विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.46.0-wmf.24 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२९६ 104 104746 415683 267759 2026-04-18T12:39:49Z Geeta g hegde 6704 415683 proofread-page text/x-wiki <noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|२६२|मनुस्मृतिः।|[ अध्यायः ७}}</noinclude> {{Block center|{{bold|<poem>शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ १८६ ॥</poem>}}}} {{gap}}शत्रुसेविनीति ॥ यन्मित्रं गूढं कृत्वा शत्रु सेवते, यश्च भृत्यादिः पूर्व विरागा- गतः पश्चादागतस्तयोः सावधानो भवेत् । यस्मात्तावतिशयेन दुनिग्रहो रिपुः ॥ {{Block center|{{bold|<poem>दण्डव्यूहेन तन्मार्ग यायात्तु शकटेन वा । वराहमकराभ्यां वा मूच्या वा गरुडेन वा ॥१८७॥</poem>}}}} {{gap}}दण्डेति ॥ दण्डाकृतिव्यूहरचनादि दण्डव्यूहः । एवं शकटादिव्यूहा अपि । तत्राग्रे बलाध्यक्षो मध्ये राजा पश्चात्सेनापतिः पार्श्वयोर्हस्तिनस्तत्समीपे घोटकास्ततः पदातय इत्येवं कृतरचनो दीर्घः सर्वतः समविन्यासो दण्डव्यूहस्तेन तद्यातव्यं नाग सर्वतो भये सति यायात् सूच्याकारागः पश्चात्पृथुलः शकटव्यूहस्तेन पृष्टतो भये सति गच्छेत् । सूक्ष्ममुखपश्चाद्भागः पृथुमध्यो वराहव्यूहः । एष एवं पृथुतरमध्यो गरुडव्यूहस्ताभ्यां पार्श्वयोर्भये सति व्रजेत् । वराहविपर्ययेण मकरव्यू- हस्तेनाग्रे पश्चाच्चोभयत्र भये सति गच्छेत् । पिपीलिकापतिरिवारपश्चाद्भावेन सं- हतरूपतया यत्र यत्र सैनिकावस्थानं स शीघ्रप्रवीरपुरुषमुखः सूचीव्यूहस्तेनाग्रतो भये सति यायात् ॥ १८७ ॥ {{Block center|{{bold|<poem>यतश्च भयमाशङ्केत्ततो विस्तारयेद्वलम् । पझेन चैव व्यूहेन निविशेत सदा स्वयम् ॥ १८८ ॥</poem>}}}} {{gap}}यत इत्यादि ॥ यस्या दिशः शत्रुभयमाशङ्केत तत्यामेव बलं विस्तारयेत्समविस्तृ- तपरिमण्डलो मध्योपविष्टजिगीपुः पद्मव्यूहस्तेन पुरान्निर्गत्य सर्वदा कपटनिवेशनं कुर्यात् ॥ १८८॥ {{Block center|{{bold|<poem>सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् । यतश्च भयमाशङ्केत्याची तां कल्पयेद्दिशम् ॥ १८९ ॥</poem>}}}} {{gap}}सेनापतीति ॥ हस्त्यश्वरथपदात्यात्मकस्याङ्गदशकस्यैकः पतिः कार्यः स च पत्तिक उच्यते । पत्तिकदशकस्यैकः पतिः सेनापतिरुच्यते । तद्दशकस्यैकः सेनाना- यकः स एव च बलाध्यक्षः । सेनापतिबलाध्यक्षो समस्तासु दिक्षु संघर्पयुद्धार्थ नियोजयेत् । यस्याश्च दिशो यदा भयमाशङ्केत्तदा तामने दिशं कुर्यात् ॥ १८९ ॥ {{Block center|{{bold|<poem>गुल्मांश्च स्थापयेदाप्तान्कृतसंज्ञान्समंततः। स्थाने युद्धे च कुशलानभीरूनविकारिणः ॥ १९० ॥</poem>}}}} {{gap}}गुल्मानित्यादि । गुल्मान्सैन्यकदेशानालपुरुपाधिष्ठितान् स्थानापसरणयुद्धा) कृतभेरीपटहशङ्खाद्विसंकेतान् अवस्थानयुद्धयोः प्रवीणान्निर्भयानव्यभिचारिणः से- नापतिबलाध्यक्षान्दूरतः सर्वदिश्च पारक्यप्रवेशवारणाय शत्रुचेष्टापरिज्ञानाय च नियोजयेत् ॥ १९०॥<noinclude></noinclude> b98j7dg16njv96sonk21i5g4l52o4u3