो-गालिलिः|left]]
[[File:Urbain Le Verrier.jpg|thumb|204x204px|उर्बैन-लेवरियरः वरुण-ग्रहस्य '''सह-अन्वेषकः'''|left]]
=== अन्वेषणम् ===
गलिलियौः गलिलिः वरुणग्रहं दृष्टवान् प्रथमः व्यक्तिः अभूत्।<ref name=":11" /> He saw it on 28 December 1612 and 27 January 1613.<ref name=":11" /> तस्य चित्राणि वरुण-ग्रहस्य स्थानं दर्शयन्ति, यत् बृहस्पति-ग्रहस्य समीपे अस्ति।<ref name=":11">{{cite book |last=Hirschfeld |first=Alan |title=Parallax:The Race to Measure the Cosmos |year=2001 |publisher=Henry Holt |location=New York, New York |isbn=0-8050-7133-4}}</ref> किन्तु गैलिलियौः तस्य आविष्कारस्य श्रेयः न प्राप्तवान् अभूत्। तेन गैलिलियवा वरुण-ग्रहः स्थिरतारा मतः। यतः वरुणग्रहस्य मन्दगतिः अभूत्, अतः गैलिलियस्य लघु दूरदर्शकं तं द्रष्टुं पर्याप्तं सशक्तं न अभूत्।<ref>{{Cite book|title=Planets Beyond: Discovering the Outer Solar System.|last1=Littmann|first1=Mark|last2=Standish|first2=E.M.|year=2004|isbn=978-0-486-43602-9|location=Courier Dover Publications.}}</ref>
एकविंशत्युत्तराष्टशताधिकैकसहस्र-तमे वर्षे अलेक्सिस-बुवार्डः अरुण-ग्रहस्य कक्षायाः ज्योतिष-सारणीः प्रकाशितवान् अभूत्।<ref>A. Bouvard (1821), ''[http://adsabs.harvard.edu/cgi-bin/nph-bib_query?bibcode=1821tapp.book.....B&db_key=AST&data_type=HTML&format=&high=44b52c369020669 Tables astronomiques publiées par le Bureau des Longitudes de France].'' Paris: Bachelier</ref><ref name=":1">{{Cite web|title=Neptune: The first planet discovered by mathematical rather than observational means: discovered simultaneously by Le Verrier and Adams : History of Information|url=https://www.historyofinformation.com/detail.php?id=4004|access-date=2021-06-14|website=Jeremy Norman's History of Information}}</ref> अनन्तरीयैः प्रेक्षणैः दर्शितं यत् अरुण-ग्रहस्य परिक्रमः अनियमितरूपेण अभूत्।<ref name=":3">[Anon.] (2001) "Bouvard, Alexis", ''[[Encyclopædia Britannica]]'', Deluxe CDROM edition</ref> अस्य कारणम् अन्यः बृहन् ग्रहः इति कैश्चन ज्योतिर्विद्भिः मतः।<ref name=":3" /> त्रिचत्वारिंशदुत्तराष्टशताधिकैकसहस्र-तमे वर्षे जॉन-कौच-आदम्सः अरुण-ग्रह-कक्षाम् प्रभावयितुं शक्तस्य अष्टमस्य ग्रहस्य कक्षाम् परिकलितवान् अभूत्। सः स्वस्य गणनानि आङ्ग्ल-राज-ज्योतिर्विदे जॉर्ज-ऐरये प्रेषितवान् अभूत्। जॉर्ज-ऐरिः आदम्सम् व्याख्यानं याचितवान् अभूत्।<ref name="auto">{{Cite web|title=John Couch Adams' account of the discovery of Neptune|url=https://mathshistory.st-andrews.ac.uk/Extras/Adams_Neptune/|access-date=10 May 2021|website=Maths History|language=en}}</ref> षट्चत्वारिंशदुत्तराष्टशताधिकैकसहस्र-तमे वर्षे उर्बैन-लेवेरियरः स्वयं गणनानि कृतवान् अभूत्, किन्तु सः फ्रान्स-ज्योतिर्विद्भ्यः अधिकं ध्यानं न प्राप्तवान् अभूत्।<ref name=":1" /><ref name=":0" /> ऐरिः गणनानि दृष्ट्वा, ग्रहम् अन्वेष्टुं जेम्स-चैलिसं प्रोत्साहितवान् अभूत्। चैलिसः षट्चत्वारिंशदुत्तराष्टशताधिकैकसहस्र-तमस्य वर्षस्य जुलै-मासे स्वीयम् अन्वेषणम् आरब्धवान् अभूत्। एतदभ्यन्तरे, लेवेरियरः जोहान-गॉटफ्रीड-गल्लेयं ग्रहम् अन्वेष्टुम् प्रोत्साहितवान् अभूत्।<ref name=":0">{{Cite journal|last=Airy|first=G. B.|date=1 January 1970|title=Account of some circumstances historically connected with the discovery of the planet exterior to Uranus.|url=https://zenodo.org/record/1424621|journal=Astronomische Nachrichten No. 585|volume=25|issue=10|pages=131–148|doi=10.1002/asna.18470251002}}</ref>
हैन्रिख-दरेस्ट-नाम्ना बर्लिन-वेधशाला-छात्रस्य प्रस्तावः अभूत् यत् लेवेरियरस्य पूर्वकथित-क्षेत्रे आकाशस्य नूतन-आरेखितं मानचित्रं वर्तमान-आकाशेन सह तुलना शक्यते।<ref name=":0" /> स्थिरतारया सह तुलनया ग्रहस्य स्थानपरिवर्तनं द्रष्टुम् इदं मानचित्रम् आवश्यकम् अभूत्। तेनैव रात्रौ, त्रयोविंशतितमे सप्टेम्बरमासस्य, षट्चत्वारिंशदुत्तराष्टशताधिकैकसहस्र-तमे वर्षे वरुण-ग्रहः अन्विष्टः।<ref>{{Cite web|last=Mars|first=Kelli|date=2021-09-22|title=175 years ago: Astronomers discover Neptune, the eighth planet|url=http://www.nasa.gov/feature/175-years-ago-astronomers-discover-neptune-the-eighth-planet|access-date=2022-03-22|website=NASA}}</ref> लेवेरियरस्य परिकल्पित-स्थानात् एकांश-दूरे वरुण-ग्रहः अन्विष्टः। आदम्सस्य पूर्वकथनात् प्रायः एकार्ध-अंश-दूरे अभूत्।<ref>{{Cite book|title=From dust to life: the origin and evolution of our solar system |url=https://archive.org/details/fromdusttolifeor0000cham |last1=Chambers|first1=John|last2=Mitton|first2=Jacqueline|publisher=Princeton University Press|year=2014|isbn=978-0-691-14522-8|location=Princeton, New Jersey|pages=[https://archive.org/details/fromdusttolifeor0000cham/page/n59 38]–39|oclc=859181634}}</ref> चैलिसेन अनन्तरं ज्ञातम् यत् सः अगस्तमासे एव तं ग्रहं द्विवारं दृष्टवान् अभूत्। स्वस्य असावधान-कार्यपद्धतेः कारणेन सः तस्मिन् समये तं न अभिज्ञातवान् अभूत्।<ref name=":0" /> दूरदर्शकेण न अपितु गणितीय-गणनाभिः अन्विष्टः प्रथमः ग्रहः अभूत् वरुणग्रहः।<ref name=":13" />[[File:Neptune Orbit.gif|thumb|200x200px|वरुणग्रहः ('''रक्तरेखाङ्कितः''') प्रति चतुःषष्ट्यधिकैकशतं वर्षाणि स्वकीयां परिक्रमाम् पूरयति।|left]]
=== श्रेयःप्रदानं, नामकरणं च ===
यदा वरुणग्रहः अन्विष्टः, तदा फ्रान्स-जनाः च ब्रिटेन-जनाः च तस्य आविष्कारस्य श्रेयः कः प्राप्नोति इति विषये सहमताः नाभूवन्। अनन्तरम्, अन्तर्राष्ट्रीय-सहमत्या निश्चितम् अभूत् यत् लेवेरियरः आदम्सः च उभौ अपि श्रेयम् अर्हाष्टाम्। किन्तु, नवाशीत्युत्तराधिकनवशताधिकैकसहस्र-तमे वर्षे 'वरुण-ग्रह-पत्राणां' (यानि ऐतिहासिकानि प्रलेखानि ग्रिनिच-राज-वेधशालातः लब्धानि) पुनरन्वेषणानन्तरम्, इतिहासज्ञाः विषयं पुनर्विलोकितवन्तः अभूवन्। तानि पत्राणि प्रायः त्रिंशत् वर्षाणि यावत् ज्योतिर्विदा ओलिन-एगनेन चोरितानि इव अभूवन्। तस्य मरणानन्तरं शीघ्रमेव तानि तस्य स्वामित्वे पुनरेव लब्धानि अभूवन्।<ref name="Neptdisc">{{cite web|last=Kollerstrom|first=Nick|year=2001|title=Neptune's Discovery. The British Case for Co-Prediction|url=http://www.ucl.ac.uk/sts/nk/neptune/|url-status=dead|publisher=University College London|archive-url=https://web.archive.org/web/20051116012726/http://www.ucl.ac.uk/sts/nk/neptune/|archive-date=2005-11-16}}</ref> प्रलेखान् दृष्ट्वा, केचन इतिहासज्ञाः इदानीं मन्यन्ते यत् आदम्सः लेवेरियरेण सह समानं श्रेयम् न अर्हति।<ref>William Sheehan, Nicholas Kollerstrom, Craig B. Waff (December 2004). [http://www.sciam.com/article.cfm?articleID=000CA850-8EA4-119B-8EA483414B7FFE9F The Case of the Pilfered Planet - Did the British steal Neptune?] ''Scientific American''.</ref>
तस्य अन्वेषणानन्तरं शीघ्रमेव, वरुणग्रहः अनित्यरूपेण 'अरुणस्य बहिस्थः ग्रहः' वा 'लेवेरियरस्य ग्रहः' इति आहूतः अभूत्। नाम्ने प्रथमः प्रस्तावः गल्लेयतः आगतः। सः 'जानुस्' इति नाम प्रस्तावितवान् अभूत्। आंग्ल-देशे चैलिसः 'ओशनुस्' इति नाम प्रस्तावितवान् अभूत्।<ref>{{Cite book|title=The Data Book of Astronomy|url=https://archive.org/details/databookastronom01moor|last=Moore|first=Patrick|year=2000|page=206|publisher=Taylor & Francis |isbn=9780750306201 }}</ref> फ्रान्स-देशे आरागोः प्रस्तावः अभूत् यत् नूतन-ग्रहः 'लेवेरियर' इति नाम्ना आहूयेत, किन्तु फ्रान्स-देशात् बहिः बहवः जनाः एतस्मिन् विषये असहमताः अभूवन्। फ्रान्स-दिनदर्शिकाः शीघ्रमेव अरुण-ग्रहाय 'हर्षेल्' इति नाम, वरुण-ग्रहाय च 'लेवेरियर' इति नाम पुनः प्रविष्टवन्तः अभूवन्।<ref name="auto"/>
एतदभ्यन्तरे, आदम्सः अरुण-ग्रहस्य नाम जॉर्जियन् इत्यतः युरेणस् इत्यस्मिन् परिवर्तितुं प्रस्तावितवान् अभूत्, यदा तु लेवेरियरः (दीर्घान्तर-मण्डलद्वारा) नूतन-ग्रहाय नेप्च्यून् इति नाम प्रस्तावितवान् अभूत्। स्ट्रुवेयः षट्चत्वारिंशदुत्तराष्टशताधिकैकसहस्र-तमस्य वर्षस्य दिसम्बर्मासस्य एकोनत्रिंशत्तमे दिनाङ्के सेन्ट्-पीटर्सबर्ग-विज्ञान-विद्वत्परिषदः पुरतः नेप्च्यून् इति नाम समर्थितवान् अभूत्।<ref>{{cite journal |url=http://articles.adsabs.harvard.edu//full/seri/AN.../0025//0000164.000.html |title=Second report of proceedings in the Cambridge Observatory relating to the new Planet (Neptune) |year=1847 |journal=Astronomische Nachrichten |volume=25 |pages=309–314 |last=Hind |first=J. R. |issue=21 |doi=10.1002/asna.18470252102 |bibcode=1847AN.....25..309. |access-date=2025-09-12 |archive-date=2008-09-08 |archive-url=https://web.archive.org/web/20080908005853/http://articles.adsabs.harvard.edu//full/seri/AN.../0025//0000164.000.html |deadurl=yes }} Smithsonian/NASA Astrophysics Data System (ADS).</ref> शीघ्रमेव अन्तर्राष्ट्रीय-रूपेण नेप्च्यून इति नूतन-ग्रहस्य आधिकारिकं नाम स्वीकृतम् अभूत्। रोम-पुराणेषु नेप्च्यूनः समुद्रस्य देवः यवन-देवस्य पोसैडनस्य समरूपः अभूत्।<ref>{{Cite web|date=22 December 2016|title=Enabling Exploration with Small Radioisotope Power Systems|url=http://solarsystem.nasa.gov/multimedia/downloads/Small_RPS_Report.pdf|url-status=live|access-date=10 May 2021|archive-url=https://web.archive.org/web/20161222125722/http://solarsystem.nasa.gov/multimedia/downloads/Small_RPS_Report.pdf|archive-date=2016-12-22}}</ref><ref>{{cite web|title=Neptune|url=http://nineplanets.org/neptune.html|publisher=nineplanets.org|accessdate=5 November 2010}}</ref><ref>{{cite web|date=August 2002|title=StarChild Question of the Month for August 2002|url=http://starchild.gsfc.nasa.gov/docs/StarChild/questions/question48.html|publisher=[[NASA]]|accessdate=5 November 2010}}</ref> Neptune's astrological symbol is Neptune's trident (♆).<ref name=":18">{{Cite web|date=2010-03-17|title=Solar System Exploration: Multimedia: Gallery|url=http://solarsystem.nasa.gov/multimedia/display.cfm?IM_ID=167|url-status=live|archive-url=https://web.archive.org/web/20100317223147/http://solarsystem.nasa.gov/multimedia/display.cfm?IM_ID=167|archive-date=2010-03-17|access-date=2021-06-23|website=National Aeronautics and Space Administration (NASA).}}</ref>
== संरचना ==
=== द्रव्यमानं सङ्घटनं च ===
वरुण-ग्रह-भारः पृथिवीभारस्य, बृहत्तम-वात-महाग्रह-भारस्य च मध्ये अस्ति।<ref>At 102.413{{e|24}}[[Kilogram|kg]],{{Cite web|title=Neptune Fact Sheet|url=https://nssdc.gsfc.nasa.gov/planetary/factsheet/neptunefact.html|access-date=2021-06-14|website=nssdc.gsfc.nasa.gov|accessdate=2025-09-12|archive-date=2023-01-03|archive-url=https://web.archive.org/web/20230103004627/https://nssdc.gsfc.nasa.gov/planetary/factsheet/neptunefact.html|deadurl=yes}}</ref> Neptune is the fourth largest planet in the [[Solar System]] and the third most massive.<ref name=":13" /> वरुणग्रहस्य भारः पृथिव्याः भारस्य सप्तदशगुणः अस्ति, किन्तु बृहस्पति-ग्रहस्य भारस्य केवलम् अष्टादशः भागः।<ref>Bradford A. Smith, «Neptune », 'World Book Online Reference Center', 2004, <abbr>p.</abbr> 5</ref> वरुणग्रहः अरुणग्रहात् किञ्चित् गुरुतरः अस्ति, यद्यपि सः अरुणग्रहात् घनतरः आकारेण च लघुतरः अस्ति।<ref name=":13" /> वरुणग्रहः अरुणग्रहः च बहुवारं "विशाल-हिम-ग्रह-गणे" (विशाल-वात-ग्रहणाम् उपवर्गे) गण्येते।<ref name=":13" /><ref name="doi.org">{{Cite journal|last1=Helled|first1=Ravit|last2=Nettelmann|first2=Nadine|last3=Guillot|first3=Tristan|date=2020-03-25|title=Uranus and Neptune: Origin, Evolution and Internal Structure|url=https://doi.org/10.1007/s11214-020-00660-3|journal=Space Science Reviews|language=en|volume=216|issue=3|pages=38|doi=10.1007/s11214-020-00660-3|arxiv=1909.04891|bibcode=2020SSRv..216...38H|s2cid=202558606|issn=1572-9672}}</ref> तौ आकारेण गुरु-शनि-ग्रहाभ्याम् लघुतरौ स्तः, अपिच तयोः रासायनिक-संरचनाश्च भिन्नाः सन्ति। सौरमण्डल-बहिर्ग्रहाणाम् अन्वेषणे, अन्य-अन्विष्ट-ग्रहाणाम् आकार-संरचनयोः वरुणग्रहेण सह तुलना उपयुक्ता अस्ति। केचन अन्विष्टाः द्रव्यमाने वरुणग्रहसदृशाः ग्रहाः प्रायः "वरुणदृग्-ग्रहाः" इति कथ्यन्ते।<ref>{{cite news|date=21 May 2006|title=Trio of Neptunes|work=Astrobiology Magazine|url=https://www.eso.org/public/news/eso0618/|access-date=9 June 2021}}</ref>
वरुणग्रहस्य वायुमण्डलं मुख्यतया जलजनकेन, अल्पमात्रया च सूर्यतिना निर्मितम् अस्ति। वायुमण्डले प्रोदीन्यस्य अल्पमात्रम् अपि उपलब्धम्। प्रोदीन्यं वरुणग्रहाय नीलवर्णं ददाति।<ref>{{Cite web|title=All About Neptune {{!}} NASA Space Place – NASA Science for Kids|url=https://spaceplace.nasa.gov/all-about-neptune/en/|access-date=2021-06-12|website=spaceplace.nasa.gov}}</ref><ref name="Neptune">{{cite web|title=Neptune|url=http://solarsystem.nasa.gov/planets/profile.cfm?Object=Neptune|url-status=dead|archive-url=https://web.archive.org/web/20061213204351/http://solarsystem.nasa.gov/planets/profile.cfm?Object=Neptune|archive-date=13 December 2006|publisher=NASA|accessdate=11 November 2010}}</ref> वरुणग्रहस्य वर्णः अरुणग्रहस्य वर्णेन सदृशः, किन्तु किञ्चित् श्यामतरः अस्ति।<ref name="Neptune"/>
सूर्यात् अत्यधिकदूरत्वात् वरुणग्रहः अत्यल्पम् ऊष्णतां प्राप्नोति। वरुणग्रहस्य मध्यमानं पृष्ठतापमानं प्रायः ऋण-२०१ सेल्सियस्-अंश-मितम् अस्ति।<ref>{{Cite web|title=Solar System Temperatures|url=https://solarsystem.nasa.gov/resources/681/solar-system-temperatures|access-date=2021-06-12|website=NASA Solar System Exploration}}</ref> अतः पृष्ठतापमानानुसारं वरुणग्रहः सौरमण्डले शीतलतमः ग्रहः। किन्तु ग्रहस्य अन्तःभागेषु तापमानं वर्धते। अस्य ऊष्मणः स्रोतः अस्पष्टम्।
<ref>Broadfoot A.L.; Atreya S.K.; Bertaux J.L.; et al. 1999. Ultraviolet Spectrometer Observations of Neptune and Triton. ''Science''. '''246''' (4936): 1459–66. Bibcode:1989Sci...246.1459B. doi:10.1126/science.246.4936.1459. PMID 17756000. S2CID 21809358. Archived (PDF) from the original on 28 May 2008. Retrieved 12 March 2008.</ref><ref>Herbert, Floyd; Sandel, Bill R. August/September 1999. Ultraviolet observations of Uranus and Neptune. ''Planetary and Space Science'' '''47''' (8–9): 1, 119–139. Bibcode:1999P&SS...47.1119H. doi:10.1016/S0032-0633(98)00142-1</ref><ref>{{Cite book|url=https://books.google.com/books?id=bJoYlBWbCAYC&dq=the+source+of+heating+on+neptune+is+unknown&pg=PA75|title=Uranus, Neptune, Pluto, and the Outer Solar System|last=Elkins-Tanton|first=Linda T.|date=2006|publisher=Infobase Publishing|isbn=978-1-4381-0729-5|pages=75|language=en}}</ref> वरुणग्रहः सूर्यात् दूरतमः ग्रहः अस्ति,<ref name=":13">{{Cite web|title=In Depth {{!}} Neptune|url=https://solarsystem.nasa.gov/planets/neptune/in-depth|access-date=2021-06-14|website=NASA Solar System Exploration}}</ref> तथापि तस्य आन्तरिकी ऊर्जा सौरमण्डले तीव्रतमान् वातान् जनयितुं समर्था अस्ति, येषां वेगः प्रतिहोरं शताधिकद्विसहस्रं किलोमीटर्-मितं पर्यन्तं वर्तते।<ref name="Suomi1991">{{cite journal|last1=Suomi|first1=V. E.|last2=Limaye|first2=S. S.|last3=Johnson|first3=D. R.|year=1991|title=High winds of Neptune - A possible mechanism|url=http://adsabs.harvard.edu/abs/1991Sci...251..929S|journal=Science|volume=251|issue=4996|pages=929–932|bibcode=1991Sci...251..929S|doi=10.1126/science.251.4996.929|pmid=17847386|s2cid=46419483}}</ref><ref name=":5">{{Cite web|last=Cain|first=Fraser|date=2008-12-09|title=What is the Weather Like on Neptune?|url=https://www.universetoday.com/22067/weather-on-neptune/|access-date=2021-06-12|website=Universe Today|language=en-US}}</ref> अस्य अनेकानि सम्भावितानि कारणानि सूचितानि सन्ति। प्रथमम् तु, ग्रहस्य गर्भात् विकिरणजन्य-तापनम्। अन्यतमं कारणम् अस्ति ग्रहस्य जननकाले अन्तःपतद्भिः पदार्थैः जनितस्य अवशिष्टस्य ऊष्मणः अन्तरिक्षे निरन्तरं विकिरणम्। अपरं कारणं परिवर्तावसानोपरि गुरुत्व-तरङ्गाणां भङ्गः। एतत् अपि सूचितम् अस्ति यत् वज्र-शिलावृष्टेः घर्षणम् अभिघात-सम्पीडः च ग्रहं तापयति। <ref>McHugh J.P. [http://www.aas.org/publications/baas/v31n4/dps99/572.htm Computation of gravity waves near the tropopause] {{Webarchive|url=https://web.archive.org/web/20071027135535/http://www.aas.org/publications/baas/v31n4/dps99/572.htm |date=27 October 2007 }}, ''AAS/Division for Planetary Sciences Meeting Abstracts'', p. 53.07, September 1999</ref><ref>McHugh J.P. and Friedson A.J. 1996. Neptune's energy crisis: gravity wave heating of the stratosphere of Neptune. ''Bulletin of the American Astronomical Society'', p1078.</ref>
वरुणग्रहस्य आन्तरिक-संरचना अरुणग्रहस्य आन्तरिक-संरचनया सदृशी इति मन्यते।<ref name=":8">Hubbard, W.B. 1997. Neptune's deep chemistry. ''Science''. '''275''' (5304): 1279–80.</ref> Tतत्र प्रायः एक-दशमलव-पञ्च-गुणेन पृथिवी-द्रव्यमानेन युक्तः एकः ग्रहगर्भः अस्ति इति मन्यते।<ref name="Hamilton">{{cite web | first=Calvin J. | last=Hamilton | date=4 August 2001 | url=http://www.solarviews.com/eng/neptune.htm | title=Neptune |publisher=Views of the Solar System | accessdate=13 August 2007}}</ref> Iसः द्रवित-शिलाभिः धातुभिश्च निर्मितः, शिला-जल-नवसार-प्रोदीन्यैः आवृतश्च अस्ति।<ref name=Hamilton/> इदं मिश्रणं हिममयम् इति कथ्यते। इदं जल-नवसार-सागरः इत्यपि कथ्यते।<ref>Atreya, S.; Egeler, P.; Baines, K. 2006. [https://www.cosis.net/abstracts/EGU06/05179/EGU06-J-05179-1.pdf Water-ammonia ionic ocean on Uranus and Neptune?] {{Webarchive|url=https://web.archive.org/web/20190918194516/https://www.cosis.net/abstracts/EGU06/05179/EGU06-J-05179-1.pdf |date=2019-09-18 }} (PDF). ''Geophysical Research Abstracts''. '''8''', 05179.</ref> वायुमण्डलस्य निम्न-भागेषु प्रोदीन्य-नवसार-जलानाम् अधिकानि मिश्रणानि लभ्यन्ते।<ref name=":8" />''' वरुणग्रहे सप्तसहस्र-किलोमीटर्-मिते गाम्भीर्ये प्रोदीन्यं वज्रस्फटिकरूपेण विघटितं भवेत्। एते वज्रस्फटिकाः शिलावृष्टि-कणाः इव दृश्यन्ते।<ref>Kerr, Richard A. 1999. Neptune may crush methane into diamonds. ''Science''. '''286''' (5437): 25a–25.</ref><ref>{{Cite news|last=Kaplan|first=Sarah|date= 2017|title=It rains solid diamonds on Uranus and Neptune|language=en-US|newspaper=The Washington Post|url=https://www.washingtonpost.com/news/speaking-of-science/wp/2017/08/25/it-rains-solid-diamonds-on-uranus-and-neptune/|access-date=2021-06-12|issn=0190-8286}}</ref>
{{multiple image
| align = center
| direction = horizontal
| header_align = center
| header = Neptune
| image1 = Neptune, Earth size comparison true color.jpg
| width1 = 268
| caption1 = वरुणपृथिवी-ग्रहयोः आकारतुलना
| image2 = Neptune-Int-color-corrected.jpg
| width2 = 270
| caption2 = वरुण-ग्रहस्य आन्तरिक-संरचना
| image3 = Neptune_darkspot.jpg
| width3 = 153
| caption3 = वोयेजर-द्वितीयेन दर्शितः महा-श्याम-बिन्दुः
}}
=== वातावरणं चुम्बकीयक्षेत्रं च ===
वरुणग्रहस्य अरुणग्रहस्य च मध्ये एकं भेदः तयोः वायुशास्त्रीय-सक्रियतायाः स्तरः अस्ति। यदा षडशीत्युत्तरोनविंशतिशत-तमे वर्षे वोयजर-यानम् अरुणग्रहस्य समीपात् अगच्छत्, तदा तस्मिन् ग्रहे वाताः वरुणग्रहस्य इव प्रबलाः न दृष्टाः। यदा नवाशीत्युत्तरोनविंशतिशत-तमे वर्षे वोयजर-यानं वरुणग्रहस्य समीपात् गतवत् अभूत्, तदा प्रबलाः वातावरण-घटनाः<ref name="spot">{{cite web |last=Lavoie |first=Sue |date=16 February 2000 |url=http://photojournal.jpl.nasa.gov/catalog/PIA02245 |title=PIA02245: Neptune's blue-green atmosphere |publisher=NASA JPL |access-date=28 February 2008 |archive-url=https://web.archive.org/web/20130805215059/http://photojournal.jpl.nasa.gov/catalog/PIA02245 |archive-date=5 August 2013 |url-status=live }}</ref> तत्र अति-सक्रियाः वात्याः सन्ति।<ref name=":5" /> तस्य वायुमण्डले सौरमण्डलस्य तीव्रतमाः वातवेगाः सन्ति। एते सम्भवतः आन्तरिक-ऊष्मा-प्रवाहेण प्रेरिताः सन्ति। निरक्षदेशे साधारण-वातानां वेगः प्रायः द्वादशशतं किलोमीटर्-मितः प्रतिहोरं वर्तते। वात्यासु वातानां वेगः शताधिकद्विसहस्रं किलोमीटर्-मितः, प्रायः अधिस्वनिकश्च भवितुं शक्नोति।<ref name="Hammel1989">{{cite journal |last=Hammel|first=H.B. | display-authors = et al | title=Neptune's wind speeds obtained by tracking clouds in Voyager images |journal=Science |year=1989 | volume=245 |issue=4924 | pages=1367–1369 |doi=10.1126/science.245.4924.1367 |pmid=17798743 |bibcode=1989Sci...245.1367H |s2cid=206573894 | url=http://adsabs.harvard.edu/abs/1989Sci...245.1367H }}</ref>
नवाशीत्युत्तरोनविंशतिशत-तमे वर्षे नासा-संस्थायाः 'वोयजर-द्वितीयेन'-यानेन प्रतिचक्रवातीय-वात्या-तन्त्र-रूपः "महा-श्याम-बिन्दुः" अन्विष्टः।<ref name=":7">{{Cite web|title=Hubble captures birth of giant storm on Neptune|url=https://www.sciencedaily.com/releases/2019/03/190325120355.htm|access-date=2021-06-12|website=ScienceDaily|language=en}}</ref><ref name=":9">{{Cite web|title=What is the Great Dark Spot?|url=https://coolcosmos.ipac.caltech.edu/ask/149-What-is-the-Great-Dark-Spot-|access-date=2021-06-12|website=Cool Cosmos}}</ref> चतुर्नवत्युत्तर-नवशताधिकैकसहस्र-तमे-वर्षे नवम्बर-मासस्य द्वितीये दिनाङ्के, हबल्-अन्तरिक्ष-दूरदर्शकेन ग्रहे महा-श्याम-बिन्दुः न दृष्टः। तस्य स्थाने, ग्रहस्य उत्तर-गोलार्धे महा-श्याम-बिन्दु-सदृशी एका नवीना वात्या अन्विष्टा।<ref>{{Cite journal|last1=Hammel|first1=H.B.|last2=Lockwood|first2=G. W.|last3=Mills|first3=J. R.|last4=Barnet|first4=C. D.|date= 1995| title=Hubble Space Telescope Imaging of Neptune's Cloud Structure in 1994|url=http://dx.doi.org/10.1126/science.268.5218.1740|journal=Science|volume=268|issue=5218|pages=1740–1742|doi=10.1126/science.268.5218.1740|pmid=17834994|bibcode=1995Sci...268.1740H|s2cid=11688794|issn=0036-8075}}</ref> Tमहा-श्याम-बिन्दु-अन्तर्धान-कारणं न ज्ञातम्।<ref name=":10">Sromovsky L.A.; Fry P.M.; Dowling T.E. & Baines K.H. 2000. The unusual dynamics of new dark spots on Neptune. ''Bulletin of the American Astronomical Society''. '''32''': 1005</ref> महा-श्याम-बिन्दोः दक्षिणतः स्थिता एका श्वेत-मेघ-समूह-भूता 'स्कूटरः' इति नाम्ना अन्या वात्या विद्यते।<ref name=":16">{{Cite web|title=Neptune Scooter|url=https://www.planetary.org/space-images/20131001_pia01142|access-date=2021-06-15|website=The Planetary Society|language=en}}</ref> नवाशीत्युत्तरोनविंशतिशत-तमे वर्षे वोयजर-समागमात् पूर्वेषु मासेषु प्रथमवारं दर्शने सति तस्यै वात्यै इदम् उपनाम दत्तम्।<ref name=":16" /> Iसा वात्या महा-श्याम-बिन्दोः शीघ्रतरम् चलितवती अभूत्।<ref>{{Cite web|title=Planet Neptune {{!}} Introduction to Astronomy|url=https://courses.lumenlearning.com/atd-fscj-introastronomy/chapter/planet-neptune/#:~:text=Neptune%20also%20has%20atmospheric%20scooters,of%201,200%20miles%20per%20hour.|access-date=2021-06-15|website=courses.lumenlearning.com}}</ref> पश्चाच्चित्रेषु स्कूटर-वात्यातः अपि शीघ्रतरं चलन्तः मेघाः दृष्टाः। 'मान्त्रिक-नेत्रम्' वा 'द्वितीयः श्यामबिन्दुः' वा इति नाम्ना अपरा दक्षिणीया चक्रवातीया वात्या अस्ति, या नवाशीत्युत्तरोनविंशतिशत-तम-वर्षीय-समागमे दृष्टा द्वितीया प्रबलतमा वात्या। आदौ सा वात्या सम्पूर्णतया श्यामा आसीत्, किन्तु यदा वोयजर-यानं ग्रहस्य इतोपि समीपम् गतवत् अभूत्, तदा तस्याः एकः प्रकाशमानः गर्भः विकसितः अभूत्।<ref>{{Cite web|title=Catalog Page for PIA00064|url=https://photojournal.jpl.nasa.gov/catalog/PIA00064|access-date=10 May 2021|website=Jet Propulsion Laboratory California Institute of Technology}}</ref>
[[File:Neptune Cloud Cover Over Three Decades (2023-019).png|thumb|231x231px|दशक-त्रय-काले वरुणग्रहस्य मेघावरणम् (चतुर्नवत्यधिकनवशतोत्तरसहस्र-तमात् — विंशत्यधिकद्विसहस्रतम-वर्षपर्यन्तम्)]]
त्रयोविंशयुत्तरद्विसहस्र-तमे वर्षे अगस्त-मासे मेघाः अन्तर्हिताः। सम्भावितं कारणं सौरज्वाला अस्ति।<ref name="auto1">{{Cite news|last=Andrews|first=Robin George|date=2023-08-18|title=Neptune's Clouds Have Vanished, and Scientists Think They Know Why|language=en-US|work=The New York Times|url=https://www.nytimes.com/2023/08/18/science/neptune-clouds-sun.html|access-date=2023-08-27|issn=0362-4331}}</ref> हबल-अन्तरिक्ष-दूरदर्शकस्य त्रिंशद्वर्षीयैः वरुणग्रहस्य वातावरण-निरीक्षणैः दर्शितम् अभूत् यत् मेघ-गतिविधिः सौर-चक्रैः सम्बद्धा अस्ति।<ref>{{Cite web|last=Gianopoulos|first=Andrea|date=2023-08-16|title=Neptune's Disappearing Clouds Linked to the Solar Cycle|url=http://www.nasa.gov/feature/goddard/2023/hubble-neptunes-disappearing-clouds-linked-to-the-solar-cycle|access-date=2023-08-27|website=NASA}}</ref>
वरुणग्रहस्य स्वचुम्बकगोले अपि अरुणग्रहेण सह सादृश्यम् अस्ति। किन्तु, अरुणग्रहस्य चुम्बकगोलः वरुणग्रहस्य चुम्बकगोलात् दुर्बलतरः अस्ति। <ref name="doi.org"/><ref name=":6" /> तस्य चुम्बकीयक्षेत्रं स्वघूर्णनाक्षात् सप्तचत्वारिंशद्-अंशैः अत्यधिकम् आनतम् अस्ति। तत् ग्रहस्य भौतिक-केन्द्रात् न्यूनतमं शून्य-दशमलव-पञ्च-पञ्च-त्रिज्या-परिमितम् (प्रायः पञ्चशताधिकत्रयोदशसहस्रं किलोमीटर्-मितं दूरत्व, यत् तुलनार्थं पृथिव्याः व्यासात् बृहत्तरम्) अपसारितम् अस्ति। इयम् असाधारणा स्थितिः सम्भवतः ग्रहस्य अन्तर्भागेषु प्रवाहैः जनिता भवेत्।<ref name=":6">{{Cite journal|last1=Stanley|first1=Sabine|last2=Bloxham|first2=Jeremy|date=11 March 2004|title=Convective-region geometry as the cause of Uranus's and Neptune's unusual magnetic fields |url=https://archive.org/details/sim_nature-uk_2004-03-11_428_6979/page/151|journal=Nature|volume=428|issue=6979|pages=151–153| doi=10.1038/nature02376|pmid=15014493|bibcode=2004Natur.428..151S|s2cid=33352017}}</ref>
वरुणग्रहस्य अक्षीय-नतिः पृथिव्याः सदृशी अस्ति, अतः तस्य ऋतवः सन्ति।<ref>{{Cite web|title=With each season lasting over 40 years, Neptune is cooler than we thought|url=https://www.indiatoday.in/science/story/neptune-seasons-cooling-down-climate-change-earth-sun-solar-cycle-1936405-2022-04-12|access-date=2023-06-11|website=India Today|language=en}}</ref>
{{-}}
== वरुण-ग्रह-वलयानि ==
[[File:New Webb Image Captures Clearest View of Neptune’s Rings in Decades.png|thumb|'''वरुण-ग्रह-वलय-उपग्रहाः दृष्टाः जेम्स-वेब-अन्तरिक्ष-दूरदर्शकेन।''']]
वरुण-ग्रहं परितः पञ्च वलयानि सन्ति।<ref name=":13" /> तानि शनिग्रह-वलयानि इव प्रसिद्धानि न सन्ति। अष्टषष्ट्यधिकोनविंशतिशत-तमे वर्षे एडवर्ड-गुइनान-नाम्ना अमेरिका-देशीय-वैज्ञानिकेन नीतेन एकेन दलेन तानि वलयानि अन्विष्टानि। ततः, अशीतितम-दशकस्य मध्यभागे खगोलशास्त्रिणः चिन्तितवन्तः अभूवन् यत् वलयानि सम्पूर्णानि न भवेयुः। तादृशानि तारकीय-पिधानानि लब्धानि, यानि ग्रहस्य तारायाः पुरतः गमनात् किञ्चित् पूर्वं परं वा अतिरिक्तं "स्फुरणम्" विरलं दर्शितवन्ति अभूवन्। किन्तु वोयजर-द्वितीयेन तानि सम्पूर्णानि दर्शितानि। वरुणग्रहस्य वलयानां रचना विचित्र-पिण्डयुक्ता वर्तते। वैज्ञानिकाः मन्यन्ते यत् तेषां समीपे परिक्रामद्भिः लघु-उपग्रहैः सह गुरुत्वाकर्षण-सम्पर्कस्य कारणेन एवं भवेत्।
<ref>{{Cite journal|last1=Schörghofer|first1=Norbert|last2=Hsieh|first2=Henry H.|year=2018|title=Ice Loss From the Interior of Small Airless Bodies According to an Idealized Model |url=http://dx.doi.org/10.1029/2018je005568|journal=Journal of Geophysical Research: Planets|volume=123|issue=9|pages=2322–2335|doi=10.1029/2018je005568|arxiv=1802.01293|bibcode=2018JGRE..123.2322S|s2cid=119100900|issn=2169-9097}}</ref> चित्राणि दर्शितवन्ति अभूवन् यत् वलय-तन्त्रस्य अनेकानि क्षीणानि वलयानि सन्ति। दूरतमस्य एडम्स-वलयस्य 'कुरेज्' (शौर्यम्), 'लिबर्ते' (स्वतन्त्रता), 'एगलिते-प्रथमः' (समानता), 'एगलिते-द्वितीयः' (समानता), 'फ्रैटर्निते' (भ्रातृत्वम्) च इति नाम्ना पञ्च चापाः सन्ति।<ref>{{Cite book|title=Allen's Astrophysical Quantities. Springer|last=Cox|first=Arthur N.|year=2001|publisher=Springer |isbn=978-0-387-98746-0}}</ref>
[[File:Neptune rings PIA02224.jpg|thumb|341x341px|'''वरुण-ग्रह-वलयानि''']]
गतिनियमाः सूचयन्ति यत् चापाः अत्यल्पेन कालेन एकवलयरूपेण प्रसरिष्यन्ति। किन्तु वरुणग्रहस्य वलयेषु स्थिताः चापाः कथञ्चित् न प्रसृताः। कस्यचित् उपग्रहस्य गुरुत्वाकर्षणेन चापाः निर्मिताः भवेयुः। गैलेटिया-नामकः उपग्रहः एडम्स-वलयस्य अन्तः एव स्थितः अस्ति।<ref>{{Cite web|title=In Depth {{!}} Neptune|url=https://solarsystem.nasa.gov/planets/neptune/in-depth|access-date=10 May 2021|website=NASA Solar System Exploration}}</ref> किन्तु (पञ्चोत्तर-द्विसहस्र-तमे वर्षे) वैज्ञानिकाः ज्ञातवन्तः अभूवन् यत् वरुणग्रहस्य वलयानि पूर्वापेक्षया अधिकम् अस्थिराणि सन्ति। 'लिबर्ते'-चापः प्रायः शतवर्षाणाम् अन्तः अन्तर्हितः भवेत्।<ref>{{cite web|date=26 March 2005|title=Neptune's rings are fading away|url=https://www.newscientist.com/channel/space/mg18524925.900|accessdate=9 June 2021|work=New Scientist}}</ref>
== वरुणग्रहोपग्रहाः ==
वरुणग्रहस्य षोडश ज्ञाताः उपग्रहाः सन्ति।<ref>{{cite web |url= https://www.bbc.co.uk/news/science-environment-23318301 |title=Nasa's Hubble telescope discovers new Neptune moon |publisher=BBC |date=15 July 2013 |access-date=16 July 2013}}</ref> नेप्चूनः रोम-देवः अस्ति इत्यतः पाश्चात्ये वरुणग्रहस्य उपग्रहाः इतर-समुद्र-देवानां देवीनां वा नामभिः नामिताः।
<ref>[https://planetarynames.wr.usgs.gov/Page/Planets "Planet and Satellite Names and Discoverers"]. Gazetteer of Planetary Nomenclature. U.S. Geological Survey.</ref>
वरुणग्रहस्य बृहत्तमः उपग्रहः ट्राइटनः अस्ति। ट्राइटनः अष्टाचत्वारिंशदुत्तराष्टादशशत-तमे वर्षे अक्टूबर-मासस्य दशमे दिनाङ्के ब्रिटिश-खगोलशास्त्रज्ञेन विलियम-लासेल्-नाम्ना अन्विष्टः।<ref>{{Cite web|title=In Depth {{!}} Triton|url=https://solarsystem.nasa.gov/moons/neptune-moons/triton/in-depth|access-date=2021-06-13|website=NASA Solar System Exploration|archive-date=2018-08-17|archive-url=https://web.archive.org/web/20180817014136/https://solarsystem.nasa.gov/moons/neptune-moons/triton/in-depth|url-status=dead}}</ref> सर्वेषाम् अन्येषाम् बृहताम् ग्रहीय-उपग्रहाणां विपरीतम्, ट्रीटोनः प्रतिकूलं परिक्रामति।<ref name=":4" /> उपग्रहः सम्भवतः गृहीतः प्रतीयते।<ref name=":4">Agnor, Craig B.; Hamilton, Douglas P. 2006. Neptune's capture of its moon Triton in a binary–planet gravitational encounter. ''Nature'' '''441''' (7090): 192–194.</ref> सः वरुणग्रहस्य एतावत् समीपे अस्ति यत् सः समकालिक-कक्षायां बद्धः। सः शनैः शनैः वरुणग्रहम् उपसर्पति, कदाचित् एकस्मिन् दिने रोश-सीमा अतिक्रम्य विदीर्णः च भवेत्।<ref>{{Cite journal|last1=Jankowski| first1=David G.|last2=Chyba|first2=Christopher F.| last3=Nicholson|first3=Philip D.|year=1989|title=Tidal evolution in the Neptune-Triton system|journal=Astronomy and Astrophysics. |volume=219|issue=1–2|pages=L23–L26| bibcode=1989A&A...219L..23C}}</ref> ट्रीटोनः सौरमण्डले मापितं शीतलतमं वस्तु अस्ति, यस्य तापमानम् ऋण-पञ्चत्रिंशदधिक-द्विशतम् सेल्सियस-अंश-मितम् अस्ति।<ref>Nelson R.M; Smythe W.D; Wallis B.D; Horn L.J; et al 1990. Temperature and thermal emissivity of the surface of Neptune's satellite Triton. ''Science''. '''250''' (4979): 429–31.</ref>
नेप्च्यूनस्य द्वितीयः ज्ञातः उपग्रहः (अन्वेषणक्रमानुसारम्), विलक्षणः उपग्रहः नीरीट्, सौरमण्डले कस्यापि उपग्रहस्य अत्यन्तम् असाधारणकक्षासु अन्यतमां कक्षां धरति।<ref name=":19">{{Cite web|title=In Depth {{!}} Nereid|url=https://solarsystem.nasa.gov/moons/neptune-moons/nereid/in-depth|access-date=2021-06-11|website=NASA Solar System Exploration|archive-date=2021-06-11|archive-url=https://web.archive.org/web/20210611214602/https://solarsystem.nasa.gov/moons/neptune-moons/nereid/in-depth/|url-status=dead}}</ref> नीरीट् वरुणग्रहात् अतीव दूरे स्थितः यत् एकं परिक्रमणं कर्तुं तस्य षष्ट्युत्तरत्रिशतस्य पार्थिव-दिवसानाम् आवश्यकता वर्तते।<ref name=":19" /> सः महत्तमां दीर्घवृत्ताकारीं कक्षां जनयति, वृत्ताकारमार्गात् च महत्तमां विचलनांशं उत्पादयति।<ref name=":19" />
एवं तर्कितम् अस्ति यत् एतेषु केचन उपग्रहाः सम्भाव्यतः कुइपर-वेष्टनस्य वस्तूनि अभूवन्, ये क्रमेण वरुणग्रहस्य कक्षायाः भागभूताः।
एकोननवत्यधिकनवशतोत्तरसहस्रतमे वर्षे जुलै-मासात् सेप्टेम्बर-मासपर्यन्तं, वोयजर-द्वितीयम् इति यानं वरुणस्य षट् नवान् उपग्रहान् वित्तवत् अभूत्।<ref>Stone, E.C.; Miner, E.D. (1989). "The Voyager 2 Encounter with the Neptunian System". ''Science''. 246 (4936): 1417–21.</ref> '''ए'''तेषु प्रोटेयस-नामा द्वितीय-गुरुतमः वारुणियः उपग्रहः अस्ति।<ref name=":17">{{Cite web|date=2010-05-29|title=Planet Neptune's moons|url=https://www.newtimes.co.rw/section/read/81791|access-date=2021-06-15|website=The New Times {{!}} Rwanda|language=en}}</ref> ट्रिटोन-उपग्रहस्य द्रव्यमानस्य केवलं चतुर्थांश-प्रतिशततमं भागम् एव अस्य विद्यते।<ref name=":17" /> वरुणस्य चत्वारः निकटतमाः उपग्रहाः, नायाड्, थलासा, डेस्पिना, गलाटिया च, तस्य वलयानाम् अन्तः स्थातुं पर्याप्तं समीपे परिक्रामन्ति। ततः परं बहिष्ठः, लरिसा, एकाशीत्यधिकनवशतोत्तरसहस्रतमे वर्षे तदा अन्विष्टः, यदा तेन कस्यचित् तारकस्य प्रकाशः पिहितः अभूत्।<ref>{{Cite web|title=In Depth {{!}} Larissa|url=https://solarsystem.nasa.gov/moons/neptune-moons/larissa/in-depth|access-date=2021-06-15|website=NASA Solar System Exploration|archive-date=2021-06-27|archive-url=https://web.archive.org/web/20210627110206/https://solarsystem.nasa.gov/moons/neptune-moons/larissa/in-depth/|url-status=dead}}</ref> एकोननवत्यधिकनवशतोत्तरसहस्रतमे वर्षे यदा 'वोयजर-द्वितीयेन' वरुणः दृष्टः, तदा ग्रहस्य वलयचापानां हेतुत्वेन तस्मै उपग्रहाय श्रेयः प्रदत्तः। द्व्यधिकद्विसहस्रतः त्र्यधिकद्विसहस्रतमवर्षपर्यन्तम् अन्विष्टाः पञ्च नूतनाः विलक्षणाः उपग्रहाः, चतुरधिकद्विसहस्रतमे वर्षे घोषिताः अभूवन्।<ref>{{cite journal |last=Holman|first=Matthew J. |date=19 August 2004 |url=http://www.nature.com/nature/journal/v430/n7002/abs/nature02832.html |title=Discovery of five irregular moons of Neptune |journal=Nature |volume=430 |issue=7002 |pages=865–867|doi=10.1038/nature02832 |pmid=15318214 |bibcode=2004Natur.430..865H |s2cid=4412380 }}</ref><ref>{{cite news |url=http://news.bbc.co.uk/2/hi/science/nature/3578210.stm |title=Five new moons for planet Neptune |date=18 August 2004 |work=BBC News |accessdate=6 August 2007}}</ref> त्रयोदशाधिकद्विसहस्रतमे वर्षे जुलै-मासस्य षोडशे दिनाङ्के, नवीनतमः उपग्रहः हिप्पोकैम्पः, हबल्-दूरदर्शकस्य चित्राणां परीक्षणात् अन्विष्टः अभूत्।<ref>{{Cite news|date=2013-07-15|title=Nasa's Hubble telescope discovers new Neptune moon|language=en-GB|work=BBC News|url=https://www.bbc.com/news/science-environment-23318301|access-date=2021-06-13}}</ref>[[File:Neptune_and_Triton_with_their_sizes_and_distance_from_each_other_to_scale.png|thumb|वरुण-ग्रह-ट्रीटन-उपग्रहयोः यथार्थ-आकारौ प्रस्पर-दूरत्वं च।]]
[[File:Neptune's Dynamic Environment.webm|thumb|हबल-दूरदर्शकेन निकट-अवरक्ते गृहीतः वरुणग्रहस्य पञ्चदश-घण्टायाः कालविलम्बित-चलचित्रं तस्य उपग्रहः ट्रिटोनः स्पष्टतया दृश्यते, अन्ये च अतीव लघवः दृश्यन्ते।]]
{{multiple image
| align = center
| direction = horizontal
| header_align = center
| header = Moons
| image1 = Voyager 2 Neptune and Triton.jpg
| width1 = 220
| caption1 = वरुण-ग्रहः (उपरि) ट्रीटन-उपग्रहः (नीचैः) च
| image2 = Triton moon mosaic Voyager 2 (large).jpg
| width2 = 165
| caption2 = वोयेजर-द्वितीय-द्वारा ट्रीटन-उपग्रहस्य संयुक्त-चित्रम्
| image3 = Proteus (Voyager 2).jpg
| width3 = 165
| caption3 = प्रोटेय-उपग्रहः
}}
== निरीक्षणम् ==
वरुणग्रहः केवलं नग्ननेत्राभ्याम् आकाशे द्रष्टुं न शक्यते। तं द्रष्टुं दूरदर्शकस्य अथवा द्विनेत्र्याः आवश्यकता विद्यते।<ref name=":20" /> कारणम् यत् वरुणग्रहस्य प्रकाशः सदैव सप्त-सप्तदशमिक-तः अष्ट-शून्यदशमिक-पर्यन्तं मानके वर्तते।<ref name=":20">{{Cite journal|last1=Mallama|first1=A.|last2=Hilton|first2=J.L.|year=2018|title=Computing Apparent Planetary Magnitudes for The Astronomical Almanac|journal=Astronomy and Computing|volume=25|pages=10–24|doi=10.1016/j.ascom.2018.08.002|arxiv=1808.01973|bibcode=2018A&C....25...10M|s2cid=69912809}}</ref> वरुणग्रहः बृहस्पतेः गालिलीय-उपग्रहाणां, सीरिस्-नाम्नो वामनग्रहस्य, तथा च ४-वेस्ता, २-पल्लास्, ७-ऐरिस्, ३-जूनो, ६-हीबी इत्येतेषां नामकानां क्षुद्रग्रहाणां च तेजसा अभिभूतः भवितुं शक्नोति।<ref>कान्तिमानस्य विवरणाय सम्बद्धाः लेखाः दृश्यन्ताम्।</ref> दूरदर्शकः अथवा प्रबला द्विनेत्री वरुणग्रहम् अरुणग्रहसदृशं लघुनीलबिन्दुरूपेण प्रदर्शयति। अस्य नीलवर्णः तस्य वायुमण्डले स्थितात् प्रोदीन्यतः विद्यते।
<ref>{{cite book | title=The Data Book of Astronomy | url=https://archive.org/details/databookastronom01moor |last1=Moore|first1=Patrick |year=2000 |pages=[https://archive.org/details/databookastronom01moor/page/n215 207]| publisher=Taylor & Francis | isbn=9780750306201 }}</ref> रात्र्याकाशे तस्य लघु-आकारेण दृश्याध्ययनं दुष्करम् अभूत्। हबल्-अन्तरिक्ष-दूरदर्शकस्य तथा च अनुकूलनीय-प्रकाशिकी-युक्तानां बृहतां भू-आधारित-दूरदर्शकानाम् आगमनपर्यन्तम् अधिकांशं दूरदर्शकीयं विवरणम् अतीव सीमितम् अभूत्।<ref>{{Cite web|title=APOD: 2000 February 18 - Neptune through Adaptive Optics|url=https://apod.nasa.gov/apod/ap000218.html|access-date=10 May 2021|website=apod.nasa.gov}}</ref>
वरुणग्रहस्य सूर्यस्य च मध्ये मध्यमानं दूरत्वं प्रायः पञ्चाशदधिकचतुश्शतकोटि-किलोमीटर्-मितम् अस्ति।<ref name=":13" /> अतः वरुणग्रहः प्रति चतुःषष्ट्यधिकैकशतं वर्षाणि एकवारं स्वकीयां परिक्रमां पूरयति। एकादशाधिकद्विसहस्रतमे वर्षे जुलै-मासस्य द्वादशे दिनाङ्के, वरुणग्रहः षट्चत्वारिंशदधिकाष्टादशशततमे वर्षे स्वस्य अन्वेषणात् परं प्रथमां परिक्रमाम् पूरितवान् अभूत्।<ref>{{Cite web|last1=Gaherty|first1=Geoff|date=12 July 2011|title=Neptune completes first orbit since its discovery in 1846| url=https://www.space.com/12249-neptune-completes-orbit-discovery-1846.html|access-date=10 May 2021|website=Space.com|language=en}}</ref>
{{-}}
== अन्वेषणम् ==
[[File:Voyager.jpg|200px|thumb|right|वोयेजर-द्वितीय]]
साम्प्रतं केवलम् एकम् अन्तरिक्षयानं वरुणग्रहम् उपगतम् अस्ति। नासा-संस्थायाः 'वोयजर-द्वितीयम्' अन्वेषकयानम् एकोननवत्यधिकनवशतोत्तरसहस्रतमे वर्षे अगस्त-मासस्य पञ्चविंशे दिनाङ्के स्वस्य निकटतम-सम्पर्क-काले ग्रहस्य शीघ्रं पार्श्वगमनं कृतवत् अभूत्।<ref name=":2">{{Cite news|last=Chang|first=Kenneth|date=18 August 2014|title=Dark Spots in Our Knowledge of Neptune|language=en-US|work=The New York Times|url=https://www.nytimes.com/2014/08/19/science/dark-spots-in-our-knowledge-of-neptune.html|access-date=15 May 2021|issn=0362-4331}}</ref><ref>{{Cite web|title=Exploration {{!}} Neptune|url=https://solarsystem.nasa.gov/planets/neptune/exploration?page=0&per_page=10&order=launch_date+desc,title+asc&search=&tags=Neptune&category=33|access-date=15 May 2021|website=NASA Solar System Exploration}}</ref>
'वोयजर-द्वितीयस्य' महत्त्वपूर्णेषु अन्वेषणेषु अन्यतमं ट्रीटनस्य अतिनिकटं पार्श्वगमनम् अभूत्, यत्र तेन उपग्रहस्य कतिपयानां भागानां चित्राणि गृहीतानि अभूवन्।<ref>{{Cite web|last=Greicius|first=Tony|date=2015-02-17|title=Voyager Map Details Neptune's Strange Moon Triton|url=http://www.nasa.gov/jpl/voyager/triton-20140821|access-date=2021-06-11|website=NASA|archive-date=2021-03-09|archive-url=https://web.archive.org/web/20210309175358/https://www.nasa.gov/jpl/voyager/triton-20140821/|url-status=dead}}</ref> एकोननवत्यधिकनवशतोत्तरसहस्रतमे वर्षे 'वोयजर-द्वितीयेन' चित्राणि पृथ्वीं प्रति प्रतिप्रेषितानि अभूवन्। अन्वेषकयानेन बृहन् कृष्ण-बिन्दुः अपि अन्विष्टः अभूत्। किन्तु, चतुर्नवत्यधिकनवशतोत्तरसहस्रतमे वर्षे यदा हबल-दूरदर्शकेन वरुणग्रहस्य चित्राणि गृहीतानि, तदा सः अदृश्यः अभूत्। मूलतः सः बृहन्मेघः अथवा चक्रवातीय-वात्या-प्रणाली इति चिन्तितः अभूत्।<ref>{{Cite web|last=Steigerwald|first=Bill|date=2019-03-14|title=Hubble Tracks the Lifecycle of Giant Storms on Neptune|url=http://www.nasa.gov/feature/goddard/2019/neptune-storms|access-date=2021-06-11|website=NASA}}</ref> पश्चात् सः दृश्यमाने मेघपटले एकं रन्ध्रम् इति तर्कितः अभूत्।<ref>"[https://www.windows2universe.org/neptune/atmosphere/N_clouds_GDS.html Neptune's Great Dark Spot of 1989]" Windows to the Universe</ref>
=== प्रस्तावितप्रयोजनानि ===
* शेनसुवो-यानम् (अन्तस्तारकीय-यानम् इति पूर्वं कथितम्) — चीन-राष्ट्रिय-अन्तरिक्ष-प्रशासनेन सूर्यमण्डलस्य अन्वेषणार्थं प्रेषितम् अन्वेषकयान-द्वयम्। तयोः द्वितीयं यानम् अष्टत्रिंशदधिक-द्विसहस्रतमे वर्षे वरुणग्रहस्य सहस्र-किलोमीटर्-परिमिते समीपे आगमिष्यति।<ref name="Planetary">Jones, Andrew (November 19, 2019). [https://www.planetary.org/articles/china-voyager-like-interstellar-mission China Considers Voyager-like Mission to Interstellar Space]. Retrieved 28 August, 2021</ref>
* ओडिनः — इदम् अभियानं वरुण-अरुण-ग्र-तन्त्रयोः अध्ययनार्थम् अन्तरिक्षयानद्वयम् उपयोक्ष्यते। अस्य प्रक्षेपणं चतुस्त्रिंशदधिक-द्विसहस्रतमे वर्षे भविष्यति।<ref>{{cite web|url=http://odinus.iaps.inaf.it/|title=Origins, Dynamics and Interiors of Neptunian and Uranian Systems|access-date=5 August 2015|accessdate=12 September 2025|archive-date=24 May 2015|archive-url=https://web.archive.org/web/20150524120539/http://odinus.iaps.inaf.it/|deadurl=yes}}</ref><ref>{{cite web|url=https://medium.com/the-physics-arxiv-blog/astronomers-make-the-case-for-a-mission-to-neptune-and-uranus-d438f4d6d75c| title=Astronomers Make the Case for a Mission to Neptune and Uranus| website=The Physics arXiv Blog| date=17 February 2014| publisher=[[arXiv]]| access-date=5 August 2015}}</ref>
* बाह्यसौरमण्डलीयम् अभियानम् इदं यूरोपीयान्तरिक्ष-संस्थायाः तथा नासा-संस्थायाः च एकम् संयुक्तम् अभियानम् अस्ति। अस्य लक्ष्यं गभीरे अन्तरिक्षे गुरुत्वाकर्षणक्षेत्राणां मानचित्रणं वर्तते, यस्मिन् बाह्यसौरमण्डलम् (पञ्चाशत् खगोलमात्रक-पर्यन्तम्) अपि अन्तर्भवति।<ref>{{cite journal| title=OSS (Outer Solar System): a fundamental and planetary physics mission to Neptune, Triton and the Kuiper Belt| journal=Experimental Astronomy| volume=34| issue=2| pages=203–42| date=October 2012| author=Christophe| display-authors=etal|arxiv = 1106.0132 |bibcode = 2012ExA....34..203C |doi = 10.1007/s10686-012-9309-y | s2cid=55295857}}</ref>
* ट्रीटन-उत्प्लावित्रम् — इदं नासा-उन्नत-अवधारणा-संस्थानस्य वरुणग्रहं प्रति एकस्य अभियानस्य योजना-प्रारूपम् अस्ति, यस्य उद्देश्यः वरुणग्रहस्य उपग्रहे ट्रीटने अवतरणं ततः परं च बहुषु स्थानेषु उड्डयनम् अस्ति।<ref name='Oleson 2015'>{{cite web |url=https://www.nasa.gov/feature/triton-hopper-exploring-neptunes-captured-kuiper-belt-object/ |title=Triton Hopper: Exploring Neptune's Captured Kuiper Belt Object |date=7 May 2015 |author=Steven Oleson |publisher=NASA Glenn Research Center |access-date=11 February 2017 }}</ref>
* ट्रीटन-उत्प्लवकः — इदं नासा-उन्नत-अवधारणा-संस्थानस्य वरुणग्रहं प्रति एकस्य अभियानस्य योजना-प्रारूपम् अस्ति, यस्य उद्देश्यः वरुणग्रहस्य उपग्रहे ट्रीटने अवतरणं ततः परं च बहुषु स्थानेषु उड्डयनम् अस्ति।<ref>{{cite web |url=https://www.nytimes.com/2019/03/19/science/triton-neptune-nasa-trident.html |title=Neptune's Moon Triton Is Destination of Proposed NASA Mission |work=New York Times |date=2019-03-19 |access-date=27 March 2019}}</ref>
* वरुण-ग्रहायणम् — वरुणग्रहस्य वायुमण्डलं, वातावरणं, तस्य च ट्रीटन-उपग्रहं निरीक्षितुं नासा-संस्थायाः एकस्य अभियानस्य परिकल्पना अस्ति। अस्य प्रक्षेपणं त्रयस्त्रिंशदधिक-द्विसहस्रतमे वर्षे भविष्यति, तथा च एकोनपञ्चाशदधिक-द्विसहस्रतमे वर्षे इदं वरुणग्रहं प्राप्स्यति।<!--Not simple: the current mission idea for a Neptune orbiter and atmospheric probe is being studied as a possible large strategic science mission by NASA that would launch in 2033 and arrive at Neptune in 2049.--><ref name="Rymer">{{cite web |author1=Abigail Rymer |author2=Brenda Clyde |author3=Kirby Runyon |title=Neptune Odyssey: Mission to the Neptune-Triton System |url=https://science.nasa.gov/science-pink/s3fs-public/atoms/files/Neptune%20Odyssey.pdf |access-date=18 April 2021 |date=August 2020 |archive-date=15 December 2020 |archive-url=https://web.archive.org/web/20201215003151/https://science.nasa.gov/science-pink/s3fs-public/atoms/files/Neptune%20Odyssey.pdf |url-status=dead }}</ref>
== स्रोताः ==
{{reflist}}
<references group="lower-alpha"/>
gbwwy1b3dak0d5nisoxiibexaifb7mp
सदस्यसम्भाषणम्:क्शत्रिय
3
92199
499081
2026-05-04T18:01:25Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
499081
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=क्शत्रिय}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १८:०१, ४ मे २०२६ (UTC)
2q8avp8h9jt38pcjyaoxpul6kuev9g0
सदस्यसम्भाषणम्:Ramnathshivendra
3
92200
499083
2026-05-05T04:42:08Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
499083
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Ramnathshivendra}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०४:४२, ५ मे २०२६ (UTC)
bf367d2z6uxu02z87a5cdbv60sa60f8