विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.46.0-wmf.23 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२८९ 104 104696 415633 267657 2026-04-10T11:35:23Z Geeta g hegde 6704 415633 proofread-page text/x-wiki <noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|left=अध्यायः ७]|center=मन्वथमुक्तावलासवालता ।|right=२५५}}</noinclude> {{gap}}जडमूकान्धबधिरानिति ॥ बुद्धिबाश्चक्षुःश्रोत्रविकलान्, तिर्यग्योनिभवांश्च शुक- सारिकादीन्, अतिवृद्धस्त्रीम्लेच्छरोग्यङ्गहीनांश्च मन्त्रसमयेऽपसारयेत् ॥ १४९ ॥ {{Block center|{{bold|<poem>भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च । स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् ॥ १५० ॥</poem>}}}} {{gap}}यस्मात् भिन्दन्तीत्यादि ॥ एते जडादयोऽपि प्राचीनदुष्कृतवशेन प्राप्तजडादि- भावा अधार्मिकतयैवावमानिता मन्त्रभेदं कुर्वन्ति । तथा शुकादयोऽतिवृद्धाश्च स्त्रियश्च विशेषेणास्थिरबुद्धितया मन्त्रं भिन्दन्ति । तस्मात्तदपसारणे यत्नवा- न्स्यात् ॥ १५० ॥ {{Block center|{{bold|<poem>मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः। चिन्तयेद्धर्मकामार्थान्साधं तैरेक एव वा ॥ १५१ ॥</poem>}}}} {{gap}}मध्यंदिन इति ॥ दिनमध्ये रात्रिमध्ये वा विगतचित्तखेदः शरीरक्लेशरहितश्च मत्रिभिः सह एकाकी वा धर्मार्थकामाननुष्टातुं चिन्तयेत् ॥ १५१ ॥ {{Block center|{{bold|<poem>परस्परविरुद्धानां तेषां च समुपार्जनम् । कन्यानां संप्रदानं च कुमाराणां च रक्षणम् ॥ १५२ ॥</poem>}}}} {{gap}}परस्परेति ॥ तेपां च धर्मार्थकामानां प्रायिकविरोधवतां विरोधपरिहारेणार्ज- नोपायं चिन्तयेत् । दुहितॄणां च दानं स्वकार्यसिद्ध्यर्थं निरूपयेत् । कुमाराणां च पुत्राणां विनयाधाननीतिशिक्षार्थ रक्षणं चिन्तयेत् ॥ १५२ ॥ {{Block center|{{bold|<poem>दूतसंप्रेषणं चैव कार्यशेषं तथैव च । अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ १५३ ॥</poem>}}}} {{gap}}दूतेति ॥ दूतानां संगुप्तार्थलेखहारित्वादिना परराष्ट्रप्रस्थापनं चिन्तयेत् । तथा प्रारब्धकार्यशेष समापयितुं चिन्तयेत् । स्त्रीणां चातिविषमचेष्टितत्वात् । तथाहि 'शस्त्रेण वेणीविनिगूहितेन विदूरथं वै महिषी जघान । विपप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशिराजम् ॥' इत्याद्यवगम्यात्मरक्षार्थ चान्तःपुरस्त्रीणां चेष्टितं सखीदास्यादिना निरूपयेत् । चराणां च प्रतिराजादिषु नियुक्तानां चरान्तरैश्चेष्टित- मवधारयेत् ॥ १५३॥ {{Block center|{{bold|<poem>कृत्स्नं चाष्टविधं कर्म पञ्चवर्ग च तत्त्वतः। अनुरागापरागौ च प्रचार मण्डलस्य च ॥ १५४ ॥</poem>}}}} {{gap}}कृत्स्नमिति ॥ अष्टविधं कर्म समग्रं चिन्तयेत् । तच्चोशनसोक्तम् 'आदाने च विसर्गे च तथा औषनिषेधयोः । पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे ॥ दण्डशुद्ध्योः सदा युक्तस्तेनाष्टगतिको नृपः । अष्टकर्मा दिवं याति राजा शक्राभिपूजितः॥' तत्र अदानं करादीनां, विसर्गों भृत्यादिभ्यो धनदानं, प्रैपोऽमात्यादीनां दृष्टादृष्टानु- ष्ठानेषु, निषेधो दृष्टादृष्टविरुद्धक्रियासु, अर्थवचनं कार्यसंदेहे राजाज्ञयैव तत्र- नियमात्, व्यवहारस्येक्षणं प्रजानामृणादिविप्रतिपत्तौ, दण्डः पराजितानां शास्त्रो.<noinclude></noinclude> f9fgij6igqldtglhdyggefz69gu3aba पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२९० 104 104740 415634 267721 2026-04-10T11:41:36Z Geeta g hegde 6704 415634 proofread-page text/x-wiki <noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|२५६|मनुस्मृतिः।|[ अध्यायः ७}}</noinclude> क्तधनग्रहणम्, शुद्धिः पापे कर्मणि जाते तत्र प्रायश्चित्तसंपादनम् । मेधातिथिस्तु 'अकृतारम्भकृतानुष्ठानमनुष्ठितविशेषणं कर्मफलसंग्रहस्तथा सामदानदण्डभेदा एतदष्टविधं कर्म । अथवा वणिक्पथः, उदकसेतुबन्धनं, दुर्गकरणम् , कृतस्य संस्का- रनिर्णयः, हस्तिबन्धनं, खनिखननं, शून्यनिवेशनं, दारुवनच्छेदनं च' इत्याह । तथा कापटिकोदास्थितगृहपतिवैदेहिकतापसव्यञ्जनात्मकं पञ्चविधं चारवर्ग पञ्चवर्गश- ब्दवाच्यं तत्त्वतश्चिन्तयेत् । तत्र परमर्मज्ञः प्रगल्भच्छात्रः कपटव्यवहारित्वात्कापटि- कस्तं वृत्त्यर्थिनमर्थमानाभ्यामुपगृह्य रहसि राजा ब्रूयात्, यस्य दुर्वृत्तं पश्यसि तत्त. दानीमेव मयि वक्तव्यमिति । प्रव्रज्यारूढपतित उदास्थितः तं लोकेषु विदितदोषं प्रज्ञाशौचयुक्तं वृत्त्यर्थिनं कृत्वा रहसि राजा पूर्ववद्र्यात् । बहूत्पत्तिकमठे स्थापये- प्रचुरसस्योत्पत्तिकं भूभ्यन्तरं च तद्वृत्त्यर्थमुपकल्पयेत् । स चान्येषामपि प्रव्रजि- तानां राजाचारकर्मकारिणां ग्रासाच्छादनादिकं दद्यात् ।कर्षकः क्षीणवृत्तिः प्रज्ञाशो- चगुप्तो गृहपतिव्यञ्जनस्तमपि पूर्ववदुक्त्वा स्वभूमौ कृषिकर्म कारयेत् । वाणिजकः क्षीणवृत्तिः वैदेहिकच्यञ्जनस्तं पूर्ववदुक्त्वा धनमानाभ्यामात्मीकृत्य वाणिज्यं कार- येत् । मुण्डो जटिलो वा वृत्तिकामस्तापसव्यञ्जनः सोऽपि क्वचिदाश्रमे वसन्बहुमु- घडजटिलान्तरे कपटशिष्यगणवृतो गुप्तराजोपकल्पितवृत्तिस्ताइस्यं कुर्यात् । मास- द्विमासान्तरिकं प्रकाश बदरादिमुष्टिमश्नीयात्, रहसि च राजोपकल्पितमाहारं कल्पयेत् । शिष्याश्चास्यातीतानागतज्ञानादिकं ख्यापयेयुः । ते च बहुलोकवेष्टन- मासाद्य सर्वेषां विश्वसनीयत्वात्सर्वकार्यमकार्य च पृच्छन्ति अन्यस्य कुक्रियादिकं कथयन्त्येवंरूपं पञ्चवर्ग यथावञ्चिन्तयेत् । एवं पञ्चवर्ग प्रकल्प्य तेनैव पञ्चवर्गद्वा- रेण प्रतिराजस्थात्मीयानां चामात्यादीनां चानुरागविरागौ ज्ञात्वा तदनुरूपं चिन्त- येत् । वक्ष्यमाणस्य राजमण्डलस्य प्रचारं कः संध्यर्थी को वा विग्रहार्थीत्यादिक चिन्तयेत् । तं च ज्ञात्वा तदनुगुणं चिन्तयेत् ॥ १५४ ॥ {{Block center|{{bold|<poem>मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम् । उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ॥१५५ ॥</poem>}}}} {{gap}}मध्यमस्येति ॥ अरिविजिगीपोर्यों भूम्यनन्तरः संहतयोरनुग्रहसमर्थों निग्रहे चासंहतयोः समर्थः स मध्यमस्तस्य प्रचारं चिन्तयेत् । तथा प्रज्ञोत्साहगुणप्रकृति- समर्थो विजिगीपुस्तस्य चेष्टितं चिन्तयेत् । तथा विजिगीषुमध्यमानां संहतानाम- नुग्रहे समर्थों निग्रहे चासंहतानां समर्थ उदासीनस्तस्य प्रचारं चिन्तयेत् । शन्नोश्च विविधस्यापि सहजस्थाकृत्रिमस्य भूम्यनन्तरस्य च पूर्वापेक्षया प्रयत्नतः प्रचारं चिन्तयेत् ॥ १५५ ॥ {{Block center|{{bold|<poem>एताः प्रकृतयो मूलं मण्डलस्य समासतः। अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः॥१५६॥</poem>}}}} {{gap}}एता इत्यादि ॥ एता मध्यमाद्याश्चतस्रः प्रकृतयः संक्षेपेण मण्डलमूलं अपरासा- मभिधास्यमानप्रकृतीनाममात्यादीनां मूलमित्युच्यते । अन्याश्वाष्टौ समाख्याताः ।<noinclude></noinclude> kkgqsf8lsonnnqa2zdmky4e9sgw4un5 सम्भाषणम्:अर्गलास्तोत्रम् 1 164212 415632 2026-04-10T04:37:15Z ~2026-22086-41 10410 /* Argla stotram */ नवीनविभागः 415632 wikitext text/x-wiki == Argla stotram == 1no [[विशेषः:योगदानानि/&#126;2026-22086-41|&#126;2026-22086-41]] ([[सदस्यसम्भाषणम्:&#126;2026-22086-41|वार्ता]]) ०४:३७, १० एप्रिल् २०२६ (UTC) ou9bcwjnqdkcsh2dffcn5th2srtwoxq