विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.46.0-wmf.22
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
रामायणम्/बालकाण्डम्/सर्गः १
0
214
415571
322147
2026-04-01T10:09:26Z
~2026-20081-49
10392
415571
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous =
| next = [[रामायणम्/बालकाण्डम्/सर्गः २|सर्गः २]]
| notes =
}}
[[File:Kanda 1 BK-001-Samksheparamayanam.ogg|thumb|प्रथमः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
<poem>
श्रीमद्वाल्मीकीयरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥
तपः स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१-१-१॥
को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥१-१-२॥
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥१-१-३॥
आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥१-१-४॥
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥१-१-५॥
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥१-१-६॥
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥१-१-७॥
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥१-१-८॥
बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छ्त्रुनिबर्हणः ।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥१-१-९॥
महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥१-१-११॥
धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ॥१-१-१२॥
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥१-१-१३॥
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१-१-१४॥
सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् ।
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥१-१-१५॥
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥१-१-१६॥
स च सर्व गुणोपेतः कौसल्यानन्दवर्धनः ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥१-१-१७॥
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥१-१-१८॥
धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ॥१-१-१९॥
ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् ।
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥१-१-२०॥
यौवराज्येन संयोक्तुम् ऐच्छत्प्रीत्या महीपतिः ।
तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ॥१-१-२१॥
पूर्वं दत्तवरा देवी वरमेनमयाचत ।
विवासनञ्च रामस्य भरतस्याभिषेचनम् ॥१-१-२२॥
स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ॥१-१-२३॥
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥१-१-२४॥
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥१-१-२५॥
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ।
रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥१-१-२६॥
जनकस्य कुले जाता देवमायेव निर्मिता ।
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥१-१-२७॥
सीताप्यनुगता रामं शशिनं रोहिणी यथा ।
पौरैरनुगतो दूरं पित्रा दशरथेन च ॥१-१-२८॥
शृङ्गवीरपुरे सूतं गङ्गाकूले व्यसर्जयत् ।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥१-१-२९॥
गुहेन सहितो रामो लक्ष्मणेन च सीतया ।
ते वनेन वनङ्गत्वा नदीस्तीर्त्वा बहूदकाः ॥१-१-३०॥
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥१-१-३१॥
देवगन्धर्वसंकाशाः तत्र ते न्यवसन् सुखम् ।
चित्रकूटङ्गते रामे पुत्रशोकातुरस्तथा ॥१-१-३२॥
राजा दशरथस्स्वर्गं जगाम विलपन् सुतम् ।
गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥१-१-३३॥
नियुज्यमानो राज्याय नैच्छत् राज्यं महाबलः ।
स जगाम वनं वीरो रामपादप्रसादकः ॥१-१-३४॥
गत्वा तु स महात्मानं रामं सत्यपराक्रमम् ।
अयाचद्भ्रातरं रामम् आर्यभावपुरस्कृतः ॥१-१-३५॥
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।
रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥१-१-३६॥
न चैच्छत् पितुरादेशात् राज्यं रामो महाबलः ।
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥१-१-३७॥
निवर्तयामास ततो भरतं भरताग्रजः ।
स काममनवाप्यैव रामपादावुपस्पृशन् ॥१-१-३८॥
नन्दिग्रामेऽकरोद् राज्यं रामागमनकाङ्क्षया ।
गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥१-१-३९॥
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥
प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥१-१-४१॥
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥१-१-४२॥
खड्गञ्च परम प्रीतस्तूणी चाक्षयसायकौ ।
वसतस्तस्य रामस्य वने वनचरैः सह ॥१-१-४३॥
ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् ।
स तेषां प्रतिशुश्राव राक्षसानां तदा वने ॥१-१-४४॥
प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् ।
ऋषीणामग्निकल्पानां दण्डकारण्यवासीनाम् ॥१-१-४५॥
तेन तत्रैव वसता जनस्थाननिवासिनी ।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥१-१-४६॥
ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥१-१-४७॥
निजघान रणे रामस्तेषां चैव पदानुगान् ।
वने तस्मिन् निवसता जनस्थाननिवासिनाम् ॥१-१-४८॥
रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥१-१-४९॥
सहायं वरयामास मारीचं नाम राक्षसम् ।
वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥
न विरोधो बलवता क्षमो रावण तेन ते ।
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥१-१-५१॥
जगाम सहमारीचस्तस्याश्रमपदं तदा ।
तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥१-१-५२॥
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।
गृध्रञ्च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥१-१-५३॥
राघवः शोकसंतप्तो विललापाकुलेन्द्रियः ।
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥१-१-५४॥
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ।
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥१-१-५५॥
तन्निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।
स चास्य कथयामास शबरीं धर्मचारिणीम् ॥१-१-५६॥
श्रमणां धर्मनिपुणामभिगच्छेति राघव ।
सोऽभ्य गच्छन्महातेजाः शबरीं शत्रुसूदनः ॥१-१-५७॥
शबर्या पूजितः सम्यग् रामो दशरथात्मजः ।
पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥१-१-५८॥
हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥१-१-५९॥
आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः ।
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥१-१-६०॥
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।
ततो वानरराजेन वैरानुकथनं प्रति ॥१-१-६१॥
रामायावेदितं सर्वं प्रणयात् दुःखितेन च ।
प्रतिज्ञातञ्च रामेण तदा वालिवधं प्रति ॥१-१-६२॥
वालिनश्च बलं तत्र कथयामास वानरः ।
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥१-१-६३॥
राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।
दर्शयामास सुग्रीवः महापर्वतसन्निभम् ॥१-१-६४॥
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्ति महाबलः ।
पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥१-१-६५॥
बिभेद च पुनस्सालान् सप्तैकेन महेषुणा ।
गिरिं रसातलञ्चैव जनयन् प्रत्ययं तथा ॥१-१-६६॥
ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः ।
किष्किन्धां रामसहितो जगाम च गुहां तदा ॥१-१-६७॥
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।
तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥
अनुमान्य तदा तारां सुग्रीवेण समागतः ।
निजघान च तत्रैनं शरेणैकेन राघवः ॥१-१-६९॥
ततः सुग्रीववचनात् हत्वा वालिनमाहवे ।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥
स च सर्वान् समानीय वानरान् वानरर्षभः ।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥१-१-७१॥
ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली ।
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥१-१-७२॥
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।
ददर्श सीतां ध्यायन्तीम् अशोकवनिकां गताम् ॥१-१-७३॥
निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च ।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥१-१-७४॥
पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥१-१-७५॥
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात् ।
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥१-१-७६॥
ततो दग्ध्वा पुरीं लङ्काम् ऋते सीताञ्च मैथिलीम् ।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥१-१-७७॥
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥१-१-७८॥
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।
समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥१-१-७९॥
दर्शयामास चात्मानं समुद्रः सरितां पतिः ।
समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥१-१-८०॥
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।
रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥१-१-८१॥
तामुवाच ततो रामः परुषं जनसंसदि ।
अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥१-१-८२॥
ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम् ।
कर्मणा तेन महता त्रैलोक्यं सचराचरम् ॥१-१-८३॥
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥
बभौ रामः सम्प्रहृष्टः पूजितः सर्वदेवतैः ॥१-१-८४॥
अभ्यषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥१-१-८६॥
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ।
भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ॥१-१-८७॥
पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।
पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ॥१-१-८८॥
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः ।
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥१-१-८९॥
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥१-१-९०॥
न पुत्रमरणं केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥१-१-९१॥
न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः ।
न वातजं भयं किञ्चित् नापि ज्वरकृतं तथा ॥१-१-९२॥
न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।
नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥१-१-९३॥
नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा ।
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥१-१-९४॥
गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् ।
असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः ॥१-१-९५॥
राजवंशान् शतगुणान् स्थापयिष्यति राघवः ।
चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥१-१-९७॥
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते ॥१-१-९८॥
एतदाख्यानमायुष्यं पठन् रामायणं नरः ।
सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥
पठन् द्विजो वागृषभत्वमीयात् ।
त् क्षत्रियो भूमिपतित्वमीयात् ॥
वणिक् जनः पण्यफलत्वमीयात् ।
जनश्च शूद्रोऽपि महत्त्वमीयात् ॥१-१-१००॥
</poem>
'''इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥१-१॥
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
fedcvn99wssyl7potwit1bsjxa87qzq
सदस्यः:V(g)
2
25211
415570
415555
2026-03-31T21:32:16Z
EmausBot
3495
स्थानांतरित लक्ष्य [[सदस्यः:G(x)-former]] पृष्ठ पर टूटी हुई रीडायरेक्ट को ठीक करना।
415570
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यः:G(x)-former]]
9vhg30k1e6nvvz0wv8aqv2lym7zg53g
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२८०
104
104687
415568
267647
2026-03-31T12:26:31Z
Geeta g hegde
6704
415568
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|२४६|मनुस्मृतिः।|[ अध्यायः ७}}</noinclude>
{{gap}}एतच्च घण्टे 'प्रियेषु स्वेषु सुकृतम्' इत्यत्राविष्कृतमस्माभिः । 'पराङ्मुखहतस्य स्या-
लापमेतद्विवक्षितम् । न त्वत्र प्रभुपापं स्यादिति गोविन्दराजकः ॥ मेधातिथिस्त्व-
र्थवादमात्रमेतन्निरूपयन् । मन्ये नैतद्वयं युक्तं व्यक्तमन्वर्थवर्जनात्' । 'अन्य-
दीयपुण्यपापेऽन्यत्र संक्रमेते' इति शास्त्रप्रामाण्याद्वेदान्तसूत्रकृता बादरायणेन
निर्णीतोऽयमर्थ इति यथोक्तमेव रमणीयम् ॥ ९४ ॥
{{Block center|{{bold|<poem>यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम् ।
भर्ता तत्सर्वमादत्ते परावृत्तहतस तु ॥ ९५ ॥</poem>}}}}
{{gap}}यञ्चेत्यादि । पराङ्मुखहतस्य यत्किंचित्सुकृतं परलोकार्थमर्जितमनेनास्ति तत्सर्व
भुर्लभते ॥ ९५ ॥
{{gap}}राज्ञः स्वामिनः सर्वधनग्रहगे प्राप्ते तदपवादार्थमाह-
{{Block center|{{bold|<poem>स्थाश्वं हस्तिनं छत्रं धनं धान्यं पशून्त्रियः।
सर्वद्रव्याणि कुप्यं च यो यजयति तस्य तत् ॥ ९६॥</poem>}}}}
{{gap}}रधाश्वमित्यादि ॥ रथाश्वहस्तिछत्रवस्त्रादि, धनधान्यगवादि, दास्यादि, स्त्रियः,
सर्वाणि द्रव्याणि गुडलवणादीनि, कुप्यं च सुवर्णरजतव्यतिरिक्तं ताम्रादि धनं, यः
पृथग्जिन्या सततं गृहमानयति तस्यैव तद्भवति । सुवर्णरजतभूमिरत्नाद्यनपकृष्टधनं
दु राज्ञ एव समर्पणीयं एतदर्थमेवान परिगणनीयम् ॥ ९६ ॥
{{gap}}अत एवाह-
{{Block center|{{bold|<poem>राज्ञश्च दबुरुद्धारमित्येषा वैदिकी श्रुतिः।
राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥ ९७ ॥</poem>}}}}
{{gap}}राज्ञ इत्यादि ॥ उद्धारं योद्धारो राज्ञे दद्युः । उद्रियत इत्युद्धारः। जितधनादु-
कृष्टधनं सुवर्णरजतकुप्यादि राज्ञे समर्पणीयं । करितुरगादि वाहनमपि राज्ञे देयम्।
'वाहनं च राज्ञ उद्धारं च' इति गोतमवचनात् । उद्धारदाने च श्रुतिः 'इन्द्रो वै वृत्रं
हत्वा' इत्युपक्रम्य स महान्भूत्वा देवता अब्रवीदुद्धारं समुद्धरत' इति । राज्ञा
बाटथग्जितं सह जितं सर्वयोधेभ्यो यथापौरुषं संविभजनीयम् ॥ ९७ ॥
{{Block center|{{bold|<poem>एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः ।
अस्माद्धर्मान्न च्यवेत क्षत्रियो नत्रणे रिपून ॥ ९८ ॥</poem>}}}}
{{gap}}पुष इत्यादि । अविगर्हित एपोऽनादिसर्गप्रवाहसंभवतया नित्यो योधधर्म
उक्तः । युद्धे शत्रून्हिसन्झंत्रिय एतं धर्म न त्यजेत् । युद्धाधिकारित्वात्क्षत्रियग्रह-
गम् । अन्योऽपि तत्स्थानपतितो न त्यजेत् ॥ ९८ ॥
{{Block center|{{bold|<poem>अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः।
रक्षितं वर्धयेचैव वृद्धं पात्रेषु निःक्षिपेत् ॥ ९९ ॥</poem>}}}}<noinclude></noinclude>
e01ele8yqhkbelzu13jvb2ewyr81nwa
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२८१
104
104688
415569
267648
2026-03-31T12:35:14Z
Geeta g hegde
6704
415569
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|left=अध्यायः ७]|center=मन्वथमुक्तावलासवालता ।|right=२४७}}</noinclude>
{{gap}}अलब्धमिति ॥ अजितं भूमिहिरण्यादि जेतुमिच्छेत् । जितं प्रयत्नतो रक्षेत् ।
रक्षितं च वाणिज्यादिना वर्धयेत् । वृद्धं च पात्रेभ्यो दद्यात् ॥ ९९ ॥
{{Block center|{{bold|<poem>एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम् ।
अस्य नित्यमनुष्ठानं सम्यकुर्यादतन्द्रितः॥१०॥</poem>}}}}
{{gap}}एतदिति ॥ एतच्चतुःप्रकारं पुरुषार्थों यः स्वर्गादिस्तत्प्रयोजनं यस्मादेवंरूपं
जानीयात् । अतोऽनलसः सन्सर्वदानुष्टानं कुर्यात् ॥ १० ॥
{{Block center|{{bold|<poem>अलब्धमिच्छेदण्डेन लब्धं रक्षेदवेक्षया ।
रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निःक्षिपेत् ॥ १०१ ॥</poem>}}}}
{{gap}}अलब्धमिति ॥ अलब्धं यद्धस्त्यश्वरथपादातात्मकेन दण्डेन जेतुमिच्छेत् । जितं
च प्रत्यवेक्षणेन रक्षेत् । रक्षितं च बुधुपायेन स्थलजलपथवाणिज्यादिना वर्धयेत् ।
वृद्धं शास्त्रीयविभागेन पात्रेभ्यो दद्यात् ॥ १०१ ॥
{{Block center|{{bold|<poem>नित्यमुद्यतदण्डः स्यानित्यं विकृतपौरुपः।
नित्यं संवृतसंवार्यो नित्यं छिद्रानुसायरेः॥ १०२ ॥</poem>}}}}
{{gap}}नित्यमिति ॥ नित्यं हस्त्यश्वादियुद्धादिशिक्षाभ्यासो दण्डो यस्य स तथा स्यात् ।
नित्यं च प्रकाशीकृतमस्त्रविद्यादिना पौरुषं यस्य स तथा स्यात् । नित्यं संवृतं संव-
रणीयं मन्त्राचारचेष्टादिकं यस्य स तथा स्यात् । नित्यं च शत्रोर्व्यसनादिरूपा...
द्रानुसंधानं तत्परः स्यात् ॥ १०२ ॥
{{Block center|{{bold|<poem>नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् ।
तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ १०३ ॥</poem>}}}}
{{gap}}नित्यमिति ॥ यस्मानित्योद्यतदण्डस्य जगदुद्विजेदिति तस्मात्सर्वप्राणिनो दण्डे-
नैवात्मसात्कुर्यात् ॥ १०३ ॥
{{Block center|{{bold|<poem>अमाययैव वर्तेत न कथंचन मायया ।
बुद्ध्येतारिप्रयुक्तां च मायां नित्यं स्वसंवृतः॥१०४॥</poem>}}}}
{{gap}}अमाययेति ॥ मायया छद्मतया अमात्यादिषु न वर्तेत । तथा सति सर्वेषाम
विश्वसनीयः स्यात् । धर्मरक्षार्थ यथातत्त्वेनैव व्यवहरेत् । यत्नकृतात्मपक्षश्च शत्रु-
कृतां प्रकृतिभेदरूपां मायां चारद्वारेण जानीयात् ॥ १०४ ॥
{{Block center|{{bold|<poem>नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु ।
गृहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ १०५ ॥</poem>}}}}
{{gap}}नेत्यादि ॥ तथा यनं कुर्याद्यथास्य प्रकृतिभेदादि छिद्रं शत्रुर्न जानाति । शन्नोस्तु
प्रकृतिभेदादिकं चारैर्जानीयात् । कूर्मो यथा मुखचरणादीन्यङ्गान्यात्मदेहे गोपा-<noinclude></noinclude>
oavk5d810qw6e6ev9jajxaf4pzeoaie
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२८२
104
104689
415574
267649
2026-04-01T11:29:21Z
Geeta g hegde
6704
415574
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|२४८|मनुस्मृतिः।|[ अध्यायः ७}}</noinclude>
{{gap}}यत्येवं राज्याङ्गान्यमात्यादीनि दानसमानादिनात्मसात्कुर्यात् । दैवाच प्रकृतिभेदा-
दिरूपे छिद्रे जाते यत्नतः प्रतीकारं कुर्यात् ॥ १०५ ॥
{{Block center|{{bold|<poem>बकवचिन्तयेदान्सिहवच्च पराक्रमेत् ।
वृकबच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥ १०६ ।।</poem>}}}}
{{gap}}बकवदिति ॥ यथा बको जले मीनमतिचञ्चलस्वभावमपि मत्स्यग्रहणादेकता-
नान्तःकरणश्चिन्तयत्येवं रहसि सुविहितरक्षस्थापि विपक्षस्य देशग्रहणादीन -
श्चिन्तयेत् । यथाच सिंहः प्रबलमतिस्थूलमपि दन्तीबलं हन्तुमाक्रमत्येवमल्पबलो
बलवतोपक्रान्तः संश्रयाधुपायान्तरासंभवे सर्वशक्त्या शत्रु हन्तुमाक्रमेत् । यथा
च वृकः पालकृतरक्षणमपि पशुं दैवात्पालानवधानमासाद्य व्यापादयत्येवं दुर्गाद्य-
वस्थितमपि रिपुं कथंचित्प्रमादमासाद्य व्यापादयेत् । यथा शशः वधो रविविध-
व्याधमध्यगतोऽपि कुटिलगतिरुप्लुत्य पलायते, एवं स्वयमबलो बलवदरिपरिवृतो-
ऽपि कथंचिदरिव्यामोहमाधाय गुणवत्पार्थिवान्तरं संश्रयितुमुपसर्पेत् ॥ १०६ ॥
{{Block center|{{bold|<poem>एवं विजयमानस्य येऽस्य स्युः परिपन्धिनः ।
तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः ॥ १०७॥</poem>}}}}
{{gap}}एवमित्यादि ॥ एवमुक्तप्रकारेण विजयप्रवृत्तस्य नूपतेये विजयविरोधिनो भवेयु.
न्तान्सर्वान्सामनभददण्डैरुपायैर्वशमानयेत् ॥ १०७ ।।
{{Block center|{{bold|<poem>यदि ते तु न तिष्ठेयुरुपायैः प्रथमैत्रिभिः ।
दण्डेनैव प्रसयैतांश्छनकैर्वशमानयेत् ॥ १०८ ॥</poem>}}}}
{{gap}}यदीत्यादि ॥ ते च विजयविरोधिनो यद्याद्यैत्रिभिरुपायैर्न निवर्तन्ते तदा बला-
हेशोपमर्दादिना युद्धेन शनकैर्लघुगुरुदण्डक्रमेण दण्डेन वशीकुर्यात् ॥ १०८ ॥
{{Block center|{{bold|<poem>सामादीनामुपायानां चतुर्णामपि पण्डिताः।
सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥१०९ ॥</poem>}}}}
{{gap}}सामादीनामिति ॥ चतुर्णामपि सामादीनामुपायानां मध्यात्सामदण्डादेव राष्ट्र-
वृद्ध्यर्थ पण्डिताः प्रशंसन्ति । साम्नि प्रयासधनव्ययसैन्यक्षयादिदोषाभावाहण्डे तु
तत्सद्भावेऽपि कार्यसिद्ध्यतिशयात् ॥ १०९ ॥
{{Block center|{{bold|<poem>यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति ।
तथा रक्षेन्नृपो राष्ट्र हन्याच्च परिपन्थिनः ॥ ११० ॥</poem>}}}}
{{gap}}यथेत्यादि ॥ यथा क्षेत्रे धान्यतृणादिकयोः सहोत्पन्नयोरपि धान्यानि लवनकर्ता
रक्षति तृणादिकं चोद्धरति, एवं नृपती राष्ट्रे दुष्टान्हन्यान्नत्वदुष्टांस्तदीयसहजान्भ्रा-
तॄनपि निदातृदृष्टान्तादवसीयते । शिष्टसहितं च राष्ट्रं रक्षेत् ॥ ११०॥<noinclude></noinclude>
4uu8f97pcre937lbikkxgcjbljhpvqv
नित्यकर्मविधिः
0
164209
415572
2026-04-01T11:28:27Z
Shubha
190
{{header | title = नित्यकर्मविधिः | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ---- MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00527 Uniform title: nityakarmavidhi Author : laugākṣi Editor : keśava baṭṭ... नवीन पृष्ठं निर्मीत अस्ती
415572
wikitext
text/x-wiki
{{header
| title = नित्यकर्मविधिः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00527
Uniform title: nityakarmavidhi
Author : laugākṣi
Editor : keśava baṭṭa
Description:
One of the few examples of Kashmiri smārta ritual manuals.
Notes:
Data-entered by the staff of Muktabodha under the supervison of Mark S.G. Dyczkowski.
Revision 0: Sept. 13, 2021.
Publisher :
Publication year : 1917
Publication city : Mumbai
Publication country : India
----
अथ स्नानविधिः | प्. १-४
अथ सन्ध्योपासना ||श्रीकृष्णार्पणमऽस्तु ||
fओर् अल्ल् थ्रेए तिमेस् ओf दय प्. ४ तो प्. १२
नैवेद्यमंत्राः | fओओद् ओffएरिन्ग् तो गोद्स्, योगिनीस् अन्द् ओथेर् सुपेर्नतुरल् बेइन्ग् प्. १२-
१४
विष्णुपञ्चायतनपूजाविधि. प्. १४-२६
अथ पंचगव्यविधिः || प्. २६-२७
भोजनविधिः | प्. २७-२९
अथ गुरुस्तुतिः प्. २९-३०
अथ महागायत्रीस्तुतिः | प्. ३०-३२
प्रार्थनास्तुतिः || प्. ३३
अथ सरस्वतीस्तुतिः || इति कालिदासकृता प्. ३३-३४
अथ गौरीस्तुतिः || प्. ३४-३५
अथ मुकुन्दमालास्तुतिः || इति श्रीकुलशेखरराज्ञाकृता प्. ३५-३९
अथ श्रीकृष्णलीला प्. ३९-४०
अथ जयस्तुतिर्विष्णोः || प्. विष्णुस्तुतिः प्. ४०
गोविन्दाष्टकं || इति श्रीशंकराचार्यकृतं प्. ४१-४२
अथ शिवस्तुतिः || इति अभिनवगुप्ताऽचार्यकृता शिवस्तुतिः प्. ४२
नित्यकर्मविधिः
अथ स्नानविधिः |
श्रीगणेशाय नमः
आयुर्बलं यशो वर्चः प्रजाधृतिवसूनि च |
ब्रह्मप्रज्ञां च मेधां च त्वं नो देहि वनस्पते || इति
दन्तधावनमंत्रः
नमोऽस्त्वऽनन्ताय सहस्रमूर्तये सहस्रपादाऽक्षिशिरोरुबाहवे |
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः || इति
वामपादप्रक्षा०
नमः कमलनाभाय नमस्ते जलशायिने |
नमस्ते केशवाऽनन्त वासुदेव नमोऽस्तु ते || इति दक्षिणपादप्रक्षालनम्
गंगाप्रयागगयनैमिषपुष्करादितीर्थानि यानि भुवि सन्ति हरिप्रसादात् |
आयान्तु तानि करपद्मपुटे मदीये प्रक्षालयन्तु वदनस्य निशाकलङ्कम् ||
तीर्थे स्नेयं तीर्थमेव समानानां भवति मानः |
शंस्यो अररुषो धूर्तिः प्राणङ् मर्त्यस्य रक्षाणो ब्रह्मणस्पते || इति
मुखप्रक्षालनम्
ओं गायत्र्यै नमः | ओं भूर्भुवःस्वस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात् ३ || इति यज्ञसूत्रप्र० | गायत्र्यैव शिकहमाबद्ध्य
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् |
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ||
यज्ञोपवीतमऽसि यज्ञस्य त्वा उपवीतेन उपनह्यामि | इति यज्ञसूत्रधारणम्
कृत्वाऽलं पादशौचं विमलमऽथ जलं त्रिः पिबेदुन्मृजेद्द्वि-
स्तर्जन्यऽङ्गुष्ठकाभ्यां सजलमऽभिमृशेन्नासिकारन्ध्रयुग्मम् |
अङ्गुष्ठाऽनामिकाभ्यां नयनयुगलकं कर्णयुग्मं कनिष्ठा-
ऽङ्गुष्ठाभ्यां नाभिदेशं हृदयमऽथ तलेनाऽङ्गुलीभिः शिरोंसौ ||
ततः प्राणायामः | ओं ब्रह्मणोऽग्न्यादयः | नमो अग्नये अप्सुषदे नम
इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽपांपतये नमोऽद्भ्यः || इति
नमस्कारः
प्. २)
अवभृथे त्रिष्टुप् वरुणः ||
उरुं हि राजा वरुणश्चकार सूर्याय पन्थामऽन्वेत वा उ |
अपदे पादा प्रतिधातवेऽक रुताऽपवक्ता हृदयाविधश्चित् || इति उपस्थानम्
यमस्य राज्ञो जगती वरुणः ||
ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः |
तेभिर्नो देवः सविता बृहस्पतिर्विश्वे देवा मरुतो मुंचन्तु स्वर्काः || इति जलं
त्रिरावर्तयेत्
निचाङ्कुणस्य शुनः शेपस्य चाऽपः सुमित्रियान आपः ओषधयो भवन्तु |
दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यंच वयं द्विष्मः || इति वामभागे
जलाञ्जलित्रयं क्षिपेत् ||
यत्किञ्चेदं वरुण देवे जनेऽभिद्रोहं मनुष्याश्चरामसि |
अचित्ते यत्तव धर्माय योऽपि समानस्तस्मादेनसो देव रीरिषः || इति नमस्येत्
ततो मृदो भागत्रयं कृत्का प्रथमभागे जलसेचनम् | ओं भूर्भुवः स्वः ३
||
द्वितीयभागे जलसेचनम् || त्रितस्य महापंक्तिराडित्याः |
आदित्या अव हि ख्याता दिक्कूलाद्दिवस्पृशः सुतीर्थाः सर्वतो यथा |
नुन्नोनेषया सुगमऽनेहसो व ऊतयः सु ऊतयो व ऊतयः ||
तृतीयभागे जलसेचनम् | मेधातिथेर्गायत्रं विष्णुः ||
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्याः सप्त धामभिः |
ततस्तृतीयांशस्य भागचतुष्कं विधाय चतुर्दिक्षु क्षिपेत् ||
भर्गस्य बृहती इन्द्रः यत इन्द्र भयामहे ततो नो अभयंकृधि |
मघवञ्छग्धि तव तन्न ऊतभिर्विद्विषो विमृधो जहि | इति पूर्वे ||
शासस्याऽनुष्टुभौ विमृध इन्द्रः | स्वस्तिदाविशस्पतिर्वृत्रहा विमृधोवशी |
वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः || इति दक्षिणे
विरक्षो विमृधो जहि विवृत्रस्य हनूरुज |
विमन्युमिन्द्र वृत्रहन्नऽमित्रस्या भिदा सतः || इति पश्चिमे
वसुक्रस्य त्रिष्टुबिन्द्रः | इदं सु मे जरितरः चिकिद्धि प्रतीपं शापं |
नद्यो वहन्ति लोपाशाः सिंहं प्रत्यंच मत्स्याः क्रोष्टा वराहा
न्निरतत्थकक्ष्यात् || इति उत्तरे
प्. ३)
यज्ञस्याऽनुष्टुप् मृत्तिका ||
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे |
उद्धृतासि वराहेण कृष्णेन शतबाहुना ||
मृत्तिके त्वां च गृह्णामि प्रजया च धनेन च |
मृत्तिके ब्रह्मदत्ताऽसि कश्यपेनाऽभिमन्त्रिता ||
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् |
वाचा कृतं कर्मकृतं मनसा यत्तु चिन्तितम् ||
मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् |
त्वया हृतेन पापेन ब्रह्मलोकं व्रजाम्यऽहम् ||
इति अभिमंत्रितया द्वितीयमृदा जलालोडितया नाभेरूर्ध्वं विशोधयेत् ||
ततः प्रथमांशस्य भागचतुष्कं विधाय कुत्सस्य रुद्रो जगती ||
मानस्तोके तनये मान आयौ मा नो गोषु मा नो अश्वेषु रीरिषः |
वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते || इति
ललाटमाद्यांश मृदाऽनुलिप्य
ओं भूः ओं भुवः ओं स्वः इति वामांसे ऽओ महः ओं जनः ओं तपः इति
दक्षिणांसे ओं सत्यमिति हृदये द्वितीयांशेनाऽनुलिप्य | ततो नमस्कारः ||
तीर्थस्याऽवाहनं कुर्यात्तत्प्रवक्ष्याम्यऽनन्तरम् |
कुरुक्षेत्रं गया गंगा प्रभासं पुष्कराणि च ||
तीर्थान्येतानि सर्वाणि स्नानकाले भवन्तु मे |
प्रपद्ये वरुणं देवमऽम्भसां पतिमूर्जितम् ||
याचितं देहि मे तीर्थं सर्वपापाऽपनुत्तये |
रुद्रान्प्रपद्ये वरदान्सर्वानऽप्सुषदस्त्वऽहम् ||
सर्वानऽप्सुषदश्चैव प्रपद्ये प्रणतः स्थितः |
देवमऽप्सुषदं वह्निं प्रपद्येऽघनिषूदनम् ||
आपः पुण्याः पवित्राश्च प्रपद्ये शरणं तथा |
रुद्रश्चाऽग्निश्च सर्पाश्च वरुणस्त्वाऽप एव च ||
प्. ४)
शमयन्त्वाऽशु मे पापं पुनन्त्वेते सदा मम |
इत्येवमुक्त्वा कर्तव्यं ततः संमार्जनं जले ||
अथ जलांजलिं तृतीयांशमृत्सहितं गृहीत्वा ||
अपांपतये विद्महे पाशपाणये धीमहि तन्नो वरुणः प्रचोदयात् ३ | ओं तत्सत्
ब्रह्म अद्य तावत्तिथावऽद्य अमुकमासस्य अमुकपक्षस्य तिथावऽमुकायां
आग्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं
श्रीनारायणप्रीत्यऽर्थं अमुकनद्याः प्रवाहे स्नानमहं करिष्ये ओं
कुरुष्व || इति प्रवाहान्तः क्षिप्त्वा || शिरसि जलमऽञ्जलिना प्रक्षिपेत् ||
ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराऽततम् |
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर्यत्परमं पदम् ||
ओं भूः ओं भुवः ओं स्वः ओं महः ओं जनः ओं तपः ओं सत्य मिति मार्जयेच्छिरः ||
ओं हंसः शुचिषद्वसुरऽन्तरिक्षस द्धोता वेदिषदऽतिथिर्दुरोणसत् |
नृषद्वरस दृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् || इति उपस्थानम्
ओं नमो देवभ्यः कण्ठोपवीती स्वाहा ऋषिभ्यः | अपसव्येन स्वधा पितृभ्यः
सव्येन आब्रह्मस्तम्बपर्यन्तं ब्रह्माण्डं सचराचरं जगत्तृप्यतु तृप्यतु
तृप्यतु एवमऽस्तु ||
यत्त्वगऽस्थिगतं पापं जन्मान्तरकृतं च यत् |
तन्मे हरस्व कल्याणि मूर्ध्नि स्पर्शेन वैष्णवि || इति परिशिष्टमृदा तिलकं
कार्यम्
अथ वस्त्रधारणम् ||
युवा सुवासाः परिवीत आगात्स उच्छ्रेयान्भवति जायमानः |
तन्धीरासः कवय उन्नयंति साध्यो मनसा देवयन्तः ||
अस्मत्कुले तु ये जाता अपुत्रा गोत्रवर्जिताः |
ते पिबन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् || इति स्नानपट्टपीडनम्
इति स्नानविधिः ||
अथ सन्ध्योपासना ||
श्रीमहागायत्र्यै नमः | सावित्र्यै नमः | सरस्वत्यै नमः ||
ओं प्रणवस्य ऋषिर्ब्रह्मा गायत्रं छन्द एव च |
देवोऽग्निर्व्याहृतिषु च विनियोगः प्रकीर्तितः ||
प्रजापतेर्व्याह्र्टयः पूर्वस्य परमेष्ठिनः |
व्यस्ताश्चैव समस्ताश्च ब्राह्ममऽक्षरमोमिति ||
व्याहृतीनां समस्तानां दैवतं तु प्रजापतिः |
व्यस्तानामऽयमऽग्निश्च वायुः सूर्यश्च देवताः ||
छन्दश्च व्याहृतीनामे काऽक्षराणामुक्ताख्य.
द्व्यक्षराणामऽत्युक्ताख्यम् |
विश्वामित्र ऋषिश्छन्दो गायत्रं सविता तथा ||
दैवतोपनये जप्ये गायत्र्या योग उच्यते |
आवाहयामि गायत्रीं सर्वपापप्रणाशिनीम् ||
न गायत्र्या परं जप्यं न व्याहृतिसमं हृतम् |
आगच्छ वरदे देवि जप्ये मे सन्निधौ भव ||
गायन्तं त्रायसे यस्माद्गायत्री त्वं ततः स्मृता |
एवमाऽर्षं छन्दो दैवतं विनियोगं चाऽनुस्मृत्य ||
गायत्र्या शिकहमाऽबद्ध्य गायत्र्यैव समन्ततः |
आत्मनश्चापः परिक्षिप्य प्राणायामं कुर्यात् || इति नमस्कृत्य
अथाऽञ्जलिं कृत्वा ||
ओजोऽसीति गायत्रीमाऽवाह्य | देवानामाऽर्षम् ||
ओजोऽसि सहोऽसि बलमऽसि भ्राजोऽसि देवानांधाम नामासि |
विश्वमऽसि विश्वायुः सर्वमऽसि सर्वायुरऽभिभूः || अथ
प्राणायाममंत्रः
ओं भूः ओं भुवः ओं स्वः ओं महः ओं जनः ओं तपः ओं सत्यं -
ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो योनः प्रचोदयात् -
ओं आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् || इति पठन्
पूरककुम्भकरेचकेषु नाभिहृदयललाटेषु रक्तनीलश्वतान्
ब्रह्मविष्णुशिवान् ध्यायन् प्राणायामं कुर्यात् |
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह |
त्रिः पठेदाऽयतप्राणः प्राणायामः स उच्यते ||
एकावर्तः पूरकः स्यात्कम्भको द्विगुणस्तथा |
रेचकस्त्रिगुणः प्रोक्तः प्रवेशस्थितिर्निर्गमैरिति ||
प्. ६)
ओं अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युक्र्तेभ्यः पापेभ्यो रक्षन्ताम् |
यदऽह्ना पापमऽकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण
शिश्ना |
अहस्तदऽवलुम्पतु यत्किंचिद्दुरितं मयीदमऽहमाऽपोऽमृतयोनौ सत्ये
ज्योतिषि जुहोमि स्वाहा || इति सायमाऽचमनत्रयम्
ओं सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो
रक्षन्ताम् |
यद्रात्र्या पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण
शिश्ना |
रात्रिस्तदऽवलुम्पतु यत्किंचिद्दुरितं मयीदमऽहमाऽपोऽमृतयोनौ |
सूर्ये ज्योतिषि जुहोमि स्वाहा || इतिप्रातराऽचमनत्रयम्
ओं आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् |
पुनातु ब्रह्मणस्पतिर्ब्रह्म पूतं पुनातु माम् ||
यदुच्छिष्टमऽभोज्यं वा यद्व अदुश्चरितं मम |
सर्वं पुनन्तु मामाऽपोऽसतां च प्रतिग्रहं जुहोमि स्वाहा || इति मध्याह्ने
त्रयम्
ओं आपो हि ष्ठा मयो भुव -स्ता न ऊर्जे दधात न महे रणाय चक्षसे || १ ||
यो वः शिवतमो रस-स्तस्य भाजयते हनः उशतीरिव मातरः || २ ||
तस्मा अरंगमाम वः यस्य क्षयाय जिन्वथ आपो जनयथा च नः || ३ ||
ओं हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः |
या अग्निं गर्भं दधिरे विरूपा स्ता न आपः शंस्योना भवन्तु || ४ ||
ओं यासां देवा दिवि कृण्वं भक्ष्यं या अन्तरिक्षे बहुधा भवन्ति | या० ५ ||
ओं यासां राजा वरुणो याति मध्ये सत्याऽनृते अवपश्यञ्जनानाम् | या० ६ ||
ओं शिवेन मा चक्षुषा पश्यताऽपः शिवया तन्वोपस्पृशत त्वचं मे |
मधुश्च्युतः शुचयो याः पावका स्ता न आपः शंस्योना भवन्तु || ७ ||
ओं शन्नो देवीरऽभीष्टय आपो भवन्तु पीतये शंययोरऽभिस्रवन्तु नः || ८ ||
ओं शन्न आपो धन्वन्यः शन्नः सन्त्वऽनूप्याः |
शन्नः समुद्रिया न आपः शमुनः सन्तु कूप्याः || ९ ||
ओं आपो अस्मान्मातरः शुन्धयन्तु घृतेन मा घृतप्वः पुनन्तु |
विश्वं हि रिप्रं प्रवहन्ति देवी रुदिदाऽभ्यः शुचिराऽपूत एमि || १० ||
ओं इदमाऽपः प्रवहत यत्किंचिद्दुरितं मयि |
यद्वाऽहमऽभिदद्रोह यद्वा शेष उताऽनृतम् || ११ ||
प्. ७)
ओं मुञ्चन्तु मा शपथ्यादऽथो वारुण्यादुत |
अथो यमस्य पड्वीशात्सर्वस्माद्देव किल्बिषात् || १२ ||
ओंयज्जाग्रद्यत्सुप्तः पापमऽभिजगाम |
सर्वस्मान्मा तस्मादेऽनसः प्रमुञ्चतु || १३ ||
ओं दधि क्राब्णो अकारिषं जिष्णोरऽश्वस्य वाजिनः |
सुरभि नो मुखा करत्प्राऽ आयूंषि तारिषत् || १४ || इति मार्जनमंत्राः
ओं द्रुपदादिवोन्मुमुचानः स्विन्नः स्नात्वी मलादिव |
पूतं पवित्रेणेवाऽज्य माऽपः शुन्धन्तु मैनसः || इति वामे
जलांजलित्रयं क्षिपेत्
ओं ऋतं च सत्यं चाभीद्धा त्तपसोऽध्यऽजायत |
ततो रात्रिरऽजायत ततः समुद्रो अर्णवः ||
समुद्रादऽर्णवादऽधि संवत्सरो अजायत |
अहोरात्राणि व्यदधद्विश्वस्य मिषओत् वशी ||
सूर्याचन्द्रमसौ धाता यथापूर्वमऽकल्पयत् |
दिवं च पृथिवीं चाऽन्तरिक्षमऽथो स्वः || इति जलमध्यस्थकरद्वयो जपेत्
ओं भूः ओं भुवः ओं स्वः ओंमहः ओंजनः ओं तपः ओं सत्यमिति शिरो मार्जयेत् ||
ओं अन्तश्चरसि भूतेषु गुहायां विश्वतो मुखः |
त्वं यज्ञस्त्वं वषट्कार आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरो
मित्याऽचमनत्रयम् || ततः प्राणायामः ततः सूर्याऽभिमुखो ओं
भूर्भुवः स्वः || ३ || इति
गायत्र्याऽभिमंत्रितांस्त्रीञ्जललीनुत्क्षिप्य क्षिपेत् |
प्रदक्षिणमाऽवृत्योर्ध्वबाहुरुदयन्तमिति सायंप्रातरुपतिष्ठेत ||
ओं उद्वयन्तमसस्परि ज्योतिष्पश्यन्त उत्तरम् |
देवं देवत्राः सूर्यमऽगन्म ज्योतिरुत्तमम् || १ ||
ओं उदुत्यं जातवेदसं देवं वहन्ति केतवः | दृशे विश्वाय सूर्यम् || २ ||
ओं चित्रन्देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याऽग्नेः |
आ प्रा द्यावापृथिवी चान्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च || ३ ||
ओं तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् |
पश्येम शरदः शतं जीवेम शरदः शतम् || ४ ||
प्. ८)
ओं हंसः शुचिषद्वसुरऽन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् |
नृषद्वरसदृतसद्व्योमसदऽब्जा गोजा ऋतजा अद्रिजा ऋतम् || ५ ||
ओं विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपता अविह्रुतम् |
वात जूतयो अभिरक्षत्यात्मना प्रजा पिपर्ति बहुधा विराजति || ६ ||
इति मध्याह्नोपस्थितिः | अथ विष्णुं ध्यायन्पुरुषसूक्तं पठेत् ||
ओं आनुष्टुभस्य सूक्तस्य त्रिष्टुबऽन्तस्य देवता |
विश्वात्मा पुरुषः साक्षादृषिर्नारायणः स्मृतः || १ ||
ओं पुरुषमेधाः पुरुषस्य नारायणस्यार्षम् |
ओं सहस्रशीर्षाः पुरुष सहस्राक्षः सहस्रपात् |
स भूमिं विश्वतो वृत्वाऽत्यऽतिष्ठद्दशांगुलम् || १ ||
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् |
उताऽमृतत्वस्येशानो यदऽन्नेनाऽतिरोहति || २ ||
एतावानऽस्य महिमाऽतो ज्यायांश्च पूरुषः |
पादोऽस्य विश्वा भूतानि त्रिपादऽस्याऽमृतं दिवि || ३ ||
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाऽभवत्पुनः |
ततो विश्वं व्यक्रामत्साशनाऽनशने अभि || ४ ||
तस्माद्विराडऽजायत विराजो अधिपूरुषः |
स जातो अत्यरिच्यत पश्चाद्भूमिमऽथो पुरः || ५ ||
यत्पुरुषेण हविषा देवा यज्ञमऽतन्वत |
वसन्तो अस्याऽसीदाऽज्यं ग्रीष्म इध्मः शरद्धविः || ६ ||
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमऽग्रतः |
तेन देवा अयजन्त साध्या ऋषयश्च ये || ८ ||
तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाऽज्यम् |
पशूंस्तांश्चके वायव्यानाऽरण्यान्ग्राम्यांश्च ये || ७ ||
तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे |
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादऽजायत || ९ ||
तस्मादऽश्वा अजायन्त ये के चोभयादतः |
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः || १० ||
प्. ९)
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् |
मुखं किमऽस्य कौ बाहू का ऊरू पादा उच्येते || ११ ||
ब्राह्मणोऽस्य मुखमाऽसीद्बाहू राजन्यः कृतः |
ऊरू तदऽस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत || १२ ||
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत |
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरऽजायत || १३ ||
नाभ्या आसीदऽन्तरिक्षं शीर्ष्णो द्यौः समवर्तत |
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाअऽकल्पयन् || १४ ||
सप्ताऽस्याऽसन्परिधयस्त्रिः सप्त समिधः कृताः |
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् || १५ ||
यज्ञेन यज्ञमऽयजन्त देवा स्तानि धर्माणि प्रथमान्याऽसन् |
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः || १६ ||
अथ संहारमुद्रां कृत्वा शिवं ध्यायन् शिवसूक्तं पठेत् ||
ओं यज्जाग्रतो दूरमुदेति दैवं तदु सुप्तस्य तथैवैति |
दूरंगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसंकल्पमऽस्तु || १ ||
येन कर्माण्यऽपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः |
यदऽपूर्वं यक्षमऽन्तः प्रजानां तन्मे मनः शिवसंकल्पमऽस्तु || २ ||
यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरऽन्तरऽमृतं प्रजासु |
यस्मान्न ऋते किञन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु || ३ ||
येनेदं भूतं भवनं भविष्यत्परिगृहीतमऽमृतेन सर्वम् |
येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमऽस्तु || ४ ||
यस्मिन्नृचः साम यजूंषि यस्मिन्प्रतिष्ठिता रथनाभाविवाऽराः |
यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमऽस्तु || ५ ||
सुषारथिरऽश्वानिव यन्मनुष्यान्नेनीयतेऽभींशुभिर्वाजिन इव |
हृत्प्रतिष्ठं यदऽजरं यविष्टं तन्मे मनः शिवसङ्कल्पमऽस्तु || ६ ||
अथ य एष एतस्मिन्मण्डले पुरुषो यश्चैष हिरण्मयः पुरुषः |
अथ य एष एतस्मिन्मण्डले पुरुषोऽयमेव सोयं दक्षिणेऽक्षन्पुरुषः || ७ ||
प्. १०)
अथ उपस्थितिः
शुक्रियं रुद्रस्य ||
य उदगात्पुरस्तान्महतो अर्णवा-द्विभ्राजमानः सरिरस्य मध्ये |
स मामृषभो रोहिताक्षः सूर्यो विपश्चिन्मनसा पुनातु |
यद्ब्रह्माऽवादिष्म तन्मा मा हिंसीत्सूर्याय बिभ्राजाय वै नमो नमः ||
अ नाभौ | उ हृदि | म शिरसि || भूः पादयोः | भुवः हृदि | स्वः शिरसि || ओं
भूः अङ्गुष्ठाभ्यां नमः | भुवः तर्जनीभ्यां नमः | स्वः
मध्यमाभ्यां नमः | महः अनामिकाभ्यां नमः | जनः
कनिष्ठिकाभ्यां नमः | तपः सत्यं करतलकरपृष्ठाभ्यां नमः ||
भूः पादयोः | भुवः जान्वोः | स्वः गुह्ये | महः नाभौ | जनः हृदि | तपः
कण्ठे | सत्यं शिरसि || ओं भूः हृदयाय नमः | भुवः शिरसे स्वाहा | स्वः
शिखायै कण्ठे | सत्यं शिरसि || ओं भूः हृदयाय नमः | भुवः शिरसे
स्वाहा | स्वः शिखायै वषट् | महः कवचाय हुं | जनः नेत्राभ्यां
वौषट् | तपः सत्यमऽस्त्राय फट् | तत्सवितुरङ्गुष्ठाभ्यां नमः |
वरेण्यं तर्जनीभ्यां नमः | भर्गो देवस्य मध्यमाभ्यां नमः |
धीमहि अनामिकाभ्यां नमः | धियो योनः कनिष्ठिकाभ्यां नमः ||
प्रचोदयात् करतलकरपृष्ठाभ्यां नमः || तत्पादयोः | सवितुर्जान्वोः |
वरेण्यं कट्यां भर्गो नाभौ | देवस्य हृदये | धीमहि कण्ठे | धियो
नासिकायां | यश्चक्षुषे | नः ललाटे | प्रचोदयात् शिरसि || तत्सवितुर्हृदयाय
नमः | वरेण्यं शिरसे स्वाहा | भर्गो देवस्य शिखायै वषट् | धीमहि
कवचाय हुं | धियो योःनः नेत्राभ्यां वौषट् | प्रचोदयादऽस्त्राय फट् | ओं
आपस्तनयोः | ज्योतिर्नेत्रयोः | रसोमुखे | अमृतं ललाटे | ब्रह्मभूर्भुवः
स्वरों शिरसि ||
अथ मुद्राः ||
तत्समाय नमः | स संपुटाय नमः | वि वितताय नमः | तुर्विस्तीर्णाय० | व
द्विमुखाय० | रे त्रिमुखाय० | ण्य चतुर्मुखाय नमः | अं पंचमुखाय० |
भ षण्मुखाय | र्गो अधोमुखाय | दे व्यापकाञ्जलये | व शकटाय न० | स्य
यमपाशय | धी ग्रन्थिकायै | म संमुखोन्मुखाय | हि विलम्बाय | धी
मुष्टिकायै नमः | यो मीनाय | यो कूर्माय | नः वराहाय नमः | प्र
सिंहाक्रान्ताय | चो महाक्रान्ताय | द मुद्गराय | या त्पल्लवाय नमः ||
प्. ११)
ततः प्राणायाम्ः ||
तत्सवितुरिति मंत्रस्य | विश्वामित्र ऋषिः | गायत्रं छंदः | सविता देवता |
आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं चतुर्वर्गसिद्ध्यर्थे जपे
विनियोगः ||
अथ ध्यानम् ||
मुक्ताविद्रुमहेमनीलधवल च्छायैर्मुखैस्त्रीक्षणै-
र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वाऽत्मवर्णात्मिकाम् |
गायत्रीं वरदाऽभयाऽङ्कुशकरां शूलं कपालं गुणं
शङ्खं चक्रमऽथाऽरविन्दयुगलं हस्तैर्वहन्तीं भजे || १ || इति
आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि |
गायत्रि छन्दसां मातर्ब्रह्मयोने नमोऽस्तु ते || ३ || इति गायत्री.
ओं भूर्भुवः स्वस् तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः
प्रचोदयादों
ततः प्राणायामः ||
दशभिर्जन्मचरितं शतेन च पुरा कृतम् |
त्रियुगोत्थं सहस्रेण गायत्री हन्ति किल्बिषम् |
देवा गातु श्रोत्रियाः | देवा गातुविदो गातुं वित्वा गातुमित | मनसस्पत इमं
देवयज्ञं स्वाहा वाचे स्वाहा वाते धाः | इति जपनिवेदनम् अथ दिङ्नुतिः ||
ओं नमः प्राच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमः
|| १ ||
नमोऽवान्तरायै देशे० || २ || नमो दक्षिणायै दिशे० || ३ || नमोऽवान्तरायै० || ४
|| नमः प्रतीच्यै देश्० || ५ || नमोऽवान्तरायै० || ६ || नम उदीच्यै दिशे० || ७ ||
नमोऽवान्तरायै० || ८ || नम ऊर्ध्वायै० || ९ || नमोऽधरायै दिशे याश्च० || १०
||
नमो ब्रह्मणे नमो अस्त्वऽग्नये नमः पृथिव्यै नम ओषधीभ्यः |
नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते कृणोमि || ३ ||
इत्येतासामेव देवतानां सामीप्यं सार्ष्टितां सायुज्यं सलोकतामाप्नोति
य एवं विद्वान् स्वाध्यायमऽधीते || इति तर्पणम्
ब्रह्मादयः सर्वे देवास्तृप्यन्तु कण्ठोपवीति सनकादयः सर्वे ऋषयस्तृ० || २
||
अपसव्येन || अग्निष्वात्तादयः सर्वे पितरस्तृप्यन्तु || ३ ||
देवताभ्यः पितृभ्यश्च महायोगिभ्य एवच |
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ||
ओं तत्सद्ब्रह्माऽद्य तावत्तिथावित्यादि० आत्मनो वाङ्० नित्यकर्मनिमित्तं पिता
अमुकोऽमुकगोत्रः स्वधानमस्तृप्यतां तृप्यतां तृप्यताम् | पितामहः | २ |
प्रपिता-
प्. १२)
महः | ३ | माता० | ४ | पितामही० | ५ | प्रपितामही० | ६ | मातामहः० | ७ |
प्रमातामहः० | ८ | वृद्धप्रमातामहः० | ९ | मातामही० | १० |
प्रमातामही० | ११ | वृद्धप्रमातामही० | १२ | इत्थं सर्वान् सम्बन्धिनश्च
तर्पयेत् |
मातृपक्ष्यास्तु ये केचिद्ये चाऽन्ये पितृपक्षजाः |
गुरुश्वशुरबन्धूनां ये कुलेषु समुद्भवाः
ये प्रेतभावमाऽपन्ना ये चाऽन्ये श्राद्धवर्जिताः |
जलदानेन ते सर्वे लभन्तां तृप्तिमुत्तमाम् |
समस्तमातापितृभ्यो द्वादश देवतेभ्यः पितृभ्यो हिमपानं स्वधा |
क्षीरपानं स्वधा | मधुपानं स्वधा | तिलोदकं स्वधा | उदकतर्पणं
स्वधा | हिमं हिमं | रजतं रजतम् | सव्येन ओं नमो देवेभ्यः |
कण्ठोपवीति | स्वाहा ऋषिभ्यः | अपसव्येन | स्वधा पितृभ्यः | सव्येन
आब्रह्मस्तम्बपर्यन्तं.
ब्रह्माण्डं सचराऽचरं जगत्तृप्यतु तृप्यतु तृप्यतु एवमस्तु ||
नमो धर्मनिधानाय नमः स्वकृतसाक्षिणे |
नमः प्रत्यक्षदेवाय भास्कराय नमो नमः इति सूर्ये प्रणतिः
शान्तिः पुष्टिस्तथा तुष्टिः सन्तु मे त्वत्प्रसादतः |
सर्वपापप्रशांतिश्च तीर्थराज नमोऽस्तुते || इति तीर्थप्रणतिः
इति सन्ध्योपासनाविधिः ||
श्रीकृष्णार्पणमऽस्तु ||
नैवेद्यमंत्राः |
ओं अथ नैवेद्यमंत्राः ||
अमृतेशयमुद्रया अमृतीकृत्य | अमृतमऽस्तु अमृतायित्वा नैवेद्यं |
सावित्राणि सावित्रस्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां
पूष्णोहस्ताभ्यामाऽदधे || महागणपतये कुमाराय श्रियै सरस्वत्यै
लक्ष्म्यै विश्वकर्मणे द्वार्देवताभ्यः प्रजापतये ब्रह्मणे
कलशदेवताभ्यः ब्रह्मविष्णुमहेश्वरदेवताभ्यः चातुर्वेदेश्वराय
सानुचराय ऋतुपतये नारायणाय दुर्गायै त्र्यम्बकाय वरुणाय
यज्ञपुरुषाय
प्. १३)
अग्निष्वात्तादिभ्यः पितृगणयागदेवताभ्यः | भगवते वासुदेवाय
सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय सत्याय पुरुषाय अच्युताय
माधवाय गोविन्दाय सहस्रनाम्ने विष्णवे लक्ष्मीसहिताय नारायणाय |
भगवते भवाय देवाय शर्वाय देवाय रुद्राय देवाय पशुपतये देवाय
उग्राय देवाय भीमाय देवाय महादेवाय ईशानायदेवाय ईश्वराय
देवाय उमासहिताय शिवाय पार्वतीसहिताय परमेश्वराय | भगवते
विनायकाय एकदन्ताय कृष्णपिंगलाय गजाननाय लम्बोदराय
भालचन्द्राय हेरम्बाय आखुरथाय विघ्नेशाय विघ्नभक्ष्याय
वल्लभासहिताय श्रीमहागणेशाय | क्लींकांकुमाराय षण्मुखाय
मयूरवाहनाय सेनाधिपतये कुमाराय | भगवते ह्रांह्रींसःसूर्याय
सप्ताश्वाय अनश्वाय एकाश्वाय नीलाश्वाय प्रत्यक्षदेवाय
परमार्थसाराय तेजोरूपाय प्रभासहिताय आदित्याय | भगवत्यै अमायै
कामायै चार्वंग्यै टङ्कधारिण्यै तारायै पार्वत्यै यक्षिण्यै
श्रीशारिकाभगवत्यै श्रीशारदा भगवत्यै श्रीमहाराज्ञीभग०
श्रीज्वालाभगवत्यै व्रीडाभगवत्यै वैखरीभगवत्यै वितस्ताभ०
गङ्गाभ० यमुनाभ० कालिकाभ० सिद्धलक्ष्म्यै महालक्ष्म्यै
महात्रिपुरसुन्दर्यै सहस्रनाम्न्यै देव्यै भवान्यै | अभयंकरीदेव्यै
क्षेमंकरीभगवत्यैसर्वशत्रुघातिन्यै इह राष्ट्राधिपतये भैरवाय |
इन्द्राय वज्रहस्ताय अग्नये शक्तिहस्ताय यमाय दण्डहस्ताय नैर्-ऋतये
खड्गहस्ताय वरुणाय पाशहस्ताय वायवे ध्वजहस्ताय कुबेराय
गदाहस्ताय ईशानाय त्रिशूलहस्ताय ब्रह्मणे पद्महस्ताय विष्णवे
चक्रहस्ताय अनन्तादिभ्यः अष्टाभ्यः कुलनागदेवताभ्यः
अग्न्यादित्याभ्यां वरुणचन्द्रमोभ्यां कुमारभौमाभ्यां
विष्णुबुधाभ्यां इन्द्राबृहस्पतिभ्यां सरस्वतिशुक्राभ्यां
प्रजापतिशनैश्चराभ्यां गणपतिराहुभ्यां रुद्रकेतुभ्यां
ब्रह्मध्रुवाभ्यां अनन्ताऽगस्त्याभ्यां ब्रह्मणे कूर्माय ध्रुवाय
अनन्ताय हरये लक्ष्म्यै कमलायै शिख्यादिभ्यः
पंचचत्वारिंशद्वास्तोष्पतियागदेवताभ्यः ब्राह्म्यादिभ्यो मातृभ्यः
गौर्यादिभ्यो मातृभ्यः ललितादिभ्योमातृभ्यः
दुर्गाक्षेत्रगणेश्वरदेवताभ्यः राकादेवताभ्यः त्रिकादेवताभ्यः
सिनीवालीदेवताभ्यः यामीदेवताभ्यः रौद्रीदेवताभ्यः वारुणीदे०
बार्हस्पतिदेवताभ्यः ओं भूर्देवताभ्यः ओंभुवःदेवताभ्यः ओं
स्वर्देवताभ्यः ओंभूर्भुवःस्वर्देवताभ्यः
अखण्डब्रह्माण्डयागदेवताभ्यः धूर्भ्यः उपधूर्भ्यः
महागायत्र्यै सावित्र्यै सरस्वत्यै हेरकादिभ्यो वटुकादिभ्यः ||
प्. १४)
उत्पन्नमऽमृतं दिव्यं प्राक्क्षीरोदधिमन्थनात् |
अन्नमऽमृतरूपेण नैवेद्यं प्रतिगृह्यताम् ||
इष्टदेवताध्यानं च पठित्वा तत्सद्ब्रह्म इत्यादि अमुककर्मनिमित्तं ओं नमो
नैवेद्यं निवेदयामि नमः ||
याः काश्चिद्योगिनी रौद्राः सौम्या घोरतराः पराः |
खेचरी भूचरी रामा स्तुष्टा भवंतु मे सदा ||
आकाशमातृभ्योऽन्नं नमः आकाशमातृभ्यः समालभनं
गन्धोनमः अर्घोनमः पुष्पं नमः | इष्टदेवं ध्यात्वाऽमुकदेवायं
पायसं मोदकान् पक्वान्नं अपूपान् वा अन्नादि समर्पयामि नमः ||
योऽस्मिन्निवसति क्षेत्रे क्षेत्रपालः सकिंकरः |
तस्मै निवेदयाम्यऽद्य बलिं पानीयसंयुतम् ||
क्षां क्षेत्राधिपतयेऽन्नं नमः रां राष्ट्राधिपतये अन्नं नमः
सर्वाभयवरप्रद मयि पुष्टिं पुष्टिपतिर्दधातु | आपन्नोऽस्मि शरण्योऽसि
सर्वावस्थासु सर्वदा इत्यादि क्षमा पुष्पाणि दत्वा उभाभ्यां जानुभ्यां
पाणिभ्यां शिरसा च उरसा मनसा च नमस्कारं करोमि नमः |
नमोब्रह्मणे इति तर्पणम् |
इति नैवेद्यमंत्रविधिः ||
ओं अथ विष्णुपञ्चायतनपूजाविधिः
ओं अस्य श्री आसनशोधनमंतस्य मेरुपृष्ट ऋषिः सुतलं छन्दः कूर्मो
देवता | आसनशोधने विनियोगः || मेरुपृष्ठ-ऋषये नमः शिरसि सुतलं
छन्दसे नमः मुखे कूर्मो देवतायै नमः हृदि आसनशोधने विनियोगाय
नमः सर्वांगेषु ||
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता |
त्वं च धारय मां देवि पवित्रं कुरु चाऽसनम् ||
ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे |
ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामऽसि ||
इत्याऽसनम् |
प्रीं पृथिव्यै आधारशक्त्यै समालभनं गन्धो नमः अर्घो नमः
पुष्पं नमः || ततो नमस्कारः
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् |
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये || १ ||
प्. १५)
अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि |
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः || २ ||
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः |
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः || ३ ||
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः साक्षान्महेश्वरः |
गुरुरेव जगत्सर्वं तस्मै श्रीगुरवे नमः || ४ ||
महाबले महोत्साहे महाभयविनाशिनि |
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि || ५ ||
ओं गुरवे नमः परमगुरवे नमः परमेष्ठिने गुरवे नमः परमाचार्याय
न० आद्यसिद्धेभ्यो न० || ओं अनाभावित्यादि | ब्रह्मभूर्भुवः स्वरों
शिरसीत्यन्तं पृ० १० कृत्वा ओं तद्विष्णोः परमं पदं हृ० | सदा पश्यन्ति
सूरयः शिरसे० | दिवीव चक्षुराऽततं शिखा० | तद्विप्रासो विपन्यवो कव० |
जागृवांसः समिन्धते नेत्र० | विष्णोर्यत्परमं पदं अस्त्रा० || यो रुद्रो अग्नौ
हृ० | यो अप्सु य ओषधीषु शिर० | यो वनस्पतिषु शिखा० | यो रुद्रो विश्वाभुवना
विवेश कव० | तस्मै रुद्राय नेत्र० | नमो अस्तु देवा अस्त्राय फट् || गणानान्त्वा
गणपतिं हवामहे हृ० | कविं कवीनां शि० | उपमश्रवस्तमं शिखा० |
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत कच० | आनः शृण्वन् नेत्रा० | ऊतिभिः
सीद सादनं अस्त्रा० || चित्रं पादयोः | देवानां जङ्घयोः | उद्गा ज्जान्वोः |
अनीक मूर्वोः | चक्षुः शिश्ने | मित्रस्य गुह्ये | वरुणस्य नाभौ | अग्ने र्हृदि |
आप्राद्यावापृथिवी कण्ठे | अन्तरिक्षं बाह्वोः | सूर्य मुखे | आत्मा
नासिकायां जगतः नेत्रयोः | तस्थुषः ललाटे | च शिरसि || जात शिखायां |
वेदसे ललाटे | सुनवाम कर्णयोः | सोमं नासिकायां | अराति चक्षुषोः | यत
ओष्ठयोः | नि दन्तेषु | दहाति तालुनि | वेद जिह्वायां | स ग्रीवायां | नः
बाह्वोः | पर्षत् हृदि | अति स्तनयोः | दुर् कुक्षौ | गाणि नाभौ | विश्वा पृष्ठे |
नाव पाण्योः | इव वृष्णयोः | सिन्धुं शिश्ने | दुर् कट्यां | इत ऊर्वोः | अति
जङ्घयोः | अग्निः पादयोः || सर्वासु दिक्षु तिलान्विक्षिपन्
अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः | ये भूता विघ्नकर्तारस्ते
नश्यन्तु शिवाज्ञया || पाशान्डकारिणो ये वै भूता भूम्यन्तरिक्षगाः |
दिवि लोके गता
प्. १६)
दुष्टास्ते नश्यन्तु शिवाज्ञया || २ || प्राणायामं कुर्यात् तीर्थेस्नेयं० |
वसोः पवित्रमऽसि शतधारं वसूनां पवित्रमऽसि सहस्रधार
मऽयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्तीः | इति
पवित्रधारणम्
परमात्मने पुरुषोत्तमाय पञ्चभूतात्मकाय विश्वाऽत्मने
मंत्रनाथाय आत्मने नारायणायाअधारशक्त्यै समालभनं गन्धो
नमः अर्घो नमः पुष्पं नमः || इति स्वात्मने गन्धादि |
स्वप्रकाशो महादीपः सर्वतस्तिमिरापहः |
प्रसीद मम गोविन्द दीपोयं परिकल्पितः ||
वनस्पतिरसो दिव्यो गन्धाढ्यो गन्धवत्तमः |
आह्वानं सर्वदेवानां धूपोऽयं परिकल्पितः |
नमो धर्मनिधानाय नमः स्वकृतसाक्षिणे |
नमः प्रत्यक्षदेवाय भास्कराय नमो नमः ||
यत्राऽस्ति माता न पिता न बन्धुर्भ्राताऽपि नो यत्र सुहृज्ज्नश्च |
न ज्ञायते यत्र दिनं न रात्रिस्तत्राऽत्मदीपं शरणं प्रपद्ये ||
आत्मने नारायणाय आधारशक्त्यै धूपदीपसंकल्पात्सिद्धिरऽस्तु
धूपोनमः दीपो नमः | ओंतत्सद्ब्रह्मा० ऋतुपतये नारायणाय
मार्गशीर्षे रुक्मिणीसहितायकृष्णाय श्रीसहिताय केशवाय | पौषे
प्रियासहि० अनन्ताय वागीश्वैरिस० नारायणाय | माघे प्रीतिस० अच्युताय
कान्तास० माधवाय | फाल्गुने शक्तिस० चक्रिणे क्रियास० गोविन्दाय | चैत्रे
सिद्धिस० वैकुण्ठाय मतिस० विष्णवे | वैशाखे शोभास० जनार्दनाय
विभूतिस० मधुसूदनाय | ज्येष्ठे महिमास० उपेन्द्राय इच्छास०
त्रिविक्रमाय | आषाढे लक्ष्मीस० यज्ञपुरुषाय धृतिस० वामनाय |
श्रावणे कान्तिस० वासुदेवाय रतिस० श्रीधराय | भाद्रपदे प्राप्तिस० हरये
मायास० हृषीकेशाय | आश्वयुजे प्राकाम्यास० योगीश्वराय धीस०
पद्मनाभाय | कार्तिके लघिमास० पुण्डरीकाक्षाय गरिमास० दामोदराय |
मलिम्लुचे सत्यभामास० नरकारये निष्कलास० महामार्ताण्डाय दुर्गायै
इत्यादि | सहस्रजाम्न्यै देव्यै भवान्यै पृ० १३ विष्णुपञ्चायतनदेवताभ्यो
धूपो नमः दीपो नमः | अपसव्येन नमः पितृभ्यः० नित्यकर्मनिमित्तं पित्रे
पितामहाय प्रपितामहाय | मात्रे पितामह्यै प्रपितामह्यै |
प्. १७)
मातामहाय प्रमातामहाय वृद्धप्रमातामहाय | मातामह्यै
प्रमातामह्यै वृद्धप्रमातामह्यै समस्तमातापितृभ्यो
द्वादशदैवतेभ्यः पितृभ्यः धूपः स्वधा दीपः स्वधा || सव्येन
संव्वः सृजामि हृदयं संसृष्टं मनो असुवः || १ ||
संसृष्टस्तन्वः सन्तु वः संसृष्टं प्राणो अस्तु वः || २ ||
सव्या वः प्रियास्तन्वः संप्रिया हृदयानि वः | आत्मा वो अस्तु संप्रियाः
संप्रियास्तन्वो मम || ३ ||
इति पुष्पत्रयंजलपात्रे क्षिप्त्वा अश्विनोरिति देवस्य जीवाधानं देयम् |
अश्विनोः प्राणस्तौ ते प्राणान्दत्तान्तेन जीवः | मित्रावरुणयोः प्राणस्तौ ते
प्राणन्दत्ता० | बृहस्पतेः प्राणःसते प्राणान्दत्तान्तेन जीव ||
ओं अ नाभावित्यादि देवस्य देहवन् न्यासं कुर्यात् || ओं भूः
पुरुषमित्याऽवाहनं ओं भूः पुरुषमाऽवाहयामि नमः ओं भुवः
पुरुषमाऽ० ओं स्वः पुरुषमाऽ० ओं भूर्भुवः स्वः पुरुषमाऽवा० || ३ ||
ओं भूर्भुवः स्वस्तत्स० || ३ || नमोऽस्त्वनन्ताय || ३ || वासुदेवाय विद्महे
लक्ष्मीनारायणाय धीमहि तन्नो विष्णुः प्रोचदयात् || ३ || जितन्ते
पुण्डरीकाक्ष नमस्ते विश्वभावन | नमस्तेऽस्तु हृषीकेश महापुरुष
पूर्वज || ३ || ओं नमः कारणवामनाय गोब्राह्मणहिताय च | जगद्धिताय
कृष्णाय गोविन्दाय नमो नमः || ३ || विश्वरूपाय विद्महे विष्वक्सेनाय
धीमहि | तन्नो विष्णुः प्रचोदयात् || ३ || नरसिंहाय वि० नरकोत्तारणाय धी०
तन्नो विष्णुः० || ३ || तत्पुरुषाय वि० महादेवाय धी० तन्नः शिवः प्र० || ३ ||
तत्पुरुषाय वि० वक्रतुण्डायधी० तन्नोदन्ती प्र० || ३ || भास्कराय वि०
सहस्ररश्मये धी० तन्नः सूर्यः प्र० || ३ || सुभगायै वि० काममालिन्यै धी०
तन्नो दुर्गा प्र० || ३ || ओं तत्सद्ब्रह्म० इत्यादे ऋतुपतेः नारायणस्य भगवतः
वासुदेवस्य संकर्षणस्य प्रद्युमनस्य अनिरुद्धस्य सत्यस्य पुरुषस्य
अच्युतस्य माधवस्य गोविन्दस्य सहस्रनाम्नः विष्णोः लक्ष्मीसहितस्य
नारायणस्य | भगवतः भवस्य देवस्य शर्वस्य देवस्य रुद्रस्य देवस्य
पशुपतेर्देवस्य उग्रस्य देवस्य भीमस्य देवस्य महादेवस्य ईशानस्य
देवस्य ईश्वरस्य देवस्य उमासहितस्य शिवस्य पार्वतीसहितस्य परमेश्वरस्य |
भगवतः विनायकस्य एकदन्तस्य कृष्णपिंगलस्य गजाननस्य लम्बोदरस्य
भालचन्द्रस्य हेरम्बस्य आखुरथस्य विघ्नेशस्य विघ्नभक्ष्यस्य
वल्लभासहितस्य श्रीमहागणेशस्य | भगवतः ह्रांह्रींसः सूर्यस्य
सप्ताश्वस्य अनश्वस्य एकाश्वस्य नीलाश्वस्य
प्. १८)
प्रत्यक्षदेवस्य परमार्थसारस्य तेजोरूपस्य प्रभासहितस्य आदित्यस्य |
भगवत्याः अमायाः कामायाः चार्वंग्याः टकधारिण्याः तारायाः
पार्वत्याः यक्षिण्याः श्रीशारिकाभगवत्याः श्रीशारदा भ०
श्रीमहाराज्ञीभः श्रीज्वालाभ० व्रीडाभ० वैखरीभ० वितस्ताभ०
गङ्गाभ० यमुनाभ० कालिकाभ० सिद्धलक्ष्म्याः महालक्ष्म्याः
महात्रिपुरसुन्दर्याः सहस्रनाम्न्यः देव्याः भवान्याः
विष्णुपञ्चायतनदेवतानामाऽत्मनो वाङ्० श्रीविष्णुप्रीत्यर्थं
विष्णुपञ्चायतनपूजनमर्चामऽहं करिष्ये ओं कुरुष्व ||
तिलसर्षपयवान्विकीर्य || पुरुष एवेदं ध्रुवा द्यौ० इत्याऽसनम्
| ऋतुपतेर्नारायणस्य भगवतः वासुदेवस्य इत्यादेः इदमासनं
नमः ऋतुपतये नारायणाय भगवते वासुदेवाय इत्यादिभ्यः युष्मान् वः
पूजयामि ओं पूजय || सहस्रशीर्षापु० | युञ्जते मन उत युंजते धियो विप्रा
विप्रस्य बृहतो विपश्चितः | विहोत्रा दधे वयुना विदेक इन्मयिदेवस्य सवितुः
परिष्टुतिः | तद्विष्णोः० | ऋतुपतिं नारायणं भगवन्तं वासुदेवं
संकर्षणं प्रद्युम्नं अनिरुद्धं सत्यं पुरुषं अच्युतं माधवं
गोविन्दं सहस्रनामानं विष्णुं लक्ष्मीसहितं नारायणं | भगवन्तं
भवंदेवं शर्वंदेवं रुद्रंदेवं पशुपतिंदेवं उग्रंदेवं
भीमंदेवं महादेवं ईशानंदेवं ईश्वरंदेवं उमासहितं
शिवं पार्वतीसहितं परमेश्वरं | भगवन्तं विनायकं एकदन्तं
कृष्णपिङ्गलं गजाननं लम्बोदरं भालचन्द्रं हेरम्बं आखुरथं
विघ्नेशं विघ्नभक्ष्यं वल्लभासहितं श्रीमहागणेशं | भगवन्तं
ह्रांह्रींसः सूर्यं सप्ताश्वं अनश्वं एकाश्वं नीलाश्वं
प्रत्यक्षदेवं परमार्थसारं तेजोरूपं प्रभासहितं आदित्यं |
भगवतीं अमां कामां चार्वंगीं टङ्कधारिणीं तारां पार्वतीं
यक्षिणीं श्रीशारिकाभगवतीं श्रीशारदांभ० श्रीमहाराज्ञीभ०
श्रीज्वालाभ० व्रीडाभ० वैखरीभ० वितस्ताभ० गङ्गाभ० यमुनाभ०
कालिकाभ० सिद्धलक्ष्मीं महालक्ष्मीभ० महात्रिपुरसुन्दरीं
सहस्रनाम्नीं देवीं भवानीं | विष्णुपंचायतनदेवता
आवाहयिष्यामि ओं आवाहय ||
अवाहयाम्यऽमरवृन्दनुताङ्घ्रियुग्मं लक्ष्मीपतिं
भुवनकारणमऽप्रमेयम् |
आद्यं सनातनतनुं प्रणवासनस्थं
पूर्णेन्दुभास्करहुताशसहस्ररूपम् || १ ||
ध्येयं परं सकलतत्वविदां वरेण्यं
वाराहकापिलनृकेसरिसौम्यमूर्तिम् |
श्रीवत्सकौस्तुभमहामणिभूषिताङ्गं
कौमोदिकीकमलकम्बुरथाङ्गहस्तम् || २ ||
प्. १९)
त्वं सर्वगोऽसि भगवन्किल यद्यपि त्वामाऽवाहयामि हि यथा व्यजनेन
वायुम् |
गूढो यथैव दहनो मथनादुपैति ह्यावाहितोऽसि त्वमुपैषि तथैव
चाऽर्चाम् || ३ ||
मालाधराऽच्युत विभो परमात्ममूर्ते सर्वज्ञ नाथ परमेश्वर
सर्वशक्ते |
आगच्छ मे कुरु दयां प्रतिमां भजस्व पूजां गृहाण
मदऽनुग्रहकामयाऽद्य || ४ ||
आवाहयामि मणिसन्निभमात्मबिम्बे मायापुरे हृदयपंकजसन्निविष्टम् |
श्रद्धानदीविमलदत्तजलाभिषेकं भावाष्टपुष्पविधिना हरिमर्चयामि ||
५ ||
गोक्षीराभं पुण्डरीकायताक्षं छत्राश्वाद्यैर्भूषणैर्भूषिताङ्गम्
|
श्रीभूमिभ्यामऽर्चितं योगपीठे स्वस्थं वन्दे पूजितं पद्मजेन || ६ ||
ज्योतिष्मन्तं सर्वभूतान्तरस्थं ओंकाराख्यं योगिभिर्ध्यानगम्यम् |
स्वङ्गैः शक्तैः स्वायुधैर्नित्यसेव्यं सर्वाकारं विष्णुमाऽवाहयामि || ६
||
शिवस्य |
लिङ्गेऽत्र भक्तदयया क्षणमात्रमेकं स्थाणुं विधाय भव
मद्विहितां पुरारे |
सर्वेश ! विश्वमय ! हृत्कमलाधिरूढः पूजां गृहाण भगवन्भव
मेऽद्य तुष्टः || ७ ||
गणेशस्य |
शैलेश्वरस्य तनयार्भक भक्तविघ्ननाशाय
हस्तधृतदण्डकुठारपाश ! |
द्वारेश सर्वगणनायक पद्महस्त पूजां गृहाण भगवन्भव मेऽद्य
तुष्टः || १ ||
सूर्यस्य |
ब्रह्माण्डगेहपरिदीपक शम्भुमूर्ते ! तेजोनिधान ! खचरेश्वर पूर्वदेव
|
सर्वोपचारविधिना विहितां मयाऽद्य पूजां गृहाण भगवन्भव मेऽद्य
तुष्टः || १ ||
दुर्गायाः |
श्रीशारदे ! सुरवरे ! त्रिपुरे ! सुरेशि ! दुर्गे ! भवानि ! खलु वैखरि
विश्वमातः |
शर्वार्धदेहनिलये ! परिवारयुक्ता पूजां गृहाण सुभगा भव मेऽद्य
तुष्टा || १ ||
भगवन्पुण्डरीकाक्ष भक्तानुग्रहकारक |
अस्मद्दयानुरोधेन सन्निधानं कुरु प्रभो || ३ ||
इत्याहूय तु गायत्रीं त्रिःसमुच्चार्य तत्ववित् |
मनसा चिन्तितैर्द्रव्यैर्देवमात्मनि पूजयेत् |
तेजोरूपं ततः क्षिप्त्वा प्रतिमायां पुनर्यजेत् ||
यवान्विकीर्य प्राणायामं कुर्यात् पाद्यार्थमुदकं नमः ||
शन्नोदेवी० | लाजाश्च कुंकुमंचैव सर्वौषधिसमन्वितम् |
दर्भाङ्कुरं जलं चैव पञ्चाङ्गं पाद्यलक्षणम् |
भगवन्तः पाद्यं पाद्यम् || २ |
एतावानऽस्य० पृ० ८ हिरण्यवर्णाः० ऋचः ४ | ऋतुपतये इत्यादिभ्यः पाद्यं
नमः | शेषं निवार्य पुनः शन्नो देवी० | आपः क्षीरं कुशाग्राणि घृतं
च दधि तण्डुलाः | यवाः सिद्धर्थकाश्चेति ह्यर्घ्यमऽष्ताङ्गमुच्यते |
भगवन्तः अर्घ्यं || २ ||
त्रिपादुर्ध्व० | पृ० ८ ओं आपो हि ष्ठा० ऋ० ३ ऋतुपते नारायण भगवन्
वासुदेव संकर्षण
प्. २०)
प्रद्युम्न अनिरुद्ध सत्य पुरुष | अच्युत माधव गोविन्द सहस्रनामन् विष्णो
लक्स्मीसहित नारायण | भगवन् भवदेव शर्वदेव रुद्रदेव पशुपते देव
उग्रदेव भीमदेव महादेव ईशानदेव ईश्वरदेव उमासहित शिव
पार्वतीसहित परमेश्वर | भगवन् विनायक एकदन्त कृष्णपिंगल गजानन
लम्बोदर भालचन्द्र हेरम्ब आखुरथ विघ्नेश विघ्नभक्ष वल्लभासहित
श्रीमहागणेश | भगवन् ह्रांह्रींसः सूर्य सप्ताश्व अनश्व एकाश्व
नीलाश्व प्रत्यक्षदेव परमार्थसार तेजोरूप प्रभासहित आदित्य भगवति
अमे कामे चार्वंगि टङ्कधारिणि तारे पार्वति यक्षिणि श्रीशारिकाभगवति
श्रीशारदाभ० श्रीमहाराज्ञीभ० श्रीज्वालाभ० व्रीडाभ० वैखरीभ०
वितस्ताभ० गङ्गाभ० यमुनाभ० कालिकाभ० सिद्धलक्ष्मि महालक्ष्मि
महात्रिपुरसुन्दरि सहास्रनाम्नि देवि भवानि विष्णुपञ्चायतनदेवता इदं
वः अर्घ्यं नमः || तस्माद्विराड० पृ० ८ शन्न आपो० पृ० ६ ऋतुपतये
इत्यादिभ्य आचमनीयं नमः | यत्पुरुषेण० पृ० ८ इममाऽपः पृ० ६ ऋतुपतये
इत्यादिभ्यः मन्त्रस्नानीयं नमः ||
अथ एकविंशतिस्नानानि || पयोदधिघृतक्षौद्रलाजासिद्धार्थकास्तिलाः |
यवव्रीहिकुशादूर्वामृद्भस्मफलशर्करा | पञ्चामृतं पञ्चगव्यं
कर्पूरौषधयस्तथा | एकविंशतिस्नानानि गन्धाढ्यैः कुसुमैरऽपि ||
उदुत्तमं वरुण पाशमस्मदऽवाधमं विमध्यमं श्रथाय | अथा
वयमाऽदित्यव्रते तवानागसो अदितये स्याम || पयः पृथिव्यां पय ओषधीषु
पयो दिव्यऽन्तरिक्षे पयोधाः | पयस्वतीः प्रदिशः सन्तु मह्यम् || १ ||
दधिक्राव्णो० | घृतवती भुवनानामऽमिऽऽरियोर्वी पृथिवी मधुदुघे
सुपेशसा | द्यावापृथिवी वरुणस्य धर्मणा विष्कंभिते अजरे भूरिरेतसा || ३
||
मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नः सन्त्वोषधीः | मधु
नक्तमुतोषसो मधुमत्पार्थिवं रजः मधु द्यौरऽस्तु नः पिता |
मधुमान्नो वनस्पतिर्मधुमानऽस्तु सूर्यः माध्वीर्गावो भवन्तु नः || ९ ||
तदस्य रूपममृतं शचीभि स्तिस्रो दधुर्देवताः संरराणाः | लोमानि
शष्पैर्बहुधान तोक्मभिः त्वगऽस्य मांसमभवन्न लाजाः || ५ ||
रक्षोहणं वाजिनमाजिघर्मि मित्रं प्रथिष्ठमुपयामि शर्म | शिशानो
अग्निः क्रतुभिः समिद्धः सनो दिवः सरिषः पातु नक्तम् || ६ || तिलोऽसि
सोमदैवत्यो गोसवो देवनिर्मितः | प्रयत्नवद्भिः पितृंल्लोकान्प्राण आयाहि
नःस्वधा || ७ || यवोऽसि यवयास्मद्विषं यावया रातिम् | पितृषदनन्त्वा
लोकमाऽस्तृणामि || ८ || धान्यमऽसि धिनुहि
प्. २१)
देवान्धिनुहि यज्ञन्धिनुहि यज्ञपतिन्धिनुहिमां यज्ञम् || ९ || देवस्य त्वा
सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाऽदधे || १० ||
काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि | एवा नो दूर्वे प्रतनु सहस्रेण
शतेन च || ११ || आक्रम्य वाजिन्पृथिवी मग्निमिच्छा रुचा त्वम् |
भूम्यायत्वायनोब्रूहि यतः खनेम ते वयम् || १२ || प्रसद्य भस्मना
योनिमाऽपश्च पृथिवीमग्नेः | संसृज्य मातृभिष्ट्वं
ज्योतिष्मान्पुनराऽसदः || १३ || याः फलिनीर्या अफला अकोशाः कोशिनीश्च याः
| बृहस्पतिप्रसूतास्तानो मुञ्चन्त्वंहसः || १४ ||
शर्कराभिरऽवकामवकाभिः शर्करामुत्सादेन | जिह्वामवक्रन्देन तालुं
सरस्वती जिह्वाग्रेण || १५ || पञ्चव्युष्टीऽनुपञ्चदुहागां पञ्चनाम्नी
मृतवोऽनु पञ्च | पञ्च दिशः पञ्चदशेन कॢप्ताः
समानमूर्ध्नीरऽभिलोकमेकम् || १६ || गोमूत्रं गोमयं क्षीरं दधि
सर्पिः कुशोदकम् | मिश्रीकृत्य समुद्रादूर्मिर्मधुमां
उदारदुपांशुनासमऽमृतत्वमानट् | घृतस्य नाम गुह्यं यदस्ति जिह्वा
देवानामऽमृतस्य नाभिम् || १७ || त्र्यम्बकं यजामहे सुगन्धिं
रयिपोषणम् | उर्वारुकमिवबन्धनान्मृत्योर्मोक्षीय मा मृतात् || १८ || या
ओषधयः प्रथमजा देवेभ्यस्त्रियुगं पुरा | मनैनु बभ्रूणामःअं
शतं धामानि सप्त च || १९ || गन्धद्वारां दुराधर्षां नित्यपुष्टां
करीषिणीम् | ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् || २० || पुष्पवतीः
प्रसुमतीः फलिनीरऽफला उत | अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः || २१
|| ऋतुपतये इत्यादिभ्यो एकविंशतिस्नानानि नमः ओं अम्बुना पयसा दघ्ना
घृतेन मधुना यवैः | शर्करासर्षपतिलैस्तथा चामिकरेण वै |
कर्पूरकुंकुमाभ्यां च लाजाऽक्षोटैः सपुष्पकैः |
सर्वोषध्यस्तथापश्चाद्विष्णोः स्नानानि षोडश | दद्यात्षोडश
स्नानानि षोडशर्चेन विष्णवे | आदौ शुद्धजलेन वसोः
पवित्रमऽसि० ऋतुपतये० इत्यादिभ्याः शतधारोदकं नमः
सहस्रधारोदकं नमः || ततः आनुष्टुभस्येति पुरुषसूक्तेन १६ | रथे
अक्षेषु वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे | इन्द्रं या देवी
सुभगा जजान सेयमागाद्वर्चसा संविदाना || १ || या हस्तिनि द्वीपिनि या
हिरण्ये गोष्वऽश्वेषु पुरुषेष्वऽन्तः | इन्द्रंया० || २ || सिंहे व्याघ्रे उत या
पृदाकौ त्विषिरग्नौ ब्रह्मणे सूर्ये या | इन्द्रं या देवी० || ३ || या राजन्ये
दुन्दुभावायताया मऽश्वस्य स्कन्दे पुरुषस्य मायौ | इन्द्रं० ४ इति
लक्ष्मीसूक्तेन च तद्विष्णोः० ऋतुपतये इत्यादि षोडशस्नानानि नमः ||
पानीयान्तरितैः पयोदधिघृतैः क्षौद्रेक्षुभिः सौषधैः | ब्रीह्यद्भिः
कुसुमोदकैः फलजलैः
प्. २२)
सिद्धार्थलाजोदकैः || गन्धाद्भिः शुभहेमरत्नसलिलैरित्थं सदा चोत्तमैः
| दद्यात्पञ्चदशाम्बुना सह महास्नानानि शम्भोः क्रमात् || उदुत्तमं १
पयः पृथिव्याः २ दधि क्राव्णो ३ घृतवती ४ मधुवाता ५ स्वादुः पव
स्वदिव्याय जन्मने स्वादुरिन्द्राय सुहवीतनाम्ने स्वादुर्मित्राय वरुणाय
वायवे बृहस्पतये मधुमां अदाभ्यः || ६ || या ओषधयः ७ धान्यमसि ८
पुष्पवतीः ९ याः फलिनीः १० रक्षोहणं ११ तदस्य रूपं १२ गन्ध
द्वारां १३ हिरण्यवर्णाः १४ ऋतं चसत्यं १५ पृ० ७ || असंख्याताः
सहस्राणि ये रुद्रा अधिभूम्याम् | तेषां सहस्रयोजनेव धन्वानि तन्मसि १
यऽस्मिन्महत्यऽर्णवेऽन्तरिक्षे भवा अधि | तेषां || २ || ये नीलग्रीवाः
शितिकण्ठा दिवं रुद्रा उपाश्रिताः || तेषां० ३ | ये नीलग्रीवाः शितकण्ठाः
शर्वा अधः क्षमाचराः || ते० ४ || ये वनेषु शिल्पिञ्चरा नीलग्रीवा विलोहिताः ||
ते० ५ || येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् | ते० || ६ || ये
भूतानामधिपतयो विशिखासः कपर्दिनः | ते० || ७ || ये पथीनां पथि
रक्षय ऐडमृदाय व्युधः | ते० || ८ || ये तीर्थानि र्पचरन्ति सृकावन्तो
निषङ्गिणः | ते० || ९ || य एतावन्तो वा भूयांसो वा दिशो रुद्रा वितिष्ठिरे | ते० ||
१० || ओं नमो अस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यो दश प्राचिर्दश
दक्षिणा दश प्रतिचीर्दशोदीचीर्दशोर्ध्वा स्तेभ्यो नमो अस्तु ते नो मृदयन्तु ते
यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि || १ || ओं नमो अस्तु
रुद्रेभ्यो ये अन्तरिक्षे येषां वात इषवस्तेभ्यो दशप्राची० || २ || ओं नमो अस्तु
रुद्रेभ्यो ये पृथिव्यां येषामऽन्नमिषवस्तेभ्यो० || ३ || यो रुद्रो अग्नौ यो अप्सु
य ओषधीषु यो वनस्पतिषु | यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो
अस्तु देवाः | भगवते भवाय देवाय | इत्यादि पञ्चदशस्नानानि नमः | ओं
गणानान्त्वा गणपतिं हवामहे कविङ्कवीनामुपमश्रवस्तमम् |
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः शृण्वन्नूतिभिः सीद सादनम्
| भगवते विनायकाय इत्यादि चतुर्दशस्नानानि नमः | पयः क्षीरं दधि
सर्पिरिक्षुस्तिला यवा मधु | लाजामृतं पञ्चगव्यं
गन्धपुष्पौषधीस्तथा | त्रयोदशस्नानेऽमूनि सूर्यस्योक्तानि सूरिभिः |
उद्वयन्तमसस्परि० षट् ऋग्भिः पृ० ७ पं० २१ ह्रांह्रींसः सूर्याय इत्यादि
त्रयोदशस्नानानि नमः | लाजागन्धवाचः कुष्ठं वालुकं
शङ्खपुष्पकम् | कुङ्कुमागुरुकर्पूरं स्नाने देव्याः प्रकल्पयेत् || अहं
रुद्रेभिर्वसुभिश्चरामिऽ-अहमादित्यैरुत विश्वदेवैः |
अहम्मित्रावरुणोभाबिभर्म्यऽहमिन्द्राग्नी अहमश्विनोभा | दधि क्राष्णो० |
आपो
प्. २३)
हिष्ठा० | ओं भूर्भुवः स्वस्त० | जातवेदसे सुनवाम सोम मऽराती यतो
निदहाति वेदः | स नःपर्षदऽतिगुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः |
भगवत्यै अमायै इत्यादि अष्टौ स्नानानि नमः | अग्निर्-ऋषिः पवमानः
पाञ्चजन्यः पुरोहितः तमीमहे महागयम् | पाञ्चजन्याय शङ्खाय
स्नानं नमः | कयानश्चित्र आभूव दूती सदा वृधः सखा कया
शचिष्ठया वृता | देवदूत्यै घण्टाभगवत्यै स्नानं नमः || तओ
ब्रह्मादयः सर्वे देवास्तृप्यन्तु० इत्यादि देवर्षिपितृतर्पणं |
सव्येन- विष्णुपीठे भद्रपीठे य इदं तर्पणं पठेत् | धनं
कीर्तिर्यशश्चैव नित्यं च सुखमश्नुते | बह्वायुश्च बहून्पुत्रान्यजमानो
लभेत्सदा | वपुः पूतं पवित्रं च नित्यं गोदानकं फलम् | मा विघ्नं
मा च मे पापं सन्तु परिपन्थिनः | सौम्या भवन्तु तृप्ताश्च भूताः
प्रेताः सुखावहाः | ओं नमो देवेभ्यः इत्यादि | शुद्धजलेन तद्विष्णोः०
भगवते वा० इत्यादिभ्यो मन्त्रगुडकं नमः | ओं प्रत्यग्ने हरसाहरः
शृणीहि विश्वतः प्रति | यातुधानस्य रक्षओ बलं विरुज वीर्यम् || इत्याऽरात्रिका
| ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः | अत्राह
तदुरुगायस्य वृष्णः परमं पदमऽवभाति भूरि | इति नेत्रस्पर्शनम् |
उदकं चन्दनं चक्रं शङ्खश्च तुलसीदलम् | घंटा शिला
ताम्रपत्रमऽष्टाङ्गं चरणामृतम् | ओं तद्विष्णोः० | भगवते वासु० इत्यादि
चरणामृतं गृह्णामि नमः || आपो हि ष्ठा इति शिरसि मार्जयेत् आसनाय
नमः पद्मासनाय नमः गरुडासनाय नमः शतदलपद्मास० |
सहस्रदलप० वृषभास० मूषका० सप्ताश्वासना० सिंहासनाय नमः ||
उत्तिष्ठ भगवन्विष्णो उत्तिष्ठ कमलापते ! | उत्तिष्ठ त्रिजगन्नाथ ! त्रैलोक्ये
मंगलं कुरु || मुकुन्दमालां पठित्वा | रथे अक्षेषु ऋ ४ ओं भगवते
वासुदेवाय इत्यादिभ्योऽनुलेपनं गृह्णामि नमः | तं यज्ञं० युवा
सुवासाः० ऋतुपतये० इत्यादिभ्यो वस्त्रं नमः | तस्माद्यज्ञात्सर्वहुतः
संभृतं० यज्ञोपवीतं० ऋतु० यज्ञोपवीतं वासोनमः |
तस्माद्यज्ञात्सर्वहुतः ऋचः० गन्धद्वारां० ऋतुप० समालभनं गन्धो
नमः || तस्मादऽश्वा० पुष्पवतीः० ऋतु० अर्घो नमः | पुष्पं नमः ततः
पुरुषसूक्तेन लक्ष्मीसूक्तेन च पूर्वे नारायणाय नमः दक्षिणे
पुण्डरीकाक्षाय० पश्चिमे गोविन्दाय उत्तरे मधुसूदनाय ऐशान्यां
विष्ण्ववे आग्न्येययां जनार्दनाय नैर्-ऋत्यां पद्मनाभाय वायव्यां
वामनाय ऊर्ध्वे वासुदेवाय अधरे लोकनाथाय मध्ये केशवाय
शङ्खाय चक्राय गदायै हलाय मुसुलाय
प्. २४)
कौस्तुभाय जयाय विजयाय धात्र्यै शेषाय अयनद्वयाय द्वारे चण्डाय
उपचण्डाय ऋग्वेदाय यजुर्वे० सामवे० अथर्ववे० कृतयुगाय त्रेतायु०
द्वापरयु० कलियु० ओं भूर्लोकाय ओं भुवोलो० ओं स्व्र्लो० ओं भूर्भुवःस्वर्लो० |
तद्विष्णोः० || २ || वासुदेवाय इत्यादि यो रुद्रो० भवाय देवाय इत्यादि |
गणानान्त्वा० | विनायकाय इत्यादि | चित्रन्देवानां | ह्रांह्रींसः सूर्याय
इत्यादि | जातवेदसे० अमायै इत्यादि अर्घो नमः पुष्पं नमः | यत्पुरुषं पृ०
८ धूरसि धूर्व धूर्वन्तं योऽस्मान्धूर्वति तं धूर्वय
वयन्धूर्वामस्तंच् अ धूर्व | देवानामसि वह्नितमं सस्नितमं
पप्रितमं इष्टतमं देवतमं विष्णोः क्रमोस्याहुतमसि हविर्दानं
दृंहस्व स्वाह्वान्मित्रस्य त्वा चक्षुषा प्रेक्ष उरुत्वावाताय | वसवस्त्वां
धूपयन्तु गायत्रेण च्छन्दसाङ्गिरस्वत् | रुद्रास्त्वा धू० त्रैष्टुभेन च्छ० |
आदित्यास्त्वा धू० जागतेन च्छ० विश्वेत्वा देवा वैश्वानरा धू०
आनुष्टुभेन च्छ० | इन्द्रस्त्वा धूपयतु | वरुणस्त्वा धू० | विष्णुस्त्वा धू०
| ऋतुप० इत्यादिभ्यो धूपं परिकल्पयामि नमः || ब्राह्मणोऽस्य० | तेजोसि
शुक्रमसि ज्योतिरसि धामासि | प्रियन्देवानामऽनाधृष्टन्देवयजनं
देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि || ऋतु०
इत्यादिभ्यो रत्नदीपं परिकल्पयामि नमः देवस्य त्वा० जय नारायण०
शिवयोर्लीलास्तुतिं पठित्वा ऋतुप० चामरं परिकल्प० नमः |
काण्डात्काण्डा० छत्रं परि० | तच्चक्षु० आदर्शं परि० | एताभ्यो देवताभ्यो
धूपो नमः दीपो नमः | एता० वासो नमः | एतासां
देवतानामर्घ्यदानाद्यऽर्चनविधिःसर्वः परिपूर्णोऽस्तु ||
चन्द्रमामनसो० हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् |
स दाधार पृथिवीं द्यामुतेमां कस्मैदेवाय हविषा विधेम | ऋतुप०
विष्णुपंचायतन दे० मात्रामधुपर्कं चरुं निवेदयामि नमः नाभ्या
आसीत्० कुसुमांजलिं परिक० | सप्तास्याऽसन्० ओं नमो नारायणाय
भगवन्प्रसीद इति च चत्वारि प्रदक्षिणानि || ध्येयं सदा
परिभवघ्नमऽभीष्टदोहं तीर्थास्पदं शिवविरञ्चिनुतं शरण्यम् |
भृत्यार्तिहं प्रणतपाल ! भवाब्धिपोतं वन्दे महापुरुष ते
चरणारविन्दम् | त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं धर्मिष्ठ !
आर्यवचसा यदगादऽरण्यम् | मायामृगं दयितयेप्सितमेऽनुधावत् वन्दे०
|| २ || श्रीमत्सरोरुहयवांकुशचक्रचाप मत्स्याङ्कितं
नवविलोहितपल्लवाभम् | लक्ष्म्यालयं परममङ्गलमात्मरूपं वन्दे० || ३
|| वृन्दावनान्तरमऽगादऽनु गोकुलानां सञ्चार्य सर्वपशुभिः
प्. २५)
स्वविवृद्धिकामी | सञ्चिन्तयेदऽगगुरोर्मृगपक्षिणां यद्वन्दे० || ९ ||
यद्गोपिका विरहजाग्निपरीतदेहास्तप्तस्तनेषु विजहुः परिरभ्य तापम् | रासे
तदीयकुचकुंकुमपंकलिप्तं वन्दे० || ५ ||
कालीयमस्तकविघट्टनदक्षमऽस्य मोक्षेप्सुभिर्विरहदीनमुखाभिरारात् |
तत्पत्निभिः स्तुतमऽशेषनिकामरूपं वन्दे० || ६ || ज्ञानालयं
श्रुतिविमृग्यमऽनादिमऽर्च्यं ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः |
संसारकूपपतितोत्तरणावलम्बं वन्दे० || ७ || येनाङ्कपालवपुषः
स्तनपानबुद्धेस्त्वदंघ्रिणा हृतमऽनो विपरीतचक्रम् |
विध्वस्तभाण्डमऽपतद्भुवि गोपमूर्तेर्वन्दे० ८ इत्यष्टकं पठति यः
परमस्य पुंसो नारायणस्य निरयार्णवतारणस्य | सर्वाप्तिमाशु हृदये
कुरुते मनुष्यैः संप्राप्य देहविलयं लभते च मोक्षम् || ९ || उभाभ्यां
जानुभ्यां पाणिभ्यां शिरसा उरसा मनसा वचसा च नमस्कारं करोमि
नमः | अन्नं नमः २ आज्यं २ अद्यदिने अद्य यथा संकल्पात्सिद्धिरस्तु
अन्नहीनं क्रियाहीनं विधिहीनं द्रव्यहीनं मन्त्रहीनं च यद्गतं
तत्सर्वमऽच्छिद्रं सम्पूर्णमस्तु एवमस्तु || शन्नो देवी० ऋतुपतये
इत्यादिभ्यः अपोशानं नमः आचमनीयं नमः || पुनः शन्नो देवी० | ऋ०
दक्षिणायै तिलहिरण्यरजतनिष्कर्षं ददानि | एता देवताः सदक्षिणाऽन्नेन
प्रीयंतां प्रीताः सन्तु || अमृतेशमुद्रया अमृतीकृत्य० इत्यादि सर्वो
नैवेद्यविधिः | तद्विष्णोः० इति पुष्पद्वयं क्षिपेत् || ततो जपादि कृत्वा | ओं भूः
पुरुषं विसर्जयामि नमः ओं भुवः पुरुषं विस० ओं स्वः पुरुषं वि० ओं
भूर्भुवः स्वः पुरुषं विस० | ओं भूर्भुवः स्वस्तत्स० ३ | इत्यादि सर्वा
गायत्रीः पठित्वा आत्मनो० श्रीविष्णुप्रीत्यर्थं
विष्णुपञ्चायतनपूजनमच्छिद्रं सम्पूर्णमऽस्तु एवमस्तु | एताभ्यो
देवताभ्यो यवोदकं नमः उदकतर्पणं नमः | आज्ञा मे दीयतां नाथ
नैवेद्यस्याऽस्य भक्षणे | शरीरयात्रासिद्ध्यर्थं भगवन् क्षन्तुमऽर्हसि |
आपन्नोस्मि शरण्योसि सर्वावस्थासु सर्वदा | भगवंस्त्वां प्रपन्नोऽस्मि
रक्ष मां शरणागतम् | एवं पञ्चानां देवानां स्तोत्रपाठादि
पठित्वा || आह्वानं नैव जानामि नैव जानामि पूजनम् | पूजाभागं न
जानामि क्षम्यतां परमेश्वर | उमाभ्यां जानुभ्यां इत्यादि
नमस्कारं करोमि नमः | नमो ब्रह्मणे ३ इति तर्पणम् यजेन यज्ञं इति
विसर्जनम् || बलिर्विभीषणो भीष्मः प्रह्लादो नारदः शुकः | षडेते
वैष्णवश्रेष्ठा गृह्णन्तु चरणोदकम् | ओं नमो देवेभ्यः० इत्यादि || पूजितोसि
मया भक्त्या भगवन्कमलापते | सलक्ष्मीको मम स्वान्तं
प्. २६)
विश विश्रान्तिहेतवे | इति विज्ञप्य चरणाऽमृतं पिबेत् चरणं पवित्रं विततं
पुराणं येन पुतस्तरति दुष्कृतानि | तेन पवित्रेण शुद्धेन पूतः
अतिपाप्मानमऽरातिंतराम | लोकस्य द्वारमर्चिष्म्ज्ज्योतिष्मत् लोकस्य धारां
बहुधा दोहमानं चरणं नृलोके सततं ददातु |
देवदेव महादेव शंखचक्रगदाधर |
देहि विष्णो ममानुज्ञां पादोदकनिषेवणे || १ ||
अकालमृत्युहरणं सर्वव्याधिनिवारणम् |
श्रीविष्णुपादोदकं पीत्वा पुनर्जन्म न विद्यते ||
इति विष्णुपंचायतनपूजाविधिः ||
अथ पंचगव्यविधिः ||
गोमूत्रं गोमां क्षीरं दधि सर्पिः कुशोदकम् |
निर्दिष्टं पञ्चगव्यं च पवित्रं कायशोधनम् || १ ||
गायत्र्याऽदाय गोमूत्रं गन्धद्वारेति गोमयम् |
आप्यायस्वेति च क्षीरं दधि क्राव्णेति वै दधि || २ ||
तेजोसीति घृतं प्रोक्तं देवस्यत्वा कुशोदकम् |
गोमूत्रं गोमये क्षेप्यं ते संक्षिप्ये घृते तथा || ३ ||
तानि दध्नि प्रक्षिप्यानि तत्सर्वं पयसोन्तरे |
एकीकृत्य तु तत्सर्वं कुशोदकविमध्यगम् || ४ ||
आपो हिष्ठेति चाऽलोड्य प्रणवेन तु तत्पिबेत् |
औदुम्बरे पद्मपत्रे रौप्यपात्रे हिरण्मये || ५ ||
मंत्रपूतं पिबेत्तत्तु त्रीन्वारान्पञ्चगव्यकम् |
शुद्धवतीति मन्त्रेण प्रक्षिपेद्दिक्षु सर्वतः || ६ ||
पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते |
घृतं च पलमात्रं स्याद्गोमयं तोलकद्वयम् || ७ ||
दधि प्रसृतमात्रं स्यात्पञ्चगव्यं त्विदं स्मृतम् |
अथवा पञ्चगव्यानां समानो भाग इष्यते || ८ ||
मूलमंत्रेण संमंत्र्य कुशाग्रेणैव शोधयेत् |
तेन सर्वविशुद्धिः स्यात्सर्वपापनिकृतनम् || ९ ||
प्. २७)
गोमूत्रं ताम्रवर्णायाः शुद्धवत्यास्तु गोमयम् |
पयः काञ्चनवर्णाया नीलायाश्च तथा दधि || १० ||
घृतं च कृष्णवर्णायाः सर्वं कापिलमेव वा |
गोमूत्रं माषकास्त्वष्टौ गोमयस्य तु षोडश || ११ ||
पयसो द्वादश प्रोक्ता दध्नः पञ्चदश स्मृताः |
घृतस्याऽष्तादश प्रोक्ताः प्रमाणं पंचगव्यके || १२ ||
एकोनविंशमाषास्तु कुशोदकस्य च स्मृताः |
गोमूत्रमुत्तरे स्थाप्यं गोमयं वारुणे न्यसेत् || १३ ||
सर्पिर्याम्यां दधि प्राच्यां क्षीरं मध्ये तु निक्षिपेत् |
कुशोदकं तथैशान्यां पंचगव्यस्थितेर्विधिः || १४ ||
वरुणो देवता मूत्रे गोमये हव्यवाहनः |
विष्णुः क्षीरे दध्नि सोमो घृतस्य पितृमांस्तथा || १५ ||
कुशोदके भवेद्ब्रह्मा पञ्चगव्यस्य देवताः |
मातृघ्नं भ्रूणहन्तारं गुरुतल्पगमेव वा || १६ ||
पञ्चगव्यं सकृत्पीतं पापेभ्यो विनिवर्तयेत् इति ||
अथ दिक्क्षेपणमंत्राः ||
एतोन्विद्रं स्तवामहेऽहं शुद्धः शुद्धेन साम्ना |
शुद्धैरुक्तैर्वावृष्ट्या संशुद्ध आशीर्वान्मम ||
तुतान्धुवाम यङ्गिर इन्द्र मुक्ता न वावृधः |
पुरूण्यऽस्य पांस्यामिषासन्तो हवामहे ||
इन्द्र शुद्धो हतो नहि शुद्धः शुद्धाभिरूतिभिः |
शुद्धो रयिं निधारय शुद्धः समद्धि सौम्यः ||
इन्द्रः शुद्धो हि नोरयिं शुद्धो रत्नानि दाशुषे |
शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजो सिषामहि ||
पञ्चव्युष्टीरनु० पृ० २१ प० ८ इति पञ्चगव्यविधिः ||
भोजनविधिः |
अथ भोजनविधिः || तत्रादौ लेपनं विधाय
चतुष्कोणं तु विप्रस्य क्षत्रियस्य त्रिकोणकम् |
मण्डलाऽकृति वैश्यस्य शूद्रस्याऽभ्युक्षणं स्मृतम् || १ ||
अकृत्वा मण्डलं ये तु भुञ्जतेऽन्नमऽधोमुखाः |
तेषां तु यक्षरक्षांसि भुञ्जतेऽन्नस्य तद्बलम् || २ ||
पञ्चाऽर्द्रो भोजनं कुर्याद्वाग्युतः प्राङ्मुखः शुचिः |
हस्तौ पादौ तथा वक्त्रमेषा पञ्चाऽर्द्रता मता || ३ ||
ततोऽन्नपात्रमाऽनीय |
अन्नं दृष्ट्वा प्रणम्याऽदौ प्राञ्जलिः कथयेदिदम् |
अस्माकं नित्यमऽस्त्वेतदिति स्मृत्वा च वन्दयेत् || ४ ||
अमृतमुद्रयाऽन्नपात्रं गृहीत्वा |
अन्नपते अन्नस्य नो देह्यऽनमीवस्य शुष्मिणः |
प्र प्रदातारं तारिषं ऊर्जं नो देहि द्विपदे शं चतुष्पदे || ५ ||
गायत्र्या चाऽभिमंत्र्य || ६ || ततो जलेनाऽभ्युक्ष्य | ओं उच्छिष्टोच्छिष्टोपहतं
यच्च पापेन हतं मृतसूतकाद्वा | वसोः पवित्रमऽग्निः सवितुश्च रश्मयः
पुनन्त्वऽन्नं मम दुष्कृतं यच्चाऽन्यत् || ७ || ओं तद्विष्णोः परमं० || ८ || इति
च | ततो दक्षिणभागे भूमौ | ओं भूपतयेनमः ओं भुवनपतये नमः ओं
भूतानां पतये नमः | इति बलित्रयं निवेद्य | ये केचिद्यत्र तत्रस्थाः
प्रेतभागवशाऽनुगाः | इहैव भूमौ ते सर्वे मद्दत्तलेपमऽद्यताम् || ९ || इति
लेपं भूमौ प्रक्षाल्य अन्तश्चरसि भूतेषु इति ब्रह्मार्पणं
ब्रह्महविर्ब्रह्माऽग्नौ ब्रह्मणा हुतम् | ब्रह्मैव तेन गन्तव्यं
ब्रह्मकर्मसमाधिना || ११ || ओं अमृतोपस्तरणमऽसिस्वाहा इत्याऽचम्य |
प्राणायस्वाहा इति तर्जनीमध्यमाभ्यां | अपानाय स्वाहा इति
मध्यमाऽनामिकाङ्गुष्ठैः | समानाय स्वाहा इति
कनिष्ठाऽनामिकाऽङ्गुष्ठैः उदानाय स्वाहा इति तर्जनींविनाऽङ्गुलिभिः ||
व्यानाय स्वाहा इति सवाङ्ग्लिभिर्दत्तामाऽहुतिं जिह्वयैवाऽत्वा |
शेषमिष्टदेवतामंत्रमंत्रितं प्रत्येकं ग्रासं ग्रसित्वा |
गण्डूषैर्मुखं विशोध्य | ओं अमृतापिधानमसि स्वाहा इत्याऽचम्य ||
ये कांक्षणमाना जीवा वै ये च कर्मवशाऽनुगाः |
भुञ्जतां ते ममोच्छिष्टं पात्रशेषं समर्पितं || १२ || इत्यभिमंत्र्य
शेषान्नं भूमौ निर्वपेत् ||
प्. २९)
दक्षिणकराङ्गुष्ठेन दक्षिणपादाङ्गुष्ठं |
अङ्गुष्ठमात्रः पुरुषः सोऽङ्गुष्ठाग्रमुपाश्रितः |
ईशः सर्वस्य जगतः प्रभुः प्रीणातु विश्वभुक् || १३ || इति निप्लावयित्वा |
शर्यातिश्च सुकन्या च शक्रश्च च्यवनोऽश्विनौ |
षडेते गारुडीं दृष्टिं मह्यं ददतु सर्वदा || १४ || इति
नेत्रयोरऽङ्गुष्ठेनोदकं संस्पृश्य | इष्टदेवतां स्मरन् | प्रानोऽग्निः
परमात्मा वै पञ्चवायुसमाश्रितः |
स प्रीतः प्रीणातु विश्वं विश्वभुक् || १५ ||
विश्वोऽसि वैश्वानरोऽसि विश्वमाऽभाससे जायमानः |
विशन्ति त्वामाऽहुतयश्च सर्वाः प्रजास्तत्र यत्र विश्वाऽमृतोसि || १६ ||
अहं वैश्वानरो भूत्वा प्राणिनां देहमाऽश्रितः |
प्राणाऽपानसमायुक्तः पचाम्यऽन्नं चतुर्विधम् || १७ ||
अहमऽन्नमहमन्नदः अहमन्नादः ||
अगस्त्यः कुम्भकर्णश्च भीमश्च वडवानलः |
भोजनान्ते स्मरेन्नित्यं कुक्षौ रोगो न जायते || १९ ||
राज्ञां शिवं चाऽस्तु तथा द्विजानां गवां शिवं चाऽस्तु तथा
प्रजानाम् |
आतङ्कहीनं जगदऽस्तु सर्वं दोषा विनाशं सकलाः प्रयान्तु || २० || इति
पठेत् ||
इति भोजनविधिः ||
अथ गुरुस्तुतिः
ओं ब्रह्माऽनन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमऽस्याऽदिलक्ष्यम् |
एकं नित्यं विमलमऽचलं सर्वधीसाक्षिभूतं
भावाऽतीतं त्रिगुणरहितं सद्गुरुं तं नमामि || १ ||
स्मारं स्मारं जनिमृतिभयं जातनिर्वेदवृत्ति-
र्ध्यायं ध्यायं पशुपतिमुमाकान्तमऽन्तर्निषण्णम् |
पायं पायं सपदि परमानन्दपीयूषधारा
भूयो भूयो निजगुरुपदाऽम्भोजयुग्मं नमामि || २ ||
प्. ३०)
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ |
तस्यैते कथिता ह्यर्थाः प्रकाश्यन्ते महात्मनः || ३ ||
नमामि सद्गुरुं शान्तं प्रत्यक्षं शिवरूपिणम् |
शिरसा योगपीठस्थं धर्मकामार्थसिद्धये || ४ ||
श्रीगुरुं परमानन्दं वन्दे आनन्दविग्रहम् |
यस्य सान्निध्यमात्रेण चिदाऽनन्दायते परम् || ५ ||
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् |
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः || ६ ||
अज्ञानतिमिरान्धस्य ज्ञानाऽञ्जनशलाकया |
चक्षुरुन्मूलितं येन तस्मै श्रीगुरवे नमः || ७ ||
हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन |
सर्वदेवस्वरूपाय तस्मै श्रीगुरवे नमः || ८ ||
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः साक्षान्महेश्वरः |
गुरुरेव जगत्सर्वं तस्मै श्रीगुरवे नमः || ९ ||
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् |
ज्ञानमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा || १० ||
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे |
विद्यावतारसंसिद्ध्यै स्वीकृताऽनेकविग्रह || ११ ||
नवाय नवरूपाय परमार्थैकरूपिणे |
सर्वाऽज्ञानतमोभेदभानवे चिद्घनाय ते || १२ ||
स्वतन्त्राय दयाकॢप्तविग्रहाय परात्मने |
परतन्त्राय भक्तानां भव्यानां भव्यहेतवे || १३ ||
ज्ञानिनां ज्ञानरूपाय प्रकाशाय प्रकाशिनाम् |
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् || १४ ||
पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यऽधः |
सदा मच्चित्तरूपेण विधेहि भवदाऽसनम् || १५ ||
इति श्रीगुरुस्तुतिः |
अथ महागायत्रीस्तुतिः |
सदा गवेषयन् जगत्त्रयेषु वेदमातरं
चिदाऽत्मना कृतस्थितिं समत्र चाऽद्य लब्धवान् |
उदऽस्रु गद्गदं महोदयात्प्रणौमि भक्तिनौ-
कया सुदुस्तरं द्रुतं तितीर्षुराऽपदऽर्णवम् || १ ||
सुदीनलोकपातिनी सतां कृपाऽतिशोभते
ह्यऽतः सुधांशुचक्षुषेक्षयाऽम्ब ! मादृशं जनम् |
नवाऽपि हीयते तवेषदीशि ! पालनेन नो
भवात् यतः कुपुत्रता न भासते प्रसूहृदि || २ ||
नमामि मुक्तविद्रुमप्रतप्तहाटकाऽसिताऽ-
वदातवर्णसुन्दरैः षडऽर्धलोललोचनैः |
सरोजषण्डबान्धवप्रतप्तहाटकप्रभैः
किरीटरत्नरंजितैः सुधांशुखण्डमंडितैः || ३ ||
मुखैर्दशार्धसंमितैर्विराजमानविग्रहां
सुरेशचापसप्रभां समस्तदेववन्दिताम् |
वराऽभयाऽङ्कुशाऽन्वितैः कपालशूलशङ्खच-
क्रसारसद्वयीगुणाऽङ्कितैः करैर्विराजिताम् || ४ ||
भवद्रुमस्य मूलतां गतां मुनीन्द्रवन्दिता-
मऽखण्डभावमण्डलप्रकाशकारिणीं शिवाम् |
समस्तदेवतामयीं समस्तसिद्धिदायिनी-
मऽपूर्वरूपविग्रहां सरस्वतीं भवार्तिहाम् || ५ ||
शुचीन्दुसूर्यलोचनां शुचीन्दुसूर्यविग्रहां
शुचीन्दुसूर्यसङ्गमस्वभावशालिनीं शुभाम् |
पदद्वयाऽनुकम्पितस्वशक्तिचक्रसेवितां
परेशशक्तिमुत्तमां भजे त्रिलोकसुन्दरीम् || ६ ||
महामहेश्वरीजगद्विसर्गसुस्थितिक्षय-
स्वतन्त्रता शरीरिणी बभूव या महेशितुः |
प्. ३२)
द्विपत्रिताऽदिभेदतो लतायमानविग्रहा
त्रयीश्वरी सदा तु सा जगज्जयाय जायताम् || ७ ||
नमामि तन्मुखाऽरविन्दपञ्चकं मलाऽपहं
गलैकनालकं सदाविकासि भक्तिसम्भवम् |
स्वभक्तहंससेवितं शुचीन्दुपद्मबन्धवः
प्रतीकभूतविग्रहा गता हि यत्र पञ्चताम् || ८ ||
भवाऽर्णवेऽतिदुःसहस्मराऽधिदिग्धमानसं
षड्-ऊर्मिनित्यपीडितं जनं दिधीर्षुमानसा |
श्रुतिध्वनिस्फुरन्मुखाऽरविन्दभूसुरैः सदा
त्रिसन्ध्यमीश्वरी नुताऽस्तु सा सुखप्रदा हि नः || ९ ||
त्रयिप्रसूः स्वदृष्टिपातधूतभक्तिकल्मषा
समैर्जनैर्नुता मुदा स्ववर्णधर्मभेदतः |
निलिम्पनिम्नगामिषेण पादधौतजं जलं
यदीयमाऽगतं क्षितिं तनोनु नः शिवं तु सा || १० ||
स्वदम्भवञ्चिताऽखिलं कुभोगसक्तमानसं
सदाशुचिं कुमार्गगं शठं च शंकसे यदि |
कथं स्वपादचिन्तनोत्थवैभवं नहीश्वरि !
यतोऽङ्घ्रिचिन्तकं दयादृशेक्षसे न मादृशम् || ११ ||
अनेकदोषदूषितेष्वऽनिर्विवेचना सती
स्वतन्त्रशक्तिरीश्वरी भवाघनाशकारिणी |
कृपामयीं दृशं विधाय सा स्वभक्तिपात्रितं
स्वपत्कजे मधुव्रतं करोतु मामऽहर्निशम् || १२ ||
त्रिसन्ध्यमिष्टदैवतं सुकेशवास्यजं स्तवं
स्मरन् हृदीद्धभावनो विधाय वेदमातरम् |
विधूय पापसञ्चयं वितीर्य कीर्तिमुत्तमा-
मिहत्वऽमुत्र कैवलं पदं स याति निर्भयम् || १३ ||
इति श्रीमहागायत्रीलीलास्तुतिः |
प्. ३३)
प्रार्थनास्तुतिः ||
ओं दुर्निवारभवध्वान्त ध्वंसनैककृतेक्षणाम्
नौमि मोहविनाशाय भीतो ब्रह्मादिदैवताम् || १ ||
दुर्गतिं हर मे देवि बहुजन्मशतार्जिताम् |
प्राप्य कल्पतरुच्छायां कथं सन्तप्यते जनैः || २ ||
पश्य मामाऽशु गायत्रि बिभ्यतं स्निग्धचक्षुषा |
न बालमऽबलं पुत्रं मुञ्चत्यऽग्रगमम्बिका || ३ ||
एहि मां पाणिपद्मेन देहि तूर्णं वरं शुभम् |
महामोहाऽकुलं दीनमेहि मां स्पृश नित्यशः || ४ ||
मातः प्रतीक्षते नाऽर्तो यत्तदाऽशु प्रसीद मे |
हित्वाऽक्षसूत्त्रं सावित्रि निर्विघ्नं पश्य मामिह || ५ ||
शृण्वतो नाऽन्यकृत्यं स्यात्तत्त्वं परहितं कुरु |
ब्रह्मविष्णुहराद्यास्त्वामाऽश्रयन्ति सुरेश्वरि || ६ || इति प्रार्थनास्तुतिः
अथ सरस्वतीस्तुतिः ||
ओं सितवर्णाऽलङ्कारे ! सरस्वति ! समस्तवाङ्मयाऽधारे !
कमलजमानसवरले ! मृगाङ्कधवले ! नमस्तुभ्यम् || १ ||
धन्यः स एव लोके स एव पूज्यः स एव सर्वगुरुः |
यस्य मुखकमलकोशे वाङ्मयि कुलदेवते ! वससि || २ ||
कस्त्वां विना विवेकी विवेकविकलस्य निष्फलं जन्म |
तस्माद्भारति भविनां त्वमेव हेतुर्विवेकेऽपि || ३ ||
लक्ष्मीवानऽपि पुरुषः शूरः सुभगोऽपि कामसमरूपः |
वृष इव विबुधसभायां प्रतिभात्यऽमले ! त्वया रहितः || ४ ||
मुनिमनुजमाननीयो मात ! र्मूर्खोऽपि मानवो दक्षः |
निश्शेषशास्त्रवक्ता त्वन्मंत्रध्यानतो भवति || ५ ||
कुवलयदृशः क्व तावद्वेश्मनि विलसन्ति कुचभराऽनम्राः |
यावदऽसिताऽब्जनयने ! न त्वं तुष्टासि देवि भुवि भविनाम् || ६ ||
प्. ३४)
जित्वा नरोऽरिराजकमऽगगुरुगजवाजिपुरुषबलसहितः |
यदुपैति तत्समग्रं त्वच्चरणनुतेः फलं तस्य || ७ ||
आवर्जिताऽपि कष्टैरिह जन्मनि मुञ्चति नरं श्रीः |
न त्वं सत्प्रभवेष्विति मत्वा को नौति नो भवतीम् || ८ ||
कविवरवदनसरोरुह विहरणविस्रम्भविभ्रमद्भ्रमरि !
भगवति ! पञ्चमुखीश्वरि ! वागीश्वरि ! नमस्तेऽस्तु || ९ ||
शम्भुप्रणतां वाणीं भक्त्या यःस्तौति सोऽचिरेणैव |
अवहितबुद्धिप्रसरो कविराजो जायते मनुजः || १० ||
इति कालिदासकृता सरस्वतीस्तुतिः |
अथ गौरीस्तुतिः ||
ओं लीलाऽरब्धस्थापितलुप्ताऽखिललोकां लोकाऽतीतैर्योगिभिरन्तर्हृदिमृग्याम् |
बालाऽदित्यश्रेणिसमानद्युतिपुंजां
गौरीमऽम्बामऽम्बुरुहाक्षीमऽहमीडे || १ ||
आशापाशक्लेशविनाशं विदधानां पादाऽम्भोजध्यानपराणां
पुरुषाणाम् |
ईशीमीशाङ्गाऽर्धहरां तां तनुमध्यां
गौरीमऽम्बामऽम्बुरुहाक्षी० || २ ||
प्रत्याहारध्यानसमाधिस्थितिभाजां नित्यं चित्ते निर्वृतिकाष्ठां
कलयन्तीम् |
सत्यज्ञानाऽनन्दमयीं तां तडिदाऽभां
गौरीमऽम्बामऽम्बुरुहाक्षी० || ३ ||
चन्द्राऽपीडाऽनन्दितमन्दस्मितवक्त्रां
चन्द्राऽपीडाऽलङ्कृतलोलाऽलकभाराम् |
इन्द्रोपेन्द्राद्यऽर्चितपादाऽम्बुजयुग्मां गौरीमऽम्बामऽम्बुरुहाक्षी० || ४
||
नानाकारैः शक्तिकदम्बैर्भुवनानि व्याप्य स्वैरं क्रीडति याऽसौ
स्वयमेका |
कल्याणीं तां कल्पलतामाऽनतिभाजां गौरीमऽम्बामऽम्बुरुहाक्षी० || ५
||
मूलाधारादुत्थितवन्तीं विधिरन्ध्रं सौरं चान्द्रं धाम विहाय
ज्वलिताङ्गीम् |
स्थूलां सूक्ष्मां सूक्ष्मतरां तामऽभिवन्द्यां
गौरीमऽम्बामम्बुरुहाक्षी० || ६ ||
आदिक्षान्तामऽक्षरमूर्त्या विलसन्तीं भूते भूते भूतकदम्बं
प्रसवित्रीम् |
शब्दब्रह्माऽनन्दमयीं तामऽभिरामां गौरीमऽम्बामम्बुरुहाक्षी० ||
७ ||
यस्याः कक्षौ लीनमऽखण्डं जगदऽण्डं भूयो भूयः
प्रादुरभूदऽक्षतमेव |
भर्त्रा सार्धं तां स्फटिकाद्रौ विहरन्तीं गौरिमऽम्बामम्बुरुहाक्षी० ||
८ ||
प्. ३५)
यस्यामेतत्प्रोतमऽशेषं मणिमाला सूत्रे यद्वत्क्वाऽपि चरं
चाऽप्यऽचरं च |
तामऽध्यात्मज्ञानपदव्या गमनीयां गौरीमऽम्बामऽम्बुरुहाक्षी० || ९
||
नित्यः सत्यो निष्कल एको जगदीशः साक्षी यस्याः सर्गविधौ संहरणे च |
विश्वत्राणक्रीडनशीलां शिवपत्नीं गौरीमऽम्बामऽम्बुरुहाक्षी० || १० ||
प्रातःकाले भावविशुद्धिं विदधानो भक्त्या नित्यं जल्पति गौरीदशकं
यः |
वाचां सिद्धिं सम्पदमुच्चैः शिवभक्तिं तस्याऽवश्यं पर्वतपुत्री
विदधाति || ११ ||
इति श्रीगौरीस्तुतिः सम्पूर्णा ||
अथ मुकुन्दमालास्तुतिः ||
ओं वन्दे मुकुन्दमऽरविन्ददलाऽयताऽक्षं कुन्देन्दुशङ्खदशनं
शिशुगोपवेशम् |
इन्द्रादिदेवगणवन्दितपादपीठं वृन्दावनाऽलयमऽहं वसुदेवसूनुम् ||
१ ||
श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति |
नाथेति नागशयनेति जगन्निवासे त्याऽलापिनं प्रतिदिनं कुरु मां मुकुन्द ||
२ ||
जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंऽसप्रदीपः |
जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो
मुकुन्दः || ३ ||
मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमऽर्थम् |
अविस्मृतिस्त्वच्चरणाऽरविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् || ४ ||
श्रीमुकुन्दपदाम्भोजमधुनः परमाऽद्भुतम् |
यत्पायिनो न मुह्यन्ति मुह्यन्ति यदऽपायिनः || ५ ||
नाऽहं वन्दे तव चरणयोर्द्वन्द्वमऽद्वन्द्वहेतोः
कुम्भीपाकं गुरुमऽपि हरे ! नारकं नाऽपनेतुम् |
रम्यारामामृदुतनुलता नंदने नाऽपि रन्तुं
भावे भावे हृदयभवने भावयेयं भवन्तम् || ६ ||
नाऽस्था धर्मे न वसुनिचये नैव कामोपभोगे
यद्यद्भव्यं भवतु भगवन् ! पूर्वकर्माऽनुरूपम् |
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि
त्वत्पादाऽम्भोरुहयुगगता निश्चला भक्तिरऽस्तु || ७ ||
प्. ३६)
दिवि वा भुवि वा ममाऽस्तु वासो नरके वा नरकान्तक प्रकामम् |
आधीरितशारदाऽरविन्दौ चरणौ ते मरणेऽपि चिन्तयामि || ८ ||
सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमेह चित्त रन्तुम् |
सुखतरमऽपरं न जातु जाने हरिचरणस्मरणाऽमृतेन तुल्यम् || ९ ||
मा भैर्मन्दमनो ! विचिन्त्य बहुधा यामीश्चिरं यातना
नाऽमी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः |
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं
लोकस्य व्यसनाऽपनोदनकरो दासस्य किं न क्षमः || १० ||
भवजलधिमऽगाधं दुस्तरं निस्तरेयं कथमऽहमिति चेतो मा स्म गाः
कातरत्वम् |
सरसिजदृशि देवे तावकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यऽवश्यम् ||
११ ||
तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले
दाराऽवर्ते तनयसहजग्राहसङ्घाऽकुले च |
संसाराऽख्ये महति जलधौ मज्जतां नस्त्रिधामन् !
पादाऽम्भोजे वरद ! भवतो भक्तिनावे प्रसीद || १२ ||
पृथ्वी रेणुरऽणुः पयांसि कणिका फल्गुः स्फुलिङ्गो लघु-
स्तेजो निःश्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः |
क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा
दृष्टे यत्र स तावको विजयते भूमाऽवधूताऽवधि || १३ ||
आम्नायाऽभ्यसितान्यऽरण्यरुदितं कृच्छ्रव्रतान्यऽन्वहं
भेदच्छेदफलानि पूर्तविधयः सर्वं हुतं भस्मनि |
तीर्थानामऽवगाहनानि च गजस्नानं विना यत्पद-
द्वन्द्वाऽम्भोरुहसंस्तुतिं विजयते देवः स नारायणः || १४ ||
भवजलधिगतानां द्वन्द्ववाताहतानां
सुतदुहितृकलत्रत्राणभारावृतानाम् |
विषमविषयतोये मज्जतामऽप्लवानां भवति शरणमेको विष्णुपोतो
नराणाम् || १५ ||
रजसि निपतितानां मोहजालावृतानां जननमरणधूलिदुर्गतिं
संगतानाम् |
शरणमऽशरणानामेक एवाऽतुराणां कुशलपथि नियोक्ता
चक्रपाणिर्नराणाम् || १६ ||
अपराधसहस्रसंकुलं पतितं भीमभवार्णवोदरे |
अगतिं शरणागतं हरे ! कृपया केवलमाऽत्मसात्कुरु || १७ ||
प्. ३७)
यच्चिन्तितं च मनसा वचसा यदुक्तं चक्षुःकरश्रवणपादविचेष्टितं च |
यद्यन्निशासु दिवसेषु कृतं मयैव तत्तज्जनार्दन ! तवाऽर्चनमेव भूयात्
|| १८ ||
मा मे स्त्रीत्वं मा च मे दासभावो मा मूर्खत्वं मा कुदेशेषु जन्म |
मिथ्या दृष्टिर्मा च मे स्यात्कदाचिज्जातौ जातौ विष्णुभक्तो भवामि || १९ ||
आनन्द ! गोविन्द ! मुकुन्द ! राम ! नारायणाऽनन्त ! निरामयेति |
वक्तुं समर्थोऽपि न वक्ति कश्चिदऽहो जनानां वयसनानि मोक्षे || २० ||
क्षीरसागरतरङ्गशीकराऽसारतारकितचारुमूर्तये |
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः || २१ ||
क्षीरसारमऽपनीयशङ्कया स्वीकृतं यदि पलायनं त्वया |
मानसे मम नितान्ततामसे नन्दनन्दन कुतो न लीयसे || २२ ||
वात्सल्यादऽभयप्रदानसमयादाऽर्तार्तिनिर्वापणात्
औदार्यादऽघशोषणादऽगणितश्रेयःपदप्रापणात् |
सेव्यः श्रीपतिरेव सर्वजगतामेकान्ततः साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यऽहल्या ध्रुवः || २३ ||
नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा
सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति |
यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पाऽर्थदं
सेवायै मृगयामहे नरमऽहो मूढा वराका वयम् || २४ ||
हे लोकाः ! शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां
योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः |
अन्तर्ज्योतिरऽमेयमेकमऽमृतं कृष्णाख्यमाऽपीयतां
तत्पीतं परमौषधं वितनुते निर्वाणमाऽत्यन्तिकम् || २५ ||
बद्धेनाऽञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनोद्गीर्णेन बाष्पाऽम्बुना |
नित्यं त्वच्चरणाऽरविन्दयुगलध्यानामृताऽस्वादिना-
मऽस्माकं सरसीरुहाक्ष ! सततं सम्पद्यतां जीवितम् || २६ ||
तत्वं ब्रुवाणानि परं परस्मादऽहो क्षरन्तीव सुधां पदानि |
आवर्तय प्राञ्जलिरऽस्मि जिह्वे नामानि नारायणगोचराणि || २७ ||
प्. ३८)
इदं शरीरं परिणामपेशलं पतत्यऽवश्यं श्लर्थसन्धिजर्जरम् |
किमौषधैः क्लिश्यसि मूढ दुर्मते ! निरामयं कृष्णरसयनं पिब || २८ ||
श्रीमन्नाम प्रोच्य नारायणाऽख्यं के न प्राप्ता वाञ्छितं पापिनोऽपि |
हा नः पूर्वं वाक्प्रवृत्ता न तस्मिंस्तेन प्राप्तं गर्भवासादिदुःखम् ||
२९ ||
माद्राक्षं क्षीणपुण्यान् क्षणमऽपि भवतो भक्तिहीनान् पदाब्जे
माश्रौषं श्राव्यबद्धं तव चरितमऽपास्याऽन्यदाऽख्यानजातम् |
मास्प्राक्षं माधव ! त्वामपि भुवनपतिं चेतसाऽपह्नवानं
माभूवं त्वत्सपर्या व्यतिकररहितो जन्मजन्मान्तरेऽपि || ३० ||
मदन ! परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि |
हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः || ३१ ||
दारा वाराकरवरसुता तेऽङ्गजोयं विरिञ्चिः
स्तोता वेदास्तव सुरगणो भृत्यवर्गः प्रसादः |
मुक्तिर्मध्ये जगदऽविकलं तावकी देवकीयं
माता मित्रं बलरिपुसुतस्तत्वतोऽन्यन्न जाने || ३२ ||
जिह्वे ! कीर्तय केशवं मुररिपुं चेतो ! भज श्रीधरं
पाणिद्वंद्व ! समर्चयाऽच्युतकथाः श्रोत्रद्वय ! त्वं शृणु |
कृष्णं लोकय लोचनद्वय ! हरेर्गच्छाङ्घ्रियुग्माऽलयं
जिघ्र घ्राण ! मुकुन्दपादतुलसीं मूर्धन् ! नमाऽधोक्षजम् || ३३ ||
यत्क्र्ष्णप्रणिपातधूलिधवलं तद्वै शिरः स्याच्छुभं
ते नेत्रे तमसोज्झिते सुरुचिरे याभ्यां हरिर्दृश्यते |
सा बुद्धिर्नियमैर्यमैश्च विमला या माधवध्यायिनी
सा जिह्वाऽमृतवर्षिणी प्रतिपदं या स्तौति नारायणम् || ३४ ||
भक्तद्वेषभुजङ्गगारुडमणिस्त्रैलोक्यरक्षामणि-
र्गोपीलोचनचातकाऽम्बुदमणिः सौन्दर्यमुद्रामणिः |
श्रीकान्तामणिरुक्मिणीघनकुच द्वन्द्वैकभूषामणिः
श्रेयो ध्येयशिखामणिर्दिशतु नो गोपालचूडामणिः || ३५ ||
शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसंपूज्यमन्त्रं
संसारोत्तारमंत्रं समुदिततमसां संगनिर्याणमंत्रम्
प्. ३९)
सर्वैश्वर्यैकमंत्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं
जिह्वे! श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् || ३६ ||
व्यामोहोद्दलनौषधं मुनिमनो वृत्तिप्रवृत्यौषधः
दैत्याऽनर्थकरौषधं त्रिभुवने संजीवनैकौषधम् |
भक्ताऽर्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौषधं
श्रेयःप्राप्तिकरौषधं पिब मनः ! श्रीकृष्णनामौषधम् || ३७ ||
आश्चर्यमेतद्धि मनुष्यलोके सुधां परित्यज्य विषं पिबन्ति |
नामानि नारायणगोचराणि त्यक्त्वाऽन्यवाचः कुहकाः पठन्ति || ३८ ||
लाटी नेत्रपुटी पयोधरघटी क्रीडाकुटी दोस्तटी
पाटीरद्रुमवर्णनेन कविभिर्मूढैर्दिनं नीयते |
गोविन्देति जनार्दनेति जगतां नाथेति कृष्णेति च
व्याहारैः समयस्तदेकमनसां पुंसां परिक्रामति || ३९ ||
अयाच्यमऽक्रेयमऽयातयाममऽपाच्यमऽक्षययमऽदुर्भरं मे |
अस्त्येव पाथेयमऽतिप्रयाणे श्रीकृष्णनामाऽमृतभागधेयम् || ४० ||
यस्य प्रियौ श्रुतिधरौ रविलोकगीतौ मित्रे द्विजन्मपरिवारशिवावभूताम् |
तेनाऽम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञां कृता स्तुतिरियं कुलशेखरेण
|| ४१ ||
इति श्रीकुलशेखरराज्ञाकृता मुकुन्दमालास्तुतिः
अथ श्रीकृष्णलीला ||
ओं निगमतरोः प्रतिशाखं मृगितं च मया परब्रह्म |
मिलितमिदानीमऽङ्के गोकुलपङ्केरुहाक्षीणाम् || १ ||
तप्तं तपोभिरऽन्यैः फलितं च तद्गोपबालानाम् |
आसां यत्कुचकुम्भे नीलनिचोलायते परं ब्रह्म || २ ||
श्रुतिमऽपरे स्मृतिमऽपरे भारतमऽन्ये भजन्तु भवभीताः |
अहमऽपि नन्दं वन्दे यस्याऽलिन्दे परं ब्रह्म || ३ ||
किं कथयामः कस्मै कस्य मनः प्रत्ययमाऽदत्ते |
रमयति गोपवधूटीकुञ्जकुटीरे परं ब्रह्म || ४ ||
नीतं नवनवनीतं केन च पीतं पयः क्व मे मुरली |
इति समुदीर्य लुठन्तं भुमौ बालं नमामि गोपालम् || ५ ||
प्. ४०)
पश्यत बलमऽबलानामऽनाविले हृद्बिले बबन्धुर्याः |
तनु दृष्टिपातरश्म्याऽकृष्टमऽमूर्तं परं ब्रह्म || ६ ||
एतत्त्वामऽहमऽर्थयामि सततं रे चित्त ! चिन्तातुर !
मा चिन्तां कुरु चञ्चलेषु विषयेष्वाऽगारदाराऽदिषु |
गायन्तं यमुनातटद्रुमतले नीलाम्बुदश्यामलं
गोपालं वनमालिनं कमलिनं नन्दात्मजं चिन्तय || ७ ||
ध्यानाऽभ्यासवशीकृतेन मनसा तन्निर्गुणं निष्क्रियं
ज्योतिः किंचन योगिनो यदि परं पश्यन्ति पश्यन्तु ते |
अस्माकं तु तदेव लोचनचमत्काराय भूयाच्चिरं
कालिन्दीपुलिनेषु तत्किमपि यन्नीलं तमो धावति || ८ || इति कृष्णलीला०
अथ जयस्तुतिर्विष्णोः ||
ओं जय नारायण ! जय पुरुषोत्तम ! जय वामन ! कंसारे !
उद्धर मामऽसुरेशविनाशिन् ! पतितोऽहं संसारे |
घोरं हर मम नरकरिपो ! केशव ! कल्मषभारं
मामऽनुकम्पय दीनमऽनाथं कुरु भवसागरपारम् || १ ||
जय जय देव ! जयाऽसुरसूदन ! जय केशव ! जय विष्णो !
जय लक्ष्मीमुखकमलमधुव्रत ! जय दशकन्दरजिष्णो ! || घोरं० || २ ||
त्वं जननी जनकः प्रभुरऽच्युत ! त्वं पुत्रसुहृद्धनमित्रम् |
त्वं शरणं शरणाऽगतवत्सल ! त्वं भवजलधिवहित्रम् || घोरं || ३ ||
पुनरऽपि जननं पुनरपि मरणं पुनरऽपि गर्भनिवासं |
सोढुमऽलं पुनरऽस्मिन्माधव ! मामुद्धर निजदासम् || घोरं० || ४ ||
जनकसुतापतिचरणपरायणशंकरमुनिवरगीतं
धारय मनसि कृष्ण ! पुरुषोत्तम ! वारय संसृतिभीतिम् || घोरं० || ५ ||
यद्यपि सकलमऽहं कलयामि हरे ! नहि किमऽपि ससत्वं |
तदऽपि न मुञ्चति मामिदमऽच्युत ! पुत्रकलत्रममत्त्वम् || ६ || इति विष्णुस्तुतिः
प्. ४१)
गोविन्दाष्टकं ||
ओं सत्यंज्ञानमऽनन्तं नित्यमऽनाकाशं परमाऽकाशं
गोष्ठप्राङ्गणरिङ्खणलोलःमऽनायासं परमायासम् |
मायाकल्पितनानाकारमऽनाकारं भुवनाकारं
क्ष्मामानाथमऽनाथं प्रणमत गोविन्दं परमानन्दम् || १ ||
मृत्स्नामऽत्सीहेति यशोदा ताडनशैशवसन्त्रासं
व्यादितवक्त्राऽलोकित लोकाऽलोकचतुर्दशलोकाऽलिम् |
लोकत्रयपुरमूलस्तंभं लोकालोकमऽनालोकं लोकेशं परमेशं प्र० || २
||
त्रैविष्टपरिपुवीरघ्नं क्स्.इतिभारघ्नं भवरोगघ्नं
कैवल्यं नवनीताऽहारमऽनाहारं भुवनाहारम् |
वैमल्यस्फुटचेतोवृत्तिविशेषाऽभासमऽनाभासं शैवं केवलशान्तं
प्र० || ३ ||
गोपालं प्रभुलीलाविग्रह गोपालं कुलगोपालं
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् |
गोभिर्निगदितगोविन्द स्फुटनामानं बहुनामानं गोधीगोचरदूरं प्र० ||
४ ||
गोपीमण्डलगोष्ठीभेदं भेदाऽवस्थमभेदाऽभं
शशद्गोखुरनिर्धूतोद्धत धूलिधूसरसौभाग्यम् |
श्रद्धाभक्तिगृहीताऽनन्दमऽचिन्त्यं चिन्तितसद्भावं
चिन्तामणिमऽनिमानं || ५ ||
स्नानव्याकुलयोषिद्वस्त्राण्याऽदायाऽगमुपारूढं
व्यादित्सन्तीरऽथ दिग्वस्त्रा वस्त्रं दातुमुपाकर्षतं ताः |
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तःस्थं सत्तामात्रशरीरं
प्र० || ६ ||
कान्तं कारणकारणमाऽदिमऽनादिं कालघनाऽभासं
कालिन्दीगतकालिय शिरसि नृत्यन्तं मुहुर्नृत्यन्तम् |
कालं कालकलाऽतीतं कलिताऽशेषं कलिदोषज्ञं कालत्रयगतिहेतुं प्र० ||
७ ||
वृन्दावनभुवि वृन्दारकगणः वृन्दाऽराधितवन्द्येहं
कुन्दाऽभाऽमलमन्दस्मेर स्वधानन्दं सुहृदाऽनन्दम् |
वन्द्याऽशेषमहामुनि मानसवन्द्याऽनन्दपदद्वन्द्वं
वन्द्याऽशेषगुणाब्धिं प्र० || ८ ||
गोविन्दाऽष्टकमेतदऽधीते गोविन्दार्पितचेता यो
गोविन्दाऽच्युत ! माधव ! विष्णो ! गोकुलनायक ! कृष्णेति |
प्. ४२)
गोविन्दांघ्रिसरोजध्यानजलधौतसमस्ताऽघो
गोविन्दं परमानन्दाऽमृतमऽन्तस्थं समभ्येति || ९ ||
इति श्रीशंकराचार्यकृतं गोविन्दाष्टकं सम्पूर्णम्
अथ शिवस्तुतिः ||
ओं व्याप्तचराऽचरभावविशेषं चिन्मयमेकमऽनन्तमनादिम् |
भैरवनाथमऽनाथशरण्यं त्वन्मयचित्ततया हृदि वन्दे || १ ||
त्वन्मयमेतदऽशेस्ऽमिदानीं भाति मम त्वदऽनुग्रहशक्त्या |
त्वं च महेश ! सदैव ममाऽत्मा स्वाऽत्ममयं मम तेन समस्तम् || २ ||
स्वात्मऽनि विश्वगते त्वयि नाथे तेन न संसृतिभीतेः कथाऽस्ति |
सत्स्वपि दुर्धरदुःखविमोह त्रासविधायिषु कर्मगणेषु || ३ ||
अन्तक ! मां प्रति मा दृशमेनां क्रोधकरालतमां विदधीहि |
शङ्करसेवनचिन्तनधीरो भीषणभैरवशक्तिमयोऽस्मि || ४ ||
इत्थमुपोढभवन्मयसंविद्दिधितिदारितभूरितमिस्रः |
मृत्युयमान्तककर्मपिशाचैर्नाथ ! नमोऽस्तु न जातु बिभेमि || ५ ||
प्रोदितसत्यविबोधमरीचि प्रोक्षितविश्वपदार्थसतत्त्वः |
भावपरामृतनिर्भरपूर्णे त्वययऽहमाऽत्मनि निर्वृतिमेमि || ६ ||
मानसगोचरमेति यदैव क्लेशदशाऽतनुतापविधात्री |
नाथ ! तदैव ममत्वदऽभेदस्तोत्रपराऽमृतवृष्टिरुदेति || ७ ||
शंकर ! सत्यमिदं व्रतदान स्नानतपो भवतापविनाशि |
तावकशास्त्रपराऽमृतचिन्ता सिन्धति चेतसि निर्वृतिधाराः || ८ ||
नृत्यति गायति हृष्यति गाढं संविदियं मम भैरवनाथ |
त्वां प्रियमाऽप्य सुदर्शनमेकं दुर्लभमऽन्यजनैः समयज्ञम् || ९ ||
वसुरसपौषे कृष्णदशम्यामऽभिनवगुप्तः स्तवैदमकरोत् |
येन विभुर्भवमरुसन्तापं शमयति झटिति जनस्य दयालुः || १० ||
इति अभिनवगुप्ताऽचार्यकृता शिवस्तुतिः
समाप्तम् ||
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
kkdvpxy80vglq2tdlaoqge33sfqus1y
415573
415572
2026-04-01T11:29:02Z
Shubha
190
415573
wikitext
text/x-wiki
{{header
| title = नित्यकर्मविधिः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00527
Uniform title: nityakarmavidhi
Author : laugākṣi
Editor : keśava baṭṭa
Description:
One of the few examples of Kashmiri smārta ritual manuals.
Notes:
Data-entered by the staff of Muktabodha under the supervison of Mark S.G. Dyczkowski.
Revision 0: Sept. 13, 2021.
Publisher :
Publication year : 1917
Publication city : Mumbai
Publication country : India
----
अथ स्नानविधिः । प्. १-४
अथ सन्ध्योपासना ।।श्रीकृष्णार्पणमऽस्तु ।।
fओर् अल्ल् थ्रेए तिमेस् ओf दय प्. ४ तो प्. १२
नैवेद्यमंत्राः । fओओद् ओffएरिन्ग् तो गोद्स्, योगिनीस् अन्द् ओथेर् सुपेर्नतुरल् बेइन्ग् प्. १२-
१४
विष्णुपञ्चायतनपूजाविधि. प्. १४-२६
अथ पंचगव्यविधिः ।। प्. २६-२७
भोजनविधिः । प्. २७-२९
अथ गुरुस्तुतिः प्. २९-३०
अथ महागायत्रीस्तुतिः । प्. ३०-३२
प्रार्थनास्तुतिः ।। प्. ३३
अथ सरस्वतीस्तुतिः ।। इति कालिदासकृता प्. ३३-३४
अथ गौरीस्तुतिः ।। प्. ३४-३५
अथ मुकुन्दमालास्तुतिः ।। इति श्रीकुलशेखरराज्ञाकृता प्. ३५-३९
अथ श्रीकृष्णलीला प्. ३९-४०
अथ जयस्तुतिर्विष्णोः ।। प्. विष्णुस्तुतिः प्. ४०
गोविन्दाष्टकं ।। इति श्रीशंकराचार्यकृतं प्. ४१-४२
अथ शिवस्तुतिः ।। इति अभिनवगुप्ताऽचार्यकृता शिवस्तुतिः प्. ४२
नित्यकर्मविधिः
अथ स्नानविधिः ।
श्रीगणेशाय नमः
आयुर्बलं यशो वर्चः प्रजाधृतिवसूनि च ।
ब्रह्मप्रज्ञां च मेधां च त्वं नो देहि वनस्पते ।। इति
दन्तधावनमंत्रः
नमोऽस्त्वऽनन्ताय सहस्रमूर्तये सहस्रपादाऽक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ।। इति
वामपादप्रक्षा०
नमः कमलनाभाय नमस्ते जलशायिने ।
नमस्ते केशवाऽनन्त वासुदेव नमोऽस्तु ते ।। इति दक्षिणपादप्रक्षालनम्
गंगाप्रयागगयनैमिषपुष्करादितीर्थानि यानि भुवि सन्ति हरिप्रसादात् ।
आयान्तु तानि करपद्मपुटे मदीये प्रक्षालयन्तु वदनस्य निशाकलङ्कम् ।।
तीर्थे स्नेयं तीर्थमेव समानानां भवति मानः ।
शंस्यो अररुषो धूर्तिः प्राणङ् मर्त्यस्य रक्षाणो ब्रह्मणस्पते ।। इति
मुखप्रक्षालनम्
ओं गायत्र्यै नमः । ओं भूर्भुवःस्वस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात् ३ ।। इति यज्ञसूत्रप्र० । गायत्र्यैव शिकहमाबद्ध्य
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।।
यज्ञोपवीतमऽसि यज्ञस्य त्वा उपवीतेन उपनह्यामि । इति यज्ञसूत्रधारणम्
कृत्वाऽलं पादशौचं विमलमऽथ जलं त्रिः पिबेदुन्मृजेद्द्वि-
स्तर्जन्यऽङ्गुष्ठकाभ्यां सजलमऽभिमृशेन्नासिकारन्ध्रयुग्मम् ।
अङ्गुष्ठाऽनामिकाभ्यां नयनयुगलकं कर्णयुग्मं कनिष्ठा-
ऽङ्गुष्ठाभ्यां नाभिदेशं हृदयमऽथ तलेनाऽङ्गुलीभिः शिरोंसौ ।।
ततः प्राणायामः । ओं ब्रह्मणोऽग्न्यादयः । नमो अग्नये अप्सुषदे नम
इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽपांपतये नमोऽद्भ्यः ।। इति
नमस्कारः
प्. २)
अवभृथे त्रिष्टुप् वरुणः ।।
उरुं हि राजा वरुणश्चकार सूर्याय पन्थामऽन्वेत वा उ ।
अपदे पादा प्रतिधातवेऽक रुताऽपवक्ता हृदयाविधश्चित् ।। इति उपस्थानम्
यमस्य राज्ञो जगती वरुणः ।।
ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः ।
तेभिर्नो देवः सविता बृहस्पतिर्विश्वे देवा मरुतो मुंचन्तु स्वर्काः ।। इति जलं
त्रिरावर्तयेत्
निचाङ्कुणस्य शुनः शेपस्य चाऽपः सुमित्रियान आपः ओषधयो भवन्तु ।
दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यंच वयं द्विष्मः ।। इति वामभागे
जलाञ्जलित्रयं क्षिपेत् ।।
यत्किञ्चेदं वरुण देवे जनेऽभिद्रोहं मनुष्याश्चरामसि ।
अचित्ते यत्तव धर्माय योऽपि समानस्तस्मादेनसो देव रीरिषः ।। इति नमस्येत्
ततो मृदो भागत्रयं कृत्का प्रथमभागे जलसेचनम् । ओं भूर्भुवः स्वः ३
।।
द्वितीयभागे जलसेचनम् ।। त्रितस्य महापंक्तिराडित्याः ।
आदित्या अव हि ख्याता दिक्कूलाद्दिवस्पृशः सुतीर्थाः सर्वतो यथा ।
नुन्नोनेषया सुगमऽनेहसो व ऊतयः सु ऊतयो व ऊतयः ।।
तृतीयभागे जलसेचनम् । मेधातिथेर्गायत्रं विष्णुः ।।
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्याः सप्त धामभिः ।
ततस्तृतीयांशस्य भागचतुष्कं विधाय चतुर्दिक्षु क्षिपेत् ।।
भर्गस्य बृहती इन्द्रः यत इन्द्र भयामहे ततो नो अभयंकृधि ।
मघवञ्छग्धि तव तन्न ऊतभिर्विद्विषो विमृधो जहि । इति पूर्वे ।।
शासस्याऽनुष्टुभौ विमृध इन्द्रः । स्वस्तिदाविशस्पतिर्वृत्रहा विमृधोवशी ।
वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ।। इति दक्षिणे
विरक्षो विमृधो जहि विवृत्रस्य हनूरुज ।
विमन्युमिन्द्र वृत्रहन्नऽमित्रस्या भिदा सतः ।। इति पश्चिमे
वसुक्रस्य त्रिष्टुबिन्द्रः । इदं सु मे जरितरः चिकिद्धि प्रतीपं शापं ।
नद्यो वहन्ति लोपाशाः सिंहं प्रत्यंच मत्स्याः क्रोष्टा वराहा
न्निरतत्थकक्ष्यात् ।। इति उत्तरे
प्. ३)
यज्ञस्याऽनुष्टुप् मृत्तिका ।।
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ।
उद्धृतासि वराहेण कृष्णेन शतबाहुना ।।
मृत्तिके त्वां च गृह्णामि प्रजया च धनेन च ।
मृत्तिके ब्रह्मदत्ताऽसि कश्यपेनाऽभिमन्त्रिता ।।
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ।
वाचा कृतं कर्मकृतं मनसा यत्तु चिन्तितम् ।।
मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ।
त्वया हृतेन पापेन ब्रह्मलोकं व्रजाम्यऽहम् ।।
इति अभिमंत्रितया द्वितीयमृदा जलालोडितया नाभेरूर्ध्वं विशोधयेत् ।।
ततः प्रथमांशस्य भागचतुष्कं विधाय कुत्सस्य रुद्रो जगती ।।
मानस्तोके तनये मान आयौ मा नो गोषु मा नो अश्वेषु रीरिषः ।
वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ।। इति
ललाटमाद्यांश मृदाऽनुलिप्य
ओं भूः ओं भुवः ओं स्वः इति वामांसे ऽओ महः ओं जनः ओं तपः इति
दक्षिणांसे ओं सत्यमिति हृदये द्वितीयांशेनाऽनुलिप्य । ततो नमस्कारः ।।
तीर्थस्याऽवाहनं कुर्यात्तत्प्रवक्ष्याम्यऽनन्तरम् ।
कुरुक्षेत्रं गया गंगा प्रभासं पुष्कराणि च ।।
तीर्थान्येतानि सर्वाणि स्नानकाले भवन्तु मे ।
प्रपद्ये वरुणं देवमऽम्भसां पतिमूर्जितम् ।।
याचितं देहि मे तीर्थं सर्वपापाऽपनुत्तये ।
रुद्रान्प्रपद्ये वरदान्सर्वानऽप्सुषदस्त्वऽहम् ।।
सर्वानऽप्सुषदश्चैव प्रपद्ये प्रणतः स्थितः ।
देवमऽप्सुषदं वह्निं प्रपद्येऽघनिषूदनम् ।।
आपः पुण्याः पवित्राश्च प्रपद्ये शरणं तथा ।
रुद्रश्चाऽग्निश्च सर्पाश्च वरुणस्त्वाऽप एव च ।।
प्. ४)
शमयन्त्वाऽशु मे पापं पुनन्त्वेते सदा मम ।
इत्येवमुक्त्वा कर्तव्यं ततः संमार्जनं जले ।।
अथ जलांजलिं तृतीयांशमृत्सहितं गृहीत्वा ।।
अपांपतये विद्महे पाशपाणये धीमहि तन्नो वरुणः प्रचोदयात् ३ । ओं तत्सत्
ब्रह्म अद्य तावत्तिथावऽद्य अमुकमासस्य अमुकपक्षस्य तिथावऽमुकायां
आग्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं
श्रीनारायणप्रीत्यऽर्थं अमुकनद्याः प्रवाहे स्नानमहं करिष्ये ओं
कुरुष्व ।। इति प्रवाहान्तः क्षिप्त्वा ।। शिरसि जलमऽञ्जलिना प्रक्षिपेत् ।।
ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराऽततम् ।
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर्यत्परमं पदम् ।।
ओं भूः ओं भुवः ओं स्वः ओं महः ओं जनः ओं तपः ओं सत्य मिति मार्जयेच्छिरः ।।
ओं हंसः शुचिषद्वसुरऽन्तरिक्षस द्धोता वेदिषदऽतिथिर्दुरोणसत् ।
नृषद्वरस दृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ।। इति उपस्थानम्
ओं नमो देवभ्यः कण्ठोपवीती स्वाहा ऋषिभ्यः । अपसव्येन स्वधा पितृभ्यः
सव्येन आब्रह्मस्तम्बपर्यन्तं ब्रह्माण्डं सचराचरं जगत्तृप्यतु तृप्यतु
तृप्यतु एवमऽस्तु ।।
यत्त्वगऽस्थिगतं पापं जन्मान्तरकृतं च यत् ।
तन्मे हरस्व कल्याणि मूर्ध्नि स्पर्शेन वैष्णवि ।। इति परिशिष्टमृदा तिलकं
कार्यम्
अथ वस्त्रधारणम् ।।
युवा सुवासाः परिवीत आगात्स उच्छ्रेयान्भवति जायमानः ।
तन्धीरासः कवय उन्नयंति साध्यो मनसा देवयन्तः ।।
अस्मत्कुले तु ये जाता अपुत्रा गोत्रवर्जिताः ।
ते पिबन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ।। इति स्नानपट्टपीडनम्
इति स्नानविधिः ।।
अथ सन्ध्योपासना ।।
श्रीमहागायत्र्यै नमः । सावित्र्यै नमः । सरस्वत्यै नमः ।।
ओं प्रणवस्य ऋषिर्ब्रह्मा गायत्रं छन्द एव च ।
देवोऽग्निर्व्याहृतिषु च विनियोगः प्रकीर्तितः ।।
प्रजापतेर्व्याह्र्टयः पूर्वस्य परमेष्ठिनः ।
व्यस्ताश्चैव समस्ताश्च ब्राह्ममऽक्षरमोमिति ।।
व्याहृतीनां समस्तानां दैवतं तु प्रजापतिः ।
व्यस्तानामऽयमऽग्निश्च वायुः सूर्यश्च देवताः ।।
छन्दश्च व्याहृतीनामे काऽक्षराणामुक्ताख्य.
द्व्यक्षराणामऽत्युक्ताख्यम् ।
विश्वामित्र ऋषिश्छन्दो गायत्रं सविता तथा ।।
दैवतोपनये जप्ये गायत्र्या योग उच्यते ।
आवाहयामि गायत्रीं सर्वपापप्रणाशिनीम् ।।
न गायत्र्या परं जप्यं न व्याहृतिसमं हृतम् ।
आगच्छ वरदे देवि जप्ये मे सन्निधौ भव ।।
गायन्तं त्रायसे यस्माद्गायत्री त्वं ततः स्मृता ।
एवमाऽर्षं छन्दो दैवतं विनियोगं चाऽनुस्मृत्य ।।
गायत्र्या शिकहमाऽबद्ध्य गायत्र्यैव समन्ततः ।
आत्मनश्चापः परिक्षिप्य प्राणायामं कुर्यात् ।। इति नमस्कृत्य
अथाऽञ्जलिं कृत्वा ।।
ओजोऽसीति गायत्रीमाऽवाह्य । देवानामाऽर्षम् ।।
ओजोऽसि सहोऽसि बलमऽसि भ्राजोऽसि देवानांधाम नामासि ।
विश्वमऽसि विश्वायुः सर्वमऽसि सर्वायुरऽभिभूः ।। अथ
प्राणायाममंत्रः
ओं भूः ओं भुवः ओं स्वः ओं महः ओं जनः ओं तपः ओं सत्यं -
ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो योनः प्रचोदयात् -
ओं आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् ।। इति पठन्
पूरककुम्भकरेचकेषु नाभिहृदयललाटेषु रक्तनीलश्वतान्
ब्रह्मविष्णुशिवान् ध्यायन् प्राणायामं कुर्यात् ।
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदाऽयतप्राणः प्राणायामः स उच्यते ।।
एकावर्तः पूरकः स्यात्कम्भको द्विगुणस्तथा ।
रेचकस्त्रिगुणः प्रोक्तः प्रवेशस्थितिर्निर्गमैरिति ।।
प्. ६)
ओं अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युक्र्तेभ्यः पापेभ्यो रक्षन्ताम् ।
यदऽह्ना पापमऽकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण
शिश्ना ।
अहस्तदऽवलुम्पतु यत्किंचिद्दुरितं मयीदमऽहमाऽपोऽमृतयोनौ सत्ये
ज्योतिषि जुहोमि स्वाहा ।। इति सायमाऽचमनत्रयम्
ओं सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो
रक्षन्ताम् ।
यद्रात्र्या पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण
शिश्ना ।
रात्रिस्तदऽवलुम्पतु यत्किंचिद्दुरितं मयीदमऽहमाऽपोऽमृतयोनौ ।
सूर्ये ज्योतिषि जुहोमि स्वाहा ।। इतिप्रातराऽचमनत्रयम्
ओं आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् ।
पुनातु ब्रह्मणस्पतिर्ब्रह्म पूतं पुनातु माम् ।।
यदुच्छिष्टमऽभोज्यं वा यद्व अदुश्चरितं मम ।
सर्वं पुनन्तु मामाऽपोऽसतां च प्रतिग्रहं जुहोमि स्वाहा ।। इति मध्याह्ने
त्रयम्
ओं आपो हि ष्ठा मयो भुव -स्ता न ऊर्जे दधात न महे रणाय चक्षसे ।। १ ।।
यो वः शिवतमो रस-स्तस्य भाजयते हनः उशतीरिव मातरः ।। २ ।।
तस्मा अरंगमाम वः यस्य क्षयाय जिन्वथ आपो जनयथा च नः ।। ३ ।।
ओं हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः ।
या अग्निं गर्भं दधिरे विरूपा स्ता न आपः शंस्योना भवन्तु ।। ४ ।।
ओं यासां देवा दिवि कृण्वं भक्ष्यं या अन्तरिक्षे बहुधा भवन्ति । या० ५ ।।
ओं यासां राजा वरुणो याति मध्ये सत्याऽनृते अवपश्यञ्जनानाम् । या० ६ ।।
ओं शिवेन मा चक्षुषा पश्यताऽपः शिवया तन्वोपस्पृशत त्वचं मे ।
मधुश्च्युतः शुचयो याः पावका स्ता न आपः शंस्योना भवन्तु ।। ७ ।।
ओं शन्नो देवीरऽभीष्टय आपो भवन्तु पीतये शंययोरऽभिस्रवन्तु नः ।। ८ ।।
ओं शन्न आपो धन्वन्यः शन्नः सन्त्वऽनूप्याः ।
शन्नः समुद्रिया न आपः शमुनः सन्तु कूप्याः ।। ९ ।।
ओं आपो अस्मान्मातरः शुन्धयन्तु घृतेन मा घृतप्वः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्ति देवी रुदिदाऽभ्यः शुचिराऽपूत एमि ।। १० ।।
ओं इदमाऽपः प्रवहत यत्किंचिद्दुरितं मयि ।
यद्वाऽहमऽभिदद्रोह यद्वा शेष उताऽनृतम् ।। ११ ।।
प्. ७)
ओं मुञ्चन्तु मा शपथ्यादऽथो वारुण्यादुत ।
अथो यमस्य पड्वीशात्सर्वस्माद्देव किल्बिषात् ।। १२ ।।
ओंयज्जाग्रद्यत्सुप्तः पापमऽभिजगाम ।
सर्वस्मान्मा तस्मादेऽनसः प्रमुञ्चतु ।। १३ ।।
ओं दधि क्राब्णो अकारिषं जिष्णोरऽश्वस्य वाजिनः ।
सुरभि नो मुखा करत्प्राऽ आयूंषि तारिषत् ।। १४ ।। इति मार्जनमंत्राः
ओं द्रुपदादिवोन्मुमुचानः स्विन्नः स्नात्वी मलादिव ।
पूतं पवित्रेणेवाऽज्य माऽपः शुन्धन्तु मैनसः ।। इति वामे
जलांजलित्रयं क्षिपेत्
ओं ऋतं च सत्यं चाभीद्धा त्तपसोऽध्यऽजायत ।
ततो रात्रिरऽजायत ततः समुद्रो अर्णवः ।।
समुद्रादऽर्णवादऽधि संवत्सरो अजायत ।
अहोरात्राणि व्यदधद्विश्वस्य मिषओत् वशी ।।
सूर्याचन्द्रमसौ धाता यथापूर्वमऽकल्पयत् ।
दिवं च पृथिवीं चाऽन्तरिक्षमऽथो स्वः ।। इति जलमध्यस्थकरद्वयो जपेत्
ओं भूः ओं भुवः ओं स्वः ओंमहः ओंजनः ओं तपः ओं सत्यमिति शिरो मार्जयेत् ।।
ओं अन्तश्चरसि भूतेषु गुहायां विश्वतो मुखः ।
त्वं यज्ञस्त्वं वषट्कार आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरो
मित्याऽचमनत्रयम् ।। ततः प्राणायामः ततः सूर्याऽभिमुखो ओं
भूर्भुवः स्वः ।। ३ ।। इति
गायत्र्याऽभिमंत्रितांस्त्रीञ्जललीनुत्क्षिप्य क्षिपेत् ।
प्रदक्षिणमाऽवृत्योर्ध्वबाहुरुदयन्तमिति सायंप्रातरुपतिष्ठेत ।।
ओं उद्वयन्तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।
देवं देवत्राः सूर्यमऽगन्म ज्योतिरुत्तमम् ।। १ ।।
ओं उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ।। २ ।।
ओं चित्रन्देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याऽग्नेः ।
आ प्रा द्यावापृथिवी चान्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ।। ३ ।।
ओं तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ।
पश्येम शरदः शतं जीवेम शरदः शतम् ।। ४ ।।
प्. ८)
ओं हंसः शुचिषद्वसुरऽन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदऽब्जा गोजा ऋतजा अद्रिजा ऋतम् ।। ५ ।।
ओं विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपता अविह्रुतम् ।
वात जूतयो अभिरक्षत्यात्मना प्रजा पिपर्ति बहुधा विराजति ।। ६ ।।
इति मध्याह्नोपस्थितिः । अथ विष्णुं ध्यायन्पुरुषसूक्तं पठेत् ।।
ओं आनुष्टुभस्य सूक्तस्य त्रिष्टुबऽन्तस्य देवता ।
विश्वात्मा पुरुषः साक्षादृषिर्नारायणः स्मृतः ।। १ ।।
ओं पुरुषमेधाः पुरुषस्य नारायणस्यार्षम् ।
ओं सहस्रशीर्षाः पुरुष सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वाऽत्यऽतिष्ठद्दशांगुलम् ।। १ ।।
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
उताऽमृतत्वस्येशानो यदऽन्नेनाऽतिरोहति ।। २ ।।
एतावानऽस्य महिमाऽतो ज्यायांश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादऽस्याऽमृतं दिवि ।। ३ ।।
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाऽभवत्पुनः ।
ततो विश्वं व्यक्रामत्साशनाऽनशने अभि ।। ४ ।।
तस्माद्विराडऽजायत विराजो अधिपूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमऽथो पुरः ।। ५ ।।
यत्पुरुषेण हविषा देवा यज्ञमऽतन्वत ।
वसन्तो अस्याऽसीदाऽज्यं ग्रीष्म इध्मः शरद्धविः ।। ६ ।।
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमऽग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ।। ८ ।।
तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाऽज्यम् ।
पशूंस्तांश्चके वायव्यानाऽरण्यान्ग्राम्यांश्च ये ।। ७ ।।
तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादऽजायत ।। ९ ।।
तस्मादऽश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ।। १० ।।
प्. ९)
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमऽस्य कौ बाहू का ऊरू पादा उच्येते ।। ११ ।।
ब्राह्मणोऽस्य मुखमाऽसीद्बाहू राजन्यः कृतः ।
ऊरू तदऽस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ।। १२ ।।
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरऽजायत ।। १३ ।।
नाभ्या आसीदऽन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाअऽकल्पयन् ।। १४ ।।
सप्ताऽस्याऽसन्परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ।। १५ ।।
यज्ञेन यज्ञमऽयजन्त देवा स्तानि धर्माणि प्रथमान्याऽसन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।। १६ ।।
अथ संहारमुद्रां कृत्वा शिवं ध्यायन् शिवसूक्तं पठेत् ।।
ओं यज्जाग्रतो दूरमुदेति दैवं तदु सुप्तस्य तथैवैति ।
दूरंगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसंकल्पमऽस्तु ।। १ ।।
येन कर्माण्यऽपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
यदऽपूर्वं यक्षमऽन्तः प्रजानां तन्मे मनः शिवसंकल्पमऽस्तु ।। २ ।।
यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरऽन्तरऽमृतं प्रजासु ।
यस्मान्न ऋते किञन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ।। ३ ।।
येनेदं भूतं भवनं भविष्यत्परिगृहीतमऽमृतेन सर्वम् ।
येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमऽस्तु ।। ४ ।।
यस्मिन्नृचः साम यजूंषि यस्मिन्प्रतिष्ठिता रथनाभाविवाऽराः ।
यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमऽस्तु ।। ५ ।।
सुषारथिरऽश्वानिव यन्मनुष्यान्नेनीयतेऽभींशुभिर्वाजिन इव ।
हृत्प्रतिष्ठं यदऽजरं यविष्टं तन्मे मनः शिवसङ्कल्पमऽस्तु ।। ६ ।।
अथ य एष एतस्मिन्मण्डले पुरुषो यश्चैष हिरण्मयः पुरुषः ।
अथ य एष एतस्मिन्मण्डले पुरुषोऽयमेव सोयं दक्षिणेऽक्षन्पुरुषः ।। ७ ।।
प्. १०)
अथ उपस्थितिः
शुक्रियं रुद्रस्य ।।
य उदगात्पुरस्तान्महतो अर्णवा-द्विभ्राजमानः सरिरस्य मध्ये ।
स मामृषभो रोहिताक्षः सूर्यो विपश्चिन्मनसा पुनातु ।
यद्ब्रह्माऽवादिष्म तन्मा मा हिंसीत्सूर्याय बिभ्राजाय वै नमो नमः ।।
अ नाभौ । उ हृदि । म शिरसि ।। भूः पादयोः । भुवः हृदि । स्वः शिरसि ।। ओं
भूः अङ्गुष्ठाभ्यां नमः । भुवः तर्जनीभ्यां नमः । स्वः
मध्यमाभ्यां नमः । महः अनामिकाभ्यां नमः । जनः
कनिष्ठिकाभ्यां नमः । तपः सत्यं करतलकरपृष्ठाभ्यां नमः ।।
भूः पादयोः । भुवः जान्वोः । स्वः गुह्ये । महः नाभौ । जनः हृदि । तपः
कण्ठे । सत्यं शिरसि ।। ओं भूः हृदयाय नमः । भुवः शिरसे स्वाहा । स्वः
शिखायै कण्ठे । सत्यं शिरसि ।। ओं भूः हृदयाय नमः । भुवः शिरसे
स्वाहा । स्वः शिखायै वषट् । महः कवचाय हुं । जनः नेत्राभ्यां
वौषट् । तपः सत्यमऽस्त्राय फट् । तत्सवितुरङ्गुष्ठाभ्यां नमः ।
वरेण्यं तर्जनीभ्यां नमः । भर्गो देवस्य मध्यमाभ्यां नमः ।
धीमहि अनामिकाभ्यां नमः । धियो योनः कनिष्ठिकाभ्यां नमः ।।
प्रचोदयात् करतलकरपृष्ठाभ्यां नमः ।। तत्पादयोः । सवितुर्जान्वोः ।
वरेण्यं कट्यां भर्गो नाभौ । देवस्य हृदये । धीमहि कण्ठे । धियो
नासिकायां । यश्चक्षुषे । नः ललाटे । प्रचोदयात् शिरसि ।। तत्सवितुर्हृदयाय
नमः । वरेण्यं शिरसे स्वाहा । भर्गो देवस्य शिखायै वषट् । धीमहि
कवचाय हुं । धियो योःनः नेत्राभ्यां वौषट् । प्रचोदयादऽस्त्राय फट् । ओं
आपस्तनयोः । ज्योतिर्नेत्रयोः । रसोमुखे । अमृतं ललाटे । ब्रह्मभूर्भुवः
स्वरों शिरसि ।।
अथ मुद्राः ।।
तत्समाय नमः । स संपुटाय नमः । वि वितताय नमः । तुर्विस्तीर्णाय० । व
द्विमुखाय० । रे त्रिमुखाय० । ण्य चतुर्मुखाय नमः । अं पंचमुखाय० ।
भ षण्मुखाय । र्गो अधोमुखाय । दे व्यापकाञ्जलये । व शकटाय न० । स्य
यमपाशय । धी ग्रन्थिकायै । म संमुखोन्मुखाय । हि विलम्बाय । धी
मुष्टिकायै नमः । यो मीनाय । यो कूर्माय । नः वराहाय नमः । प्र
सिंहाक्रान्ताय । चो महाक्रान्ताय । द मुद्गराय । या त्पल्लवाय नमः ।।
प्. ११)
ततः प्राणायाम्ः ।।
तत्सवितुरिति मंत्रस्य । विश्वामित्र ऋषिः । गायत्रं छंदः । सविता देवता ।
आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं चतुर्वर्गसिद्ध्यर्थे जपे
विनियोगः ।।
अथ ध्यानम् ।।
मुक्ताविद्रुमहेमनीलधवल च्छायैर्मुखैस्त्रीक्षणै-
र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वाऽत्मवर्णात्मिकाम् ।
गायत्रीं वरदाऽभयाऽङ्कुशकरां शूलं कपालं गुणं
शङ्खं चक्रमऽथाऽरविन्दयुगलं हस्तैर्वहन्तीं भजे ।। १ ।। इति
आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि ।
गायत्रि छन्दसां मातर्ब्रह्मयोने नमोऽस्तु ते ।। ३ ।। इति गायत्री.
ओं भूर्भुवः स्वस् तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः
प्रचोदयादों
ततः प्राणायामः ।।
दशभिर्जन्मचरितं शतेन च पुरा कृतम् ।
त्रियुगोत्थं सहस्रेण गायत्री हन्ति किल्बिषम् ।
देवा गातु श्रोत्रियाः । देवा गातुविदो गातुं वित्वा गातुमित । मनसस्पत इमं
देवयज्ञं स्वाहा वाचे स्वाहा वाते धाः । इति जपनिवेदनम् अथ दिङ्नुतिः ।।
ओं नमः प्राच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमः
।। १ ।।
नमोऽवान्तरायै देशे० ।। २ ।। नमो दक्षिणायै दिशे० ।। ३ ।। नमोऽवान्तरायै० ।। ४
।। नमः प्रतीच्यै देश्० ।। ५ ।। नमोऽवान्तरायै० ।। ६ ।। नम उदीच्यै दिशे० ।। ७ ।।
नमोऽवान्तरायै० ।। ८ ।। नम ऊर्ध्वायै० ।। ९ ।। नमोऽधरायै दिशे याश्च० ।। १०
।।
नमो ब्रह्मणे नमो अस्त्वऽग्नये नमः पृथिव्यै नम ओषधीभ्यः ।
नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते कृणोमि ।। ३ ।।
इत्येतासामेव देवतानां सामीप्यं सार्ष्टितां सायुज्यं सलोकतामाप्नोति
य एवं विद्वान् स्वाध्यायमऽधीते ।। इति तर्पणम्
ब्रह्मादयः सर्वे देवास्तृप्यन्तु कण्ठोपवीति सनकादयः सर्वे ऋषयस्तृ० ।। २
।।
अपसव्येन ।। अग्निष्वात्तादयः सर्वे पितरस्तृप्यन्तु ।। ३ ।।
देवताभ्यः पितृभ्यश्च महायोगिभ्य एवच ।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ।।
ओं तत्सद्ब्रह्माऽद्य तावत्तिथावित्यादि० आत्मनो वाङ्० नित्यकर्मनिमित्तं पिता
अमुकोऽमुकगोत्रः स्वधानमस्तृप्यतां तृप्यतां तृप्यताम् । पितामहः । २ ।
प्रपिता-
प्. १२)
महः । ३ । माता० । ४ । पितामही० । ५ । प्रपितामही० । ६ । मातामहः० । ७ ।
प्रमातामहः० । ८ । वृद्धप्रमातामहः० । ९ । मातामही० । १० ।
प्रमातामही० । ११ । वृद्धप्रमातामही० । १२ । इत्थं सर्वान् सम्बन्धिनश्च
तर्पयेत् ।
मातृपक्ष्यास्तु ये केचिद्ये चाऽन्ये पितृपक्षजाः ।
गुरुश्वशुरबन्धूनां ये कुलेषु समुद्भवाः
ये प्रेतभावमाऽपन्ना ये चाऽन्ये श्राद्धवर्जिताः ।
जलदानेन ते सर्वे लभन्तां तृप्तिमुत्तमाम् ।
समस्तमातापितृभ्यो द्वादश देवतेभ्यः पितृभ्यो हिमपानं स्वधा ।
क्षीरपानं स्वधा । मधुपानं स्वधा । तिलोदकं स्वधा । उदकतर्पणं
स्वधा । हिमं हिमं । रजतं रजतम् । सव्येन ओं नमो देवेभ्यः ।
कण्ठोपवीति । स्वाहा ऋषिभ्यः । अपसव्येन । स्वधा पितृभ्यः । सव्येन
आब्रह्मस्तम्बपर्यन्तं.
ब्रह्माण्डं सचराऽचरं जगत्तृप्यतु तृप्यतु तृप्यतु एवमस्तु ।।
नमो धर्मनिधानाय नमः स्वकृतसाक्षिणे ।
नमः प्रत्यक्षदेवाय भास्कराय नमो नमः इति सूर्ये प्रणतिः
शान्तिः पुष्टिस्तथा तुष्टिः सन्तु मे त्वत्प्रसादतः ।
सर्वपापप्रशांतिश्च तीर्थराज नमोऽस्तुते ।। इति तीर्थप्रणतिः
इति सन्ध्योपासनाविधिः ।।
श्रीकृष्णार्पणमऽस्तु ।।
नैवेद्यमंत्राः ।
ओं अथ नैवेद्यमंत्राः ।।
अमृतेशयमुद्रया अमृतीकृत्य । अमृतमऽस्तु अमृतायित्वा नैवेद्यं ।
सावित्राणि सावित्रस्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां
पूष्णोहस्ताभ्यामाऽदधे ।। महागणपतये कुमाराय श्रियै सरस्वत्यै
लक्ष्म्यै विश्वकर्मणे द्वार्देवताभ्यः प्रजापतये ब्रह्मणे
कलशदेवताभ्यः ब्रह्मविष्णुमहेश्वरदेवताभ्यः चातुर्वेदेश्वराय
सानुचराय ऋतुपतये नारायणाय दुर्गायै त्र्यम्बकाय वरुणाय
यज्ञपुरुषाय
प्. १३)
अग्निष्वात्तादिभ्यः पितृगणयागदेवताभ्यः । भगवते वासुदेवाय
सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय सत्याय पुरुषाय अच्युताय
माधवाय गोविन्दाय सहस्रनाम्ने विष्णवे लक्ष्मीसहिताय नारायणाय ।
भगवते भवाय देवाय शर्वाय देवाय रुद्राय देवाय पशुपतये देवाय
उग्राय देवाय भीमाय देवाय महादेवाय ईशानायदेवाय ईश्वराय
देवाय उमासहिताय शिवाय पार्वतीसहिताय परमेश्वराय । भगवते
विनायकाय एकदन्ताय कृष्णपिंगलाय गजाननाय लम्बोदराय
भालचन्द्राय हेरम्बाय आखुरथाय विघ्नेशाय विघ्नभक्ष्याय
वल्लभासहिताय श्रीमहागणेशाय । क्लींकांकुमाराय षण्मुखाय
मयूरवाहनाय सेनाधिपतये कुमाराय । भगवते ह्रांह्रींसःसूर्याय
सप्ताश्वाय अनश्वाय एकाश्वाय नीलाश्वाय प्रत्यक्षदेवाय
परमार्थसाराय तेजोरूपाय प्रभासहिताय आदित्याय । भगवत्यै अमायै
कामायै चार्वंग्यै टङ्कधारिण्यै तारायै पार्वत्यै यक्षिण्यै
श्रीशारिकाभगवत्यै श्रीशारदा भगवत्यै श्रीमहाराज्ञीभग०
श्रीज्वालाभगवत्यै व्रीडाभगवत्यै वैखरीभगवत्यै वितस्ताभ०
गङ्गाभ० यमुनाभ० कालिकाभ० सिद्धलक्ष्म्यै महालक्ष्म्यै
महात्रिपुरसुन्दर्यै सहस्रनाम्न्यै देव्यै भवान्यै । अभयंकरीदेव्यै
क्षेमंकरीभगवत्यैसर्वशत्रुघातिन्यै इह राष्ट्राधिपतये भैरवाय ।
इन्द्राय वज्रहस्ताय अग्नये शक्तिहस्ताय यमाय दण्डहस्ताय नैर्-ऋतये
खड्गहस्ताय वरुणाय पाशहस्ताय वायवे ध्वजहस्ताय कुबेराय
गदाहस्ताय ईशानाय त्रिशूलहस्ताय ब्रह्मणे पद्महस्ताय विष्णवे
चक्रहस्ताय अनन्तादिभ्यः अष्टाभ्यः कुलनागदेवताभ्यः
अग्न्यादित्याभ्यां वरुणचन्द्रमोभ्यां कुमारभौमाभ्यां
विष्णुबुधाभ्यां इन्द्राबृहस्पतिभ्यां सरस्वतिशुक्राभ्यां
प्रजापतिशनैश्चराभ्यां गणपतिराहुभ्यां रुद्रकेतुभ्यां
ब्रह्मध्रुवाभ्यां अनन्ताऽगस्त्याभ्यां ब्रह्मणे कूर्माय ध्रुवाय
अनन्ताय हरये लक्ष्म्यै कमलायै शिख्यादिभ्यः
पंचचत्वारिंशद्वास्तोष्पतियागदेवताभ्यः ब्राह्म्यादिभ्यो मातृभ्यः
गौर्यादिभ्यो मातृभ्यः ललितादिभ्योमातृभ्यः
दुर्गाक्षेत्रगणेश्वरदेवताभ्यः राकादेवताभ्यः त्रिकादेवताभ्यः
सिनीवालीदेवताभ्यः यामीदेवताभ्यः रौद्रीदेवताभ्यः वारुणीदे०
बार्हस्पतिदेवताभ्यः ओं भूर्देवताभ्यः ओंभुवःदेवताभ्यः ओं
स्वर्देवताभ्यः ओंभूर्भुवःस्वर्देवताभ्यः
अखण्डब्रह्माण्डयागदेवताभ्यः धूर्भ्यः उपधूर्भ्यः
महागायत्र्यै सावित्र्यै सरस्वत्यै हेरकादिभ्यो वटुकादिभ्यः ।।
प्. १४)
उत्पन्नमऽमृतं दिव्यं प्राक्क्षीरोदधिमन्थनात् ।
अन्नमऽमृतरूपेण नैवेद्यं प्रतिगृह्यताम् ।।
इष्टदेवताध्यानं च पठित्वा तत्सद्ब्रह्म इत्यादि अमुककर्मनिमित्तं ओं नमो
नैवेद्यं निवेदयामि नमः ।।
याः काश्चिद्योगिनी रौद्राः सौम्या घोरतराः पराः ।
खेचरी भूचरी रामा स्तुष्टा भवंतु मे सदा ।।
आकाशमातृभ्योऽन्नं नमः आकाशमातृभ्यः समालभनं
गन्धोनमः अर्घोनमः पुष्पं नमः । इष्टदेवं ध्यात्वाऽमुकदेवायं
पायसं मोदकान् पक्वान्नं अपूपान् वा अन्नादि समर्पयामि नमः ।।
योऽस्मिन्निवसति क्षेत्रे क्षेत्रपालः सकिंकरः ।
तस्मै निवेदयाम्यऽद्य बलिं पानीयसंयुतम् ।।
क्षां क्षेत्राधिपतयेऽन्नं नमः रां राष्ट्राधिपतये अन्नं नमः
सर्वाभयवरप्रद मयि पुष्टिं पुष्टिपतिर्दधातु । आपन्नोऽस्मि शरण्योऽसि
सर्वावस्थासु सर्वदा इत्यादि क्षमा पुष्पाणि दत्वा उभाभ्यां जानुभ्यां
पाणिभ्यां शिरसा च उरसा मनसा च नमस्कारं करोमि नमः ।
नमोब्रह्मणे इति तर्पणम् ।
इति नैवेद्यमंत्रविधिः ।।
ओं अथ विष्णुपञ्चायतनपूजाविधिः
ओं अस्य श्री आसनशोधनमंतस्य मेरुपृष्ट ऋषिः सुतलं छन्दः कूर्मो
देवता । आसनशोधने विनियोगः ।। मेरुपृष्ठ-ऋषये नमः शिरसि सुतलं
छन्दसे नमः मुखे कूर्मो देवतायै नमः हृदि आसनशोधने विनियोगाय
नमः सर्वांगेषु ।।
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चाऽसनम् ।।
ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे ।
ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामऽसि ।।
इत्याऽसनम् ।
प्रीं पृथिव्यै आधारशक्त्यै समालभनं गन्धो नमः अर्घो नमः
पुष्पं नमः ।। ततो नमस्कारः
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ।। १ ।।
प्. १५)
अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि ।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ।। २ ।।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ।। ३ ।।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः साक्षान्महेश्वरः ।
गुरुरेव जगत्सर्वं तस्मै श्रीगुरवे नमः ।। ४ ।।
महाबले महोत्साहे महाभयविनाशिनि ।
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।। ५ ।।
ओं गुरवे नमः परमगुरवे नमः परमेष्ठिने गुरवे नमः परमाचार्याय
न० आद्यसिद्धेभ्यो न० ।। ओं अनाभावित्यादि । ब्रह्मभूर्भुवः स्वरों
शिरसीत्यन्तं पृ० १० कृत्वा ओं तद्विष्णोः परमं पदं हृ० । सदा पश्यन्ति
सूरयः शिरसे० । दिवीव चक्षुराऽततं शिखा० । तद्विप्रासो विपन्यवो कव० ।
जागृवांसः समिन्धते नेत्र० । विष्णोर्यत्परमं पदं अस्त्रा० ।। यो रुद्रो अग्नौ
हृ० । यो अप्सु य ओषधीषु शिर० । यो वनस्पतिषु शिखा० । यो रुद्रो विश्वाभुवना
विवेश कव० । तस्मै रुद्राय नेत्र० । नमो अस्तु देवा अस्त्राय फट् ।। गणानान्त्वा
गणपतिं हवामहे हृ० । कविं कवीनां शि० । उपमश्रवस्तमं शिखा० ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत कच० । आनः शृण्वन् नेत्रा० । ऊतिभिः
सीद सादनं अस्त्रा० ।। चित्रं पादयोः । देवानां जङ्घयोः । उद्गा ज्जान्वोः ।
अनीक मूर्वोः । चक्षुः शिश्ने । मित्रस्य गुह्ये । वरुणस्य नाभौ । अग्ने र्हृदि ।
आप्राद्यावापृथिवी कण्ठे । अन्तरिक्षं बाह्वोः । सूर्य मुखे । आत्मा
नासिकायां जगतः नेत्रयोः । तस्थुषः ललाटे । च शिरसि ।। जात शिखायां ।
वेदसे ललाटे । सुनवाम कर्णयोः । सोमं नासिकायां । अराति चक्षुषोः । यत
ओष्ठयोः । नि दन्तेषु । दहाति तालुनि । वेद जिह्वायां । स ग्रीवायां । नः
बाह्वोः । पर्षत् हृदि । अति स्तनयोः । दुर् कुक्षौ । गाणि नाभौ । विश्वा पृष्ठे ।
नाव पाण्योः । इव वृष्णयोः । सिन्धुं शिश्ने । दुर् कट्यां । इत ऊर्वोः । अति
जङ्घयोः । अग्निः पादयोः ।। सर्वासु दिक्षु तिलान्विक्षिपन्
अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नकर्तारस्ते
नश्यन्तु शिवाज्ञया ।। पाशान्डकारिणो ये वै भूता भूम्यन्तरिक्षगाः ।
दिवि लोके गता
प्. १६)
दुष्टास्ते नश्यन्तु शिवाज्ञया ।। २ ।। प्राणायामं कुर्यात् तीर्थेस्नेयं० ।
वसोः पवित्रमऽसि शतधारं वसूनां पवित्रमऽसि सहस्रधार
मऽयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्तीः । इति
पवित्रधारणम्
परमात्मने पुरुषोत्तमाय पञ्चभूतात्मकाय विश्वाऽत्मने
मंत्रनाथाय आत्मने नारायणायाअधारशक्त्यै समालभनं गन्धो
नमः अर्घो नमः पुष्पं नमः ।। इति स्वात्मने गन्धादि ।
स्वप्रकाशो महादीपः सर्वतस्तिमिरापहः ।
प्रसीद मम गोविन्द दीपोयं परिकल्पितः ।।
वनस्पतिरसो दिव्यो गन्धाढ्यो गन्धवत्तमः ।
आह्वानं सर्वदेवानां धूपोऽयं परिकल्पितः ।
नमो धर्मनिधानाय नमः स्वकृतसाक्षिणे ।
नमः प्रत्यक्षदेवाय भास्कराय नमो नमः ।।
यत्राऽस्ति माता न पिता न बन्धुर्भ्राताऽपि नो यत्र सुहृज्ज्नश्च ।
न ज्ञायते यत्र दिनं न रात्रिस्तत्राऽत्मदीपं शरणं प्रपद्ये ।।
आत्मने नारायणाय आधारशक्त्यै धूपदीपसंकल्पात्सिद्धिरऽस्तु
धूपोनमः दीपो नमः । ओंतत्सद्ब्रह्मा० ऋतुपतये नारायणाय
मार्गशीर्षे रुक्मिणीसहितायकृष्णाय श्रीसहिताय केशवाय । पौषे
प्रियासहि० अनन्ताय वागीश्वैरिस० नारायणाय । माघे प्रीतिस० अच्युताय
कान्तास० माधवाय । फाल्गुने शक्तिस० चक्रिणे क्रियास० गोविन्दाय । चैत्रे
सिद्धिस० वैकुण्ठाय मतिस० विष्णवे । वैशाखे शोभास० जनार्दनाय
विभूतिस० मधुसूदनाय । ज्येष्ठे महिमास० उपेन्द्राय इच्छास०
त्रिविक्रमाय । आषाढे लक्ष्मीस० यज्ञपुरुषाय धृतिस० वामनाय ।
श्रावणे कान्तिस० वासुदेवाय रतिस० श्रीधराय । भाद्रपदे प्राप्तिस० हरये
मायास० हृषीकेशाय । आश्वयुजे प्राकाम्यास० योगीश्वराय धीस०
पद्मनाभाय । कार्तिके लघिमास० पुण्डरीकाक्षाय गरिमास० दामोदराय ।
मलिम्लुचे सत्यभामास० नरकारये निष्कलास० महामार्ताण्डाय दुर्गायै
इत्यादि । सहस्रजाम्न्यै देव्यै भवान्यै पृ० १३ विष्णुपञ्चायतनदेवताभ्यो
धूपो नमः दीपो नमः । अपसव्येन नमः पितृभ्यः० नित्यकर्मनिमित्तं पित्रे
पितामहाय प्रपितामहाय । मात्रे पितामह्यै प्रपितामह्यै ।
प्. १७)
मातामहाय प्रमातामहाय वृद्धप्रमातामहाय । मातामह्यै
प्रमातामह्यै वृद्धप्रमातामह्यै समस्तमातापितृभ्यो
द्वादशदैवतेभ्यः पितृभ्यः धूपः स्वधा दीपः स्वधा ।। सव्येन
संव्वः सृजामि हृदयं संसृष्टं मनो असुवः ।। १ ।।
संसृष्टस्तन्वः सन्तु वः संसृष्टं प्राणो अस्तु वः ।। २ ।।
सव्या वः प्रियास्तन्वः संप्रिया हृदयानि वः । आत्मा वो अस्तु संप्रियाः
संप्रियास्तन्वो मम ।। ३ ।।
इति पुष्पत्रयंजलपात्रे क्षिप्त्वा अश्विनोरिति देवस्य जीवाधानं देयम् ।
अश्विनोः प्राणस्तौ ते प्राणान्दत्तान्तेन जीवः । मित्रावरुणयोः प्राणस्तौ ते
प्राणन्दत्ता० । बृहस्पतेः प्राणःसते प्राणान्दत्तान्तेन जीव ।।
ओं अ नाभावित्यादि देवस्य देहवन् न्यासं कुर्यात् ।। ओं भूः
पुरुषमित्याऽवाहनं ओं भूः पुरुषमाऽवाहयामि नमः ओं भुवः
पुरुषमाऽ० ओं स्वः पुरुषमाऽ० ओं भूर्भुवः स्वः पुरुषमाऽवा० ।। ३ ।।
ओं भूर्भुवः स्वस्तत्स० ।। ३ ।। नमोऽस्त्वनन्ताय ।। ३ ।। वासुदेवाय विद्महे
लक्ष्मीनारायणाय धीमहि तन्नो विष्णुः प्रोचदयात् ।। ३ ।। जितन्ते
पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुष
पूर्वज ।। ३ ।। ओं नमः कारणवामनाय गोब्राह्मणहिताय च । जगद्धिताय
कृष्णाय गोविन्दाय नमो नमः ।। ३ ।। विश्वरूपाय विद्महे विष्वक्सेनाय
धीमहि । तन्नो विष्णुः प्रचोदयात् ।। ३ ।। नरसिंहाय वि० नरकोत्तारणाय धी०
तन्नो विष्णुः० ।। ३ ।। तत्पुरुषाय वि० महादेवाय धी० तन्नः शिवः प्र० ।। ३ ।।
तत्पुरुषाय वि० वक्रतुण्डायधी० तन्नोदन्ती प्र० ।। ३ ।। भास्कराय वि०
सहस्ररश्मये धी० तन्नः सूर्यः प्र० ।। ३ ।। सुभगायै वि० काममालिन्यै धी०
तन्नो दुर्गा प्र० ।। ३ ।। ओं तत्सद्ब्रह्म० इत्यादे ऋतुपतेः नारायणस्य भगवतः
वासुदेवस्य संकर्षणस्य प्रद्युमनस्य अनिरुद्धस्य सत्यस्य पुरुषस्य
अच्युतस्य माधवस्य गोविन्दस्य सहस्रनाम्नः विष्णोः लक्ष्मीसहितस्य
नारायणस्य । भगवतः भवस्य देवस्य शर्वस्य देवस्य रुद्रस्य देवस्य
पशुपतेर्देवस्य उग्रस्य देवस्य भीमस्य देवस्य महादेवस्य ईशानस्य
देवस्य ईश्वरस्य देवस्य उमासहितस्य शिवस्य पार्वतीसहितस्य परमेश्वरस्य ।
भगवतः विनायकस्य एकदन्तस्य कृष्णपिंगलस्य गजाननस्य लम्बोदरस्य
भालचन्द्रस्य हेरम्बस्य आखुरथस्य विघ्नेशस्य विघ्नभक्ष्यस्य
वल्लभासहितस्य श्रीमहागणेशस्य । भगवतः ह्रांह्रींसः सूर्यस्य
सप्ताश्वस्य अनश्वस्य एकाश्वस्य नीलाश्वस्य
प्. १८)
प्रत्यक्षदेवस्य परमार्थसारस्य तेजोरूपस्य प्रभासहितस्य आदित्यस्य ।
भगवत्याः अमायाः कामायाः चार्वंग्याः टकधारिण्याः तारायाः
पार्वत्याः यक्षिण्याः श्रीशारिकाभगवत्याः श्रीशारदा भ०
श्रीमहाराज्ञीभः श्रीज्वालाभ० व्रीडाभ० वैखरीभ० वितस्ताभ०
गङ्गाभ० यमुनाभ० कालिकाभ० सिद्धलक्ष्म्याः महालक्ष्म्याः
महात्रिपुरसुन्दर्याः सहस्रनाम्न्यः देव्याः भवान्याः
विष्णुपञ्चायतनदेवतानामाऽत्मनो वाङ्० श्रीविष्णुप्रीत्यर्थं
विष्णुपञ्चायतनपूजनमर्चामऽहं करिष्ये ओं कुरुष्व ।।
तिलसर्षपयवान्विकीर्य ।। पुरुष एवेदं ध्रुवा द्यौ० इत्याऽसनम्
। ऋतुपतेर्नारायणस्य भगवतः वासुदेवस्य इत्यादेः इदमासनं
नमः ऋतुपतये नारायणाय भगवते वासुदेवाय इत्यादिभ्यः युष्मान् वः
पूजयामि ओं पूजय ।। सहस्रशीर्षापु० । युञ्जते मन उत युंजते धियो विप्रा
विप्रस्य बृहतो विपश्चितः । विहोत्रा दधे वयुना विदेक इन्मयिदेवस्य सवितुः
परिष्टुतिः । तद्विष्णोः० । ऋतुपतिं नारायणं भगवन्तं वासुदेवं
संकर्षणं प्रद्युम्नं अनिरुद्धं सत्यं पुरुषं अच्युतं माधवं
गोविन्दं सहस्रनामानं विष्णुं लक्ष्मीसहितं नारायणं । भगवन्तं
भवंदेवं शर्वंदेवं रुद्रंदेवं पशुपतिंदेवं उग्रंदेवं
भीमंदेवं महादेवं ईशानंदेवं ईश्वरंदेवं उमासहितं
शिवं पार्वतीसहितं परमेश्वरं । भगवन्तं विनायकं एकदन्तं
कृष्णपिङ्गलं गजाननं लम्बोदरं भालचन्द्रं हेरम्बं आखुरथं
विघ्नेशं विघ्नभक्ष्यं वल्लभासहितं श्रीमहागणेशं । भगवन्तं
ह्रांह्रींसः सूर्यं सप्ताश्वं अनश्वं एकाश्वं नीलाश्वं
प्रत्यक्षदेवं परमार्थसारं तेजोरूपं प्रभासहितं आदित्यं ।
भगवतीं अमां कामां चार्वंगीं टङ्कधारिणीं तारां पार्वतीं
यक्षिणीं श्रीशारिकाभगवतीं श्रीशारदांभ० श्रीमहाराज्ञीभ०
श्रीज्वालाभ० व्रीडाभ० वैखरीभ० वितस्ताभ० गङ्गाभ० यमुनाभ०
कालिकाभ० सिद्धलक्ष्मीं महालक्ष्मीभ० महात्रिपुरसुन्दरीं
सहस्रनाम्नीं देवीं भवानीं । विष्णुपंचायतनदेवता
आवाहयिष्यामि ओं आवाहय ।।
अवाहयाम्यऽमरवृन्दनुताङ्घ्रियुग्मं लक्ष्मीपतिं
भुवनकारणमऽप्रमेयम् ।
आद्यं सनातनतनुं प्रणवासनस्थं
पूर्णेन्दुभास्करहुताशसहस्ररूपम् ।। १ ।।
ध्येयं परं सकलतत्वविदां वरेण्यं
वाराहकापिलनृकेसरिसौम्यमूर्तिम् ।
श्रीवत्सकौस्तुभमहामणिभूषिताङ्गं
कौमोदिकीकमलकम्बुरथाङ्गहस्तम् ।। २ ।।
प्. १९)
त्वं सर्वगोऽसि भगवन्किल यद्यपि त्वामाऽवाहयामि हि यथा व्यजनेन
वायुम् ।
गूढो यथैव दहनो मथनादुपैति ह्यावाहितोऽसि त्वमुपैषि तथैव
चाऽर्चाम् ।। ३ ।।
मालाधराऽच्युत विभो परमात्ममूर्ते सर्वज्ञ नाथ परमेश्वर
सर्वशक्ते ।
आगच्छ मे कुरु दयां प्रतिमां भजस्व पूजां गृहाण
मदऽनुग्रहकामयाऽद्य ।। ४ ।।
आवाहयामि मणिसन्निभमात्मबिम्बे मायापुरे हृदयपंकजसन्निविष्टम् ।
श्रद्धानदीविमलदत्तजलाभिषेकं भावाष्टपुष्पविधिना हरिमर्चयामि ।।
५ ।।
गोक्षीराभं पुण्डरीकायताक्षं छत्राश्वाद्यैर्भूषणैर्भूषिताङ्गम्
।
श्रीभूमिभ्यामऽर्चितं योगपीठे स्वस्थं वन्दे पूजितं पद्मजेन ।। ६ ।।
ज्योतिष्मन्तं सर्वभूतान्तरस्थं ओंकाराख्यं योगिभिर्ध्यानगम्यम् ।
स्वङ्गैः शक्तैः स्वायुधैर्नित्यसेव्यं सर्वाकारं विष्णुमाऽवाहयामि ।। ६
।।
शिवस्य ।
लिङ्गेऽत्र भक्तदयया क्षणमात्रमेकं स्थाणुं विधाय भव
मद्विहितां पुरारे ।
सर्वेश ! विश्वमय ! हृत्कमलाधिरूढः पूजां गृहाण भगवन्भव
मेऽद्य तुष्टः ।। ७ ।।
गणेशस्य ।
शैलेश्वरस्य तनयार्भक भक्तविघ्ननाशाय
हस्तधृतदण्डकुठारपाश ! ।
द्वारेश सर्वगणनायक पद्महस्त पूजां गृहाण भगवन्भव मेऽद्य
तुष्टः ।। १ ।।
सूर्यस्य ।
ब्रह्माण्डगेहपरिदीपक शम्भुमूर्ते ! तेजोनिधान ! खचरेश्वर पूर्वदेव
।
सर्वोपचारविधिना विहितां मयाऽद्य पूजां गृहाण भगवन्भव मेऽद्य
तुष्टः ।। १ ।।
दुर्गायाः ।
श्रीशारदे ! सुरवरे ! त्रिपुरे ! सुरेशि ! दुर्गे ! भवानि ! खलु वैखरि
विश्वमातः ।
शर्वार्धदेहनिलये ! परिवारयुक्ता पूजां गृहाण सुभगा भव मेऽद्य
तुष्टा ।। १ ।।
भगवन्पुण्डरीकाक्ष भक्तानुग्रहकारक ।
अस्मद्दयानुरोधेन सन्निधानं कुरु प्रभो ।। ३ ।।
इत्याहूय तु गायत्रीं त्रिःसमुच्चार्य तत्ववित् ।
मनसा चिन्तितैर्द्रव्यैर्देवमात्मनि पूजयेत् ।
तेजोरूपं ततः क्षिप्त्वा प्रतिमायां पुनर्यजेत् ।।
यवान्विकीर्य प्राणायामं कुर्यात् पाद्यार्थमुदकं नमः ।।
शन्नोदेवी० । लाजाश्च कुंकुमंचैव सर्वौषधिसमन्वितम् ।
दर्भाङ्कुरं जलं चैव पञ्चाङ्गं पाद्यलक्षणम् ।
भगवन्तः पाद्यं पाद्यम् ।। २ ।
एतावानऽस्य० पृ० ८ हिरण्यवर्णाः० ऋचः ४ । ऋतुपतये इत्यादिभ्यः पाद्यं
नमः । शेषं निवार्य पुनः शन्नो देवी० । आपः क्षीरं कुशाग्राणि घृतं
च दधि तण्डुलाः । यवाः सिद्धर्थकाश्चेति ह्यर्घ्यमऽष्ताङ्गमुच्यते ।
भगवन्तः अर्घ्यं ।। २ ।।
त्रिपादुर्ध्व० । पृ० ८ ओं आपो हि ष्ठा० ऋ० ३ ऋतुपते नारायण भगवन्
वासुदेव संकर्षण
प्. २०)
प्रद्युम्न अनिरुद्ध सत्य पुरुष । अच्युत माधव गोविन्द सहस्रनामन् विष्णो
लक्स्मीसहित नारायण । भगवन् भवदेव शर्वदेव रुद्रदेव पशुपते देव
उग्रदेव भीमदेव महादेव ईशानदेव ईश्वरदेव उमासहित शिव
पार्वतीसहित परमेश्वर । भगवन् विनायक एकदन्त कृष्णपिंगल गजानन
लम्बोदर भालचन्द्र हेरम्ब आखुरथ विघ्नेश विघ्नभक्ष वल्लभासहित
श्रीमहागणेश । भगवन् ह्रांह्रींसः सूर्य सप्ताश्व अनश्व एकाश्व
नीलाश्व प्रत्यक्षदेव परमार्थसार तेजोरूप प्रभासहित आदित्य भगवति
अमे कामे चार्वंगि टङ्कधारिणि तारे पार्वति यक्षिणि श्रीशारिकाभगवति
श्रीशारदाभ० श्रीमहाराज्ञीभ० श्रीज्वालाभ० व्रीडाभ० वैखरीभ०
वितस्ताभ० गङ्गाभ० यमुनाभ० कालिकाभ० सिद्धलक्ष्मि महालक्ष्मि
महात्रिपुरसुन्दरि सहास्रनाम्नि देवि भवानि विष्णुपञ्चायतनदेवता इदं
वः अर्घ्यं नमः ।। तस्माद्विराड० पृ० ८ शन्न आपो० पृ० ६ ऋतुपतये
इत्यादिभ्य आचमनीयं नमः । यत्पुरुषेण० पृ० ८ इममाऽपः पृ० ६ ऋतुपतये
इत्यादिभ्यः मन्त्रस्नानीयं नमः ।।
अथ एकविंशतिस्नानानि ।। पयोदधिघृतक्षौद्रलाजासिद्धार्थकास्तिलाः ।
यवव्रीहिकुशादूर्वामृद्भस्मफलशर्करा । पञ्चामृतं पञ्चगव्यं
कर्पूरौषधयस्तथा । एकविंशतिस्नानानि गन्धाढ्यैः कुसुमैरऽपि ।।
उदुत्तमं वरुण पाशमस्मदऽवाधमं विमध्यमं श्रथाय । अथा
वयमाऽदित्यव्रते तवानागसो अदितये स्याम ।। पयः पृथिव्यां पय ओषधीषु
पयो दिव्यऽन्तरिक्षे पयोधाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ।। १ ।।
दधिक्राव्णो० । घृतवती भुवनानामऽमिऽऽरियोर्वी पृथिवी मधुदुघे
सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कंभिते अजरे भूरिरेतसा ।। ३
।।
मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नः सन्त्वोषधीः । मधु
नक्तमुतोषसो मधुमत्पार्थिवं रजः मधु द्यौरऽस्तु नः पिता ।
मधुमान्नो वनस्पतिर्मधुमानऽस्तु सूर्यः माध्वीर्गावो भवन्तु नः ।। ९ ।।
तदस्य रूपममृतं शचीभि स्तिस्रो दधुर्देवताः संरराणाः । लोमानि
शष्पैर्बहुधान तोक्मभिः त्वगऽस्य मांसमभवन्न लाजाः ।। ५ ।।
रक्षोहणं वाजिनमाजिघर्मि मित्रं प्रथिष्ठमुपयामि शर्म । शिशानो
अग्निः क्रतुभिः समिद्धः सनो दिवः सरिषः पातु नक्तम् ।। ६ ।। तिलोऽसि
सोमदैवत्यो गोसवो देवनिर्मितः । प्रयत्नवद्भिः पितृंल्लोकान्प्राण आयाहि
नःस्वधा ।। ७ ।। यवोऽसि यवयास्मद्विषं यावया रातिम् । पितृषदनन्त्वा
लोकमाऽस्तृणामि ।। ८ ।। धान्यमऽसि धिनुहि
प्. २१)
देवान्धिनुहि यज्ञन्धिनुहि यज्ञपतिन्धिनुहिमां यज्ञम् ।। ९ ।। देवस्य त्वा
सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाऽदधे ।। १० ।।
काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि । एवा नो दूर्वे प्रतनु सहस्रेण
शतेन च ।। ११ ।। आक्रम्य वाजिन्पृथिवी मग्निमिच्छा रुचा त्वम् ।
भूम्यायत्वायनोब्रूहि यतः खनेम ते वयम् ।। १२ ।। प्रसद्य भस्मना
योनिमाऽपश्च पृथिवीमग्नेः । संसृज्य मातृभिष्ट्वं
ज्योतिष्मान्पुनराऽसदः ।। १३ ।। याः फलिनीर्या अफला अकोशाः कोशिनीश्च याः
। बृहस्पतिप्रसूतास्तानो मुञ्चन्त्वंहसः ।। १४ ।।
शर्कराभिरऽवकामवकाभिः शर्करामुत्सादेन । जिह्वामवक्रन्देन तालुं
सरस्वती जिह्वाग्रेण ।। १५ ।। पञ्चव्युष्टीऽनुपञ्चदुहागां पञ्चनाम्नी
मृतवोऽनु पञ्च । पञ्च दिशः पञ्चदशेन कॢप्ताः
समानमूर्ध्नीरऽभिलोकमेकम् ।। १६ ।। गोमूत्रं गोमयं क्षीरं दधि
सर्पिः कुशोदकम् । मिश्रीकृत्य समुद्रादूर्मिर्मधुमां
उदारदुपांशुनासमऽमृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा
देवानामऽमृतस्य नाभिम् ।। १७ ।। त्र्यम्बकं यजामहे सुगन्धिं
रयिपोषणम् । उर्वारुकमिवबन्धनान्मृत्योर्मोक्षीय मा मृतात् ।। १८ ।। या
ओषधयः प्रथमजा देवेभ्यस्त्रियुगं पुरा । मनैनु बभ्रूणामःअं
शतं धामानि सप्त च ।। १९ ।। गन्धद्वारां दुराधर्षां नित्यपुष्टां
करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।। २० ।। पुष्पवतीः
प्रसुमतीः फलिनीरऽफला उत । अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ।। २१
।। ऋतुपतये इत्यादिभ्यो एकविंशतिस्नानानि नमः ओं अम्बुना पयसा दघ्ना
घृतेन मधुना यवैः । शर्करासर्षपतिलैस्तथा चामिकरेण वै ।
कर्पूरकुंकुमाभ्यां च लाजाऽक्षोटैः सपुष्पकैः ।
सर्वोषध्यस्तथापश्चाद्विष्णोः स्नानानि षोडश । दद्यात्षोडश
स्नानानि षोडशर्चेन विष्णवे । आदौ शुद्धजलेन वसोः
पवित्रमऽसि० ऋतुपतये० इत्यादिभ्याः शतधारोदकं नमः
सहस्रधारोदकं नमः ।। ततः आनुष्टुभस्येति पुरुषसूक्तेन १६ । रथे
अक्षेषु वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे । इन्द्रं या देवी
सुभगा जजान सेयमागाद्वर्चसा संविदाना ।। १ ।। या हस्तिनि द्वीपिनि या
हिरण्ये गोष्वऽश्वेषु पुरुषेष्वऽन्तः । इन्द्रंया० ।। २ ।। सिंहे व्याघ्रे उत या
पृदाकौ त्विषिरग्नौ ब्रह्मणे सूर्ये या । इन्द्रं या देवी० ।। ३ ।। या राजन्ये
दुन्दुभावायताया मऽश्वस्य स्कन्दे पुरुषस्य मायौ । इन्द्रं० ४ इति
लक्ष्मीसूक्तेन च तद्विष्णोः० ऋतुपतये इत्यादि षोडशस्नानानि नमः ।।
पानीयान्तरितैः पयोदधिघृतैः क्षौद्रेक्षुभिः सौषधैः । ब्रीह्यद्भिः
कुसुमोदकैः फलजलैः
प्. २२)
सिद्धार्थलाजोदकैः ।। गन्धाद्भिः शुभहेमरत्नसलिलैरित्थं सदा चोत्तमैः
। दद्यात्पञ्चदशाम्बुना सह महास्नानानि शम्भोः क्रमात् ।। उदुत्तमं १
पयः पृथिव्याः २ दधि क्राव्णो ३ घृतवती ४ मधुवाता ५ स्वादुः पव
स्वदिव्याय जन्मने स्वादुरिन्द्राय सुहवीतनाम्ने स्वादुर्मित्राय वरुणाय
वायवे बृहस्पतये मधुमां अदाभ्यः ।। ६ ।। या ओषधयः ७ धान्यमसि ८
पुष्पवतीः ९ याः फलिनीः १० रक्षोहणं ११ तदस्य रूपं १२ गन्ध
द्वारां १३ हिरण्यवर्णाः १४ ऋतं चसत्यं १५ पृ० ७ ।। असंख्याताः
सहस्राणि ये रुद्रा अधिभूम्याम् । तेषां सहस्रयोजनेव धन्वानि तन्मसि १
यऽस्मिन्महत्यऽर्णवेऽन्तरिक्षे भवा अधि । तेषां ।। २ ।। ये नीलग्रीवाः
शितिकण्ठा दिवं रुद्रा उपाश्रिताः ।। तेषां० ३ । ये नीलग्रीवाः शितकण्ठाः
शर्वा अधः क्षमाचराः ।। ते० ४ ।। ये वनेषु शिल्पिञ्चरा नीलग्रीवा विलोहिताः ।।
ते० ५ ।। येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् । ते० ।। ६ ।। ये
भूतानामधिपतयो विशिखासः कपर्दिनः । ते० ।। ७ ।। ये पथीनां पथि
रक्षय ऐडमृदाय व्युधः । ते० ।। ८ ।। ये तीर्थानि र्पचरन्ति सृकावन्तो
निषङ्गिणः । ते० ।। ९ ।। य एतावन्तो वा भूयांसो वा दिशो रुद्रा वितिष्ठिरे । ते० ।।
१० ।। ओं नमो अस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यो दश प्राचिर्दश
दक्षिणा दश प्रतिचीर्दशोदीचीर्दशोर्ध्वा स्तेभ्यो नमो अस्तु ते नो मृदयन्तु ते
यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि ।। १ ।। ओं नमो अस्तु
रुद्रेभ्यो ये अन्तरिक्षे येषां वात इषवस्तेभ्यो दशप्राची० ।। २ ।। ओं नमो अस्तु
रुद्रेभ्यो ये पृथिव्यां येषामऽन्नमिषवस्तेभ्यो० ।। ३ ।। यो रुद्रो अग्नौ यो अप्सु
य ओषधीषु यो वनस्पतिषु । यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो
अस्तु देवाः । भगवते भवाय देवाय । इत्यादि पञ्चदशस्नानानि नमः । ओं
गणानान्त्वा गणपतिं हवामहे कविङ्कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः शृण्वन्नूतिभिः सीद सादनम्
। भगवते विनायकाय इत्यादि चतुर्दशस्नानानि नमः । पयः क्षीरं दधि
सर्पिरिक्षुस्तिला यवा मधु । लाजामृतं पञ्चगव्यं
गन्धपुष्पौषधीस्तथा । त्रयोदशस्नानेऽमूनि सूर्यस्योक्तानि सूरिभिः ।
उद्वयन्तमसस्परि० षट् ऋग्भिः पृ० ७ पं० २१ ह्रांह्रींसः सूर्याय इत्यादि
त्रयोदशस्नानानि नमः । लाजागन्धवाचः कुष्ठं वालुकं
शङ्खपुष्पकम् । कुङ्कुमागुरुकर्पूरं स्नाने देव्याः प्रकल्पयेत् ।। अहं
रुद्रेभिर्वसुभिश्चरामिऽ-अहमादित्यैरुत विश्वदेवैः ।
अहम्मित्रावरुणोभाबिभर्म्यऽहमिन्द्राग्नी अहमश्विनोभा । दधि क्राष्णो० ।
आपो
प्. २३)
हिष्ठा० । ओं भूर्भुवः स्वस्त० । जातवेदसे सुनवाम सोम मऽराती यतो
निदहाति वेदः । स नःपर्षदऽतिगुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ।
भगवत्यै अमायै इत्यादि अष्टौ स्नानानि नमः । अग्निर्-ऋषिः पवमानः
पाञ्चजन्यः पुरोहितः तमीमहे महागयम् । पाञ्चजन्याय शङ्खाय
स्नानं नमः । कयानश्चित्र आभूव दूती सदा वृधः सखा कया
शचिष्ठया वृता । देवदूत्यै घण्टाभगवत्यै स्नानं नमः ।। तओ
ब्रह्मादयः सर्वे देवास्तृप्यन्तु० इत्यादि देवर्षिपितृतर्पणं ।
सव्येन- विष्णुपीठे भद्रपीठे य इदं तर्पणं पठेत् । धनं
कीर्तिर्यशश्चैव नित्यं च सुखमश्नुते । बह्वायुश्च बहून्पुत्रान्यजमानो
लभेत्सदा । वपुः पूतं पवित्रं च नित्यं गोदानकं फलम् । मा विघ्नं
मा च मे पापं सन्तु परिपन्थिनः । सौम्या भवन्तु तृप्ताश्च भूताः
प्रेताः सुखावहाः । ओं नमो देवेभ्यः इत्यादि । शुद्धजलेन तद्विष्णोः०
भगवते वा० इत्यादिभ्यो मन्त्रगुडकं नमः । ओं प्रत्यग्ने हरसाहरः
शृणीहि विश्वतः प्रति । यातुधानस्य रक्षओ बलं विरुज वीर्यम् ।। इत्याऽरात्रिका
। ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । अत्राह
तदुरुगायस्य वृष्णः परमं पदमऽवभाति भूरि । इति नेत्रस्पर्शनम् ।
उदकं चन्दनं चक्रं शङ्खश्च तुलसीदलम् । घंटा शिला
ताम्रपत्रमऽष्टाङ्गं चरणामृतम् । ओं तद्विष्णोः० । भगवते वासु० इत्यादि
चरणामृतं गृह्णामि नमः ।। आपो हि ष्ठा इति शिरसि मार्जयेत् आसनाय
नमः पद्मासनाय नमः गरुडासनाय नमः शतदलपद्मास० ।
सहस्रदलप० वृषभास० मूषका० सप्ताश्वासना० सिंहासनाय नमः ।।
उत्तिष्ठ भगवन्विष्णो उत्तिष्ठ कमलापते ! । उत्तिष्ठ त्रिजगन्नाथ ! त्रैलोक्ये
मंगलं कुरु ।। मुकुन्दमालां पठित्वा । रथे अक्षेषु ऋ ४ ओं भगवते
वासुदेवाय इत्यादिभ्योऽनुलेपनं गृह्णामि नमः । तं यज्ञं० युवा
सुवासाः० ऋतुपतये० इत्यादिभ्यो वस्त्रं नमः । तस्माद्यज्ञात्सर्वहुतः
संभृतं० यज्ञोपवीतं० ऋतु० यज्ञोपवीतं वासोनमः ।
तस्माद्यज्ञात्सर्वहुतः ऋचः० गन्धद्वारां० ऋतुप० समालभनं गन्धो
नमः ।। तस्मादऽश्वा० पुष्पवतीः० ऋतु० अर्घो नमः । पुष्पं नमः ततः
पुरुषसूक्तेन लक्ष्मीसूक्तेन च पूर्वे नारायणाय नमः दक्षिणे
पुण्डरीकाक्षाय० पश्चिमे गोविन्दाय उत्तरे मधुसूदनाय ऐशान्यां
विष्ण्ववे आग्न्येययां जनार्दनाय नैर्-ऋत्यां पद्मनाभाय वायव्यां
वामनाय ऊर्ध्वे वासुदेवाय अधरे लोकनाथाय मध्ये केशवाय
शङ्खाय चक्राय गदायै हलाय मुसुलाय
प्. २४)
कौस्तुभाय जयाय विजयाय धात्र्यै शेषाय अयनद्वयाय द्वारे चण्डाय
उपचण्डाय ऋग्वेदाय यजुर्वे० सामवे० अथर्ववे० कृतयुगाय त्रेतायु०
द्वापरयु० कलियु० ओं भूर्लोकाय ओं भुवोलो० ओं स्व्र्लो० ओं भूर्भुवःस्वर्लो० ।
तद्विष्णोः० ।। २ ।। वासुदेवाय इत्यादि यो रुद्रो० भवाय देवाय इत्यादि ।
गणानान्त्वा० । विनायकाय इत्यादि । चित्रन्देवानां । ह्रांह्रींसः सूर्याय
इत्यादि । जातवेदसे० अमायै इत्यादि अर्घो नमः पुष्पं नमः । यत्पुरुषं पृ०
८ धूरसि धूर्व धूर्वन्तं योऽस्मान्धूर्वति तं धूर्वय
वयन्धूर्वामस्तंच् अ धूर्व । देवानामसि वह्नितमं सस्नितमं
पप्रितमं इष्टतमं देवतमं विष्णोः क्रमोस्याहुतमसि हविर्दानं
दृंहस्व स्वाह्वान्मित्रस्य त्वा चक्षुषा प्रेक्ष उरुत्वावाताय । वसवस्त्वां
धूपयन्तु गायत्रेण च्छन्दसाङ्गिरस्वत् । रुद्रास्त्वा धू० त्रैष्टुभेन च्छ० ।
आदित्यास्त्वा धू० जागतेन च्छ० विश्वेत्वा देवा वैश्वानरा धू०
आनुष्टुभेन च्छ० । इन्द्रस्त्वा धूपयतु । वरुणस्त्वा धू० । विष्णुस्त्वा धू०
। ऋतुप० इत्यादिभ्यो धूपं परिकल्पयामि नमः ।। ब्राह्मणोऽस्य० । तेजोसि
शुक्रमसि ज्योतिरसि धामासि । प्रियन्देवानामऽनाधृष्टन्देवयजनं
देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।। ऋतु०
इत्यादिभ्यो रत्नदीपं परिकल्पयामि नमः देवस्य त्वा० जय नारायण०
शिवयोर्लीलास्तुतिं पठित्वा ऋतुप० चामरं परिकल्प० नमः ।
काण्डात्काण्डा० छत्रं परि० । तच्चक्षु० आदर्शं परि० । एताभ्यो देवताभ्यो
धूपो नमः दीपो नमः । एता० वासो नमः । एतासां
देवतानामर्घ्यदानाद्यऽर्चनविधिःसर्वः परिपूर्णोऽस्तु ।।
चन्द्रमामनसो० हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मैदेवाय हविषा विधेम । ऋतुप०
विष्णुपंचायतन दे० मात्रामधुपर्कं चरुं निवेदयामि नमः नाभ्या
आसीत्० कुसुमांजलिं परिक० । सप्तास्याऽसन्० ओं नमो नारायणाय
भगवन्प्रसीद इति च चत्वारि प्रदक्षिणानि ।। ध्येयं सदा
परिभवघ्नमऽभीष्टदोहं तीर्थास्पदं शिवविरञ्चिनुतं शरण्यम् ।
भृत्यार्तिहं प्रणतपाल ! भवाब्धिपोतं वन्दे महापुरुष ते
चरणारविन्दम् । त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं धर्मिष्ठ !
आर्यवचसा यदगादऽरण्यम् । मायामृगं दयितयेप्सितमेऽनुधावत् वन्दे०
।। २ ।। श्रीमत्सरोरुहयवांकुशचक्रचाप मत्स्याङ्कितं
नवविलोहितपल्लवाभम् । लक्ष्म्यालयं परममङ्गलमात्मरूपं वन्दे० ।। ३
।। वृन्दावनान्तरमऽगादऽनु गोकुलानां सञ्चार्य सर्वपशुभिः
प्. २५)
स्वविवृद्धिकामी । सञ्चिन्तयेदऽगगुरोर्मृगपक्षिणां यद्वन्दे० ।। ९ ।।
यद्गोपिका विरहजाग्निपरीतदेहास्तप्तस्तनेषु विजहुः परिरभ्य तापम् । रासे
तदीयकुचकुंकुमपंकलिप्तं वन्दे० ।। ५ ।।
कालीयमस्तकविघट्टनदक्षमऽस्य मोक्षेप्सुभिर्विरहदीनमुखाभिरारात् ।
तत्पत्निभिः स्तुतमऽशेषनिकामरूपं वन्दे० ।। ६ ।। ज्ञानालयं
श्रुतिविमृग्यमऽनादिमऽर्च्यं ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः ।
संसारकूपपतितोत्तरणावलम्बं वन्दे० ।। ७ ।। येनाङ्कपालवपुषः
स्तनपानबुद्धेस्त्वदंघ्रिणा हृतमऽनो विपरीतचक्रम् ।
विध्वस्तभाण्डमऽपतद्भुवि गोपमूर्तेर्वन्दे० ८ इत्यष्टकं पठति यः
परमस्य पुंसो नारायणस्य निरयार्णवतारणस्य । सर्वाप्तिमाशु हृदये
कुरुते मनुष्यैः संप्राप्य देहविलयं लभते च मोक्षम् ।। ९ ।। उभाभ्यां
जानुभ्यां पाणिभ्यां शिरसा उरसा मनसा वचसा च नमस्कारं करोमि
नमः । अन्नं नमः २ आज्यं २ अद्यदिने अद्य यथा संकल्पात्सिद्धिरस्तु
अन्नहीनं क्रियाहीनं विधिहीनं द्रव्यहीनं मन्त्रहीनं च यद्गतं
तत्सर्वमऽच्छिद्रं सम्पूर्णमस्तु एवमस्तु ।। शन्नो देवी० ऋतुपतये
इत्यादिभ्यः अपोशानं नमः आचमनीयं नमः ।। पुनः शन्नो देवी० । ऋ०
दक्षिणायै तिलहिरण्यरजतनिष्कर्षं ददानि । एता देवताः सदक्षिणाऽन्नेन
प्रीयंतां प्रीताः सन्तु ।। अमृतेशमुद्रया अमृतीकृत्य० इत्यादि सर्वो
नैवेद्यविधिः । तद्विष्णोः० इति पुष्पद्वयं क्षिपेत् ।। ततो जपादि कृत्वा । ओं भूः
पुरुषं विसर्जयामि नमः ओं भुवः पुरुषं विस० ओं स्वः पुरुषं वि० ओं
भूर्भुवः स्वः पुरुषं विस० । ओं भूर्भुवः स्वस्तत्स० ३ । इत्यादि सर्वा
गायत्रीः पठित्वा आत्मनो० श्रीविष्णुप्रीत्यर्थं
विष्णुपञ्चायतनपूजनमच्छिद्रं सम्पूर्णमऽस्तु एवमस्तु । एताभ्यो
देवताभ्यो यवोदकं नमः उदकतर्पणं नमः । आज्ञा मे दीयतां नाथ
नैवेद्यस्याऽस्य भक्षणे । शरीरयात्रासिद्ध्यर्थं भगवन् क्षन्तुमऽर्हसि ।
आपन्नोस्मि शरण्योसि सर्वावस्थासु सर्वदा । भगवंस्त्वां प्रपन्नोऽस्मि
रक्ष मां शरणागतम् । एवं पञ्चानां देवानां स्तोत्रपाठादि
पठित्वा ।। आह्वानं नैव जानामि नैव जानामि पूजनम् । पूजाभागं न
जानामि क्षम्यतां परमेश्वर । उमाभ्यां जानुभ्यां इत्यादि
नमस्कारं करोमि नमः । नमो ब्रह्मणे ३ इति तर्पणम् यजेन यज्ञं इति
विसर्जनम् ।। बलिर्विभीषणो भीष्मः प्रह्लादो नारदः शुकः । षडेते
वैष्णवश्रेष्ठा गृह्णन्तु चरणोदकम् । ओं नमो देवेभ्यः० इत्यादि ।। पूजितोसि
मया भक्त्या भगवन्कमलापते । सलक्ष्मीको मम स्वान्तं
प्. २६)
विश विश्रान्तिहेतवे । इति विज्ञप्य चरणाऽमृतं पिबेत् चरणं पवित्रं विततं
पुराणं येन पुतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूतः
अतिपाप्मानमऽरातिंतराम । लोकस्य द्वारमर्चिष्म्ज्ज्योतिष्मत् लोकस्य धारां
बहुधा दोहमानं चरणं नृलोके सततं ददातु ।
देवदेव महादेव शंखचक्रगदाधर ।
देहि विष्णो ममानुज्ञां पादोदकनिषेवणे ।। १ ।।
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
श्रीविष्णुपादोदकं पीत्वा पुनर्जन्म न विद्यते ।।
इति विष्णुपंचायतनपूजाविधिः ।।
अथ पंचगव्यविधिः ।।
गोमूत्रं गोमां क्षीरं दधि सर्पिः कुशोदकम् ।
निर्दिष्टं पञ्चगव्यं च पवित्रं कायशोधनम् ।। १ ।।
गायत्र्याऽदाय गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधि क्राव्णेति वै दधि ।। २ ।।
तेजोसीति घृतं प्रोक्तं देवस्यत्वा कुशोदकम् ।
गोमूत्रं गोमये क्षेप्यं ते संक्षिप्ये घृते तथा ।। ३ ।।
तानि दध्नि प्रक्षिप्यानि तत्सर्वं पयसोन्तरे ।
एकीकृत्य तु तत्सर्वं कुशोदकविमध्यगम् ।। ४ ।।
आपो हिष्ठेति चाऽलोड्य प्रणवेन तु तत्पिबेत् ।
औदुम्बरे पद्मपत्रे रौप्यपात्रे हिरण्मये ।। ५ ।।
मंत्रपूतं पिबेत्तत्तु त्रीन्वारान्पञ्चगव्यकम् ।
शुद्धवतीति मन्त्रेण प्रक्षिपेद्दिक्षु सर्वतः ।। ६ ।।
पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते ।
घृतं च पलमात्रं स्याद्गोमयं तोलकद्वयम् ।। ७ ।।
दधि प्रसृतमात्रं स्यात्पञ्चगव्यं त्विदं स्मृतम् ।
अथवा पञ्चगव्यानां समानो भाग इष्यते ।। ८ ।।
मूलमंत्रेण संमंत्र्य कुशाग्रेणैव शोधयेत् ।
तेन सर्वविशुद्धिः स्यात्सर्वपापनिकृतनम् ।। ९ ।।
प्. २७)
गोमूत्रं ताम्रवर्णायाः शुद्धवत्यास्तु गोमयम् ।
पयः काञ्चनवर्णाया नीलायाश्च तथा दधि ।। १० ।।
घृतं च कृष्णवर्णायाः सर्वं कापिलमेव वा ।
गोमूत्रं माषकास्त्वष्टौ गोमयस्य तु षोडश ।। ११ ।।
पयसो द्वादश प्रोक्ता दध्नः पञ्चदश स्मृताः ।
घृतस्याऽष्तादश प्रोक्ताः प्रमाणं पंचगव्यके ।। १२ ।।
एकोनविंशमाषास्तु कुशोदकस्य च स्मृताः ।
गोमूत्रमुत्तरे स्थाप्यं गोमयं वारुणे न्यसेत् ।। १३ ।।
सर्पिर्याम्यां दधि प्राच्यां क्षीरं मध्ये तु निक्षिपेत् ।
कुशोदकं तथैशान्यां पंचगव्यस्थितेर्विधिः ।। १४ ।।
वरुणो देवता मूत्रे गोमये हव्यवाहनः ।
विष्णुः क्षीरे दध्नि सोमो घृतस्य पितृमांस्तथा ।। १५ ।।
कुशोदके भवेद्ब्रह्मा पञ्चगव्यस्य देवताः ।
मातृघ्नं भ्रूणहन्तारं गुरुतल्पगमेव वा ।। १६ ।।
पञ्चगव्यं सकृत्पीतं पापेभ्यो विनिवर्तयेत् इति ।।
अथ दिक्क्षेपणमंत्राः ।।
एतोन्विद्रं स्तवामहेऽहं शुद्धः शुद्धेन साम्ना ।
शुद्धैरुक्तैर्वावृष्ट्या संशुद्ध आशीर्वान्मम ।।
तुतान्धुवाम यङ्गिर इन्द्र मुक्ता न वावृधः ।
पुरूण्यऽस्य पांस्यामिषासन्तो हवामहे ।।
इन्द्र शुद्धो हतो नहि शुद्धः शुद्धाभिरूतिभिः ।
शुद्धो रयिं निधारय शुद्धः समद्धि सौम्यः ।।
इन्द्रः शुद्धो हि नोरयिं शुद्धो रत्नानि दाशुषे ।
शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजो सिषामहि ।।
पञ्चव्युष्टीरनु० पृ० २१ प० ८ इति पञ्चगव्यविधिः ।।
भोजनविधिः ।
अथ भोजनविधिः ।। तत्रादौ लेपनं विधाय
चतुष्कोणं तु विप्रस्य क्षत्रियस्य त्रिकोणकम् ।
मण्डलाऽकृति वैश्यस्य शूद्रस्याऽभ्युक्षणं स्मृतम् ।। १ ।।
अकृत्वा मण्डलं ये तु भुञ्जतेऽन्नमऽधोमुखाः ।
तेषां तु यक्षरक्षांसि भुञ्जतेऽन्नस्य तद्बलम् ।। २ ।।
पञ्चाऽर्द्रो भोजनं कुर्याद्वाग्युतः प्राङ्मुखः शुचिः ।
हस्तौ पादौ तथा वक्त्रमेषा पञ्चाऽर्द्रता मता ।। ३ ।।
ततोऽन्नपात्रमाऽनीय ।
अन्नं दृष्ट्वा प्रणम्याऽदौ प्राञ्जलिः कथयेदिदम् ।
अस्माकं नित्यमऽस्त्वेतदिति स्मृत्वा च वन्दयेत् ।। ४ ।।
अमृतमुद्रयाऽन्नपात्रं गृहीत्वा ।
अन्नपते अन्नस्य नो देह्यऽनमीवस्य शुष्मिणः ।
प्र प्रदातारं तारिषं ऊर्जं नो देहि द्विपदे शं चतुष्पदे ।। ५ ।।
गायत्र्या चाऽभिमंत्र्य ।। ६ ।। ततो जलेनाऽभ्युक्ष्य । ओं उच्छिष्टोच्छिष्टोपहतं
यच्च पापेन हतं मृतसूतकाद्वा । वसोः पवित्रमऽग्निः सवितुश्च रश्मयः
पुनन्त्वऽन्नं मम दुष्कृतं यच्चाऽन्यत् ।। ७ ।। ओं तद्विष्णोः परमं० ।। ८ ।। इति
च । ततो दक्षिणभागे भूमौ । ओं भूपतयेनमः ओं भुवनपतये नमः ओं
भूतानां पतये नमः । इति बलित्रयं निवेद्य । ये केचिद्यत्र तत्रस्थाः
प्रेतभागवशाऽनुगाः । इहैव भूमौ ते सर्वे मद्दत्तलेपमऽद्यताम् ।। ९ ।। इति
लेपं भूमौ प्रक्षाल्य अन्तश्चरसि भूतेषु इति ब्रह्मार्पणं
ब्रह्महविर्ब्रह्माऽग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं
ब्रह्मकर्मसमाधिना ।। ११ ।। ओं अमृतोपस्तरणमऽसिस्वाहा इत्याऽचम्य ।
प्राणायस्वाहा इति तर्जनीमध्यमाभ्यां । अपानाय स्वाहा इति
मध्यमाऽनामिकाङ्गुष्ठैः । समानाय स्वाहा इति
कनिष्ठाऽनामिकाऽङ्गुष्ठैः उदानाय स्वाहा इति तर्जनींविनाऽङ्गुलिभिः ।।
व्यानाय स्वाहा इति सवाङ्ग्लिभिर्दत्तामाऽहुतिं जिह्वयैवाऽत्वा ।
शेषमिष्टदेवतामंत्रमंत्रितं प्रत्येकं ग्रासं ग्रसित्वा ।
गण्डूषैर्मुखं विशोध्य । ओं अमृतापिधानमसि स्वाहा इत्याऽचम्य ।।
ये कांक्षणमाना जीवा वै ये च कर्मवशाऽनुगाः ।
भुञ्जतां ते ममोच्छिष्टं पात्रशेषं समर्पितं ।। १२ ।। इत्यभिमंत्र्य
शेषान्नं भूमौ निर्वपेत् ।।
प्. २९)
दक्षिणकराङ्गुष्ठेन दक्षिणपादाङ्गुष्ठं ।
अङ्गुष्ठमात्रः पुरुषः सोऽङ्गुष्ठाग्रमुपाश्रितः ।
ईशः सर्वस्य जगतः प्रभुः प्रीणातु विश्वभुक् ।। १३ ।। इति निप्लावयित्वा ।
शर्यातिश्च सुकन्या च शक्रश्च च्यवनोऽश्विनौ ।
षडेते गारुडीं दृष्टिं मह्यं ददतु सर्वदा ।। १४ ।। इति
नेत्रयोरऽङ्गुष्ठेनोदकं संस्पृश्य । इष्टदेवतां स्मरन् । प्रानोऽग्निः
परमात्मा वै पञ्चवायुसमाश्रितः ।
स प्रीतः प्रीणातु विश्वं विश्वभुक् ।। १५ ।।
विश्वोऽसि वैश्वानरोऽसि विश्वमाऽभाससे जायमानः ।
विशन्ति त्वामाऽहुतयश्च सर्वाः प्रजास्तत्र यत्र विश्वाऽमृतोसि ।। १६ ।।
अहं वैश्वानरो भूत्वा प्राणिनां देहमाऽश्रितः ।
प्राणाऽपानसमायुक्तः पचाम्यऽन्नं चतुर्विधम् ।। १७ ।।
अहमऽन्नमहमन्नदः अहमन्नादः ।।
अगस्त्यः कुम्भकर्णश्च भीमश्च वडवानलः ।
भोजनान्ते स्मरेन्नित्यं कुक्षौ रोगो न जायते ।। १९ ।।
राज्ञां शिवं चाऽस्तु तथा द्विजानां गवां शिवं चाऽस्तु तथा
प्रजानाम् ।
आतङ्कहीनं जगदऽस्तु सर्वं दोषा विनाशं सकलाः प्रयान्तु ।। २० ।। इति
पठेत् ।।
इति भोजनविधिः ।।
अथ गुरुस्तुतिः
ओं ब्रह्माऽनन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमऽस्याऽदिलक्ष्यम् ।
एकं नित्यं विमलमऽचलं सर्वधीसाक्षिभूतं
भावाऽतीतं त्रिगुणरहितं सद्गुरुं तं नमामि ।। १ ।।
स्मारं स्मारं जनिमृतिभयं जातनिर्वेदवृत्ति-
र्ध्यायं ध्यायं पशुपतिमुमाकान्तमऽन्तर्निषण्णम् ।
पायं पायं सपदि परमानन्दपीयूषधारा
भूयो भूयो निजगुरुपदाऽम्भोजयुग्मं नमामि ।। २ ।।
प्. ३०)
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाश्यन्ते महात्मनः ।। ३ ।।
नमामि सद्गुरुं शान्तं प्रत्यक्षं शिवरूपिणम् ।
शिरसा योगपीठस्थं धर्मकामार्थसिद्धये ।। ४ ।।
श्रीगुरुं परमानन्दं वन्दे आनन्दविग्रहम् ।
यस्य सान्निध्यमात्रेण चिदाऽनन्दायते परम् ।। ५ ।।
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।। ६ ।।
अज्ञानतिमिरान्धस्य ज्ञानाऽञ्जनशलाकया ।
चक्षुरुन्मूलितं येन तस्मै श्रीगुरवे नमः ।। ७ ।।
हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
सर्वदेवस्वरूपाय तस्मै श्रीगुरवे नमः ।। ८ ।।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः साक्षान्महेश्वरः ।
गुरुरेव जगत्सर्वं तस्मै श्रीगुरवे नमः ।। ९ ।।
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् ।
ज्ञानमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ।। १० ।।
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।
विद्यावतारसंसिद्ध्यै स्वीकृताऽनेकविग्रह ।। ११ ।।
नवाय नवरूपाय परमार्थैकरूपिणे ।
सर्वाऽज्ञानतमोभेदभानवे चिद्घनाय ते ।। १२ ।।
स्वतन्त्राय दयाकॢप्तविग्रहाय परात्मने ।
परतन्त्राय भक्तानां भव्यानां भव्यहेतवे ।। १३ ।।
ज्ञानिनां ज्ञानरूपाय प्रकाशाय प्रकाशिनाम् ।
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ।। १४ ।।
पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यऽधः ।
सदा मच्चित्तरूपेण विधेहि भवदाऽसनम् ।। १५ ।।
इति श्रीगुरुस्तुतिः ।
अथ महागायत्रीस्तुतिः ।
सदा गवेषयन् जगत्त्रयेषु वेदमातरं
चिदाऽत्मना कृतस्थितिं समत्र चाऽद्य लब्धवान् ।
उदऽस्रु गद्गदं महोदयात्प्रणौमि भक्तिनौ-
कया सुदुस्तरं द्रुतं तितीर्षुराऽपदऽर्णवम् ।। १ ।।
सुदीनलोकपातिनी सतां कृपाऽतिशोभते
ह्यऽतः सुधांशुचक्षुषेक्षयाऽम्ब ! मादृशं जनम् ।
नवाऽपि हीयते तवेषदीशि ! पालनेन नो
भवात् यतः कुपुत्रता न भासते प्रसूहृदि ।। २ ।।
नमामि मुक्तविद्रुमप्रतप्तहाटकाऽसिताऽ-
वदातवर्णसुन्दरैः षडऽर्धलोललोचनैः ।
सरोजषण्डबान्धवप्रतप्तहाटकप्रभैः
किरीटरत्नरंजितैः सुधांशुखण्डमंडितैः ।। ३ ।।
मुखैर्दशार्धसंमितैर्विराजमानविग्रहां
सुरेशचापसप्रभां समस्तदेववन्दिताम् ।
वराऽभयाऽङ्कुशाऽन्वितैः कपालशूलशङ्खच-
क्रसारसद्वयीगुणाऽङ्कितैः करैर्विराजिताम् ।। ४ ।।
भवद्रुमस्य मूलतां गतां मुनीन्द्रवन्दिता-
मऽखण्डभावमण्डलप्रकाशकारिणीं शिवाम् ।
समस्तदेवतामयीं समस्तसिद्धिदायिनी-
मऽपूर्वरूपविग्रहां सरस्वतीं भवार्तिहाम् ।। ५ ।।
शुचीन्दुसूर्यलोचनां शुचीन्दुसूर्यविग्रहां
शुचीन्दुसूर्यसङ्गमस्वभावशालिनीं शुभाम् ।
पदद्वयाऽनुकम्पितस्वशक्तिचक्रसेवितां
परेशशक्तिमुत्तमां भजे त्रिलोकसुन्दरीम् ।। ६ ।।
महामहेश्वरीजगद्विसर्गसुस्थितिक्षय-
स्वतन्त्रता शरीरिणी बभूव या महेशितुः ।
प्. ३२)
द्विपत्रिताऽदिभेदतो लतायमानविग्रहा
त्रयीश्वरी सदा तु सा जगज्जयाय जायताम् ।। ७ ।।
नमामि तन्मुखाऽरविन्दपञ्चकं मलाऽपहं
गलैकनालकं सदाविकासि भक्तिसम्भवम् ।
स्वभक्तहंससेवितं शुचीन्दुपद्मबन्धवः
प्रतीकभूतविग्रहा गता हि यत्र पञ्चताम् ।। ८ ।।
भवाऽर्णवेऽतिदुःसहस्मराऽधिदिग्धमानसं
षड्-ऊर्मिनित्यपीडितं जनं दिधीर्षुमानसा ।
श्रुतिध्वनिस्फुरन्मुखाऽरविन्दभूसुरैः सदा
त्रिसन्ध्यमीश्वरी नुताऽस्तु सा सुखप्रदा हि नः ।। ९ ।।
त्रयिप्रसूः स्वदृष्टिपातधूतभक्तिकल्मषा
समैर्जनैर्नुता मुदा स्ववर्णधर्मभेदतः ।
निलिम्पनिम्नगामिषेण पादधौतजं जलं
यदीयमाऽगतं क्षितिं तनोनु नः शिवं तु सा ।। १० ।।
स्वदम्भवञ्चिताऽखिलं कुभोगसक्तमानसं
सदाशुचिं कुमार्गगं शठं च शंकसे यदि ।
कथं स्वपादचिन्तनोत्थवैभवं नहीश्वरि !
यतोऽङ्घ्रिचिन्तकं दयादृशेक्षसे न मादृशम् ।। ११ ।।
अनेकदोषदूषितेष्वऽनिर्विवेचना सती
स्वतन्त्रशक्तिरीश्वरी भवाघनाशकारिणी ।
कृपामयीं दृशं विधाय सा स्वभक्तिपात्रितं
स्वपत्कजे मधुव्रतं करोतु मामऽहर्निशम् ।। १२ ।।
त्रिसन्ध्यमिष्टदैवतं सुकेशवास्यजं स्तवं
स्मरन् हृदीद्धभावनो विधाय वेदमातरम् ।
विधूय पापसञ्चयं वितीर्य कीर्तिमुत्तमा-
मिहत्वऽमुत्र कैवलं पदं स याति निर्भयम् ।। १३ ।।
इति श्रीमहागायत्रीलीलास्तुतिः ।
प्. ३३)
प्रार्थनास्तुतिः ।।
ओं दुर्निवारभवध्वान्त ध्वंसनैककृतेक्षणाम्
नौमि मोहविनाशाय भीतो ब्रह्मादिदैवताम् ।। १ ।।
दुर्गतिं हर मे देवि बहुजन्मशतार्जिताम् ।
प्राप्य कल्पतरुच्छायां कथं सन्तप्यते जनैः ।। २ ।।
पश्य मामाऽशु गायत्रि बिभ्यतं स्निग्धचक्षुषा ।
न बालमऽबलं पुत्रं मुञ्चत्यऽग्रगमम्बिका ।। ३ ।।
एहि मां पाणिपद्मेन देहि तूर्णं वरं शुभम् ।
महामोहाऽकुलं दीनमेहि मां स्पृश नित्यशः ।। ४ ।।
मातः प्रतीक्षते नाऽर्तो यत्तदाऽशु प्रसीद मे ।
हित्वाऽक्षसूत्त्रं सावित्रि निर्विघ्नं पश्य मामिह ।। ५ ।।
शृण्वतो नाऽन्यकृत्यं स्यात्तत्त्वं परहितं कुरु ।
ब्रह्मविष्णुहराद्यास्त्वामाऽश्रयन्ति सुरेश्वरि ।। ६ ।। इति प्रार्थनास्तुतिः
अथ सरस्वतीस्तुतिः ।।
ओं सितवर्णाऽलङ्कारे ! सरस्वति ! समस्तवाङ्मयाऽधारे !
कमलजमानसवरले ! मृगाङ्कधवले ! नमस्तुभ्यम् ।। १ ।।
धन्यः स एव लोके स एव पूज्यः स एव सर्वगुरुः ।
यस्य मुखकमलकोशे वाङ्मयि कुलदेवते ! वससि ।। २ ।।
कस्त्वां विना विवेकी विवेकविकलस्य निष्फलं जन्म ।
तस्माद्भारति भविनां त्वमेव हेतुर्विवेकेऽपि ।। ३ ।।
लक्ष्मीवानऽपि पुरुषः शूरः सुभगोऽपि कामसमरूपः ।
वृष इव विबुधसभायां प्रतिभात्यऽमले ! त्वया रहितः ।। ४ ।।
मुनिमनुजमाननीयो मात ! र्मूर्खोऽपि मानवो दक्षः ।
निश्शेषशास्त्रवक्ता त्वन्मंत्रध्यानतो भवति ।। ५ ।।
कुवलयदृशः क्व तावद्वेश्मनि विलसन्ति कुचभराऽनम्राः ।
यावदऽसिताऽब्जनयने ! न त्वं तुष्टासि देवि भुवि भविनाम् ।। ६ ।।
प्. ३४)
जित्वा नरोऽरिराजकमऽगगुरुगजवाजिपुरुषबलसहितः ।
यदुपैति तत्समग्रं त्वच्चरणनुतेः फलं तस्य ।। ७ ।।
आवर्जिताऽपि कष्टैरिह जन्मनि मुञ्चति नरं श्रीः ।
न त्वं सत्प्रभवेष्विति मत्वा को नौति नो भवतीम् ।। ८ ।।
कविवरवदनसरोरुह विहरणविस्रम्भविभ्रमद्भ्रमरि !
भगवति ! पञ्चमुखीश्वरि ! वागीश्वरि ! नमस्तेऽस्तु ।। ९ ।।
शम्भुप्रणतां वाणीं भक्त्या यःस्तौति सोऽचिरेणैव ।
अवहितबुद्धिप्रसरो कविराजो जायते मनुजः ।। १० ।।
इति कालिदासकृता सरस्वतीस्तुतिः ।
अथ गौरीस्तुतिः ।।
ओं लीलाऽरब्धस्थापितलुप्ताऽखिललोकां लोकाऽतीतैर्योगिभिरन्तर्हृदिमृग्याम् ।
बालाऽदित्यश्रेणिसमानद्युतिपुंजां
गौरीमऽम्बामऽम्बुरुहाक्षीमऽहमीडे ।। १ ।।
आशापाशक्लेशविनाशं विदधानां पादाऽम्भोजध्यानपराणां
पुरुषाणाम् ।
ईशीमीशाङ्गाऽर्धहरां तां तनुमध्यां
गौरीमऽम्बामऽम्बुरुहाक्षी० ।। २ ।।
प्रत्याहारध्यानसमाधिस्थितिभाजां नित्यं चित्ते निर्वृतिकाष्ठां
कलयन्तीम् ।
सत्यज्ञानाऽनन्दमयीं तां तडिदाऽभां
गौरीमऽम्बामऽम्बुरुहाक्षी० ।। ३ ।।
चन्द्राऽपीडाऽनन्दितमन्दस्मितवक्त्रां
चन्द्राऽपीडाऽलङ्कृतलोलाऽलकभाराम् ।
इन्द्रोपेन्द्राद्यऽर्चितपादाऽम्बुजयुग्मां गौरीमऽम्बामऽम्बुरुहाक्षी० ।। ४
।।
नानाकारैः शक्तिकदम्बैर्भुवनानि व्याप्य स्वैरं क्रीडति याऽसौ
स्वयमेका ।
कल्याणीं तां कल्पलतामाऽनतिभाजां गौरीमऽम्बामऽम्बुरुहाक्षी० ।। ५
।।
मूलाधारादुत्थितवन्तीं विधिरन्ध्रं सौरं चान्द्रं धाम विहाय
ज्वलिताङ्गीम् ।
स्थूलां सूक्ष्मां सूक्ष्मतरां तामऽभिवन्द्यां
गौरीमऽम्बामम्बुरुहाक्षी० ।। ६ ।।
आदिक्षान्तामऽक्षरमूर्त्या विलसन्तीं भूते भूते भूतकदम्बं
प्रसवित्रीम् ।
शब्दब्रह्माऽनन्दमयीं तामऽभिरामां गौरीमऽम्बामम्बुरुहाक्षी० ।।
७ ।।
यस्याः कक्षौ लीनमऽखण्डं जगदऽण्डं भूयो भूयः
प्रादुरभूदऽक्षतमेव ।
भर्त्रा सार्धं तां स्फटिकाद्रौ विहरन्तीं गौरिमऽम्बामम्बुरुहाक्षी० ।।
८ ।।
प्. ३५)
यस्यामेतत्प्रोतमऽशेषं मणिमाला सूत्रे यद्वत्क्वाऽपि चरं
चाऽप्यऽचरं च ।
तामऽध्यात्मज्ञानपदव्या गमनीयां गौरीमऽम्बामऽम्बुरुहाक्षी० ।। ९
।।
नित्यः सत्यो निष्कल एको जगदीशः साक्षी यस्याः सर्गविधौ संहरणे च ।
विश्वत्राणक्रीडनशीलां शिवपत्नीं गौरीमऽम्बामऽम्बुरुहाक्षी० ।। १० ।।
प्रातःकाले भावविशुद्धिं विदधानो भक्त्या नित्यं जल्पति गौरीदशकं
यः ।
वाचां सिद्धिं सम्पदमुच्चैः शिवभक्तिं तस्याऽवश्यं पर्वतपुत्री
विदधाति ।। ११ ।।
इति श्रीगौरीस्तुतिः सम्पूर्णा ।।
अथ मुकुन्दमालास्तुतिः ।।
ओं वन्दे मुकुन्दमऽरविन्ददलाऽयताऽक्षं कुन्देन्दुशङ्खदशनं
शिशुगोपवेशम् ।
इन्द्रादिदेवगणवन्दितपादपीठं वृन्दावनाऽलयमऽहं वसुदेवसूनुम् ।।
१ ।।
श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति ।
नाथेति नागशयनेति जगन्निवासे त्याऽलापिनं प्रतिदिनं कुरु मां मुकुन्द ।।
२ ।।
जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंऽसप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो
मुकुन्दः ।। ३ ।।
मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमऽर्थम् ।
अविस्मृतिस्त्वच्चरणाऽरविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ।। ४ ।।
श्रीमुकुन्दपदाम्भोजमधुनः परमाऽद्भुतम् ।
यत्पायिनो न मुह्यन्ति मुह्यन्ति यदऽपायिनः ।। ५ ।।
नाऽहं वन्दे तव चरणयोर्द्वन्द्वमऽद्वन्द्वहेतोः
कुम्भीपाकं गुरुमऽपि हरे ! नारकं नाऽपनेतुम् ।
रम्यारामामृदुतनुलता नंदने नाऽपि रन्तुं
भावे भावे हृदयभवने भावयेयं भवन्तम् ।। ६ ।।
नाऽस्था धर्मे न वसुनिचये नैव कामोपभोगे
यद्यद्भव्यं भवतु भगवन् ! पूर्वकर्माऽनुरूपम् ।
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि
त्वत्पादाऽम्भोरुहयुगगता निश्चला भक्तिरऽस्तु ।। ७ ।।
प्. ३६)
दिवि वा भुवि वा ममाऽस्तु वासो नरके वा नरकान्तक प्रकामम् ।
आधीरितशारदाऽरविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ।। ८ ।।
सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमेह चित्त रन्तुम् ।
सुखतरमऽपरं न जातु जाने हरिचरणस्मरणाऽमृतेन तुल्यम् ।। ९ ।।
मा भैर्मन्दमनो ! विचिन्त्य बहुधा यामीश्चिरं यातना
नाऽमी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं
लोकस्य व्यसनाऽपनोदनकरो दासस्य किं न क्षमः ।। १० ।।
भवजलधिमऽगाधं दुस्तरं निस्तरेयं कथमऽहमिति चेतो मा स्म गाः
कातरत्वम् ।
सरसिजदृशि देवे तावकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यऽवश्यम् ।।
११ ।।
तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले
दाराऽवर्ते तनयसहजग्राहसङ्घाऽकुले च ।
संसाराऽख्ये महति जलधौ मज्जतां नस्त्रिधामन् !
पादाऽम्भोजे वरद ! भवतो भक्तिनावे प्रसीद ।। १२ ।।
पृथ्वी रेणुरऽणुः पयांसि कणिका फल्गुः स्फुलिङ्गो लघु-
स्तेजो निःश्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः ।
क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा
दृष्टे यत्र स तावको विजयते भूमाऽवधूताऽवधि ।। १३ ।।
आम्नायाऽभ्यसितान्यऽरण्यरुदितं कृच्छ्रव्रतान्यऽन्वहं
भेदच्छेदफलानि पूर्तविधयः सर्वं हुतं भस्मनि ।
तीर्थानामऽवगाहनानि च गजस्नानं विना यत्पद-
द्वन्द्वाऽम्भोरुहसंस्तुतिं विजयते देवः स नारायणः ।। १४ ।।
भवजलधिगतानां द्वन्द्ववाताहतानां
सुतदुहितृकलत्रत्राणभारावृतानाम् ।
विषमविषयतोये मज्जतामऽप्लवानां भवति शरणमेको विष्णुपोतो
नराणाम् ।। १५ ।।
रजसि निपतितानां मोहजालावृतानां जननमरणधूलिदुर्गतिं
संगतानाम् ।
शरणमऽशरणानामेक एवाऽतुराणां कुशलपथि नियोक्ता
चक्रपाणिर्नराणाम् ।। १६ ।।
अपराधसहस्रसंकुलं पतितं भीमभवार्णवोदरे ।
अगतिं शरणागतं हरे ! कृपया केवलमाऽत्मसात्कुरु ।। १७ ।।
प्. ३७)
यच्चिन्तितं च मनसा वचसा यदुक्तं चक्षुःकरश्रवणपादविचेष्टितं च ।
यद्यन्निशासु दिवसेषु कृतं मयैव तत्तज्जनार्दन ! तवाऽर्चनमेव भूयात्
।। १८ ।।
मा मे स्त्रीत्वं मा च मे दासभावो मा मूर्खत्वं मा कुदेशेषु जन्म ।
मिथ्या दृष्टिर्मा च मे स्यात्कदाचिज्जातौ जातौ विष्णुभक्तो भवामि ।। १९ ।।
आनन्द ! गोविन्द ! मुकुन्द ! राम ! नारायणाऽनन्त ! निरामयेति ।
वक्तुं समर्थोऽपि न वक्ति कश्चिदऽहो जनानां वयसनानि मोक्षे ।। २० ।।
क्षीरसागरतरङ्गशीकराऽसारतारकितचारुमूर्तये ।
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ।। २१ ।।
क्षीरसारमऽपनीयशङ्कया स्वीकृतं यदि पलायनं त्वया ।
मानसे मम नितान्ततामसे नन्दनन्दन कुतो न लीयसे ।। २२ ।।
वात्सल्यादऽभयप्रदानसमयादाऽर्तार्तिनिर्वापणात्
औदार्यादऽघशोषणादऽगणितश्रेयःपदप्रापणात् ।
सेव्यः श्रीपतिरेव सर्वजगतामेकान्ततः साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यऽहल्या ध्रुवः ।। २३ ।।
नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा
सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति ।
यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पाऽर्थदं
सेवायै मृगयामहे नरमऽहो मूढा वराका वयम् ।। २४ ।।
हे लोकाः ! शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां
योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।
अन्तर्ज्योतिरऽमेयमेकमऽमृतं कृष्णाख्यमाऽपीयतां
तत्पीतं परमौषधं वितनुते निर्वाणमाऽत्यन्तिकम् ।। २५ ।।
बद्धेनाऽञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनोद्गीर्णेन बाष्पाऽम्बुना ।
नित्यं त्वच्चरणाऽरविन्दयुगलध्यानामृताऽस्वादिना-
मऽस्माकं सरसीरुहाक्ष ! सततं सम्पद्यतां जीवितम् ।। २६ ।।
तत्वं ब्रुवाणानि परं परस्मादऽहो क्षरन्तीव सुधां पदानि ।
आवर्तय प्राञ्जलिरऽस्मि जिह्वे नामानि नारायणगोचराणि ।। २७ ।।
प्. ३८)
इदं शरीरं परिणामपेशलं पतत्यऽवश्यं श्लर्थसन्धिजर्जरम् ।
किमौषधैः क्लिश्यसि मूढ दुर्मते ! निरामयं कृष्णरसयनं पिब ।। २८ ।।
श्रीमन्नाम प्रोच्य नारायणाऽख्यं के न प्राप्ता वाञ्छितं पापिनोऽपि ।
हा नः पूर्वं वाक्प्रवृत्ता न तस्मिंस्तेन प्राप्तं गर्भवासादिदुःखम् ।।
२९ ।।
माद्राक्षं क्षीणपुण्यान् क्षणमऽपि भवतो भक्तिहीनान् पदाब्जे
माश्रौषं श्राव्यबद्धं तव चरितमऽपास्याऽन्यदाऽख्यानजातम् ।
मास्प्राक्षं माधव ! त्वामपि भुवनपतिं चेतसाऽपह्नवानं
माभूवं त्वत्सपर्या व्यतिकररहितो जन्मजन्मान्तरेऽपि ।। ३० ।।
मदन ! परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि ।
हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः ।। ३१ ।।
दारा वाराकरवरसुता तेऽङ्गजोयं विरिञ्चिः
स्तोता वेदास्तव सुरगणो भृत्यवर्गः प्रसादः ।
मुक्तिर्मध्ये जगदऽविकलं तावकी देवकीयं
माता मित्रं बलरिपुसुतस्तत्वतोऽन्यन्न जाने ।। ३२ ।।
जिह्वे ! कीर्तय केशवं मुररिपुं चेतो ! भज श्रीधरं
पाणिद्वंद्व ! समर्चयाऽच्युतकथाः श्रोत्रद्वय ! त्वं शृणु ।
कृष्णं लोकय लोचनद्वय ! हरेर्गच्छाङ्घ्रियुग्माऽलयं
जिघ्र घ्राण ! मुकुन्दपादतुलसीं मूर्धन् ! नमाऽधोक्षजम् ।। ३३ ।।
यत्क्र्ष्णप्रणिपातधूलिधवलं तद्वै शिरः स्याच्छुभं
ते नेत्रे तमसोज्झिते सुरुचिरे याभ्यां हरिर्दृश्यते ।
सा बुद्धिर्नियमैर्यमैश्च विमला या माधवध्यायिनी
सा जिह्वाऽमृतवर्षिणी प्रतिपदं या स्तौति नारायणम् ।। ३४ ।।
भक्तद्वेषभुजङ्गगारुडमणिस्त्रैलोक्यरक्षामणि-
र्गोपीलोचनचातकाऽम्बुदमणिः सौन्दर्यमुद्रामणिः ।
श्रीकान्तामणिरुक्मिणीघनकुच द्वन्द्वैकभूषामणिः
श्रेयो ध्येयशिखामणिर्दिशतु नो गोपालचूडामणिः ।। ३५ ।।
शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसंपूज्यमन्त्रं
संसारोत्तारमंत्रं समुदिततमसां संगनिर्याणमंत्रम्
प्. ३९)
सर्वैश्वर्यैकमंत्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं
जिह्वे! श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ।। ३६ ।।
व्यामोहोद्दलनौषधं मुनिमनो वृत्तिप्रवृत्यौषधः
दैत्याऽनर्थकरौषधं त्रिभुवने संजीवनैकौषधम् ।
भक्ताऽर्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौषधं
श्रेयःप्राप्तिकरौषधं पिब मनः ! श्रीकृष्णनामौषधम् ।। ३७ ।।
आश्चर्यमेतद्धि मनुष्यलोके सुधां परित्यज्य विषं पिबन्ति ।
नामानि नारायणगोचराणि त्यक्त्वाऽन्यवाचः कुहकाः पठन्ति ।। ३८ ।।
लाटी नेत्रपुटी पयोधरघटी क्रीडाकुटी दोस्तटी
पाटीरद्रुमवर्णनेन कविभिर्मूढैर्दिनं नीयते ।
गोविन्देति जनार्दनेति जगतां नाथेति कृष्णेति च
व्याहारैः समयस्तदेकमनसां पुंसां परिक्रामति ।। ३९ ।।
अयाच्यमऽक्रेयमऽयातयाममऽपाच्यमऽक्षययमऽदुर्भरं मे ।
अस्त्येव पाथेयमऽतिप्रयाणे श्रीकृष्णनामाऽमृतभागधेयम् ।। ४० ।।
यस्य प्रियौ श्रुतिधरौ रविलोकगीतौ मित्रे द्विजन्मपरिवारशिवावभूताम् ।
तेनाऽम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञां कृता स्तुतिरियं कुलशेखरेण
।। ४१ ।।
इति श्रीकुलशेखरराज्ञाकृता मुकुन्दमालास्तुतिः
अथ श्रीकृष्णलीला ।।
ओं निगमतरोः प्रतिशाखं मृगितं च मया परब्रह्म ।
मिलितमिदानीमऽङ्के गोकुलपङ्केरुहाक्षीणाम् ।। १ ।।
तप्तं तपोभिरऽन्यैः फलितं च तद्गोपबालानाम् ।
आसां यत्कुचकुम्भे नीलनिचोलायते परं ब्रह्म ।। २ ।।
श्रुतिमऽपरे स्मृतिमऽपरे भारतमऽन्ये भजन्तु भवभीताः ।
अहमऽपि नन्दं वन्दे यस्याऽलिन्दे परं ब्रह्म ।। ३ ।।
किं कथयामः कस्मै कस्य मनः प्रत्ययमाऽदत्ते ।
रमयति गोपवधूटीकुञ्जकुटीरे परं ब्रह्म ।। ४ ।।
नीतं नवनवनीतं केन च पीतं पयः क्व मे मुरली ।
इति समुदीर्य लुठन्तं भुमौ बालं नमामि गोपालम् ।। ५ ।।
प्. ४०)
पश्यत बलमऽबलानामऽनाविले हृद्बिले बबन्धुर्याः ।
तनु दृष्टिपातरश्म्याऽकृष्टमऽमूर्तं परं ब्रह्म ।। ६ ।।
एतत्त्वामऽहमऽर्थयामि सततं रे चित्त ! चिन्तातुर !
मा चिन्तां कुरु चञ्चलेषु विषयेष्वाऽगारदाराऽदिषु ।
गायन्तं यमुनातटद्रुमतले नीलाम्बुदश्यामलं
गोपालं वनमालिनं कमलिनं नन्दात्मजं चिन्तय ।। ७ ।।
ध्यानाऽभ्यासवशीकृतेन मनसा तन्निर्गुणं निष्क्रियं
ज्योतिः किंचन योगिनो यदि परं पश्यन्ति पश्यन्तु ते ।
अस्माकं तु तदेव लोचनचमत्काराय भूयाच्चिरं
कालिन्दीपुलिनेषु तत्किमपि यन्नीलं तमो धावति ।। ८ ।। इति कृष्णलीला०
अथ जयस्तुतिर्विष्णोः ।।
ओं जय नारायण ! जय पुरुषोत्तम ! जय वामन ! कंसारे !
उद्धर मामऽसुरेशविनाशिन् ! पतितोऽहं संसारे ।
घोरं हर मम नरकरिपो ! केशव ! कल्मषभारं
मामऽनुकम्पय दीनमऽनाथं कुरु भवसागरपारम् ।। १ ।।
जय जय देव ! जयाऽसुरसूदन ! जय केशव ! जय विष्णो !
जय लक्ष्मीमुखकमलमधुव्रत ! जय दशकन्दरजिष्णो ! ।। घोरं० ।। २ ।।
त्वं जननी जनकः प्रभुरऽच्युत ! त्वं पुत्रसुहृद्धनमित्रम् ।
त्वं शरणं शरणाऽगतवत्सल ! त्वं भवजलधिवहित्रम् ।। घोरं ।। ३ ।।
पुनरऽपि जननं पुनरपि मरणं पुनरऽपि गर्भनिवासं ।
सोढुमऽलं पुनरऽस्मिन्माधव ! मामुद्धर निजदासम् ।। घोरं० ।। ४ ।।
जनकसुतापतिचरणपरायणशंकरमुनिवरगीतं
धारय मनसि कृष्ण ! पुरुषोत्तम ! वारय संसृतिभीतिम् ।। घोरं० ।। ५ ।।
यद्यपि सकलमऽहं कलयामि हरे ! नहि किमऽपि ससत्वं ।
तदऽपि न मुञ्चति मामिदमऽच्युत ! पुत्रकलत्रममत्त्वम् ।। ६ ।। इति विष्णुस्तुतिः
प्. ४१)
गोविन्दाष्टकं ।।
ओं सत्यंज्ञानमऽनन्तं नित्यमऽनाकाशं परमाऽकाशं
गोष्ठप्राङ्गणरिङ्खणलोलःमऽनायासं परमायासम् ।
मायाकल्पितनानाकारमऽनाकारं भुवनाकारं
क्ष्मामानाथमऽनाथं प्रणमत गोविन्दं परमानन्दम् ।। १ ।।
मृत्स्नामऽत्सीहेति यशोदा ताडनशैशवसन्त्रासं
व्यादितवक्त्राऽलोकित लोकाऽलोकचतुर्दशलोकाऽलिम् ।
लोकत्रयपुरमूलस्तंभं लोकालोकमऽनालोकं लोकेशं परमेशं प्र० ।। २
।।
त्रैविष्टपरिपुवीरघ्नं क्स्.इतिभारघ्नं भवरोगघ्नं
कैवल्यं नवनीताऽहारमऽनाहारं भुवनाहारम् ।
वैमल्यस्फुटचेतोवृत्तिविशेषाऽभासमऽनाभासं शैवं केवलशान्तं
प्र० ।। ३ ।।
गोपालं प्रभुलीलाविग्रह गोपालं कुलगोपालं
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।
गोभिर्निगदितगोविन्द स्फुटनामानं बहुनामानं गोधीगोचरदूरं प्र० ।।
४ ।।
गोपीमण्डलगोष्ठीभेदं भेदाऽवस्थमभेदाऽभं
शशद्गोखुरनिर्धूतोद्धत धूलिधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीताऽनन्दमऽचिन्त्यं चिन्तितसद्भावं
चिन्तामणिमऽनिमानं ।। ५ ।।
स्नानव्याकुलयोषिद्वस्त्राण्याऽदायाऽगमुपारूढं
व्यादित्सन्तीरऽथ दिग्वस्त्रा वस्त्रं दातुमुपाकर्षतं ताः ।
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तःस्थं सत्तामात्रशरीरं
प्र० ।। ६ ।।
कान्तं कारणकारणमाऽदिमऽनादिं कालघनाऽभासं
कालिन्दीगतकालिय शिरसि नृत्यन्तं मुहुर्नृत्यन्तम् ।
कालं कालकलाऽतीतं कलिताऽशेषं कलिदोषज्ञं कालत्रयगतिहेतुं प्र० ।।
७ ।।
वृन्दावनभुवि वृन्दारकगणः वृन्दाऽराधितवन्द्येहं
कुन्दाऽभाऽमलमन्दस्मेर स्वधानन्दं सुहृदाऽनन्दम् ।
वन्द्याऽशेषमहामुनि मानसवन्द्याऽनन्दपदद्वन्द्वं
वन्द्याऽशेषगुणाब्धिं प्र० ।। ८ ।।
गोविन्दाऽष्टकमेतदऽधीते गोविन्दार्पितचेता यो
गोविन्दाऽच्युत ! माधव ! विष्णो ! गोकुलनायक ! कृष्णेति ।
प्. ४२)
गोविन्दांघ्रिसरोजध्यानजलधौतसमस्ताऽघो
गोविन्दं परमानन्दाऽमृतमऽन्तस्थं समभ्येति ।। ९ ।।
इति श्रीशंकराचार्यकृतं गोविन्दाष्टकं सम्पूर्णम्
अथ शिवस्तुतिः ।।
ओं व्याप्तचराऽचरभावविशेषं चिन्मयमेकमऽनन्तमनादिम् ।
भैरवनाथमऽनाथशरण्यं त्वन्मयचित्ततया हृदि वन्दे ।। १ ।।
त्वन्मयमेतदऽशेस्ऽमिदानीं भाति मम त्वदऽनुग्रहशक्त्या ।
त्वं च महेश ! सदैव ममाऽत्मा स्वाऽत्ममयं मम तेन समस्तम् ।। २ ।।
स्वात्मऽनि विश्वगते त्वयि नाथे तेन न संसृतिभीतेः कथाऽस्ति ।
सत्स्वपि दुर्धरदुःखविमोह त्रासविधायिषु कर्मगणेषु ।। ३ ।।
अन्तक ! मां प्रति मा दृशमेनां क्रोधकरालतमां विदधीहि ।
शङ्करसेवनचिन्तनधीरो भीषणभैरवशक्तिमयोऽस्मि ।। ४ ।।
इत्थमुपोढभवन्मयसंविद्दिधितिदारितभूरितमिस्रः ।
मृत्युयमान्तककर्मपिशाचैर्नाथ ! नमोऽस्तु न जातु बिभेमि ।। ५ ।।
प्रोदितसत्यविबोधमरीचि प्रोक्षितविश्वपदार्थसतत्त्वः ।
भावपरामृतनिर्भरपूर्णे त्वययऽहमाऽत्मनि निर्वृतिमेमि ।। ६ ।।
मानसगोचरमेति यदैव क्लेशदशाऽतनुतापविधात्री ।
नाथ ! तदैव ममत्वदऽभेदस्तोत्रपराऽमृतवृष्टिरुदेति ।। ७ ।।
शंकर ! सत्यमिदं व्रतदान स्नानतपो भवतापविनाशि ।
तावकशास्त्रपराऽमृतचिन्ता सिन्धति चेतसि निर्वृतिधाराः ।। ८ ।।
नृत्यति गायति हृष्यति गाढं संविदियं मम भैरवनाथ ।
त्वां प्रियमाऽप्य सुदर्शनमेकं दुर्लभमऽन्यजनैः समयज्ञम् ।। ९ ।।
वसुरसपौषे कृष्णदशम्यामऽभिनवगुप्तः स्तवैदमकरोत् ।
येन विभुर्भवमरुसन्तापं शमयति झटिति जनस्य दयालुः ।। १० ।।
इति अभिनवगुप्ताऽचार्यकृता शिवस्तुतिः
समाप्तम् ।।
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
8zwhhe652g7ohffpimgmmvhod9t9bjp