विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.46.0-wmf.24
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२९५
104
104745
415678
267758
2026-04-17T12:57:01Z
Geeta g hegde
6704
415678
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|left=अध्यायः ७]|center=मन्वथमुक्तावलासवालता ।|right=२६१}}</noinclude>
{{gap}}यथेत्यादि ॥ यथैनं राजानं मित्रादय उक्ता न बाधेरंस्तथा सर्वसंविधानं कुर्याद
इत्येष सांक्षेपिको नयो नीतिः ॥ १८० ॥
{{Block center|{{bold|<poem>यदा तु यानमातिष्ठेदरिराष्ट्र प्रति प्रभुः ।
तदानेन विधानेन यायादरिपुरं शनैः ॥ १८१ ॥</poem>}}}}
{{gap}}यदेति ॥ यदा पुनः शक्तः सन् शत्रुराष्ट्र प्रति यात्रामारभेत्तदाऽनेन वक्ष्यमा-
णप्रकारेण शत्रुदेशमत्वरमाणो गच्छेत् ॥ १८१ ॥
{{Block center|{{bold|<poem>मार्गशीर्ष शुभे मासि यायायात्रां महीपतिः।
फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथावलम् ॥ १८२ ॥</poem>}}}}
{{gap}}मार्गशीर्ष इति ॥ यश्चतुरङ्गबलोपेतो राजा करिरथादिगमनविलम्बेन विलम्बित-
प्रयाणस्तथा हैमन्तिकसस्यबहुलं च परराष्ट्र जिगमिषुः समुपगमनाय शोभने मार्ग-
शीर्षे मासि यात्रां कुर्यात् । यः पुनरश्वबलपायो नृपतिः शीघ्रगतिर्वा सर्वस-
स्यबहुलं परराष्ट्र यियासुः स फाल्गुने चैत्रे वा मासि स्वबलयोग्यकालानतिक्रमण
यायात् । अत एवमन्वर्थव्यापारपरं संक्षेपेण याज्ञवल्क्यवचनम् । 'यदा सस्य-
गुणोपेतं परराष्ट्रं तदा ब्रजेत् ॥ १८२ ॥
{{Block center|{{bold|<poem>अन्येष्वपि तु कालेषु यदा पश्येद्धृवं जयम् ।
तदा यायाद्विगृह्मैव व्यसने चोत्थिते रिपोः॥१८३॥</poem>}}}}
{{gap}}अन्येप्विति ॥ उक्तकालव्यतिरिक्तेषु यदात्मनो निश्चितं जयमवगच्छेत्तदा स्वबल-
योग्यकाले ग्रीष्मादावपि हस्त्यश्वादिबलपायो विगृह्मैव यात्रां कुर्यात् । शत्रोचा-
मात्यादिप्रकृतिगोचरदण्डपारुष्यादिव्यसने जातेऽरिपक्षभूतायां तत्प्रकृतावप्युक्त-
कालादन्यत्रापि यायात् ॥ १८३ ॥
{{Block center|{{bold|<poem>कृत्वा विधानं मूले तु यात्रिकं च यथाविधि ।
उपगृह्यास्पदं चैव चारान्सम्यग्विधाय च ॥ १८४ ॥
संशोध्य त्रिविधं मार्ग षड़िधं च बलं स्वकम् ।
सांपरायिककल्पेन यायादरिपुरं शनैः॥ १८५ ॥</poem>}}}}
{{gap}}कृत्वेत्यादि ॥ संशोध्येति ॥ मूले स्वीयदुर्गराष्ट्ररूपे पाणिग्राहसंविधानं प्रधानपु.
रुषाधिष्ठितरक्षार्थं सैन्यैकदेशस्थानरूपं प्रतिविधानं कृत्वा यात्रोपयोगि च वाहना-
युधवर्मयात्राविधानं यथाशास्रं कृत्वा परमण्डलगतस्य च येनास्यावस्थानं भवति
तदुपगृह्य तदीयान्भृत्यपक्षानात्मसात्कृत्वा चारांश्च कापटिकादीन्शत्रुदेशवाज्ञिाप-
नार्थ प्रस्थाप्य सम्यक्तया जाङ्गलानूपाटविकविषयभेदेन त्रिविधं पन्थानं मार्ग शोधि-
ततरुगुल्मादिच्छेदनिम्नोन्नतादिसमीकरणादिना संशोध्य तथा हस्त्यश्वरथपदातिसे-
नाकर्मकरात्मकं षड्विधं बलं यथान्चयोगमाहारौषधसत्कारादिना संशोध्य सांपरायि-
कं संपरायः संग्रामस्तदुपचितविधिना शत्रुदेशमत्वरया गच्छेत् ॥ ६८४ ॥ १८५ ॥<noinclude></noinclude>
g8r6nhvyva93g7e0h2tbdw50qovydxm
परातन्त्रम्
0
164218
415679
2026-04-18T06:51:26Z
Shubha
190
{{header | title = परातन्त्रम् | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ---- MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00062 Uniform title: parātantra Main title: parātantram Description: Notes: Data ent... नवीन पृष्ठं निर्मीत अस्ती
415679
wikitext
text/x-wiki
{{header
| title = परातन्त्रम्
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00062
Uniform title: parātantra
Main title: parātantram
Description:
Notes:
Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski.
Publisher :
Publication year : Pre-1900
Publication city :
Publication country : India
----
परातन्त्रम्
लेफ्टिनेण्ट कर्नल
श्री धन शम्शेर जङ्ग बहादुर राणा
प्रकाशक
चण्डी कार्यालय प्रयाग-६
प्रथम संस्करण संवत् २०१६
श्रीललितात्रिपुरसुन्दर्यै नमः
प्रथमः पटलः
बहुसिद्धिसमाकीर्णे श्मशाने करवीरके |
तत्र वीरगणाः सर्वे महाहल्लालहु/कृते || १ ||
निवर्तितमहाचक्रे योगे त्रिदशमण्डले |
महावृन्द महास्फाल रणडाकिनी याचिते || २ ||
ब्राह्म्याद्या मातरश्चाष्टौ क्षेत्रेशभैरवादयः |
गणेश वटुका सिद्धा मातृचक्रे तु मेलके || ३ ||
श्रीनाथादिगणाः सर्वे वीरनाथावतारिके |
सिद्धिनाथावकासेन सन्तोषितकुलेश्वरम् || ४ ||
सर्वभूषां परित्यज्य सानन्दोल्लासमानसम् |
सामरस्यस्थितं देवं पृच्छते कुलसुन्दरी || ५ ||
श्री देव्युवाच
सर्वशास्त्रोदितं ज्ञानं त्वत्प्रसादात् श्रुतं मया |
यामलाष्टकपूर्वं तु तन्त्रानेकविधानि च || ६ ||
शिरश्छेदश्च बहुधा महामन्थानषट्ककम् |
मालातन्त्रे च वीत्कारे सागराम्वा महामते || ७ ||
प्. २) चतुर्विंशति वै लक्षाः श्रुता सर्वे तथोदिताः |
इदानीं संशयो जातस्तवैव वचनात्प्रभो || ८ ||
एका सा परमा शक्तिरद्वितीया परेश्वरि |
एका शक्तिर्महामाया विश्वंव्याप्यावतिष्ठता || ९ ||
नादिमध्या न वान्तास्तु यया सर्वं प्रवर्तते |
त्वयोक्ता न द्वितीया सा तन्त्रे कुलमहार्णवे || १० ||
एषा संधार्यते विश्वमेका त्रैलोक्यपूजिता |
एतदेव वचो ब्राह्मी षडाम्नाय कथं प्रभो || ११ ||
षट्सिंहासनगा प्रोक्ता देव्यः षण्णायिकाः स्मृताः |
षडाम्नायविभिन्नैव एका स परमा कथम् || १२ ||
अभिन्ना वाथ भिन्ना वा वद देव जगत्पते |
कथमेका पराशक्तिर्विभिन्ना परमेश्वरी || १३ ||
षट्सिंहासनगा देवि नायिका षट्प्रकीर्तिताः |
षडाम्नायविभिन्नाश्चेत्किं संज्ञाभेदनामतः || १४ ||
पूर्वसिंहासना देवी याम्यसिंहासनाश्रिता |
सिंहासनं पश्चिमगा सौम्यसिंहासना परा || १५ ||
सिंहासनमूर्ध्वगता ह्यधः सिंहासनस्थिता |
षट्सिंहासनसंस्था सा षडाम्नायेतिकीर्तिता || १६ ||
कथं सिंहासनं संज्ञास्थिता ह्याम्नायदेवता |
तन्त्रे वा यामले वापि चतुर्विंशतिलक्षके || १७ ||
प्. ३) ग्रंथे त्वया सूचिता वै षडाम्नायविशेषतः |
एका परा विभिन्ना किं षट्सिंहासनमाश्रिता || १८ ||
आद्याशक्तिः परा ह्येका कथं षट्शक्तितां गता |
या आद्या प्रकृतिः सूक्ष्मा भिन्नरूपेण संस्थिता || १९ ||
बिन्दुमालिनीरूपा सा सर्वथाद्यव्यवस्थिता |
एतन्मे महतीं शंकां निर्णीतुं परमेश्वर || २० ||
उदये ग्रन्थिसुदृढं सर्वज्ञपरमेश्वर |
यद्येका परमा शक्तिराद्या प्रकृतीरीश्वरी || २१ ||
किमर्थं कस्य रक्षार्थं षडाम्नायप्रकीर्तिताः |
त्रैलोक्यरक्षणार्थाय समया पालनाय च || २२ ||
साधकप्रार्थनायैव वदस्व परमेश्वर ||
श्रीसदाशिव उवाच
अपि प्रियतमे देवि निशामय वदामि ते |
गुह्याद्गुह्यतमं दिव्यमकथ्यं कथयामि ते || २३ ||
तव स्नेहात्प्रवक्ष्यामि रहस्यं कौलिकान्वयं |
ओं इति नमस्कृत्य प्रवक्ष्यामि विष्णुमायां जगन्मयीं || २४ ||
नारायणीं महामायां प्रकृतिं विश्वरूपिणीम् |
एका परापरा शक्तिः प्रकृतिर्विश्वमोहिनी || २५ ||
विश्वसंमोहनात्सा च वैष्णवीति प्रकीर्तिता |
धारणाद्धात्रिमित्याहः पालनात्परमेश्वरी || २६ ||
प्. ४) त्रैलोक्यमोहनात्माया भावनात्प्रकृति स्मृता |
विश्वसंधारणात्सा तु वैष्णवीति प्रकीर्तिता || २७ ||
कैवल्यमोक्षदा भूता माया नारायणी स्मृता |
ईश्वरोपि वशे यस्या सूत्रे बहुशकुन्तवत् || २८ ||
यां विना परमेशोपि शव इत्यभिधीयते |
जीवितुं नैव शक्नोति विना तां परमेश्वरः || २९ ||
ईशोप्यनीशतां याति प्रकृत्यालोकनं विना |
दारुष्वेव यथा वह्निर्मथनात्संप्रकाशते || ३० ||
मायासंप्रगृहीतो वै सृष्टिस्थित्यन्तकृद्भवेत् |
जीवहीनो यथा देहश्चलितुं नैव शक्यते || ३१ ||
शववत्कर्महीनत्वात्समाधिं संस्थितः प्रिये |
मायाविरहितो यावन्निशाकाले तु गीयते || ३२ ||
शवैव निश्चलो देवो बिन्दुमालिन्यसंग्रहात् |
मायया कवलीकृत्वा शिव इत्यभिधीयते || ३३ ||
शिवशक्तिसमायोगात्सर्वं जगदिदं भवेत् |
चितिरूपेण सा माया विश्वं व्याप्य व्यवस्थिता || ३४ ||
अहं सदाशिवो देवः प्रकृतिर्विष्णुरुच्यते |
उभयोर्मेलनाद्देवि शिवशक्तीति गीयते || ३५ ||
प्रवर्तनाय सर्वेषां संसारचक्रवान्भवेत् |
त्वं तु देवी विष्णुमाया नारायणजगन्मये || ३६ ||
प्. ५) देवस्यानन्दरूपोहं जाने देव सदाशिवः |
एवं प्रवर्तये देवि देवौ हरिहरावुभौ || ३७ ||
सृष्टिस्थितिश्च संहारकल्पे कल्पे कथं भवेत् |
शिवशक्त्यात्मकं विश्वं पश्य दिव्येन चक्षुषा || ३८ ||
न पद्माङ्की न वज्राङ्की न चक्राङ्की यतः प्रजाः |
लिङ्गाङ्की च भगाङ्की च तेन माहेश्वरी प्रजाः || ३९ ||
यया सृष्टं सृजेद्वेधा साष्टधा पाल्यते हरिः |
संहर्ता हरते रुद्रः सर्वे तदनुगाः सुराः || ४० ||
एका सा परमा देवी विश्वं व्याप्य व्यवस्थिता |
चतुर्विंशतितत्वेन ब्रह्माण्डं चेतयन्ति च || ४१ ||
पृथिवी वायुराकाशजलवह्निमयं वपुः |
धृत्वा संसृज्यते विश्वं कल्पे कल्पे यथेच्छया || ४२ ||
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः |
पञ्चभूतात्मकं चैव शरीरं पञ्चसंकृतम् || ४३ ||
एकीकृत्य तथा पञ्चभूतरूपेण संस्थिताः |
निर्जीवो जीवरूपेण पञ्चभूतत्वमागतः || ४४ ||
सिंहासनमहाम्नायपञ्चभूतानि सङ्गमः |
आद्या सा परमा शक्तिर्व्योमस्था कुलरक्षिणी || ४५ ||
ब्रह्माण्डव्यापिनी नित्या परब्रह्मस्वरूपिणी |
चतुर्विंशतिभिस्तत्वैः सर्वबीजस्वरूपिणी || ४६ ||
प्. ६) ब्रह्मस्वरूपिणी साक्षात्स्त्रीपुंभेदेन भिद्यते |
लीलया क्रीडते नित्या ललितारूपधारिणी || ४७ ||
अरूपा रूपवान्भूत्वा पुंरूपं धार्यते शिवे |
कदाचिल्लीलया देवी मायारूपेण क्रीडति || ४८ ||
कदाचिद्धरिरूपेण शिवरूपेण स्वेच्छया |
ब्रह्मरूपधरा माया ह्येच्छारूपधरा परा || ४९ ||
एषा परापरा देवी प्रकृतिर्विश्वमोहिनी |
प्रवर्तयति संसारं समया पालनाय च || ५० ||
श्रीनाथक्रमसिध्यर्थं षडाम्नायत्वमागता |
षट्सिंहासनगा देवी समास कथयामि ते || ५१ ||
पुरानन्दवने देवि निर्जने पशुवर्जिते |
सदाशिवोहं षट्चक्रसमाधिध्यानमाश्रितः || ५२ ||
त्वं तु कापालिनी भूत्वा मामपृच्छत्षडन्वयम् |
प्रथमं पूर्ववक्त्रेण रूपं तत्पुरुषेण च || ५३ ||
कथयामास प्राची तु सिंहासनमहोद्गतम् |
नायिका रुद्रशक्तिर्या शिवं तत्पुरुषं परम् || ५४ ||
पूर्णेश्वरी महोग्रासा पूर्वाम्नाअयप्रकीर्तिता |
चक्रेश्वर्यां तु वक्ष्यामि साधकानां हिताय वै || ५५ ||
ध्यानं तु चित्तेधिष्ठाय ध्यातव्या परमेश्वरी |
इन्द्रनीलसमप्रख्यं दशदोर्दण्डधारिणीम् || ५६ ||
प्. ७) वराभयकरं रम्यं सत्रिशूलं कपालकम् |
डमरुं चाक्षमालां च शक्तीं चैव कराम्बुजे || ५७ ||
इक्षुचापं शरं चैव खड्गहस्तं सुशोभिनीम् |
महाप्रेतोपरि तत्र चन्द्रसूर्यासनास्थितां || ५८ ||
प्रत्यालीढां त्रिनेत्रां च मुंडमालाविभूषितां |
वासुकीशङ्खपालौ तौ कर्णभूषणतां गतौ || ५९ ||
अनन्तहारमाला च हाराऽलंकारभूषितां |
विशालत्रयनेत्रां च चन्द्रार्द्धकृतशेखराम् || ६० ||
एषा पूर्णेश्वरी देवी हाहाराव रवप्रियाम् |
पूर्णेश्वरीति विख्याता साहंकारा रजोयुता || ६१ ||
गिरौ पूर्णालये पीठे लक्ष्मीवनश्मशानके |
इन्द्रेणाराधिता नित्या बहुरूपावतारिणी || ६२ ||
पूर्वाम्नायेति विख्याता पूर्वदेवर्षिपूजिता |
ईश्वरी सर्वविद्यानां महाभाग्यभरावहा || ६३ ||
नानारूपधरा नित्या बहुरूपावतारिणी |
जया जयंती विजया अजिता नारसिंहिका || ६४ ||
व्याघ्रेश्वरी कराला च राजेशी भुवनेश्वरी |
रक्तदंता विशालाक्षी कामेशी चण्डमालिनी || ६५ ||
विद्युज्जिह्वा डामरेशी नाटेशी नृत्यनायिका |
नन्दी चैव महाकालभृंगिणी च कुलालिका || ६६ ||
प्. ८) नवनाटेश्वरी तत्र चतुःपञ्चरसान्विता |
बहुभेदा देवदेवी भैरवाष्टकमातृकाः || ६७ ||
नाटेश्वरीति विख्याता भैरवी चक्रपालिका |
क्षेत्रविघ्नेशवटुकयोगिनीमातृकाष्टकाः || ६८ ||
ब्रह्माण्याद्याः प्रपूज्यन्ते कुमारी कामदा सदा |
नृत्यमाने पुरा देव भैरवा मातृभिर्वृतः || ६९ ||
नृत्यभैरवनामा तु पूर्वचक्रे व्यवस्थिता |
गणेशक्षेत्रडाकिन्यो गणास्तत्पुरुषाश्रिताः || ७० ||
वाममार्गे समाराध्य न तु दक्षिणतः क्रिया |
प्लक्षद्वीपे कुशद्वीपे बहुधा च तदन्वगाः || ७१ ||
वश्याकर्षणस्तंभं च सिद्धयस्त्वणिमादयः |
मरीचिना समाराध्य शक्राय च प्रदत्तवान् || ७२ ||
इत्येष पूर्व चाम्नाय प्राचिसिंहासनस्थिता || ७३ ||
|| इति श्री परातन्त्रे पूर्णेशी पूर्वाम्नायक्रमः पटलः प्रथमः || १ ||
द्वितीयः पटलः
दक्षिणाम्नाय वक्ष्यामि महावीर्या महोल्वणा |
अघोरभैरवोद्दिष्टा निश्येशी च निरङ्गला || १ ||
निरालम्बेश्वरी नित्या अघोरं तच्छिरं विदुः |
सिंहासनगता नित्या निशेशी रक्तचर्चिका || २ ||
चैतन्यभैरवी केचिद्रक्तकालीति केचन |
सुन्दरी कालिका केचिदघोरेश्वरी केचन || ३ ||
ध्यानरूपं तु वक्ष्यामि भैरव्या याम्यदिक्स्थिता |
नित्या निरंशनिरता निशेशी निर्गुणाश्रया || ४ ||
क्रतुनाराधिता देवि धर्मराजाय वै पुरा |
सम्प्रदायकरेणैव देवी चैतन्यभैरवी || ५ ||
चतुर्वेदासना देवी महाफेत्कारसंस्थिता |
प्रज्वलन्ती चितामध्ये दक्षिण्यदक्षदा परा || ६ ||
अलातचक्रवद्यस्या भ्रमन्ति शिरमालिका |
स्नायुरक्षा कृशाङ्गी च अस्थिचर्मावशेषिता || ७ ||
व्याघ्रचर्मा कटिवृता नरचर्मोत्तरीयका |
सहस्रादित्यसंकाशा तप्तकाञ्चनसुप्रभा || ८ ||
प्. १०) पञ्चवक्त्रा चातिभीमा त्रिपञ्चनयनैर्युता |
ईषद्धास्यललज्जिह्वा निम्ननाभिकृशोदरी || ९ ||
विकरालासनस्थाता चक्रवक्त्रासनस्थिता |
रौद्री भयापहा घोरा चन्द्रार्द्धकृतकेतना || १० ||
वर्बरार्द्धमुक्तकेशी नागराजविराजिता |
कबन्ध-उष्णीययुता ब्रह्माशीर्षशिखामणिः || ११ ||
सद्यश्छिन्नजगद्रक्तः शिरोमालाविभूषिता |
भुजाषोडशसंयुक्ता गजकञ्चुककिङ्किणी || १२ ||
पाशांकुशकपालञ्च खट्वाङ्गं मुण्डडिण्डिमं |
खड्गखेटवाणधनुश्चक्रदण्डकमण्डलुम् || १३ ||
अभयं वरदं चैव तर्जनी विधृता करैः |
मुदिता सिद्धिमधुना शक्तिभिः परिवारिता || १४ ||
हूंहूंहूंकारनादेन त्रासयन्देवतागणान् |
ऋग्यजुःसामाथर्वाख्या वेदस्योपरि परि || १५ ||
शवरूपी महादेव हृदयोपरिसंस्थिता |
निशेशी च महोग्रा च दक्षिणाचारवर्जिता || १६ ||
ज्येष्ठानुज्येष्ठभेदास्ति याम्यसिंहासनाश्रितां |
तस्याङ्गदेवताः सर्वे बहुभेदा महोल्वणा || १७ ||
जंभिनी स्तंभिनी नारामोहिनी अंधिनी शिवा |
मृत्युञ्जया चर्चिका च सिंही दक्षिणकालिका || १८ ||
प्. ११) प्रचण्डा उग्रचण्डा च उग्रतारा कपालिनी |
त्वरिता छिन्नशीर्षा च वगला वाक्प्रदायिनी || १९ ||
नीला सरस्वती भीमा त्रैलोक्यडामरेश्वरी |
त्रैलोक्यविजया चण्डी रक्तचामुण्डी भैरवी || २० ||
दक्षिणाम्नायदेवेशी नानाभेदविसारिणी |
ब्रह्माद्याष्टभैरवाष्टक्षेत्रपालाष्टमेव च || २१ ||
स्वक्षेत्रनाथं वटुकं गणेशं योगिनीगणाः |
एका विभिन्नरूपा सा समयी पालनाय च || २२ ||
अघोरस्य गणाः सर्वे नानापारिषदावृता |
महाचण्डाट्टसंराव पूरयन्ती दिगन्तराः || २३ ||
वेताला बहुला तत्र डाकिनीगणसंवृताः |
बाललीलासमापन्ना निशाचरगणावृतः || २४ ||
दण्डपाशोद्यतकराः सर्वसाधकसिद्धिदा |
शाकपुष्करद्वीपेषु साधकाभेददर्शिनी || २५ ||
चौहारे गह्वरे पीठे योनिमण्डलमार्गगा |
वामाचाररता पूज्या ह्यणिमाद्यष्टसिद्धिदा || २६ ||
सूत्रीयता मया प्रोक्ता दक्षिणाम्नायसङ्गतम् || २७ ||
|| इति श्रीपरातन्त्रे निशेश्वरी दक्षिणाम्नायो द्वितीयः पटलः || २ ||
तृतीयः पटलः
सिंहासनप्रतीच्यां तु संक्षेपं शृणु पार्वति |
अनेकशतसाहस्रश्रीनाथेनावतारितम् || १ ||
मन्त्रनानारहस्यञ्च यामलं लक्षसंमितम् |
स्वनाभिमथनाद्देवि स्वकीयरसना पुरा || २ ||
ब्रह्माण्डं गर्भतस्तस्या जातिदिव्येन योनिना |
तदारभ्य महेशानि कुजादेवीति विश्रुता || ३ ||
ज्येष्ठबालप्रभेदेन कुब्जिका लोकपूजिता |
सद्योजातमुखोद्गीता पश्चिमाम्नायदेवता || ४ ||
कुब्जिका जगतामाद्या महासंहाररूपिणी |
अनन्तदेशिकः सेव्या नित्या शिवसमागता || ५ ||
ज्येष्ठबालप्रभेदेन बहुमार्गप्रवाहिनी |
द्वात्रिंशताभेदयुक्ता कुब्जिका भैरवाश्रिता || ६ ||
वृषभे संस्थितं देवं खवर्णरूपशोभिनम् |
एकवक्त्री त्रिनेत्रञ्च मुजाष्टादशधारिणम् || ७ ||
प्. १३) डमरुं परशुं वाणं खड्गमकुंशवज्रकम् |
शंखं च वेणुवाद्यञ्च वरदाभयदक्षिणे || ८ ||
वामे खट्वाङ्गशूलञ्च धनुः फलकपाशकम् |
घण्टाकपालवेणुञ्च अभयं भयनाशनम् || ९ ||
पट्टेन बन्धितं जानुवामेरुत्था च कुब्जिका |
एकवक्त्रा त्रिनेत्रा च अरुणा वर्णवर्णिता || १० ||
द्विभुजा वरदा देवी सिंहस्थाभयदायिनी |
नागाभरणभूषाङ्गी खण्डेन्दुकृतमस्तका || ११ ||
सर्वलोकेशपाशेन चारुपीनघनस्तनी |
सर्वाभरणसंशोभा लक्षणैश्च सुशोभिता || १२ ||
एवं ध्याये कुजामाता पश्चिमाम्नायभैरवी |
तत्रैव बहुभेदास्ति कुब्जिका कुलमार्गगा || १३ ||
विभिन्ना सिद्धिनाथेन श्रीनाथेनावतारिता |
कुजेशनाथवीरेण कुजाम्नायप्रकाशिता || १४ ||
नवात्मा श्रीशिखानाथ स्वच्छन्दः श्रीललितेश्वरः |
क्रमेशी च त्रिखण्डा च महत्तारि त्रिखण्डिका || १५ ||
त्रिशुद्धि उग्रचण्डा च चण्डा चण्डकपालिका |
अन्नपूर्णा कपाली च ज्वालामालिनी कामिनी || १६ ||
प्. १४) ब्राह्म्याद्या मातरगणा असिताङ्गादिभैरवाः |
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || १७ ||
वाराही चैव माहेन्द्री चामुण्डा सप्तमी स्मृताः |
अष्टमी च महालक्ष्मी एताः सर्वत्र पूजिताः || १८ ||
असिताङ्गो रुरुश्चण्ड क्रोधीशोन्मत्तकस्तथा |
कपालो भीषणाख्यश्च संहारो चाष्टमस्तथा || १९ ||
षडाम्नायप्रपूज्या वै मातृका सह भैरवी |
गणेशो वटुकः क्षेत्रयोगिनीसङ्घका स्मृता || २० ||
डाकिनी भूतवेतालचेटिकागणसंवृता |
डाकिन्यादिमहारावा षड्योगिन्यः प्रकीर्तिताः || २१ ||
डाकिनी राकिनी घोरा लाकिनी काकिनी तथा |
साकिनी हाकिनी प्रोक्ता याकिण्यः सप्तधारवः || २२ ||
संस्थिता देवताः पूज्या च रुरूपेण भैरवः |
सद्योजातः साधिता सा कुब्जिका चक्रनायिका || २३ ||
अङ्गिरा साधिता विद्या दक्षाय प्रतिपादिता |
नहुषाय ततो दत्वा ततो चन्द्रान्वयाय च || २४ ||
पार्थिवानाञ्च सौम्यानां कुलदेवीति कीर्तिताः |
अनेकसिद्धिदा सर्वक्रियास्तु बहव स्मृताः || २५ ||
प्. १५) दुर्वासाराधिता विद्या निराचालाकलाश्रिता |
वाममार्गे रता नित्या दक्षिणा फलवर्जिता || २६ ||
मकारपञ्चकैः पूज्यानां यथाफलदा भवेत् |
शौचाचारनिराचारनिष्कलङ्का निराश्रया || २७ ||
अणिमादिमहासिद्धिसाधनाच्छीघ्र सिद्धिदा |
मोक्षदा भोगदा देवी कुब्जिका कुलमातृका || २८ ||
बहुधा वर्णिता देवी तवाग्रे श्रीमतादिषु |
मन्थानभैरवश्चास्ति चतुर्विंशमतेषु च || २९ ||
|| इति श्रीपरातन्त्रे पश्चिमसिंहासनकुब्जिका पटलस्तृतीयः || ३ ||
चतुर्थः पटलः
वामदेवाश्रिताम्नाय कथयामि तवाग्रतः |
उत्राम्नायमुत्तरं तु कालीकुलसमुद्भवा || १ ||
कोटिकोटिप्रभेदोस्ति कालिका तीव्रनायिका |
आज्ञासिद्धिप्रदा देवी विष्णुतेजोपवृंहिता || २ ||
नारायणी महाकाली जगद्रक्षणतत्परा |
कालि काली महाकाली चण्डयोगेश्वरीति च || ३ ||
तिष्ठन् गच्छन्स्मरन्नित्यमुच्यते महतो भयात् |
आब्रह्मस्था वरान्ता च कालेन कलयन्ति च || ४ ||
तं कालं कलयेत्काली ततः सा कालिका स्मृता |
अनेकचक्रचक्रेशी नानाभेदा महागमा || ५ ||
शक्यते कालिका देव्या देवा ब्रह्मादयोपि हि |
तथापि लेशमात्रं तु कुमारीक्रमतः शृणु || ६ ||
नीलवर्णा महाकाली त्रिमुखा नवलोचना |
पीतं तु दक्षिणं वक्त्रमुत्तरं पावकोपमम् || ७ ||
मण्डलान्वितनेत्रा च अष्ट चाङ्गी तनूधरा |
पिङ्गलोर्ध्वजटाटोपचन्द्रार्द्धकृतशेखरा || ८ ||
प्. १७) सप्तविंशतिमुण्डैश्च रक्तविप्लुषसंयुताः |
अस्थिकुंठलगोडाढ्या मौलीकापालमालिनी || ९ ||
किङ्किणी नौपुरा राव वीरघण्टारवोत्तमा |
शिवा प्रेतसमारूढा मुखशोणितनिर्भरा || १० ||
इन्द्राद्यः ब्रह्मविष्णुश्च रुद्रेश्वरसदाशिवः |
पीतश्यामरक्तधूम्रश्वेताभा पञ्चकारकाः || ११ ||
वज्रदण्डशक्तिशूलखष्ट्वाङ्गायुधधारकाः |
तर्जनी मुखनिक्षिप्ता शिवाधस्था त्रिलोचना || १२ ||
बद्धपद्मासना देवी पीनोन्नतपयोधरा |
वामहस्ते कपालञ्च रक्तपूर्णानि शोभने || १३ ||
धारयन्ती त्रिशूलञ्च सशवं दक्षिणे करे |
चक्रं च दक्षिणे हस्ते अंकुशमुद्गरं तथा || १४ ||
वामे पाशं च खट्वाङ्गमृतवालञ्च धारिणम् |
चित्कला कलनातस्थां ज्योतिरूपाश्च केवला || १५ ||
निर्वाणपदातीतां भावातीतामगोचरा |
अस्मिन्मूर्तौ महादेव्या नववक्त्राणि पूजयेत् || १६ ||
बहूनि भेदरूपाणि कालिकाया महेश्वरी |
आज्ञासिद्धिप्रदा नित्या कौलमार्गप्रवर्तका || १७ ||
मकाकुलालिकायाता विष्णुः कालित्वया गता |
यस्या प्रभावमतुलं वर्णितुं नैव शक्यते || १८ ||
प्. १८) दुर्वासा नारदो व्यासवसिष्ठः कौशिकस्तथा |
त्रिश्चतुः पञ्चसप्ताभादेकाभात्सिद्धिमागता || १९ ||
अणिमाद्या महासिद्धिस्तस्याङ्गसिद्धयः स्मृताः |
मोक्षदा सिद्धिदा काली निर्वाणेशीश्वरी शिवा || २० ||
कैवल्यमेका सिद्धिः स्यात्महाज्ञानप्रकाशिनी |
साधका भैरवः साक्षाज्जरामरणवर्जितः || २१ ||
धनदस्य न सा भूति न शक्रस्य प्रजायते |
या भूति साधकस्यैव भवेत्त्रैलोक्यदुर्लभा || २२ ||
पञ्चवक्त्रक्रमं देवि पञ्चकाल्यानुशासिता |
गुह्यकाली महादेवी वैष्णवी ब्रह्मरूपिणी || २३ ||
वामदेवाश्रिता सर्वमहाभैरवकोटयः |
गणेशवटुयोगिन्यः शतकोटिसहस्रका || २४ ||
भूतवेतालडाकिन्यो चेटका राक्षसाः खगाः |
फेनवा काकगृध्राश्च उलूका गरुडादकाः || २५ ||
शृङ्गाली कङ्कती युगा नानारूपा महाबलाः |
आम्नायज्ञा वदन्तीह उत्तरं तु निरुत्तरम् || २६ ||
|| इति श्रीपरातन्त्रे उत्तराम्नाय गुह्यकालि पटलश्चतुर्थः || ४ ||
पञ्चमः पटलः
ऊर्ध्वसिंहासनं वक्ष्ये त्रैलोक्यैश्वर्यसूचकम् |
सर्वचक्रेश्वरी नित्या सर्वाम्नायप्रपूजिता || १ ||
सर्वसिंहासनमयी ईशानासनसंस्थिता |
परब्रह्मेश्वरी माया देवी नारायणी स्मृता || २ ||
निद्रा बुद्धिः क्षमा क्षांतिः क्षुधा लज्जा स्मृतिर्धृर्तिः |
प्रज्ञा शांति प्रभा ज्योति तस्या पादांगुलीनखे || ३ ||
यस्या दृग्यानमात्रेण साक्षाल्लक्ष्मीपतिर्भवेत् |
यस्थार्चाकर्मसुरता यस्या मार्गानुसारिणी || ४ ||
राजराजसमो भूत्वा सुरराजसमोपि वा |
भुक्त्वा तु विपुलान्भोगान्नन्ते निर्वाणमाप्नुयात् || ५ ||
कदाचिद्योषितो भूत्वा कदाचित्पुरुषो भवेत् |
विष्णुरूपेण सकलं दुष्टान्सर्वान्विनाशयेत् || ६ ||
जगद्व्याप्तावनीमाया मोहयेत्स सुराऽसुरान् |
अनूपारूपिणी भूत्वा सुन्दरी कथयामि ते || ७ ||
पद्मरागप्रतीकाशं कुंकुमोदकसन्निभाम् |
सुभ्रुवां च सुनेत्रा च सुन्दरी चारुहासिनी || ८ ||
प्. २०) कृशमध्य चतुर्बाह्वी खण्डेन्दुकृत शेखराम् |
त्रिनेत्रा सर्वभूषाङ्गी चारुवेशा मनोरमाम् || ९ ||
पाशांकुशेक्षुचापञ्च पञ्चवाणधनुर्धराम् |
ब्रह्मविष्णुरुद्र-ईशा पञ्चमण्डपपादुकाम् || १० ||
सदाशिवाख्य पर्यंङ्कसंस्थिता परमेश्वरी |
पराशक्ती सुन्दरीति त्रिपुरेशीति गीयते || ११ ||
महामोक्षप्रदा देवी परब्रह्मस्वरूपिणी |
बहुभेदा विशालाक्षा बहुरूपा प्रकाशिनी || १२ ||
कामेश्वरी रुद्रशक्ती पूर्णपीठावतारिणी |
वज्रेशी वैष्णवी नित्या कामरूपनिवासिता || १३ ||
शक्तीश्वरी भगेशी च जालन्धरे प्रतिष्ठिता |
ब्रह्मशक्ती समुल्लासपीठमह्वरविग्रहा || १४ ||
उड्यानपीठनिलया परब्रह्मात्मिका शिवा |
सर्वचक्रेश्वरी सर्वपीठेशी मन्त्रविग्रहा || १५ ||
सर्वमन्त्रेश्वरी सर्वदेवेशि दिव्यविग्रहा |
षडाम्नायेश्वरी नित्या निरंसा निःपरिग्रहा || १६ ||
नित्या षोडशविद्याया नवचक्रे व्यवस्थिता |
नवचक्रेश्वरी नित्या नवकोणाग्रतस्थिताः || १७ ||
त्रैलोक्यमोहनं चक्रं सर्वाशापरिपूरकम् |
सर्वसंक्षोभणं चक्रं सर्वसौभग्यदायकम् || १८ ||
प्. २१) सर्वार्थसाधकं चक्रं सर्वरक्षाकरं परम् |
सर्वकामप्रदं चक्रं सर्वसिद्धिप्रदायकम् || १९ ||
सर्वानन्दमयं चक्रं नवमं चक्रनायिकाम् |
सर्वतद्वैन्दवे लीनां तच्छ्रीचक्रमुदारितम् || २० ||
त्रिपुरा त्रिपुरेशी च सुन्दरी पुरवासिनी |
श्रीर्मालिनी च सिद्धाम्बा महात्रिपुरसुन्दरी [महात्रिपुरभैरवी] || २१ ||
अनेकदेवतावृन्दलीना चक्रेषु संस्थिता |
वैन्दवो च त्रिकोणे च अन्तरालेऽष्टकोणके || २२ ||
द्विदशारे च मन्वस्रे नागपत्रेषु सर्वतः |
पत्रषोडशसंख्याते चतुरस्रे गुणस्पृहम् || २३ ||
रेखायुक्तचतुर्द्वारे त्रैलोक्यं तत्र पार्वति |
हिरण्यरजते ताम्रे मणौ पत्रेथ भूर्जके || २४ ||
कौशेयस्थण्डिले वापि दृष्ट्वा तु प्रणमन्प्रिये |
सर्वतीर्थेषु सुस्नात सर्वयज्ञेषु दीक्षितः || २५ ||
सर्वदः सर्ववित्साक्षान्महेश्वरसमो भवेत् |
श्रीचक्रं कारयित्वा तु यो दद्यात्साधकाय च || २६ ||
भूचक्रं तेन दत्तं हि सशैलवनकाननम् |
स वै महापशुपतः स वै वैष्णवसत्तमः || २७ ||
सर्वदः सर्वदर्शी च ब्रह्मज्ञानी स वै सुधीः |
महादानानि ये प्रोक्ताः मुनिभिः ब्रह्मवादिभिः || २८ ||
प्. २२) तत्फलं लभते नूनं श्रीचक्रस्य प्रभावतः |
कोटिलिङ्गप्रतिष्ठस्य यत्फलं समुदाहृतम् || २९ ||
तत्फलं लभते नूनं श्रीचक्रस्य च पूजनं |
विष्णोः कोटिप्रतिष्ठायाः फलं प्राप्नोति निश्चितं || ३० ||
हिरण्ये रजते ताम्रे मणौ भूर्जे च पट्टके |
अङ्कयित्वा धारयेद्यस्तु कंचे कण्ठे भुजेपि वा || ३१ ||
यानि कानि च पापानि ब्रह्महत्यासमानि च |
मुच्यते सर्वपापेभ्यः श्रीचक्रस्य च धारणात् || ३२ ||
पापानि विलयं यान्ति ज्ञानाज्ञानकृतानि च |
सर्वं संदह्यते शीघ्रं चक्रराजस्य धारणात् || ३३ ||
भूतप्रेतपिशाचैर्वा श्वापदैर्ब्रह्मराक्षसैः |
डाकिनीशाकिनीभिर्वा वीक्षितुं नैव शक्यते || ३४ ||
महाक्रूरग्रहैर्वापि जन्मस्थानस्थितोपि वा |
गोचरे लग्नगे वापि सर्वं शुभग्रहं भवेत् || ३५ ||
अकालमृत्युं हरति सदा सन्निहिता परा |
परा सन्निहिता यत्र किं कुर्वन्त्यन्यदेवता || ३६ ||
श्रीचक्रं धारयित्वा तु यस्तु प्राणान्परित्यजेत् |
कांकटेनानुरीक्षे वा निषिद्धे कश्मलेपि वा || ३७ ||
कृत्वा चान्द्रीयलौल्येन पापानि सुबहून्यपि |
स कैवल्यं लभेन्नूनं न पुनर्जन्मभाग्भवेत् || ३८ ||
प्. २३) यमदूताः पलायन्ते कृत्वा श्रीचक्रधारिणम् |
ब्रह्मज्ञानेन वा मोक्षः काश्यां वा यस्तनुं त्यजेत् || ३९ ||
श्रीचक्रधारणाद्वापि त्रयो मोक्षस्य कारणम् |
सर्वदेवगणास्तत्र सर्वधर्मश्च तत्र वै || ४० ||
गङ्गाद्याः सरितः सर्वे पुष्कराद्या जलाश्रिताः |
पुरुषार्थमनुष्याश्च क्षेत्रानन्दवनादयः || ४१ ||
वाजिमेधादियज्ञस्य फलं त्वविकलं भवेत् |
वामदक्षिणयागेन सुन्दरी द्विविधा स्मृता || ४२ ||
सुन्दरी द्विविधा प्रोक्ता वामदक्षिण सानला |
अचिरेण भवेद्वामः सर्वकामानसंशयः || ४३ ||
दक्षिणाचारयागेन भिक्षूनां परमा स्मृता |
तदन्याचारयोगेन आशु सिद्धिफलं लभेत् || ४४ ||
वेदोक्तैर्दक्षिणाचारैः कैवल्यं केवलं फलम् |
अत एव महादेवि साक्षाद्ब्रह्मस्वरूपिणी || ४५ ||
षोडशार्णा महादेवी वाच्यरूपेण संस्थिता |
तुरीया सा महाविद्या साक्षाज्जाग्रत्स्वरूपिणी || ४६ ||
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि |
वणितुं नैव शक्नोमि श्रीविद्या षोडशाक्षरीम् || ४७ ||
ब्रह्मविद्यास्वरूपा सा भुक्तिमुक्तिफलप्रदा |
एकोच्चारणं देवेशि राजसूयस्य कोटयः || ४८ ||
प्. २४) षोडशार्णा महाविद्या न प्रकाश्या कदाचन |
विना गुरुप्रसादेन श्रीविद्या षोडशाक्षरी || ४९ ||
दृष्ट्वा प्रजपते यस्तु स भक्षो योगिनीगणैः |
श्रीगुरोः कृपया लब्धो न प्रकाश्या कदाचन || ५० ||
विना गुरुप्रसादेन जपेन्नैव कदाचन |
श्रीगुरोः कृपया लब्धा सर्वसौभाग्यदायिनी || ५१ ||
सुधासुरङ्गिनी वेगशब्दचातुर्यदायिनी |
सौभाग्यभागसंपन्ना कलाकुशलदायिनी || ५२ ||
भुवनत्रयसौभायं त्रैलोक्याकर्षणं तथा |
परंब्रह्मणि लीनत्वं ददाति यश उत्तमम् || ५३ ||
षोडशार्णा महाविद्या भुक्तिमुक्तिफलप्रदा |
निःसरन्ति महाविद्या विस्फुलिङ्गा यथा प्रिये || ५४ ||
साक्षात्सच्चिन्मयी नित्या ज्ञानमोक्षप्रदायिनी |
महासंपत्प्रदा विद्या साक्षादक्षररूपिणी || ५५ ||
षोडशार्णा महाविद्या श्रीविद्या कथिता पुरा |
निधीनां रक्षणं कार्यं चौरेभ्यस्तु यथा प्रिये || ५६ ||
प्राणेनापि रक्षणीया श्रीविद्या षोडशाक्षरी |
न देया यस्य कस्यापि देया प्राणप्रदायिनी || ५७ ||
राज्ञराज्यप्रदेयानि प्राणेभ्योऽप्यधिकाय च |
सौवर्णं राजतं ताम्रं श्रेष्ठमध्यमथाधमं || ५८ ||
प्. २५) ताम्रं लक्षगुणं प्रोक्तं रौप्यं कोटिगुणं भवेत् |
सौवर्णानन्तफलदं अथासौ किं ब्रवीमि ते || ५९ ||
बाला सा प्रथमा विद्या ततो वाग्भैरवी स्मृता |
संपत्प्रदा श्रीपदाश्च ततस्त्रिपुरभैरवी || ६० ||
बिन्दुमालिनी चिल्लेखा हृल्लेखा श्रीपराकला |
षट्कूटा नवकूटा च लोपामुद्रा त्रिकूटिका || ६१ ||
पञ्चमी पञ्चकामिन्यविद्या श्रीकामराजकं |
षोडशार्णा महाविद्या सा वै श्री परमा परा || ६२ ||
परायुक्ता च प्रासादः शाम्भवं समुदाहृतः |
अणिमाद्या महासिद्धि अन्तरायप्रकीर्तिताः || ६३ ||
पञ्चसिंहासनदेव्याः महात्रिपुरसुन्दरी |
साक्षाज्जाग्रत्स्वरूपा च वैष्णवी परदेवता || ६४ ||
सर्वस्वरूपिणी नित्या प्रकृति परमेश्वरी |
सर्वजीवस्वरूपा च व्याप्य सर्वत्र संस्थिता || ६५ ||
सिवशक्तिः वयो नास्ति पुमान्नस्त्री नपुंसकः |
सर्वजीवस्वरूपा च आदात्मलिङ्गस्वरूपिणी || ६६ ||
सर्वोत्पत्तिहेतुभूता योनिरित्यभिधीयते |
सिंहासनस्वरूपाया ऊर्ध्वाम्नाय मयोदितम् || ६७ ||
लेशमात्रं महादेवि साक्षाज्जाग्रत्स्वरूपिणी || ६८ ||
|| इति श्री परातन्त्रे श्रीविद्या ऊर्ध्वाम्नायक्रमः पटलः पञ्चमः ||
५ ||
षष्थः पटलः
अधाम्नायं शृणुष्व त्वं सावलिजिनमातृका |
अशेषकर्मनिर्माणा कलौ शीघ्रफलप्रदा || १ ||
बौद्धमार्गे निरातङ्का निरर्गल नलप्रभा |
आत्मायान्तरसाराणि ख्याता सा वज्रयोगिनी || २ ||
त्रिवक्त्रा रक्तवर्णा च नृत्यपादा शवासना |
त्रिनेत्रा मण्डलं व्रीतेहादाभरणभूषिता || ३ ||
मुण्डमालाविभूषाङ्गी व्यालयज्ञोपवीतिनि |
व्याघ्रचर्माम्बरा देवी सिंहचर्मोत्तरीयका || ४ |||
वैरोचनी वज्रपूर्वा वज्रघण्टा वरपिवा |
चतुर्भुजा प्रेतसंस्था बर्बरार्द्धशिरोरुहा || ५ ||
कर्तॄकपालखट्वाङ्गडमरुं च धृता करैः |
सौगतानुगमा साक्षात्कलौ शीघ्रफलप्रदा || ६ ||
इहैव फलदा नित्या नापवर्गफलप्रदा |
सौगतानुगमा सर्वा नानाभेदसमाश्रिता || ७ ||
कालचक्रं सम्वरं च हयग्रीवाख्य भैरवम् |
योगाम्बरं च कालेशं सा बलिसौगमाश्रिताः || ८ ||
|| इति श्रीपरातन्त्रे षडाम्नायभेदे अधाम्नायक्रमः पटलः
षष्ठः || ६ ||
सप्तमः पटलः
श्री देव्युवाच
देवदेव महादेव सर्वज्ञ परमेश्वर |
अत्यद्भुतमहं मन्ये कालीक्रमकुलोद्भवम् || १ ||
मनः संकंपतेतीवलोमहर्षश्च जायते |
कथं सा कालिका देवी शतकोटिप्रभेदतः || २ ||
एतद्भेदत्रयं क्वापि न श्रुतं परमेश्वर |
सर्वं कालिक्रमाश्रित्य स्थिते च भासते मनः || ३ ||
चक्रेश्वरी चक्रभेदं का च सर्वाधिकाश्रिता |
क्रमभेदकुलोद्भेदं कथं पूजाक्रमं प्रभो || ४ ||
तस्यार्चनेन देवेश लभेद्वा कि महाफलम् |
इह चामुत्र किं भुंक्ते साधकः परमेश्वर || ५ ||
कथं काली ह्यनालंबा कालं वा कालघस्मरा |
निर्गुणा निष्कला नित्या निरंशेति त्वयोदिता || ६ ||
कोटिभेदलक्षभेदवक्त्रं यदि न शक्यते |
मुख्यमार्गानुगा देवी नायिकां वद शङ्कर || ७ ||
यस्यार्चने न सकलं कालिकापूजितं भवेत् |
एक एव परा नित्या या देवी चितिरूपिणी || ८ ||
प्. २८) सर्वस्वरूपा सर्वेशी चितिरूपा श्रिता परा |
यस्यामुत्पद्यते विश्वं लीयते स्थीयते पुनः || ९ |
वद देव महेशान नमस्ते शशिशेखर |
तासां चक्रेश्वरी नित्या का रूपा केति संख्यका || १० ||
अमृतस्यैव पानेन यथा तृप्यन्तु देवता |
नायिकां क्रमभेदञ्च श्रुत्वा तृप्यामि पुष्कलः || ११ ||
वद खेदो न ते देव सर्वज्ञ सर्व सर्वदा || १२ ||
श्रीसदाशिव उवाच
ब्रह्माण्डकोटिलक्षाणि भस्म सा कुरुते यसा |
तां कालग्रासरसनां कालसंकर्षिणीं नमः || १३ ||
यस्या क्रीडार्थमखिलं ब्रह्माण्डं कन्दुकायते |
तां कालग्रासनरतां कालसंकर्षिणीं नमः || १४ ||
शृणु देवि प्रवक्ष्यामि यत्त्वया मनुपृच्छते |
एका एव पराशक्तिः बहुभेदप्रकाशिनी || १५ ||
नित्या निरंशा सा देवी ब्रह्मसत्यप्रकाशिनी |
वक्त्रकोटिसहस्रैस्तु जिह्वा कोटिशतैरपि || १६ ||
वर्णितुं नैव शक्नोति शताब्देनापि सुन्दरि |
पञ्चवक्त्रेण जिह्वाभिः पञ्चभिः परमेश्वरि || १७ ||
लक्षकोटिप्रभेदेषु दशमात्रं वदामि ते |
कालिका क्रमभेदेषु या श्रेष्ठा मोक्षदायिनी || १८ ||
प्. २९) तानि ते कथयिष्यामि क्रमपञ्चविनिर्णयम् |
परंब्रह्ममयी नित्या साक्षाज्जाग्रत्स्वरूपिणी || १९ ||
निर्लेपा निर्गुणा नित्या गुणैः संक्रीडते जगत् |
न पुमान्न स्त्रियः साक्षान्न षण्ढः प्राकृतो न च || २० ||
अव्यक्तरूपा परमा जाग्रद्गुणगुणालका |
पृथिवी वायुरापोग्नि खं पञ्चभूतसन्मता || २१ ||
तस्या रूपमिदं सृष्ट्यर्थं सृजते गुणैः |
धारणी परमा देवी धरण्यादिशिवान्तया || २२ ||
पृथुत्वात्पृथिवीत्युत्काततः सर्वं महाह्यभूत् |
सर्वजीवं प्राणयन्ती सर्वत्र चरणक्षमः || २३ ||
सम सर्वत्र प्रत्यायुर्गुणैर्वायोः समार्पितः |
चतुर्विधं जीवनाच्च जगत्स्थावरजङ्गमम् || २४ ||
जलैः समुद्धयत्सर्वं तद्गुणं सा जलोत्थितम् |
दहत्यग्नि जगत्सर्वं स मध्यं मध्यमेव वा || २५ ||
तेजसा प्रज्वलन्नेव तेजा सास्या समाश्रिता |
व्यापकत्वान्महत्वाच्च निरंशत्वाद्गुणाश्रयात् || २६ ||
आकाश ह्यर्पिता देव्याः सर्व संधार्यते गुणाः |
महासौभाग्यजननी महासारस्वतप्रदा || २७ ||
महासौन्दर्य शुभगा महामृत्युविनाशिनी |
ब्रह्मविष्णुसुरेन्द्रादिवन्दितायौघहारिणी || २८ ||
प्. ३०) सर्वतीर्थमयी देवी सर्वधर्ममयी शिवा |
सर्वक्षेत्रमयी पुण्या सर्वकार्यार्थसाधिनी || २९ ||
महाभोगप्रदा शान्ता महामोक्षफलप्रदा |
यस्या प्रभावतो देवी सर्वशुद्ध्यति नान्यथा || ३० ||
वामाचाररता वापि दक्षिणाचारकृद्भवेत् |
निराचारापि साचारा पापो धर्म न विद्यते || ३१ ||
किमाचारविचारेण यदि काल्यार्चने रतः |
विनाचारविचारेण यदि काल्या न दीक्षिता || ३२ ||
निराचारा क्रिया सर्वा साचारा क्रियते य सा |
स्वेच्छात्र भक्षनियमो निराहारसमस्मृतम् || ३३ ||
कालीनामाक्षरपदं जपन्यावानि नश्यते |
महापातककोटीनि लीलयैव विनश्यते || ३४ ||
दह्यते सर्वपापानि तूलराशिमिवानलः |
चक्रोद्धारं प्रवक्ष्यामि शृणुष्वैकमना शिवे || ३५ ||
बिन्दु त्रिकोण पञ्चारनवकोण पुनर्लिखेत् |
अष्टारं चाष्टदलकं दशद्वादशकं तथा || ३६ ||
षोडशं दल संलिख्य मुण्डप्राकार संलिखेत् |
चतुःपञ्चाशकं देवी कवध समुदाहृतम् || ३७ ||
त्रिशूलाग्र मुण्डमाला चतुःपञ्चाशकं प्रिये |
अष्टदिक्षु श्मशानाष्ट विलिखेत्कामदायकम् || ३८ ||
प्. ३१) ज्वलिताग्नोदक् च शवं शृगालोलूकभैरवम् |
काकवेताल चैत्यञ्च लिङ्गं चाष्टश्मशानके || ३९ ||
चिताष्टदिक्षु प्रलिख्य महापातकनाशनम् |
हिरण्यं रजते ताम्रे मणौ वापि च टङ्किते || ४० ||
चन्दनागरु कर्पूरनाभिकाश्मीर सिन्दुरैः |
रक्तचन्दनयुक्तेन हेतुना घृष्टयेत्सुधीः || ४१ ||
भाजने लेपयेत्तेन लिखेद्धेमशलाकया |
ऋजुरेखा सुरेखेन रम्यदृष्टिमनोहरम् || ४२ ||
प्रतिमायां पटे वापि स्थण्डिले पुस्तके हृदि |
खड्गे वापि त्रिशूले वा महापात्रेऽथवा स्त्रियाम् || ४३ ||
एते नवसु वै पूज्या नवयोनिपरा प्रिया |
दिवायां ब्रह्मचर्ये वै मङ्गलायाः प्रपूजयेत् || ४४ ||
रात्रौ यथेच्छया पूज्या कालिका कुलशासिनी |
कूटस्थ प्रकृति स्वाम्बा लीला भुवनपावनी || ४५ ||
वृहद्वृहद्वतिप्रोक्ता रेण्वादपि महामनु |
अरूपायां तु वक्ष्यामि रूपमव्यक्तरूपिणीम् || ४६ ||
विना ध्यानेन वै पूजा सकलाप्यकला स्मृता |
तस्मात्साधक सिद्ध्यर्थं ध्यानयोगं वदामि ते || ४७ ||
पितामहेन देवेन मां समाराध्य प्रार्थितः |
तुष्टेन वै मया प्रादाद्ब्रह्मणे लोकसर्जने || ४८ ||
प्. ३२) ब्रह्मणापि पुलस्त्याय दत्तं कालिकुलक्रमम् |
तेन विश्ववसे प्रादाद्विश्रवा धनदाय च || ४९ ||
ततो लङ्काधिपाः सर्वे वंशाः कालिक्रमानुगाः |
दशास्यं कुम्भकर्णं च विभीषणमहेन्द्रजीत् || ५० ||
हिरण्यकशिपुर्वाणो वलिर्जालन्धरस्तथा |
अम्बरीषोर्द्धमान्धाता नहुषो हैहयादयः || ५१ ||
नारदाद्या मुनिगणो दुर्वासा गाधिनन्दनः |
विरूपाक्षादयः सिद्धा रेमिरे स्वेच्छया मुदा || ५२ ||
तस्या प्रसादलेशेन त्रैलोक्यविजयो भवेत् |
ब्रह्मणा प्रेरितः पश्चाल्लंकेश्वरवधाय च || ५३ ||
विश्वामित्रवसिष्ठाभ्यां राघवाय प्रदत्तवान् |
सूरयूतीरतीर्थे वै दशोनाहृच्छताक्षरी || ५४ ||
त्रिशताक्षरि मन्त्रे वै त्रिलोक्यैश्वर्यदायिनी |
दशवर्णा मया देवी गोपिताः यत्नतः पुरा || ५५ ||
यदि पूर्णा भवे देवि मन्त्रं वै त्रिशताक्षरीम् |
यो जानाति स पुण्यात्मा भैरवोहं न संशयः || ५६ ||
मन्त्रमातेति विख्याता त्रैलोक्यैश्वर्यदायकं |
समस्तमन्त्रजननी सर्वमन्त्रप्रवृंहिणी || ५७ ||
बहुधा वर्णितं मन्त्रमाता सर्वप्रदायिनी |
त्यङ्गिरा महाकाली मोक्षसौख्यप्रदायिनी || ५८ ||
प्. ३३) नानया सदृशी विद्या विद्यते भुवनोदरे |
राज्यदा धनदा मोक्षदातृ कैवल्यदायिनी || ५९ ||
तेनास्तवे च रामेण रावणो विनिपातितः |
आद्या काली क्रमं पञ्च एका सा पञ्चधा गता || ६० ||
काली कुलसमुद्भव पुरस्तनावतारिता |
कुमारी त्रिमुखा काली नवकाक्षरा स्थिता || ६१ ||
आद्या या सृष्टिकाली च द्वितीया स्थितिकालिका |
संहारकालिका उग्रा तृतीया दिव्यरूपिणी || ६२ ||
अनाख्या कालिका देवी चतुर्थयेमाश्रिता |
भाषाकाली पञ्चमी तु अद्वैतभावमास्थिता || ६३ ||
अभिन्नरूपास्ता सर्वा गुह्यकालीतनौ श्रिता |
तथा तनौ तथा पादा शरीरावयवाङ्गेषु || ६४ ||
शरीरावयवा वक्रा बाह्वादीनाशनं दिकाम् |
पञ्चकाली महाग्रासा एका सा भिन्नरूपिणी || ६५ ||
आत्मा वैश्वरभूता या गुह्यकाली प्रकीर्तिता |
तासां ध्यानं प्रवक्ष्यामि शृणु पापतयापहम् || ६६ ||
अथ वक्ष्ये महादेव्या ध्यानयोगमनुत्तमम् |
योगविज्ञानमात्रेण साधकः सिद्धिभाग्भवेत् || ६७ ||
नीलोत्पलदलश्यामा नीलरत्ना विनिर्मिता |
ज्ञानलक्ष्मीच्छटाटोपज्योतिर्मण्डलसंभवा || ६८ ||
प्. ३४) दशवक्त्रा महाकाली सप्तविंशतिलाचना |
अष्टोत्तरशतार्द्धं च भुजादण्डै नरानना || ६९ ||
दीपकं ऊर्द्धकं वक्त्रं चण्डयोगेश्वरी मतम् |
ज्योतिर्मयमहावक्त्रं निर्वाणपददायिनी || ७० ||
तदधः सिंहवदनं श्वेतवर्णं सुभास्वरम् |
फेरुवक्त्रं च तदधः कृष्णं त्रैलोक्यडामरम् || ७१ ||
कपीन्द्रस्य मुखं वामे रक्तवर्णं महोल्वणम् |
कोलवक्त्रं भवेद्दक्षं धूम्रवर्णं भयानकम् || ७२ ||
तार्क्ष्यवक्त्रं च वामञ्च पिंगवर्णसचुञ्चुकम् |
दक्षिणे मकरास्यं च हरिताभं प्रकीर्तितम् || ७३ ||
गजास्यं वामके प्रोक्तं गौरवर्णं महोल्वणम् |
हयास्यं दक्षिणे काल्या श्यामवर्णं विचिन्तयेत् || ७४ ||
सर्वदंष्ट्रा कराला च त्रिनेत्रा भीमनादिनी |
भ्रभङ्गकुटिला भीमा कालास्य श्रीमुखोत्तमा || ७५ ||
पिङ्गलोर्ध्वजटाटोपचन्द्रार्द्धकृतशेखरा |
नानारत्नैश्च घटिका श्वेतकाद्यालिमालिनी || ७६ ||
सप्तविंशतिमुण्डैश्च रक्तविप्लुषसंयुता |
वज्राणि पुष्पसंयुक्तं शिरोमाला प्रकीर्तिताः || ७७ ||
चिद्रत्नवटिका काद्यं खड्गपाशं च शक्तिकम् |
खट्वाङ्गमुण्डधनुषं चक्रं घण्टा च सुस्वनः || ७८ ||
प्. ३५) वालप्रेतञ्च शैलञ्च कङ्कालनकुलं तथा |
सर्पं च कुट्टनीवंशषडम्रं ओविका पुनः || ७९ ||
वह्निपात्रञ्च दण्डञ्च स्रुवमष्टादकेशरी |
वस्त्रमुद्गरडमरुं विभ्रती वाणबाहुभिः || ८० ||
चिद्रत्नवटिकाकर्तृतर्जन्यं कुशदण्डकम् |
रत्नपूर्णं च कलशं त्रिशूलं दुष्टनाशनम् || ८१ ||
पञ्चपशुपता वाणं पद्मद्वीपमनागतम् |
कुन्तञ्च पाणिजातञ्च फणिका तोमरं तथा || ८२ ||
पुष्पमाला डिण्डिमं च गृद्धं स्वस्तिकवर्द्धनी |
कमण्डलुश्रुवाञ्चैव पशुपुष्टिभयापहम् || ८३ ||
नन्द्यावर्तं कुण्डलं च मांसखण्डसुशोभनम् |
वीजपूरफलं शूची विभ्रती दक्षबाहुभिः || ८४ ||
व्याघ्रचर्मपरीधानां कालचर्मोत्तरीयकाम् |
किंकिणीजालशोभाढ्यां वीरघण्टानिनादिनीम् || ८५ ||
नौपुरारावनिर्घोषा घर्घरारावभीषणा |
कनकाङ्गदकेयूरा महास्थिकृतशोभना || ८६ ||
मुण्डमाला गले देव्या आपादान्तविलम्बिनी |
रक्तपद्ममयीमालां शुष्ककाद्यलिकास्तथा || ८७ ||
काञ्चीकट्टारकोपेतां कटि देव्या विराजितां |
ब्रह्मसूत्रोज्वलत्कण्ठाद्योगपट्टोत्तरीयका || ८८ ||
प्. ३६) सौम्याग्रभूषणैर्युक्ता नागराजाद्यलंकृता |
रक्तकुण्डलकर्ण/श्री पञ्चकालासनस्थिता || ८९ ||
शिवासनं तदूर्ध्वं च नीलं नादोर्ध्वलांछनम् |
महार्घरत्नमांसञ्च कृष्णवर्णं चतुर्भुजम् || ९० ||
एकवक्त्रं त्रिनयनं भैरवाभरणान्वितम् |
कर्तृकपालहस्तं च डमरुखट्वाङ्गधारिणम् || ९१ ||
एवं भैरवपीठन्तु देव्या आसनमुत्तमम् |
पञ्चप्रेतं च तदधः ब्रह्माद्याः पञ्चकारणाः || ९२ ||
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः |
पीतश्यामं रक्तधूम्रं श्वेताभावं च कारणाः || ९३ ||
दण्डचक्रशक्तिशूलखट्वाङ्गायुधधारकाः |
तर्जनीमुखनिःक्षिप्ता शिवधस्था त्रिलोचना || ९४ ||
पिङ्गरक्तत्रिगुण्याभिहेतुत्कारणभीषणा |
वज्रदंष्ट्रा नखस्पर्शा पद्मपृष्ठे शिवोत्तमा || ९५ ||
शचीपत्यादिरन्तं च दिगवर्णं सवर्णकम् |
इन्द्रं पीताभवज्रं च वह्निं रक्तं सशक्तिकम् || ९६ ||
यमं कृष्णं च दंडं च धूम्रं नैरृत्यखड्गकम् |
वरुणं पाशशुभ्रास्य वायुः श्यामांकुशध्वजम् || ९७ ||
कुवेरं कुंकुमगदां शुभ्रमीशानशूलकम् |
दिगष्टपतये ज्ञेयमासनं परिकीर्तितम् || ९८ ||
प्. ३७) शुक्लं कृतयुगं ज्ञेयं पीतं त्रेतायुगं स्मृतम् |
द्वापरं चारुणं वर्णं श्यामं चैव कलि स्मृतम् || ९९ ||
ऋग्वेदं शुक्लवर्णं च यजुर्वेदं सुवर्णवत् |
सामं रक्तमिति ख्यातं कृष्णाथर्वणमुच्यते || १०० ||
उपवेदस्तथा वर्णा नवमासनमुच्यते |
सहस्रसूर्यज्वालाग्रमासनं परिकीर्तितम् || १०१ ||
पद्मोपरिस्थिता देवी नृत्यमाना सदोदिता |
अथवा सुख चासीनं सर्वदेवाधियन्त्रिता || १०२ ||
सहस्रसूर्यप्रतिभां दुर्निराक्षा दुरासदाम् |
सर्वदेवाश्रयी नित्या मालिनी जयमङ्गला || १०३ ||
मुक्तहू/कारजिह्वाग्रलालयन्तं विचिंतयेत् |
प्रत्यालीढपदा वापि नृत्यमानापि च स्मरेत् || १०४ ||
सर्वमन्त्रमयी धीरा सर्वलक्ष्मी जयेस्विरा |
एवं ध्याया महाकालीमभीन्न नवयौवना || १०५ ||
भासाक्रमस्य मध्यस्था चक्रेशी परमेश्वरी |
पंचकाली प्रभेदास्तु विशेषं शृणु पार्वति || १०६ ||
नववक्त्रा महाकाली सप्तविंशतिलोचना |
ऊर्ध्वं ज्योतिर्मयं वक्त्रं चण्डयोगेश्वरीभिधाम् || १०७ ||
चिद्रत्नवटिका मुद्रा मूल्यदेव्यास्तु एव सा |
वक्त्रैकरत्नमुद्रां च विहीना पंचकालिका || १०८ ||
प्. ३८) वक्त्रं शस्त्रं भुजं मालामासनानि क्रमाणि च |
भूषणादीनि वर्णानि यथा श्रीगुह्यकालिका || १०९ ||
सृष्टिस्थिती च संहार अनाख्यायां महेश्वरि |
भाषाकाल्या तुल्यरूपा विशेषं स च तान् शृणु || ११० ||
विशेषिका विशेषेण तद्वक्ष्यामि क्रमेण तु |
नीलजीमूतसंकाशा नववक्त्रा महेश्वरी || १११ ||
पूर्वोक्तध्यानराजे तु तुल्या चान्या महेश्वरी |
बद्धपद्मासना देवी पीनोन्नतपयोधरा || ११२ ||
जिह्वाग्रेन वाम दंष्ट्रां दर्शयन्तीं त्रिभङ्गिकाम् |
मदघूर्णितदीर्घाक्षी ध्यानलोचनतत्परा || ११३ ||
चिद्रत्नवतिकाह्यज्या वरदाभयपाणिनी |
तर्जन्यग्रे स्थितं वज्रं मूर्तिं ज्वलनसप्रभाम् || ११४ ||
रश्मिद्वादशसंयुक्तामनाक्षेशीं स्मरेत्सदा |
संहारचक्रमध्यस्थं निर्मांसा कोटरांबिकाम् || ११५ ||
प्रत्यालीढपदा देवी दन्तोष्ठपृष्ठपिडिंका |
लेलिहाना ललज्जिह्वा मुक्तहूंकारराविणी || ११६ ||
वरदानं परीत्यक्षे वित्राणामजकेशरी |
दशशक्तिसमायुक्तां विश्वसंहारकारिणी || ११७ ||
स्थितिक्रमस्य मध्यस्था ईषत्प्रहसितानना |
खर्वा लम्बोदरी देवी राजलीनासनस्थिताम् || ११८ ||
प्. ३९) अजकृष्णो परित्यज्य ब्रह्मकंकालवल्लभाम् |
वादयंती महाकाली स्थितिस्थां षोडशात्मिकाम् || ११९ ||
सृष्टिक्रमस्य मध्यस्थां अट्टहाससमन्विताम् |
ऊर्ध्वा समयद चारुललिता तनुविग्रहा || १२० ||
विहाय ब्रह्मवीणाञ्च विभ्रती चन्द्रभास्करौ |
योनिपंचकमध्यस्थां ध्यायेत्सृष्ट्यैकहेतवे || १२१ ||
अनाख्याचक्रमध्यस्था भासादेवी जगन्मयी |
सर्वा कालीसृता देवी षोडशारे प्रतिष्ठिता || १२२ ||
चन्द्रसूर्योपरिभ्युज्या मञ्जीरद्वयधारिणी |
जगद्भासयते भासाकाली विष्णुसमुद्भवा || १२३ ||
बाला कुमारी या काली सर्वा संसृतरूपिणी |
त्रिमुखाष्टभुजा देवी कपालमालसंयुता || १२४ ||
पिबन्तु रुधिरं दिव्यं कृष्णवर्णा त्रिलोचनम् |
पाशांकुशवज्रशूलं खट्वाङ्गं मुद्गरं तथा || १२५ ||
मृतबालमुंडहस्तं कपालं रक्तपूरितम् |
एवं ध्यात्वा महादेवी नानाभोगफलप्रदा || १२६ ||
एतदेव हि भेदोयं पञ्चकारस्य कारणम् |
ततः समस्तरूपाणि कालिकाक्रमोद्भवा || १२७ ||
विधिवत्पूजयेन्नित्यं विधिलोपं न कारयेत् |
यथा गुरोपतिष्ठन्तु तदेव व्रतमाचरेत् || १२८ ||
प्. ४०) देवतामन्त्ररूपाणि गुरुरेव न संशयः |
शिवे रुष्टे गुरु त्राता गुरु रुष्टे न कश्चन || १२९ ||
गुरुरेव सदा पूज्यो कालिकातुष्टिहेतवे |
अन्धे तमसि संमग्न गुरुरेव परां गतिः || १३० ||
बन्धुपुत्रसहस्रेषु मातुः पितु शतेष्वपि |
एतेभ्यो गौरवत्वाच्च गुरुरित्यभिधीयते || १३१ ||
ब्रह्महत्यादिपापानां निष्कृतिः समुदाहृतम् |
गुरुद्रोहिकृतानां तु निष्कृतिर्नास्ति पार्वति || १३२ ||
गुरोश्च देवतायाश्च द्वैतभावं न कारयेत् |
स्वात्मविक्रियतो वापि गुरुरेव प्रपूजयेत् || १३३ ||
गुरु तुष्टे जगत्तुष्टावित्याज्ञा परमेश्वरी |
न माता न पिता पुत्र त्राता बन्धु सुहृन्नृप || १३४ |||
गुरोर्गुरुतरं देवि न कुर्यात्त्रिभि सर्वथा |
यस्य प्रसादाज्जानीया त्रैलोक्यं सचराचरं || १३५ ||
न तोषितो गुरुर्येन तस्य स्यान्निष्फलक्रिया |
यस्य वक्त्राद्विनिर्याता देवी शब्दमयी परा || १३६ ||
न गुरुं वंचयेच्छिष्यैः प्राणैः कण्ठगतैरपि |
देवता मन्त्रसकलं लघिनं तेन भैरवः || १३७ ||
गुरुदैवतमन्त्राणि मनाग्भेदं न कारयेत् |
भेदेन निरयं याति समूलं विनिहन्ति वै || १३८ ||
प्. ४१) गुरुं संतोषयेद्यत्नैः स्वप्राणेनापि श्रद्धया |
द्वीपकस्यैव वेतालपरिगतिमवाप्नुयात् || १३९ ||
गुरु संतोषितो येन रक्षितं भुवनत्रयम् |
नातः परतरं किञ्चिद्गुरुरत्यधिकं प्रिये || १४० ||
अशरीरा वर्णरूपा ब्रह्माण्डव्यापिनी शिवे |
पिण्डदानादिसंस्कारं यथा पित्रोस्तथा गुरोः || १४१ ||
अकृत्वा नरं याति षष्ठिवर्षशताधिकम् |
शरीरदा पिता देवि ज्ञानदा गुरुरेव च || १४२ ||
गुरोर्गुरुतरं नास्ति संसारे दुःखसागरे |
यस्य वक्त्राद्विनिर्याता वर्णब्रह्ममयं वपुः || १४३ ||
तरयन्नात्र सन्देहो नरकावर्णवतो ध्रुवम् |
अहोहं संप्रवक्ष्यामि सारं सर्वार्थकामदम् || १४४ ||
एकाक्षरी नवाक्षरीञ्च षोडशाक्षरि वारुणि |
चतुःपंचाशवर्णं च शताक्षरी विशेषतः || १४५ ||
द्विशताक्षरी मन्त्रञ्च दशोना त्रिशताक्षरी |
सहस्राक्षरि देवेशि प्राणभूतास्तु कालिका || १४६ ||
मन्त्रोद्धारं
अम्बरं परमं वह्नि आपंच धरणी तथा |
रावणी नाम सा विद्या मोक्षदा भुक्तिदा प्रिये || १४७ ||
एकाक्षरी परा विद्या भोगमोक्षप्रदा स्मृता |
शिवशक्तीसमायोगो भवेदत्र च पार्वति || १४८ ||
प्. ४२) महाकुंडलिनीं देवी महारावणिपूजिता |
वह्निं शिवाक्षरो नां च वरुणम् || १४९ ||
शिखी च मधुहा युक्ता काली प्राणमुदाहृतम् |
ख्फ्रेंमात्मिका लिख्य महाचण्डमनालिखेत् || १५० ||
योगेश्वरीपदं दत्वा विद्येयं सा नवाक्षरी |
षोडशाक्षरि या विद्या प्राणभूताश्च तां शृणु || १५१ ||
यस्योपदेशमात्रेण ब्रह्मभूयाय कल्पते |
त्रिपदं तु समोद्धृत्य महारावं ततो लिखेत् || १५२ ||
निशामाधवसंयुक्तं ज्ञेयं त्रिदशवन्दिते |
सत्यारूढे सास्वतश्च तुष्टिना कवलीकृतम् || १५३ ||
सत्यमत्या समारूढा सूक्ष्मेशकवलीकृता |
ततश्चक्री जाठरं च नारायणसमन्वितम् || १५४ ||
माधवेन समायुक्तो वलानुज पुनर्लिखेत् |
माया चंडी कूर्चरक्षा महाराव पुनर्लिखेत् || १५५ ||
नतिं नियोजयेद्देवि शिरमन्त्रं समुच्चरेत् |
वर्णषोडशमाख्यातं मन्त्रंराजमुदाहृतम् || १५६ ||
पंचपिंडाग्रतो दत्वा महाशब्दशशी भवेत् |
अनादि महामन्त्रं वर्णराजमुदाहृतम् || १५७ ||
शताक्षरं मन्त्रराजं तथा पंचशताक्षरम् |
पंचाक्षरमादिमन्त्रं तथाष्टाक्षरमन्त्रकम् || १५८ ||
प्. ४३) दशोना त्रिशता विद्या महामन्त्र उदाहृतम् |
द्विशतं तु महादेवी नवत्यधिकसुप्रभे || १५९ ||
शिवेष्टहेतो हि पुरा सहस्राक्षरमालिका |
एकेभ्यरतरं देवि कुलाचारक्रमे विधिः || १६० ||
परंब्रह्मस्वरूपं तु नादबिन्दुकलात्मिका |
सकलार्णवमध्यस्था सकलार्णवरूपिणी || १६१ ||
श्रीगुरोः कृपया देवी संप्रदायक्रमागतम् |
लभ्यते यदि भाग्येन कोन्य धन्यतरो भुवि || १६२ ||
मनुष्यवपुराछन्ना सशिरो नात्र संशयः |
वर्णितुं नैव शक्नोमि कालिकाया कुलक्रमम् || १६३ ||
वर्णषोडशकं विद्या राज्यदा प्राणदा स्मृता |
महासौख्यप्रदा शांता सा काली प्राणदायिनी || १६४ ||
वैखरी यान्यभादत्वादशक्ता गुणवर्णने |
ब्रह्मविद्यास्वरूपा सा भुक्तिमुक्तिफलप्रदा || १६५ ||
एकोच्चारेण देवेशि वाजपेयस्य कोटयः |
अश्वमेधसहस्राणि प्रादन्यभुवनस्तथा || १६६ ||
प्रयागे स्नानजं पुण्यं मकरस्थे दिवाकरे |
तस्य शतगुणं प्रोक्तं कालिका विधिनाचरेत् || १६७ ||
प्. ४४) चतुराश्रम्य यत्पुण्यं क्रमेण परिसेवितम् |
यत् पुण्यं वर्णधर्मस्य तत् पुण्यं कालिकार्चनात् || १६८ ||
काश्यादितीर्थयात्रां च सार्द्धकोटित्रयान्वितम् |
तुलनायाति देवेशि सत्यं सत्यं न संशयः || १६९ ||
लक्षजापेन देवेशि किं पुनः सिद्धिभाग्भवेत् |
यस्या सामर्थतो देव्या भुवनानि चतुर्दशम् || १७० ||
अभवत्परमेशानि तेषां कारणरूपिणी |
पुरश्चर्या कृता येन तेषां विद्या फलाङ्गमम् || १७१ ||
अकृत्वा तु पुरश्चर्या न मन्त्रो फलदो भवेत् |
ब्रह्माण्डकोटिजननी महामोक्षप्रदायिनी || १७२ ||
निःसरन्ति महामन्त्रो विस्फुलिङ्गा यथा प्रिया |
अग्रे सकाशाद्बहवो भेदा विद्या प्रकाशिता || १७३ ||
प्रणवा सर्वमुत्पन्ना परब्रह्ममयी तु सा |
मायाहर्तारक्षिता च नान्या तु भवनेश्वरि || १७४ ||
नानाम्नायस्वरूपेण नानारूपेण मायया |
मोहयन्ती जगत्सर्वं पुत्रपौत्रप्रवर्द्धिनीम् || १७५ ||
स्त्रीपुंभावेन सततं ग्रन्थितं कामसूत्रके |
सर्वंत्र व्यापिनी चापि ब्रह्मस्थाननिवासिनी || १७६ ||
प्. ४५) सौभाग्यवन्धग्रहणा विश्वयोनीरितीरितः |
चतुर्वाङ्मयनिष्ठेयं त्रैलोक्यवशकारिणी || १७७ ||
साक्षात्संविन्मयी देवीरूपिणी भोग्यदायिनी |
महासंपत्प्रदा नित्या साक्षादक्षररूपिणी || १७८ ||
षोडशाक्षररूपेण विश्वं व्याप्य व्यवस्थिता |
नवाक्षरी महाविद्या पंच चाष्टाक्षरी तथा || १७९ ||
एकाक्षरी दशार्णा च शतार्णा च सहस्रकम् |
एतेषु मन्त्रवर्गेषु विश्वं व्याप्य व्यवस्थिता || १८० ||
चतुर्वेदेषु यत्सारं तदङ्गेषु च यत्स्मृतम् |
पुराणे स्मृतिसारेषु यस्तु सारतमं महत् || १८१ ||
तत्सर्वेभ्योऽधिकं सारं सारात्सारतरं परम् |
नवनीतं यथा दध्रासारोद्धृतघृतं भवेत् || १८२ ||
तदेवममृतं नाम देवानां प्राणधारणम् |
तथा समस्तशास्त्रेषु वेदे तन्त्रेषु चाज्ञया || १८३ ||
उद्धृत्य सर्वसारेभ्यो ब्रह्मणे प्रतिपादिता |
ब्रह्मणोपि वसिष्ठाय वसिष्ठो राघवाय च || १८४ ||
दत्तं सर्वात्मने तेन ततो मर्त्यावतारिता |
अद्वैतादिविधा कृत्वा मुनिना ज्ञानदृष्टिना || १८५ ||
दर्शेनात्रि शताक्षर्या मन्त्रवीर्या प्रकाशिता |
सौम्यसिद्धिकृतानेन देवी प्रत्यङ्गिराभिधा || १८६ ||
प्. ४६) नारदानुमतेनैव संज्ञा देव्या द्विधा कृता |
निधाननिव चौरेभ्यो रक्षणीयो प्रयत्नतः || १८७ ||
न देया यस्य कस्यापि देया प्राणप्रदायिने |
निर्मलाय प्रशान्ताय प्राणेभ्योपि प्रियाय च || १८८ ||
ज्ञाननिष्ठाय दातव्यं सारमेतन्महेश्वरि || १८९ ||
|| इति श्रीमहाश्रोतशिरश्छेदे करवीरयोगे परातन्त्रे क्रमे
द्वादशसाहस्रिकायां कालिक्रमनिर्णयसूत्रं सप्तम पटलः || ७ ||
अष्टमः पटलः
श्री देव्युवाच
नमो देवाधिदेवाय सर्वज्ञाय महात्मने |
सृष्टिस्थित्यन्तकर्त्रे च सर्वव्यापि नमोस्तु ते || १ ||
जय देव जगन्नाथ किंचिन्प्रष्टुं मम प्रभो |
मनो मे तरलं जातो भया वक्तुं न चात्महे || २ ||
प्रसीद परमेशान संशयं छेत्तुमर्हसि || ३ ||
श्रीसदाशिव उवाच
मा शंकां कुरु देवेशि त्वदन्यो नास्ति मत्प्रिया |
निःशङ्कं स्वेच्छया देवि पृच्छेयं हृदि वाञ्छितम् || ४ ||
यं यं त्वं संशयो देवि तं तं पृच्छ यथेच्छया || ५ ||
श्रीदेव्युवाच
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर |
चिद्रूपिणी परादेवी कालिकात्वं गता यदा || ६ ||
कस्माद्द्वैधगता देव नारदानुमतेन च |
सर्वागमविदः शूरः साधकानां वरो मुनिः || ७ ||
किं भेदं वै चकाराथ शिवष्टनारदो पुरा || ८ ||
प्. ४८) श्रीसदाशिव उवाच
धन्यासि कृतकृत्यासि श्रोतुं जानासि तत्वतः |
एतत्सूक्ष्मानि भेदेन पुनः श्रोतुं मतिस्तव || ९ ||
जाता परमिका बुद्धि नमस्ते परमेश्वरि |
सप्तादशाक्षरी विद्या विद्यायाः परमा कला || १० ||
खंडस्य खंडिनी खंडखंडखंडाण्डखण्डिनी |
खंडचक्रगता काली विद्या सप्तदशाक्षरी || ११ ||
फणीरूपस्य कारस्य अकुला बिन्दुभक्षिणी |
तृधारानुहता लक्ष्मी विद्या सप्तदशी स्मृता || १२ ||
अकुलाकुलमध्यस्था कलास्था अकला कला |
अकला परमानन्दा सिद्धि सप्तदशाक्षरी || १३ ||
रावस्थं रावमध्यस्थं रावरावनियोजिता |
रावलीरावला ज्ञेया महासप्तादशाक्षरी || १४ ||
कान्तगादिच्छान्तजातं महाहल्लोल हूंकृतम् |
रावरालकलाक्रान्तं एताः सप्तदशी कला || १५ ||
अक्षराक्षरयोगेन कालि शब्देन यस्थिता |
योगेश्वरीपदं नास्ति विद्या सप्तदशाक्षरी || १६ ||
हहहाहहललीनी विलीनी हहने हसा |
हाना दानापदैर्लीना विद्या सप्तदशाक्षरी || १७ ||
एवं सप्तदशं वर्णं वर्णीयं परमेश्वरी |
क्रमसर्वातुरं तीव्रं निर्गुणं परमेश्वरीम् || १८ ||
प्. ४९) शतद्वयं तु वर्णेन नवत्यधिककीर्तितम् |
त्रिगुणै रहिता विद्या त्रिखण्डा परिकीर्तिताः || १९ ||
नवषोडशवर्णानां भेदो नात्र च विद्यते |
अनया विद्यया देवी जन्ममृत्यु विहाय च || २० ||
नारदाद्या मुनिश्रेष्ठा योगिनः कपिलादयः |
त्रिलोकविजयी भूत्वा स्वेच्छया विचरन्ति वै || २१ ||
अव्याहतगतिः प्राप्तत्रिकालज्ञो भवस्वता |
शोणिताख्ये पुरे देवि हरिणं करविग्रहम् || २२ ||
नारदेन मुनीन्द्रेण कृष्णाय संप्रदत्तवान् |
हरिणालंभनास्तेषु प्रयोज्य हरमोहितः || २३ ||
वासुदेवोपि पार्थाय रक्षार्थं प्रददौ पुरा |
भृगोपभुक्तपुष्पेन्दु शिवयोग्यं यथा भवेत् || २४ ||
तद्वन्निरक्षरं वस्तु अक्षरैरपि संयुता |
नोद्धारं लेखयेद्देवी साक्षाद्वर्णेश्वरी परा || २५ ||
शापो भवति वै नूनं मन्त्रहानि प्रजायते |
विमुखा भवते काली पापानामाश्रयो भवेत् || २६ ||
कर्णे कर्णे तु देवेशि हृदिस्थ कुरु सर्वदा |
गुरुवक्त्रादिनिष्क्रान्ता श्रोतमार्गे हृदि स्थिता || २७ ||
उदके लिखितं यद्वन्मन्त्रोद्धारं तथा भवेत् |
भोगमोक्षप्रदां विद्यां पुस्तके नैव लेखयेत् || २८ ||
प्. ५०) सम्वत्सरकृतावासे ज्ञात्वा कर्म शुभाशुभम् |
ततो मन्त्रोपदेष्टव्या यद्यात्मशुभमिच्छति || २९ ||
अपरीक्षितशिष्याय यस्तु मन्त्रं प्रयच्छति |
निरये निरतं वासो भविष्यति सुदारुणे || ३० ||
तस्मात्सर्वप्रयत्नेन न प्रकाश्यं कदाचन |
आस्तिकबुद्धि यस्यास्ति तस्मै देवी प्रसीदति || ३१ ||
शङ्का या जायते तानि शङ्काया दुःखभाजनम् |
शङ्काया सिद्धिहानिः स्यान्निर्विकल्पं समाश्रयेत् || ३२ ||
कर्तव्यं चाप्यकर्तव्यं नैव तत्र विचारयेत् |
मयापि वुष्णुना सार्द्धं ब्रह्मणा मुनिभिः सह || ३३ ||
एकपात्रं गृहीत्वा तु निर्विकल्पं यथाश्रिता |
देवगन्धर्वदैत्यादीन्रक्षपन्नगमानवाः || ३४ ||
सप्तधातुभिः संक्लिन्नैर्मलमूत्राश्रवावहैः |
तेषां किं तद्विचारेण निर्विकल्पं समाचरेत् || ३५ ||
सूर्योदये किं तमसि तिष्ठन्ती भुवनादयः |
तथा देव्याः प्रभावेण किमाचार विचारयेत् || ३६ ||
किं बहूक्तेन देवेशि गोपनीयं प्रयत्नतः |
सर्वसिद्धिं महेशानि गोपनीयं प्रयत्नतः || ३७ ||
प्रकटे मृत्युमाप्नोति सिद्धिहानिश्च जायते |
यस्मिन्मन्त्रे यदाचार तत्र धर्मस्तु तादृशः || ३८ ||
प्. ५१) कृतार्थस्तु न जायेत् स्वर्गं वा मोक्षमेव वा |
नाधर्मो नैव पापादि जायते तत्मेव च || ३९ ||
किं च धर्मों महान्वापि पुण्यराशि प्रवर्द्धते |
शक्तौ सर्वसमुत्पन्नं यत्किञ्चिज्जगतीगतम् || ४० ||
तस्माच्छुद्धमशुद्धं वा शक्तिब्रह्मस्वरूपकम् |
सर्ववेदविदो विप्र सदाचारेण सुव्रत || ४१ ||
चाण्डालत्वे परे पापे ह्यात्मा सर्वत्र वेत्तते |
आत्मा ब्रह्म विजानीहि भ्रान्तिज्ञानं परित्यजेत् || ४२ ||
ज्ञानमेव परं तत्वं तस्माज्ज्ञानं समाश्रय |
ज्ञानमार्गेण सकलं विकल्पं परिवर्जयेत् || ४३ ||
सविकल्पो महादोष पापभाक् जायते ध्रुवम् |
शिवशक्तीमयं देहं रजः शुक्रं प्रजायते || ४४ ||
परं ब्रह्मणि संलीनो परा वाच्या परेश्वरि |
नीराज्यमधुमैरेयै द्रव्यभेदा भवन्ति हि || ४५ ||
सर्वज्ञत्व वरारोहे यज्ञदोषो न विद्यते |
अश्वमेधमहायज्ञे वाजिहत्या कथं भवेत् || ४६ ||
जलं क्षीरं घृतं चैव मधुमैरेयमैक्षवम् |
पौष्यं तरुभवं धान्यं संभवं तक्रनिर्मितम् || ४७ ||
सह---रभवं चैव विविधबहुभेदतः |
अज्ञानैः संस्कृतं सद्यो महापातककृद्भवेत् || ४८ ||
प्. ५२) ब्रह्महत्या सुरापान स्वर्णस्तेयादिपातकात् |
पूजनादेव निर्वर्त्य निर्विकल्प समन्त्रवित् || ४९ ||
जलं जलचरं सर्वं घटपूर्णं समानय |
स्थापिते दिनसप्ताहे जलं जीवसमन्वितम् || ५० ||
अनामिषं नास्ति किंचित्सर्वक्षीरादिकं प्रिये |
समवृक्षसमा वह्निस्तथा सुन्दरि तिष्ठति || ५१ ||
सर्वभूतेषु विज्ञानं ज्ञातव्यं देशिकोत्तमैः |
काष्ठादिमथनाद्देवी प्रकटा ब्रह्मरुच्यते || ५२ ||
तत्काष्ठं दह्यते तेन तेन ब्रह्ममयं जगत् |
धर्माधर्मपरित्यागात्सकलोपि परत्र च || ५३ ||
विगतस्त्रीरजं वापि ये चास्ति सकलं प्रिये |
विचारयेत्स्वमूत्रादि भ्रान्तिरेव हि कारणम् || ५४ ||
अन्नं ब्रह्म विजानीयात्तेन यस्य समुद्भवम् |
नानाजीवाश्रयं तत्तु पुरीषं केन दुष्यते || ५५ ||
गोमूत्रं प्राशनं देवि गोमयस्यापि भक्षणम् |
प्रायश्चित्तेषु कथितं ब्रह्महत्यादिमोचने || ५६ ||
मलमूत्रेषु ये भ्रान्ति दोष एव न संशयः |
स्त्रीरजः परमेशानि देहस्तेनैव जायते || ५७ ||
कल्पितं दूषितं तेन प्राप्यते परमं पदम् |
पुरुषस्य तु बीजं तु विन्दुरित्यभिधीयते || ५८ ||
प्. ५३) बिन्दुस्तु परमेशानि कायोयं शिवरूपधृक् |
शिवतत्वेन शास्थादिदूषणं नास्ति वै तदा || ५९ ||
सूतः पवित्रं देहस्य कारणं केन रायुद्यते |
ज्ञानमार्गेण सकलं निर्विकल्पस्य सुन्दरि || ६० ||
विकल्पस्य महेशानि पापभाक् जायते नरः |
मातृगर्भस्य वीर्यन्तु शिशुरेव न संशयः || ६१ ||
निर्विकारतया यस्परस्य नाकुत्सितो भवेत् |
तत्तु दूषणसंयुक्तमन्यत्सर्वशुभं भवेत् || ६२ ||
ब्रह्मानन्दमयं ज्ञानं परं ब्रह्ममयो भवेत् |
तं ज्ञात्वा परमेशानि कथयामि वरानने || ६३ ||
न ब्रह्मणस्तु न ब्रह्मं न क्षत्रं क्षत्रियस्तथा |
वैश्यो न वैश्य शूद्रो न शूद्रस्तु परमेश्वरि || ६४ ||
विचारे परमेशानि पुष्केसौ नैव पुष्कलः |
सर्वेषां तु विजानीहि परमात्मा विनिश्चयात् || ६५ ||
आकाशात्पतितं तोयं निम्नमार्गेन गच्छति |
ग्राममध्यगतं सर्वं विष्टामूत्रादिषूदितम् || ६६ ||
मृतगोस्वाहिमार्जारखराभिरुधिरान्वितम् |
समस्तमपि देवेशि गङ्गायां मिलितं यदा || ६७ ||
गङ्गामृतं तदेवास्ति कालुष्यं नैव तिष्ठति |
मलमूत्रेषु ये दोषा भ्रम एव हि कारणम् || ६८ ||
पवित्रं स्त्रीरजः प्रोक्तं यतो देहे विनिःसृतम् |
रुधिरादिप्रधानेन प्राप्यते परमं पदम् || ६९ ||
प्. ५४) पुरुषस्य तु यद्बीजं बिन्दुरित्यभिधीयते |
सर्वस्य कारणं रेतो तं देह केन निन्द्यते || ७० ||
भगलिङ्गस्य संस्पर्शाद् गर्भादिनिःसृतः पुमान् |
यदा तदा जन्मकाले को न स्याद् गुरुतल्पगः || ७१ ||
पुण्यपापविनिर्मुक्तं ज्ञानमेतच्छृणु प्रिये |
ब्रह्माण्डकोटिजननी एकैवाहैस्वरूपिणी || ७२ ||
भुक्त्वा नानाविधैर्वाहं क्रीडार्थं सकलं जगत् |
कुलालचक्रभेदेन घटाकाशं यथा घटे || ७३ ||
दृश्यते परमेशानि आकाशं व्याप्य तिष्ठति |
घटे भवति भिन्नत्वेनाकाशे भिन्न भावयेत् || ७४ ||
यथा देहगतो जीवो धेहनाशे वरानने |
व्याप्य तिष्ठति सर्वत्र तस्माद्ब्रह्मपदं महत् || ७५ ||
अत एव महेशानि निर्विकल्प सदा भवेत् |
एवं संविन्मये ज्ञानं समता सर्वजन्तुषु || ७६ ||
सर्ववर्णेषु चाभावेत्समता नात्र संशयः |
यथा सूर्यप्रकाशेन समत्वञ्च प्रवर्तते || ७७ ||
दत्तमथापि चान्यस्य तमः संहरते क्षणात् |
शोषयेत्सर्वमूत्रादिचन्दनं नैव कर्दमम् || ७८ ||
अत एव महेशानि सन्ति सर्वमयो भवेत् |
सिद्धिस्तु देवि विज्ञेय श्रीगुरोः कृपया प्रिये || ७९ ||
|| इति श्रीपरातन्त्रे परमार्थनिर्णयोऽष्टमः पटलः || ८ ||
नवमः पटलः
श्रीदेव्युवाच
यथा संसाधये देव प्रयोगादीञ्जगत्पते |
साधकः संविभागेन तथा कथय शङ्कर || १ ||
श्रीसदाशिव उवाच
शृणु देवि प्रवक्ष्यामि यथा संसिद्धिसूचकम् |
येन संसाधयेद्वीरो वीराचारकुलसन्ततेः || २ ||
अकृत्वा तु पुरश्चर्या प्रयोगं कर्तुमिच्छति |
महापातककोटीनां भाजनं स भविष्यति || ३ ||
नातः परतरं देवि कुलमार्गस्य दूषकाः |
तस्मात्सर्वव्ययेनापि प्राणान्तेनापि सर्वदा || ४ ||
कर्मणा मनसा वाचा पुरश्चरणमाचरेत् |
वर्णलक्षजपेन्मन्त्री हविष्यासी जितेन्द्रियः || ५ ||
दिवा च ब्रह्मचर्येण रात्रौ कुर्याद्यथेच्छया |
पूजयेद्विधिना देवी मपञ्चकपुरस्कृतः || ६ ||
साङ्गं सपरिवारं च तत्र न्यूनं न कारयेत् |
दशांशं हवनं कुर्यात् विल्वपत्रैर्घृतप्लुतैः || ७ ||
छागमांसैस्त्रिमध्वक्तैर्देवीसन्तुष्टिहेतवे |
तर्पयेत्सुधया देवी दशांशैर्हवनस्य वै || ८ ||
प्. ५६) तर्पणस्य दशांशेन मार्जनं समुदाहृतम् |
तद्दशांशेन वै कुर्यात्कुमारीभोजनं महत् || ९ ||
कलौ चतुर्गुणं कुर्यात्पुरश्चर्यां तु साधकः |
दीक्षां प्राप्य न कुर्याद्वै पुरश्चर्याविलंबनम् || १० ||
आयुश्चञ्चलतां ज्ञात्वा स्वात्मश्रेयस्तु चिन्तयेत् |
दीक्षां प्राप्य पुरश्चर्यामकृत्वा म्रियते यदि || ११ ||
ब्रह्मभूता भवेन्नूनं शतवर्षमनाश्रये |
तस्मात्सर्वात्मना देवि पुरश्चर्यां समाश्रयेत् || १२ ||
चन्द्रसूर्योपरागे वा पुरश्चरणं कारयेत् |
स्पर्शान्मुक्तिं तु संजप्ये पुरश्चरणमुच्यते || १३ ||
दशांशं सर्वकर्माणि कारयेत्पूर्वयोदितम् |
ततः प्रयोगकर्माणि शृणु वक्षामि सांप्रतम् || १४ ||
वीरदीक्षा न शक्तो य संपूज्य विधिवत्पुरा |
श्मशाने शिवदक्षे वा गृहे वा वाहने स्थिता || १५ ||
दीपादित्रिविधैर्नित्यमभावत्पर्वणी पुनः |
सत्यवाक्धैर्यसंपन्नः कामक्रोधविवर्जितः || १६ ||
शक्तीसहायसंयुक्तो वीरः सहायकोथवा |
सहायद्रव्यहीनाथ भिक्षाशी च निशाशमे || १७ ||
सहस्रैक्यं जपेच्चादौ कायशुद्ध्यर्थहेतवे |
देवी तुष्टा हुनेच्चैव यथापूर्व मयोदितम् || १८ ||
ततो लक्षजपेन्मन्त्री दिवा चाहारवर्जितम् |
भुक्तोर्द्धभावनाऽशक्ते सन्ध्यायां भुक्तमेककाम् || १९ ||
प्. ५७) गायत्र्या तु जपेद्युग्मं न्यस्य चैव षडङ्गकम् |
ततो रात्रौ जपं कुर्याद्यथाशक्त्या क्रमेण तु || २० ||
दशांशेन हुनेत्पश्चान्मन्त्रसंसिद्धिहेतवे |
होमान्ते कन्यकापूजाकृतसिद्धि भवेद्ध्रुवम् || २१ ||
अथवा द्विगुणं जाप्य यावद्वै सप्तवासरम् |
क्रूरादौ चाष्टमे सेकाद्धोमान्ते ग्रहशान्तिकम् || २२ ||
त्रिसंध्यं मध्यरात्रौ च एकद्वित्रिचतुर्दिनम् |
वातादिशेकतो शान्तिहोमाद्रोग प्रमुच्यते || २३ ||
अष्टम्यां वा चतुर्दश्यां समारभ्य हरः शतं |
दशांशहोमतः शेकान्महाशान्ति भवेत् स्फुटम् || २४ ||
जपेत्पञ्चशतं मन्त्री येच्छस्या त्रिशतं हुनेत् |
होमान्ते शेकतः पश्ये पुष्टिं चैव समाप्नुयात् || २५ ||
त्रिशतं त्रिशतं हुत्वा जप्त्वा चैवाष्टमेहनि |
होमान्ते सेकतो जप्त्वा पुष्टिमाप्नोति मानवः || २६ ||
जप्त्वा चैव तु साहस्रं हुनेत्पञ्चशतानि वै |
नागाश्वगाष्टलोकानां पुष्टिमाप्नोति सेकतः || २७ ||
निर्गलाद्गलयत्राणि आत्मनो वा परस्यथ |
त्रिसंध्यां वर्तनाद्वश्या त्रिसप्ताहान्प्रजायते || २८ ||
श्मशानशर्करा गृह्य मन्त्रैरष्टशतं जपेत् |
यत्र यत्र क्षिपेद्गौरी निगदास्फोटनं भवेत् || २९ ||
भूतांकुशस्य दण्डेन त्रिधाभिमंत्रितान्दधान् |
नावाशकटयन्त्राणि संभयेन्मोचयेश्लथात् || ३० ||
प्. ५८) दूर्वातन्तुविषक्षोभं दुःकुलं दुष्टजन्तुषु |
वालुका सप्त जप्त्वा तु महामेघान्तु वारयेत् || ३१ ||
राजिका सप्त जप्त्वा तु ग्रस्तभूतादिभिर्नरः |
ताडये हृदि मुद्रायां कृत्वा स त्यज्यते ध्रुवम् || ३२ ||
कृत्वा चातुर्थकाद्याश्च सप्त जप्त्वा------- नतु |
अभ्यक्षणो निवर्तन्ते चित्रा गुग्गुलधूपतः || ३३ ||
लूर्तागर्दभविस्फोटव्याधयो विविधास्तथा |
सप्त जप्तो दक्ष सेकात्पानाले यद्विनाशयेत् || ३४ ||
एकविंशतिवारैस्तु जलं चैवाभिमंत्रितम् |
स्थावरं जङ्गमं वापि विषपानाद्विनाशयेत् || ३५ ||
पुष्पान्न सिद्धि सिद्धार्थं श्मशानस्य च भस्मकम् |
सप्त मन्त्रा हनेच्छत्रुं स शत्रुं मोहनाय च || ३६ ||
महापात्रे धान्यपुञ्जे मद्यपूर्णघटेषु च |
अक्षच्चं तद्भवेत्तस्य नित्यं पूजारतस्य च || ३७ ||
अर्थकोषे विल्वगतासौ लिख्य पतकं जपेत् |
धनदेन समं द्रव्यं न कदाचिद्विनश्यति || ३८ ||
गजा शाले मुक्तदामे पूजयेन्पंकजान्पलैः |
न कदाचिद्विनश्यन्ति गजा वृद्धिं प्रजायते || ३९ ||
कृत्वा च नवकोष्टामश्वस्थानकदम्बकैः |
स पूज्याश्वा न नश्यन्ती वृद्धिमायान्ति शोभना || ४० ||
सितगुञ्जा च सर्त्पाखां धामव्याघ्रवराटिका |
सप्त जप्त्वा मुखे धार्या अस्त्रभयो न जायते || ४१ ||
प्. ५९) वालानि सर्पखा मन्त्रा शतखेमातसंख्यया |
कण्ठे वद्धा वृद्धि यान्ति आयुषा प्रज्ञया दृढ || ४२ ||
पुष्यार्के श्रीफलं पक्वं सहस्रार्द्धेन मन्त्रितम् |
तज्जलैः संचिता नारी अपुत्रो सूयते सुतः || ४३ ||
अष्टोत्तरशतेनैव पुष्पमालाभिमन्त्रिता |
यस्य संदीयते कण्ठे ये कयुद्धे जयी भवेत् || ४४ ||
अहोरात्रोषितो भूत्वा अनुदिग्यो जपेत्तु यः |
स्वार्थं वाथ परार्थं वा अपमृत्युर्विनश्यति || ४५ ||
पुण्डरीकांशुनावत्स्याको गुह्यं दीप्तसंमुखे |
वर्णजापात्सहस्रेण अञ्जनीयपश्यनिधिम् || ४६ ||
चतुःपथमृदं गृह्य गृहार्द्धे पञ्चविंशति |
जप्त्वा संक्षेपयेन्निद्रां बंधो भवति दुर्भगा || ४७ ||
तिलतण्डुलसिद्धार्थं प्रत्येकं दशमन्त्रितम् |
एकीकृत्य क्षिपेद्यस्तु पदं नाक्रमते रिपुः || ४८ ||
फल्वाणिवंशिकं पञ्चविंशाधिकशताभिधम् |
भूतायां संक्षिपेद्यत्र तत्र रोगी भवेज्जनः || ४९ ||
लीरा चाक्षतसिद्धार्थसभस्मशतमन्त्रितम् |
यत्र यत्र क्षिपेन्मन्त्री तत्रारोग्यं प्रवर्तते || ५० ||
कण्ठमात्रोदके स्थित्वा जपेत्पञ्चशतं यदि |
वरुणेन तथा होम महावृष्टि भवेद्ध्रुवम् || ५१ ||
शतार्द्धन्तु जपेन्मन्त्री शतार्द्धं होमयेत्प्रिये |
वशी कुर्यान्न सन्देहो सप्ताहेन शचीपतिम् || ५२ ||
प्. ६०) जप्त्वा पञ्चशतं मन्त्री शतार्द्धं होमयेत्पुनः |
पुनः पञ्चशतं जप्त्वा सिद्धार्थं चाक्षतं तथा || ५३ ||
मस्तके कण्ठवाहौ वा धृता दीव्यस्य स्तंभनम् |
अपामार्गशतं हुत्वा तत्क्षारं यस्य दीयते || ५४ ||
दुर्भगो जायते सत्यं प्रीतिनाशमवाप्नुयात् |
सिद्धार्थगुग्गुल चैव एकीकृत्य शतत्रयम् || ५५ ||
होमान्ते च महाप्रीतिं विप्रीति सप्रजायतम् |
हैमवीजशताष्टा च होमयेत्सप्तवासरम् || ५६ ||
उन्मत्तो जायते शीघ्रं वभ्रुलं वा घृतान्वितम् |
सप्ताहा च निशारात्रौ जपेच्छ्रद्धासमन्वितः || ५७ ||
दिवा च ब्रह्मचर्येण रात्रौ कुर्याद्यथेच्छया |
कर्पासास्तितुषातैलं युक्तं पञ्चशतं हुनेत् || ५८ ||
एकविंशदिने देवि शक्रस्यापि श्रियं हरेत् |
गुरुशुक्रतृतीयायां पूजा कुंभे शतं जपेत् || ५९ ||
हुत्वा त्रिमधुरं सेकाद्भ्रष्टश्री लभते श्रियम् |
विष्टनप्राकृतिं कृत्वा अंगुष्ठा मस्तकावधि || ६० ||
छित्वा पञ्चशतं हुत्वा स्वकुलं परिनेष्यति |
सिन्दूरमक्षता युक्तं शताष्टपरिमन्त्रितम् || ६१ ||
कृत्वा कन्याकरे दत्वा आविष्टावेष्टकब्रुवेत् |
राजिकाधूमजं क्षारं दशधा चाभिमन्त्रितम् || ६२ ||
प्. ६१) महारोगप्रशमनं स्नानमात्रेण निश्चितम् |
तैलं वाथ घृतं वाथ अष्टधा वाभिमन्त्रितम् || ६३ ||
पानात्नाभिप्रदानाच्च प्रसूते सुखनिद्रया |
शिरस्थाने घटं पूज्य अष्टोत्तरशतं जपेत् || ६४ ||
हिताहितेषु कार्येषु स्वपरै वादयन्भवेत् |
हताम्बर समादाय कृष्णमावर्त्यलक्षकम् || ६५ ||
तथैवादृश्यकः सभ्यक्रीडते वसुधातले |
पञ्चविंशतिसाहस्रं करे कृत्वा यवा जपेत् || ६६ ||
जपान्ते भक्षयेत्प्राज्ञो वागीश्वरसमो भवेत् |
लाक्षार्द्धहोमयेद्वीरः कदम्बकुसुमैर्यदा || ६७ ||
कुण्डादुत्तिष्ठत शीघ्रं वेतालाः सिद्ध्यते तदा |
काकिनी वीरहोमेन तुष्टा भूतपिशाचकाः || ६८ ||
लक्षार्द्धार्द्धेन होमेन नित्यं दद्यान्यलैककाम् |
कन्याहस्तान्तरं गृह्ण लक्षार्द्धन्तु श्मशानके || ६९ ||
जप्त्वा भूतभविष्यञ्च वर्तमानभवन्पतिम् |
नृगोलोचनकौ गृह्य सलाक्षाशतमन्त्रितम् || ७० ||
ललाटे तिलकं कृत्वा यो दध्येत्स वशो भवेत् |
कुंकुमागुरुकर्पूररोचनानिसुमिश्रितैः || ७१ ||
शताभिर्मंत्रितं कृत्वा तिलकं यः करिष्यति |
रणे राजकुले द्यूते विवादे स जयी भवेत् || ७२ ||
प्. ६२) सिद्धार्थकवराश्वेता प्रत्यूषे कलशोदरे |
कृत्वा प्रातश्चतुर्दश्यां संपूज्य मधु संयुज्यते || ७३ ||
मुखे प्रक्षिप्य जप्त्वा तु परवादे जयो भवेत् |
शीवश्रपुंखिकामूलं शताष्टपरिजपितम् || ७४ ||
शिरोवेष्टिक ये वद्धा परवादैर्निवारणम् |
आचाराचारभेदेन तत्र देवि न विद्यते || ७५ ||
निराचारापि साचारा तस्य देव्याः प्रभावतः |
विशेष किं बहूक्तेन सारमेतद्वदाम्यहम् || ७६ ||
नृचर्ममासनं कृत्वा नरपात्रे प्रपूजयेत् |
यथा गुरुमुखोद्दिष्टनिर्विकल्पेन साधयेत् || ७७ ||
लाक्षारसनिभेनैव हेतुना परिपूरितम् |
फलं दत्वा तत्र मध्ये पात्रे हेतुप्रपूरिते || ७८ ||
अष्टम्यां वा चतुर्दश्यां वा विशेषतः |
शिवरात्र्यां तथा पूजा निशायां परिपूजयेत् || ७९ ||
यथा श्रीचक्रपूजां वै तथा सर्वं समाचरेत् |
बिन्दुचक्रे त्रिकोणे तु महापात्रं तु थापयेत् || ८० ||
पञ्चकाल्यां तु पञ्चारे चरुकं पञ्च वै क्रमात् |
नातः परतरं भद्रे कालिकाक्रमपूजने || ८१ ||
भोगी स्वर्गसुखं मोक्षं आज्ञासिद्धिं भवेद्ध्रुवम् |
सत्यं सत्यं महादेवि सममेतद्ब्रवीम्यहम् || ८२ ||
प्. ६३) अन्यथा कुरुते यस्तु हेतुवादकुतर्कतः |
परिश्रमं केवलं तु न संसिद्धिमवाप्नुयात् || ८३ ||
इत्येतत्ते समाख्यातं कालिकायाः कुलक्रमम् |
विधानं परमं दिव्यं शास्त्रैः कालिक्रमागतैः || ८४ ||
गोपनीयं प्रयत्नेन न दद्याद्यस्य कस्यचित् |
गुरुभक्तिरतो यो हि महाशास्त्रमयी तु सा || ८५ ||
रम्यं पुष्पफलं दृष्ट्वा वस्त्रालङ्कारमेव वा |
स्वात्मप्रियानि भव्यानि यत्किंचिद्भुवि दुर्लभम् || ८६ ||
गुरवे प्रथमं दत्वा नतः स्वात्मनि धारयेत् |
गुर्वागमक्रमारीणा पूजकाय प्रदापयेत् || ८७ ||
गुरु संतुष्टमाने तु सन्तुष्टा कालिकाक्रमम् |
येनेदं लिख्यते शास्त्रं यस्य हस्तेषु तिष्ठते || ८८ ||
यत्र स्थितं प्रपूज्यन्ते विधिवत्परमेश्वरीम् |
स निर्विघ्नं तु सण्मासं यावज्जीवति चैव हि || ८९ ||
पुस्तकं पूजितं येन इदं कालिकुलक्रमम् |
समग्रं पूजितं तेन कालिका कालनाशिनी || ९० ||
आब्रह्मस्तम्बसकलं कालेन कलयेत्सदा |
तं कालं कालिकादेवी कलयेत्सा युगे युगे || ९१ ||
न कालीसदृशो यज्ञो न कालीसदृशी तपः |
न कालीसदृशी धर्मो न कालीसदृशी भुवि || ९२ ||
प्. ६४) जीवमुक्त स विज्ञेयो महापाशुपतः स वै |
महायोगी विजानीहि कालिकापथसंश्रिता || ९३ ||
अहं मृत्युञ्जयो देवो मङ्गलाचर तो भवेत् |
कलौ विशेषतः काली पूजितव्या प्रयत्नतः || ९४ ||
देवतासंयुतं विघ्नं वर्जितस्थानकं प्रिये |
यो ज्ञाता भैरवो देव श्रोतो रुद्रसमः भवेत् || ९५ ||
स एकधा च बहुधा साधकानां हिताय च |
नानातन्त्रप्रवाहास्तु नानाम्नायत्वमागताः || ९६ ||
तत्र भेदे नामभेदा एका शक्ती सहस्रधा |
मङ्गला च महामाया चण्ड कापालिनी शिवा || ९७ ||
चामुण्डा चर्चिका चण्डा सृष्टिस्थित्यन्तकालिनी |
अनाख्या च महाभाषा गुह्यकाली जया परा || ९८ ||
सिद्धिलक्ष्मी विश्वलक्ष्मी महाप्रत्यङ्गिरा स्मृता |
सुन्दरी त्रिपुरा चारु उग्रचण्डा प्रकाशिनी || ९९ ||
विभिन्ना बहुधा जाता नानाभेदमाश्रिता |
एका सा बहुरूपा च जानीयाद्दिव्यचक्षुषा || १०० ||
स एव साधकः श्रेष्ठः सिद्धिज्ञानस्य भाजनम् |
स एव साधकाः श्रेष्ठः सिद्धि ज्ञानस्य भाजनम् |
अनुष्ठानरतः सर्वं सिद्धिभागी भवेद्ध्रुवम् || १०१ ||
|| इति श्री श्रोतशिरश्छेदे महाकरवीरयोगे परातन्त्रे नवमो पटलः || ९
||
समाप्त
</poem>
bj7rx9k9na896wymwxubejf8npyl243
415680
415679
2026-04-18T06:59:46Z
Shubha
190
415680
wikitext
text/x-wiki
{{header
| title = परातन्त्रम्
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00062
Uniform title: parātantra
Main title: parātantram
Description:
Notes:
Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski.
Publisher :
Publication year : Pre-1900
Publication city :
Publication country : India
----
परातन्त्रम्
लेफ्टिनेण्ट कर्नल
श्री धन शम्शेर जङ्ग बहादुर राणा
प्रकाशक
चण्डी कार्यालय प्रयाग-६
प्रथम संस्करण संवत् २०१६
श्रीललितात्रिपुरसुन्दर्यै नमः
प्रथमः पटलः
बहुसिद्धिसमाकीर्णे श्मशाने करवीरके ।
तत्र वीरगणाः सर्वे महाहल्लालहु/कृते ।। १ ।।
निवर्तितमहाचक्रे योगे त्रिदशमण्डले ।
महावृन्द महास्फाल रणडाकिनी याचिते ।। २ ।।
ब्राह्म्याद्या मातरश्चाष्टौ क्षेत्रेशभैरवादयः ।
गणेश वटुका सिद्धा मातृचक्रे तु मेलके ।। ३ ।।
श्रीनाथादिगणाः सर्वे वीरनाथावतारिके ।
सिद्धिनाथावकासेन सन्तोषितकुलेश्वरम् ।। ४ ।।
सर्वभूषां परित्यज्य सानन्दोल्लासमानसम् ।
सामरस्यस्थितं देवं पृच्छते कुलसुन्दरी ।। ५ ।।
श्री देव्युवाच
सर्वशास्त्रोदितं ज्ञानं त्वत्प्रसादात् श्रुतं मया ।
यामलाष्टकपूर्वं तु तन्त्रानेकविधानि च ।। ६ ।।
शिरश्छेदश्च बहुधा महामन्थानषट्ककम् ।
मालातन्त्रे च वीत्कारे सागराम्वा महामते ।। ७ ।।
प्. २) चतुर्विंशति वै लक्षाः श्रुता सर्वे तथोदिताः ।
इदानीं संशयो जातस्तवैव वचनात्प्रभो ।। ८ ।।
एका सा परमा शक्तिरद्वितीया परेश्वरि ।
एका शक्तिर्महामाया विश्वंव्याप्यावतिष्ठता ।। ९ ।।
नादिमध्या न वान्तास्तु यया सर्वं प्रवर्तते ।
त्वयोक्ता न द्वितीया सा तन्त्रे कुलमहार्णवे ।। १० ।।
एषा संधार्यते विश्वमेका त्रैलोक्यपूजिता ।
एतदेव वचो ब्राह्मी षडाम्नाय कथं प्रभो ।। ११ ।।
षट्सिंहासनगा प्रोक्ता देव्यः षण्णायिकाः स्मृताः ।
षडाम्नायविभिन्नैव एका स परमा कथम् ।। १२ ।।
अभिन्ना वाथ भिन्ना वा वद देव जगत्पते ।
कथमेका पराशक्तिर्विभिन्ना परमेश्वरी ।। १३ ।।
षट्सिंहासनगा देवि नायिका षट्प्रकीर्तिताः ।
षडाम्नायविभिन्नाश्चेत्किं संज्ञाभेदनामतः ।। १४ ।।
पूर्वसिंहासना देवी याम्यसिंहासनाश्रिता ।
सिंहासनं पश्चिमगा सौम्यसिंहासना परा ।। १५ ।।
सिंहासनमूर्ध्वगता ह्यधः सिंहासनस्थिता ।
षट्सिंहासनसंस्था सा षडाम्नायेतिकीर्तिता ।। १६ ।।
कथं सिंहासनं संज्ञास्थिता ह्याम्नायदेवता ।
तन्त्रे वा यामले वापि चतुर्विंशतिलक्षके ।। १७ ।।
प्. ३) ग्रंथे त्वया सूचिता वै षडाम्नायविशेषतः ।
एका परा विभिन्ना किं षट्सिंहासनमाश्रिता ।। १८ ।।
आद्याशक्तिः परा ह्येका कथं षट्शक्तितां गता ।
या आद्या प्रकृतिः सूक्ष्मा भिन्नरूपेण संस्थिता ।। १९ ।।
बिन्दुमालिनीरूपा सा सर्वथाद्यव्यवस्थिता ।
एतन्मे महतीं शंकां निर्णीतुं परमेश्वर ।। २० ।।
उदये ग्रन्थिसुदृढं सर्वज्ञपरमेश्वर ।
यद्येका परमा शक्तिराद्या प्रकृतीरीश्वरी ।। २१ ।।
किमर्थं कस्य रक्षार्थं षडाम्नायप्रकीर्तिताः ।
त्रैलोक्यरक्षणार्थाय समया पालनाय च ।। २२ ।।
साधकप्रार्थनायैव वदस्व परमेश्वर ।।
श्रीसदाशिव उवाच
अपि प्रियतमे देवि निशामय वदामि ते ।
गुह्याद्गुह्यतमं दिव्यमकथ्यं कथयामि ते ।। २३ ।।
तव स्नेहात्प्रवक्ष्यामि रहस्यं कौलिकान्वयं ।
ओं इति नमस्कृत्य प्रवक्ष्यामि विष्णुमायां जगन्मयीं ।। २४ ।।
नारायणीं महामायां प्रकृतिं विश्वरूपिणीम् ।
एका परापरा शक्तिः प्रकृतिर्विश्वमोहिनी ।। २५ ।।
विश्वसंमोहनात्सा च वैष्णवीति प्रकीर्तिता ।
धारणाद्धात्रिमित्याहः पालनात्परमेश्वरी ।। २६ ।।
प्. ४) त्रैलोक्यमोहनात्माया भावनात्प्रकृति स्मृता ।
विश्वसंधारणात्सा तु वैष्णवीति प्रकीर्तिता ।। २७ ।।
कैवल्यमोक्षदा भूता माया नारायणी स्मृता ।
ईश्वरोपि वशे यस्या सूत्रे बहुशकुन्तवत् ।। २८ ।।
यां विना परमेशोपि शव इत्यभिधीयते ।
जीवितुं नैव शक्नोति विना तां परमेश्वरः ।। २९ ।।
ईशोप्यनीशतां याति प्रकृत्यालोकनं विना ।
दारुष्वेव यथा वह्निर्मथनात्संप्रकाशते ।। ३० ।।
मायासंप्रगृहीतो वै सृष्टिस्थित्यन्तकृद्भवेत् ।
जीवहीनो यथा देहश्चलितुं नैव शक्यते ।। ३१ ।।
शववत्कर्महीनत्वात्समाधिं संस्थितः प्रिये ।
मायाविरहितो यावन्निशाकाले तु गीयते ।। ३२ ।।
शवैव निश्चलो देवो बिन्दुमालिन्यसंग्रहात् ।
मायया कवलीकृत्वा शिव इत्यभिधीयते ।। ३३ ।।
शिवशक्तिसमायोगात्सर्वं जगदिदं भवेत् ।
चितिरूपेण सा माया विश्वं व्याप्य व्यवस्थिता ।। ३४ ।।
अहं सदाशिवो देवः प्रकृतिर्विष्णुरुच्यते ।
उभयोर्मेलनाद्देवि शिवशक्तीति गीयते ।। ३५ ।।
प्रवर्तनाय सर्वेषां संसारचक्रवान्भवेत् ।
त्वं तु देवी विष्णुमाया नारायणजगन्मये ।। ३६ ।।
प्. ५) देवस्यानन्दरूपोहं जाने देव सदाशिवः ।
एवं प्रवर्तये देवि देवौ हरिहरावुभौ ।। ३७ ।।
सृष्टिस्थितिश्च संहारकल्पे कल्पे कथं भवेत् ।
शिवशक्त्यात्मकं विश्वं पश्य दिव्येन चक्षुषा ।। ३८ ।।
न पद्माङ्की न वज्राङ्की न चक्राङ्की यतः प्रजाः ।
लिङ्गाङ्की च भगाङ्की च तेन माहेश्वरी प्रजाः ।। ३९ ।।
यया सृष्टं सृजेद्वेधा साष्टधा पाल्यते हरिः ।
संहर्ता हरते रुद्रः सर्वे तदनुगाः सुराः ।। ४० ।।
एका सा परमा देवी विश्वं व्याप्य व्यवस्थिता ।
चतुर्विंशतितत्वेन ब्रह्माण्डं चेतयन्ति च ।। ४१ ।।
पृथिवी वायुराकाशजलवह्निमयं वपुः ।
धृत्वा संसृज्यते विश्वं कल्पे कल्पे यथेच्छया ।। ४२ ।।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
पञ्चभूतात्मकं चैव शरीरं पञ्चसंकृतम् ।। ४३ ।।
एकीकृत्य तथा पञ्चभूतरूपेण संस्थिताः ।
निर्जीवो जीवरूपेण पञ्चभूतत्वमागतः ।। ४४ ।।
सिंहासनमहाम्नायपञ्चभूतानि सङ्गमः ।
आद्या सा परमा शक्तिर्व्योमस्था कुलरक्षिणी ।। ४५ ।।
ब्रह्माण्डव्यापिनी नित्या परब्रह्मस्वरूपिणी ।
चतुर्विंशतिभिस्तत्वैः सर्वबीजस्वरूपिणी ।। ४६ ।।
प्. ६) ब्रह्मस्वरूपिणी साक्षात्स्त्रीपुंभेदेन भिद्यते ।
लीलया क्रीडते नित्या ललितारूपधारिणी ।। ४७ ।।
अरूपा रूपवान्भूत्वा पुंरूपं धार्यते शिवे ।
कदाचिल्लीलया देवी मायारूपेण क्रीडति ।। ४८ ।।
कदाचिद्धरिरूपेण शिवरूपेण स्वेच्छया ।
ब्रह्मरूपधरा माया ह्येच्छारूपधरा परा ।। ४९ ।।
एषा परापरा देवी प्रकृतिर्विश्वमोहिनी ।
प्रवर्तयति संसारं समया पालनाय च ।। ५० ।।
श्रीनाथक्रमसिध्यर्थं षडाम्नायत्वमागता ।
षट्सिंहासनगा देवी समास कथयामि ते ।। ५१ ।।
पुरानन्दवने देवि निर्जने पशुवर्जिते ।
सदाशिवोहं षट्चक्रसमाधिध्यानमाश्रितः ।। ५२ ।।
त्वं तु कापालिनी भूत्वा मामपृच्छत्षडन्वयम् ।
प्रथमं पूर्ववक्त्रेण रूपं तत्पुरुषेण च ।। ५३ ।।
कथयामास प्राची तु सिंहासनमहोद्गतम् ।
नायिका रुद्रशक्तिर्या शिवं तत्पुरुषं परम् ।। ५४ ।।
पूर्णेश्वरी महोग्रासा पूर्वाम्नाअयप्रकीर्तिता ।
चक्रेश्वर्यां तु वक्ष्यामि साधकानां हिताय वै ।। ५५ ।।
ध्यानं तु चित्तेधिष्ठाय ध्यातव्या परमेश्वरी ।
इन्द्रनीलसमप्रख्यं दशदोर्दण्डधारिणीम् ।। ५६ ।।
प्. ७) वराभयकरं रम्यं सत्रिशूलं कपालकम् ।
डमरुं चाक्षमालां च शक्तीं चैव कराम्बुजे ।। ५७ ।।
इक्षुचापं शरं चैव खड्गहस्तं सुशोभिनीम् ।
महाप्रेतोपरि तत्र चन्द्रसूर्यासनास्थितां ।। ५८ ।।
प्रत्यालीढां त्रिनेत्रां च मुंडमालाविभूषितां ।
वासुकीशङ्खपालौ तौ कर्णभूषणतां गतौ ।। ५९ ।।
अनन्तहारमाला च हाराऽलंकारभूषितां ।
विशालत्रयनेत्रां च चन्द्रार्द्धकृतशेखराम् ।। ६० ।।
एषा पूर्णेश्वरी देवी हाहाराव रवप्रियाम् ।
पूर्णेश्वरीति विख्याता साहंकारा रजोयुता ।। ६१ ।।
गिरौ पूर्णालये पीठे लक्ष्मीवनश्मशानके ।
इन्द्रेणाराधिता नित्या बहुरूपावतारिणी ।। ६२ ।।
पूर्वाम्नायेति विख्याता पूर्वदेवर्षिपूजिता ।
ईश्वरी सर्वविद्यानां महाभाग्यभरावहा ।। ६३ ।।
नानारूपधरा नित्या बहुरूपावतारिणी ।
जया जयंती विजया अजिता नारसिंहिका ।। ६४ ।।
व्याघ्रेश्वरी कराला च राजेशी भुवनेश्वरी ।
रक्तदंता विशालाक्षी कामेशी चण्डमालिनी ।। ६५ ।।
विद्युज्जिह्वा डामरेशी नाटेशी नृत्यनायिका ।
नन्दी चैव महाकालभृंगिणी च कुलालिका ।। ६६ ।।
प्. ८) नवनाटेश्वरी तत्र चतुःपञ्चरसान्विता ।
बहुभेदा देवदेवी भैरवाष्टकमातृकाः ।। ६७ ।।
नाटेश्वरीति विख्याता भैरवी चक्रपालिका ।
क्षेत्रविघ्नेशवटुकयोगिनीमातृकाष्टकाः ।। ६८ ।।
ब्रह्माण्याद्याः प्रपूज्यन्ते कुमारी कामदा सदा ।
नृत्यमाने पुरा देव भैरवा मातृभिर्वृतः ।। ६९ ।।
नृत्यभैरवनामा तु पूर्वचक्रे व्यवस्थिता ।
गणेशक्षेत्रडाकिन्यो गणास्तत्पुरुषाश्रिताः ।। ७० ।।
वाममार्गे समाराध्य न तु दक्षिणतः क्रिया ।
प्लक्षद्वीपे कुशद्वीपे बहुधा च तदन्वगाः ।। ७१ ।।
वश्याकर्षणस्तंभं च सिद्धयस्त्वणिमादयः ।
मरीचिना समाराध्य शक्राय च प्रदत्तवान् ।। ७२ ।।
इत्येष पूर्व चाम्नाय प्राचिसिंहासनस्थिता ।। ७३ ।।
।। इति श्री परातन्त्रे पूर्णेशी पूर्वाम्नायक्रमः पटलः प्रथमः ।। १ ।।
द्वितीयः पटलः
दक्षिणाम्नाय वक्ष्यामि महावीर्या महोल्वणा ।
अघोरभैरवोद्दिष्टा निश्येशी च निरङ्गला ।। १ ।।
निरालम्बेश्वरी नित्या अघोरं तच्छिरं विदुः ।
सिंहासनगता नित्या निशेशी रक्तचर्चिका ।। २ ।।
चैतन्यभैरवी केचिद्रक्तकालीति केचन ।
सुन्दरी कालिका केचिदघोरेश्वरी केचन ।। ३ ।।
ध्यानरूपं तु वक्ष्यामि भैरव्या याम्यदिक्स्थिता ।
नित्या निरंशनिरता निशेशी निर्गुणाश्रया ।। ४ ।।
क्रतुनाराधिता देवि धर्मराजाय वै पुरा ।
सम्प्रदायकरेणैव देवी चैतन्यभैरवी ।। ५ ।।
चतुर्वेदासना देवी महाफेत्कारसंस्थिता ।
प्रज्वलन्ती चितामध्ये दक्षिण्यदक्षदा परा ।। ६ ।।
अलातचक्रवद्यस्या भ्रमन्ति शिरमालिका ।
स्नायुरक्षा कृशाङ्गी च अस्थिचर्मावशेषिता ।। ७ ।।
व्याघ्रचर्मा कटिवृता नरचर्मोत्तरीयका ।
सहस्रादित्यसंकाशा तप्तकाञ्चनसुप्रभा ।। ८ ।।
प्. १०) पञ्चवक्त्रा चातिभीमा त्रिपञ्चनयनैर्युता ।
ईषद्धास्यललज्जिह्वा निम्ननाभिकृशोदरी ।। ९ ।।
विकरालासनस्थाता चक्रवक्त्रासनस्थिता ।
रौद्री भयापहा घोरा चन्द्रार्द्धकृतकेतना ।। १० ।।
वर्बरार्द्धमुक्तकेशी नागराजविराजिता ।
कबन्ध-उष्णीययुता ब्रह्माशीर्षशिखामणिः ।। ११ ।।
सद्यश्छिन्नजगद्रक्तः शिरोमालाविभूषिता ।
भुजाषोडशसंयुक्ता गजकञ्चुककिङ्किणी ।। १२ ।।
पाशांकुशकपालञ्च खट्वाङ्गं मुण्डडिण्डिमं ।
खड्गखेटवाणधनुश्चक्रदण्डकमण्डलुम् ।। १३ ।।
अभयं वरदं चैव तर्जनी विधृता करैः ।
मुदिता सिद्धिमधुना शक्तिभिः परिवारिता ।। १४ ।।
हूंहूंहूंकारनादेन त्रासयन्देवतागणान् ।
ऋग्यजुःसामाथर्वाख्या वेदस्योपरि परि ।। १५ ।।
शवरूपी महादेव हृदयोपरिसंस्थिता ।
निशेशी च महोग्रा च दक्षिणाचारवर्जिता ।। १६ ।।
ज्येष्ठानुज्येष्ठभेदास्ति याम्यसिंहासनाश्रितां ।
तस्याङ्गदेवताः सर्वे बहुभेदा महोल्वणा ।। १७ ।।
जंभिनी स्तंभिनी नारामोहिनी अंधिनी शिवा ।
मृत्युञ्जया चर्चिका च सिंही दक्षिणकालिका ।। १८ ।।
प्. ११) प्रचण्डा उग्रचण्डा च उग्रतारा कपालिनी ।
त्वरिता छिन्नशीर्षा च वगला वाक्प्रदायिनी ।। १९ ।।
नीला सरस्वती भीमा त्रैलोक्यडामरेश्वरी ।
त्रैलोक्यविजया चण्डी रक्तचामुण्डी भैरवी ।। २० ।।
दक्षिणाम्नायदेवेशी नानाभेदविसारिणी ।
ब्रह्माद्याष्टभैरवाष्टक्षेत्रपालाष्टमेव च ।। २१ ।।
स्वक्षेत्रनाथं वटुकं गणेशं योगिनीगणाः ।
एका विभिन्नरूपा सा समयी पालनाय च ।। २२ ।।
अघोरस्य गणाः सर्वे नानापारिषदावृता ।
महाचण्डाट्टसंराव पूरयन्ती दिगन्तराः ।। २३ ।।
वेताला बहुला तत्र डाकिनीगणसंवृताः ।
बाललीलासमापन्ना निशाचरगणावृतः ।। २४ ।।
दण्डपाशोद्यतकराः सर्वसाधकसिद्धिदा ।
शाकपुष्करद्वीपेषु साधकाभेददर्शिनी ।। २५ ।।
चौहारे गह्वरे पीठे योनिमण्डलमार्गगा ।
वामाचाररता पूज्या ह्यणिमाद्यष्टसिद्धिदा ।। २६ ।।
सूत्रीयता मया प्रोक्ता दक्षिणाम्नायसङ्गतम् ।। २७ ।।
।। इति श्रीपरातन्त्रे निशेश्वरी दक्षिणाम्नायो द्वितीयः पटलः ।। २ ।।
तृतीयः पटलः
सिंहासनप्रतीच्यां तु संक्षेपं शृणु पार्वति ।
अनेकशतसाहस्रश्रीनाथेनावतारितम् ।। १ ।।
मन्त्रनानारहस्यञ्च यामलं लक्षसंमितम् ।
स्वनाभिमथनाद्देवि स्वकीयरसना पुरा ।। २ ।।
ब्रह्माण्डं गर्भतस्तस्या जातिदिव्येन योनिना ।
तदारभ्य महेशानि कुजादेवीति विश्रुता ।। ३ ।।
ज्येष्ठबालप्रभेदेन कुब्जिका लोकपूजिता ।
सद्योजातमुखोद्गीता पश्चिमाम्नायदेवता ।। ४ ।।
कुब्जिका जगतामाद्या महासंहाररूपिणी ।
अनन्तदेशिकः सेव्या नित्या शिवसमागता ।। ५ ।।
ज्येष्ठबालप्रभेदेन बहुमार्गप्रवाहिनी ।
द्वात्रिंशताभेदयुक्ता कुब्जिका भैरवाश्रिता ।। ६ ।।
वृषभे संस्थितं देवं खवर्णरूपशोभिनम् ।
एकवक्त्री त्रिनेत्रञ्च मुजाष्टादशधारिणम् ।। ७ ।।
प्. १३) डमरुं परशुं वाणं खड्गमकुंशवज्रकम् ।
शंखं च वेणुवाद्यञ्च वरदाभयदक्षिणे ।। ८ ।।
वामे खट्वाङ्गशूलञ्च धनुः फलकपाशकम् ।
घण्टाकपालवेणुञ्च अभयं भयनाशनम् ।। ९ ।।
पट्टेन बन्धितं जानुवामेरुत्था च कुब्जिका ।
एकवक्त्रा त्रिनेत्रा च अरुणा वर्णवर्णिता ।। १० ।।
द्विभुजा वरदा देवी सिंहस्थाभयदायिनी ।
नागाभरणभूषाङ्गी खण्डेन्दुकृतमस्तका ।। ११ ।।
सर्वलोकेशपाशेन चारुपीनघनस्तनी ।
सर्वाभरणसंशोभा लक्षणैश्च सुशोभिता ।। १२ ।।
एवं ध्याये कुजामाता पश्चिमाम्नायभैरवी ।
तत्रैव बहुभेदास्ति कुब्जिका कुलमार्गगा ।। १३ ।।
विभिन्ना सिद्धिनाथेन श्रीनाथेनावतारिता ।
कुजेशनाथवीरेण कुजाम्नायप्रकाशिता ।। १४ ।।
नवात्मा श्रीशिखानाथ स्वच्छन्दः श्रीललितेश्वरः ।
क्रमेशी च त्रिखण्डा च महत्तारि त्रिखण्डिका ।। १५ ।।
त्रिशुद्धि उग्रचण्डा च चण्डा चण्डकपालिका ।
अन्नपूर्णा कपाली च ज्वालामालिनी कामिनी ।। १६ ।।
प्. १४) ब्राह्म्याद्या मातरगणा असिताङ्गादिभैरवाः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।। १७ ।।
वाराही चैव माहेन्द्री चामुण्डा सप्तमी स्मृताः ।
अष्टमी च महालक्ष्मी एताः सर्वत्र पूजिताः ।। १८ ।।
असिताङ्गो रुरुश्चण्ड क्रोधीशोन्मत्तकस्तथा ।
कपालो भीषणाख्यश्च संहारो चाष्टमस्तथा ।। १९ ।।
षडाम्नायप्रपूज्या वै मातृका सह भैरवी ।
गणेशो वटुकः क्षेत्रयोगिनीसङ्घका स्मृता ।। २० ।।
डाकिनी भूतवेतालचेटिकागणसंवृता ।
डाकिन्यादिमहारावा षड्योगिन्यः प्रकीर्तिताः ।। २१ ।।
डाकिनी राकिनी घोरा लाकिनी काकिनी तथा ।
साकिनी हाकिनी प्रोक्ता याकिण्यः सप्तधारवः ।। २२ ।।
संस्थिता देवताः पूज्या च रुरूपेण भैरवः ।
सद्योजातः साधिता सा कुब्जिका चक्रनायिका ।। २३ ।।
अङ्गिरा साधिता विद्या दक्षाय प्रतिपादिता ।
नहुषाय ततो दत्वा ततो चन्द्रान्वयाय च ।। २४ ।।
पार्थिवानाञ्च सौम्यानां कुलदेवीति कीर्तिताः ।
अनेकसिद्धिदा सर्वक्रियास्तु बहव स्मृताः ।। २५ ।।
प्. १५) दुर्वासाराधिता विद्या निराचालाकलाश्रिता ।
वाममार्गे रता नित्या दक्षिणा फलवर्जिता ।। २६ ।।
मकारपञ्चकैः पूज्यानां यथाफलदा भवेत् ।
शौचाचारनिराचारनिष्कलङ्का निराश्रया ।। २७ ।।
अणिमादिमहासिद्धिसाधनाच्छीघ्र सिद्धिदा ।
मोक्षदा भोगदा देवी कुब्जिका कुलमातृका ।। २८ ।।
बहुधा वर्णिता देवी तवाग्रे श्रीमतादिषु ।
मन्थानभैरवश्चास्ति चतुर्विंशमतेषु च ।। २९ ।।
।। इति श्रीपरातन्त्रे पश्चिमसिंहासनकुब्जिका पटलस्तृतीयः ।। ३ ।।
चतुर्थः पटलः
वामदेवाश्रिताम्नाय कथयामि तवाग्रतः ।
उत्राम्नायमुत्तरं तु कालीकुलसमुद्भवा ।। १ ।।
कोटिकोटिप्रभेदोस्ति कालिका तीव्रनायिका ।
आज्ञासिद्धिप्रदा देवी विष्णुतेजोपवृंहिता ।। २ ।।
नारायणी महाकाली जगद्रक्षणतत्परा ।
कालि काली महाकाली चण्डयोगेश्वरीति च ।। ३ ।।
तिष्ठन् गच्छन्स्मरन्नित्यमुच्यते महतो भयात् ।
आब्रह्मस्था वरान्ता च कालेन कलयन्ति च ।। ४ ।।
तं कालं कलयेत्काली ततः सा कालिका स्मृता ।
अनेकचक्रचक्रेशी नानाभेदा महागमा ।। ५ ।।
शक्यते कालिका देव्या देवा ब्रह्मादयोपि हि ।
तथापि लेशमात्रं तु कुमारीक्रमतः शृणु ।। ६ ।।
नीलवर्णा महाकाली त्रिमुखा नवलोचना ।
पीतं तु दक्षिणं वक्त्रमुत्तरं पावकोपमम् ।। ७ ।।
मण्डलान्वितनेत्रा च अष्ट चाङ्गी तनूधरा ।
पिङ्गलोर्ध्वजटाटोपचन्द्रार्द्धकृतशेखरा ।। ८ ।।
प्. १७) सप्तविंशतिमुण्डैश्च रक्तविप्लुषसंयुताः ।
अस्थिकुंठलगोडाढ्या मौलीकापालमालिनी ।। ९ ।।
किङ्किणी नौपुरा राव वीरघण्टारवोत्तमा ।
शिवा प्रेतसमारूढा मुखशोणितनिर्भरा ।। १० ।।
इन्द्राद्यः ब्रह्मविष्णुश्च रुद्रेश्वरसदाशिवः ।
पीतश्यामरक्तधूम्रश्वेताभा पञ्चकारकाः ।। ११ ।।
वज्रदण्डशक्तिशूलखष्ट्वाङ्गायुधधारकाः ।
तर्जनी मुखनिक्षिप्ता शिवाधस्था त्रिलोचना ।। १२ ।।
बद्धपद्मासना देवी पीनोन्नतपयोधरा ।
वामहस्ते कपालञ्च रक्तपूर्णानि शोभने ।। १३ ।।
धारयन्ती त्रिशूलञ्च सशवं दक्षिणे करे ।
चक्रं च दक्षिणे हस्ते अंकुशमुद्गरं तथा ।। १४ ।।
वामे पाशं च खट्वाङ्गमृतवालञ्च धारिणम् ।
चित्कला कलनातस्थां ज्योतिरूपाश्च केवला ।। १५ ।।
निर्वाणपदातीतां भावातीतामगोचरा ।
अस्मिन्मूर्तौ महादेव्या नववक्त्राणि पूजयेत् ।। १६ ।।
बहूनि भेदरूपाणि कालिकाया महेश्वरी ।
आज्ञासिद्धिप्रदा नित्या कौलमार्गप्रवर्तका ।। १७ ।।
मकाकुलालिकायाता विष्णुः कालित्वया गता ।
यस्या प्रभावमतुलं वर्णितुं नैव शक्यते ।। १८ ।।
प्. १८) दुर्वासा नारदो व्यासवसिष्ठः कौशिकस्तथा ।
त्रिश्चतुः पञ्चसप्ताभादेकाभात्सिद्धिमागता ।। १९ ।।
अणिमाद्या महासिद्धिस्तस्याङ्गसिद्धयः स्मृताः ।
मोक्षदा सिद्धिदा काली निर्वाणेशीश्वरी शिवा ।। २० ।।
कैवल्यमेका सिद्धिः स्यात्महाज्ञानप्रकाशिनी ।
साधका भैरवः साक्षाज्जरामरणवर्जितः ।। २१ ।।
धनदस्य न सा भूति न शक्रस्य प्रजायते ।
या भूति साधकस्यैव भवेत्त्रैलोक्यदुर्लभा ।। २२ ।।
पञ्चवक्त्रक्रमं देवि पञ्चकाल्यानुशासिता ।
गुह्यकाली महादेवी वैष्णवी ब्रह्मरूपिणी ।। २३ ।।
वामदेवाश्रिता सर्वमहाभैरवकोटयः ।
गणेशवटुयोगिन्यः शतकोटिसहस्रका ।। २४ ।।
भूतवेतालडाकिन्यो चेटका राक्षसाः खगाः ।
फेनवा काकगृध्राश्च उलूका गरुडादकाः ।। २५ ।।
शृङ्गाली कङ्कती युगा नानारूपा महाबलाः ।
आम्नायज्ञा वदन्तीह उत्तरं तु निरुत्तरम् ।। २६ ।।
।। इति श्रीपरातन्त्रे उत्तराम्नाय गुह्यकालि पटलश्चतुर्थः ।। ४ ।।
पञ्चमः पटलः
ऊर्ध्वसिंहासनं वक्ष्ये त्रैलोक्यैश्वर्यसूचकम् ।
सर्वचक्रेश्वरी नित्या सर्वाम्नायप्रपूजिता ।। १ ।।
सर्वसिंहासनमयी ईशानासनसंस्थिता ।
परब्रह्मेश्वरी माया देवी नारायणी स्मृता ।। २ ।।
निद्रा बुद्धिः क्षमा क्षांतिः क्षुधा लज्जा स्मृतिर्धृर्तिः ।
प्रज्ञा शांति प्रभा ज्योति तस्या पादांगुलीनखे ।। ३ ।।
यस्या दृग्यानमात्रेण साक्षाल्लक्ष्मीपतिर्भवेत् ।
यस्थार्चाकर्मसुरता यस्या मार्गानुसारिणी ।। ४ ।।
राजराजसमो भूत्वा सुरराजसमोपि वा ।
भुक्त्वा तु विपुलान्भोगान्नन्ते निर्वाणमाप्नुयात् ।। ५ ।।
कदाचिद्योषितो भूत्वा कदाचित्पुरुषो भवेत् ।
विष्णुरूपेण सकलं दुष्टान्सर्वान्विनाशयेत् ।। ६ ।।
जगद्व्याप्तावनीमाया मोहयेत्स सुराऽसुरान् ।
अनूपारूपिणी भूत्वा सुन्दरी कथयामि ते ।। ७ ।।
पद्मरागप्रतीकाशं कुंकुमोदकसन्निभाम् ।
सुभ्रुवां च सुनेत्रा च सुन्दरी चारुहासिनी ।। ८ ।।
प्. २०) कृशमध्य चतुर्बाह्वी खण्डेन्दुकृत शेखराम् ।
त्रिनेत्रा सर्वभूषाङ्गी चारुवेशा मनोरमाम् ।। ९ ।।
पाशांकुशेक्षुचापञ्च पञ्चवाणधनुर्धराम् ।
ब्रह्मविष्णुरुद्र-ईशा पञ्चमण्डपपादुकाम् ।। १० ।।
सदाशिवाख्य पर्यंङ्कसंस्थिता परमेश्वरी ।
पराशक्ती सुन्दरीति त्रिपुरेशीति गीयते ।। ११ ।।
महामोक्षप्रदा देवी परब्रह्मस्वरूपिणी ।
बहुभेदा विशालाक्षा बहुरूपा प्रकाशिनी ।। १२ ।।
कामेश्वरी रुद्रशक्ती पूर्णपीठावतारिणी ।
वज्रेशी वैष्णवी नित्या कामरूपनिवासिता ।। १३ ।।
शक्तीश्वरी भगेशी च जालन्धरे प्रतिष्ठिता ।
ब्रह्मशक्ती समुल्लासपीठमह्वरविग्रहा ।। १४ ।।
उड्यानपीठनिलया परब्रह्मात्मिका शिवा ।
सर्वचक्रेश्वरी सर्वपीठेशी मन्त्रविग्रहा ।। १५ ।।
सर्वमन्त्रेश्वरी सर्वदेवेशि दिव्यविग्रहा ।
षडाम्नायेश्वरी नित्या निरंसा निःपरिग्रहा ।। १६ ।।
नित्या षोडशविद्याया नवचक्रे व्यवस्थिता ।
नवचक्रेश्वरी नित्या नवकोणाग्रतस्थिताः ।। १७ ।।
त्रैलोक्यमोहनं चक्रं सर्वाशापरिपूरकम् ।
सर्वसंक्षोभणं चक्रं सर्वसौभग्यदायकम् ।। १८ ।।
प्. २१) सर्वार्थसाधकं चक्रं सर्वरक्षाकरं परम् ।
सर्वकामप्रदं चक्रं सर्वसिद्धिप्रदायकम् ।। १९ ।।
सर्वानन्दमयं चक्रं नवमं चक्रनायिकाम् ।
सर्वतद्वैन्दवे लीनां तच्छ्रीचक्रमुदारितम् ।। २० ।।
त्रिपुरा त्रिपुरेशी च सुन्दरी पुरवासिनी ।
श्रीर्मालिनी च सिद्धाम्बा महात्रिपुरसुन्दरी [महात्रिपुरभैरवी] ।। २१ ।।
अनेकदेवतावृन्दलीना चक्रेषु संस्थिता ।
वैन्दवो च त्रिकोणे च अन्तरालेऽष्टकोणके ।। २२ ।।
द्विदशारे च मन्वस्रे नागपत्रेषु सर्वतः ।
पत्रषोडशसंख्याते चतुरस्रे गुणस्पृहम् ।। २३ ।।
रेखायुक्तचतुर्द्वारे त्रैलोक्यं तत्र पार्वति ।
हिरण्यरजते ताम्रे मणौ पत्रेथ भूर्जके ।। २४ ।।
कौशेयस्थण्डिले वापि दृष्ट्वा तु प्रणमन्प्रिये ।
सर्वतीर्थेषु सुस्नात सर्वयज्ञेषु दीक्षितः ।। २५ ।।
सर्वदः सर्ववित्साक्षान्महेश्वरसमो भवेत् ।
श्रीचक्रं कारयित्वा तु यो दद्यात्साधकाय च ।। २६ ।।
भूचक्रं तेन दत्तं हि सशैलवनकाननम् ।
स वै महापशुपतः स वै वैष्णवसत्तमः ।। २७ ।।
सर्वदः सर्वदर्शी च ब्रह्मज्ञानी स वै सुधीः ।
महादानानि ये प्रोक्ताः मुनिभिः ब्रह्मवादिभिः ।। २८ ।।
प्. २२) तत्फलं लभते नूनं श्रीचक्रस्य प्रभावतः ।
कोटिलिङ्गप्रतिष्ठस्य यत्फलं समुदाहृतम् ।। २९ ।।
तत्फलं लभते नूनं श्रीचक्रस्य च पूजनं ।
विष्णोः कोटिप्रतिष्ठायाः फलं प्राप्नोति निश्चितं ।। ३० ।।
हिरण्ये रजते ताम्रे मणौ भूर्जे च पट्टके ।
अङ्कयित्वा धारयेद्यस्तु कंचे कण्ठे भुजेपि वा ।। ३१ ।।
यानि कानि च पापानि ब्रह्महत्यासमानि च ।
मुच्यते सर्वपापेभ्यः श्रीचक्रस्य च धारणात् ।। ३२ ।।
पापानि विलयं यान्ति ज्ञानाज्ञानकृतानि च ।
सर्वं संदह्यते शीघ्रं चक्रराजस्य धारणात् ।। ३३ ।।
भूतप्रेतपिशाचैर्वा श्वापदैर्ब्रह्मराक्षसैः ।
डाकिनीशाकिनीभिर्वा वीक्षितुं नैव शक्यते ।। ३४ ।।
महाक्रूरग्रहैर्वापि जन्मस्थानस्थितोपि वा ।
गोचरे लग्नगे वापि सर्वं शुभग्रहं भवेत् ।। ३५ ।।
अकालमृत्युं हरति सदा सन्निहिता परा ।
परा सन्निहिता यत्र किं कुर्वन्त्यन्यदेवता ।। ३६ ।।
श्रीचक्रं धारयित्वा तु यस्तु प्राणान्परित्यजेत् ।
कांकटेनानुरीक्षे वा निषिद्धे कश्मलेपि वा ।। ३७ ।।
कृत्वा चान्द्रीयलौल्येन पापानि सुबहून्यपि ।
स कैवल्यं लभेन्नूनं न पुनर्जन्मभाग्भवेत् ।। ३८ ।।
प्. २३) यमदूताः पलायन्ते कृत्वा श्रीचक्रधारिणम् ।
ब्रह्मज्ञानेन वा मोक्षः काश्यां वा यस्तनुं त्यजेत् ।। ३९ ।।
श्रीचक्रधारणाद्वापि त्रयो मोक्षस्य कारणम् ।
सर्वदेवगणास्तत्र सर्वधर्मश्च तत्र वै ।। ४० ।।
गङ्गाद्याः सरितः सर्वे पुष्कराद्या जलाश्रिताः ।
पुरुषार्थमनुष्याश्च क्षेत्रानन्दवनादयः ।। ४१ ।।
वाजिमेधादियज्ञस्य फलं त्वविकलं भवेत् ।
वामदक्षिणयागेन सुन्दरी द्विविधा स्मृता ।। ४२ ।।
सुन्दरी द्विविधा प्रोक्ता वामदक्षिण सानला ।
अचिरेण भवेद्वामः सर्वकामानसंशयः ।। ४३ ।।
दक्षिणाचारयागेन भिक्षूनां परमा स्मृता ।
तदन्याचारयोगेन आशु सिद्धिफलं लभेत् ।। ४४ ।।
वेदोक्तैर्दक्षिणाचारैः कैवल्यं केवलं फलम् ।
अत एव महादेवि साक्षाद्ब्रह्मस्वरूपिणी ।। ४५ ।।
षोडशार्णा महादेवी वाच्यरूपेण संस्थिता ।
तुरीया सा महाविद्या साक्षाज्जाग्रत्स्वरूपिणी ।। ४६ ।।
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ।
वणितुं नैव शक्नोमि श्रीविद्या षोडशाक्षरीम् ।। ४७ ।।
ब्रह्मविद्यास्वरूपा सा भुक्तिमुक्तिफलप्रदा ।
एकोच्चारणं देवेशि राजसूयस्य कोटयः ।। ४८ ।।
प्. २४) षोडशार्णा महाविद्या न प्रकाश्या कदाचन ।
विना गुरुप्रसादेन श्रीविद्या षोडशाक्षरी ।। ४९ ।।
दृष्ट्वा प्रजपते यस्तु स भक्षो योगिनीगणैः ।
श्रीगुरोः कृपया लब्धो न प्रकाश्या कदाचन ।। ५० ।।
विना गुरुप्रसादेन जपेन्नैव कदाचन ।
श्रीगुरोः कृपया लब्धा सर्वसौभाग्यदायिनी ।। ५१ ।।
सुधासुरङ्गिनी वेगशब्दचातुर्यदायिनी ।
सौभाग्यभागसंपन्ना कलाकुशलदायिनी ।। ५२ ।।
भुवनत्रयसौभायं त्रैलोक्याकर्षणं तथा ।
परंब्रह्मणि लीनत्वं ददाति यश उत्तमम् ।। ५३ ।।
षोडशार्णा महाविद्या भुक्तिमुक्तिफलप्रदा ।
निःसरन्ति महाविद्या विस्फुलिङ्गा यथा प्रिये ।। ५४ ।।
साक्षात्सच्चिन्मयी नित्या ज्ञानमोक्षप्रदायिनी ।
महासंपत्प्रदा विद्या साक्षादक्षररूपिणी ।। ५५ ।।
षोडशार्णा महाविद्या श्रीविद्या कथिता पुरा ।
निधीनां रक्षणं कार्यं चौरेभ्यस्तु यथा प्रिये ।। ५६ ।।
प्राणेनापि रक्षणीया श्रीविद्या षोडशाक्षरी ।
न देया यस्य कस्यापि देया प्राणप्रदायिनी ।। ५७ ।।
राज्ञराज्यप्रदेयानि प्राणेभ्योऽप्यधिकाय च ।
सौवर्णं राजतं ताम्रं श्रेष्ठमध्यमथाधमं ।। ५८ ।।
प्. २५) ताम्रं लक्षगुणं प्रोक्तं रौप्यं कोटिगुणं भवेत् ।
सौवर्णानन्तफलदं अथासौ किं ब्रवीमि ते ।। ५९ ।।
बाला सा प्रथमा विद्या ततो वाग्भैरवी स्मृता ।
संपत्प्रदा श्रीपदाश्च ततस्त्रिपुरभैरवी ।। ६० ।।
बिन्दुमालिनी चिल्लेखा हृल्लेखा श्रीपराकला ।
षट्कूटा नवकूटा च लोपामुद्रा त्रिकूटिका ।। ६१ ।।
पञ्चमी पञ्चकामिन्यविद्या श्रीकामराजकं ।
षोडशार्णा महाविद्या सा वै श्री परमा परा ।। ६२ ।।
परायुक्ता च प्रासादः शाम्भवं समुदाहृतः ।
अणिमाद्या महासिद्धि अन्तरायप्रकीर्तिताः ।। ६३ ।।
पञ्चसिंहासनदेव्याः महात्रिपुरसुन्दरी ।
साक्षाज्जाग्रत्स्वरूपा च वैष्णवी परदेवता ।। ६४ ।।
सर्वस्वरूपिणी नित्या प्रकृति परमेश्वरी ।
सर्वजीवस्वरूपा च व्याप्य सर्वत्र संस्थिता ।। ६५ ।।
सिवशक्तिः वयो नास्ति पुमान्नस्त्री नपुंसकः ।
सर्वजीवस्वरूपा च आदात्मलिङ्गस्वरूपिणी ।। ६६ ।।
सर्वोत्पत्तिहेतुभूता योनिरित्यभिधीयते ।
सिंहासनस्वरूपाया ऊर्ध्वाम्नाय मयोदितम् ।। ६७ ।।
लेशमात्रं महादेवि साक्षाज्जाग्रत्स्वरूपिणी ।। ६८ ।।
।। इति श्री परातन्त्रे श्रीविद्या ऊर्ध्वाम्नायक्रमः पटलः पञ्चमः ।।
५ ।।
षष्थः पटलः
अधाम्नायं शृणुष्व त्वं सावलिजिनमातृका ।
अशेषकर्मनिर्माणा कलौ शीघ्रफलप्रदा ।। १ ।।
बौद्धमार्गे निरातङ्का निरर्गल नलप्रभा ।
आत्मायान्तरसाराणि ख्याता सा वज्रयोगिनी ।। २ ।।
त्रिवक्त्रा रक्तवर्णा च नृत्यपादा शवासना ।
त्रिनेत्रा मण्डलं व्रीतेहादाभरणभूषिता ।। ३ ।।
मुण्डमालाविभूषाङ्गी व्यालयज्ञोपवीतिनि ।
व्याघ्रचर्माम्बरा देवी सिंहचर्मोत्तरीयका ।। ४ ।।।
वैरोचनी वज्रपूर्वा वज्रघण्टा वरपिवा ।
चतुर्भुजा प्रेतसंस्था बर्बरार्द्धशिरोरुहा ।। ५ ।।
कर्तॄकपालखट्वाङ्गडमरुं च धृता करैः ।
सौगतानुगमा साक्षात्कलौ शीघ्रफलप्रदा ।। ६ ।।
इहैव फलदा नित्या नापवर्गफलप्रदा ।
सौगतानुगमा सर्वा नानाभेदसमाश्रिता ।। ७ ।।
कालचक्रं सम्वरं च हयग्रीवाख्य भैरवम् ।
योगाम्बरं च कालेशं सा बलिसौगमाश्रिताः ।। ८ ।।
।। इति श्रीपरातन्त्रे षडाम्नायभेदे अधाम्नायक्रमः पटलः
षष्ठः ।। ६ ।।
सप्तमः पटलः
श्री देव्युवाच
देवदेव महादेव सर्वज्ञ परमेश्वर ।
अत्यद्भुतमहं मन्ये कालीक्रमकुलोद्भवम् ।। १ ।।
मनः संकंपतेतीवलोमहर्षश्च जायते ।
कथं सा कालिका देवी शतकोटिप्रभेदतः ।। २ ।।
एतद्भेदत्रयं क्वापि न श्रुतं परमेश्वर ।
सर्वं कालिक्रमाश्रित्य स्थिते च भासते मनः ।। ३ ।।
चक्रेश्वरी चक्रभेदं का च सर्वाधिकाश्रिता ।
क्रमभेदकुलोद्भेदं कथं पूजाक्रमं प्रभो ।। ४ ।।
तस्यार्चनेन देवेश लभेद्वा कि महाफलम् ।
इह चामुत्र किं भुंक्ते साधकः परमेश्वर ।। ५ ।।
कथं काली ह्यनालंबा कालं वा कालघस्मरा ।
निर्गुणा निष्कला नित्या निरंशेति त्वयोदिता ।। ६ ।।
कोटिभेदलक्षभेदवक्त्रं यदि न शक्यते ।
मुख्यमार्गानुगा देवी नायिकां वद शङ्कर ।। ७ ।।
यस्यार्चने न सकलं कालिकापूजितं भवेत् ।
एक एव परा नित्या या देवी चितिरूपिणी ।। ८ ।।
प्. २८) सर्वस्वरूपा सर्वेशी चितिरूपा श्रिता परा ।
यस्यामुत्पद्यते विश्वं लीयते स्थीयते पुनः ।। ९ ।
वद देव महेशान नमस्ते शशिशेखर ।
तासां चक्रेश्वरी नित्या का रूपा केति संख्यका ।। १० ।।
अमृतस्यैव पानेन यथा तृप्यन्तु देवता ।
नायिकां क्रमभेदञ्च श्रुत्वा तृप्यामि पुष्कलः ।। ११ ।।
वद खेदो न ते देव सर्वज्ञ सर्व सर्वदा ।। १२ ।।
श्रीसदाशिव उवाच
ब्रह्माण्डकोटिलक्षाणि भस्म सा कुरुते यसा ।
तां कालग्रासरसनां कालसंकर्षिणीं नमः ।। १३ ।।
यस्या क्रीडार्थमखिलं ब्रह्माण्डं कन्दुकायते ।
तां कालग्रासनरतां कालसंकर्षिणीं नमः ।। १४ ।।
शृणु देवि प्रवक्ष्यामि यत्त्वया मनुपृच्छते ।
एका एव पराशक्तिः बहुभेदप्रकाशिनी ।। १५ ।।
नित्या निरंशा सा देवी ब्रह्मसत्यप्रकाशिनी ।
वक्त्रकोटिसहस्रैस्तु जिह्वा कोटिशतैरपि ।। १६ ।।
वर्णितुं नैव शक्नोति शताब्देनापि सुन्दरि ।
पञ्चवक्त्रेण जिह्वाभिः पञ्चभिः परमेश्वरि ।। १७ ।।
लक्षकोटिप्रभेदेषु दशमात्रं वदामि ते ।
कालिका क्रमभेदेषु या श्रेष्ठा मोक्षदायिनी ।। १८ ।।
प्. २९) तानि ते कथयिष्यामि क्रमपञ्चविनिर्णयम् ।
परंब्रह्ममयी नित्या साक्षाज्जाग्रत्स्वरूपिणी ।। १९ ।।
निर्लेपा निर्गुणा नित्या गुणैः संक्रीडते जगत् ।
न पुमान्न स्त्रियः साक्षान्न षण्ढः प्राकृतो न च ।। २० ।।
अव्यक्तरूपा परमा जाग्रद्गुणगुणालका ।
पृथिवी वायुरापोग्नि खं पञ्चभूतसन्मता ।। २१ ।।
तस्या रूपमिदं सृष्ट्यर्थं सृजते गुणैः ।
धारणी परमा देवी धरण्यादिशिवान्तया ।। २२ ।।
पृथुत्वात्पृथिवीत्युत्काततः सर्वं महाह्यभूत् ।
सर्वजीवं प्राणयन्ती सर्वत्र चरणक्षमः ।। २३ ।।
सम सर्वत्र प्रत्यायुर्गुणैर्वायोः समार्पितः ।
चतुर्विधं जीवनाच्च जगत्स्थावरजङ्गमम् ।। २४ ।।
जलैः समुद्धयत्सर्वं तद्गुणं सा जलोत्थितम् ।
दहत्यग्नि जगत्सर्वं स मध्यं मध्यमेव वा ।। २५ ।।
तेजसा प्रज्वलन्नेव तेजा सास्या समाश्रिता ।
व्यापकत्वान्महत्वाच्च निरंशत्वाद्गुणाश्रयात् ।। २६ ।।
आकाश ह्यर्पिता देव्याः सर्व संधार्यते गुणाः ।
महासौभाग्यजननी महासारस्वतप्रदा ।। २७ ।।
महासौन्दर्य शुभगा महामृत्युविनाशिनी ।
ब्रह्मविष्णुसुरेन्द्रादिवन्दितायौघहारिणी ।। २८ ।।
प्. ३०) सर्वतीर्थमयी देवी सर्वधर्ममयी शिवा ।
सर्वक्षेत्रमयी पुण्या सर्वकार्यार्थसाधिनी ।। २९ ।।
महाभोगप्रदा शान्ता महामोक्षफलप्रदा ।
यस्या प्रभावतो देवी सर्वशुद्ध्यति नान्यथा ।। ३० ।।
वामाचाररता वापि दक्षिणाचारकृद्भवेत् ।
निराचारापि साचारा पापो धर्म न विद्यते ।। ३१ ।।
किमाचारविचारेण यदि काल्यार्चने रतः ।
विनाचारविचारेण यदि काल्या न दीक्षिता ।। ३२ ।।
निराचारा क्रिया सर्वा साचारा क्रियते य सा ।
स्वेच्छात्र भक्षनियमो निराहारसमस्मृतम् ।। ३३ ।।
कालीनामाक्षरपदं जपन्यावानि नश्यते ।
महापातककोटीनि लीलयैव विनश्यते ।। ३४ ।।
दह्यते सर्वपापानि तूलराशिमिवानलः ।
चक्रोद्धारं प्रवक्ष्यामि शृणुष्वैकमना शिवे ।। ३५ ।।
बिन्दु त्रिकोण पञ्चारनवकोण पुनर्लिखेत् ।
अष्टारं चाष्टदलकं दशद्वादशकं तथा ।। ३६ ।।
षोडशं दल संलिख्य मुण्डप्राकार संलिखेत् ।
चतुःपञ्चाशकं देवी कवध समुदाहृतम् ।। ३७ ।।
त्रिशूलाग्र मुण्डमाला चतुःपञ्चाशकं प्रिये ।
अष्टदिक्षु श्मशानाष्ट विलिखेत्कामदायकम् ।। ३८ ।।
प्. ३१) ज्वलिताग्नोदक् च शवं शृगालोलूकभैरवम् ।
काकवेताल चैत्यञ्च लिङ्गं चाष्टश्मशानके ।। ३९ ।।
चिताष्टदिक्षु प्रलिख्य महापातकनाशनम् ।
हिरण्यं रजते ताम्रे मणौ वापि च टङ्किते ।। ४० ।।
चन्दनागरु कर्पूरनाभिकाश्मीर सिन्दुरैः ।
रक्तचन्दनयुक्तेन हेतुना घृष्टयेत्सुधीः ।। ४१ ।।
भाजने लेपयेत्तेन लिखेद्धेमशलाकया ।
ऋजुरेखा सुरेखेन रम्यदृष्टिमनोहरम् ।। ४२ ।।
प्रतिमायां पटे वापि स्थण्डिले पुस्तके हृदि ।
खड्गे वापि त्रिशूले वा महापात्रेऽथवा स्त्रियाम् ।। ४३ ।।
एते नवसु वै पूज्या नवयोनिपरा प्रिया ।
दिवायां ब्रह्मचर्ये वै मङ्गलायाः प्रपूजयेत् ।। ४४ ।।
रात्रौ यथेच्छया पूज्या कालिका कुलशासिनी ।
कूटस्थ प्रकृति स्वाम्बा लीला भुवनपावनी ।। ४५ ।।
वृहद्वृहद्वतिप्रोक्ता रेण्वादपि महामनु ।
अरूपायां तु वक्ष्यामि रूपमव्यक्तरूपिणीम् ।। ४६ ।।
विना ध्यानेन वै पूजा सकलाप्यकला स्मृता ।
तस्मात्साधक सिद्ध्यर्थं ध्यानयोगं वदामि ते ।। ४७ ।।
पितामहेन देवेन मां समाराध्य प्रार्थितः ।
तुष्टेन वै मया प्रादाद्ब्रह्मणे लोकसर्जने ।। ४८ ।।
प्. ३२) ब्रह्मणापि पुलस्त्याय दत्तं कालिकुलक्रमम् ।
तेन विश्ववसे प्रादाद्विश्रवा धनदाय च ।। ४९ ।।
ततो लङ्काधिपाः सर्वे वंशाः कालिक्रमानुगाः ।
दशास्यं कुम्भकर्णं च विभीषणमहेन्द्रजीत् ।। ५० ।।
हिरण्यकशिपुर्वाणो वलिर्जालन्धरस्तथा ।
अम्बरीषोर्द्धमान्धाता नहुषो हैहयादयः ।। ५१ ।।
नारदाद्या मुनिगणो दुर्वासा गाधिनन्दनः ।
विरूपाक्षादयः सिद्धा रेमिरे स्वेच्छया मुदा ।। ५२ ।।
तस्या प्रसादलेशेन त्रैलोक्यविजयो भवेत् ।
ब्रह्मणा प्रेरितः पश्चाल्लंकेश्वरवधाय च ।। ५३ ।।
विश्वामित्रवसिष्ठाभ्यां राघवाय प्रदत्तवान् ।
सूरयूतीरतीर्थे वै दशोनाहृच्छताक्षरी ।। ५४ ।।
त्रिशताक्षरि मन्त्रे वै त्रिलोक्यैश्वर्यदायिनी ।
दशवर्णा मया देवी गोपिताः यत्नतः पुरा ।। ५५ ।।
यदि पूर्णा भवे देवि मन्त्रं वै त्रिशताक्षरीम् ।
यो जानाति स पुण्यात्मा भैरवोहं न संशयः ।। ५६ ।।
मन्त्रमातेति विख्याता त्रैलोक्यैश्वर्यदायकं ।
समस्तमन्त्रजननी सर्वमन्त्रप्रवृंहिणी ।। ५७ ।।
बहुधा वर्णितं मन्त्रमाता सर्वप्रदायिनी ।
त्यङ्गिरा महाकाली मोक्षसौख्यप्रदायिनी ।। ५८ ।।
प्. ३३) नानया सदृशी विद्या विद्यते भुवनोदरे ।
राज्यदा धनदा मोक्षदातृ कैवल्यदायिनी ।। ५९ ।।
तेनास्तवे च रामेण रावणो विनिपातितः ।
आद्या काली क्रमं पञ्च एका सा पञ्चधा गता ।। ६० ।।
काली कुलसमुद्भव पुरस्तनावतारिता ।
कुमारी त्रिमुखा काली नवकाक्षरा स्थिता ।। ६१ ।।
आद्या या सृष्टिकाली च द्वितीया स्थितिकालिका ।
संहारकालिका उग्रा तृतीया दिव्यरूपिणी ।। ६२ ।।
अनाख्या कालिका देवी चतुर्थयेमाश्रिता ।
भाषाकाली पञ्चमी तु अद्वैतभावमास्थिता ।। ६३ ।।
अभिन्नरूपास्ता सर्वा गुह्यकालीतनौ श्रिता ।
तथा तनौ तथा पादा शरीरावयवाङ्गेषु ।। ६४ ।।
शरीरावयवा वक्रा बाह्वादीनाशनं दिकाम् ।
पञ्चकाली महाग्रासा एका सा भिन्नरूपिणी ।। ६५ ।।
आत्मा वैश्वरभूता या गुह्यकाली प्रकीर्तिता ।
तासां ध्यानं प्रवक्ष्यामि शृणु पापतयापहम् ।। ६६ ।।
अथ वक्ष्ये महादेव्या ध्यानयोगमनुत्तमम् ।
योगविज्ञानमात्रेण साधकः सिद्धिभाग्भवेत् ।। ६७ ।।
नीलोत्पलदलश्यामा नीलरत्ना विनिर्मिता ।
ज्ञानलक्ष्मीच्छटाटोपज्योतिर्मण्डलसंभवा ।। ६८ ।।
प्. ३४) दशवक्त्रा महाकाली सप्तविंशतिलाचना ।
अष्टोत्तरशतार्द्धं च भुजादण्डै नरानना ।। ६९ ।।
दीपकं ऊर्द्धकं वक्त्रं चण्डयोगेश्वरी मतम् ।
ज्योतिर्मयमहावक्त्रं निर्वाणपददायिनी ।। ७० ।।
तदधः सिंहवदनं श्वेतवर्णं सुभास्वरम् ।
फेरुवक्त्रं च तदधः कृष्णं त्रैलोक्यडामरम् ।। ७१ ।।
कपीन्द्रस्य मुखं वामे रक्तवर्णं महोल्वणम् ।
कोलवक्त्रं भवेद्दक्षं धूम्रवर्णं भयानकम् ।। ७२ ।।
तार्क्ष्यवक्त्रं च वामञ्च पिंगवर्णसचुञ्चुकम् ।
दक्षिणे मकरास्यं च हरिताभं प्रकीर्तितम् ।। ७३ ।।
गजास्यं वामके प्रोक्तं गौरवर्णं महोल्वणम् ।
हयास्यं दक्षिणे काल्या श्यामवर्णं विचिन्तयेत् ।। ७४ ।।
सर्वदंष्ट्रा कराला च त्रिनेत्रा भीमनादिनी ।
भ्रभङ्गकुटिला भीमा कालास्य श्रीमुखोत्तमा ।। ७५ ।।
पिङ्गलोर्ध्वजटाटोपचन्द्रार्द्धकृतशेखरा ।
नानारत्नैश्च घटिका श्वेतकाद्यालिमालिनी ।। ७६ ।।
सप्तविंशतिमुण्डैश्च रक्तविप्लुषसंयुता ।
वज्राणि पुष्पसंयुक्तं शिरोमाला प्रकीर्तिताः ।। ७७ ।।
चिद्रत्नवटिका काद्यं खड्गपाशं च शक्तिकम् ।
खट्वाङ्गमुण्डधनुषं चक्रं घण्टा च सुस्वनः ।। ७८ ।।
प्. ३५) वालप्रेतञ्च शैलञ्च कङ्कालनकुलं तथा ।
सर्पं च कुट्टनीवंशषडम्रं ओविका पुनः ।। ७९ ।।
वह्निपात्रञ्च दण्डञ्च स्रुवमष्टादकेशरी ।
वस्त्रमुद्गरडमरुं विभ्रती वाणबाहुभिः ।। ८० ।।
चिद्रत्नवटिकाकर्तृतर्जन्यं कुशदण्डकम् ।
रत्नपूर्णं च कलशं त्रिशूलं दुष्टनाशनम् ।। ८१ ।।
पञ्चपशुपता वाणं पद्मद्वीपमनागतम् ।
कुन्तञ्च पाणिजातञ्च फणिका तोमरं तथा ।। ८२ ।।
पुष्पमाला डिण्डिमं च गृद्धं स्वस्तिकवर्द्धनी ।
कमण्डलुश्रुवाञ्चैव पशुपुष्टिभयापहम् ।। ८३ ।।
नन्द्यावर्तं कुण्डलं च मांसखण्डसुशोभनम् ।
वीजपूरफलं शूची विभ्रती दक्षबाहुभिः ।। ८४ ।।
व्याघ्रचर्मपरीधानां कालचर्मोत्तरीयकाम् ।
किंकिणीजालशोभाढ्यां वीरघण्टानिनादिनीम् ।। ८५ ।।
नौपुरारावनिर्घोषा घर्घरारावभीषणा ।
कनकाङ्गदकेयूरा महास्थिकृतशोभना ।। ८६ ।।
मुण्डमाला गले देव्या आपादान्तविलम्बिनी ।
रक्तपद्ममयीमालां शुष्ककाद्यलिकास्तथा ।। ८७ ।।
काञ्चीकट्टारकोपेतां कटि देव्या विराजितां ।
ब्रह्मसूत्रोज्वलत्कण्ठाद्योगपट्टोत्तरीयका ।। ८८ ।।
प्. ३६) सौम्याग्रभूषणैर्युक्ता नागराजाद्यलंकृता ।
रक्तकुण्डलकर्ण/श्री पञ्चकालासनस्थिता ।। ८९ ।।
शिवासनं तदूर्ध्वं च नीलं नादोर्ध्वलांछनम् ।
महार्घरत्नमांसञ्च कृष्णवर्णं चतुर्भुजम् ।। ९० ।।
एकवक्त्रं त्रिनयनं भैरवाभरणान्वितम् ।
कर्तृकपालहस्तं च डमरुखट्वाङ्गधारिणम् ।। ९१ ।।
एवं भैरवपीठन्तु देव्या आसनमुत्तमम् ।
पञ्चप्रेतं च तदधः ब्रह्माद्याः पञ्चकारणाः ।। ९२ ।।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
पीतश्यामं रक्तधूम्रं श्वेताभावं च कारणाः ।। ९३ ।।
दण्डचक्रशक्तिशूलखट्वाङ्गायुधधारकाः ।
तर्जनीमुखनिःक्षिप्ता शिवधस्था त्रिलोचना ।। ९४ ।।
पिङ्गरक्तत्रिगुण्याभिहेतुत्कारणभीषणा ।
वज्रदंष्ट्रा नखस्पर्शा पद्मपृष्ठे शिवोत्तमा ।। ९५ ।।
शचीपत्यादिरन्तं च दिगवर्णं सवर्णकम् ।
इन्द्रं पीताभवज्रं च वह्निं रक्तं सशक्तिकम् ।। ९६ ।।
यमं कृष्णं च दंडं च धूम्रं नैरृत्यखड्गकम् ।
वरुणं पाशशुभ्रास्य वायुः श्यामांकुशध्वजम् ।। ९७ ।।
कुवेरं कुंकुमगदां शुभ्रमीशानशूलकम् ।
दिगष्टपतये ज्ञेयमासनं परिकीर्तितम् ।। ९८ ।।
प्. ३७) शुक्लं कृतयुगं ज्ञेयं पीतं त्रेतायुगं स्मृतम् ।
द्वापरं चारुणं वर्णं श्यामं चैव कलि स्मृतम् ।। ९९ ।।
ऋग्वेदं शुक्लवर्णं च यजुर्वेदं सुवर्णवत् ।
सामं रक्तमिति ख्यातं कृष्णाथर्वणमुच्यते ।। १०० ।।
उपवेदस्तथा वर्णा नवमासनमुच्यते ।
सहस्रसूर्यज्वालाग्रमासनं परिकीर्तितम् ।। १०१ ।।
पद्मोपरिस्थिता देवी नृत्यमाना सदोदिता ।
अथवा सुख चासीनं सर्वदेवाधियन्त्रिता ।। १०२ ।।
सहस्रसूर्यप्रतिभां दुर्निराक्षा दुरासदाम् ।
सर्वदेवाश्रयी नित्या मालिनी जयमङ्गला ।। १०३ ।।
मुक्तहू/कारजिह्वाग्रलालयन्तं विचिंतयेत् ।
प्रत्यालीढपदा वापि नृत्यमानापि च स्मरेत् ।। १०४ ।।
सर्वमन्त्रमयी धीरा सर्वलक्ष्मी जयेस्विरा ।
एवं ध्याया महाकालीमभीन्न नवयौवना ।। १०५ ।।
भासाक्रमस्य मध्यस्था चक्रेशी परमेश्वरी ।
पंचकाली प्रभेदास्तु विशेषं शृणु पार्वति ।। १०६ ।।
नववक्त्रा महाकाली सप्तविंशतिलोचना ।
ऊर्ध्वं ज्योतिर्मयं वक्त्रं चण्डयोगेश्वरीभिधाम् ।। १०७ ।।
चिद्रत्नवटिका मुद्रा मूल्यदेव्यास्तु एव सा ।
वक्त्रैकरत्नमुद्रां च विहीना पंचकालिका ।। १०८ ।।
प्. ३८) वक्त्रं शस्त्रं भुजं मालामासनानि क्रमाणि च ।
भूषणादीनि वर्णानि यथा श्रीगुह्यकालिका ।। १०९ ।।
सृष्टिस्थिती च संहार अनाख्यायां महेश्वरि ।
भाषाकाल्या तुल्यरूपा विशेषं स च तान् शृणु ।। ११० ।।
विशेषिका विशेषेण तद्वक्ष्यामि क्रमेण तु ।
नीलजीमूतसंकाशा नववक्त्रा महेश्वरी ।। १११ ।।
पूर्वोक्तध्यानराजे तु तुल्या चान्या महेश्वरी ।
बद्धपद्मासना देवी पीनोन्नतपयोधरा ।। ११२ ।।
जिह्वाग्रेन वाम दंष्ट्रां दर्शयन्तीं त्रिभङ्गिकाम् ।
मदघूर्णितदीर्घाक्षी ध्यानलोचनतत्परा ।। ११३ ।।
चिद्रत्नवतिकाह्यज्या वरदाभयपाणिनी ।
तर्जन्यग्रे स्थितं वज्रं मूर्तिं ज्वलनसप्रभाम् ।। ११४ ।।
रश्मिद्वादशसंयुक्तामनाक्षेशीं स्मरेत्सदा ।
संहारचक्रमध्यस्थं निर्मांसा कोटरांबिकाम् ।। ११५ ।।
प्रत्यालीढपदा देवी दन्तोष्ठपृष्ठपिडिंका ।
लेलिहाना ललज्जिह्वा मुक्तहूंकारराविणी ।। ११६ ।।
वरदानं परीत्यक्षे वित्राणामजकेशरी ।
दशशक्तिसमायुक्तां विश्वसंहारकारिणी ।। ११७ ।।
स्थितिक्रमस्य मध्यस्था ईषत्प्रहसितानना ।
खर्वा लम्बोदरी देवी राजलीनासनस्थिताम् ।। ११८ ।।
प्. ३९) अजकृष्णो परित्यज्य ब्रह्मकंकालवल्लभाम् ।
वादयंती महाकाली स्थितिस्थां षोडशात्मिकाम् ।। ११९ ।।
सृष्टिक्रमस्य मध्यस्थां अट्टहाससमन्विताम् ।
ऊर्ध्वा समयद चारुललिता तनुविग्रहा ।। १२० ।।
विहाय ब्रह्मवीणाञ्च विभ्रती चन्द्रभास्करौ ।
योनिपंचकमध्यस्थां ध्यायेत्सृष्ट्यैकहेतवे ।। १२१ ।।
अनाख्याचक्रमध्यस्था भासादेवी जगन्मयी ।
सर्वा कालीसृता देवी षोडशारे प्रतिष्ठिता ।। १२२ ।।
चन्द्रसूर्योपरिभ्युज्या मञ्जीरद्वयधारिणी ।
जगद्भासयते भासाकाली विष्णुसमुद्भवा ।। १२३ ।।
बाला कुमारी या काली सर्वा संसृतरूपिणी ।
त्रिमुखाष्टभुजा देवी कपालमालसंयुता ।। १२४ ।।
पिबन्तु रुधिरं दिव्यं कृष्णवर्णा त्रिलोचनम् ।
पाशांकुशवज्रशूलं खट्वाङ्गं मुद्गरं तथा ।। १२५ ।।
मृतबालमुंडहस्तं कपालं रक्तपूरितम् ।
एवं ध्यात्वा महादेवी नानाभोगफलप्रदा ।। १२६ ।।
एतदेव हि भेदोयं पञ्चकारस्य कारणम् ।
ततः समस्तरूपाणि कालिकाक्रमोद्भवा ।। १२७ ।।
विधिवत्पूजयेन्नित्यं विधिलोपं न कारयेत् ।
यथा गुरोपतिष्ठन्तु तदेव व्रतमाचरेत् ।। १२८ ।।
प्. ४०) देवतामन्त्ररूपाणि गुरुरेव न संशयः ।
शिवे रुष्टे गुरु त्राता गुरु रुष्टे न कश्चन ।। १२९ ।।
गुरुरेव सदा पूज्यो कालिकातुष्टिहेतवे ।
अन्धे तमसि संमग्न गुरुरेव परां गतिः ।। १३० ।।
बन्धुपुत्रसहस्रेषु मातुः पितु शतेष्वपि ।
एतेभ्यो गौरवत्वाच्च गुरुरित्यभिधीयते ।। १३१ ।।
ब्रह्महत्यादिपापानां निष्कृतिः समुदाहृतम् ।
गुरुद्रोहिकृतानां तु निष्कृतिर्नास्ति पार्वति ।। १३२ ।।
गुरोश्च देवतायाश्च द्वैतभावं न कारयेत् ।
स्वात्मविक्रियतो वापि गुरुरेव प्रपूजयेत् ।। १३३ ।।
गुरु तुष्टे जगत्तुष्टावित्याज्ञा परमेश्वरी ।
न माता न पिता पुत्र त्राता बन्धु सुहृन्नृप ।। १३४ ।।।
गुरोर्गुरुतरं देवि न कुर्यात्त्रिभि सर्वथा ।
यस्य प्रसादाज्जानीया त्रैलोक्यं सचराचरं ।। १३५ ।।
न तोषितो गुरुर्येन तस्य स्यान्निष्फलक्रिया ।
यस्य वक्त्राद्विनिर्याता देवी शब्दमयी परा ।। १३६ ।।
न गुरुं वंचयेच्छिष्यैः प्राणैः कण्ठगतैरपि ।
देवता मन्त्रसकलं लघिनं तेन भैरवः ।। १३७ ।।
गुरुदैवतमन्त्राणि मनाग्भेदं न कारयेत् ।
भेदेन निरयं याति समूलं विनिहन्ति वै ।। १३८ ।।
प्. ४१) गुरुं संतोषयेद्यत्नैः स्वप्राणेनापि श्रद्धया ।
द्वीपकस्यैव वेतालपरिगतिमवाप्नुयात् ।। १३९ ।।
गुरु संतोषितो येन रक्षितं भुवनत्रयम् ।
नातः परतरं किञ्चिद्गुरुरत्यधिकं प्रिये ।। १४० ।।
अशरीरा वर्णरूपा ब्रह्माण्डव्यापिनी शिवे ।
पिण्डदानादिसंस्कारं यथा पित्रोस्तथा गुरोः ।। १४१ ।।
अकृत्वा नरं याति षष्ठिवर्षशताधिकम् ।
शरीरदा पिता देवि ज्ञानदा गुरुरेव च ।। १४२ ।।
गुरोर्गुरुतरं नास्ति संसारे दुःखसागरे ।
यस्य वक्त्राद्विनिर्याता वर्णब्रह्ममयं वपुः ।। १४३ ।।
तरयन्नात्र सन्देहो नरकावर्णवतो ध्रुवम् ।
अहोहं संप्रवक्ष्यामि सारं सर्वार्थकामदम् ।। १४४ ।।
एकाक्षरी नवाक्षरीञ्च षोडशाक्षरि वारुणि ।
चतुःपंचाशवर्णं च शताक्षरी विशेषतः ।। १४५ ।।
द्विशताक्षरी मन्त्रञ्च दशोना त्रिशताक्षरी ।
सहस्राक्षरि देवेशि प्राणभूतास्तु कालिका ।। १४६ ।।
मन्त्रोद्धारं
अम्बरं परमं वह्नि आपंच धरणी तथा ।
रावणी नाम सा विद्या मोक्षदा भुक्तिदा प्रिये ।। १४७ ।।
एकाक्षरी परा विद्या भोगमोक्षप्रदा स्मृता ।
शिवशक्तीसमायोगो भवेदत्र च पार्वति ।। १४८ ।।
प्. ४२) महाकुंडलिनीं देवी महारावणिपूजिता ।
वह्निं शिवाक्षरो नां च वरुणम् ।। १४९ ।।
शिखी च मधुहा युक्ता काली प्राणमुदाहृतम् ।
ख्फ्रेंमात्मिका लिख्य महाचण्डमनालिखेत् ।। १५० ।।
योगेश्वरीपदं दत्वा विद्येयं सा नवाक्षरी ।
षोडशाक्षरि या विद्या प्राणभूताश्च तां शृणु ।। १५१ ।।
यस्योपदेशमात्रेण ब्रह्मभूयाय कल्पते ।
त्रिपदं तु समोद्धृत्य महारावं ततो लिखेत् ।। १५२ ।।
निशामाधवसंयुक्तं ज्ञेयं त्रिदशवन्दिते ।
सत्यारूढे सास्वतश्च तुष्टिना कवलीकृतम् ।। १५३ ।।
सत्यमत्या समारूढा सूक्ष्मेशकवलीकृता ।
ततश्चक्री जाठरं च नारायणसमन्वितम् ।। १५४ ।।
माधवेन समायुक्तो वलानुज पुनर्लिखेत् ।
माया चंडी कूर्चरक्षा महाराव पुनर्लिखेत् ।। १५५ ।।
नतिं नियोजयेद्देवि शिरमन्त्रं समुच्चरेत् ।
वर्णषोडशमाख्यातं मन्त्रंराजमुदाहृतम् ।। १५६ ।।
पंचपिंडाग्रतो दत्वा महाशब्दशशी भवेत् ।
अनादि महामन्त्रं वर्णराजमुदाहृतम् ।। १५७ ।।
शताक्षरं मन्त्रराजं तथा पंचशताक्षरम् ।
पंचाक्षरमादिमन्त्रं तथाष्टाक्षरमन्त्रकम् ।। १५८ ।।
प्. ४३) दशोना त्रिशता विद्या महामन्त्र उदाहृतम् ।
द्विशतं तु महादेवी नवत्यधिकसुप्रभे ।। १५९ ।।
शिवेष्टहेतो हि पुरा सहस्राक्षरमालिका ।
एकेभ्यरतरं देवि कुलाचारक्रमे विधिः ।। १६० ।।
परंब्रह्मस्वरूपं तु नादबिन्दुकलात्मिका ।
सकलार्णवमध्यस्था सकलार्णवरूपिणी ।। १६१ ।।
श्रीगुरोः कृपया देवी संप्रदायक्रमागतम् ।
लभ्यते यदि भाग्येन कोन्य धन्यतरो भुवि ।। १६२ ।।
मनुष्यवपुराछन्ना सशिरो नात्र संशयः ।
वर्णितुं नैव शक्नोमि कालिकाया कुलक्रमम् ।। १६३ ।।
वर्णषोडशकं विद्या राज्यदा प्राणदा स्मृता ।
महासौख्यप्रदा शांता सा काली प्राणदायिनी ।। १६४ ।।
वैखरी यान्यभादत्वादशक्ता गुणवर्णने ।
ब्रह्मविद्यास्वरूपा सा भुक्तिमुक्तिफलप्रदा ।। १६५ ।।
एकोच्चारेण देवेशि वाजपेयस्य कोटयः ।
अश्वमेधसहस्राणि प्रादन्यभुवनस्तथा ।। १६६ ।।
प्रयागे स्नानजं पुण्यं मकरस्थे दिवाकरे ।
तस्य शतगुणं प्रोक्तं कालिका विधिनाचरेत् ।। १६७ ।।
प्. ४४) चतुराश्रम्य यत्पुण्यं क्रमेण परिसेवितम् ।
यत् पुण्यं वर्णधर्मस्य तत् पुण्यं कालिकार्चनात् ।। १६८ ।।
काश्यादितीर्थयात्रां च सार्द्धकोटित्रयान्वितम् ।
तुलनायाति देवेशि सत्यं सत्यं न संशयः ।। १६९ ।।
लक्षजापेन देवेशि किं पुनः सिद्धिभाग्भवेत् ।
यस्या सामर्थतो देव्या भुवनानि चतुर्दशम् ।। १७० ।।
अभवत्परमेशानि तेषां कारणरूपिणी ।
पुरश्चर्या कृता येन तेषां विद्या फलाङ्गमम् ।। १७१ ।।
अकृत्वा तु पुरश्चर्या न मन्त्रो फलदो भवेत् ।
ब्रह्माण्डकोटिजननी महामोक्षप्रदायिनी ।। १७२ ।।
निःसरन्ति महामन्त्रो विस्फुलिङ्गा यथा प्रिया ।
अग्रे सकाशाद्बहवो भेदा विद्या प्रकाशिता ।। १७३ ।।
प्रणवा सर्वमुत्पन्ना परब्रह्ममयी तु सा ।
मायाहर्तारक्षिता च नान्या तु भवनेश्वरि ।। १७४ ।।
नानाम्नायस्वरूपेण नानारूपेण मायया ।
मोहयन्ती जगत्सर्वं पुत्रपौत्रप्रवर्द्धिनीम् ।। १७५ ।।
स्त्रीपुंभावेन सततं ग्रन्थितं कामसूत्रके ।
सर्वंत्र व्यापिनी चापि ब्रह्मस्थाननिवासिनी ।। १७६ ।।
प्. ४५) सौभाग्यवन्धग्रहणा विश्वयोनीरितीरितः ।
चतुर्वाङ्मयनिष्ठेयं त्रैलोक्यवशकारिणी ।। १७७ ।।
साक्षात्संविन्मयी देवीरूपिणी भोग्यदायिनी ।
महासंपत्प्रदा नित्या साक्षादक्षररूपिणी ।। १७८ ।।
षोडशाक्षररूपेण विश्वं व्याप्य व्यवस्थिता ।
नवाक्षरी महाविद्या पंच चाष्टाक्षरी तथा ।। १७९ ।।
एकाक्षरी दशार्णा च शतार्णा च सहस्रकम् ।
एतेषु मन्त्रवर्गेषु विश्वं व्याप्य व्यवस्थिता ।। १८० ।।
चतुर्वेदेषु यत्सारं तदङ्गेषु च यत्स्मृतम् ।
पुराणे स्मृतिसारेषु यस्तु सारतमं महत् ।। १८१ ।।
तत्सर्वेभ्योऽधिकं सारं सारात्सारतरं परम् ।
नवनीतं यथा दध्रासारोद्धृतघृतं भवेत् ।। १८२ ।।
तदेवममृतं नाम देवानां प्राणधारणम् ।
तथा समस्तशास्त्रेषु वेदे तन्त्रेषु चाज्ञया ।। १८३ ।।
उद्धृत्य सर्वसारेभ्यो ब्रह्मणे प्रतिपादिता ।
ब्रह्मणोपि वसिष्ठाय वसिष्ठो राघवाय च ।। १८४ ।।
दत्तं सर्वात्मने तेन ततो मर्त्यावतारिता ।
अद्वैतादिविधा कृत्वा मुनिना ज्ञानदृष्टिना ।। १८५ ।।
दर्शेनात्रि शताक्षर्या मन्त्रवीर्या प्रकाशिता ।
सौम्यसिद्धिकृतानेन देवी प्रत्यङ्गिराभिधा ।। १८६ ।।
प्. ४६) नारदानुमतेनैव संज्ञा देव्या द्विधा कृता ।
निधाननिव चौरेभ्यो रक्षणीयो प्रयत्नतः ।। १८७ ।।
न देया यस्य कस्यापि देया प्राणप्रदायिने ।
निर्मलाय प्रशान्ताय प्राणेभ्योपि प्रियाय च ।। १८८ ।।
ज्ञाननिष्ठाय दातव्यं सारमेतन्महेश्वरि ।। १८९ ।।
।। इति श्रीमहाश्रोतशिरश्छेदे करवीरयोगे परातन्त्रे क्रमे
द्वादशसाहस्रिकायां कालिक्रमनिर्णयसूत्रं सप्तम पटलः ।। ७ ।।
अष्टमः पटलः
श्री देव्युवाच
नमो देवाधिदेवाय सर्वज्ञाय महात्मने ।
सृष्टिस्थित्यन्तकर्त्रे च सर्वव्यापि नमोस्तु ते ।। १ ।।
जय देव जगन्नाथ किंचिन्प्रष्टुं मम प्रभो ।
मनो मे तरलं जातो भया वक्तुं न चात्महे ।। २ ।।
प्रसीद परमेशान संशयं छेत्तुमर्हसि ।। ३ ।।
श्रीसदाशिव उवाच
मा शंकां कुरु देवेशि त्वदन्यो नास्ति मत्प्रिया ।
निःशङ्कं स्वेच्छया देवि पृच्छेयं हृदि वाञ्छितम् ।। ४ ।।
यं यं त्वं संशयो देवि तं तं पृच्छ यथेच्छया ।। ५ ।।
श्रीदेव्युवाच
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ।
चिद्रूपिणी परादेवी कालिकात्वं गता यदा ।। ६ ।।
कस्माद्द्वैधगता देव नारदानुमतेन च ।
सर्वागमविदः शूरः साधकानां वरो मुनिः ।। ७ ।।
किं भेदं वै चकाराथ शिवष्टनारदो पुरा ।। ८ ।।
प्. ४८) श्रीसदाशिव उवाच
धन्यासि कृतकृत्यासि श्रोतुं जानासि तत्वतः ।
एतत्सूक्ष्मानि भेदेन पुनः श्रोतुं मतिस्तव ।। ९ ।।
जाता परमिका बुद्धि नमस्ते परमेश्वरि ।
सप्तादशाक्षरी विद्या विद्यायाः परमा कला ।। १० ।।
खंडस्य खंडिनी खंडखंडखंडाण्डखण्डिनी ।
खंडचक्रगता काली विद्या सप्तदशाक्षरी ।। ११ ।।
फणीरूपस्य कारस्य अकुला बिन्दुभक्षिणी ।
तृधारानुहता लक्ष्मी विद्या सप्तदशी स्मृता ।। १२ ।।
अकुलाकुलमध्यस्था कलास्था अकला कला ।
अकला परमानन्दा सिद्धि सप्तदशाक्षरी ।। १३ ।।
रावस्थं रावमध्यस्थं रावरावनियोजिता ।
रावलीरावला ज्ञेया महासप्तादशाक्षरी ।। १४ ।।
कान्तगादिच्छान्तजातं महाहल्लोल हूंकृतम् ।
रावरालकलाक्रान्तं एताः सप्तदशी कला ।। १५ ।।
अक्षराक्षरयोगेन कालि शब्देन यस्थिता ।
योगेश्वरीपदं नास्ति विद्या सप्तदशाक्षरी ।। १६ ।।
हहहाहहललीनी विलीनी हहने हसा ।
हाना दानापदैर्लीना विद्या सप्तदशाक्षरी ।। १७ ।।
एवं सप्तदशं वर्णं वर्णीयं परमेश्वरी ।
क्रमसर्वातुरं तीव्रं निर्गुणं परमेश्वरीम् ।। १८ ।।
प्. ४९) शतद्वयं तु वर्णेन नवत्यधिककीर्तितम् ।
त्रिगुणै रहिता विद्या त्रिखण्डा परिकीर्तिताः ।। १९ ।।
नवषोडशवर्णानां भेदो नात्र च विद्यते ।
अनया विद्यया देवी जन्ममृत्यु विहाय च ।। २० ।।
नारदाद्या मुनिश्रेष्ठा योगिनः कपिलादयः ।
त्रिलोकविजयी भूत्वा स्वेच्छया विचरन्ति वै ।। २१ ।।
अव्याहतगतिः प्राप्तत्रिकालज्ञो भवस्वता ।
शोणिताख्ये पुरे देवि हरिणं करविग्रहम् ।। २२ ।।
नारदेन मुनीन्द्रेण कृष्णाय संप्रदत्तवान् ।
हरिणालंभनास्तेषु प्रयोज्य हरमोहितः ।। २३ ।।
वासुदेवोपि पार्थाय रक्षार्थं प्रददौ पुरा ।
भृगोपभुक्तपुष्पेन्दु शिवयोग्यं यथा भवेत् ।। २४ ।।
तद्वन्निरक्षरं वस्तु अक्षरैरपि संयुता ।
नोद्धारं लेखयेद्देवी साक्षाद्वर्णेश्वरी परा ।। २५ ।।
शापो भवति वै नूनं मन्त्रहानि प्रजायते ।
विमुखा भवते काली पापानामाश्रयो भवेत् ।। २६ ।।
कर्णे कर्णे तु देवेशि हृदिस्थ कुरु सर्वदा ।
गुरुवक्त्रादिनिष्क्रान्ता श्रोतमार्गे हृदि स्थिता ।। २७ ।।
उदके लिखितं यद्वन्मन्त्रोद्धारं तथा भवेत् ।
भोगमोक्षप्रदां विद्यां पुस्तके नैव लेखयेत् ।। २८ ।।
प्. ५०) सम्वत्सरकृतावासे ज्ञात्वा कर्म शुभाशुभम् ।
ततो मन्त्रोपदेष्टव्या यद्यात्मशुभमिच्छति ।। २९ ।।
अपरीक्षितशिष्याय यस्तु मन्त्रं प्रयच्छति ।
निरये निरतं वासो भविष्यति सुदारुणे ।। ३० ।।
तस्मात्सर्वप्रयत्नेन न प्रकाश्यं कदाचन ।
आस्तिकबुद्धि यस्यास्ति तस्मै देवी प्रसीदति ।। ३१ ।।
शङ्का या जायते तानि शङ्काया दुःखभाजनम् ।
शङ्काया सिद्धिहानिः स्यान्निर्विकल्पं समाश्रयेत् ।। ३२ ।।
कर्तव्यं चाप्यकर्तव्यं नैव तत्र विचारयेत् ।
मयापि वुष्णुना सार्द्धं ब्रह्मणा मुनिभिः सह ।। ३३ ।।
एकपात्रं गृहीत्वा तु निर्विकल्पं यथाश्रिता ।
देवगन्धर्वदैत्यादीन्रक्षपन्नगमानवाः ।। ३४ ।।
सप्तधातुभिः संक्लिन्नैर्मलमूत्राश्रवावहैः ।
तेषां किं तद्विचारेण निर्विकल्पं समाचरेत् ।। ३५ ।।
सूर्योदये किं तमसि तिष्ठन्ती भुवनादयः ।
तथा देव्याः प्रभावेण किमाचार विचारयेत् ।। ३६ ।।
किं बहूक्तेन देवेशि गोपनीयं प्रयत्नतः ।
सर्वसिद्धिं महेशानि गोपनीयं प्रयत्नतः ।। ३७ ।।
प्रकटे मृत्युमाप्नोति सिद्धिहानिश्च जायते ।
यस्मिन्मन्त्रे यदाचार तत्र धर्मस्तु तादृशः ।। ३८ ।।
प्. ५१) कृतार्थस्तु न जायेत् स्वर्गं वा मोक्षमेव वा ।
नाधर्मो नैव पापादि जायते तत्मेव च ।। ३९ ।।
किं च धर्मों महान्वापि पुण्यराशि प्रवर्द्धते ।
शक्तौ सर्वसमुत्पन्नं यत्किञ्चिज्जगतीगतम् ।। ४० ।।
तस्माच्छुद्धमशुद्धं वा शक्तिब्रह्मस्वरूपकम् ।
सर्ववेदविदो विप्र सदाचारेण सुव्रत ।। ४१ ।।
चाण्डालत्वे परे पापे ह्यात्मा सर्वत्र वेत्तते ।
आत्मा ब्रह्म विजानीहि भ्रान्तिज्ञानं परित्यजेत् ।। ४२ ।।
ज्ञानमेव परं तत्वं तस्माज्ज्ञानं समाश्रय ।
ज्ञानमार्गेण सकलं विकल्पं परिवर्जयेत् ।। ४३ ।।
सविकल्पो महादोष पापभाक् जायते ध्रुवम् ।
शिवशक्तीमयं देहं रजः शुक्रं प्रजायते ।। ४४ ।।
परं ब्रह्मणि संलीनो परा वाच्या परेश्वरि ।
नीराज्यमधुमैरेयै द्रव्यभेदा भवन्ति हि ।। ४५ ।।
सर्वज्ञत्व वरारोहे यज्ञदोषो न विद्यते ।
अश्वमेधमहायज्ञे वाजिहत्या कथं भवेत् ।। ४६ ।।
जलं क्षीरं घृतं चैव मधुमैरेयमैक्षवम् ।
पौष्यं तरुभवं धान्यं संभवं तक्रनिर्मितम् ।। ४७ ।।
सह---रभवं चैव विविधबहुभेदतः ।
अज्ञानैः संस्कृतं सद्यो महापातककृद्भवेत् ।। ४८ ।।
प्. ५२) ब्रह्महत्या सुरापान स्वर्णस्तेयादिपातकात् ।
पूजनादेव निर्वर्त्य निर्विकल्प समन्त्रवित् ।। ४९ ।।
जलं जलचरं सर्वं घटपूर्णं समानय ।
स्थापिते दिनसप्ताहे जलं जीवसमन्वितम् ।। ५० ।।
अनामिषं नास्ति किंचित्सर्वक्षीरादिकं प्रिये ।
समवृक्षसमा वह्निस्तथा सुन्दरि तिष्ठति ।। ५१ ।।
सर्वभूतेषु विज्ञानं ज्ञातव्यं देशिकोत्तमैः ।
काष्ठादिमथनाद्देवी प्रकटा ब्रह्मरुच्यते ।। ५२ ।।
तत्काष्ठं दह्यते तेन तेन ब्रह्ममयं जगत् ।
धर्माधर्मपरित्यागात्सकलोपि परत्र च ।। ५३ ।।
विगतस्त्रीरजं वापि ये चास्ति सकलं प्रिये ।
विचारयेत्स्वमूत्रादि भ्रान्तिरेव हि कारणम् ।। ५४ ।।
अन्नं ब्रह्म विजानीयात्तेन यस्य समुद्भवम् ।
नानाजीवाश्रयं तत्तु पुरीषं केन दुष्यते ।। ५५ ।।
गोमूत्रं प्राशनं देवि गोमयस्यापि भक्षणम् ।
प्रायश्चित्तेषु कथितं ब्रह्महत्यादिमोचने ।। ५६ ।।
मलमूत्रेषु ये भ्रान्ति दोष एव न संशयः ।
स्त्रीरजः परमेशानि देहस्तेनैव जायते ।। ५७ ।।
कल्पितं दूषितं तेन प्राप्यते परमं पदम् ।
पुरुषस्य तु बीजं तु विन्दुरित्यभिधीयते ।। ५८ ।।
प्. ५३) बिन्दुस्तु परमेशानि कायोयं शिवरूपधृक् ।
शिवतत्वेन शास्थादिदूषणं नास्ति वै तदा ।। ५९ ।।
सूतः पवित्रं देहस्य कारणं केन रायुद्यते ।
ज्ञानमार्गेण सकलं निर्विकल्पस्य सुन्दरि ।। ६० ।।
विकल्पस्य महेशानि पापभाक् जायते नरः ।
मातृगर्भस्य वीर्यन्तु शिशुरेव न संशयः ।। ६१ ।।
निर्विकारतया यस्परस्य नाकुत्सितो भवेत् ।
तत्तु दूषणसंयुक्तमन्यत्सर्वशुभं भवेत् ।। ६२ ।।
ब्रह्मानन्दमयं ज्ञानं परं ब्रह्ममयो भवेत् ।
तं ज्ञात्वा परमेशानि कथयामि वरानने ।। ६३ ।।
न ब्रह्मणस्तु न ब्रह्मं न क्षत्रं क्षत्रियस्तथा ।
वैश्यो न वैश्य शूद्रो न शूद्रस्तु परमेश्वरि ।। ६४ ।।
विचारे परमेशानि पुष्केसौ नैव पुष्कलः ।
सर्वेषां तु विजानीहि परमात्मा विनिश्चयात् ।। ६५ ।।
आकाशात्पतितं तोयं निम्नमार्गेन गच्छति ।
ग्राममध्यगतं सर्वं विष्टामूत्रादिषूदितम् ।। ६६ ।।
मृतगोस्वाहिमार्जारखराभिरुधिरान्वितम् ।
समस्तमपि देवेशि गङ्गायां मिलितं यदा ।। ६७ ।।
गङ्गामृतं तदेवास्ति कालुष्यं नैव तिष्ठति ।
मलमूत्रेषु ये दोषा भ्रम एव हि कारणम् ।। ६८ ।।
पवित्रं स्त्रीरजः प्रोक्तं यतो देहे विनिःसृतम् ।
रुधिरादिप्रधानेन प्राप्यते परमं पदम् ।। ६९ ।।
प्. ५४) पुरुषस्य तु यद्बीजं बिन्दुरित्यभिधीयते ।
सर्वस्य कारणं रेतो तं देह केन निन्द्यते ।। ७० ।।
भगलिङ्गस्य संस्पर्शाद् गर्भादिनिःसृतः पुमान् ।
यदा तदा जन्मकाले को न स्याद् गुरुतल्पगः ।। ७१ ।।
पुण्यपापविनिर्मुक्तं ज्ञानमेतच्छृणु प्रिये ।
ब्रह्माण्डकोटिजननी एकैवाहैस्वरूपिणी ।। ७२ ।।
भुक्त्वा नानाविधैर्वाहं क्रीडार्थं सकलं जगत् ।
कुलालचक्रभेदेन घटाकाशं यथा घटे ।। ७३ ।।
दृश्यते परमेशानि आकाशं व्याप्य तिष्ठति ।
घटे भवति भिन्नत्वेनाकाशे भिन्न भावयेत् ।। ७४ ।।
यथा देहगतो जीवो धेहनाशे वरानने ।
व्याप्य तिष्ठति सर्वत्र तस्माद्ब्रह्मपदं महत् ।। ७५ ।।
अत एव महेशानि निर्विकल्प सदा भवेत् ।
एवं संविन्मये ज्ञानं समता सर्वजन्तुषु ।। ७६ ।।
सर्ववर्णेषु चाभावेत्समता नात्र संशयः ।
यथा सूर्यप्रकाशेन समत्वञ्च प्रवर्तते ।। ७७ ।।
दत्तमथापि चान्यस्य तमः संहरते क्षणात् ।
शोषयेत्सर्वमूत्रादिचन्दनं नैव कर्दमम् ।। ७८ ।।
अत एव महेशानि सन्ति सर्वमयो भवेत् ।
सिद्धिस्तु देवि विज्ञेय श्रीगुरोः कृपया प्रिये ।। ७९ ।।
।। इति श्रीपरातन्त्रे परमार्थनिर्णयोऽष्टमः पटलः ।। ८ ।।
नवमः पटलः
श्रीदेव्युवाच
यथा संसाधये देव प्रयोगादीञ्जगत्पते ।
साधकः संविभागेन तथा कथय शङ्कर ।। १ ।।
श्रीसदाशिव उवाच
शृणु देवि प्रवक्ष्यामि यथा संसिद्धिसूचकम् ।
येन संसाधयेद्वीरो वीराचारकुलसन्ततेः ।। २ ।।
अकृत्वा तु पुरश्चर्या प्रयोगं कर्तुमिच्छति ।
महापातककोटीनां भाजनं स भविष्यति ।। ३ ।।
नातः परतरं देवि कुलमार्गस्य दूषकाः ।
तस्मात्सर्वव्ययेनापि प्राणान्तेनापि सर्वदा ।। ४ ।।
कर्मणा मनसा वाचा पुरश्चरणमाचरेत् ।
वर्णलक्षजपेन्मन्त्री हविष्यासी जितेन्द्रियः ।। ५ ।।
दिवा च ब्रह्मचर्येण रात्रौ कुर्याद्यथेच्छया ।
पूजयेद्विधिना देवी मपञ्चकपुरस्कृतः ।। ६ ।।
साङ्गं सपरिवारं च तत्र न्यूनं न कारयेत् ।
दशांशं हवनं कुर्यात् विल्वपत्रैर्घृतप्लुतैः ।। ७ ।।
छागमांसैस्त्रिमध्वक्तैर्देवीसन्तुष्टिहेतवे ।
तर्पयेत्सुधया देवी दशांशैर्हवनस्य वै ।। ८ ।।
प्. ५६) तर्पणस्य दशांशेन मार्जनं समुदाहृतम् ।
तद्दशांशेन वै कुर्यात्कुमारीभोजनं महत् ।। ९ ।।
कलौ चतुर्गुणं कुर्यात्पुरश्चर्यां तु साधकः ।
दीक्षां प्राप्य न कुर्याद्वै पुरश्चर्याविलंबनम् ।। १० ।।
आयुश्चञ्चलतां ज्ञात्वा स्वात्मश्रेयस्तु चिन्तयेत् ।
दीक्षां प्राप्य पुरश्चर्यामकृत्वा म्रियते यदि ।। ११ ।।
ब्रह्मभूता भवेन्नूनं शतवर्षमनाश्रये ।
तस्मात्सर्वात्मना देवि पुरश्चर्यां समाश्रयेत् ।। १२ ।।
चन्द्रसूर्योपरागे वा पुरश्चरणं कारयेत् ।
स्पर्शान्मुक्तिं तु संजप्ये पुरश्चरणमुच्यते ।। १३ ।।
दशांशं सर्वकर्माणि कारयेत्पूर्वयोदितम् ।
ततः प्रयोगकर्माणि शृणु वक्षामि सांप्रतम् ।। १४ ।।
वीरदीक्षा न शक्तो य संपूज्य विधिवत्पुरा ।
श्मशाने शिवदक्षे वा गृहे वा वाहने स्थिता ।। १५ ।।
दीपादित्रिविधैर्नित्यमभावत्पर्वणी पुनः ।
सत्यवाक्धैर्यसंपन्नः कामक्रोधविवर्जितः ।। १६ ।।
शक्तीसहायसंयुक्तो वीरः सहायकोथवा ।
सहायद्रव्यहीनाथ भिक्षाशी च निशाशमे ।। १७ ।।
सहस्रैक्यं जपेच्चादौ कायशुद्ध्यर्थहेतवे ।
देवी तुष्टा हुनेच्चैव यथापूर्व मयोदितम् ।। १८ ।।
ततो लक्षजपेन्मन्त्री दिवा चाहारवर्जितम् ।
भुक्तोर्द्धभावनाऽशक्ते सन्ध्यायां भुक्तमेककाम् ।। १९ ।।
प्. ५७) गायत्र्या तु जपेद्युग्मं न्यस्य चैव षडङ्गकम् ।
ततो रात्रौ जपं कुर्याद्यथाशक्त्या क्रमेण तु ।। २० ।।
दशांशेन हुनेत्पश्चान्मन्त्रसंसिद्धिहेतवे ।
होमान्ते कन्यकापूजाकृतसिद्धि भवेद्ध्रुवम् ।। २१ ।।
अथवा द्विगुणं जाप्य यावद्वै सप्तवासरम् ।
क्रूरादौ चाष्टमे सेकाद्धोमान्ते ग्रहशान्तिकम् ।। २२ ।।
त्रिसंध्यं मध्यरात्रौ च एकद्वित्रिचतुर्दिनम् ।
वातादिशेकतो शान्तिहोमाद्रोग प्रमुच्यते ।। २३ ।।
अष्टम्यां वा चतुर्दश्यां समारभ्य हरः शतं ।
दशांशहोमतः शेकान्महाशान्ति भवेत् स्फुटम् ।। २४ ।।
जपेत्पञ्चशतं मन्त्री येच्छस्या त्रिशतं हुनेत् ।
होमान्ते शेकतः पश्ये पुष्टिं चैव समाप्नुयात् ।। २५ ।।
त्रिशतं त्रिशतं हुत्वा जप्त्वा चैवाष्टमेहनि ।
होमान्ते सेकतो जप्त्वा पुष्टिमाप्नोति मानवः ।। २६ ।।
जप्त्वा चैव तु साहस्रं हुनेत्पञ्चशतानि वै ।
नागाश्वगाष्टलोकानां पुष्टिमाप्नोति सेकतः ।। २७ ।।
निर्गलाद्गलयत्राणि आत्मनो वा परस्यथ ।
त्रिसंध्यां वर्तनाद्वश्या त्रिसप्ताहान्प्रजायते ।। २८ ।।
श्मशानशर्करा गृह्य मन्त्रैरष्टशतं जपेत् ।
यत्र यत्र क्षिपेद्गौरी निगदास्फोटनं भवेत् ।। २९ ।।
भूतांकुशस्य दण्डेन त्रिधाभिमंत्रितान्दधान् ।
नावाशकटयन्त्राणि संभयेन्मोचयेश्लथात् ।। ३० ।।
प्. ५८) दूर्वातन्तुविषक्षोभं दुःकुलं दुष्टजन्तुषु ।
वालुका सप्त जप्त्वा तु महामेघान्तु वारयेत् ।। ३१ ।।
राजिका सप्त जप्त्वा तु ग्रस्तभूतादिभिर्नरः ।
ताडये हृदि मुद्रायां कृत्वा स त्यज्यते ध्रुवम् ।। ३२ ।।
कृत्वा चातुर्थकाद्याश्च सप्त जप्त्वा------- नतु ।
अभ्यक्षणो निवर्तन्ते चित्रा गुग्गुलधूपतः ।। ३३ ।।
लूर्तागर्दभविस्फोटव्याधयो विविधास्तथा ।
सप्त जप्तो दक्ष सेकात्पानाले यद्विनाशयेत् ।। ३४ ।।
एकविंशतिवारैस्तु जलं चैवाभिमंत्रितम् ।
स्थावरं जङ्गमं वापि विषपानाद्विनाशयेत् ।। ३५ ।।
पुष्पान्न सिद्धि सिद्धार्थं श्मशानस्य च भस्मकम् ।
सप्त मन्त्रा हनेच्छत्रुं स शत्रुं मोहनाय च ।। ३६ ।।
महापात्रे धान्यपुञ्जे मद्यपूर्णघटेषु च ।
अक्षच्चं तद्भवेत्तस्य नित्यं पूजारतस्य च ।। ३७ ।।
अर्थकोषे विल्वगतासौ लिख्य पतकं जपेत् ।
धनदेन समं द्रव्यं न कदाचिद्विनश्यति ।। ३८ ।।
गजा शाले मुक्तदामे पूजयेन्पंकजान्पलैः ।
न कदाचिद्विनश्यन्ति गजा वृद्धिं प्रजायते ।। ३९ ।।
कृत्वा च नवकोष्टामश्वस्थानकदम्बकैः ।
स पूज्याश्वा न नश्यन्ती वृद्धिमायान्ति शोभना ।। ४० ।।
सितगुञ्जा च सर्त्पाखां धामव्याघ्रवराटिका ।
सप्त जप्त्वा मुखे धार्या अस्त्रभयो न जायते ।। ४१ ।।
प्. ५९) वालानि सर्पखा मन्त्रा शतखेमातसंख्यया ।
कण्ठे वद्धा वृद्धि यान्ति आयुषा प्रज्ञया दृढ ।। ४२ ।।
पुष्यार्के श्रीफलं पक्वं सहस्रार्द्धेन मन्त्रितम् ।
तज्जलैः संचिता नारी अपुत्रो सूयते सुतः ।। ४३ ।।
अष्टोत्तरशतेनैव पुष्पमालाभिमन्त्रिता ।
यस्य संदीयते कण्ठे ये कयुद्धे जयी भवेत् ।। ४४ ।।
अहोरात्रोषितो भूत्वा अनुदिग्यो जपेत्तु यः ।
स्वार्थं वाथ परार्थं वा अपमृत्युर्विनश्यति ।। ४५ ।।
पुण्डरीकांशुनावत्स्याको गुह्यं दीप्तसंमुखे ।
वर्णजापात्सहस्रेण अञ्जनीयपश्यनिधिम् ।। ४६ ।।
चतुःपथमृदं गृह्य गृहार्द्धे पञ्चविंशति ।
जप्त्वा संक्षेपयेन्निद्रां बंधो भवति दुर्भगा ।। ४७ ।।
तिलतण्डुलसिद्धार्थं प्रत्येकं दशमन्त्रितम् ।
एकीकृत्य क्षिपेद्यस्तु पदं नाक्रमते रिपुः ।। ४८ ।।
फल्वाणिवंशिकं पञ्चविंशाधिकशताभिधम् ।
भूतायां संक्षिपेद्यत्र तत्र रोगी भवेज्जनः ।। ४९ ।।
लीरा चाक्षतसिद्धार्थसभस्मशतमन्त्रितम् ।
यत्र यत्र क्षिपेन्मन्त्री तत्रारोग्यं प्रवर्तते ।। ५० ।।
कण्ठमात्रोदके स्थित्वा जपेत्पञ्चशतं यदि ।
वरुणेन तथा होम महावृष्टि भवेद्ध्रुवम् ।। ५१ ।।
शतार्द्धन्तु जपेन्मन्त्री शतार्द्धं होमयेत्प्रिये ।
वशी कुर्यान्न सन्देहो सप्ताहेन शचीपतिम् ।। ५२ ।।
प्. ६०) जप्त्वा पञ्चशतं मन्त्री शतार्द्धं होमयेत्पुनः ।
पुनः पञ्चशतं जप्त्वा सिद्धार्थं चाक्षतं तथा ।। ५३ ।।
मस्तके कण्ठवाहौ वा धृता दीव्यस्य स्तंभनम् ।
अपामार्गशतं हुत्वा तत्क्षारं यस्य दीयते ।। ५४ ।।
दुर्भगो जायते सत्यं प्रीतिनाशमवाप्नुयात् ।
सिद्धार्थगुग्गुल चैव एकीकृत्य शतत्रयम् ।। ५५ ।।
होमान्ते च महाप्रीतिं विप्रीति सप्रजायतम् ।
हैमवीजशताष्टा च होमयेत्सप्तवासरम् ।। ५६ ।।
उन्मत्तो जायते शीघ्रं वभ्रुलं वा घृतान्वितम् ।
सप्ताहा च निशारात्रौ जपेच्छ्रद्धासमन्वितः ।। ५७ ।।
दिवा च ब्रह्मचर्येण रात्रौ कुर्याद्यथेच्छया ।
कर्पासास्तितुषातैलं युक्तं पञ्चशतं हुनेत् ।। ५८ ।।
एकविंशदिने देवि शक्रस्यापि श्रियं हरेत् ।
गुरुशुक्रतृतीयायां पूजा कुंभे शतं जपेत् ।। ५९ ।।
हुत्वा त्रिमधुरं सेकाद्भ्रष्टश्री लभते श्रियम् ।
विष्टनप्राकृतिं कृत्वा अंगुष्ठा मस्तकावधि ।। ६० ।।
छित्वा पञ्चशतं हुत्वा स्वकुलं परिनेष्यति ।
सिन्दूरमक्षता युक्तं शताष्टपरिमन्त्रितम् ।। ६१ ।।
कृत्वा कन्याकरे दत्वा आविष्टावेष्टकब्रुवेत् ।
राजिकाधूमजं क्षारं दशधा चाभिमन्त्रितम् ।। ६२ ।।
प्. ६१) महारोगप्रशमनं स्नानमात्रेण निश्चितम् ।
तैलं वाथ घृतं वाथ अष्टधा वाभिमन्त्रितम् ।। ६३ ।।
पानात्नाभिप्रदानाच्च प्रसूते सुखनिद्रया ।
शिरस्थाने घटं पूज्य अष्टोत्तरशतं जपेत् ।। ६४ ।।
हिताहितेषु कार्येषु स्वपरै वादयन्भवेत् ।
हताम्बर समादाय कृष्णमावर्त्यलक्षकम् ।। ६५ ।।
तथैवादृश्यकः सभ्यक्रीडते वसुधातले ।
पञ्चविंशतिसाहस्रं करे कृत्वा यवा जपेत् ।। ६६ ।।
जपान्ते भक्षयेत्प्राज्ञो वागीश्वरसमो भवेत् ।
लाक्षार्द्धहोमयेद्वीरः कदम्बकुसुमैर्यदा ।। ६७ ।।
कुण्डादुत्तिष्ठत शीघ्रं वेतालाः सिद्ध्यते तदा ।
काकिनी वीरहोमेन तुष्टा भूतपिशाचकाः ।। ६८ ।।
लक्षार्द्धार्द्धेन होमेन नित्यं दद्यान्यलैककाम् ।
कन्याहस्तान्तरं गृह्ण लक्षार्द्धन्तु श्मशानके ।। ६९ ।।
जप्त्वा भूतभविष्यञ्च वर्तमानभवन्पतिम् ।
नृगोलोचनकौ गृह्य सलाक्षाशतमन्त्रितम् ।। ७० ।।
ललाटे तिलकं कृत्वा यो दध्येत्स वशो भवेत् ।
कुंकुमागुरुकर्पूररोचनानिसुमिश्रितैः ।। ७१ ।।
शताभिर्मंत्रितं कृत्वा तिलकं यः करिष्यति ।
रणे राजकुले द्यूते विवादे स जयी भवेत् ।। ७२ ।।
प्. ६२) सिद्धार्थकवराश्वेता प्रत्यूषे कलशोदरे ।
कृत्वा प्रातश्चतुर्दश्यां संपूज्य मधु संयुज्यते ।। ७३ ।।
मुखे प्रक्षिप्य जप्त्वा तु परवादे जयो भवेत् ।
शीवश्रपुंखिकामूलं शताष्टपरिजपितम् ।। ७४ ।।
शिरोवेष्टिक ये वद्धा परवादैर्निवारणम् ।
आचाराचारभेदेन तत्र देवि न विद्यते ।। ७५ ।।
निराचारापि साचारा तस्य देव्याः प्रभावतः ।
विशेष किं बहूक्तेन सारमेतद्वदाम्यहम् ।। ७६ ।।
नृचर्ममासनं कृत्वा नरपात्रे प्रपूजयेत् ।
यथा गुरुमुखोद्दिष्टनिर्विकल्पेन साधयेत् ।। ७७ ।।
लाक्षारसनिभेनैव हेतुना परिपूरितम् ।
फलं दत्वा तत्र मध्ये पात्रे हेतुप्रपूरिते ।। ७८ ।।
अष्टम्यां वा चतुर्दश्यां वा विशेषतः ।
शिवरात्र्यां तथा पूजा निशायां परिपूजयेत् ।। ७९ ।।
यथा श्रीचक्रपूजां वै तथा सर्वं समाचरेत् ।
बिन्दुचक्रे त्रिकोणे तु महापात्रं तु थापयेत् ।। ८० ।।
पञ्चकाल्यां तु पञ्चारे चरुकं पञ्च वै क्रमात् ।
नातः परतरं भद्रे कालिकाक्रमपूजने ।। ८१ ।।
भोगी स्वर्गसुखं मोक्षं आज्ञासिद्धिं भवेद्ध्रुवम् ।
सत्यं सत्यं महादेवि सममेतद्ब्रवीम्यहम् ।। ८२ ।।
प्. ६३) अन्यथा कुरुते यस्तु हेतुवादकुतर्कतः ।
परिश्रमं केवलं तु न संसिद्धिमवाप्नुयात् ।। ८३ ।।
इत्येतत्ते समाख्यातं कालिकायाः कुलक्रमम् ।
विधानं परमं दिव्यं शास्त्रैः कालिक्रमागतैः ।। ८४ ।।
गोपनीयं प्रयत्नेन न दद्याद्यस्य कस्यचित् ।
गुरुभक्तिरतो यो हि महाशास्त्रमयी तु सा ।। ८५ ।।
रम्यं पुष्पफलं दृष्ट्वा वस्त्रालङ्कारमेव वा ।
स्वात्मप्रियानि भव्यानि यत्किंचिद्भुवि दुर्लभम् ।। ८६ ।।
गुरवे प्रथमं दत्वा नतः स्वात्मनि धारयेत् ।
गुर्वागमक्रमारीणा पूजकाय प्रदापयेत् ।। ८७ ।।
गुरु संतुष्टमाने तु सन्तुष्टा कालिकाक्रमम् ।
येनेदं लिख्यते शास्त्रं यस्य हस्तेषु तिष्ठते ।। ८८ ।।
यत्र स्थितं प्रपूज्यन्ते विधिवत्परमेश्वरीम् ।
स निर्विघ्नं तु सण्मासं यावज्जीवति चैव हि ।। ८९ ।।
पुस्तकं पूजितं येन इदं कालिकुलक्रमम् ।
समग्रं पूजितं तेन कालिका कालनाशिनी ।। ९० ।।
आब्रह्मस्तम्बसकलं कालेन कलयेत्सदा ।
तं कालं कालिकादेवी कलयेत्सा युगे युगे ।। ९१ ।।
न कालीसदृशो यज्ञो न कालीसदृशी तपः ।
न कालीसदृशी धर्मो न कालीसदृशी भुवि ।। ९२ ।।
प्. ६४) जीवमुक्त स विज्ञेयो महापाशुपतः स वै ।
महायोगी विजानीहि कालिकापथसंश्रिता ।। ९३ ।।
अहं मृत्युञ्जयो देवो मङ्गलाचर तो भवेत् ।
कलौ विशेषतः काली पूजितव्या प्रयत्नतः ।। ९४ ।।
देवतासंयुतं विघ्नं वर्जितस्थानकं प्रिये ।
यो ज्ञाता भैरवो देव श्रोतो रुद्रसमः भवेत् ।। ९५ ।।
स एकधा च बहुधा साधकानां हिताय च ।
नानातन्त्रप्रवाहास्तु नानाम्नायत्वमागताः ।। ९६ ।।
तत्र भेदे नामभेदा एका शक्ती सहस्रधा ।
मङ्गला च महामाया चण्ड कापालिनी शिवा ।। ९७ ।।
चामुण्डा चर्चिका चण्डा सृष्टिस्थित्यन्तकालिनी ।
अनाख्या च महाभाषा गुह्यकाली जया परा ।। ९८ ।।
सिद्धिलक्ष्मी विश्वलक्ष्मी महाप्रत्यङ्गिरा स्मृता ।
सुन्दरी त्रिपुरा चारु उग्रचण्डा प्रकाशिनी ।। ९९ ।।
विभिन्ना बहुधा जाता नानाभेदमाश्रिता ।
एका सा बहुरूपा च जानीयाद्दिव्यचक्षुषा ।। १०० ।।
स एव साधकः श्रेष्ठः सिद्धिज्ञानस्य भाजनम् ।
स एव साधकाः श्रेष्ठः सिद्धि ज्ञानस्य भाजनम् ।
अनुष्ठानरतः सर्वं सिद्धिभागी भवेद्ध्रुवम् ।। १०१ ।।
।। इति श्री श्रोतशिरश्छेदे महाकरवीरयोगे परातन्त्रे नवमो पटलः ।। ९
।।
समाप्त
</poem>
0ye0gevpz2xvg8az473ussqfb291rhn
415682
415680
2026-04-18T07:03:06Z

== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
5s516hfq7mthqoly69tuoy6lynegiii
परात्रीशिकालघुवृत्तिः
0
164219
415681
2026-04-18T07:02:10Z
Shubha
190
{{header | title = परात्रीशिकालघुवृत्तिः | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ---- MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00042 Uniform title: parātrīśikālaghuvṛtti Commentator :... नवीन पृष्ठं निर्मीत अस्ती
415681
wikitext
text/x-wiki
{{header
| title = परात्रीशिकालघुवृत्तिः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00042
Uniform title: parātrīśikālaghuvṛtti
Commentator : abhinavagupta
Editor : śāstrī j z
Description:
E-text transcribed from the Kashmir Series of Texts and Studies Volume 68 .
Notes:
The e-text was transcribed by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski . Revision 0: April 13, 2007
Publisher : Research Departement Jammu and Kashmir State
Publication year : 1947
Publication city : Shrinigar
Publication country : India
----
परात्रीशिकालघुवृत्तिः |
महामाहेश्वराचार्यवर्य - श्रीमदभिनवगुप्तरचिता |
यत्र तेजसि तेजांसि तमांसि च तमस्यलम् |
तेजांसि च तमांस्येतद्वन्दे ज्योतिरनुत्तरम् || १ ||
सदागमप्रवाहेषु बहुधा व्याकृतं त्रिकम् |
श्रीमदुत्पलदेवीयं तन्त्रसारं तु वर्ण्यते || २ ||
सदाभिनवगुप्तं यत्पुराणं च प्रसिद्धिमत् |
हृदयं तत्परोल्लासैः स्वयं स्फूर्जत्यनुत्तरम् || ३ ||
तत्र स्वात्मदेवतैव प्रबुद्ध्यमानावस्थायां स्वात्मानं
परामर्शोशेनावतरन्तं पृच्छतिं | तत उच्यते श्रीदेव्युवाच इति | किं
पृच्छति ? तदाह -
अनुत्तरं कथं देव स्वतः कौलिकसिद्धिदम् |
येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् || १ ||
हे स्वात्मरूप देव सर्वत्र ज्ञाने करणे च प्रथममभिमुखीभूत,
तव तावदनुत्तरं रूपम् उत्तरम् उत्कृष्टमुपरिवर्ति, तच्च जडापेक्षया
ग्राहकरूपम् | तस्य तु चिदात्मनः स्वप्रकाशस्य न ग्राहकान्तरमस्तीति
अनुत्तरत्वम् |
(प्. २) तेन अनुत्तरं संविद्रूपं सदा सर्वत्रावभासितं
पूर्वापरदेशकालविहीनमनपह्नवनीयम्, किं तत्रोच्यताम् | इदं तु
तत्रोच्यते तत्किल कथं केन प्रकारेण कौलिकस्य कुलसमूहस्य
देहाक्षभुवनादेः अपूर्वरूपस्य स्वतः स्वतन्त्रतः सिद्धिं
उभयेन्द्रियसंवेद्यतया अभिव्यक्तिं ददाति, दा दाने दोऽवखण्डने इति च
धातुगत्या सृजति संहरति चेत्यर्थः | अनुत्तरं चिदेकरूपं सत् कथं
नवनवेन अत एव पर्यनुयोज्येन वेद्यवेदनवेदकादिभेदेन भातीत्यर्थः |
ननु किमेतेन | ज्ञातेनानेन प्रकारेण ज्ञातमात्रेण खेचरी
बोधभूमिसंचारिणी सती इयं संविच्छक्तिः १समताम् अविकल्पत्वं
पूर्णत्वमात्मनो व्रजेत् गच्छेज्जानीयात् | २तत्प्रकारापरिज्ञाने तु न खेचरी
अबोधरूपे वेद्यांशे संचरणात् | तत एव वेद्यैः नीलादिभिर्नियन्त्रितेति न
पूर्णशक्तिः | किंच धारणादिक्रमेण प्राणयोगादिकृताः सिद्धयः सन्ति
अनुत्तरं संविन्मात्ररूपमक्रमं कथं कौलिकसिद्धिं सक्रमां ददाति
येन ज्ञातमात्रेण देवीरूपत्वं व्रजेत् || १ ||
एतद् गुह्यं महागुह्यं कथय स्व मम प्रभो |
हृदयस्था तु या शक्तिः कौलिनी कुलनायिका || २ ||
तां मे कथय देवेश येन तृप्तिं व्रजाम्यहम् |
एतदप्रकटमतिशयेन महत् उत्कृष्टमगुह्यं स्वप्रकाशं यथा
भवति तथा कृत्वा प्रभो ३आच्छादने स्वरूपस्य प्रकटने च प्रभवनशील
हे स्व स्वात्मन् मम पृच्छन्त्याः संविदः
______________
१तत्समतामिति पाठान्तरम् |
२तत्प्रकारेऽपरिज्ञाते तु इति पाठान्तरम् |
३निजस्वरूपस्याच्छादकप्रकटननोच्छादनैकरूप, प्रकटनेन च
प्रमातृरूपत्वात्प्रभवनशीलेति पाठान्तरम् |
(प्. ३) कथय विमर्शपदवीं १वाक्यप्रबन्धपर्यन्ततामानय | ननु
ग्राहकरूपं सर्वस्य हृदये स्फुरति तत्र किं प्रश्नेन | २सत्यं, स्फुरितमपि
न तत्त्वतो हृदयङ्गमीभूतम् | हृदयङ्गमीभावेन विना
भातमप्यभातमेव रथ्यागमने तृणपर्णादिवत् |
हृदयङ्गमतावगमनसाध्या हि तृप्तिर्जीवन्मुक्तता, तत्समावेशसाध्या हि
तृप्तिर्विभूतिरूपेति द्विविधा तृप्तिः परामर्शेन विना न भवतीति युक्त एव
प्रश्नः | तदेव दर्शयति हृदयस्था हृदये संविद्रूपे स्थिता या
स्वातन्त्र्यलक्षणा शक्तिर्यस्याः कुलं ग्राह्यग्राहकग्रहणचक्रं
निर्मेयत्वेन प्रयोजनं तत एव कौलिनी | तस्य निर्मितस्य कुलस्य नायिका सा
अधिष्ठात्री, तद्वेदनेन तदवभासनकर्त्री च तत्स्वरूपसंहर्त्री च | तां मे
कथय परामर्शपदवीं नय | येन परामृश्यतानयनेन तृप्तिं
भुक्तिमुक्तिरूपां व्रजाम्यहमिति संवेदनरूपां कथयेति णिचौ | एवं
प्रबुद्ध्यमानरूपा संवित् यदा प्रश्नं
निर्भृतावभासमानपरमार्थस्वरूपं करोति तदा
प्रबुद्धावस्थाप्रतिपत्तौ सैव पूर्णरूपा भैरवदेवतात्मिका
प्रतिवचनदात्री संपद्यते | नच ३अत्र ऐदंप्राथमिकत्वं कदाचित् अपितु
पुरातनमेव तत्परमावर्तमानं कालभेदकल्पनया भातीति भूतत्वेन
व्यवह्रियते || २ ||
५दिव्यरूपत्वेन प्रत्यक्षाभावात्परोक्षेण तदेतदुच्यते
श्रीभैरव उवाच |
शृणु देवि महाभागे उत्तरस्याप्यनुत्तरम् || ३ ||
कथयामि न सन्देहः सद्यः कौलिकसिद्धिदम् |
__________________
१वाक्यजन्यपर्यन्ततामिति पाठान्तरम् |
२सत्यं स्फुरतीति पाठान्तरम् |
३न चात्रेच्छां प्राथमिकीं काचिदित्यपि पाठः |
४वेद्यत्वेन चेत्यपि पाठः |
(प्. ४) कौलिकोऽयं विधिर्देवि मम हृद्व्योम्न्यवस्थितः || ४ ||
१महान् भागः प्रबुद्धत्वावस्थायामुज्जिगमिषालक्षणा यस्याः सा
त्वमेवंभूता शृणु स्फुटमवधारय | २अहमुत्तरस्यापि ग्राहकस्यापि
यदनुत्तरं रूपम् | अपिशब्दाद् ग्राह्यग्रहणादेरपि | कौलिकसिद्धिदं
३विश्वावभासनादिभोगापवर्गतृप्तिप्रयोजनं | तत्कथयामि तच्च
हृदयङ्गमतां नयामि | यथा सद्य एव अवधारणमात्रे संपन्ने एव
पुनरत्र सन्देहो न भवति | यस्मात् अयमिति भासमानो यः कौलिको विधिः स
मम हृदयाकाशे हृदयत्वेन सदा विदितः सन् चिदात्मतया तावदास्ते |
सदेव सौम्येदमग्र .... एकमेवाद्वितीयं .... तदैक्षत
इत्यादिश्रुतेः || ४ ||
ततश्च
अथाद्यास्तिथयः सर्वाः स्वरा बिन्द्ववसानकाः |
तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ || ५ ||
पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु |
क्रमात्कादिषु वर्गेषु मकारान्तेषु सुव्रते || ६ ||
वायवग्निसलिलेन्द्राणां धारणानां चतुष्टयम् |
तदूर्ध्वे शादि विख्यातं पुरस्ताद् ब्रह्मपञ्चकम् || ७ ||
अमूला तत्क्रमा ज्ञेया क्षान्ता सृष्टिरुदाहृता |
सर्वेषां चैव मन्त्राणां विद्यानां च यशस्विनि || ८ ||
____________
१महानुभवैकप्रबुद्धेति पाठान्तरम् |
२यतोऽहमुक्रस्येति पाठान्तरम् |
३विश्वावभासकादिभोगेति पाठान्तरम् |
(प्. ५) इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा |
इह पदार्थप्रकाशनमेव तावत् संवेदनं प्रसिद्धम्, पदार्थश्च
ज्ञातृज्ञेयस्वभावः, तत्र ज्ञातृता नाम उन्मेषनिमेषलक्षणेन
संकोचविकासात्मज्ञानक्रियालक्षणेन स्वभावेन स्वपरिस्पन्दनसारा नतु
परिनिष्ठिता | परिच्छिन्नजडरूपघटादितुल्यस्य च संकोचविकासयोगः कथम्
| त्रिकोणं हृदयस्पन्दनादिषु यथायथा स्फुटीभवति तथातथा
ज्ञातृत्वमुत्कृष्यते | १या बहिरिव संविदि यथायथा न्यूनीभवति, तथातथा
तन्निकृष्यते | यावज्जडपाषाणादौ स्वयं संकोचविकासलक्षणो विसर्गः
स्वातन्त्र्यात्मा भगवतोऽनुत्तरस्य शक्तिः | तेन
भैरवसंघट्टविश्रमणोदयपरमार्थशिवशक्तिस्वरूपं
रुद्रयामलमुच्यते | संकोचविकासयोगे एव मध्ये अनुत्तरः, आनन्दः, इच्छा,
ईशना, उन्मेषः, ऊनता, इच्छेशनयोरस्फुटस्फुटवेद्योल्लासः ऋ ॠ ऌ ॡ
भवति, तयोरिच्छेशनयोरनुत्तरानन्वाभ्यां सन्धियमानत्वात् ए ऐ,
उन्मेषोनतयोस्ताभ्यामेव तथाकृतत्वात् ओ औ इति भवति, तदनन्तरं
वेद्यजातस्य वेदकात्मकबिन्दुस्वरूपसंस्कारशेषत्वभित्यनेन रूपेण
परिपूर्णं२ भवति, इत्येवं पूर्णानन्दचिद्रूप३विसर्गशक्तिमयं
परभैरवयामलम् | तत्र विसर्गरूपता सामान्याकारा विशेषेषु
पञ्चदशस्विति पृथग् गणनार्हा न भवति | एवं कौलिको विधिर्मम तावद्
हृदि संविद्रूपतादात्म्येनावस्थितः | अथानन्तर ४मिदंपरामर्शमहिम्ना
प्रसरन्ति ये अकाराद्या बिन्दुपर्यन्ताः
____________________
१ज्ञातृतेत्यर्थः |
२पूर्णो भवतित्यपि पाठः |
३विसर्गशक्तिमयपरभैरवेति पाठान्तरम् |
४इदमिति पदं नास्ति क. पुस्तके |
(प्. ६) स्वराः, त एव परमानन्दरूपस्य स्थितिं पूरयन्तीति तिथय उक्ताः |
एवं सा बोधचन्द्रस्य प्रकाशानन्दमयस्यानुत्तरस्य विमर्शशक्तिः
पञ्चदशभिस्तिथिभिः पूर्यते | ते चैते सर्वे स्वराः शब्दनस्वरूपाः
१परमार्थात्मानो जगदपेक्षया स्वयं राजन्तः स्वप्रकाशाः तेषामन्तः
सोमसूर्यौ संकोचविकासौ तदात्मा तेषां तदन्तः तेषामन्तः
बिन्दुद्वयात्मा विसर्ग इति यावत् | ततः सर्वेष्वेतेषु कालेन संकलनात्मना
परामर्शनयोगः | ततो हेतोः | परामर्शो हि स्पन्दनात्मैव, नतु
परिनिष्ठिताचलजडरूपः | बहिरपि च सोमसूर्यौ
रात्रिदिवससंकोचविकासरूपेण तिथिपञ्चदशकस्य अन्तः २चरतः इति | इयं
सा भगवती परामर्शशक्तिः | यश्च असाविच्छायामीशने च वेद्योल्लासः स
एव पृथग्भवन् स्थूलतया भूतपञ्चकात्मा सूक्ष्मत्वेन च
तन्मात्रपञ्चकात्मेति दश तत्त्वानि, पृथिवी जलं तेजोवायुराकाशः गन्धो
रसो रूपं स्पर्शः शब्द इति | स एव वेद्योल्लासः करणतया
सृज्यमानानीन्द्रियाणि तत्तत्क्रियाशक्तिप्रधानानि
उपस्थपायुपादपाणिवागादीनि कर्मेन्द्रियाणि ३ज्ञानशक्तिप्रधानानि
बुद्धिन्द्रियाणि घ्राणरसनाचक्षुस्त्वक्श्रोत्रमिति | ततो वेद्यतायाः क्रमेण
संसारे वेदनाभसस्योल्लासे मनोऽहंकारः बुद्धिः प्रधानं पुरुसः |
तथा पृथिव्यादीनि पुरुषान्तानि कादिषु मान्तष्विति | पुरुषस्य च
४संवेद्यरूपस्यैवोपरि मान्तस्य वेद्यराशौ गणनम् | तेन हि विना
पृथिव्यादि वेद्यं कथं भवेत् | ५तेन वेद्याभासस्यैवेयद्रूपं
यद्वेद्यराशेरेव अत्यक्तवेद्यभावस्य भिन्न -
____________
१परमार्थात्मनो इति पाठान्तरम् |
२तिथिपञ्चदशकस्यान्तः चरन्तः इति पाठान्तरम् |
३ज्ञानशक्तिप्राधान्यानीति पाठान्तरम् |
४ संवेद्यरूपस्यैवोपरिमणस्येत्यपि पाठः |
५न वेद्याभासस्यैवेदं रूपमिति पाठान्तरम् |
(प्. ७) वेद्यवेदकैकीकरणम् | तद्व्यावृत्तानि तत्त्वानि | कलाः वायुरूपा किंचित्
कर्तृत्वेन प्रेरिका | अशुद्धविद्या तेजोरूपा किंचिज्ज्ञत्वेन प्रकाशिका च |
माया सलिलरूपा अभिष्वङ्गरूपनिमज्जनात्मकस्तम्भनस्वभावा |
इन्द्रोपलक्षिता पृथिवीरूपा रागशक्तिः | ता एताश्चतस्रः शक्तयः पुरुषं
धारयन्ति मध्ये त्रिशङ्कुवद१विश्रमयन्ति, अन्यथा पाषाणादिवत्
जडभुमिमेवापतेत्परमेश्वरवद्वा संविद्गगनमेवापतेत् | उभयथापि
मायाप्रमातृताभावे वेद्यमपि न किंचिदिति, संकोचविकासावपि न कौचित्,
संकोचेन विना २विकासस्याप्ययोगात् | तद्विसर्गरूपेण संकोचविकासात्मना
इदं सर्वमाक्षिप्तं | यत् ३वेद्यसृष्टिः समुचि(दि)तवेदकसृष्टिश्चेति |
आकाशशक्तया४ तु नात्र मायाप्रमातृताधाने प्रयोजनमस्ति | सा हि
अन्तर्लीना पुरुषस्य ५वेद्यशून्यतया वेद्यावकाशसहिष्णुतया च
६प्रमातृत्वात् तदीया नित्या विमर्शशक्तिः | यदा तु वेद्यतायाः क्रमेण
प्रछादनं संविद्रूपस्य च प्रथनं तत्र तावत् धृतिः, तद्रूपस्यैव
आप्यायनं तत्प्रकाशयोगः | तत्रैव परमस्वातन्त्र्यलाभात्मकं
स्पन्दनं सर्वत्र तेनैव रूपेण व्याप्तम् | इत्येतद् बृंहकं स्वरूपस्य
पूरकं व्यापकं पञ्चकं शादीनां
विद्येश्वरसदाशिवशक्तिशिवलक्षणं
सूक्ष्मपृथिव्यप्तेजोवायवाकाशरूपं,
सद्योजातवामदेवाघोरतत्पुरुषेशानरूपं
ब्रह्मपञ्चकशब्देनाख्यातमिति | एवमसौ ७परापररूपा ८विसर्गशक्तिः |
तथाभूतञ्च ९पञ्चकरूपं पुनरप्यनुत्तरविश्रान्तम् | तदेवं
१०विसर्गशक्तिरेव अथाद्या
______________________
१विश्रामयन्तीति पाठान्तरम् |
२विकासस्याप्यभावादिति पाठान्तरम् |
३वेद्यसृष्टिश्चेति इति पाठान्तरम् |
४आकाशशक्त्यात्मेति पाठान्तरम् |
५वेद्यत्वेति पाठान्तरम् |
६प्रमातृरूपत्वादिति पाठान्तरम् |
७श्रीपरापररूपेति पाठान्तरम् |
८विमर्शशक्तिः इति पाठान्तरम् |
९भूतपञ्चकरूपमिति पाठान्तरम् |
१०तथैव विमर्शशक्तिमयमित्यपि पाठः |
(प्. ८) इत्यादिना ब्रह्मपञ्चकम् इत्यन्तेनैव वपुषा विकसतीति | तदिदं
शक्तिचक्रमविच्छिन्नप्रबन्धं भगवतो भैरवनाथस्य |
अनुत्तरेच्छोन्मेषत्रिकोण१विसर्गशक्तयः एव हि
पञ्चभेदवत्य२श्चिदानन्देच्छाज्ञानक्रियाशक्तयो
वाच्यभूतपञ्चकशक्तिमययः इति | ततश्च
सर्वमेतदविभागपरामर्शरूपं प्रथमतः ततो
विभागपरामर्शात्मना पञ्चाशद्विमर्शरूपं परामृश्यरूपेण तु
३कर्मतां प्राप्तं बहिस्तत्त्वजालं जायते | तस्य परामर्शात्मतैव जीवितम् |
सा च मातृकारूपा | अत एव सर्वेषां मन्त्राणां गुप्तार्थभाजां
४बीजपिण्डात्मनां चतुष्कलनवात्मादीनां
पुरुषरूपवाच्याध्यवसितानाञ्च विद्यानां
संवेद्यमानस्फुटार्थरूपाणां नमःशिवाय इत्यादिमालामन्त्राणां
स्त्रीरुपवाच्याध्यवसितानां च सर्वेषामियं योनिः
अविभागपरामर्शतारूपं कारणं | सर्वेषु शिवरुद्रादिरहस्यतन्त्रेषु
यत्किंचिदुच्यते तत्सर्वं इत एवोदेति | ५यत्किल परावर६सिद्धिदं रूपं
तत्सर्वं तत्त्वषट्त्रिंशत्यां७ लभ्यते | तस्याश्च परामृश्यं
यज्जडरूपं शरीरस्थानीयं तस्य परामर्शता जीवितं, सा च अस्यां
भगवत्यामिति इथमेव सर्वं ददाति | अत एवेह भगवत्याः प्रष्टुरूपत्वम् |
अनयैव हृदयङ्गमतया यशस्विनि इति ८प्रसिद्धम् | इयता विश्वात्मरूपेण
प्रसिद्धा जातेति यशस्विनीत्यामन्त्रणम् | एषा च सा त्रिविधा सृष्टिरकारमूला
क्षकारपर्यन्ता अनुत्तररूपा ९प्रसूतिः पुनरपि शिवात्मन्येव१०
विश्रान्तिद्वारेण
______________________
१विमर्शशक्तय इति पाठान्तरम् |
२पंचभेदवत इति पाठान्तरम् |
३तूत्तरतां प्राप्तमिति पाठान्तरम् |
४बीजात्मगतानामिति पाठान्तरम् |
५यत्किंचिदिति पाठान्तरम् |
६परासिद्धिरूपमिति पाठान्तरम् |
७त्रिंशत्येतिपाठान्तरम् |
८प्रसिद्धमिति इति पाठान्तरम् |
९अनुत्तररूपात्प्रभृति इति पाठान्तरम् |
१०शिवात्मन्येवानुत्तरधाम्नि इति पाठान्तरम् |
(प्. ९) तत्रैवानुत्तरधाम्नि विश्रमणं यस्याः सा तथाभूता उदाहृता
ज्ञेया सती | अनयाभिज्ञातया तदनुत्तरस्पन्दस्वरूपं सुष्ठु ज्ञातं
भवतीति यत्किल तदनुत्तरमिति यावत् | एवं हृदयस्था
पूर्वमविभागपरामर्शरूपा १शक्तिः विभागपरामर्शतां
कौलिकसिद्धिरूपतामनेनैवानुत्तररूपस्वातंत्र्येण प्रतिपद्यते इति निर्णीतं
शिवरुद्ररहस्यादितन्त्रेषु || ८ ||
नन्वविभागपरा२मर्शे पृथग्विभागपरामर्शमूलभूते
हृदयस्वरूपे ३सति न निवृत्तः सन्देहः ? इत्याशङ्क्यादिशति
चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् |
तृतीयं ब्रह्म सुश्रोणि हृदयं भैरवात्मनः || ९ ||
चतुर्दशेन स्वरेण परिपूर्णानुत्तरानन्दशालिना
संपूर्णक्रियाशक्तिशरीरोन्मेषोनत्वसंपदा
क्रियाशक्तिद्वारान्त४र्लीनेच्छाज्ञानयुगलेन युतं सततं मिश्रीभूतं
यदिदं तृतीयं ब्रह्मसदाशिवतत्त्वा५त्मकं ग्राह्यराशिविलक्षणं
सद्रूपं विश्वं तत् तिथीशानां - पञ्चदशानां स्वराणां ६योऽन्तः
पर्यन्तस्थितिभूतो विसर्गः तस्मिन् सम्यक् अवियोगेन अन्वितं विश्रान्तं सत्
भैरवात्मनो भगवतः शब्दराशेः विश्वशरीरस्य हृदयं सारभूतम् |
यथा हि सर्वतत्त्वमयशरीरस्य विभक्तत्वगादिसन्तानतन्त्रितस्य७
तदविभागप्रकाशविमर्शविश्रान्तिधाम हृदयपदमुच्यते, तथैव
भगवतो भैरवनाथस्य तदिदं विभक्ततत्त्वभुवनादिमयं विश्वरूपं
परामर्शसारं पञ्चाशद्वर्णमयं शरीरं
___________________
१शक्तिः, सा विभागेति पाठान्तरम् |
२परामर्शस्यत्येपि पाठः |
३सतीति पदं नास्ति क. पुस्तके |
४तदुक्तं [अस्मिंश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके | त्रिशूलत्वमतः
प्राहशास्ता श्रीपूर्वशासने || तं लो. |]
५सदाशिवतत्त्वात्मकमघोरप्रकाशस्वरूपमस्फुटीभूतेदन्तात्मकग्राह्य
राशिलक्षणमिति पाठान्तरम् |
६यतो निश्चय इति पाठान्तरम् |
७यंत्रितस्येति पाठान्तरम् |
(प्. १०) तस्य तदविभागपरामर्शसारमिदं हृदयम् | भो भगवति सुश्रोणि!
विश्रान्तपरमानन्दमयधामशक्तित्रयगतानवरतसङ्कोचविकासरूपत्रिको.
नपरिस्पन्दनरूपमेतद् हृदयं भैरवात्मनो भैरवस्य
आत्मभूतायास्तदविभागवत्याः श्रीपरादेव्याः १तत्त्वं भवति |
अनुत्तररूपा संवित् तावत्, बीजात्मनो २प्रथमस्वरकोट्योः
स्वरूपविश्रान्तिसतत्त्वयोः परिस्पन्देन तत्स्पन्दप्रभावादेव मध्यकोटौ
विभक्तपरामर्शात्मना सृष्टिरूपेण समस्ततत्त्वम३यीति | अत एव वक्ष्यते
सृष्टिं तु संपुटीकृत्य इति || ९ ||
एतन्नायोगिनीजातो नारुद्रो लभते स्फुटम् |
हृदयं देवदेवस्य सद्यो योगविमोक्षदम् || १० ||
एतत् बीजं यो लभते स लाभकाल एव न पशुः, यतोऽस्मिन् लब्धे एतत्
हृदयं ४जायते | एतदहृदयतैव भैरवत्वम् | ५ततो रुद्रयोगिनीयामलेन
६यावत् न जातं शक्तिस्वरूपोन्मीलनं तावद् एतद् हृदयं७ कथमस्योन्मीलति |
अस्मिन्नुन्मीलिते सत्यऽनेन हृदयेन सहयोगः | एतद् हृदयलाभः
श्रीभैरवयामलसमावेशलक्षणो जीवत एव विमोक्षद इति उन्मीलनमात्रे
जीवन्मुक्ततालक्षणा परा कौलिकी सिद्धिरनुत्तरे संविन्मात्ररूपे यथा
विधीयते, तथा दर्शितम् || १० ||
अधुना येन प्रकारेण अपरा अपि सिद्धयो विभूतिलक्षणाः
संवित्परिस्पन्दपरामर्शबलात्
प्राणनाडिकालवेलामन्त्रविद्याचर्यादिविडम्बननिरपेक्षात् भवन्ति, तं
प्रकारमुपक्र-
______________
१एतत्तत्त्वं भवति क. पाठः |
२स्पन्देन प्रथमेति पाठान्तरम् |
३मययैवेति पाठान्तरम् |
४ज्ञायते इति पाठान्तरम् |
५अथेति पाठान्तरम् |
६योजनत इति पाठान्तरम् |
७हृदयप्रकाशमुन्मीलनं मीलयतीति पाठान्तरम् |
(प्. ११) मपूर्वं दर्शयति -
अस्योच्चारे कृते सम्यङ् मन्त्रमुद्रागणो महान् |
सद्यः सन्मुखतामेति स्वदेहावेशलक्षणम् || ११ ||
मुहूर्तं स्मरते यस्तु चुम्बके नाभिमुद्रितः |
स बध्नाति तदा देहं मन्त्रमुद्रागणं नरः || १२ ||
अतीतानागतानर्थान् पृष्टोऽसौ कथयत्यपि |
प्रहराद्यदभिप्रेतं देवतारूपमुच्चरन् || १३ ||
साक्षात् पश्यत्यसन्दिग्धमाकृष्टं रुद्रशक्तिभिः |
प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन् || १४ ||
त्रयेण मातरः सर्वा योगेश्वर्यो महाबलाः |
वीरा वीरेश्वराः सिद्धा बलवान् शाकिनीगणः || १५ ||
आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः |
यच्छन्ति परमां सिद्धिं फलं यद्वा समीहितम् || १६ ||
एतत् संवित्तत्त्वं हृदयतां चेत् प्रतिपन्नं तदा जीवन्मुक्ततेति उक्तम् |
यदा तु १तदेव प्राणबुद्धिभूमिषु सिद्धरसविध्यमानधातुन्यायेन
समावेशक्रमेणैतधृदयात्मकपरामर्शपात्रतापादनया
प्राणबुद्ध्यादिजडिमन्यक्कारिण्या २प्रसरद्रूपमभ्यासदशां
संपाद्यते, तदास्य स्वविमर्शावेशाभ्यासादेव
नाडीप्राणजयादिशास्त्रान्तरीययोगनिरपेक्षा एव अपरा अपि सिद्धयो
विभूतिरूपाः कौलिकस्य सिद्धयो जायन्ते इति तात्पर्यम् | अस्य बीजस्योच्चारे
प्राणरूपतायां समावेशेन तावत्कृतमात्र एव ज्ञानक्रियाशक्तिशरीरा
मन्त्रमुद्राः सद्य एव
________________
१परशरीरस्येति पाठान्तरम् |
२प्रहरद्वयमिति पाठान्तरम् |
(प्. १२) संमुखतामुच्चारयितुराभिमुख्यं प्रतिपद्यन्ते | कथम्
स्वदेहावेशलक्षणं कृत्वा | तेन हि प्राणेन स्वदेहोऽप्याविश्यते | ततश्च
संपूर्णज्ञानक्रियात्मक१हृदयरूपान्तर्लीनीकृतेन प्राणनाड्यधिष्ठितो
देहोऽपि
तधृदयरूपतासमाविष्टज्ञानक्रियात्मिकाभिर्मन्त्रमुद्राभिराविश्यते
तावत्तावदुपक्रमो विभूतीनां मन्त्रमुद्रायत्तत्वादिति | अथ तथावेशो
निरन्तरं यदि घटिकाद्वयमभ्यस्यति चुम्बके वक्त्रे
समस्तबाह्यसद्रूपभावराशिनिष्ठचुम्बनात्मनि निगिरणप्रवृत्ते
काकचञ्चुपुटाकारे सद्वृत्तिरूपसोमस्वभावपरमशीतलरसास्वादकारिणि
सति नाभिमुद्रितं नाभिस्थानावधिं कृत्वा
२पूर्णकुम्भकसमावेशाभ्यासेन, तदा मन्त्रमुद्रासमूहः देहे
वाग्रूपे कालरूपे च ३परेशस्यैवाभिव्यज्यते बुद्धिरूपे च प्रत्यगात्मनि
प्रकाशते, ज्ञानक्रियावेशाद्यथा ४प्रश्ने कृते झटिति प्रतिभासते,
अतीतानागतवर्तमानं तत्सर्वमवितथमेव भवति | ५तथाभूततेजश्च
सामान्याकारमन्त्रमुद्रावेशाभ्यासे दृढीभूते तमेवाभ्यासं
निरन्तरं मध्ये विच्छेदशून्यमेकरसं सकृद्विभातं प्रहरपर्यन्त
तां यदि नयति, यां कांचिन्मन्त्रदेवतां मुद्रादेवतां वा हृदये
संधीयते, तदा ६तामेव
रुद्रशक्तिभिर्निरन्तरसमावेशावष्टम्भनवीर्यरूपाभिराकृष्टा-
मानीतां७ साक्षाद्रूपेण स्वशरीरतादात्म्येन प्रतिपन्नामाकृतितः८
पश्यति | ९तथा प्राप्तेऽपि यदि समावेशं न त्यजति तदा प्रहरद्वयं
निरन्तरं समाविष्टो देह
______________________
१हृदयरूपस्यान्तर्लीनस्य कृते इति पाठान्तरम् |
२पूरककुम्भकेति पाठान्तरम् |
३परवशस्येवेति पाठान्तरम् |
४प्रकटने कृते इत्यपि पाठः |
५तथा भूते चेति पाठान्तरम् |
६तमेवं रूपशक्तिभिः इति पाठान्तरम् |
७आसादितामिति पाठान्तरम् |
८आकृतितः कालतश्चेति पाठान्तरम् |
९तथा स्वीकारे प्राप्ते इत्यपि पाठः |
(प्. १३) प्राणादिकं स्वकं न किंचित् पश्यति १निरावरणं चिद्रूपघनमेव
सकलमवलोकयति | तथा एतस्मिन् सर्वदा यावदतिपरिक्षीणेन देहेन
अन्यशरीरकल्पेन अविच्छेदे पुनरपि यदा समावेशाभ्यासं न परित्यजति,
यदा प्रहरत्रयं निरन्तरं सकृद्विभातविभेदवन्ध्यस्वरूपे
समावेशशालिनि तिष्ठति, तदा मातरो ब्राह्म्यादिकाः, योगेश्वर्यश्च
तच्चक्राभ्याससिद्धाः वीराश्च अघोरादयः, वीरेश्वराः
नवात्मदेवताप्रभृतयः समुन्मीलयन्ति | तच्चक्राभ्यास२जातविभूतयश्च
सिद्धा जायन्ते | एते महता भैरवबलेन युक्ताः | यश्च शाकिनीनां
शक्तीनां खेचर्यादिभेदभिन्नानां संबन्धी गणो वर्गः भैरवबलेन
बलवान् | एते सर्वे परमां सिद्धिं धरण्यादिशिवान्ताध्वविषयां अनेनैव
देहेन ३स्वतन्त्रतां ददति | यतः एते सर्वे ४मातृप्रभृतयो देवताविशेषाः
समयं दत्त्वेति मर्यादापूर्वकं भैरवेण भगवता स्वरूपाविभेदेन
स्वरूपावभासनेन भैरवचक्रानुजीवितत्वेन प्रकर्षेण ५चोदिताः | सर्वे एते
देवताचक्रेश्वरा६स्तदाविष्टप्राणा ७भैरवभूता एव, अतस्तदनुगामिन्यो
भवन्ति | तदुक्तं आगत्येति | विशिष्टं किञ्चिदेकतमं
उत्तममध्यमाधमफलराशिमध्यात्
खड्गगोरोचनोद्दिष्टपातालादिफलं हृदयेऽभिसंहितं भवति, तदा तदपि
प्रयच्छन्ति || १६ ||
यथा अन्येषां प्राणनाडिजयप्रभृतीनां योगानां
विशिष्टचर्यासामग्र्यादिबाह्यापेक्षावशात् कालवेलादिसंकोचः
___________________________
१निरावरणेति पाठान्तरम् |
२वीरेश्वरा नवात्मदेवताप्रभृतयः तच्च क्राभासेति अधिकः |
३स्वातंत्र्यमिति पाठान्तरम् |
४मात्रा इति पाठान्तरम् |
५भावितेति पाठान्तरम् |
६तदाविष्टप्राणादिश्चेति पाठः |
७भैरवभूत एवेति पाठान्तरम् |
(प्. १४) यथोक्तं
कुलबीजकमस्यान्तर्भोगः कौलं कृषादिषु |
इति | तथा अत्र न कश्चिदवच्छद इति समादिशति -
अनेन सिद्धः सेत्स्यन्ति साधयन्ति च मन्त्रिणः || १७ ||
अयं त्रिष्वपि कालेषु अविशिष्ट इत्यर्थः || १७ ||
ननु किं तत् साधयन्ति१ अनेनेत्याह
यत्किंचिद्भैरवे तन्त्रे सर्वमस्मात् प्रसिद्ध्यति |
मन्त्रवीर्यसमावेशप्रभावान्न नियन्त्रणा* || १८ ||
यदन्यशास्त्रेषु किचित्साध्यमुक्तं तत्सर्वमनेनैव सिद्ध्यतीति का
अ२त्रासाध्यगणनेति यावत् | ननु केन विधानेनायं मन्त्रो ग्राह्य
इत्याशङ्क्योत्तरमाह् - अस्मिन्नये न कदाचिन्नियन्त्रणा | एत३त्प्राप्तिमात्रमेव
साध्यं, नत्वत्र विद्याव्रतादि किंचित्सहकारिभावेनोपयोगि केवलं
परिक्षीणशङ्कातङ्कत्वमत्र उपयोगि शङ्कायाः सन्देहविप्रतिपत्तिसारतया
एकरसतद्विमर्शात्मकसमावेशविघ्नभूतत्वादिति स्फुटीक्रियते || १८ ||
अदृष्टमण्डलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः |
स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः || १९ ||
अनेन ज्ञातमात्रेण ज्ञायते सर्वशक्तिभिः |
शाकिनीकुलसामान्यो भवेद्योगं विनापि हि || २० ||
अविधिज्ञो विधानज्ञो जायते यजनं प्रति |
आसतां तावदन्ये विधयः४, मण्डलदर्शनोपलक्षितमधिवासनादि
हातृवधिपर्यन्तं मन्त्रार्पणविधिजातमपि न किञ्चि-
__________________
१साधयत्यनेनेति पाठान्तरम् |
२साध्यानामिति पाठान्तरम् |
३एतत्प्राप्तिरेव साध्येति पाठान्तरम् |
*मन्त्रवीर्यसमावेशे न कदाचिन्नियन्त्रणा इति पाठान्तरम् |
४अन्यो विधिः इति पाठान्तरम् |
(प्. १५) दत्रोपयोगी | एवमिति उक्तं वक्ष्यमाणं च यस्तत्त्वता निःशङ्कतया
वेत्ति, स भुक्तिमुक्तिरूपसिद्धिभागी | स एव परमार्थतो योगेन
समावेशलक्षणेन युक्तः | स एव सत्यतः
शिवतादानभेदपाशक्षपणलक्षणां दीक्षां प्राप्तः |
एतज्ज्ञानमात्रादेव सर्वशक्त्युपलक्षितोऽसौ संपूर्णस्वरूपो १ज्ञायते
२सिद्धो भवतीत्यर्थः | ३एतत्समावेशाभ्यासाद्योगं विनापि* शाकिनीकुलेन
देवताचक्रेण सामान्यस्तुल्यो भवति अनेन ज्ञातमात्रेण सर्वस्य वस्तुनः
पूरणात् | यजने यत् विधानमितिकर्तव्यता, तामविद्वानपि विद्वानेव भवति
पूर्णतत्फललाभात् | ४यस्तु लौकिकवैदिकशैववामदक्षिणकुलादिप्रसिद्धान्*
५विधीन्विधित्वेन न जानाति, स एव ६अत्र यजने विधिज्ञो जायते अनुत्तरविधिं यतो
जानाति | अनुत्तरसंविन्मात्ररूपे सर्वमन्यत् बहिरङ्गं भवति || २० ||
ननु चतुर्दशयुतं इत्यनेन यत् बीजमुक्तं, तत् कथं
विश्वाविभागिसंपूर्णशक्तिकस्वात्मरूपपरदेवतापरामर्श७मयं
भवतीति निरूपयति -
कालाग्निमादितः कृत्वा मायान्तं ब्रह्मदेहगम् || २१ ||
_____________________
१जायते इत्यपि पाठः |
२प्रसिद्धि इति पाठान्तरम् |
३यतः समावेशाभ्यासलक्षणं योगं इति पाठान्तरम् |
४यश्चेति पाठान्तरम् |
५विधित्वेन नियंत्रणात्वेनेति पाठान्तरम् |
६स एवात्र यजने इति पाठान्तरम् |
७रूपमित्यपि पाठः |
*विनापि-इत्यनन्तरमयं पाठोऽधिको दृश्यते :- शाकिनीकुलं
शक्तिचक्रेश्वरमेकं यास्यन्ति निश्चिन्वति | भगवत्यो देवतास्तासां
माननीयः तच्चक्रेश्वरतायोग्यत्वलाभात् [योगबलाद्भवति] इति |
*प्रसिद्धानित्यनन्तमयमधिकः पाठः -
शङ्कासङ्कोचकार्यकारणाभाववृत्तिविधीन् - इति |
(प्. १६) शिवो विश्वाद्यनन्तान्तः परं शक्तित्रयं मतम् |
तदन्तर्वर्ति यत्किंचिच्छुद्धमार्गे व्यवस्थितम् || २२ ||
अणुर्विशुद्धमचिरादैश्वरं ज्ञानमश्नुते |
तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः || २३ ||
सर्वगो निर्मलः स्वच्छस्तृप्तः स्वायतनः शुचिः |
यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः || २४ ||
तथा हृदयबीजस्थं जगदेतच्चराचरम् |
*यथा घटशरावप्रभृतिप्रपञ्चवर्जने मृण्मात्रमेव सत्यं,
मृद्रूपतात्मकप्रपञ्चवर्जनेनापि गन्ध इत्येव सत्यं
गन्धरूपताविशेषापरामर्शे अहमित्येव सत्यं, तथाभूतभेदभङ्गेऽपि
सुखदुःखमोहरूपता सारम्, सुखादिवैचित्र्यकर्तने
वेद्यवेदकमात्ररूपता, १पर्यन्ते वेद्यवेदकरूपभेदविगलने सदित्येव
अवशिष्यते, तत्रापि वर्णत्रयपरामर्शविशीर्णताकरणे
आद्यवर्ण२मात्रविश्रान्तिः, तथा जलतत्त्वादेरपि मायातत्त्वपर्यन्तस्य
वेद्यरूपस्याशुद्धाध्वमध्यपातिनः सर्वस्यैवान्त्यविश्रान्तिकाले
सर्वमेकघनममृतमात्मभूतम्, ३सैव ब्रह्मतापत्तिः ब्रह्मवादिनां
विश्रान्तिः तन्निर्मथनप्रवृत्त्या ४तु भैरवोऽपि, विश्वसृष्टिकारी | गीतं च
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् |
संभवः सर्वभूतानां ततो भवति भारत || (भ०गी० १४|३)
इति | तस्यापि ५यदा ६सन्मात्रविश्रान्तिधाम्नः स्वरूपभेदवि -
_____________________
१पार्यन्तिकीति पाठान्तरम् |
२वर्णमनुत्तरमात्रेत्यपि पाठः |
३सैवेति पदं नास्ति क. पाठः |
४अत्रेति पाठान्तरम् |
५यथेति पाठान्तरम् |
६संविन्मात्रेत्यपि पाठः |
*गन्धरूपताविशेषः परामर्शतः घट इत्येव सत्यं तथाभूतं
जगदेतच्चराचरमित्यधिको पाठो दृश्यते |
(प्. १७) गलनेन रूपं परामृश्यते, तदा
प्रकाशविमर्शनशक्तिरूपेऽनुप्रविष्टस्य तस्यावभासनमिति
तच्छक्तिस्वरूपात्तदभिन्नं परमार्थत इति शक्तिस्वरूपमेवावशिष्यते इति |
तच्च इच्छा वा क्रिया वा ज्ञानं वा यतः सर्वं वस्तु इच्छामि करोमि
जानामि वा इत्येवंभूतविमर्शशक्तिविश्रान्त्या विना न जातुचिदवभाति |
इच्छामीत्यत्र च शक्तित्रयानुवेधनमेवं जानामि
करोमीत्यत्रावियुक्तत्वादास्ताम् | तेन शक्तित्रयात्मकस्वरूपविश्रान्तं
तदवभासमानं भवति | तस्यापि शक्तित्रयस्य एकमेव १स्वतन्त्रं स्वरूपं
स्वातंत्र्यादेव | अथ अध ऊर्द्ध्वग्रन्थिरूपं बिन्दुद्वयमयं
संविदात्मकं परभैरवदेवतात्मकं तात्त्विकं वपुः |
तदेतद्वेद्यवेदनवेदकविश्रान्तित्रयमयं २वर्णत्रयस्वरूपं तत्त्रयम् |
तत्र यां विश्रान्तिं प्रधानीकरोति तदन्तमेवोच्चारणं ३त्रिधा संपद्यते |
४तत् त्रयोपभोगे भुक्तिमुक्तिरिति क्रमेण सिद्धयः ५यत्र तदेकघन६ एव एकः
परामर्शो ७विश्रान्तिस्थानमक्रमं सर्वं सद्रूपमिच्छादिद्वारेण
८परभैरवे विसृज्यते क्षिप्यते, ८परभैरवे चाभेदेन ९तदिच्छादिद्वारेण
वेद्यतया बहिर्विसृज्यते इति नैसर्गिकसद्रूपं वेद्यं
भैरवात्मकवेदकस्वरूपमित्युभयस्प१०र्शनाच्छक्तिरूपतेति चातुर्दशी
वेदकवेदनरूपावरोहेण वेद्याभिन्नसामान्यरूपता ब्राह्मी विश्रांतिः, -
इत्येवंभूतविश्रांतित्रयमय११शान्तोदिततदुभयलक्षणत्रयैकरसताकारि
परं विसर्गतत्त्वं संविद्भैरवनाथ एवेति तात्पर्यार्थः | योजना तु -
कालाग्निं
______________________
१स्वतन्त्रं रूपमिति पाठान्तरम् |
२चरणत्रयेति पाठान्तरम् |
३इति त्रिधेति पाठान्तरम् |
४तत्र भोग उभयभुक्तिरिति पाठान्तरम् |
५यस्य तु |
६तदेकघट इति पाठान्तरम् |
७विश्रांतिस्थानक्रममित्यपि पाठः |
८परभैरवेच्छाभेदेनेत्यपि पाठः |
९तदिच्छेति पाठान्तरम् |
१०विमर्शनादिति पाठः |
११शान्तादि इति पाठान्तरम् |
(प्. १८) पृथ्वीतत्त्वं सप्रथमभुवनमादितः १कृत्वा मायातत्त्वपर्यन्तं
२तृतीयब्रह्मणि ३विश्रान्तम् | विश्वेत्यादिक्रमेण यत् भैरवदेवताचक्रं
परभैरवीयं शक्तित्रयरूपं शक्तिचक्रं, तदनन्तस्य विसर्गस्यान्तर्विद्यते
| ४तस्य च यश्चोदकः - प्राणेन विना सर्गचोदनानुपपत्तेश्चतुर्दशः
प्राणरूपः, स एव शुद्धाध्वनि विद्यातत्त्वादिके ५शिवतत्त्वान्ते व्यापकः |
यतोऽत्र स परमेश्वरो वेद्यभूतदेहादिसङ्कोचविगमात्
सन्मात्रप्रमातृस्वभावत्वात् भिन्नस्य भिन्नाभिन्नस्य च सर्वस्य ज्ञाता
कर्ता च | परमेश्वरो विद्येश्वरवर्गात्प्रभृति मायासङ्कटान्तः
६पातिताभावात्सर्वगः, पाशैरागन्तुकैर्वियोगान्निर्मलः,
सहजाणवमल७वैकल्यासंभवात् स्वच्छः, क्रमेण
वेद्यराशेरिदमित्येवंभूतस्याहमित्येवाच्छादनेन
व्यतिरिक्तवेद्याकाङ्छावियोगात् तृप्तः, स्वायतनः स्वात्मन्येव यतमानः
प्रबुद्धानन्दः तत एव भेदलक्षणाशुद्धितिरोधानात् शुचिः | एवं
बोधक८स्वरूपमयत्वात् योऽणु९स्तच्चोदकविश्रांतिसमावेशाभ्यासनिष्ठः,
सोऽचिरादेव
तदन्तर्वर्तिशुद्धविद्यादिशिवान्ततत्त्वान्तर्गत१०शुद्धाध्वावस्थितमीश्व-
रस्य संबन्धि ज्ञानं तदाक्षिप्तं च कर्तृत्वं विशुद्धं
परापररूपमश्नुते प्राप्नोति | ११एतच्च विश्रान्तित्रयाभ्यासे
१२तत्तत्फललाभोपलाक्षिततुरीयपरविश्रान्तौ सर्वमभेदैकरसेनास्ते | यथाहि
१३न्यग्रोधधानायां महावृक्षस्तदात्मकस्वरूपशक्त्यभिन्न एव भवति,
तथा हृदयात्मनि बीजे चरं शुद्धं, अचरमशुद्धं, चरञ्च प्रमातृ,
अचरं
____________________
१छित्वेत्यपि पाठः |
२तृतीयं ब्रह्मणोरूपे इति पाठान्तरम् |
३विश्रान्तं परं प्राणमित्यपि पाठः |
४तस्याग्रेऽयमधिको पाठः - अतः (अन्तः) परो यदपेक्षयेति |
५शिवान्ते इति पाठान्तरम् |
६पतित्वाभावादिति पाठान्तरम् |
७वैकल्पसंभावनादन्यः इति च |
८चोदकस्येवंभूतरूपमयत्वादित्यपि पाठः |
९एतच्चोदकविश्रांतिः समावेशोऽभ्यासेति पाठान्तरम् |
१०शुद्धाशुद्धेति च क. पाठः |
११एतद्विश्रांतिभासे इति पाठान्तरम् |
१२तत्तत्फललाभोपलक्षणं चतुर्थ्यन्तपरमिति च पाठः |
१३न्यग्रोधनामा इति पाठान्तरम् |
(प्. १९) प्रमेयमिति सर्वं हृद्गतशक्ति१कलाया अविभागेनैव १मातीति || २४ ||
तदत्र सद्यो योगविमोक्षदम् इति यत् पूर्वं
सूचितंपरभैरवसमावेशफलं, तदुपसंहारद्वारेण प्रकटयति
एवं यो वेत्ति२ तत्त्वेन तस्य निर्वाणगामिनी || २५ ||
दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता |
एवमिति - उक्तप्रकारेण हृदयं ४तत्त्वेन निश्चयेन निःशङ्क तया यो
वेत्ति तस्य ५दीक्षा तत्त्वेन ६परमार्थेन ७निर्वाणं फलत्वेन गम्यते यया सा
असंदिग्धा स्वप्रत्ययेनैव एतद् हृदयस्वरूपलाभ८युक्ता भवति |
भैरवदेवताभिर्हृदयान्तर्गताभिः
स्वरूपनिमीलनात्मकप्रपञ्चस्पन्दपरिवर्जनेन
स्वरूपोन्मीलनात्मकपरिस्पन्दप्रवणाभिर्दत्तमेतद् हृदयलक्षणं परं
ज्ञानं ९क्षपितश्च संकोचात्मकमूलपाश इति जानात्येव | तेन
१०दानक्षपणलक्षणां ११दीक्षां १२स्वप्रकाशं नयेत् | न अत्र
तिलादीनामुपयोगः | एतावता
जीवन्मुक्त्यात्मकपरमसिद्धिपरिनिष्ठितधियं१३ प्रति १४अन्यलाभादिकं न
किंचिदुपयुज्यते इत्युक्तम् || २५ ||
अधुना तु समावेशाभ्यासोपयोगी पूजाविधिर्वक्तव्यो यतो वक्ष्यते
कृतपूजाविधिः सम्यक् (३३ श्लो०)
_______________________
१कलायाः इति च पाठः |
२भवती पाठान्तरम् |
३वेदेति पाठान्तरम् |
४तत्त्वो - इति पाठान्तरम् |
५दीक्षेति पदमन्यत्र नास्ति |
६परमार्थेन भवतीति पाठान्तरम् |
७निर्वाणफलत्वेन गच्छति यस्य सा असंदिग्धेति पाठान्तरम् |
८लाभो भवतीत्यपि पाठः |
९क्षपितसंकोचात्ममूलपाश इत्यपि पाठः |
१०दानक्षपणलक्षणा इति च पाठः |
११दीक्षेति च पाठः |
१२स्वप्रकाशं (स्वप्रतीति) इति पाठान्तराणि |
१३हृदयमित्यपि पाठः |
१४हृदयलाभेति पाठान्तरम् |
(प्. २०) इति | तदत्र देहप्राणभुवि बुद्धिपदे च समावेशाभ्यास इति | तत्र
हृदयमात्मसात्कर्तुं न्यासं दर्शयति
मूर्ध्नि वक्त्रे च हृदये गुह्ये मूर्तौ तथैव च || २६ ||
न्यासं कृत्वा शिखां बद्ध्वा सप्तविंशतिमन्त्रिताम् |
एकैकेन दिशां बन्धं दशानामपि कारयेत् || २७ ||
तालत्रयं पुरा दत्त्वा सशब्दं विघ्नशान्तये |
शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत्ततः || २८ ||
पुष्पादिकं क्रमात्सर्वं लिङ्गं वा स्थण्डिलञ्च वा |
पुरा पूर्वं तालत्रयं १हृद्बीजकलात्रयविश्रान्तित्रयरूपं
वैखरीशब्दपर्यन्तं स्वात्मनो दद्यात् | तत्स्वीकारकं स्वात्मानं
विघ्नानां चतुरण्डगतभेदाभिमानसङ्कल्पानां शान्तये २बहिरन्तश्च
पादपाणिहस्तमुखशब्दक्रमेण
पातालभूम्यन्तरिक्षगतभेदविघ्नशमनाय कुर्यात् | एवं कृत्वा
मूर्धादिस्थानतादात्म्यापत्तिभाजि हृदयस्थाने एव दण्डभङ्गिभाजि
हृदयबीजेन पञ्चकृत्व उच्चारितेन
जन्मचारप्रवाहलयविच्छित्तिलक्षणचिदानन्देच्छाज्ञानक्रियालक्षणस्पन्द-
पञ्चकभाङ् न्यासं शरीरे कुर्यात् | शिखायाश्च
तद्देहगतमूर्धादिपञ्चशक्तिकब्रह्मपञ्चकाविभागभूमिभाजः
प्राणबुद्धिरूपायाः पञ्चकस्य प्रत्येकं
पञ्चकभेदात्प्रथमचरमकोटिद्वयभेदस्पर्शाच्च सप्तविंशतिकृत्व
उच्चारितेन हृदयबीजेन हृदयरूपताविश्रमणरूपं नियन्त्रणात्मकं
बन्धं कुर्यात् | ततश्च ३स्थानबीजरूपहृदयमयीकर्तुं दश दिशः
सकृत्सकृ४दुच्चार्यमाणेन हृदयबीजेन बध्नीयात्
हृदयरूपानुत्तरपरामर्शशेषा एव कुर्यात् | एत्येवं कृत्वा पुष्पादिके
_______________________
१हृदयबीजेति पाठान्तरम् |
२बहिः स्वपाणिहस्तेति पाठान्तरम् |
३स्थानरूपीति पाठान्तरम् |
४उच्चारितेनेति पाठान्तरम् |
(प्. २१) पूजोपकरणेऽपि अर्घ्यपात्रविश्रान्तपरमानन्दरसस्य
सप्तविंशतिकृतोच्चारितेन हृदयबीजेन हृदयतादात्म्यं कृत्वा
तद्रसाभ्युक्षणद्वारेण हृदयतादात्म्यं कुर्यात् | अनन्तरं पूजाधारस्य
लिङ्गस्थण्डिलादेः | एवं सामान्येन भेदं विलाप्य
१देहप्राणाधिष्ठितमपास्य तदुपास्ययागगृहेऽप्यपोह्य पूजोपकरणेषु
पराकृत्य पूजाधारेऽपि निराकुर्यादिति तात्पर्यम् || २८ ||
एवं कृते सति पश्चात्तत्र २पूजाधारे बाह्याभ्यन्तरादि
बहुभेदशतान्यतम३रूपे यथारुचि यथासंभवपरिगृहीते४
लिङ्गस्थण्डिलमण्डलादिके पूज्यपरिकल्पनापूर्वकं ५पूजास्वरूपमाह
चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना || २९ ||
तत्र सृष्टिं यजेद् वीरः पुनरेवासनं ततः |
सृष्टिं तु संपुटीकृत्य पश्चाद्यजनमारभेत् || ३० ||
सर्वतत्त्वसुसंपूर्णा सर्वावयवशोभिताम् |
यजेद् देवीं महाभागां सप्तविंशतिमन्त्रिताम् || ३१ ||
ततः सुगन्धिपुष्पैश्च यथाशक्त्या समर्चयेत् |
पूजयेत् परया भक्त्या स्वात्मानं च निवेदयेत् || ३२ ||
चतुर्दशेति - जाग्रदादितुर्यावस्थान्तदशाचतुष्टयव्याप्तिशालि
यदेतदौकारान्तं बीजस्य वपुः, तावत्यां व्याप्तावासनं कल्पनीयम् |
तथाभूतौकारविश्रान्ता६ आदिक्षान्ता सृष्टिर्विसर्गशक्तिस्वीकृता उपरिवर्तिनी
भावनीया | सर्वाभेदघनतु -
_________________
१देहप्राणादिष्विति पाठान्तरम् |
२पूजाधारेष्वपीति क. पाठः |
३रूपेणेति पाठान्तरम् |
४परिगृहीतेति पाठान्तरम् |
५पूजास्वरूपावगमादिति पाठान्तरम् |
६विश्रान्ता इत्यनन्तरं सर्वैर्वा - इति पदमस्ति |
(प्. २२) र्यातीतवृत्तिविश्रान्त्यां तस्यां यत् विश्रमणं विसर्गः, स एव यागः
| तस्यामपि च तुर्यातीतवृत्तौ विसर्गकलायां स्वीकृतसकलसृष्टिकार्यायां
तदेव जाग्रदादिदशाचतुष्कक्रोडीकारकमौकारान्तं रूपं प्रक्षिप्य यजेत्
१यन्मध्यवर्तिविसर्ग उभयकोटि२गतसद्वृत्तिस्पर्शी, विसर्गा३त्मरूपामत एव
सर्वतत्त्वमयीं सर्वैश्च अवयवायमानैर्भावराशिभिर्युक्तां
महेशानस्य परभैरवस्य अभेदेन वर्तमानां
श्रीपरादेवतामनुत्तरस्वरूपां स्वीकरोति | एतदुक्तं भवति | हृदयस्य
मूलभागे ४सद्वृत्तिरूपे वेद्यांशे
जाग्रत्स्वप्नसुषुप्तात्मकातिस्फुटस्फुटास्फुटास्फुटभेदत्रयशालिनि
सर्वदा सन्मात्रप्रथमकलावपुषि विश्रम्यावृत्तौ अनुत्तररूपायां
शक्तिशिवतत्त्वान्तं क्रमेण तुरीयपदपर्यन्तं विश्रान्तेन
क्रमाभिन्नसमस्ततत्त्वस्वीकरणादासनव्याप्तिः प्रदर्शिता भवति | ततो
विसर्गात्मिका षोडशी भैरवात्मिका कला यावत् सर्वोत्तीर्णा स्पृश्यते, तावत्
तस्यां सर्वमभेदेन आस्ते इति समस्ताभेदरूपा सप्तदशी यासौ कला, सैव
अनुत्तररूपा याज्या | तस्यां ५तथा प्रवर्तिता विश्रान्तिः | स एव परमार्थतो
यागः | तद्रूपतासिद्ध्यर्थमेव तु सुगन्धिभिरयत्नत एव
हृदयानुप्रवेशशालिभिः पुष्पैर्६हृदयान्तःस्वरूपसमर्पणादेव
हृदयस्य पोषकैर्बाह्याभ्यन्तरैः सर्वैर्द्रव्यैर्यथाशक्तितया,
अस्वीकृतशक्तिस्वरूपस्य सङ्कुचितवृत्तेर्यागं प्रत्ययोग्यत्वात् शक्त्या
स्वरूपविकासरूपया तदुपयोगिन्यापि बाह्यया आनन्दिन्या
स्नानविलेपनधूपताम्बू-
_________________________
१येनेति पाठान्तरम् |
२गतस्वरसद्वृत्ति-इति पाठान्तरम् |
३सर्वातीतरूपामित्यपि पाठः |
४सद्व्याप्तिरूपवेद्यांशे इति पाठान्तरम् |
५तथा इत्यनन्तरमयं पाठोऽधिको दृश्यते - तथा पूरणा (पूर्णा) अत् एव
सप्तविंशतिकृत्वः (कृत्व) प्रवर्तितेति |
६हृदयान्तेति पाठान्तरम् |
(प्. २३) लासवादिसंभारसुभगया बाह्यद्रव्यशक्त्या सम्यगर्चयेत् | कथम्,
परया भक्त्या परिमितस्य देहप्राणपुर्यष्टकादेरप्रधानताकरेणन
तद्रूपतानिमज्जनात्मकप्रह्वीभावसंपादनपुरःसरेण
तदुक्तरूपयाज्यदेवतात्मकपरसंविद्रूपप्रधानत्वापादनलक्षणेन
भजनेन १श्रद्धातिशयेन समावेशदायिनेत्यर्थः | परा चासौ भक्तिः |
पुष्पादेर्यागोपकरणस्य स्वात्महृदयहठानुप्रवेशसुन्दरो यो भागो
रमणीयः परिमलः तेन पूर्यमाणमात्मानं
सर्वाभेद२रूपवृत्तिनिश्चयात्मना नियमेन ३वेदयेत् | सप्तविंशतिकृत्वः४
उच्चारणावसरे तत् तत्
पुष्पादिबाह्याभ्यन्तरभावराशि५संपूर्यमाणाभिन्नस्वरूपं
श्रीपरादेवतामयमात्मानं यथा वेत्ति, तथा पुनःपुनरात्मस्वरूपं
परामृशेदिति यावत् | एषा ६तावत्स्फुरणरूपा पूजा | ततश्च
जठरीकृतसमस्तभोग्यस्वभावतत्त्वप्रसरस्य भोक्तुर्भगवतो भैरवस्य
उद्दीपनात्मना होमेन
तदन्तःकृतसंस्कारशेषभोग्यस्वभावविलापनदहन सामर्थ्यात्
परामर्शः कर्तव्यो येन जीर्णन्यायेन संस्कारस्य बीजरूपतया
७सुषुप्त्यवस्थावत्
पुनरुत्थानलक्षणसंस्कारात्मकमूलभेदप्रसवमहाव्याधिशङ्का
शाम्यतीति || ३२ ||
अनेनाभिप्रायेण यजनमुपसंहरन् होमं सूचयति |
एवं यजनमाख्यातमग्निकार्येऽप्ययं विधिः |
तत्रापि तिलादीनां शिखासंख्याभिजप्तेन तोयेन अभ्युक्षणं
स्रुक्स्रुवादीनां वह्नौ चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना
इत्यादिसंपुटीकरणपर्यन्तं याज्यदेवतासमर्पणम् | ततस्ति-
____________________
१सद्य अतिशयेनेति पाठान्तरम् |
२रूपां वृत्तिमिति पाठान्तरम् |
३नियमयेत् इति पाठान्तरम् |
४कृत्वोच्चारणावसरे इति पाठान्तरम् |
५संपूर्यमाणं निजस्वरूपमिति पाठान्तरम् |
६तावत्पूरणरूपेति पाठान्तरम् |
७सुषुप्त्यवस्थादृष्टान्तेन (सुषुप्तावृत्तान्तेनेति) पाठान्तरम् |
(प्. २४) लाज्यादिहवनं संपूर्णरूपतया आत्मानं च निवेदयेत् इति
व्याख्यातेन क्रमेण पूर्णाहुत्यार्पणमिति अग्निकार्यविधिः | एवं
यागहोमोमय१मेलनात्मकं पूर्णं हि पूजायाः स्वरूपम् ||
इयता च स्वात्मरूपा श्रीभगवती परा देवी सम्यक् पूजिता भवति |
यतोऽ२न्तर्मलस्य ३विगलनं ४ यावन्न जातं तावत् स्फुटसंविदात्मकत्वं
पूरितं न भवति, ततो पूजैवेयमित्याभ्यन्तरसंकल्पनिवृत्त्या
बाह्यद्रव्यसंहरणेनैतदाह
कृतपूजाविधिः सम्यक् स्मरन् बीजं प्रसिद्ध्यति || ३३ ||
आद्यन्तरहितं बीजं विकसत्तिथिमध्यगम् |
हृत्पद्मान्तर्गतं ध्यायेत् सोमांशुं नित्यमभ्यसेत् || ३४ ||
सम्यगिति उक्तप्रकारेण कृतपूजाविधिः, सम्यगिति च
उक्तवक्ष्यमाणोपदेशदिशा बीजं स्मरन् परामृशन् सम्यक् प्रसिद्ध्यति
परभैरवदेवतावदनेनैव देहेन समस्तविभूतिभाजनं भवति | अस्य
हृदयपरामर्शस्याभिनवाभिनवरूपतया भासमानस्य
पूर्वपूर्वतरादेः सम्यगनवभासमानत्वात्
कालभेदयोगापहस्तनादवभासनीयस्य वस्तुनः सर्वथा ५आभ्यन्तरस्यैव
सतः प्रकाशनात् स्मरणरूपसादृश्यात् स्मरणत्वेन व्यपदेशात्
शतृप्रत्ययेन च भूताभिन्नं वर्तमानं दर्शयित्वा इदं सूचितं भवति
| तथा अयं परामर्शः स्वीकर्तव्यः, यथा विच्छेदशून्यः
सकृद्विभातस्वभावोऽकालकलितः संपद्यते | सम्यक्स्मरन्निति (यत्) उक्तं तत्
सम्यक्त्वं यद्यपि पूर्वं दर्शितं
______________________
१मेलनात्मकादिपूर्णं हि इति पाठान्तरम् |
२अन्तर्लीनस्येति क. पाठः |
३विगलितमिति क. पाठान्तरम् |
४यावत्स्वात्मरूपं नेति पाठान्तरम् |
५सर्वदाभ्यन्तरे रहस्य इवेति पाठान्तरम् |
६विभेदशून्य इति पाठान्तरम् |
(प्. २५) कालाग्निमादितः कृत्वा ............................................. | (२१ श्लो)
इत्यनेन विस्तृतग्रन्थेन तथापि स्फुटेन रूपेण निर्णीतं निरूपयति
आद्यन्तरहितमिति | बीजं वाचकरूपं हृदयं तस्य वाच्यं सोमांशं
सशक्तिकस्य भगवतो भैरवनाथस्य यामलं संघट्टप्रभापुञ्जस्तं
वाच्यवाचकाभेदक्रमेण अभ्यसेदिति उपदेशः | सोमांशमिति पाठे तु
परिपूर्णज्ञानचन्द्रात्मकं प्रकाशानन्दपरमार्थं | १तत एव
ज्वलनगलनवृत्तिसारसंकोचविकासशक्तिप्रदर्शितविश्वोन्मेषनिमेषशत-
संपादनाप्रतिहतसामर्थ्यमूलेन उत्तरोत्तरेण सकार औकार -
अःकारलक्षणेन भागत्रयेण आविष्टमनुत्तरं त्रिकोणात्मकं
महाहृदयम् | तस्य च त्रयो भागा अंशाः | सोमश्च अंशश्चेति समाहारे
द्वन्द्वः | तदेतत् चतुष्कमाभिमुख्येन स्वसंविद्रूपहृदयविश्रान्तं सत्
बुद्धिप्राणदेहभूमिपर्यन्तस्वीकारात्मना समावेशपर्यन्तं क्षिपेत्
तद्रूपपरामर्शप्रधानं विगलितजडभावं तदवष्टम्भैकसारं
बुद्धिप्राणदेहेन्द्रियादिकं समस्तं कुलं तत्रैव
तद्रूपप्रकाशनविकासवशात् प्रकाशकुलतामायान्तं कुर्यादिति
विसर्गचतुष्कसमाएशोऽनेन दर्शितः | तत्र मुख्यमेव तावत्
पूर्णहृदयस्वरूपमाह आद्यन्ताभ्यामुत्पत्तिविनाशाभ्यो रहितं यत्
२विश्वस्य बीजं, तत एव बीजत्वात् विश्वात्मना विकसत् अनवरतं विकासं
गच्छत् विश्वस्य कालरूपाणां तिथीनां मध्यगं सामान्यरूपतया
अविभागपरामर्शरूपं स्वस्मिन्हृदये संविल्लक्षणे
संकोचविकासलीलायोगात्कमलरूपेऽन्तर्गतं तां संविदं प्रविश्य
सङ्कोचहठापसरणकारितया विकासयत् ध्यायेत् नित्यम् | अतश्च
पूर्णभैरवतासिद्धिः | उत्थानापेक्षया पाठापेक्षया च | आद्यन्तौ
स्वरव्यञ्जनरूपौ | तद्रहितं यत् बीजं
______________________
१तदेवेति पाठान्तरम् |
२विहृह्येति पाठान्तरम् |
(प्. २६) विसर्गात्मकं यतश्च अन्या पञ्चदश तिथयो विकसन्ति, तच्च
सर्वतिथीनां१ मध्यगतम् | तत् हृदयपद्मे पूर्ववत् ध्यायेत् |
*एतद्बीजापेक्षया आद्यन्ताभ्यां व्यञ्जनविसर्गाभ्यां रहितं
त्रिशूलवृत्तिमात्ररूपं, विकसत् तिथिषु प्राणापानकलासु मध्यगतं
तत्प्राणरूपसमावेशकारि तद्द्वारेण देहं समाविशत् बीजरूपेण हृदि
ध्यायेत् | अवर्गे स्थिता वर्णाः | आदयः स्वराः, अन्त इति यः तदन्तः कालयोगेन
इत्यत्र विसर्ग उक्तः, तेन स्वरविसर्गाभ्यां रहितमनच्कसद्वृत्तिरूपं बीजं
तथैव २विकासिनीषु प्राणापानकलासु मध्यगतं देहे हृदि ध्यायेत् || ३४ ||
३अत्र फलमाह -
यान्यान् कामयते कामांस्तान्ताञ्छीघ्रमवाप्नुयात् |
अज्ञः प्रत्यक्षतामेति४ सर्वज्ञत्वं न संशयः || ३५ ||
एवं मन्त्रफलावाप्तिरित्येतद्रूद्रयामलम् |
एतद्भ्यस्यतः सिद्धिः सर्वज्ञत्वमवाप्नुयात् || ३६ ||
एताश्च सिद्धय उक्ता एव, एषु कालाग्निमादितः ० इति अत्र शीघ्रमिति
मुहूर्तं स्मरते यस्तु इति अस्मात् प्रत्यक्षतामेति सर्वज्ञत्वं इति च
प्रहरत्रयमात्रेण सिद्धिरुक्ता | प्रहरचतुष्कविभेदेन समावेशे तु
सर्वस्मिन्नेव प्रकाशमये दिनरूपतां गते शर्वरि सङ्कोचे क्षीणे अनेनैव
देहेन भैरववत् सर्वज्ञो भवति | एतदुपसंहरति - एवमिति एवं सर्वेषां
______________________
१बीजानामिति पाठान्तरम् |
२विकसत्सु इति पाठान्तरम् |
३तत्र क. पाठः |
४यातीति पाठान्तरम् |
५मुहूर्तादीनामिति पाठान्तरम् |
६अग्नेः प्रत्यक्षतामिति पाठान्तरम् |
*अयं पाठोऽधिको दृश्यते - इह
विशेषभोग्यस्वभावविलापनदहनपरामर्शः कर्तव्यः
विसर्गांशसमावेशः |
(प्. २७) मन्त्रफलानां २परापरसिद्धिरूपाणां यस्मादित एव
अनुत्तरबीजादवाप्तिः, अतो हेतोरेतदेव
सपादकोटिरुद्रयामलफलसंपादकत्वात् रुद्रयामलं शिवशक्त्योरत्र
नित्यसंघट्टात् | अत एव एतद्भ्यस्यतः संक्षेपतः फलं
सर्वज्ञत्वसर्वकर्तृत्वलक्षणभैरवरूपतालाभ इत्याह
एतदभ्यस्यतः ........................................
इति | अभ्यासेन विनापि तु जीवन्मुक्तता परमा कौलिकीसिद्धिरिति शिवम् || ३६ ||
************
यदालूनविशीर्णं सद्गोपितं तन्त्रभाषया |
अत्राभिनवगुप्तेन भासितं तदनुत्तरम् || १ ||
एतद्विवेकनिष्ठास्तु मा भूत भ्रमभाजनम्४ |
सच्छिष्याः प्राप्नुताद्यैव५ भैरवीभावसंपदम् || २ ||
संपूर्णानुत्तरानन्दयोगक्षेमादि६ जानताम् |
त्रिलोकीकवलीकारसमावेशविशारदाः || ३ ||
यस्यां सदात्मना पूर्णमिच्छाज्ञानक्रियात्मना |
विसृज्यते यतश्चैमां वन्देऽनुत्तरसंविदम् || ४ ||
___________________
१मन्त्रकलानामिति पाठान्तरम् |
२परापराणां कौलिकीसिद्धि इत्यपि पाठः |
३भाषितमित्यपि पाठः |
४भाजनाः इति पाठान्तरम् |
५प्राप्नुयादेव इत्यपि पाठः |
६भिजायतामिति पाठान्तरम् |
(प्. २८) अभिनवरूपाशक्ति-
स्तद्गुप्तो यो महेश्वरो देवः |
तदुभययामलरूप-
मभिनवगुप्तं शिवं वन्दे || ५ ||
***********
समाप्ता इयमनुत्तरतत्त्वविमर्शिनी
परात्रीशिकालघुवृत्ति -
त्रिनयनचरणसरोरुहाचिन्तनलब्धप्रसिद्धिनाम-
भिनवगुप्तपादानां कृतिरिति शिवम् ||
***********
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
kmjzwbx5e1hckhtj40mqv7ongveoil6