विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.6
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
सुभाषचन्द्र वसु
0
1261
499498
499185
2026-06-13T21:00:17Z
CommonsDelinker
200
Removing [[:c:File:Netaji_Subhas_Chandra_Bose’s_125th_Birth_Anniversary_stamp.jpg|Netaji_Subhas_Chandra_Bose’s_125th_Birth_Anniversary_stamp.jpg]], it has been deleted from Commons by [[:c:User:Túrelio|Túrelio]] because: [[:c:COM:L|Copyright violation]]:
499498
wikitext
text/x-wiki
{{नेता
|name= सुभाष चन्द्र वसु
Subhas Chandra Bose
|image = Subhas Chandra Bose.jpg
|caption= सुभाष चन्द्र वसु
|birth_date= २३ पूर्वमाघः १८९७
|birth_place= [[कटकम्]], [[ओड़िशा]]
|birth_name=
|death_date= १८ श्रावणः १९४५
|death_place= तैवान्
|birth_state= आङ्ग्लभारतम्
|ideology= समाजवादः
|party= फ़ार्वर्ड ब्लाक
|religion= [[हिन्दुधर्मः]]
|quote= तुम मुझे खून दो, मैं तुम्हे आज़ादी दूँगा!
''' त्वं मे रक्तं यच्छ, अहं ते स्वातन्त्र्यं दास्यामि ।'''

'''सुभाष चन्द्र वसु''' ({{lang-bn|সুভাষচন্দ্র বসু}} , १८९७-१९४५) विश्वस्मिन् '''नेताजी''' इति प्रसिद्धः । सः [[भारतम्|भारतभूमेः]] स्वतन्त्र्यार्थं प्राणार्पणम् अकरोत् । सः बाल्यकालादेव बुद्धिमान् आसीत् । तस्य पिता आङ्लशासनस्य समर्थकः परन्तु सुभाषः बाल्यकालादेव आङ्लशासनस्य विरोधी आसीत् । सुभाषः स्वतन्त्रभारतम् ऐच्छत्।

[[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्धे]] सः [[आज़ादहिन्दफ़ौज़|आज़ादहिन्दफ़ौज़स्य]] [[सेनापतिः|सर्वोच्चसेनापतिः]] आसीत् । रासबिहारीवसुः सुभाषाय दक्षिणोत्तरजम्बुद्वीपस्य क्रान्तेः नेतृत्वम् अयच्छत् । सः दक्षिणोत्तरजम्बुद्वीपात् पूर्वोत्तरभारते आङ्गलराज्ये आक्रमणम् अकरोत् ।
=बाल्यकालः विद्यार्थिजीवनं च=
[[ओड़िशा|ओड़िशायाः]] प्रसिद्धनगरे [[कटकम्|कटके]] सः अजायत । तस्य पितुः नाम जानकीनाथः, मातुः नाम प्रभावती च ।

सुभाषस्य कुटुम्बः विशालः आसीत् । कुटुम्बे १४ बालाः आसन् । पञ्चमे वयसि सुभाषः कटकस्य आङ्गलभाषाविद्यालयं प्राविशत् । विद्यालयस्य दृष्टिः आङ्गलजनानां दृष्टिः इव एव आसीत् । तत्र विद्यमानं जातीयभेदभावं सः न असहत । तत्र आङ्गलबालकानां स्थानं भारतस्य बालकानां स्थानस्य अपेक्षया उच्चतरम् आसीत् । ततः सः भारतीयविद्यालयं प्राविशत् । विद्यालयस्य प्रधानः बेनीमाधवः सुभाषस्य मनसि महान्तं प्रभावम् अजनयत् ।
१५ वयसि सुभाषः [[स्वामी विवेकानन्दः|विवेकानन्दस्य]] विचारधारातः प्रभावितः जातः । १६ वयसि सुभाषः मैट्रिक्-परीक्षाम् उत्तीर्णः । तत्पश्चात् सः आङ्ग्लदेशे आई०सी०एस्० परीक्षामपि उत्तीर्णवान् ।
=राजनैतिकक्षेत्रे प्रवेशः=
चित्तरञ्जनदासः सुभाषस्य [[राजनीतिः|राजनीतेः]] गुरुः आसीत्। १९२३ तमे वर्षे सः अखिलभारतीययुवाकाङ्ग्रेसस्य अध्यक्षः अभवत् । सः देशबन्धुनामकस्य [[समाचारपत्रम्|समाचारपत्रस्य]] सम्पादकः अपि अभवत् । १९२५ तमे वर्षे सः कारागृहवासी जातः ।

१९२७ तमे वर्षे सः कारागृहात् मुक्तः जातः । अग्रिमेषु वर्षेषु सः [[यूरोप्|फिरङ्गद्वीपे]] अभ्रमत् । १९३८ तमे वर्षे सः काङ्ग्रेसपक्षस्य अध्यक्षः अभवत् ।
==विचारधारा==
युद्धेनैव भारतस्य स्वातन्त्र्यप्राप्तिः इत्येषा आसीत् तस्य विचारधारा । अतः [[महात्मा गान्धिः]] तस्य विरोधी आसीत् । गान्धेः विरोधेन सः काङ्ग्रेसपक्षस्य अध्यक्षपदात् निष्क्रान्तः जातः । सः समतावादी प्रभावशाली क्रान्तिकारी नेता च आसीत् ।
सुभाषः इव अन्ये अपि समकालीननेतारः रूसस्य क्रान्तिविचारात् प्रभाविताः अभवन् ।
=द्वितीयविश्वयुद्धम्=
[[चित्रम्:Bundesarchiv Bild 101III-Alber-064-03A, Subhas Chandra Bose bei Heinrich Himmler.jpg|thumb|right|200px|सुभाषः नाज़ीअफ़सरेण समम् अतिष्ठत्।]]
[[चित्रम्:Greater East Asia Conference.JPG|thumb|left|200px|]]
तत्पश्चात् सः [[फ़ार्वर्ड ब्लाक|फ़ार्वर्ड ब्लाकस्य]] नाम्नः [[राजनैतिकदलं|राजनैतिकदलम्]] अघटयत् । [[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्धे]] सः [[अफघानिस्तान|अफ़गानिस्तानस्य]] रूसस्य च मार्गेण जर्मनीम् अगच्छत्। तत्र सः [[ऐडॉल्फ़ हिटलर|हिटलरस्य]] समर्थनात् भारतस्य युद्धबद्धान् [[सेना]] अघटयत् । शनैः शनैः सः आनुभवत् जर्मन्याः [[युद्धम्|युद्धे]] विजयः न सम्भवति। तदा एव सः रासबिहारी वसुस्य संदेशम् लभते। संदेशः दक्षिणोत्तर जम्बुद्वीपस्य भारतस्य स्वातन्त्र्यान्दोलनस्य नेतृत्वस्य प्रार्थना आसीत्। तत्पश्चात् सः नाज़ीआज्ञात् ब्रुडनवात् जापानं अगच्छत्। तत्र जापानस्य प्रधानमन्त्री [[सेनापति]] तोजो सुभाषेण आकर्षणं अकरोति। तोजो सुभाषस्य मित्र: अभवत्। तत्पश्चात् सः [[सिंगापोर|सिंगापोरम्]] अगच्छत्। तत्र सः [[आज़ादहिन्दफ़ौज़|आज़ादहिन्दफ़ौज़स्य]] भारतस्य स्वातन्त्र्यसंघस्य च नेता अभवत्।
सुभाषः अति प्रभावशाली नेता आसीत्। अतः सर्वेषाम् जनानाम् सेनाम् प्रति असङ्गच्छत्। सुभाषः तेन अवदत्- "यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।"
==युद्धम् स्वर्गवासः च==
[[चित्रम्:Andaman Islands.PNG|thumb|right|200px|अण्डमान द्वीपमाला दृश्य]]
[[चित्रम्:आज़दहिन्दफ़ौज़स्य सैन्ययात्रा.jpg|thumb|left|200px|आज़ादहिन्दफ़ौज़स्य सैन्ययात्रायाः दृश्यम्]]
[[जापान|जापानस्य]] सैनिकैः सह आज़ादहिन्दफ़ौज़ः भारतस्य सीमायाम् आक्रमणम् अकरोत्। जापानम् अण्डमान-निकोबार द्वीपसमूहम् अत्रान्तरे अजयत्। तत्पश्चात् इदम् स्वतन्त्रभारतस्य प्रथम राज्य अभवत्।

सुभाषस्य सेनायाः अधुना मणिपुरस्य कोहीमायाः निकटम् आसीत्। तत्र मित्रराष्ट्रानाम् सेना आज़ादहिन्दफ़ौज़म् जापानस्य सेनाम् जयति। तत्पश्चात अमेरीका जापाने अण्वस्त्रस्य प्रयोगम् अकरोत्। अतः जापानम् स्व पराजयम् आदत्ते।
परन्तु आज़ादहिन्दफ़ौज़ः स्व पराजयम् आदत्ते! सुभाषः विमानात् रूसम् गमतुम् अइच्छत्। परन्तु विमानदुर्घाटनया स्वर्गवासं अभवत्। अतः अधुना आज़ादहिन्दफ़ौज़ः अपि समर्पणम् अकरोत्। परन्तु अखिलभारतस्य विरोधेण अङ्गलसरकार आज़ादहिन्दफ़ौज़स्य सैनिकाः मुक्तम अकरोत्।
[[चित्रम्:Atomic cloud over Hiroshima - NARA 542192 - Edit.jpg|thumb|bottom|200px|]]
==स्वाधीनतायां योगदानम्==
भारतस्य स्वाधीनतायां सुभाषस्य योगदानम् अद्वितीयम् अस्ति । केचित् बुधाः अवदन् यत् सुभाषस्य भयात् एव भारतं स्वाधीनतां प्राप्नोत् इति ।
=== स्मरणचिह्नानि ===
वसुः भारते १९६४ च १९९३ च १९९७ च २००१ च २०१६ च २०१८ च २०२१ च वर्षेभ्यः मुद्रापत्रेषु अपि दृश्यते स्म।<ref>{{Cite web|url=https://commons.wikimedia.org/wiki/Category:Subhas Chandra Bose|title=विकिपीडियायाः स्रोतम्}}</ref> वसुः १९९६ तमे वर्षे च १९९७ तमे वर्षे च ₹२ मुद्रासु तथा २०१८ तमे वर्षे ₹७५ मुद्रायां तथा २०२१ तमे वर्षे ₹१२५ मुद्रायाम् अपि दृश्यते स्म।<ref>{{Cite web|url=https://www.telegraphindia.com/jharkhand/fan-of-netaji-subhas-chandra-bose-with-error-coin-in-pocket/cid/1682378|title=सुभाषस्य प्रशंसकः}}</ref>
कोलकातानगरस्य सुभाषचन्द्रवसुान्तर्राष्ट्रीयविमानस्थानकं च नेताजीसुभाषचन्द्रवसुद्वीपः इत्यादीनि भारतस्य अनेकानि संस्थानि तस्य नामधेयम् अस्ति । २००७ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के जापानदेशस्य प्रधानमन्त्री शिञ्जो अबे कोलकातानगरस्य सुभाषचन्द्रवसुस्मारकभवनं गतवान् । <ref name=":0">{{Cite web|url=http://www.hindu.com/2007/08/24/stories/2007082453761500.htm|title=द हिन्दू २००७ तमस्य वर्षस्य|accessdate=2022-09-09|archive-date=2012-01-12|archive-url=https://web.archive.org/web/20120112091206/http://www.hindu.com/2007/08/24/stories/2007082453761500.htm|deadurl=yes}}</ref>
अबे यः नेताजीपुरस्कारः २०२२ प्राप्तः अपि अस्ति<ref>{{Cite web|url=https://m.economictimes.com/news/india/ex-japan-pm-shinzo-abe-given-netaji-award-2022/articleshow/89072417.cms|title=शिञ्जो नेताजीपुरस्कारं प्राप्नोति}}</ref> स वसुस्य परिवाराय अवदत् जापानीजनाः वसुस्य दृढेच्छाशक्तिं दृष्ट्वा अतीव प्रभाविताः सन्ति यत् ते ब्रिटिशशासनात् भारतीयस्वतन्त्रतान्दोलनस्य नेतृत्वं कृतवान् इति च जापानदेशे नेताजी बहु सम्माननीयं नाम अस्ति इति।<ref name=":0" />
२०२१ तमे वर्षे सुभाषचन्द्रवसुस्य जन्मदिवसस्य स्मरणार्थं भारतसर्वकारेण २३ जनवरी दिनाङ्कः पराक्रमदिवस इति घोषितः । राजनैतिकदलौ तृणमूलकाङ्ग्रेस् च अखिलभारतस्य फ़ोर्वडब्लोक च अस्य दिवसस्य देशप्रेमदिवसः इति आचरणं करणीयम् इति आग्रहं कृतवन्तौ। <ref>{{Cite web|url=https://www.thehindu.com/news/national/political-row-over-centres-decision-to-celebrate-netajis-birth-anniversary-as-parakram-diwas/article33612822.ece|title=पराक्रमदिवसाय विपक्षस्य प्रतिक्रिया}}</ref>
इण्डियागेट् इत्यत्र ग्रैण्डकैनोपी नाम मण्डपे वसुस्य १२५ तमे जन्मदिवसस्य कृते वसुस्य होलोग्राफिक् प्रतिमा स्थापिता आसीत्।<ref>{{Cite web|url=https://entertainmentflashreport.blogspot.com/2022/09/on-netajis-125th-birth-anniversary.html?m=1|title=होलोग्राफिक् प्रतिमायाः विवरणम्}}</ref> अनन्तरं २०२२ तमस्य वर्षस्य सिप्तम्बर् मासे होलोग्राफिक् प्रतिमायाः स्थाने स्थायिग्रन्थिकप्रतिमा स्थापिता जाता। अस्मिन् एव दिवसे राजपथस्य नाम कर्तव्यपथः इति कृतं यतः उपनिवेशवादस्य सर्वाणि चिह्नानि अपसारणीयानि इति कृतसङ्कल्पः अस्ति। अस्याः निर्माता मैसुरुनगरस्य अरुणयोगीराजः अस्ति। अस्याः निर्माणं २८० टन् परिमितात् अखण्डात् ग्रन्थिकप्रस्तरात् अभवत्। एषा २८ पादाः उच्चतमा तथा ६५ टन् गुरुतमा अस्ति।<ref>{{Cite web|url=https://m.jagranjosh.com/general-knowledge/all-you-need-to-know-about-the-subhas-chandra-bose-statue-at-india-gate-1662653205-1|title=प्रतिमायाः विवरणम्}}</ref>
[[सञ्चिका:A Stamp of Subhas Chandra Bose.jpg|चित्रपाठ्यम्=सुभाषचन्द्रवसुस्य पत्रटङ्कः|लघुचित्रम्|सुभाषस्य मुद्रापत्रम्]]
[[सञ्चिका:The Prime Minister, Shri Narendra Modi unveils the statue of Netaji Subhas Chandra Bose at India Gate, during the inauguration of the ‘Kartavya Path’, in New Delhi on September 08, 2022 (1).jpg|चित्रपाठ्यम्=नरेन्द्रमोदी सुभाषचन्द्रवसुस्य प्रतिमायाः उद्घाटनं कुर्वन् अस्ति|लघुचित्रम्|प्रधानमन्त्री सुभाषचन्द्रस्य प्रतिमायाः उद्घाटनं करोति।]]
{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
{{Bengal Renaissance}}
[[वर्गः:भारतीयस्वातन्त्र्ययोधाः]]
[[वर्गः:पश्चिमवङ्गस्य क्रान्तिकारिणः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
ro7lcweewgb8c9mqi86trfy1xoyj6i5