विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.46.0-wmf.24
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
क्रियाक्रमाद्योतिका
0
87263
415697
414725
2026-04-21T20:43:50Z
~2026-80386-1
10290
415697
wikitext
text/x-wiki
Kriyakramodyotika by Aghorashivacharya with Prabha commentary by Nirmalamani
Copied from incomplete transcript published from Chidambaram in 1927 with Grantha characters edited by Ramashastri and A. Jnansambandha Parashaktiswami.
Devanagari transcript provided by Richard Davis.
Data entered by staff of Muktabodha Indological Research Institute under supervision of Mark S.G Dyczkowski.
Sep 3, 2008
Licensed for non-commercial use under CC-Noncommercial attribution license.
== ॐ ==
'''ओं तत्सत् ॥'''
'''शिवमस्तु ॥'''
'''श्रीशिवकामसुन्दरीसमेतश्रीचित्सभेशाय मङ्गलम् श्रीज्ञानसम्बन्धपरमाचार्यपरब्रह्मणे नमः ॥'''
'''श्रीमदघोरशिवाचार्यविरचिता क्रियाक्रमद्योतिका व्याख्या पद्धतिः ॥'''
'''मङ्गलम् ॥'''
'''वन्दे विश्वाधिकं शान्तमनादिनिधनं शिवम् । निष्कलं निष्कलङ्कन्तु शक्तिं ज्ञानक्रियात्मिकाम्''' '''॥'''
व्याख्या-श्रीमन्निर्मलमणिगुरुविरचिता प्रभाख्या क्रियाक्रमद्योतिका व्याख्या ॥
शिवं शक्तिं गणाधीशं गुहं वागीश्वरीं क्रमात् । कुर्वाससमृषिं वन्दे पैङ्गलाद्यांश्च देशिकान् ॥
चन्द्रार्द्धचूडशिखरिप्रभवस्तनोति गौरीस्तनोदितपयोजलधिं निपीय । यो विघ्नपादपमहाननभङ्गलीलां तं मत्तवारणमहं शरणं प्रपद्ये ॥
चिद्व्यक्तिः क्रियते मलावृतिमतां येनाऽत्मनामन्वहं स्रष्टा पालयिता समस्तजगतां हर्ता च यो राजते । यस्यासीन्महिमा महानविषयो वाक्चेतसोस्सर्वदा तं वन्दे शिवमम्बिकासहचरं स्वाभीष्टसंसिद्धये ॥
यदीयमुद्राभिनयेन योगिनो यदीयमौनेन च मुक्तसंशयाः । स्मिताभिरामाननमिन्दुशेखरं भजेऽविशन्तं वटमूलवासिनम् ॥
या पक्वनीहार बलं विभिद्य परं नृणां व्यञ्जयते शिवत्वम् ।ज्ञानक्रियारूपवती शिवस्य शक्तिः पुरस्तादियमानिरस्तु ॥
श्रीशैवागमविष्टपे परशिवाद्यर्थस्वरूपक्रमं योऽविद्यातिमिरं व्यपोह्य निखिलं विद्योतयत्यादरात् ।स्वव्याख्यानमहामयुखनिवहैर्दीछाविशिष्टात्मनां वन्देऽघोरशिवाख्यदेशिकरविं बोधाय तं सर्वदा ॥
यस्यालोको दुरितनिकरं दुस्तरं संविभिद्य श्रेयरसद्यो वितरति परं भक्तिभाजां प्रजानाम् । श्रीमत्पद्मालयपुरपतिं मद्गुरुं तं दयालुं वन्दे शैवागमजलनिधिं वामदेवाभिधानम् ॥
कामिकादिशिवज्ञानं मृगेन्द्रादिमसंहिताः । श्रीरौरवमतङ्गादि संहितावृत्तिसंहतीः ॥
श्रीसोमशंभुपूर्वाणामाचार्याणाञ्च पद्धतीः । संविचार्य यथाबोधं सदाचार्यापदेशतः ॥
क्रियते बालबोधार्थमस्फुटार्थप्रकाशिका । क्रियाक्रमद्योतिकाया व्याख्या लघ्वी प्रभाभिधा ॥
परेषां ये दोषान् वरतरगुणान् संविदधते दुरुक्तं क्षन्तुं ते मम यदिकमर्हन्ति गुणिनः । दूतो ये सासूयाः कुटिलमतयो नूतनतया खला एते हेयाः पुनरपि गुणिभ्योऽञ्जलिरयम् ॥
तत्र तावदत्र भगवानाचार्यः प्रारिप्सि तस्य प्रवन्धस्य निष्प्रत्यूहपरिपूरणाय शिष्टाचारानुविधानाय च वक्ष्यमाणकर्मकलापोदय-मूलभूतं सर्वार्थशकलकर्तृत्वलक्षणशिवत्वो पेतं विघ्नविनाशहेतुमशिवापहं शिवप्रदञ्चाणुभ्यशिवं निष्कलं तदविनाभूतां शक्तिञ्चाद्येन पद्येन प्रणमति ('''वन्दे''') इत्यादिना । अत्र शिवं वन्दे इति क्रियाकारकयोजना । ('''शिवम्''') सर्वशत्वसर्वकर्तृत्वात्मना अनादिसिद्धेन शिव श्रीकस्योदं पुरपतिमनघं इति कोशेषु दृश्यते । त्यागराजाभिधानम् ॥ इति पाठान्तरम् ॥ त्वेन योगात् शिवः तम् । तदुक्तं शान्तत्वात् सर्वकर्तृत्वभावात् परमकारणात् । शिव उक्तो महातन्त्रे तन्त्रविद्भिस्सदाशिवः इति । यदा शिवः शुद्धः । तथा श्रीमन्मतङ्गे शिवत्वमिति शुद्धं स्यात् इति । अथवा शिवं कल्याणं तद्योगात् शिवः । मत्वर्त्थीयोऽच । एवं श्रीमद्वन्द्यघटीयेन कृतम् । लक्ष्यपदमेतत् । किं लक्षणमित्याकाङ्क्षायामाह ('''अनादिनिधनम्''') इति । आदिश्च उत्पत्तिः निधनञ्च नाशः आदि निधने ते न विद्येते यस्य स तथोक्तः तं आद्यन्तरहितमित्यर्थः । एवमुक्ते वद्धात्मस्वतिव्याप्तिः तेषामप्याद्यन्तशून्यत्वात् । तथा श्रीमत्सर्वज्ञानोत्तरे अनादिनिधनाः पाशा जीवोऽनाद्यस्तु कीर्तितः इति । तदर्थमभिधत्ते ('''निष्कलङ्कम्''') इति । निष्क्रान्तः कलङ्कात् मलात् निष्कलङ्कः निरादयः क्रान्ताद्यर्थे पञ्चम्या इत्यत्र पञ्चमीसमासः । तेषां पुनरनादिमलसंबन्धित्वेन तथालासिद्धेर्भवति तद्व्युदासः । तथा श्रीमत्किरणे
अनादिमलसंबन्धात् किञ्चिज्ञोऽसौ मयोदितः । अनादिमलमुक्तत्वात् सर्वज्ञस्तेन सः शिवः इति ।
तावत्युक्ते अनन्तादावतिव्याप्तिः तेषां शिवानुगृहीतत्वेन निष्कलङ्कत्वायोगात् । तथा श्रीमत्तत्वप्रकाशे आद्याननुगृह्य शिवो विद्येशत्वे नियोजयत्यष्टौ इति । तन्निरासायाह ('''निष्कलम्''') इति । निर्गता कला लक्षणया कलादिपिण्डसंबन्धः यस्मात् स तथोक्तः कलादिकार्यकरणवर्जित इत्यर्थः तम् । तथा श्रीमन्मोक्षकारिकायां
न कलादिकलापिण्डसंबन्धोऽसौ यथा पशुः । कदाचिदपि देवेशस्तस्माद्गीतस्तु निष्कलः इति ।
तेषां बैन्दवकलादियोगित्वात् वद्ध्या?वृतिस्स्यात् । तथा श्रीमत्पराख्ये शुद्धयोनिमयं तस्य वपुरुक्तमकर्मजम् इति । शतमप्यधिकारावस्थास्थशिवे भोगावस्थास्थशिवे वा अतिव्याप्तिः तयोर्मागीयबैन्दवकलादिसंसर्गरहितत्वात् । तदर्थमाह ('''शान्तम्''') इति । अत्र निवृत्ताशेषशक्तिको लयानस्थश्शिवश्शान्त इत्युच्यते । लयस्यैव शान्तपदत्वात्यत्वात् न ह्यभिहितकोषावकाशः । तथा श्रीमत्किरणे ईशस्सदाशिवश्शान्त इति वामना स्थितस्त्विह इति । अधिकारावस्थस्तु प्रवृत्त क्रियाशक्तिकः । भोगावस्थ उद्युक्तक्रियाशक्तिकः । यदाहुः शक्तीद्युक्तः प्रवृत्तश्च कर्ता विविध इष्यते इति । ये तावत्युक्ते मुक्तात्मस्वतिव्याप्तिः तेषामप्यधिकारभोगलयत्वयोगात् । तथा श्रीमाच्चिन्त्यविश्वे
सकले निष्कले चैव सर्वत्रैव समानना । सायुज्यमिति तत् प्रोक्तम् ।
इति तथा चोक्तं आचार्यैः श्रीमत्परमोक्षनिरासकारिकावृत्तौ एवञ्च सिद्धस्य प्रोक्तलयाद्यवस्थानभ्युपगमे कर्तृत्वावृष्टेः प्रत्युतेश्वरान्न्यूनलं स्यात् इति । तन्निमित्तमाह ('''विश्वाधिकम्''') इति । विश्वेषां चिदचिद्रूपाणां जगतां अधिकः ईश्वरः तम् । तस्यैव विश्वाधिकत्वमुपपद्यते । मुक्तात्मनां तु तत्प्रसादत एव स्वरूप लाभात् भवति तन्निवृत्तिः । इत्येवं विधं शिवं ('''वन्दे''') कायनाङ्मतोभिरभिवादये ('''शक्तिञ्च''') वन्दे इति समुत्क्षयेनान्वयः । सा किंलक्षणेति विंशासायामाह ('''ज्ञानक्रियात्मिकाम्''') इति ज्ञानञ्च दृक् क्रिया च व्यापारः ते आत्मा स्वरूपं यस्याः सा तथोक्ता ताम् ॥
== नित्यकर्मविधि ।। ==
(क्रि) '''गुरून् परापरान्नत्वा? गुरुवंशक्रमागतान् । क्रियाक्रमद्योतिकेयन्नित्यदिः क्रियते स्फुटम् ॥'''
(प्र) अथ स्वाभीष्टदेवताभिवादनं विधाय द्वितीयपद्येन परापरपरापरगुरुप्रणामपुरस्सरं चिकीर्षितं प्रतिज्ञानीते ('''गुरून्''') इत्यादिना । ('''गुरुवंशक्रमागतान्''') गुरवः परशिवादयः तेषां वंशः सन्तानः वंशोऽन्ननायस्सन्तानः इत्यमरः । तस्य क्रमः परशिवात् सदाशिवः तस्मादनन्त इत्याद्यविच्छिन्नपरिपाटिः परिपाटिरनुक्रमः इत्यमरः । तेन आगताः समायाताः तान् । तत्वा श्रीमज्ज्ञानरत्नावल्यां
अग्राही किल ईश्वरः परशिवस्तस्मात् सदेशस्स्वयं नादात्मा सकलाकलः प्रभुरतोऽनन्तेशभट्टारकः । तस्मादण्डजविष्णुनासव विधिश्रीकण्ठरुद्रास्ततस्तन्त्राणामनतारको मुनिवरो दुर्वासनामा गुरुः इति ।
('''परापरान्''') अत्र परे च अपरे च परापरे इति च न्यस्तसमस्त क्रमेण पदनिभागः । तत्र परे ईशादयः अपरे देवमुनिप्रभृतयः परापरे अनन्तादयः । तथा समाख्यातं श्रीमत्पराख्यवृत्तौ
गुरवो बहवस्तत्र परापरविभेदतः । चोदकादि विभेदेन तथा गुर्वादिभेदतः । ईशस्सदाशिवश्शान्तो गुरवः परमा मताः । एकमेव परं तत्त्वं स्वेच्छया तु त्रिधा स्थितम् । अनन्तश्श्रीगलश्चोमास्कन्दो विष्णुर्विधिस्तु षट् । परापरेऽपरे देवा मुनयोष्ट?गुरुत्तमाः ॥ इति ।
विशेष्यं निर्दिशति ('''गुरुन्''') इति । गृणन्त्युपदिशन्तीति गुरवः तान् । ('''नत्वा''') भक्तिश्रद्धातिशयपूर्वकं कायवाङ्मनोभिः प्रह्वीभूय । ततः किमित्याह ('''नित्यादिः''') इति । नित्यादिक्रियाया इत्यर्थः । आदिशब्देन नैमित्तिककांययोः प्रकाशः क्रियते । अत्र नित्यं स्नानादि । नैमित्तिकं दीक्षाप्रतिष्ठे । काम्यं पुत्राद्यभीष्टसिद्धिपदमस्त्राभिषेकाख्यं कर्म । तथा समीरितं श्रीमज्ज्ञानरत्नावल्यां
स्नानं पूजाजपोध्यानं होमश्चैव तु पञ्चमः । इति नित्यं सदा कुर्यात् इति । तथा दीक्षा चैव प्रतिष्ठा च ज्ञेयं नैमित्तिकं द्विधा । काम्यं तद्द्विधंविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ॥ नित्यं नैमित्तिकं काम्यमाचार्यस्योदितन्त्रयम् । नित्यं काम्यं साधकस्य स्वशास्त्रोक्तविधानतः ॥ समयिपुत्रकाणान्तु नित्यमेव प्रकीर्तितम् । इति ।
('''इयम्''') एषा ('''क्रियाक्रमद्योतिका''') क्रिया करणं अनुष्ठानमिति यावत् । क्रिया तु चेष्टाकरणसंप्रधारणकर्मसु इति नानार्थरत्नमाला । तस्याः क्रमः परिपाटिः तस्य द्योतिका प्रकाशिका । नित्यादिकर्मानुष्ठानक्रमप्रकाशकेति यावत् । अनवा क्रियाक्रमद्योतिकेतिपदस्य । अस्याः क्रियाया अनन्तर इयं क्रिया स्त्येवं नित्यादि क्रियायाः कर्मक्रमप्रकाशिकेत्येनमर्त्यौऽनुसन्धेयः । अत एव हि शिवशास्त्रेषु सत्स्वप्यस्यो?पयोगः । नित्यादिरिति पाठे क्रियाक्रमद्योतिकापदस्य विशेषणं कृत्वा नित्या नित्य क्रिया आदिर्यस्यास्सा तथोक्ते व्यर्थः । ('''स्फुटम्''') इत्यनेन पद्धत्यन्तरेषु विद्यमानेष्वपि अस्य प्रबन्धस्योपयोगस्सूचितः । तानिह्यस्फुटं कृत्वा नित्यादीनामुद्योतकानि अतस्तैरगदितार्थप्रकाशक इत्यर्थः । ('''क्रियते''') विरच्यते । मया इति शिवः । पद्धतित्वं चास्यानुष्ठानमार्गत्वादिति ज्ञेयम् ॥
=== शिवध्यानविधिः ॥ ===
(क्रि) (३)
पातस्समयात् पूर्वं पञ्चनाडिकावच्छेदे?
प्. १२)
समुत्थाय, शुचिर्वाप्यशुचिर्वा यथासंभवशौचयुक्तो हृत्पद्मे
द्वादशान्ते वा गुरुपदिष्टप्रकारेण शिवं ध्यात्वा, यथाशक्ति
जपं कृत्वा, समाधि
सामर्थ्यरहितस्सदाशिवादियथारुचितविग्रहं ध्यात्वा,
(प्र) अथ चिकिर्षितं प्रतिज्ञाय पुनरभिधास्यमानेषु
नित्यादिकर्मसु नैमित्तिकादिकर्मविधिर्नित्यकर्मपूर्वकत्वात्
नित्यकर्म प्रथममभिधातुं प्रवृत्तः तत्र तावत् प्रातः काले
समुत्थाय शिवं सन्चिन्तयेत् सुधीः । अवश्यकरणञ्चैव
शौचभावमनन्ततः । इति श्रीमदशुमद्वचनेन पूर्वं
शिवध्यानविधिमाचष्टे (प्रातः) इत्यादिना (ध्यात्वा) इत्यन्तेन ।
शिवध्यानस्य कालं कथयति (प्रातः) इति । (प्रातस्स्मयात्)
निशापश्चिमभागकालात् । (पञ्चनाडिकालच्छेदे) पञ्चनाडिकाः
पञ्चघटिकाः । * * * * * * * *? णाः । तथा श्रीमत्कामिके
प्. १३)
षष्टयुच्छवासा भवेत् प्राणष्षट् प्राणा घटिका भवेत् इति ।
तासामवच्छेदे अवधौ ब्राह्ममुहूर्ते इति यावत् । तथा
श्रीमत्सूक्ष्मे रात्रेरन्तमिति प्रोक्तं यावदाभूतनाडिकाः ।
प्रातः कालमिति प्रोक्त ज्ञात्वा कर्म समारभेत् । ब्राह्मां
तत्कालनामं हि । इति । विमले ब्राह्मे मुहूर्ते उत्थानं
ध्यानाव?श्यकशौचकम् । दन्तशुद्ध्याप्लवौ सान्द्ध्यं
मायकी? जप एव च ॥ एतानीनोदयात् पूर्वं कर्पुरस्यैकर्णिका?
जनाः । उदिते तु दिवानाथे * *?दादिस्तथाचरेत् इति ।
ध्यानाधिकारिलक्षणमाह (शुचिर्वा) इति । शुचिर्वा शुद्धो वा
सुप्ति?समये अस्पृश्यस्पृष्टिविरहितः? पुमानिति यावत् ।
शुचिश्शुद्धेऽनुपहते शृङ्गाराषादयोस्तथा? इति विश्वः ।
(अशुचिर्वा) तदानीमस्पृश्यस्पर्शनाद्य?शुद्धियुक्त इत्यर्थः ।
(यथा संभवश्यौ? युक्तः) इत्येतद्विशेषणं शुचेरशुचेश्च ।
प्. १४)
तत्राद्यस्य विदादोषनिवारणाय
द्वितीयस्यास्पृश्यस्पर्शनाद्यशुद्धिव्यपोहनाय
निदादोषपरिहरणाय च । वारुणस्नानविरहेऽपि तत्कालानुगुणं
यथासंभव शौचविधेस्तुल्यत्वात् । अत्र यथाशक्तिशौचसंपन्नः
शिवं ध्यायेदिति तात्पर्यम् । यत् श्रूयते शुचिनां कर्म कर्तव्यम्
इति । यदा शुचिर्वा अशुचिर्वा यथासंभवशौचसंपन्नः? युक्तो
वा इति पृथक् पृथक् योजनीयम् । तस्य पुनराधारमाह (हृत्पद्मे) इति ।
एतत्स्वरूपमग्रे दर्शयिष्यामः । कथं ध्यायेदित्याह
(गुरुपदिष्टप्रकारेण) इति । ध्येयमाह (शिवम्) इति । व्याख्यातमेतत् ।
(यथाशक्ति) यथाविभवम् । (जपम्) मूलमन्त्रजपम् । तथा
श्रीमच्चिन्त्यविश्वसादाख्ये मूलमन्त्रमनुस्मृत्य जिह्वाग्रे तु
प्रसन्नधीः । स्थित्वा यावदुषः पूर्वं स्तुत्वा स्तोत्रैः प्रणम्य च
। इति । जपस्तावत् ध्येयसंमुखीकरणाय
प्. १५)
तदाचकमन्त्रभाषणम् । तथा श्रीमन्मृगेन्द्रे जपस्तद्भाषणं
ध्येयसंमुखीकरणं मतम् इति । अनेन
ध्यानसामर्थ्यरहितानां तद्वचक्रचिन्तनादिनापि तत्फलसिद्धिरिति
सूच्यते । अत्र परशिवस्य ध्यानं तदाराधनोपायभूतस्य
तद्वचक्रमन्त्रस्य जपञ्चोपदेशतोऽनुसन्दध्यात् । अधिकारिभेदेन
ध्यानभेदमभिधत्ते (समाधिसामर्थ्यरहितः) इति । समाधिस्तावत्
ध्यातृध्यानावभासविधुरं ध्येयैकविर्भासलक्षणं
चरमयोगाङ्गम् । तदुक्तं तदर्थमात्रनिर्भासं
स्वरूपशून्यमिव समाधिः इति । तत्र सामर्थ्यरहितः शक्तिहीनः
सामर्थ्य योग्यताशक्तयोः इति नानार्थरत्नमाला ।
सदाशिवादियथारुचितविग्रहम्) इत्यत्र सदाशिव शब्देन
सकलनिष्कलरूपो भोगावस्थास्थः शिवः प्रदर्श्यते । आदिशब्देन
अधिकारावस्थास्थः सकलरूपो महेशो गृह्यते ।
प्.१६)
तथा श्रीमद्वातुलशुद्धाख्यायां शिवस्सदाशिवश्चैव महेशो
मूर्तयस्त्रिधा । शिवतत्वं महासेन निष्कलं चेति कीर्तितम् । सकलं
निष्कलं चैव सादाख्यमिति चोच्यते । महेशं सकलं विद्यात्
त्रिविधास्ते भवन्ति च ॥ इति । एतदवस्थात्रयं
वक्ष्यमाणसन्ध्याध्यानवदधिकारिभेदेन
कर्तव्यत्वादुपपन्नमिति गुरवः इत्युक्तं
श्रीमत्सोमशंभुपद्धतिव्याख्याकारेण । तथा
श्रीमद्वालज्ञानरत्नावल्यां एवं त्र्यवस्थं विज्ञाय शिवं
सर्वाध्वगं परम् । यथाऽधिकारं शिवमपि ध्यायेत्
भोगापवर्गदम् । इति ।
=== मलोत्सर्जनशौचादिविधिः ॥ ===
(क्रि) (४) दण्डादिसहायो गृहान्निस्सृत्य, यथोधितं देशं गत्वा
तस्मिन्नावश्यकं दिनासन्ध्ययोस्सौम्यास्यो निशि यम्यमुखो
दक्षिणकर्णोपवीती
(प्.१६)
महाभूतविकारं
वर्ज्यस्सूर्याद्यनभिमुखस्तृणातच्छन्नायां भूमौ मलं
विसृज्य, लोष्टादिना गुदं प्रमृज्य / वामपाणिना लिङ्गं
संगृह्य, अनेन यथोक्तां मृदं समादाय, जलान्तिकं गत्वा,
मृदंभोभिरेकप्रयोगेण साधनं पञ्चप्रयोगेण
गुदमन्तराऽन्तरा मृदैकैकया हस्तं संशोध्य वामकरे
दशधा मृदमुभयोश्च सप्तधा संयोज्य, पश्चात् स्फुक्शुद्धिं
विधाय/भावशुद्ध्यभावे यावच्छौचं विदध्यात् ।
पश्चादेकैकया मृदा पादौ पाणी च प्रक्षाल्य, अन्यस्मिन् देशे
द्विराचम्य; (८)
(प्र) अथ शिवध्यानविधिं व्याहृत्य आदिभूतं सर्वक्रियाङ्गं
मलोत्सर्जनादिकं पश्चात् स्नानादिकं ततो मलोत्सर्जनादिकमेतादौ
वक्तव्यं तन्मूलत्वात् सर्वक्रियाप्रवृत्तेरिति कृत्वा प्रथमं
मलोत्सर्जनशौचादिविधिं वक्ति (दण्डादि) इत्यादिना (आचम्य)
इत्यन्तेन । (दण्डादिसहायः) दण्ड आदिर्यस्य
प्. १८)
सः दण्डादिः सहायो यस्य स तथोक्तः । दण्डलक्षणं यथा
सुप्रभेदे विप्राणान्तु शिरोत्सेधं क्षत्रियाणां ललाटकम् ।
वैश्यानां नासिकोत्सेधं शूद्रादीनां तु वर्जयेत् ॥ तत्रापि
विशेषमाह । मूर्द्धान्तं देशिकस्योक्तं ललाटं साधकस्य तु ।
भुवोऽन्तरं पुत्रकस्य नासान्तं समयिनां सदा ॥ इति । तथा
नैष्ठिकानां गृहस्थानां हस्तव्यामेन कारयेत् । सर्वदा
धारणीयं स्याद्वैणवं दण्डमुत्तमम् ॥ इति ।
कमण्डलवादिरादिशब्दार्थः । तथा श्रीमदजिते उत्थाय च
बहिर्गत्वा दण्डपाणिः कमण्डलुम् । मृत्काष्ठगोमयं पुष्पं
तिलमागलकं शुभम् । कुशान् द्रव्यं गृहीत्वा तु नदीं गच्छेत्
समुद्रगाम् । इति । मलमुत्रविसर्जनयोग्यस्थलमाह (यथोक्षितम्) इति ।
तद्देशः प्रदर्शितः श्रीमत्सहस्रे यथेष्टदेशं
संगम्यमैशान्यां दिशि वर्जयेत् इति । अनेन
अयो*देशगमनंनिषेधश्च सूच्यते ।
प्. १९)
तथा श्रीम * * * *? मिके । मार्गशष्यनदीगर्तजलगोमनभस्मसु? ।
श्मशानासमकृष्टैकदुमशृङ्गाटकादिक? ॥ आवश्यकं न
कर्तव्यम् इति । (तस्मिन्) मलादिविसर्जनार्हस्थले । (आवश्यकम्)
मलादिकम् । तथा श्रीमत्सर्वज्ञानोत्तरे निस्सृत्य
शयनस्थानादावश्यकरणं कुरु इत्येनमादिक *
ने?सर्वश्यकपदस्यैव मलवाचकत्वं सिद्धम् । तत् पुनस्तस्त्र
मलमिति पदं विचिन्त्यम् । यद्वा * * * ? नि चैव
कर्त्तव्यमावश्यकमिति कृत्वा मलपदस्य विशेषणतया गोपनीयम् ।
कीदृग्भूतो मलं त्रिशूले?दित्याह (दिवासन्ध्ययोः) इति ।
दिवाशब्देन सन्ध्याव्यतिरिक्ताहः कथ्यते । सम्यक्
ध्यानन्त्यस्यामिति सन्ध्या पादोन चतुर्नाडिकात्मकः कालः ।
प्रहरार्द्धं तथा सन्ध्या इति क्षीरस्तरङ्गिण्यामुक्तत्वात्? । * * *
यामेति व्यपदेशाच्च ।
प्. २०)
(सौम्यास्यः) इत्यत्र सौम्यपदं सोमदेवताकोत्तरदिग्वाचकं
सोमशब्दस्तु कुबेरचन्द्रमसोर्वाचकः । सौम्यः पुमान् वुधे विप्रे
त्रिषु स्यात् सोमदैवते । सोमः कुबेरे कर्पूरे लताभेदे सुधाकरे इति
नानार्थरत्नमाला । सोमो देवता अस्येति सौम्यः देवद्यञ् । अतः
सौम्यास्य इति उत्तराभिमुख इत्यर्थः । (निशियाम्यमुखः)
दक्षिणदिङ्मुखः । (महाभूतविकारवर्ज्यः) महाभूतानि
पृथिव्यादिपञ्चभूतानि तेषां विकाराः परिणामाः
तत्तद्भूतजनितदारुजादि पञ्चशब्दा इति यावत् । तथा श्रीमद्वातुले
महाभूतविकारांशश्शब्दः पञ्चविधस्स्मृतः । दारुजं
पृथिवीजातं शंखजञ्चाप्यमुच्यते ॥
आग्नेयं लोहजनितं वायुजातं तु वंशजम् ।
सोम?गगनजातं स्यात् तस्मात् भूतविकारकम् ॥
प्. २१)
मेयं सर्वसमायुक्तं शब्दः पञ्चविधस्स्मृतः ॥
इति परिणामो विकासे द्वे इत्यमरः । तैर्वर्ज्यः रहितः
मेदिन्यादिमहाभूतविकारदारुजादिशब्दाञ्चकश्रवणवर्जित इति
यावत् । (सूर्यास?नभिमुखः) सूर्यः आदिर्यस्य स तथोक्तः तस्य
अनभिमुखः असंमुखः । आदिग्रहणात् गोद्विधा? दीनामपि
अनभिमुख इत्युच्यते । तथा श्रीमद्ब्रह्मशंभुपद्धत्यां
गोविप्रलिङ्गिणां स्त्रीणां समुखं चन्द्रसूर्ययोः ।
महाभूतविकाराणां शनैरेतोत्सृजेत्मलम् ॥ इति ।
(तृणावच्छन्नायाम्) क्षणैः अतच्छन्नायां तिरोहितायाम् ।
तृणशब्देनात्र अयाशीयतृणाद्युपलक्ष्यते । तथा श्रीवासिष्टे
नवकुण्ठितशिरा भूमिमयाज्ञीयैस्तृणैरन्तरितां कृत्वा मुत्र
पुरीषे कुर्यात् इति । भूदेवता * * * निषेधार्थमेवमुक्तम् । तथा
देवता ऋषयस्सर्वे गत्वा नामास्तथैव च । उतिष्ठत सर्ववश्च
प्. २२)
बहिर्भूमि करोम्यहम् ॥ इति ॥ (मलम्) पुरीषम् । मलोऽस्त्री
पापविद्किट्टानि? इत्यमरः । (विसृज्य) त्यक्त्वा । (लोष्टादिना) लोष्टं
मृत्खण्डः आदिर्यस्य तत् तथोक्तं तेन । तृणादिरादिशब्दार्थः ।
तदुक्तं श्रीमत्सोमशंभुचरणैः
ततस्तृणैस्यज्ञाङ्गैर्मृज्याल्लोष्टेन वा गुदम् । न तु
गोमयपाषाणैर्दारुभिश्च कदाचन ॥ इति । (गुदम्) वायुम् । गुदं
त्वपानं? वायुर्ना इत्यमरः । (प्रमृज्य) मार्जनं विधाय ।
(लिङ्गम्) मेद्रम् । लिङ्गंस्यात् साध्यगमके शेफश्चिन्हेशमूर्तिषु
इति । नानार्थरत्नमाला । (अन्येन) दक्षिणकरेण । (यथोक्ताम्)
शिवागमविहिताम् । तल्लक्षणमभिहितं श्रीमत्कामिके
शुद्धामशर्करां मृद्विं मृदं शौचार्थमाहरेत् इति ॥
शौचविधिं निरुपयति (जलान्तिकम्) इति । (जलान्तिकम्) जलसमीपम् ।
अन्तिके निकटेऽन्तिकम्
प्. २३)
इति नानार्थरत्नमाला । (मृदंभोगिः) मृदश्च मृत्तिकाः
अंभांसि च जलानि मृदंगांसितैः । (एकप्रयोगेण) एकवारेण ।
(साधनम्) लिङ्गम् । (पञ्चप्रयोगेण) पञ्चवारेण (अन्तराऽन्तरा)
मध्ये मध्ये । (एकैकया) एकाच एका च एकैका तया । (हस्तम्)
शौचक्रियाप्रवृतनामकरम् । (संशोध्य) सम्यक् प्रक्षाल्य । अत्र
पूर्वं दक्षिणकरेण मृत्तिकां तामहस्ते निक्षिप्य तेन
मृदंभोभिर्गुदं संशोध्य अनन्तरं वामहस्तं
मृअदंभोभिरेकैकधा संप्रक्षाल्य एवमन्तराऽन्तरा
वामहस्तशोधनपुरस्सरं गुदं पञ्चधा
संशोधयेदित्यवधेयम् । तथा श्रीमत्कारणे तृणमूलादिकं
त्यक्त्वा जलेनार्द्रीकृतान्तु ताम् । आमलीफलमात्रेण सव्येनादाय
वामके ॥ निक्षिप्य वामहस्तेन घर्षयेत्तु पुनः पुनः इति । (दशधा)
दशप्रकारेण । (उभयोः) दक्षिणवामकरयोः ।
प्. २४)
(सप्तधा) सप्तवारेण । (सफिक्शुद्धिम्) स्फिचौ कटिप्रोथौ तयोः
शुद्धिः ताम् । स्त्रियां स्फिचौ कटिप्रोथौ इत्यमरः ।
(भावशुद्ध्यभावे) भावशुद्धिः मनश्शुद्धिः तस्याः अभावे
विरहे । तथा यावन्मात्रं मनश्शुद्धिस्तावदाशौच मिष्यते इति ।
भावशुद्धिश्च वीभत्सानिवृत्तिरेव । उक्तसंख्याया अधिककरण
एव तात्पर्यं न तु ह्रासे । तथा सति
संख्याविधानानर्थवयप्रसङ्गात् ॥ (यावच्छौचम्)
शुद्धिपर्यन्तम् । यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे
इत्यमरः । (विदध्यात्) कुर्यात् । ततः किमित्याह । (अन्यस्मिन्) इति ।
(अन्यस्मिन्) शौचस्थलाक्षितस्मिन्? । (द्विः) द्विवारम् । (आचम्य) इत्यत्र
पूर्व गण्डूषैरष्टभिर्वक्त्रं संशोध्य पश्चात् तुष्णी
समाचम्य तदनन्तरं मन्त्रैर्वक्ष्यमाणप्रकार व* *
मेदित्यवसेयम् । तथा मूत्रे पुरीषे भुक्तौ
प्. २५)
च तथाऽभक्ष्यस्य भक्षणे । चतुरष्टद्विरष्टाष्टगण्डूषेण
विशुद्ध्येति ॥ इति । तथा श्रीमज्ज्ञानरत्नावल्यां एका लिङ्गे गुदे
पञ्च दश वामकरे मृदः । उभयोरसप्तसंख्याश्च पश्चात्
स्फिक्शुद्धिमाचरेत् । ततोऽन्यत्र समाचामेत् तूष्णी सव्योपवीतवान् ।
पुनर्मन्त्रैस्समाचम्य दन्तधावनमाचरेत् ॥ इति ॥
=== दन्तधावनविधिः ॥ ===
(क्रि) (५) दन्तकाष्टमष्टाङ्गुलं
मुक्तिकामोऽव्योद्धृतदशाङ्गुलं चूतादिसंभवं
कनिष्ठाङ्गुलिपरिणाहमार्द्रं त्वगन्तितमपर्वकमृजुं सङ्गृह्य
दन्तशुद्धि विदध्यात् ॥
पिशाचधववानीर
निम्बैरण्डादिकाशकुशयाशीयवृक्षजमङ्गुल्यादिकं बिहाय,
अन्यत् परिमृङ्गीयात् ॥
प्रतिपत्पर्वषष्टीनवम्यमावास्यासु न दन्तान् धावयेत् । अपा
द्वादश गण्डुषैः शुद्धपत्रैर्वा विधाय ॥ ५
पा - पुनः ॥
प्. २६)
(२२) (प्र) अथ मलोत्सर्जनादिविधिमभिधाय
दन्तधावनविधिमभिधत्ते (दन्तकाष्ठम्) इत्यादिना (विधाय)
इत्यन्तेन । अथेष्टसाधनं दीक्षा परमेशमुखोद्गता । निगद्यते
समासेन द्वित्वादर्थस्य सा द्विधा । भौतिकी नैष्ठिकी चैव इति
श्रीमन्मृगेन्द्रसुतेः नैष्ठिकदीक्षाया दीक्षितस्य एव*?काष्ठस्य
लक्षणमुपपादयति (अष्टाङ्गुलिम्) इति । अष्टौ अङ्गुल्यः
प्रमाणमस्येति अष्टाङ्गुलम् ।
तत्पुरुषस्याङ्गुलेस्संख्यान्ययादेः इति समासान्तोऽन् ।
(मुक्तिकामः) मुमुक्षुः । अयः पुनः दन्तकाष्ठं
खदिरादिसंभवं गृह्णीयात् । तथा समभिहितं
श्रीमत्सोमशंभुचरणैः चिरिबिल्वकरञ्जोत्थं शैरीषं
सादिरार्जुनम् । अष्टाङ्गुलं मुमुक्षूणाम् इति ॥ भौतिकस्य
तल्लक्षणमाह (अन्यः) इति । अन्यः बुभुक्षुः । (द्वादशाङ्गुलम्)
द्वादश अङ्गुल्यः प्रमाणमस्येति
प्. २७)
तथोक्तम् । (चूतादि संभवम्) चूतः आम्रः आदिः यस्य सः
चूतादिः तस्मात् संभवं समुत्पन्नम् । लक्षादिरादिशब्दार्थः ।
तथा तैरेव समीरितं बुभुक्षूणामथोच्यते इत्युपक्रम्य
प्लक्षाम्रककुभाशोकजम्बूचंपकसंभवम् ।
अपामार्गादिमुक्तोत्थं द्वादशाङ्गुलमायतम् ॥ इति ।
(कनिष्ठाङ्गुलिपरिणाहम्) कन्यसाङ्गुलिविशालकम् । परिणाहो
विशालता इत्यमरः । (आर्द्रम्) अशुष्कम् । (त्वगन्तितम्) त्वक् चर्म तया
अनितं युक्तम् । (अपर्वकम्) न विद्यते पर्वग्रन्थिः यस्य तत् तथोक्तम् ।
ग्रन्थिर्ना पर्वपरुषी इत्यमरः । (ऋजुम्) अवक्रम् ।
दन्तधावनानुचितवृक्षादिकं वक्ति (पिशाच) इति ।
(पिशाचधवनानीरनिम्बैरण्डादि) पिशाचश्च वृक्षविशेषः ।
धवश्च वृक्षभेदः पति शाखिनरा धवाः इत्यमरः । वानीरश्च
वञ्जुलः निम्बश्च प्रसिद्धः एरण्डश्च वातरिः पिशाचधवना
नीरनिम्बै
प्. २८)
रण्डाः ते आदयः यस्य तत् तथोक्तम् । (काशकुशयाज्ञीयवृक्षजम्)
काशश्च बाणः कुशश्च दर्भः अथो काशमस्त्रियाम् । इक्षुगन्धा
पोटगलः अस्त्री कुशं कुतो दर्भः इति चामरः । याज्ञीयवृक्षः
यज्ञकर्मार्हतरुः काशकुशयाज्ञीयवृक्षाः तेभ्यो जायत इति
तथोक्तम् । तत् कर्मार्हन्तु याज्ञियम् इत्यमरः । यज्ञवृक्षाश्च
यथा
अश्वत्थोदुम्बरप्लक्षा आषाढी खदिरस्तथा ।
न्यग्रोधश्च समीबिल्वचूतवैकङ्कतास्तथा ॥
असनश्च शिरीषश्च यज्ञवृक्षाः प्रकीर्तिताः, इति । अत्र
प्लक्षखादिरचूतशिरीषाणां दन्तकाष्ठार्हतरुषु निर्देशात्
तदन्ययाज्ञीयवृक्षस्य निषेध इति तात्पर्यम् । (अङ्गुल्यादिकम्) इत्यत्र
इष्टानदिरादिशब्दार्थः? । तथा श्रीमज्ज्ञानरत्नावल्यां
कण्टकक्षीरवृक्षोत्थमिष्टकाङ्गारभस्मजम् । अङ्गुलिश्च न
शस्येत प्रमादाच्चेत् तपः क्षयः ॥ इति ।
(प्.२९)
(अन्यत्) पिशाचादेरितरत् । [परिगृह्णीयात्] परिग्रहं कुर्यात् ॥
ननु किं सर्वदा दन्तधावनं विहितमिति नेत्याह (प्रतिपत्) इति ।
(प्रतिपत्पर्वषष्ठीनवम्यमानास्यासु) प्रतिपच्च प्रथमा पर्व च
षष्ठी च नवमी च अमावास्या च तास्तथोक्ताः तासु । (न धावयेत्)
न शोधयेत् । तदा किं करणीयमित्याह (अपाम्) इति । (अपाम्) जलानाम् ।
(द्वादशगण्डूषैः) द्वादशमुखपूरणैः । गण्डूषो
मुखपूरणे इति हलायुधः । (शुद्धपत्रैः) पावनचूतादिवर्णैः
॥
=== वारुणस्नानविधिः ॥ ===
(क्रि) (६) स्नायात् । तत्र नदीसङ्गमाद्यन्यतमं मला, आचम्य,
कृतसकलीकरणोऽस्त्रेण मृदमष्टाङ्गुलादधस्सङ्गृह्य, त्रिधा
विभज्य, एकया आनाभिपादान्तं प्रक्षालयेत् । अन्यया
सकृदस्त्राभिमन्त्रितया अशेषमङ्गमालिप्य, अनाभिजलं
प्. ३०)
प्रविश्य, पूर्वास्यष्षण्मुख्या (-मुद्रा) वदनादिकं विधाय (पि-)
हृदये भास्वरमस्त्रं सञ्चिन्त्य, स्नायात् ॥
ततो द्विजः प्रथमं ब्राह्मीं सन्ध्यामुपास्य,
पश्चादस्त्रंसन्ध्यामेवोपास्यात् । तत्सन्ध्यार्थमस्त्रेण शिरसि
जलबिन्दून् निक्षिप्य, अञ्जलित्रयमनेनैवार्घ्यं दत्वा यथाशक्ति
जपेत् । पुनः शेषमृद्भागमादाय, संहितयाऽभिमन्त्र्य,
नभिदघ्नजलं प्रविश्य, वामहस्ते त्रिधा विभज्य, अस्त्रेण पूर्वं
ब्रह्मभिर्दक्षिणं मूलेनोत्तरं सकृदभिमन्त्र्य, अस्त्रजप्तेन
दिग्बन्धनं कृत्वा, शिवजप्तेन मृद्भागेन
बाहुभ्रमणाञ्जलभवगाह्य, शिवतीर्थवद्विचिन्त्य, बलाजप्तेन
विग्रहं कुण्डयित्वा, शिवं ध्यात्वा, स्नायात् ।
ततः सोमसूर्यौ शक्तिशिवौ च वामदक्षिणहस्तयोः
सञ्चिन्त्य, वौषडन्तसंहितयाऽभिमन्त्र्य आनाभिजले
कुम्भकमुद्रया शिरस्यभिषिञ्च्य, अस्त्रेण दिग्विदिक्षु जलं निक्षिप्य,
चक्रवर्त्युपचारेण
प्.३१)
सुगन्धामलकादिना स्नात्वा, जलादुत्तीर्य, द्वस्वप्रासादेन
तीर्थमुपसंहरेत् । ततोऽङ्गलग्नजलं
शुद्धेनानार्द्रवाससोन्मृज्य, शुद्धे वाससी परिधाय ॥ (६)
(प्र) अथ दन्तधावनविधिमुदीर्य
अथार्चनादिसत्कर्मयोग्यताजनकं चितेः । स्नानं निगद्यते इति
श्रीमन्मृगेन्द्रश्रुतेः सकलपूजादिक्रिया स्नानमूला यतो
नास्नातस्य क्रिया विद्यते तस्मादादौ तदवाप्तिकरं
वारुणस्नानविधिं वक्ति (स्नायात्) इत्यादिना (परिधाय) इत्यन्तेन ।
(स्नायात्) स्नानं कुर्यात् । तत् कथमित्याह (तत्र) इति । (तत्र)
स्नानकरणे । कुत्र स्नानमाचरेदित्याह (नदीसंङ्गमाद्यन्यतम्)
इति । नदीसङ्गमः सरिद्वयसम्मेलनं नदीसमुद्रसङ्गमो वा स
आदिर्यस्य तत् नदीसङ्गमादि तत्र अन्यतम् एकम् ।
कासारादिरादिशब्दार्थः । तथोक्तं श्रीमत्सोमशंभुचरणैः
सिन्धुराङ्गमकासार तटाकेषु
प्. ३२)
नदे ह्रदे इत्यादि । तत्र पूर्वं करणीयमाह (आचम्य) इति ।
आचमनविधिमुपरिष्टात् स्पष्टीकरिष्यति । (कृतसकलीकरणः) कृतं
वदयमाणवत् विहितं सकलीकरणं कराङ्गन्यासः येन स
तथोक्तः । तथा श्रीमन्मृगेन्द्रपद्धत्यां साङ्गन्यासः
करन्यासस्सकलीकरणं मतम् इति ।
मृत्तिकास्नानाय तद्ग्रहणतद्विभजन तदभिमन्त्रणादि
क्रममति दिशति (अस्त्रेण) इति । (अष्टाङ्गुलात्) अष्टाङ्गुलप्रमाणात् ।
शुचि स्थलादिति शेषः । तदुक्तं श्रीमत्कालोत्तरे पर्वताद्वा
नदीकूलात् पुण्यक्षेत्राच्छुचिस्थलात् । ब्रह्मवृक्षात् कुशाधस्तात् इति ।
(अधः) अधस्तात् । (एकया) प्रथमांशमृत्तिकया ।
(आनाभिपादान्तम्) नाभिमारभ्य चरणावधिकम् ॥
वारुणस्नाने मलस्नानक्रममाह (अन्यया) इति । (अन्यया)
द्वितीयांशमृत्तिकया । (सकृत्) एकवारम् । सकृत् सहैकवारे च
इत्यमरः । (अस्त्राभिमन्त्रितया)
प्. ३३)
अस्त्राभिजप्तया शिवास्त्रभावितयेति यावत् । (अशेषम्) स्मस्तम् ।
(अङ्गम्) शरीरम् । (आलिप्य) आसमन्तात् लेपनं विधाय । (पूर्वास्यः)
पूर्वदिङ्मुखः । (षण्मुख्या वदनादिकं विधाय) इत्यत्र
चक्षुश्श्रोत्रनासि-
(षण्मुख्या) षण्मुखीमुद्रया । एतल्लक्षणमुक्तं
श्रीमत्सिद्धान्तशेखरे अङ्गु * योजयेत् ॥ इति । (वदनादिकम्) वदनं
मुखं आदिर्यस्य तत्तथोक्तम् । आदिपदेन कर्णचक्षुर्नासिका
विवक्षिताः (पिधाय) आच्छाद्य । इति पाठान्तरम् ।
कापिधानं विवक्षितम् । तथा श्रीमत्सिद्धान्तशेखरे
अङ्गुष्ठाभ्यामुभौ कर्णौ तर्जनीभ्यामथाषिणी (-क्षिणी ?) ।
मध्यमाभ्यां निबध्नीयान्नासिकायुगलं दृढम् ॥
षण्मुखीकरणं ह्येतत् स्नानकर्मणि योजयेत् । इति । (भास्वरम्)
कालानलवत् देदीप्यमानम् । अस्त्रमन्त्राभिजप्तमृत्तिकालेपन-
प्. ३४)
पूर्वकस्नानं वारुणस्नाने मलस्नानमिति निगद्यते ।
तनाऽभिहितं श्रीमत्सोमशंभुचरणैः अस्त्राभिजप्तयाऽऽलिप्य
दीप्तया सर्वविग्रहम् । निरुध्याक्षिणी प्राणिभ्यां प्राणान्
संयम्य वारिणि । निमज्यासीत हृद्यस्त्रं स्मरन् कालानलप्रभम् ।
मलस्नानं विधायेत्थम् इति ॥
ततः किं करणीयमित्याशङ्का
अस्त्रसन्ध्योपासनाविधिमभिधत्ते ( ततः) इति । (ततः)
मलस्नानानन्तरम् । द्विजशब्दस्तावत्
वागीश्वरीगर्भसंयोजनसंजननादिसंपन्नद्विजत्वयुक्तदीक्षि-
तजनवाचकः । नत्वत्र पुनरुपनीतलमात्रयुक्तः स्मार्तो
द्विजशब्देनेष्टः अदीक्षितानां
शैवतन्त्रसंसिद्धाचारानधिकारात् प्रत्युत प्रत्यवायश्रुतेः ।
तस्मात् द्विजशब्देन शिवदीक्षा संपन्ना विप्रक्षत्रियवैश्याः
प्रदर्शिताः । यदाह श्रीमन्मृगेन्द्रपद्धतिव्याख्याकारः
ब्राह्मणादित्रयं स्मार्तसन्ध्यावन्दनानन्तरं
प्. ३५)
पारमेश्वरमस्त्रं शास्त्रोक्तक्रमेण ध्यायेत् इति । (प्रथमम्)
पूर्वम् । (ब्राह्मीम् वैदिकीम् ।
वेदसिद्धैरापोहिष्ठादिमन्त्रैसम्नातमार्जनविधिमिति यावत् ।
एवमुक्तं श्रीमन्मृगेन्द्रवृत्तिकारैः । तथा श्रीमत्सुप्रभेदे
आपोहिष्ठेति संप्रोक्ष्य सावित्र्याचोदकं क्षिपेत् इति । (पश्चात्)
वेदसिद्धसूक्ष्मसन्ध्यावन्दनानुष्ठानानन्तरम् ।
(अस्त्रसन्ध्याम्) अस्त्रमुद्विश्य सन्ध्या अस्त्रसन्ध्या ताम् । तथा
अस्त्रमुच्छिश्यं या सन्ध्या साऽस्त्रसन्ध्या प्रकीर्तिता इति ।
एवकारेण पारमेश्वरसन्ध्यायाः प्राधानं प्रतिपाद्यते । तथा
श्रीमद्वृहत्कालोत्तरे वैदिकीन्तु पुरः कृत्वा पश्चात्छैवीं
समाचरेत् । भौतिको नैष्ठिक स्तद्वत् ब्राह्मीं कुर्यात् पुरा न वा ॥
शैवी तु नियमेनैव संध्या पतनमन्यथा । इति । (उपास्यात्) वन्देत ।
(तत्सन्ध्यार्थम्) अस्त्रसन्ध्यायै । (जलबिन्दून्)
प्. ३६)
जलकणात् । (निक्षिप्य) प्रकीर्य । (अनेनैव) अस्त्रमन्त्रेणैव । अत्र
शूद्रस्तु ब्राह्मीं सन्ध्यां विहाय शैवी कुर्यादिति बोद्धव्यम् ।
तथा श्रीमत्कामिके नित्यादित्रितयं कार्यं चतुर्भिरविशेषतः ।
वैश्वदेवं तथा सन्ध्यां शूद्रस्त्यक्त्वा त्रयीमयीम् । इति तथा च
।
२५ स्मृतिकौमुद्यां यश्च आगमदीक्षाविधियुक्तस्य पुंसः
श्रुतिस्मृत्यविरुद्ध आगमोक्त एव सन्ध्याविधिः श्रूद्रस्य च सोऽस्तु ।
न तु श्रौतः स्मार्तो वा शूद्रस्य श्रुतिस्मृतिक्रियास्वनधिकारात्
आगमेष्वेवाधिकारः इति ॥
इदानीं अस्त्रसन्ध्यामुपास्याथ विधिस्नानं समाचरेत् इति
श्रीमत्सोमशंभुवचनेन विधिस्नानक्रममाह (पुनः) इति ।
(शेषमृद्भागम्) शेषः उपमुक्ताभ्यां उभाभ्यां
भागाम्यामवशिष्टः
प्. ३७)
तृतीय इत्यर्थः । स चासौ मृद्भागश्च तम् । संहिताशब्दस्तु
द्विशतिकालोत्तरदृशा मूलाद्यस्त्रान्तमन्वषट्कवाचकः ।
सार्द्धत्रिशतिकादिदृशा मूलब्रह्माङ्गवाचकः । तथा च
श्रीमत्कामिके सब्रह्माङ्गश्शिवश्शास्त्रे सहितेत्यभिधीयते इति ।
अस्यास्तु पद्धतेः सार्द्धत्रिशतिमूलत्वात् तत्रैव(?) संहिता ग्राह्या
। एवं निर्धारितं सोमशंभुपद्धतिव्याख्याकारेण ।
(नाभिदघ्नजलम्) नाभिप्रमाणोदकम् । (विभज्य) इति विभागं
विधाय पूर्वदक्षिणोत्तरदिक्स्थं कुले त्यर्थः । (पूर्वम्)
पूर्वदिङ्निष्ठमृद्भागम् । (ब्रह्मभिः)
ईशानादिपञ्चब्रह्ममन्त्रैः (दक्षिणम्) याम्यदिक्स्थम् । (मूलेन)
ओं हां हौं शिवाय नमः इति मन्त्रेण (उत्तरम्) सौम्यदिग्वर्तिनम् ।
(सकृत्) एकवारम् । (दिग्बन्धन कृत्वा) इति अस्त्रेण
जलगतविघ्नशमनाय दिग्विदिक्षु अस्त्राभिमन्त्रितमृदं
विक्षिप्येत्यर्थः ।
प्. ३८)
(बाहुभ्रमणात्) भुजवेष्टनात् । (अवग्राह्य) इति
शिवतीर्थसीमार्थममृतीकरणाय च स्वशरीरतो
बाहुभ्रमणप्रमाणेन मूलमन्त्रेण स्नानोदकमावेष्ट्य
इत्यर्थः । (शिवतीर्थतत्) शिवतीर्थेन तुल्यम् । तेन तुल्यम् इति पतिः ।
यद्वा शिवतीर्थवदिति शिवतीर्थसंयुक्तमित्यर्थः ।
शिवजप्तमृदवगाहनेन अत्र जलं शिवतीर्थं जातमिति मन्तव्यम् ।
तथा श्रीमत्सर्वज्ञानोत्तरे शिवजप्तेन भागेन
ततोऽभ्यावर्तयेज्जलम् । शिवतीर्थं भवेदेवं विधिस्नानेन
षण्मुख इति । अत्र शिवतीर्थविचिन्तनं
जलस्थितमत्स्यादिसेवासमुत्थदोषापशमनायेत्यवधेयम् । तथा
श्रीमत्सुप्रभेदे मत्स्यमण्डूकसर्पाद्यैरन्यैश्च जलजन्तुभिः ।
सेवितन्तु जलं नित्यं तस्माद्दुष्टं विशेषतः ॥
तद्दोषशमनार्थं तु शिवतीर्थं प्रकल्पयेत् इति । (विग्रहम्)
शरीरम्
प्. ३९)
(कुण्डायित्वा) इति ब्रह्मपञ्चकमुच्चरन् कायपापसंशोधनाय
मस्तकादिचर-
----------------------------------------------------------
२६ णान्तं समालिप्येत्यर्थः । तथा श्रीमन्मतङ्गे
शिरोवदनहृद्गुह्यं ब्रह्मभिश्चालभेत् क्रमात् इति ॥ तथा
श्रीमतपराख्ये ककुप्राची तु या प्रोक्ता तस्या नाथश्शतक्रतुः ।
नियुक्तस्सर्वदेवानां नायकत्वेन वेधसा । न केवलमसौ तेषां
विघ्नानामपि नायकः । तेन तद्विग्गतेनास्मिन् विघ्नप्रोत्सारणं
भवेत् ॥ सौम्या या तु ककुप्तस्यामीशानोऽमृतसंभवः ।
शिवेनालोडितस्सोमः क्षणात् क्षरति केवलम् ॥ तत्तीर्थममृतं
यस्मात् तस्मिन् स्नातोऽमृती भवेत् । दक्षिणाशाधिपो
धर्मस्सर्वपापापहारकः ॥ तेन तद्दिग्गता या मृत्
तत्स्पर्शादेनसः क्षयः इति ॥ मन्त्रस्नानविधिमाचष्टे ( ततः) इति ।
(ततः)
प्. ४०)
स्नानानन्तरम् । (सोमसूर्यौ) सोमश्च सूर्यश्च तौ । (शक्तिशिवौ)
शक्तिश्च शिवश्च तौ । चकारस्समुच्चयार्थः । (सञ्चिन्त्य) इति । अत्र
वामहस्तं सोमशक्त्यात्मकं दक्षिणहस्तं सूर्यशिवात्मकं
भावयेदिति तात्पर्यम् । (वौषडन्तसंहितया) वौषडित्यन्ते यस्याः
सा वौषडन्ता सा चासौ संहिता च तथोक्ता तया ।
संहिताशब्दार्थः पूर्वं व्याख्यातः । (कुंभकमुद्रया) इति ।
एतल्लक्षणमुक्तं मुद्रालक्षणे कुंभकमुद्रा
सुश्लिष्टतर्जनीमूलगताङ्गुष्ठिकासङ्गतहस्ततलद्वयकन्यसाङ्गु
लिरूर्द्ध्वविस्तारितपाणिद्वयानामिका स्नाने मन्त्राभिषेके कार्या
इति । (अभिषिच्य) इत्यत्र मूलादिब्रह्माङ्गमन्त्रैरेकैकशोऽभिषेचयेत्
इति तात्पर्यम् । तथा श्रीमत्कामिके
सूर्यसोमात्मकौ हस्तौ संयोज्य घटमुद्रया ।
मूलमन्त्रादिकैर्मन्त्रैस्सेकः कार्यस्सकृत्सकृत् ॥ इति ।
प्. ४१)
तथा च श्रीचिन्त्यविश्वसादाख्ये चन्द्रार्करूपहस्ताभ्यां सेचयेत्
कुंभमुद्रया । वौषडन्तषडङ्गेन मूलेन ब्रह्मभिर्मुहुः इति ।
स्वरक्षार्थमविच्छिन्नविघ्नविध्वंसनाय च । अस्त्राभिमन्त्रितं
तोयं दिग्विदिक्षु विनिक्षिपेत् ॥ इति श्रीमत्सोमशंभुपद्धतिश्रुतेः
स्वरक्षार्थं दिग्विदिक्षु जलं विक्षिपेदित्याह (दिग्विदिक्षु) इति ।
दिशाश्च ककुभः विदिश्च दिङ्मध्याः दिग्विदिशः तासु क्लीनेऽव्य
यंत्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् इत्यमरः ।
विधिस्नानसमनन्तरकरणीयमाह
--------------------------------------------------------
हौं शिवाय वौषडित्यादि ॥
+पा- संहितामन्त्राणामेकैकेन अभिषेचयेदित्यर्थः ॥
(२७) (चक्रवर्ति) इति । (चक्रवर्त्युपचारेण) चक्रवर्ती सार्वभौमः
तस्य उपचारः शंखतूर्यादिमङ्गलध्वनिः
प्. ४२) तेन । तथा श्रीमत्कामिके
सुगन्धामलकाद्यैस्तु स्नायाद्राजोपचारतः ।
राजवद्धेमपीठादिसंस्थितो हेमकुंभकैः ॥
स्नात्वा निमज्जनार्थन्तु कुर्याच्छब्दैस्सुमङ्गलैः । इति
(सुगन्धामलकादिना) इति सुगन्धञ्च परिमलद्रव्यं आमलकञ्च
शुष्कधात्रिफलं सुगन्धामलके ते आदी यस्य तत् तथोक्तं तेन ।
तैलादिरादिशब्दार्थः । तथा श्रीमद्वीस्तन्त्रे तैलगामलकं
युक्तमङ्गमालिप्य सर्वशः इति । चक्रवर्त्युपचारेणेत्युक्तेपि पुनः
सुगन्धामलकादिनेति वचनमामलकादेरवश्यंभावित्वं
विधिस्नानसमनन्तरकरणीयत्वञ्च दर्शयति । तथा समान्नातं
श्रीमन्मतङ्गे विधिस्नानसमनन्तरं तथोद्वर्तनकैः पश्चात्
सुगन्धामलकादिभिः । गायत्र्या मन्त्रितैर्मन्त्री
स्नायाच्छिवमनुस्मरन् ॥ इति ॥ (उत्तीर्य) उत्तरणं कृत्वा तीरं
प्. ४३) गत्वेति यावत् । ह्रस्वप्रासादस्तावत् ह्रस्वं बिन्दुगतं ज्ञेयम्
इति श्रुतेः बिन्द्वन्तव्याप्तिकप्रासादः । अस्त्र मन्त्रमिति केचित् । (तीर्थम्)
तीर्यते अनेनेति तीर्थं पूर्वं शिवतीर्थंवद्विचिन्त्येति
प्रकल्पितशिवतीर्थमित्यर्थः । (उपसंहरेत्) संहारिण्या बिन्दुस्थाने
लयं नयेदित्यर्थः । तथा श्रीमत्सार्द्धत्रिशतिकायां
संहरेच्छिवतीर्थन्तु ध्यात्वा संहारमुद्रया इति ।
तदनन्तरकरणीय माह (ततः) इति । (ततः)
शिवंतीर्थोपसंहारानन्तरम् । (अङ्गलग्नजलम्) देहसंयुक्तं
जलम् । (अनार्द्रवाससा) शुष्कवस्त्रेण । वाससी
अधरांबरोत्तरासङ्गावित्यर्थः । तथा श्रीमज्ज्ञानरत्नावल्यां
स्नाने देवार्चने यागे भोजने च विपश्चिता । धौतवस्त्रद्वयं
धार्यमखण्डं सदशं सितम् ॥ नैकवस्त्रः क्रियाः
कुर्यान्नग्नः कौपीनकेवलः इति । (परिधाय) परिधृत्वा ॥
प्. ४४)
=== आचमनविधिः ॥ ===
(क्रि) (७) बद्धचूडः प्रागास्य उदगास्यो वा अनावृतशिरा आसीनः
केनबुद्धुदरहितेन वीक्षितेनाऽम्भसा ओम् हां आत्मतत्वाय
स्वधा ओं हीं विद्यातत्वाय स्वधा, ओं हूं शिवतत्वाय स्वधा, इति
प्रत्येकं पाणिं प्रक्षाल्य, ब्रह्मतीर्थेनाचम्य,
ओष्ठावङ्गुष्ठमूले-
-----------------------------------------------------
(२८) नास्त्रेण द्विः परिमृज्य, हस्ततलेनाधोमुखं सकृत् परिमृज्य,
अङ्गुष्ठानामिकाभ्यां मुखनासिकाक्षिकर्णविवराणि
नाभिहृदंसद्वयशिसंसि दक्षिणवामक्रमेण हृदा संस्पृश्य,
आचमनं भवति ॥ (७)
(प्र) अथ वारुणस्नानक्रममुपवर्ण्य
सकलकर्माङ्गमाचमनविधिमाचष्टे (बद्धञ्चूडः) इत्यादिना
(भवति) इत्यन्तेन । (बद्धचूडः) बद्धा ग्रथिता
प्. ४५)
चूडा शिखा येन स तथोक्तः । शिखा चूडा केशपाशी इत्यमरः ।
(प्रागास्यः) पूर्वदिङ्मुखः । (उदगास्यः) उत्तरदिङ्मुखः ।
दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः इत्यमरः ।
(अनावृतशिराः) आवृतं शिरोवेष्टनेनाच्छादितं न भवतीति
अनावृतं शिरः मूर्धा येन स तथोक्तः । (आसीनः) समुपविष्टः ।
[फेनबुद्बुदरहितेन] फेनश्च डिण्डीरः डिण्डीरोऽब्धिकफः
फेनः इत्यमरः । बुद्बुदश्च जलस्फोटः फेनबुद्बुदौ ताभ्यां
रहितं शून्यं तेन । (वीक्षितेन) विलोकितेन । (ओम् हाम्) इत्यादि ।
आत्मतत्वादिबीजानि तु हृदयशिरश्शिखाबीजानि । तथा
श्रीमरामनाथपद्धत्यां हृत् पूर्वमात्मतत्वाय स्वधेति
चुलुकं पुरा । पिबेन्निरीक्ष्य निश्शब्दं ब्रह्मतीर्थेन हृद्गतम् ।
अवं शिरश्शिस्वापूर्वमन्यतत्वद्वयेन तु इति । अत्रत्य स्वधाशब्दः
सरस्वतीवाचकः । तदुक्तं स्वधा या
प्. ४६)
स्वः स्वयं भूयात् तन्मेधा सा सरस्वती । स्वधा जातिस्ततो योज्या
वाणीशुद्ध्यर्थमर्थतः ॥ इति । (इति) एवम् । (ब्रह्मतीर्थेन)
अङ्गुष्ठमूलगतोदकेन । तथोदीरितं श्रीमत्सोमशंभुचरणैः
ब्राह्ममङ्गुष्ठमूलस्थम् इति । (आचम्य) इति । अत्र
निरङ्गुष्ठकनिष्ठकमाचमेदिति बोध्यम् । तथा दक्षपाणितले
कृत्वा मुक्ताङ्गुष्ठकनिष्ठिके । सोमरूपं सिते पक्षे
कृष्णेत्वकर्मात्मकं स्मरेत् ॥ आत्मविद्या शिवैस्तत्त्वैस्स्वधान्तैः
प्रणवादिकैः इति । (ओष्ठौ) उत्तराघोरदनच्छदौ । ओष्ठाधरौ तु
रदनच्छदौ दशनवाससी इत्यमरः । (द्विः) द्विवारम् ।
(अङ्गुष्ठानामिकाभ्याम्) इति । अत्र अङ्गुष्ठ ईशानरूपः
अनामिका अमृतकलात्मिका । तथा श्रीमत्पराख्ये
भवेदीशस्सदाऽङ्गुष्ठोऽनामानामामृता कला ।
तयाऽमृतात्मना देवा अमृततृप्तास्त्वनामया इति ।
(मुखनासिकाक्षिकर्णविवराणि)
प्. ४७)
मुखञ्च वक्त्रं नासिके च घ्राणे अक्षिणी च नयने कर्णौ च श्रोत्रे
मुखनासिकाक्षिकर्णाः एतेषां विवराणि सुषिराणि बिलानि ।
(२९) सुषिरं बिवरं बिलम् इत्यमरः । (नाभिहृदंसद्वयशिरांसि)
नाभिश्च निम्नप्रदेशः हृच्च हृदयं अंसद्वयं च
स्कन्धयुगलम् । स्कन्धो भुजशिरोऽस्सोऽस्त्री इत्यमरः । शिरश्च
मुर्द्धा तानि । (दक्षिणवामक्रमेण) पूर्वं दक्षिणपार्श्वं
पश्चात् वामभागं संस्पृशेदित्यर्थः ॥
=== अशक्तस्य गृहस्नानविधिः ॥ ===
(क्रि) (८) यद्वा गृहेऽपि पूर्ववन्मृदादिभिः स्नात्वा, वस्त्रपूततोय
परिपूर्णैर्नवभिरष्टभिः पञ्चभिर्वा
कुंभैश्शिवमन्त्रप्रकल्पितैः स्नायात् ॥ (८)
(प्र) अथ आचमनविधिं प्रतिपाद्य नदीसङ्गमादि
स्नानाशक्तानां गृहस्नानविधिमतिदिशति (यद्वव) इत्यादिना
(स्नायात्) इत्यन्तेन । (यद्वा) नदीसङ्गमादिस्नानं
प्. ४८)
नोचेत् नदीसङ्गमादिस्नानेन तुल्यम् । (वस्त्रपूततोयपरिपूर्णैः)
वस्त्रपूतानि पटपवित्राणि पटपरिगलितानीति यावत् । तानि च तानि
तोयानि उदकानि तैः परिपूर्णाः परिपूरिताः तैः । (नवभिः)
नवसंख्यैः । वा शब्दे विकल्पवाची । (कुम्भैः)
सौवर्णादिघटैः) तथा श्रीमच्चिन्त्यविश्वे
मृत्कुम्भात्ताम्रकुंभेन स्नानं शतगुणं भवेत् ।
ताम्राक्षतगुणं रौप्यं राजताद्धेमकं शतम् ॥ इति ।
(शिवमन्त्रप्रकल्पितैः) शिवमन्त्राभिमन्त्रितैः ॥
=== कापिलस्नानविधिः ॥ ===
(क्रि) (९) वारुणस्नानाशक्तो यथाशक्त्याऽऽमलं कट्यधः पादौ
वा प्रक्षाल्य, अप्रक्षालितं शिष्टमङ्गमार्द्रवस्त्रेणोन्मृज्य,
अस्त्रेण हुंफडन्तेन पादाङ्गुष्ठोत्थितवद्विना
शरीरगतबाह्यमलगात्रं दग्ध्वा,
क्षुब्धशक्तिपरिस्रुतशुद्धतोयेनाप्लाव्य, संहितामेकवारं जपेत् ॥
(९)
प्. ४९)
(प्र) अथ वारुणस्नानविधिं निरूप्य, तदशक्तानां
स्नानाशक्तस्तु यो मर्त्यः कापिलस्नानमाचरेत् । आर्द्रवस्त्रेण
मूर्द्धादिमार्जनं कापिलं स्मृतम् ॥ इति वचनं हृदि निधाय
कापिलस्नानप्रकारं दर्शयति (वारुण) इत्यादिना (जपेत्) इत्यन्तेन ।
(वारुणस्नानाशक्तः) वारुणं वारिणा स्नानम् । तथा
श्रीमृगेन्द्रे वारुणं वारुणस्नानम् इति । तच्च तत् स्नानं
आप्लावनं तस्य अशक्तः रोगादिना
वारिभिरापादमस्तकमाप्लावयितुं असमर्थ इत्यर्थः । (आगलम्)
आकण्ठम् । (कट्यधः) श्रोण्यधस्तात् । (पादौ) चरणौ । वा शब्दो
विकल्पवाची । (शिष्यम्) प्रक्षालितशरीरावशिष्टम् । (आर्द्रवस्त्रेण)
जलसंसिक्तपटेन । (पादाङ्गुष्ठोत्थितवह्निना) पादाङ्गुष्ठः
दक्षिणचरणाङ्गुष्ठः तस्मादुत्थितः उत्पन्नः स चासौ वह्निश्च
अग्निः तेन । (शरीरगतबाह्यमलमात्रम्)
प्. ५०)
शरीरगतबाह्यमलः श्रोत्रनेत्रादिसंभवमलः । तथा
श्रीमच्छिवधर्मोत्तरे कर्णाक्षिनासिकाजिह्वादन्तशिश्नगुदन्नखः
। मलाश्रयाः कफस्वेदौ विण्मूत्रे द्वादश स्मृताः ॥
इति अत्रत्यमात्रशब्दः कार्त्स्न्यार्थः यावावशरीरगतत्वाह्यमलः
तावन्तमित्यर्थः । कल्पे अकल्पे च परिमाणे स्यान्मात्रं
कार्त्स्न्येऽवधारणे इत्यमरः । (दग्ध्वा) दहनं कृत्वा ।
(क्षुब्धशक्तिपरिस्रुतशुद्धतोयेन) क्षुब्धा
उच्चारितमूलमन्त्रक्षोभिता सा चासौ शक्तिः कुटिलाशक्तिः तस्याः
परिस्रुतं परितो निष्यन्दितं तच्च तत् शुद्धतोयं अमृतं तेन ॥
=== आग्नेयस्नानविधिः ॥ ===
(क्रि) (२०) अथ भस्मस्नानंविधिर्यथा कल्पादि सिद्धं भस्म
समादाय, संहितयाऽभिमन्त्रयेत् । अकल्पन्तु
निवृच्यादिकलामन्त्रैस्संशोद्ध्य, संहितया
प्. ५१)
चाभिमन्त्र्य, अस्त्रबीजेन मूर्द्ध्न आरभ्य पादपर्यन्तं
भस्मरजोमुक्तदक्षिणहस्तस्पर्शनेन मलस्नानं कृत्वा, ईशानेन
शिरः तत्पुरुषेण वक्त्रं अघोरेण हृदयं वामदेवेन गुह्यं
सद्योजातेन पादौ अंसक्रयं सर्वाङ्गानि च त्रिपुण्ड्रादिभिः
प्रत्यङ्गमस्त्रेण कर्महस्तशुद्धिं स्मरन्नुद्धूल्य
शेषभस्मना ब्रह्मभिर्मूलेन शिरस्यभिषेचयेत् । ततः
पूर्ववदाचमेत् ॥ (२०)
(प्र) अथ कापिलस्नानविधिमुदीर्य, आग्नेयस्नानविधिमुदाहर्तुं
प्रतिजानीते (अथ) इत्यादिना (यथा) इत्यन्तेन । (अथ)
उक्तस्नानान्यतमस्नानानन्तरम् । अन्यथा भस्मस्नाने नाधिकारो
यतः । तथा श्रीमन्मतङ्गे एवं सकृद्यथाशक्ति स्नातोऽम्भसि
दिने दिने । भस्मस्नानेऽधिकारी स्यान्नान्यथा मुनिपुङ्गवः ॥ इति ।
एतन्न सर्वथा वारुणस्नानपूर्वकत्वनियमाय । अपि तु
यथाशक्त्युपदेशात् सामर्थ्यापेक्षया
जलस्नानपूर्वकत्वमतत्पूर्वकत्वं
प्. ५२)
वा ज्ञापयितुमुक्तम् । (२२) श्रीमत्किरणादौ जलस्नानं विनापि
पाक्षिकभस्मस्नानानुज्ञानात् । श्रीमत्स्वायंभुवे च
आग्नेयस्नानमपरं भस्मस्नानमुदाहृतम् । जलस्नानोत्तरं
नित्यमनुत्तरमथापि वा ॥ इति स्पष्टमेतोक्तत्वात् । तथा च
श्रीमन्मतङ्ग एव समनन्तरमुक्तं भूयोभूयोऽम्भसि स्नानं
सेवमानस्य रुग्भवेत् । तस्मात् तत् सततं नेष्टमिष्टमाग्नेयमुच्यते
॥ इति । एवं चात्यन्तरोगिण आतुसदेः जलस्नानावप्रेक्षमेव
भस्मस्नानं नित्यं अन्यस्व तु स्वशक्त्यपेक्षयेति बोध्यम् । तथा
श्रीमन्निश्वासोत्तरे वारिणा तु सकृत् स्नात्वा त्रिसन्ध्यं भस्मना
पुनः । स्नायादथातुरो नित्यं इति । (भस्मस्नानविधिः)
भस्मस्नानं त्रिपुंड्रादिभिरुद्धलनम् । यद्वक्ष्यति
त्रिपुंड्रादिभिः प्रत्यङ्गमस्त्रेण कर्महस्तशुद्धिं
स्मरन्नुद्धूल्य इति । तस्य
प्. ५३)
विधिः विधानम् । विधिर्विधाने दैवेऽपि इत्यमरः । स्नानमत्र
शुद्धत्वमेव न तु जल इव विमज्जनासंभवात् । (यथा) यथा
स्पष्टं तथोच्यते । तत् कथमित्याह (कल्प) इत्यादिना (अभिषेचयेत्)
इत्यन्तेन । (कल्पादिसिद्धम्) कल्पः मुख्यः । मुख्यस्स्यात् प्रथमः
कल्पः इत्यमरः । आदिः यस्य तत् कल्पादि तेन सिद्धं समुत्पन्नम् ।
अमुकल्पादिसदिशब्दार्थः । तथा श्रीमद्वल्लाशभुपद्धतौ
आग्नेयं भस्मना कुर्याद्भुक्तिदं मुक्तिदं नृणाम् । संस्कृतेन
विशुद्धेन तच्च भस्म चतुर्विधम् । कल्पन्तदनुकल्पाख्य
मुपकल्पमकल्पकम् । पूर्वं पूर्वं गुणोत्कृष्टम् इति ।
कल्पलक्षणमुक्तं श्रीमत्पौष्करे
अभूतलनिसृष्टेन कपिला गोमयेन तु ।
सद्योजातगृहीतेन सितस्य वृषभस्य वा ॥
स्थापितेनान्तरिक्षे तु वामदेवेन धीमता ।
प्. ५४)
शुष्केण सञ्चितेनाथ विधिवद्वहुरूपिणा ॥
शिवानलप्रदीप्तेन वक्त्रेण तु यथाविधि ।
निवाते श्वभ्रदग्धन्तु ईशानेन समाहरेत् ॥
इति । अनुकल्पोपकल्पलक्षणं तत्रैवावधार्यताम् । (भस्म)
निष्कादिमानं परित्यक्तक्रव्याकांशं श्वेतं भसितमित्यर्थः ।
(समादाय) वामहस्ते सङ्गृह्येत्यर्थः । तथा भसितं
धूम्रवर्णं च रक्तं पीतं च वर्जयेत् । धारयेद्भसितं
श्वेतं सर्वपुण्यफलप्रदम् ॥ इति । तथा च श्रीमत्सूक्ष्मे
विभूतिं वामहस्ते च सव्यहस्तेन मन्त्रयेत् ।
असुरांशं त्यजेद्धीमान् द्वात्रिंशैकांशराक्षसम् ॥
निष्कं निष्कार्द्धकं चैव द्वयं द्वयार्धकं तथा इति ।
भस्मपदनिर्वचनं प्रदर्शितं श्रीमत्कामिके
भासयत्येव यद्भस्म शुभं भासयते च यत् ।
भर्त्सनात् सर्वपापानां भस्मेति परिगीयते ॥
इति । यद्यकल्पं तर्हि शुद्धिपूर्वं ग्राह्यमित्याह
प्. ५५)
(अकल्पम्) इति । अकल्पलक्षणमुपलक्षितं श्रीमदजिते
पूर्वोक्तविधिमुत्सृज्य केवलं भस्मसाधनम् । अन्यैसपादितं
भस्म अकल्पकमिति स्मृतम् ॥ इति । तुशब्दः
पूर्वस्माद्वैषम्यद्योतकः । (निवृत्त्यादिकलामन्त्रैः) निवृत्तिः
आदिर्यासान्ताः निवृत्त्यादयः ताश्च ताः कलाश्च तासां मन्त्राः
तैः । प्रतिष्ठादिरादिपदेन प्रकाश्यते । तथा
श्रीमद्वरुणपद्धत्यां निवृत्तिश्च प्रतिष्ठा च विद्या
शान्तिस्तथैव च । शान्त्यतीता कलाः पञ्च इति । (संशोध्य) इति । अस्य
हि औत्पत्तिकशुद्ध्य योगान्निवृत्त्यादिभिः शुद्धिसभाव्येत्यर्थः ।
अत्र वौत्पतिकशुद्धियोगिना त्रिविधेन भस्मना अकल्पेन वा स्त्र्यादिति
भावः । भस्मस्नाने मलस्नानमाह (अस्त्र) इति । (अस्त्रबीजेन) ओं हः इति
शिवास्त्रबीजेन एवमुक्तं श्रीमत्सार्द्धत्रिशतिवृत्तिकृता ।
(भस्मरजोयुक्तदक्षिणहस्तस्पर्शनेन) भस्मरजांसि
विभूतिपांसवः
प्. ५६)
तैर्युक्तः स चासौ दक्षिणहस्तश्च तस्य स्पर्शनं
निखिलाङ्गनिघर्षणं तेन । अनेन देहस्था विघ्ना निरस्ता
इत्यवधेयम् । तथा
तेन स्नायात् पवित्रेन भस्मना करजेन च ।
शस्त्रोच्चारान्मलस्नानं निखिलाङ्गनिघर्षणम् ॥
अङ्गस्थानि च विघ्नानि विनाशं यान्ति शस्त्रतः ।
इति । तत्र विधिस्नानमाह (ईशानेन) इति ।
(वक्त्रम्) ललाटम् । (हृदयम्) वक्षः । हृदयं चित्तवक्षसोः इति
नानार्थरत्नमाला । गुह्यशब्दो नाभिवाचकः । (पादौ) जानुनी ।
(सर्वाङ्गानि) इति । कूर्परादिस्थानानीत्यर्थः । तथा
श्रीमच्चिन्त्यविश्वसादाख्ये विद्यात्तु षोडशस्थाने त्रिपुण्ड्रञ्च
समाहितः । शीर्षे चैव ललाटे च कण्ठे चांस द्वयोरपि ॥ कूर्परे
मणिबन्धे च हृदये नाभिपार्श्वके । पृष्ठे चैव प्रतिस्थानं
जङ्घे इति । (त्रिपुण्ड्रादिभिः) त्रयाणां पुण्ड्राणां
तिलकभेदानां
प्. ५७)
समाहारः त्रिपुण्ड्रं तत् आदिः येषां ते तथोक्ताः । पुण्ड्रो
देशेषु तिलकभेदे कृम्यतिमुक्तयोः इति नानार्थरत्नमाला ।
एतल्लक्षणं यथा ललाटे हृदि बाह्वोश्च षडङ्गुलन्तु दैर्घिकम् ।
शेषमेकाङ्गुलं प्रोक्तं त्रिपुण्ड्रं सर्वसन्धिषु इति ।
तिलकादिरादिशब्दार्थः । तथा श्रीमत्पौष्करे यतिरुद्धूलनेनैव
स्नायाद्वा सुसमाहितः । गृही यथाङ्गमारभ्य तिलकैर्वा
त्रिपुण्ड्रकैः ॥ इति । (कर्महस्तशुद्धिम्) कर्महस्तः
भस्मधारणक्रियाप्रवृत्तः दक्षिणकरो वामकरश्च तस्य
शुद्धिः ताम् । तथा श्रीमन्मतङ्गे
यदगम्यं दक्षिणस्य तद्वामेन तु पाणिना ।
सम्यगुद्धूलयेच्चाङ्गं स्पृष्ट्वाऽन्योन्यं करावुभौ ॥
इति । ततः किं कुर्यादित्याह (शेष) इति । (शेषभस्मना)
धारितावशिष्टभस्मना । (अभिषेचयेत्) ओं हां हौं शिवाय
स्वाहां इत्यभिषेचनं कुर्यादित्यर्थः ।
प्. ५८)
एतदाग्नेयस्नाने मन्त्रस्नानमित्युच्यते । तथा समाम्नातं
श्रीमत्सोमशंभुचरणैः
सद्योजातादिभिर्मन्त्रैरंभोभिरभिषेचनम् ।
मन्त्रस्नानं भवेदेवं वारुणाग्नेययोरपि ॥
इति । अथ भस्मस्नानविधिमभिधाय आचमनं कुर्यादित्याह (ततः)
इत्यादिना (आचमेत्) इत्यन्तेन । (ततः) भस्मस्नानानन्तरम् ॥
=== मानसस्नानविधिः ॥ ===
(क्रि) (२२) मनसा मूलमन्त्रं नादान्तमुच्चरन्
क्षुब्धशक्तिपरिस्रुतवहुलामृतधाराभिः
स्नातनुमन्तबर्हिरभिषिक्तां भावयेत् । इति मानसं स्नानं
सर्वत्र विधेयम् ॥ (२२)
(प्र) अथ मानसस्नानविधिमाह (मनसा) इत्यादिना (विधेयम्)
इत्यन्तेन । (नादान्तम्) नादान्तकलाव्याप्तिकम् ।
(क्षुब्धशक्तिपरिस्रुतबहुलामृतधाराभिः) क्षुब्धा
नादान्तोच्चारित मूलमन्त्रक्षोभिता
प्. ५९)
सा चासौ शक्तिः कुटिलाशक्तिः तस्याः परिसुताः निष्ठ्युताः ।
बहुलामृतधाराः प्रचुरामृतप्रवाहाः ताभिः । (स्वाम्)
स्वात्मीयाम् । (अभिषिक्ताम्) आप्लाविताम् । तथा
मूलमन्त्रपरिक्षुब्धशक्तिपीयुषधारया ।
सबाह्याभ्यन्तरासेकान्मानसं स्नानमाचरेत् ॥ इति ।
मानसस्नानन्तावत् मनसा मूलमन्त्रस्मरणपूर्वकमुक्तवत्
शाक्तजलौघाप्लवनतः शाक्तं स्नानमिति कल्प्यते । तथा
श्रीमन्मृगेन्द्रे मानसं शाक्तम् इति । (सर्वत्र) इति सर्वस्मिन् काले
अशुचिशंकायामित्यर्थः । (विधेयम्) कर्तव्यम् ॥
=== दिव्यादिस्नानविधिः ॥ ===
(क्रि) (२२) दिव्यादीनान्तु नैमित्तिकत्वात् ततन्निमित्तोपस्थाने विदध्यात् ॥
(२२)
(प्र) अथ मानसस्नानविधिं व्याहृत्य दिव्यादीनां नैमित्तिकत्वात्
विहितकाले कर्तव्यतामाह
प्. ६०)
(दिव्य) इत्यादिना (विदध्यात्) इत्यन्तेन । (दिव्यादीनाम्) दिव्यं
महेन्द्रस्नानं आदिः येषां तानि दिव्यादीनि तेषाम् । आदिपदेन
भौमाद्युच्यते । तथा श्रीमन्मृगेन्द्रे वारुणं तैजसं
भौममानिलं दिव्यगौरवे । मानसं चेति संक्षेपात् इति ।
दिव्यलक्षणञ्च तत्रैवोक्तं पुण्यां सार्दातपां वृष्टिं
विभृयाच्छिवमुच्चरन् इति । पुनरवशेषस्नानलक्षणं तत
एवावधार्यम् । (नैमित्तिकत्वात्) विमित्तमूलकत्वात् ।
(तत्तन्निमित्तोपस्थाने) तानि तानि विमित्तानि सार्दातपवृष्टयादीनि
ततन्निमित्तानि तेषां तेषामुपस्थानं संप्राप्तिः तस्मिन् ।
(विदध्यात्) कुर्यात् । तत्तन्निमित्तोपस्थान इत्यनेन
दिव्यादिस्थानचतुष्टयं नैमितिकमिति दर्शितम् । तथा चोक्तं
श्रीमद्ब्रह्मशंभुपादैः माहेन्द्रादिचतुष्कन्तन्नैमित्तिकमिति
स्मृतम् इति । माहेन्द्रं दिव्यस्नानम् ॥
प्. ६१)
=== सकलीकरणविधिः ॥ ===
(क्रि) (२३) ततस्सकलीकरणं कुर्यात् । ओं हः अस्त्राय फट्, इति
दक्षिणवामहस्तावूर्ध्वाधः क्रमेण संशोध्य, ओं हौं
शक्तये वौषट्, इत्याप्लाव्य, ततो हस्ततलयोरङ्गुष्ठाभ्यां, ओं
हां शिवासनाय नमः, ओं हां हं हां शिवमूर्तये नमः, इति
विन्यस्य, ओं हों ईशानमूर्द्धाय नमः,
इत्यङ्गुष्ठयोस्तर्जनीभ्यां, अन्यासु
तर्पन्यादिकनिष्ठान्तमङ्गुष्ठाभ्यां, ओं हें तत्पुरुषवक्त्राय
नमः, ओं हुं अघोरहृदयाय नमः, ओं हिं वामदेवक्त्राय?
नमः, ओं हं सद्योजातमूर्तये नमः, तलयो, ओं हां हौं
विद्यादेवाय नमः, अङ्गुष्ठाभ्यां
पुनर्मध्यमाङ्गुलीभिस्तिसृभिः , ओं हौं नेत्रेभ्यो नमः,
सकलहस्तव्याप्तशक्तित्वेन मध्ये तद्व्यापकत्वेन
अङ्गुष्ठाभ्यां प्रासादमावाह्य, कनिष्ठादिकरशास्त्रासु, ओं
हां हृदयाय नमः, ओं हीं शिरसे नमः, ओं हूं शिखायै
नमः, ओं हैं कवचाय नमः,
प्. ६२)
ओं हः अस्त्राय नमः, इति विन्यस्य, कवचेनावकुण्ठ्य, उभौ,
संयोज्य, वौषडन्तमूलेन परमीकृत्य,
हृद्यासनमूर्तीदक्षिणाङ्गुष्ठानामिकाभ्यां विन्यस्य,
ईशानमन्त्रं मूर्ध्नि मुष्टिं बद्ध्वा अङ्गुष्ठेन बिन्यस्य,
वक्त्रहृद्गुह्यपादप्रदेशेषु तत्पुरुषाघोर
वामदेवसद्योजातमन्त्रानङ्गुष्ठयुक्ततर्जन्याद्यङ्गुलिक्रमेण,
हृदि विद्यादेहमङ्गुष्ठानामिकाभ्यां, नेत्रमन्त्रं नेत्रेषु
मध्यमाङ्गुलीभिस्तिसृभिर्विन्यस्य, विशेषाधिष्ठात्त्वेन प्रासादं
देहे समावाह्य, हृदयशिरश्शिखास्थानेषु
हृदयशिरश्शिसामन्त्रान् साङ्गुष्ठकनिष्ठानामिका
मध्यमाभिः, कण्ठप्रावरणत्वेन स्तनमध्यान्तं
तर्जनीभ्यां वक्त्रं, हस्ततलयोरस्त्रमनामिकाभ्यां न्यस्य,
अस्त्रेण तालत्रयपुरस्सरं दिग्बन्धनं कृत्वा, कवचेनावगुण्ठ्य,
मूलेन वौषडन्तेन महामुद्रां दर्शयेत् ।
प्. ६३)
इति ॥ (२३)
(प्र) अथ सकलीकरणक्रमविधिमतिदिशति (ततः) इत्यादिना (दर्शयेत्)
इत्यन्तेन । (ततः) मानसस्नानानन्तरम् । (सकलीकरणम्)
साङ्गन्यासकरन्यासम् । कथं सकलीकरणक्रम इत्याशङ्क्य एव?
पूर्वं करन्यासप्रकारमाह (ओं हः अस्त्राय फट्) इति ।
(ऊर्ध्वाधःक्रमेण)
दक्षिणहस्ततलतत्पृष्ठवामहस्ततलतत्पुरुषपरिपाठोत्यर्थः ।
(संशोध्य) इति । अग्निरूपेणास्त्रेण मणिबन्धपर्यन्तं दग्ध्वा
इत्यर्थः । (आप्लाव्य) वौषडन्तशक्तिमन्त्रेण । अमृताप्लावनं
विधान । तथा श्रीमत्क्रियाकरणमण्डनपद्धत्यां पाण्योस्तलं
च पृष्ठं च संशोध्यास्त्रेण देशिकः ।
वौषडन्तपराशक्तिप्रासादेनामृताप्लवः ॥ इति । तथा
श्रीमच्चिन्त्यनिश्वसादाख्ये अस्त्रतेजोऽन्वितौहस्तौ मणिबन्धावधि
स्मरन् । इति (हस्ततलयोः) दक्षिणवामकरोपरिभावयोः ।
प्. ६४)
(अङ्गुष्ठाभ्याम्) दक्षिणवामाङ्गुष्ठाभ्याम् । (तर्जनीभ्याम्)
दक्षिणवामतर्जनीभ्याम् । (तर्जन्यादिकनिष्ठान्तम्) तर्जनी
आदिर्यस्य तत् तथोक्तं कनिष्ठा अन्ते यस्य तत्तथोक्तं तर्जन्यादिं च
तत् कनिष्ठान्तञ्च तथा । (मध्यमाङ्गुलीभिः)
तर्जनीमध्यमानामिकाभिः । (तिसृभिः) त्रित्वसंख्याकाभिः ।
(सकलहस्तव्याप्तशक्तित्वेन) सकलहस्तयोः व्याप्ता व्यापिनी शक्तिः
यस्य स तथोक्तः तस्य भावस्तत्वं तेन । अत्र
यस्माद्दहनाप्लावनविधिना करतलौ शक्तिमयौ कृत्वा
अङ्गुष्ठादि करशाखासु ईशानादिब्रह्माणि विन्यस्य विद्यादेहोपि
विन्यस्तः ततः करतलयोः शाक्तत्वं जातमिति तात्पर्यम् । यद्वा
सकलहस्तव्याप्तशक्तित्वेनेत्यत्र कलाभिस्सहितौ सकलौ, सकलौ च तौ
हस्तौ च सकलहस्तौ तयोः व्याप्ता शक्तिरीशान्यादिरूपा तथोक्ता
तस्या भावतत्वं तेन । (मध्ये)
प्. ६५)
करतलान्तरे । (तद्व्यापकत्वेन) तस्या विद्या देहस्यायाश्शक्तिः
व्यापकः अधिष्ठाता तस्य भावस्तत्वं तेन । तथा
श्रीमत्सर्वज्ञानोत्तरे शाक्तौ कर-
--------------------------------------
--------------------------------------
(२६) तलौ कृत्वा इति । तथा श्रीमत्कालोत्तरे कराङ्गुलिषु सर्वासु
प्रासादं विन्यसेत्ततः इति (प्रासादम्) शिवमन्त्रम् । (आवाह्य)
विन्यस्य । (कनिष्ठादिकरशाखासु) कनिष्ठा आदिर्यासान्ताः
कनिष्ठादयः ताश्च ताः करशाखाः अङ्गुलयः अङ्गुल्यः
करशाखास्स्युः इत्यमरः । तासु । अनामिकादिरादिशब्दार्थः । कानि
विन्यसेदित्याकांक्षायामाह (ओं हां हृदयाय नमः) इत्यादि ।
ननु हृदाद्यन्ते नमस्स्वाहा वषधुं? वौषडित्यपि । फट्
चण्डेश्वरमन्त्रान्ते तद्वदेव हरोऽब्रवीत् ॥ इति
श्रीमन्मृगेन्द्रश्रुतेः हृदयादिषडवयवाः स्वधानमस्स्वाहा
वषढादिजातिषट्कसंयुक्ता भवन्ति कथमत्रते
प्. ६६)
सर्वे नमोऽन्ताः प्रयुक्ताः ? सत्यं षडङ्गानि
प्रणवादिनमोऽन्तानि च सन्ति । यदाह
श्रीमद्धिशतिकालोत्तरवृतिकारः एषां चाद्यन्तयोः
प्रणवनमस्कारप्रसङ्गः । श्रीमन्निश्वासादावुक्तः
ओंकारपूर्वका मन्त्रा नमस्कारान्तयोजिताः इति ।
काम्यकर्मविधाने तु नमस्स्वाहेत्यादिजातिषट्कयुतानुच्चरेत् इति
श्रीमन्मृगेन्द्रपद्धतिव्याख्याने मन्त्रोद्धारप्रकरणे
व्याख्यातः इति । (उभौ) दक्षिणवामहस्तौ । (परमीकृत्य) इति ।
करतलविन्यस्तमन्त्राणां मूलमन्त्रमयेन शिवेन
सार्द्धमैक्यं विधायेत्यर्थः । तथा श्रीरामनाथपद्धत्यां
आवेष्टय तर्जन्याङ्गानां परमीकारमङ्गिना । शिवेन इति ॥
करन्यासविधिमुक्त्वा अङ्गन्यासप्रकारं वक्ति (हृदि) इति ।
(आसनमूर्त्ती) आसनं च शिवासनं मूर्तिश्च
पादतलप्रभृतिसकलशरीरव्यापिका तेजोरूपा शिवमूर्तिः ते ।
(अङ्गुष्ठयुक्ततर्जन्याद्यङ्गुलिक्रमेण)
प्. ६७)
अङ्गुष्ठेन युक्ता अङ्गुष्ठयुक्ता सा चासौ तर्जनी च सा
आदिर्यासान्ताः अङ्गुष्ठयुक्ततर्जन्यादयः । ताश्च ताः
अङ्गुलयश्च तस्याः क्रमः परिपाटिः तेन । अत्र
अङ्गुष्ठयुक्ततर्जन्या मुखे तत्पुरुषमन्त्रं
अङ्गुष्ठयुक्तमध्यमया हृदि अघोरमन्त्रं
अङ्गुष्ठंयुक्तानामिकया नाभौ वामदेव? मन्त्रं,
अङ्गुष्ठयुक्तकनिष्ठया जान्वोः सद्योजातमन्त्रं,
विन्यसेदित्यवधेयम् । (विद्यादेहम्) ईशानादिब्रह्म समष्टिरूपं
पञ्चवक्त्रादिविशिष्टं सकलशरीरव्यापकं निग्रहमित्यर्थः ।
(नेत्रेषु) दक्षिणवामललाटनेत्रेषु । (विशेषाधिष्ठातृत्वेन) इत्यत्र
ब्रह्माणन्तु मूर्तित्वेनाधिष्ठेयत्वात् नेत्रस्य व तदन्तर्गतत्वात्
अधिष्ठातृभूतं शिववाधकं (२७) प्रासादं
समस्तशरीरव्यापकत्वेन समावाहयेदिति * * *? तथोक्तं
श्रीमन्मृगेन्द्रपद्धतिव्याख्याकारेण । (देहे) हृदये इत्यर्थ ।
(समासृत्य?) इति । अङ्गुष्ठानामिकाभ्यां
प्. ६८)
विन्यस्येत्यर्थः । तथा श्रीमत्क्रियाकरणमण्डनपद्धत्यां
अङ्गुष्ठानामिकाभ्यां तु मूलं न्यस्य हृदन्तरे इति ।
(साङ्गुष्ठकनिष्ठानामिकामध्यमाभिः) अङ्गुष्ठेन सह
वर्तन्ते इति साङ्गुष्ठाः ताश्च ताः कनिष्ठानामिकामध्यमाः
ताभिः । अत्र अङ्गुष्ठयुक्तकनिष्ठया हृदि हृदयं अङ्गुष्ठयुक्ता
नामिकया शिरसि शिरोमन्त्रं अङ्गुष्ठयुक्तमध्यमया
शिखायां शिखामन्त्रं विन्यसेदित्यवधेयम् ।
(कण्ठप्रावरणत्वेन) कण्ठप्रावरणं कण्ठवेष्टनं तस्य
भावस्तत्वं तेन । (स्तनमध्यान्तम्) स्तनौ दक्षिणवामस्तनौ
तयोर्मध्यं अन्तरालं तस्यान्तम् । (तर्जनीभ्याम्)
दक्षिणवामतर्जनीभ्याम् । नन्वत्र विद्यादेहन्यासेनैव
हृदयाद्यङ्गयुक्ता मूर्तिर्निष्पन्ना पुनरङ्गमन्त्रैः किं
साध्यते ? सत्यं साधकस्य पुनः शरीररक्षणार्थमङ्गमन्त्रा
न्यस्तव्याः । तथा श्रीमज्ज्ञानरत्नावल्यां हृदयं
हृत्परित्राणं बद्धपट्टतदाहृतम् ।
प्. ६९)
शिरश्च तच्छिरस्त्राणं शिरसः परिवेष्टनम् । चूलिका
मस्तकत्राणमङ्गत्राणं च कंकटम् । करे शस्त्रे गृहीते तु
भीक्षणो भटवत् स्थितः । क्षुद्राणामप्रभृष्यस्स्यात् तार्क्ष्यो
दृक्श्रवसामिव । इति । (तालत्रयपुरस्सरम्) तालानि करास्कालनानि
तेषां त्रयं तत् पुरस्सरं पूर्वं यथा भवति तथा । तालः
कालक्रियामाने करास्काले क्रुमान्तरे इति नानार्थरत्नमाला ।
एतल्लक्षणमुक्तमजिते दक्षिणाङ्गुलिभिर्वामहस्तस्य तलताडनम् ।
अङ्गुष्ठवर्जिताभिरसा तालमुद्रा विशुद्धिदा? इति । मुद्रालक्षणे
तालाख्या पाण्योस्त्रिसहत्या? भवति सकलीकरणादौ इति ।
महामुद्रा तावत् कराभ्यां संमुखाभ्यां
पादपङ्कजादामस्तकस्पर्शनस्या इत्युक्तं मुद्रालक्षणे । एतेन
शरीरविन्यस्तहृदयादिमन्त्राणां मूलमन्त्रमयेन शिवेन
सार्द्धमैक्यसिद्धिरित्युक्तं श्रीमद्बालज्ञानरत्नावलीकारेन ॥
प्. ७०)
=== प्राणायामविधिः ॥ ===
(क्रि) (२४) पश्चात् प्राणायामं मन्त्रसंहितया कृत्वा ॥ (२४)
(२७) (प्र) अथ सकलीकरणविधिमुक्त्वा
देहान्तश्चावायुशुद्ध्यर्थं प्राणायामं क्रमं वक्ति
(पश्चात्) इत्यादिना (कृत्वा) इत्यन्तेन । (पश्चात्) सकलीकरणानन्तरम् ।
(प्राणायामम्) प्राणाः प्राणवायवः तेषामायाः निरोधः तम्
। तथा श्रीमच्छिवधर्मोत्तरे प्राणो वायुश्शरीरस्थस्तस्यायामो
निरोधनम् इति । अत्र
पूरककुंभकरेचकात्मकप्राणायामकरणाय त्रिवारं
शिवसंहितां पठेत् । तदुक्तं श्रीमत्सोमशंभुचरणैः
सकलीकरणं कृत्वा प्राणायामेन संस्थितः ।
त्रिस्समावर्तयेत्मन्त्री मनसा शिवसंहिताम् ॥ इति ॥
अमृतीकरणम् ॥
(क्रि) (२५) बिन्दुस्थानादङ्कुशमुद्रया, ओं हां हृदयाय
प्. ७१)
वौषट् इत्याकृष्य, जले संस्थाप्य, मूलेन शिवतीर्थमभिमन्त्र्य,
संरक्ष्य, अवकुण्ठ्य, अमृतीकुर्यात् ॥ (२५)
(प्र) अथ सन्ध्यावन्दनार्थं तत्पूर्वकरणीयमाह (बिन्दु)
इत्यादिना (अमृतीकुर्यात्) इत्यन्तेन । (बिन्दुस्थानात्) बिन्दुः बिन्दुकला
तस्याः स्थानं भूमध्यं तस्मात् । तथा भूमध्ये द्वयङ्गुले
दीपनिभो वृत्तोऽर्द्धमात्रकः इति । (अङ्कुशमुद्रया) इति ।
एतल्लक्षणमुक्तं मुद्रालक्षणे अथ सृणिमुद्रा
कुञ्चिताग्रतर्जनीसहिता मुष्टिः इति । (आकृष्य) इत्यत्र अमृतमिति शेषः
। तथा श्रीरामनाथपद्धत्यां बिन्दोराकृष्य पीयूषं हृदा
संस्थापयेज्जले इति । (संरक्ष्य) अस्त्रेण दिग्वन्धनं विधाय ।
(अवकुण्ठ्य) कवचेनावेष्ट्य । (अमृतीकुर्यात्) धेनुमुद्रया अमृतं
कुर्यात् ॥
प्. ७२)
=== सकलसन्ध्याध्यानम् ॥ ===
(क्रि) (२६) ततस्सन्ध्यां ध्यात्वा, वन्दयेत् ॥
रक्ताभूषाम्वरां रक्तां जटायज्ञोपवीतिनीम् ।
हंसपद्मासनां बालां चतुर्वक्त्रां चतुर्भुजाम् ॥
रागक्षमालिनीं(?) दक्षे वामे दण्डकमण्डुलुम् ।
ब्राह्मीष्टमदृशं(?) ध्यायेत् प्रातस्तारकितेऽम्बरे ॥
शुक्लाम्बरधरां शुक्लां वनमालोपवीतिनीम् ।
तार्क्ष्यपद्मासनासीनामुद्भिन्न नवयौवनाम् ॥
-------------------------------------
पा- विधिम् ॥
--------------------------------------
(२९) शङ्खचक्रधरां वामे दक्षिणे स गदाभयाम् ।
ध्यायेन्माध्यन्दिने देवीं वैष्णवीं सर्वभूषणाम् ॥
नीलोत्पलदलाभासां किञ्चिच्चलितयौवनाम् ।
चतुर्भुजां त्रिनेत्राञ्च जटाखण्डेन्दुमण्डिताम् ॥
त्रिशूलाक्षधरां दक्षे वामे साभयशक्तिकाम् ।
रोद्री ध्यायेद्वृषाब्जस्थां कालेऽर्धास्तमितारुणे ।
कृष्णाजिनधरास्सर्वास्साक्षिण्यस्सर्वकर्मणाम् ।
तिस्रस्सलादिकारस्योपाधिभेदभिन्नां संयुक्ताश्चतुर्थी
प्. ७३)
गुणवर्जिता ॥ इति ब्रह्मादिकारणोपाधिभेदभिन्नां
सर्वकृत्यानां साक्षिणीं शिवशक्तिमेव सन्ध्यां
तत्तत्कालानुगुणं हृद्बिन्दुब्रह्मरन्ध्रेषु क्रमेण ध्यायीरन्
समयिनः ॥ (२६)
(प्र) अथ सन्ध्यावन्दनस्य ध्यानपूर्वकत्वेन समयिनां
विशिष्टसमयिनाञ्च सामान्येन सकलसन्ध्याध्यानं वक्ति (ततः)
इत्यादिना (समयिनः) इत्यन्तेन । (ततः) शिवतीर्थकरणानन्तरम् ।
सन्ध्यापदाभिधेयं स्वयमेव स्पष्टीकरिष्यति । (वंदयेत्)
अभिवादयेत् । अत्र सन्ध्यावन्दनन्तावत् सन्ध्याध्यानानन्तरं
तत्प्रभामण्डलपरिपूर्णतामध्ये स्थित्वा तदनु क्रियमाणं
कर्मेति निगद्यते । तथा
तत्प्रभामण्डलाभोगप्रविष्टामात्मनस्तनुम् । सञ्चिन्त्य
कुर्याद्यत् कर्म तस्यास्तद्वन्दनं हि तत् ॥ इति ।
कथं? ध्यात्वा वन्दयेदित्याकांक्षायां तत्र प्रातः
प्राभातिकरसन्ध्याध्यानं? ब्रूते (रक्त)
प्. ७४)
इति । (जटायज्ञोपवीतिनीम्) इति । अत्र जटा दृढं ग्रथितकेशाः ।
(कमण्डलुम्) इति । कं जलं अण्डे मध्ये लाति आदत्ते इति कमण्डलुः
कुण्डी । * स्त्री? कमण्डलुः कुण्डी इत्यमरः । (तारकिते)
तारकाण्यस्य सञ्जातानि तारकितं तस्मिन् । सञ्जातार्थे इतच् । अनेन
च दृष्टतारकायास्संध्याया उत्तमत्वं लुप्ततारकाया
उत्तममध्यमाधमभेदेन कालत्रयं प्रदर्शितम् । तथा
श्रीमज्ज्~आनरत्नावल्यां उत्तमा दृष्टनक्षत्रा
मध्यमालुप्ततारका । अर्द्धोदितारुणा कन्या? प्रातस्सन्ध्या त्रिधा
स्मृता ॥ इति । शेषं सुगमम् ॥
मध्याह्निकसन्ध्याध्यानमाह । (शुक्ल) इति ।
(वनमालोपवीतिनीम्) वनमाला तुलसीमाला उपवीतञ्च
यज्ञसूत्रं वनमालोपवीते अस्याः स्व इति तथोक्ता ताम् ।
(तार्क्ष्यपद्मासनासीनाम्) तार्क्ष्यः गरुडः तत्र
पद्मासनासीनां
प्. ७५)
पद्मासनस्थिताम् । गरुत्मान् गुरु * * *?तार्क्ष्यः इत्यमरः ।
(सगदाभयाम्) गदा च कौमोदकी कौमोदकी गदा इत्यमरः ।
अभयञ्च ऊर्ध्वपताका मध्याह्ने । माध्यन्दिनो नाम
मुहूर्तपञ्चकावधिः कालः । तथा मुहूर्तैः पञ्चभिर्यातैः
कृत्वा माध्याह्निकं विधिम् । इति । अत्र माध्यन्दिनस्यापि तथा
त्रैविध्यं ज्ञेयम् । तथा श्रीमज्ज्ञानरत्नावल्यां मध्याह्ने च
तथा ज्ञेया घटिकात्रयकल्पिता इति । सुबोधमन्यत् ।
सायाह्नसन्ध्याध्यानमाह (नीलोत्पल) इति । साभयशक्तिकाम्
) अभयञ्च व्याख्यातमेतत् शक्तिश्च कासूः आयुधविशेषः ।
कासूसामर्थ्ययोश्शक्तिः इत्यमरः । स्वार्थेकन् अभयशक्तिके ।
ताभ्यां सहवर्तत इति तथोक्ता ताम् । (वृषाब्जस्थाम्) वृषः
वृषभः ऋषभो वृषभो वृषः इत्यमरः । तस्मिन् अब्जस्थां
पद्मासनस्थिताम्
प्. ७६)
लवणांबुजयोरब्जम् इति नानार्थरत्नमाला । (अर्धास्तमितारुणे)
अर्धश्च समांशः अस्तमितः अर्धास्तमनं गतः स चासौ
अरुणश्च सूर्यः यस्य स तथोक्तः तस्मिन् । अरुणो भास्करेऽपि
स्याद्वर्णभेदे स तु त्रिषु इत्यमरः । अनेन
अर्द्धास्तमितार्कमण्डलायास्सन्ध्याया उत्तमलं
अस्तमितसूर्याया मध्यमलं(?) दृष्टतारकाया अधमत्वञ्च
प्रकाशितम् । तथा श्रीमञ्ज्ञानरत्नावल्यां
अर्द्धार्कमण्डलश्रेष्ठो मध्यमाऽस्तमिते रवौ ।
अन्यसा दृष्टनक्षत्रा सायं सन्ध्या त्रिधोदिता ॥
इति । स्फुटमन्यत् ॥
ननु किं ब्राह्म्यादीनां विशेषान्तराणि न सन्तीत्याशक्य
सन्तीत्याह (कृष्णाजिनधराः) इति । कृष्णाजिनं एणचर्म तस्य
धरन्तीति धराः । (सर्वाः) समस्ताः) अनेन ब्राह्म्यादयः
अरुणाम्बरादिधरा अपि कृष्णजिनधारिण्यश्च भवन्तीति तात्पर्यम् ।
प्. ७७)
तथा श्रीरामनाथपद्धत्यां कृतन्यासः प्रभाते तु
ब्राह्मीमष्टविलोचनाम् । रक्तभूषांभबरां रक्तां
रक्तमाल्यविलेपनाम् ॥ हंसपद्मासनां बालां
जय(?)यज्ञोपवीतिनीम् । कृष्णाजिनधरां कर्म साक्षिणीं
चतुराननाम् । इत्यादि उपक्रम्य दक्षे चक्राभययुतां वामे
शङ्खगदायुताम् । कृष्णाजिनधरामेकां
द्विवक्त्रनयनाम्बुजाम् । वृषाब्जसंस्थितां
सर्वसाक्षिणीमुपवीतिनीम् । कृष्णाजिनधरां रौद्रीम् इति अभिहितम् ।
(सर्वकर्मणाम्) निखिलकृत्यानाम् । (साक्षिण्यः) उपद्रष्ट्यः ।
(तिस्रः) त्रित्वसंख्यायुक्ताः ब्राह्मी वैष्ण्वी रौद्री इत्यर्थः ।
(सत्वादियुक्ताः) सत्वं सत्वगुणः आदिर्यस्य तत् सत्वादि तेन
संयुक्ताः । रजोगुणादिरादिशब्दार्थः । तथा श्रीमन्मृगेन्द्रे ततो
बुद्ध्याद्युपादानं गौणं सत्वं रजस्तमः इति । अत्र ब्राह्मी
सत्वगुणयुक्ता वैष्णवी रजोगुणसहिता
प्. ७८)
रौद्री तमोगुणोपेता इति तात्पर्यार्थः । तथा च
श्रीमत्सोमशंभुपद्धतिव्याख्याकारः प्रातरादिसन्ध्यानां
सत्वादिवृतित्वेनोक्तप्रकाशप्रवृत्तिनियमहेतुस्तद्वशात् पाठक्रम
एव क्रमः इति । (चतुर्थी) तुर्यसन्ध्या । (गुणवर्णिता)
सत्वादिगुणरहिता । गुणास्सत्वं रज * *ः? मौलीं द्रव्याश्रिते
सत्वशुक्लसन्ध्यादिके गुणः इत्यमरः । स्पष्टमन्यत् । (इति) एवम् ।
ब्रह्माणीवैष्णवीरौद्रीभेदाद्भिन्ना विभाति सा ।
साक्षिणी कर्मणां शंभोश्शक्तिस्सन्ध्येति गम्यते ॥
इति श्रीमत्सोमशंभुपद्धतिश्रुतिं हृदि निधाय
न?गुशक्तिशंभुभेदेन मन्त्रमन्त्रेश्वराणामिव
कारणेशानामपि त्रिविधत्वात् ब्रह्माद्यधिष्ठानो पा *?
भेदभिन्ना तदुपाधिकृतवर्णवाहनायुधविग्रहा शिवशक्तिरेव
सन्ध्येति ब्रूते (ब्रह्मादिकारण) इति ।
(प्.७९)
(ब्रह्मादिकारणोपाधिभेदभिन्नाम्) ब्रह्मा आदिर्येषां तानि
ब्रह्मादीनि । आदिपदेन विष्णुरुद्रौ निगद्यते । तानि च तानि कारणानि
च तेषां उपाधयः अधिष्ठानविशेषाः
उपाधिर्धर्मचिन्तायां कैवनेऽपि विशेषणे
इति विश्वः । तेषां भेदः तेन भिन्ना ताम् । (सर्वकृत्वानाम्)
निखिलकर्मणाम् । (साक्षिणीम्) उपद्रष्ट्रीम् । (सन्ध्याम्)
सन्ध्यादेवताम् । (तत्तकालानुगुणम्)
प्रातर्मध्याह्नसायाह्नानुरूपम् । अत्र प्रभाते ब्राह्मीं हृदये
मध्याह्ने वैष्णवी भ्रूमध्ये सायाह्ने रौद्रीं ब्रह्मरन्ध्रे
ध्यायीरन्निति तात्पर्यार्थः । एतत्सकलसन्ध्याध्याने अधिकारिणः
के इत्याकांक्षायामाह (समयिनः) इति । अत्र समयिपदेन
तन्त्रोच्चारात् सामान्यसमयिनो विशिष्टसमयिनश्च विवक्षिताः । अत्र
सामान्यसमयिनो नाम रुद्रपदप्रापकसमयदीक्षया
प्. ८०)
संस्कृताः । विशिष्टसमयिनः
पुनरीश्वरपदपापकविशिष्टसमयदीक्षया संस्कृताः । तथा
श्रीमद्वरुणपद्धत्यां यत्र रुद्रपदे योगो योगो यत्रैश्वरे पदे ।
शिखाच्छेदो न यत्रास्ति दीक्षा सा सामयी द्विधा ॥ इति । एतेषामेन
रक्तभूषाम्बरां रक्ताम् एत्यादिसकलसन्ध्याध्यानत्रयं
प्रातरादिकालत्रयस्य भवति । यदाह
श्रीमन्मृगेन्द्रपद्धतिव्याख्याकारः अथ सन्ध्याध्यानं
सकलनिष्कलभेदेन द्विविधं तत्र समयिविशिष्टसमयिविषये सकलम्
। पुत्रकादिविषये अध्यात्मनि हृद्बिन्दुब्रह्मरन्ध्रपरस्थानेषु
निष्कलम् इत्यादि । तथा चाह
श्रीमत्सोमशंभुपद्धतिव्याख्याकारः अत्र समयिनां सन्ध्या
स्थूला निर्वाणदीक्षितानां सूक्ष्मां इति । ननु
प्राक्सन्ध्यासमयस्थस्य विशिष्टस्याग्निकद्ययम् ।
निर्वाणदीक्षितस्यात्र संध्यात्रयमुदाहृतम् ॥
प्. ८१)
इति । श्रीमज्ज्ञानरत्नावलीवचनेन समयिनामेकसन्ध्या नतु
सन्ध्यात्रयमिति चेत् । सत्यं तथा केषाञ्चिदाचार्याणामनुमतम् ।
अत्र तु कालत्रयस्यापि रक्तभूषाम्बराम्
इत्यादिसकलसन्ध्याध्यानत्रयकथनानन्तरं ध्यायीरन्
समयिनः इत्युदीर्य तदनु पुत्रकाद्यास्तु मृणालतन्तुवत्तन्वी रक्ता
शुक्ला इत्यादि व्याहृत्य एताः पूर्वोक्तस्थानेषु द्वादशान्ते वा
ध्यायीरन् इति पृथगेव पुत्रकादीनां कालवतुष्टयस्यापि
वाहनायुधविग्रहव्यतिरेकेण
केवलरक्तशुक्लादिवर्णमात्रपरत्वेन
निष्कलसन्ध्याध्यानचतुष्कस्य उच्यमानत्वात् । अतः
सकलसन्ध्याध्यानत्रयं समयिविषयमेव । अन्यथा
सकलसन्ध्याध्यानत्रयनिरूपणस्य वैयर्थ्यप्रसङ्गस्स्यात् ॥
=== निष्कलसन्ध्याध्यानम् ॥ ===
(क्रि) (२७) पुत्रकाद्यास्तु
प्. ८२) मृणालतन्तुवत्तन्वी रक्ता शुक्ला सितेवरा ।?
तुर्यात्वरूपा कृष्णा वा या निशीथे विभाव्यते ॥
इति एताः पूर्वोक्तस्थानेषु द्वादशान्ते वा ध्यायीरन् ॥
(प्र) अथ समयिनां स्थूलसन्ध्याध्यानमभिधाय
निरातन्तुनिभा सूक्ष्मा रक्ता शुक्ला सितेतरा इति
श्रीमच्चिन्त्यविश्वसादाख्यश्रुतेः
निर्वाणदीक्षितपुत्रकसाधकाचार्याणां त्रयाणां
निष्कलसन्ध्याध्यानमभिधत्ते (पुत्रकाद्याः) इत्यादिना
(ध्यायीरन्) इत्यन्तेन । (पुत्रकाद्याः) पुत्रकाः निर्वाणदीक्षिताः ।
तथा श्रीमद्वरुणपद्धत्यां यत्र पाशशिखाच्छेदो
योगश्शिवपदे भवेत् । निर्वाणाख्या तु सा सैव पुत्रके नाभिषेकतः
॥ इति । एतत्कारिकावलीव्याख्याकारेण भट्टशिवोत्तमेन
पुत्रकलक्षणमप्युक्तमेवं निरधिकारतया
कृतसमयनिर्वाणदीक्षाच्छिन्नपाश
प्. ८३)
शिखोऽभिषेकरहितो यः स पुत्रको नाम इति । तं यद्वक्ष्यति
चोत्तरकर्मविधानोपक्रमे
आचार्यसाधकपुत्राणागन्त्येष्टिरध्वशुद्धियुता कर्तव्या
समयिनस्तद्वर्जिता इति ॥ ते आद्याः येषां ते पुत्रकाद्याः ।
आद्यपदेन साधकदेशिकाः सूचिताः । तथा श्रीमन्मृगेन्द्रे
देशिको मन्त्रमृतिश्च पुत्रकस्समयी च यः । चत्वार एते शैवास्स्युः
इति । तु शब्दः पूर्वस्माद्वैषम्यद्योतकः (मृणालतन्तुवत्)
बिससूत्रेण तुल्यम् । मृणालं बिसम् इत्यमरः । (तन्वी) सूक्ष्मा ।
तथा श्रीमच्चिन्त्यविश्वसादाख्ये बिसतन्तुनिभा सूक्ष्मा रक्ता
शुक्ला सितेतरा इति । (रक्ता) उद्यद्दिनकरनिकरारुणप्रभा । एतत्प्रातः
कालीनसन्ध्याध्यानम् । (शुक्ला) चन्द्रकोटिसदृशकान्तिरित्यर्थः ।
इदं माध्याह्निकसन्ध्याध्यानम् । (असितेतरा) श्वेतकान्तिः
अमृतार्णवसवर्णवर्णेत्यर्थः ।
प्. ८४)
एतत् सायन्तनसन्ध्याध्यानम् (या) सन्ध्या । (निशीथे) अर्द्धरात्रे ।
अर्द्धरात्रनिशीथौ द्वौ इत्यमरः । (विभाष्यते) विशेषणे तु चिन्त्यते ।
अत्र यत्तदोर्नित्यसंबन्धात् तत्पदं अध्याहतव्यं सा । (तुर्या)
चतुर्थी । (अस्पा) न विद्यते रूपं रक्तादिवर्णः यस्यारसा तथोक्ता ।
केवलं तेजोस्पेति यावत् । तथा श्रीमत्सिद्धान्तसासवल्यां हृत्पद्मे
प्रातरर्कोदयनिवहनिभं मध्यनाड्यां विचिन्त्यं मध्याह्ने
भ्रूसरोजे परमशिवत्वचिद्रूपमिन्दुप्रकाशम् । सायाह्ने चोर्ध्व
पद्मेह्यमृतजलनिधिद्योतनं स्वोत्थनादं रात्रेरर्द्धेऽप्रमेयं
त्वचलमविकलं द्वादशान्तेमहस्तत् ॥ इति ।
इदमर्द्धरात्रसन्ध्याध्यानम् । तस्या एव पक्षान्तरध्यानमाह
(कृष्णा वा) इति । (इति) जलम् । (एताः) प्रातस्सन्ध्याप्रभृतयः ।
(पूर्वोक्तस्थानेषु) हृद्विन्दुब्रह्मरन्ध्रस्थलेषु ॥
प्. ८५)
=== सन्ध्यावन्दनविधिः ॥ ===
(क्रि) (२८) ततो यथाधिकारं तत्तत्कालोचितां सन्ध्यां ध्यात्वा,
तत्प्रभामण्डलमध्यस्थितो दक्षिणहस्तेन वामहस्ते जलं
निक्षिप्य, संहितया सकृदभिमन्त्र्य, कुम्भकमुद्रया
वौषडन्तमुलेन सकृत्प्रयोगेण शिरसि
----------------------------
१ पा (सितेतरा) श्वेतान्या ॥
--------------------------------
(३४) निक्षिप्य, पुनस्संहितयाऽभिमन्त्रितं वारि कुशानिते
वामपाणौ निधाय, दक्षिणहस्तेन तदधोगलितं जलं मूर्ध्नि
संहितयां वौषडन्तया निक्षिपेत् । इति मार्जनम् ॥
तत्पुनरवशिष्टं तोयं दक्षिणकरस्थं धर्मरूपं
शुद्धं पूरकवायुना वामनासाप्रविष्टं सञ्चिन्त्य,
कुंभकयोगेनान्तः पापक्षयं कृत्वा तत्पापं कज्जलाभं
दक्षिणनासापुटेन विनिस्सृतं विभाव्य, हुंफडन्तास्त्रेण
प्. ८६)
ज्वलदग्निवर्णवज्रशिलायां सभ्रुक्षेपं क्षिपेत् ।
सोऽयमद्यमर्थः ॥
ततो मन्त्रवत् सम्यगाचम्य, पूर्ववत् सकलीकृत्य,
कवचेनाद्भिरात्मानं संवेष्ट्य, सूर्यमण्डलंमध्यस्थितं
भगवन्तं सदाशिवं संचिन्त्य, यद्वा गायत्रीं च
तप्तकाञ्चनवर्णाभां समयस्थापनीं पराम् ।
वराभयाक्षमालां च कुण्डिकां बिभ्रतीं करैः ॥
चतुर्भुजां त्रिनेत्रां च गायत्रीं सततोदिताम् ॥
इति ध्यात्वा, ओं तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि ।
तन्नश्शिवः प्रचोदयात्, इत्यञ्जलित्रयं सकुशहस्ताभ्यां दद्यात् ।
ततो दशवारं सप्तवारं वा गायत्रीं जप्त्वा, ओं हां हौं
शिवाय स्वाहा, इत्यञ्जलित्रयदानेन सह जपं निवेद्य, संहितया
स्वाहान्तं सन्तर्प्य, ओं हां सर्वेभ्यो मन्त्रेभ्यस्स्वाहा, ओं हां
सर्वेभ्यो
प्. ८७)
देवेभ्यस्स्वाहा, इति कराग्रेण ऋजुकुशैः,
ततः कण्ठोपवीती ओं हां सर्वेभ्य ऋषिभ्यो नमः,
इत्यङ्गुलिपर्वसन्धिभिः, ओं हां सर्वेभ्यो मनुष्येभ्यो वषट् इति
कनिष्ठामूलाभ्यां ओं हां सर्वेभ्यो भूतेभ्यो वौषट् इति
संलग्नकरतलमूलेन,
ततोऽपसव्यं कृत्वा,# कुशान् भक्त्वा, स तिलचारिणा, ओं हां
सर्वेभ्यः पितृभ्यस्स्वधा, ओं हां सर्वाभ्यो मातृभ्यस्स्वधा ओं
हां सर्वेभ्यो ज्ञातिभ्यस्स्वधा, ओं हां सर्वेभ्य
आचार्येभ्यस्स्वधा इति प्रदेशिन्यङ्गुष्ठमूलाभ्यां तर्पयेत् ॥
-----------------------------
-----------------------------
(३५) यद्वा विस्तरेण मूलमन्त्रप्रभृतिमन्त्रान् स्वाहान्तं
प्रथममङ्गुल्यग्रेण देवतीर्थेन सन्तर्प्य, तथैव, ओं हां
आदित्येभ्यस्स्वाहा, ओं हां वसुभ्यस्स्वाहा,
प्. ८८)
ओं हां रुद्रेभ्यस्स्वाहा, ओं हां विश्वेभ्यस्स्वाहा, ओं हां
साध्येभ्यस्स्वाहा, ओं हां मरुद्भयस्स्वाहा, ओं हां
भृगुभ्यस्स्वाहा, ओं हां अङ्गिरोभ्यस्स्वाहा, इत्यष्टौ
देवगणांस्तर्पयेत् ॥
ततः कण्ठोपवीती ओं हां अत्र ये नमः , ओं हां वसिष्ठाय
नमः , ओं हां पुत्वस्त्यायनमः, ओं हां क्रतवे नमः, ओं हां
भारद्वाजाय नमः, ओं हां विश्वामित्राय नमः, ओं हां
प्रचेतसे नमः, ओं हां ऋच्छकाय नमः , ओं हां अगस्त्याय नमः,
ओं हां दधीचये नमः, ओं हां दुर्वाससे नमः, इत्येकादशर्षीन्
पर्वसन्धिभिः,
ओं हां सनकाय वषट्, ओं हां । सनन्दाय वषट्, ओं हां
सनातनाय वषट्, ओं हां सनत्कुमाराय वषट्, ओं हां कपिलाय
वषट्, ओं हां पञ्चशिखाय वषट्, ओं हां ऋभवे वषट्, इति सप्त
मनुष्यान् कनिष्ठामूलाभ्यां,
प्. ८९)
ओं हां सर्वेभ्यो भूतेभ्यो वौषट्, इति संलग्नकरतलमूलेन
पञ्चभूतानि,
अथ दक्षस्कन्धोपवीती कुशमूलाग्रेण स तिलवारिणा ओं हां
कन्यवाहनाय स्वधा, ओं हां अनलाय स्वधा, ओं हां सोमाय
स्वधा, ओं हां यमाय स्वधा, ओं हां अर्यमणे स्वधा, ओं हां
अग्निष्वात्ताय स्वधा, ओं हां बर्हिषदे स्वधा, ओं हां आज्यपाय
स्वधा, ओं हां सोमपाय स्वधा, इति देवपितॄन्,
ओं हां ईशाय पित्रे स्वधा, ओं हां सदाशिवाय पितामहाय
स्वधा, ओं हां शान्ताय पवित्रामहाय स्वधा इति विशेषपितॄन्,
ओं हां पितृभ्यस्स्वधा, ओं हां पितामहेभ्यस्स्वधा, ओं हां
प्रपितामहेभ्यस्स्वधा, ओं हां वृद्धप्रपिता
--------------------------------
--------------------------------
(३६) महेभ्यस्स्वधा ओं हां मातृभ्यस्स्वधा, ओं हां
प्. ९०)
मातामहेभ्यस्स्वधा, ओं हां प्रमातामहेभ्यस्स्वधा, ओं हां
वृद्धप्रमातामहेभ्यस्स्वधा, ओं हां सर्वेभ्यः पितृभ्यस्स्वधा
इति प्रेतपितॄन्,
ओं हां मातृभ्यस्स्वधा, ओं हां मातामहीभ्यस्स्वधा, ओं
हां पितामहीभ्यस्स्वधा, ओं हां प्रपितामहीभ्यस्स्वधा, ओं
हां सर्वेभ्यो ज्ञातिभ्यस्स्वधा, ओं हां सर्वेभ्य
आचार्येभ्यस्स्वधा, ओं हां दिग्भ्यस्स्वधा, ओं हां
दिग्पतिभ्यस्स्वधा, ओं हां सिद्धेभ्यस्स्वधा, ओं हां
मातृभ्यस्स्वधा, ओं हां ग्रहेभ्यस्स्वधा, ओं हां
नक्षत्रेभ्यस्स्वधा, ओं हां रक्षोभ्यस्स्वधा, इति सन्तर्प्य, ओं हः
अस्त्राय हुं फट्, इति सकुशं जलं तीरे निक्षिपेत् । अथोपवीती
गणपत्यम्बिकादीनां मन्त्रमुच्चार्य सन्तर्प्य, कुशांस्त्यक्त्वा,
समाचम्य, सकलीकृत्य, ह्रस्वप्रासादेन तीर्थमुपसंहरेत् ।
द्विजश्चेत् सावित्रीजपोपस्थानानन्तरं
प्. ९१)
संहितया आदित्यमूर्तये शिवायोपस्थानं कृत्वा, प्रासादं
यथाशक्ति शतमर्धं तदर्धं दशवारं वा जप्त्वा, निवेदयेत् ॥
(२८)
(प्र) * अथ समय्याद्यधिकारिभेदेन सन्ध्याध्यानमुदाहृत्य
कथं सन्ध्यां वन्दयेदित्याकांक्षायां तद्वन्दनविधिं
ब्रूते (ततः) इत्यादिना (त्यक्त्वा) इत्यन्तेन । (ततः)
सन्ध्याध्यानानन्तरम् । (यथाधिकारम्)
समयिपुत्रकाद्यधिकारमनतिक्रम्य । (तत्तत्कालोचिताम्) ते ते
कालास्तत्तत्कालाः प्रातरादिसमया इत्यर्थः । तेषामुचिता अर्हा ताम्
। (तत्प्रभामण्डलमध्यस्थितः) तस्याः सन्ध्यायाः
प्रभामण्डलं रक्तादिमरीचिमण्डलं तस्य मध्यः तत्र स्थितः ।
स्वतनुं सन्ध्याकान्तिमण्डलाभ्यन्तर- प्रविष्टां चिन्तयान्निति
तात्पर्यार्थः ॥
सन्ध्यावन्दनविधौ मन्त्राभिषेकक्रममाह
प्. ९२)
(दक्षिण) इति । कुंभकमुद्रालक्षणमुक्तं मुद्रालक्षणे
कुंभकंमुद्रा
--------------------------------
--------------------------------
(३७) अन्योन्यसंबद्धाङ्गुष्ठद्वया
सजलवामहस्ततलोपरिन्यस्तसव्यपाणितला अर्द्धेन्दुवत् पृष्ठतो
वक्राङ्गुलिपाणिद्वयात्मिका सन्ध्यायां मन्त्राभिषेकादौ
कार्या इति । # मन्त्राभिषेकानन्तरकार्यमाह
(पुनस्संहितयाऽभिमन्त्रितम् ) इति । (तदधोगलितम्) तदधः
वामकरादधस्तात् गलितं च्युतम् । (इति) इत्थम् । (मार्जनम्)
मार्जनाख्यं कर्म । संहितामन्त्रैर्मूर्ध्नि
जलकणविकिरणलक्षणं मार्जनसंश, कर्मेत्युच्यते । तदुक्तं
श्रीमत्सोमशंभुचरणैः
वामपाणिपतत्तोयं योजयन् सव्य पाणिना ।
उत्तमाङ्गे क्रमान्मन्त्रैर्मार्जनं समुदाहृतम् ॥
इति । * मार्जनकर्मावशेषिततोयं किं कुर्यादित्याह
प्. ९३)
(तत्) इति । (तत्) वामकरस्थोदकम् । (अवशिष्टम्)
मार्जनकर्मणोऽवशेषम् । (दक्षिणकरस्थम्) वामकरात्
दक्षिणकरे प्रक्षिप्तमित्यर्थः । (शुद्धम्) सितवर्णम् ।
(कुंभकयोगेन) कुंभकीकरणेन । (अन्तः) देहाभ्यन्तरे ।
(पापक्षयम्) पापानि वाचिकादिकुष्कर्माणि । तेषां क्षयः
विनाशः तम् । तथा
पूरकेण हृदिस्थन्तन्नीत्वाऽस्त्रन्तु त्रिधा स्मरेत् ।
वाङ्मनः कायिकं पापं रेचकेण तु रेचयेत् ॥
इति । (तत् पापम्) शरीराभ्यन्तरस्थमधर्मम् । (कज्जलाभम्)
अञ्जनवर्णं कृष्णमित्यर्थः । (विनिस्सृतम्) नहिर्गतम् ।
(ज्वलदग्निवर्णवज्रशिलायाम्) ज्वलन् दीप्यमानः स चासौ अग्निः
तस्य वर्णः कान्तिर्यस्यास्सा ज्वलदग्निवर्णा सा चासौ वज्रशिला
वज्रोपलः तस्यां नैरृतदिग्भागे विभावितवज्रशिलायामित्यर्थः ।
प्. ९४)
एवमुवाच श्रीमद्वालज्ञानरत्नावलीकारः । तथा चाह
श्रीमन्मृगेन्द्रपद्धतिव्याख्याकारः ।
जलं बज्रशिलापृष्ठे क्षिपेत् तदघमर्षणम्
इत्यत्र जलक्षेपो नैरृत्यां दिशि कर्तव्यः इति । तथा
श्रीमत्किरणव्याख्याने
अघं पापं समाख्यातं मर्षणं तस्य नाशनम् ।
नैऋती या शिवेनोक्ता संज्ञया पापहारिणी ॥
इति । नन्वेनं कृतस्य देहान्तः पापमयतोयस्य
वज्रशिलाप्रक्षेपात्मकस्य कर्मणः किमभिधानमित्याशंवय
बोधरूपं सितं तोयं वामयाऽकृष्य कुंभयेत् ।
क्षिपेद्वज्रशिलायां यत्तद्भवेदघमर्षणम् ॥
इति सोमशंभुपद्धतिश्रुतेः तदघमर्षणमित्युच्यते इत्याह
(सोऽयम्) इति । (अघमर्षः) अघशमनमित्यर्थः । अनन्तरं किं
कुर्यादित्याशंक्य
अघमर्षणकर्मकरणशुद्ध्यर्थमुपस्पृंशेदि
प्. ९५)
------------------------------------
(३८) त्याह (ततो मन्त्रवत्) इति (ततः) अघमर्षानन्तरम् । अत्र
आचमनान्तरं शुद्ध्यर्थमित्युक्तं
श्रीमन्मृगेन्द्रव्याख्याकारेण ।
यदा यदा समाचामेन्मन्त्रन्यासं तदा तदा ।
कुर्वीत करकायेषु मन्त्रिमन्त्रार्थसिद्धये ॥
इति श्रीमत्सोमशंभुपद्धतौ प्रत्याचमनं मन्त्रन्यासस्य
विहितत्वात् सकलीकुर्यादित्याह (पूर्ववत् सकलीकृत्य) इति ।
अदीक्षितादिजनानामप्रकाशार्थं स्वशरीरमंभोभिः
कवचमन्त्रेण समावेष्टयेदित्याह (कवचेन) इति । एवमुक्तं
श्रीमद्बालज्ञानरत्नावलीकारेण । (आत्मानम्) स्वशरीरम् ।
हस्ताभ्यां तर्पणं प्रोक्तं प्रीणनं तर्पणं स्मृतम् । इति
श्रीमत्कामिकश्रुतेः गायत्रिमूलसंहितादिसर्वमन्त्राणां
प्. ९६)
प्रीणनार्थं तर्पणविधिमाह (सूर्यमण्डल) इति । (भगवन्तम्)
भगः षाङ्गुण्यम् । तदुक्तं विष्णुपुराणे
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥
इति । तेन नित्ययुक्तम् । मतुवयं नित्ययोगे । (गायत्रीञ्च) इति । अत्र
गायन्तं त्रायत इति गायत्रीशब्दार्थः गायत्रीदेवताञ्च ।
तद्ध्यानमाह (तप्तकाञ्चन) इति । (समयस्थापनीम्)
शैवाचारप्रतिष्ठाकरीम् । (चराम्) श्रेष्ठाम् ।
(समयाश्शपथाचारकालसिद्धान्तसञ्चिदः
एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः इति चामरः ।
(कुण्डिकाम्) कमण्डलुम् । सुबोधमन्यत् ।
गायत्रिमन्त्रोद्धारः प्रदर्शितः
श्रीमद्बालज्ञानरत्नावल्यां
ओं तन्महेशाय पदं विद्महे च ततः पदम् । वाग्विशुद्धाय
तत्राऽन्ते
प्. ९७)
धीमहीति समन्वितम् ॥
तन्नश्शिवपदं तस्मान्नियो । जेच्च प्रचोदयात् ।
गायत्री कथिता वत्स इति कालोत्तरीयके ॥ इति । (अञ्जलित्रयम्) अञ्जलयः
उत्तानहस्तद्वयसम्पुटाः । तथा मनुः श्राद्धे पिण्डे विवाहे च
दाने चैकेन दीयते । तर्पणे तूभयेनैव जलं देयन्तु नान्यथा इति ।
पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्जलिः पुमान् इत्यमरः । तेषां
त्रयं । (ततः) गायत्री तर्पणानन्तरम् । (जप्त्वा) जपं विधाय ।
त्रिसन्ध्यं शिवगायत्रीं जपेद्भक्तिसमन्वितः ।
एवं मन्त्रं जपित्वाऽर्घ्यं दत्वा सद्योविसर्जनम् ॥
इति श्रीमच्चिन्त्यविश्वसादाख्यश्रुतेः गायत्री जपानन्तरं
विसर्जनार्घ्यं दद्यात् । (शिवायस्वाहा) इति । अत्र स्वस्स्वर्गे इत्यनेन
स्वाहा शब्दस्यामृतार्थत्वात् स्व
----------------------------------
----------------------------------
प्. ९८)
(३९) शब्देन स्वर्गः कथ्यते हाकारेणापि एकदेशलक्षणयैवाहार
इति स्वः स्वर्गे यः आहारः अमृतमिति स्वाहाशब्दार्थो ज्ञेयः ।
(अञ्जलित्रयदानेन) तर्पणत्रयदानेन । (सर्वेभ्यो मन्त्रेभ्यः) इति ।
अत्र सर्वमन्त्रा आणवशाक्तशांभवभेदेन शतकोटिमन्त्राः ।
(सर्वेभ्यो देवेभ्यः) इति । अत्र सर्वदेवाः आदित्यादिदेवगणाः अष्टौ ।
(कराग्रेण) देवतीर्थेनेत्यर्थः । (ऋजुकुशैः) इति । कुशाग्रेणेत्यर्थः ॥
देवानामुपवीतेन ऋषीणां कण्ठलंबनम् इति
श्रीमत्कालोत्तरश्रुतेः अनुद्धृतान्यतरबाहुकोपवीतस्सन्
ऋषींस्तर्पयेदित्याह (ततः कण्ठोपवीती) इति । (सर्वेभ्य ऋषिभ्यो
नमः) इति । (अत्र सर्वर्षयः अत्रिवसिष्ठाद्येकादशर्षयः । नम
प्. ९९)
इत्यत्र नकारेण नाक उच्यते । मकारेणापि बिन्दुस्वरूपलक्षणया
चन्द्रामृतमेवेति नमश्शब्दार्थः । तथा श्रीमत्कालोत्तरे कथितम् ।
(अङ्गुलिपर्वसन्धिभिः) आर्षतीर्थेनेत्यर्थः । अत्र ऋषीणां तर्पणं
कुशमध्येन विधेयमित्युक्तं श्रीमद्वालज्ञानरत्नावलीकारेण ।
(सर्वेभ्यो मनुष्येभ्यः) इति । अत्र सर्वमनुष्याः
सनकादिसप्तमनुष्याः । (कनिष्ठामूलाभ्याम्)
प्राजापत्यतीर्थेनेत्यर्थः । (सर्वेभ्यो भूतेभ्यः) इति । अत्र
सर्वभूतानि आकाशादीनि पञ्च । एवमुक्तं
श्रीमद्बालज्ञानरत्नावल्याम् । (संलग्नकरतलमूलेन)
संश्लिष्टहस्ततलबुध्नभागेनब्रह्मतीर्थेनेत्यर्थः ॥
पितॄणां प्राचीनावीतं तर्पयेत् सुसमाहितः इति
श्रीमत्कालोत्तरश्रुतेः उद्धृतवामबाहुकोपवीतस्सन्
पितॄंस्तर्पयेदित्याह (अपसव्यं कृत्वा) इति ।
प्. १००)
(कुशान्) कर्मान् । (भंक्त्वा) तिर्यक् कृत्वा कुशमूलाग्राभ्यामिति
यावत् । (सर्वेभ्यः पितृभ्यः) इति । अत्र सर्वपितरः देव
पितृविशेषपितृप्रेतपितरः । (सर्वाभ्यो मातृभ्यः) इति । अत्र
सर्वमातरः मातृपितामहयादयः । (सर्वेभ्यो ज्ञातिभ्यः) इति । अत्र
ज्ञातयः सगोत्राः । सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनास्समाः
इत्यमरः । (सर्वेभ्य आचार्येभ्यः) इति । अत्र आचार्याः
स्वगुरुप्रभृतयः । तथा श्रीमन्मृगेन्द्रे तथा ऽपसव्येन पितॄन्
सपत्नीकान् पितामहान् । प्रपूर्वान् स्वगुरुनैवं चोदकान् बोधकान्
परान् ॥ इति । (प्रदेशिन्यङ्गुष्ठमूलाभ्याम्) प्रदेशिनी च तर्जनी
तर्जनी स्यात् प्रदेशिनी इत्यमरः । अङ्गुष्ठमूलञ्च
अङ्गुष्ठबुध्नभागः प्रदेशिन्यङ्गुष्ठमूले ताभ्यां
पितृतीर्थेनेत्यर्थः । तथा श्रीमत्कामिके
प्. १०१)
कराग्रे दैविकं तीर्थं पर्वसन्धिषु चार्षकम् । तीर्थं
कनिष्ठकामूले प्राजापत्यं प्रकीर्तितम् । पैतृकं तर्जनीमूले
ब्राह्मकं करमूलतः । इति । स्वधेत्यत्र स्वशब्देन दिव्यमुच्यते ।
धाशब्देनाप्येकदेशलक्षणया सुधैवेति स्वधाशब्दार्थः ।
तथा श्रीमद्बालज्ञानरत्नावल्यां संप्रदाने ।
यतः प्रोक्तश्शब्दस्स्वाहा स्वधा नमः ।
दीयतेऽमृतमेतेषां त्रयाणामपि तत् समम् ॥
स्वस्स्वर्गेयस्तदाहारोऽमृतं तेषां दिवौकसाम् ।
स्वधा यत्स्वर्दिव्यं प्रोक्तं धा सुधा पितृषु प्रिया ॥
नमो यो नेति नाको यस्तस्मिन्मेन्दुस्सुधा नृणाम् । इति । (तर्पयेत्)
तर्पणं कुर्यात् । तर्पणं नाम तृप्तिः सोहित्यं तर्पणं तृप्तिः
इत्यमरः ॥
एवं सङ्ग्रहतर्पणं प्रदर्श्य विस्तरतर्पणविधिमाह ।
(यद्वा) इति । आदित्यादिदेवगणानां तर्पणमाह (तथैव) इति ।
अङ्गुल्यग्रेणैवेत्यर्थः ।
प्. १०२)
अत्रिप्रभृतिमुनीनां तर्पणमाह (ततः) इति । सनकादिमनुष्याणां
तर्पणमाह (ओं हां सनकाय वषट्) इति । आकाशादिभूतानां
तर्पणमाह (ओं हां सर्वेभ्यः) इति । कव्यवाहादि
देवपितृतर्पणमाह (ततः) इति । सनकादिमनुष्याणां तर्पणमाह
(ओं हां सनकाय वषट्) इति । आकाशादिभूतानां तर्पणमाह (ओं
हां सर्वेभ्यः) इति । कव्यवाहादिदेवपितृतर्पणमाह (अथ) इति ।
(दक्षस्कन्धोपवीती) अपसव्योपवीतीत्यर्थः ।
ईशादिविशेषपितृतर्पणमाह (ओं हां ईशाय पित्रे स्वधा) इति ।
पितृप्रभृतिप्रेतपितृतर्पणमाह (ओं हां पितृभ्यस्स्वधा) इति ।
पितामहाः पितृजनकाः । प्रपितामहाः पितामहजनकाः ।
वृद्धप्रपितामहाः पितामहजनकजनकाः । मातामहाः
मातृजनकाः । प्रमातामहाः मातामहजनकाः ।
वृद्धप्रमातामहाः मातामहजनकजनकाः ।
प्. १०३)
पितामः पितृपिता तत्पिता प्रपितामहः । मातुर्मातामहाद्येवम्,
इत्यमरः । (प्रेतपितॄन्) इति । अत्र यद्यपि सपिण्डीकरणानन्तरं
प्रेतत्वमविद्यमानं तथापि भूतपूर्वगत्या प्रोक्तमित्यदोषः ।
तदनन्तरकरणीयानि तर्पणान्याह (ओं हां मातृभ्यस्स्वधा)
इत्यादि ॥
अथ तर्पणानन्तरकरणीयान्याह (समाचम्य) इत्यादिना
(निवेदयेत्) इत्यन्तेन । (तीर्थम्) इति । पूर्वं बिन्दुस्था
----------------------------------
----------------------------------
(४२) नादाकृष्टममृतमित्यर्थः । (उपसंहरेत्) बिन्दुस्थान एव
योजयेत् । (उपस्थानम्) इति । अत्र शिवरूपायादित्याय
जलाञ्जलिजलैरभिमुखमुपस्थानं सिद्धमेवेत्युक्तं
श्रीमत्सार्द्धत्रिशतिवृत्तिकारेण । तथा च महाभारते
कर्णप?र्वणि
प्. १०४)
कृत्वा प्रदक्षिणं यत्वादुपस्थाय च भास्करम् इति । (निवेदयेत्) शिवे
समर्पयेत् ॥
=== सन्ध्यातिक्रमे परिहारः ॥ ===
(क्रि) (२९) उक्तसन्ध्याकालभ्रंशे संहितामेकवारं जपेत् ॥ (२९)
(प्र) अथ सन्ध्यायाः कालातिक्रमेण कृतौ प्रायश्चित्तमाह (उक्त)
इत्यादिना (जपेत्) इत्यन्तेन । (उक्तसन्ध्याकालभ्रंशे)
उक्तसन्ध्याकालः प्रातस्तारकितेऽम्बरे इत्याद्युदितसन्ध्यासमयः ।
तस्य भ्रंशः परिच्युतिः तस्मिन् । (संहिताम्) शिवैकादशिकाम् ।
तथा सन्ध्याकालपरिभ्रम्शे शिवैकादशिकां जपेत् इति । अत्र
परिभ्रंशः संध्याकालत एव न तु कर्मतः । तस्य सकृत्
सन्ध्याविलेपे तु सद्योजातशतं जपेत् इति पृथक्तया
प्रायाश्चित्तश्रुतेः ॥
=== सूर्यपूजा ॥ ===
(क्रि) (२०) ततोऽस्त्रपञ्जरमध्यगः पृथिव्यादितत्वानि
प्. १०५)
मनसा सन्त्यजन् शुद्धविद्यातत्त्वान्तव्याप्तिकं पूजास्थानं
प्रविश्य, पूजोपकरणाव्युपाहृत्य,
पूर्वास्यो भास्करमर्चयेत् । ओं रः अस्त्रा । फट्, इति
हस्ततलपृष्ठे संशोद्ध्य, वौषडन्तमूलेनाप्लाव्य,
अङ्गुष्ठयोस्तर्जनीभ्यां ओं अं हृदयाय नमः,
कनिष्ठानामिकामध्यमांसु अङ्गुष्ठाभ्यां ओं अं अर्काय
शिरसे नमः, ओं अं भूर्भुवस्स्वरों ज्वालिनीशिखायै नमः, ओं अं
ह्रूं कवचाय नमः, हस्ततलयोर्मध्यमाङ्गुलीभ्यां, ओं हां
भानुनेत्राभ्यां नमः, तर्जन्योरङ्गुष्ठाभ्यां, ओं रः अस्त्राय
फट्, इति विन्यस्य, कवचेनावकुण्ठ्य, उभौ संयोज्य, मूलं
वौषडन्तं विन्यस्य, सूर्यमूलमन्त्रेण
कृतदेहशुद्धिर्दक्षिणाङ्गुष्ठानामिकायुग्मेन हृदि हृदयं
मूर्ध्नि शिरोमन्त्रं शिखायां शिखां कण्ठप्रावरणत्वेन
स्तनमध्यान्तं तर्जनीभ्यां कवचं मध्यमातर्जनीभ्यां
प्. १०६)
नेत्रमन्त्रं नेत्रयोर्हस्ततलयोरस्त्रं च विन्यस्य, दशदिक्षु
छोटिकया अस्त्रेण दिग्बन्धनं विधाय, सर्वाङ्गेषु मूलमन्त्रं
महामुद्रया विन्यस्य, स्वतनुं सूर्यरूपं भावयेत् ॥
पश्चात्ताम्रपात्रे रक्तपुष्पादितोयेन अर्घ्यं कृत्वा
जानुभ्यामवनिं गतो मस्तकान्तं नीत्वा, ओं स्रां ह्रीं सः ।
सूर्याय नमः, इति दर्शनार्घ्यं दत्वा, यथाशक्तिजपं च कुर्यात्
।
ततोऽर्घ्यपात्रमस्त्रेण संशोध्य,
ललाट्मध्यस्फुरदरुणबिन्दुविनिसुतामृतधारया, ओं खं
खषोल्काय नमः इति गन्धोदकेनापूर्य, तत्र
षडङ्गैर्मूलमन्त्रेण च संपूज्य, अस्त्रकवचाभ्यां
रक्षावकुण्ठने विधाय, मूलेन धेनुमुद्रां दर्शयित्वा,
तज्जलैर्द्रव्यमात्मानं भूमि चास्त्रेण संप्रोक्ष्य,
पुष्पक्षेपेणास्त्रेण विघ्नानुच्चाट्य, ततः स्थण्डिले
लिखिताष्टदलपद्मेताम्रादिनिर्मितपद्मेनार्चयेत् ॥
प्. १०७)
तत्र द्वारदक्षिणपार्श्वे, ओं अं दण्डिने नमः, इति दण्डी
द्वार्दक्षिणे गौस्तुन्दिलो लम्बकूर्चतान् । मषीभाजनलेखिन्यौ
धारयन् हस्तयोर्द्वयोः ॥ प्राणिनां कर्मसाक्षी च तत्कर्माणि
लिखत्यसौ । इति तद्वामपार्श्वे ओं अं पिङ्गलाय नमः,
रक्तवर्णस्सुवेषाढ्यस्सूचीहस्तसमन्वितः ।
पिङ्गलो वा पार्श्वे तु प्रतीहारश्च दण्डवान् ॥
इति ध्यात्वाऽभ्यर्च्य, पद्मस्यैशान्यां, ओं अं गणपतये नमः, इति
दधानं च चतुहस्तैर्गजवक्त्रं गणाधिपम् ॥
इति ध्यात्वाऽभ्यर्च्य, तस्याग्नेय्यां, ओं अं गुरुभ्यो नमः, इति
जटामकुटशोभाढ्यं भस्मपाण्डरविग्रहम् ।
योगपट्टयुतं ब्रह्मसूत्रन्नाभिस्थलोपरि ॥
---------------------------------
---------------------------------
प्. १०८)
(४३) कृतयोगाख्यमुद्रं च ध्यायेच्छान्तं गुरुं परम् ।
इति ध्यात्वा संपूज्य, मध्ये, ओं अं प्रभूतासनाय नमः इति
श्वेतपीठमर्चयेत् । आग्नेयादिचतुष्कोणेषु, ओं अं विमलाय नमः, ओं
अं साराय नमः, ओं अं आराध्याय नमः, ओं अं परमसुखाय
नमः, इति सितरक्तपीतहरितसिम्हरूपाणि विचिन्त्यार्चयेत् ॥
तदुपरि, ओं अं पद्माय नमः, इति सितपद्मं तस्य
पूर्वादीशान्तकेसरेषु, ओं रां दीप्तायै नमः, ओं रीं सूक्ष्मायै
नमः, ओं रुं रुजायै नमः, ओं रूं भद्रायै नमः, ओं रें
विभूत्यै नमः, ओं रैं विमलायै नमः, ओं रों अमोघायै नमः,
ओं रौं विद्युतायै नमः, कर्णिकायामीशाने, ओं रः सर्वतोमुख्यै
नमः, इति
यद्वां दीप्तदीपशिखाकारा ध्यातव्या नवशक्तयः ।
पद्मचामरहस्ताश्वरक्तास्सर्वाङ्गभूषणाः ॥
प्. १०९)
एवं ध्यात्वाऽभ्यर्च्य, विस्फुरमुद्रां दर्शयित्वा, मध्ये ओं अं
अर्कासनाय नमः, इत्यर्कासनं सम्पूज्य,
धवलाम्भोरुहारूढं दाडिमीकुसुमप्रभम् ।
स्फुरद्रक्तमहातेजो वृत्तमण्डलमध्यगम् ॥
अंसासक्तस्फुटश्चेत सनालाब्जकरद्वयम् ।
एकास्यं चिन्तयेद्भानुं द्विनेत्रं रक्तवाससम् ॥
इति ध्यात्वा, ओं खं खषोल्कायं सूर्यमूर्तये नमः, इत्यासनोपरि
मूर्तिं विन्यस्य, ओं भां भानुनेत्राभ्यां नमः, इति नेत्रे दत्वा,
पुष्पैरञ्जलिमापूर्य, ललाटाकृष्टस्फुरदरुणबिन्दुमञ्जलौ
विचिन्त्य, ओं ह्रां ह्रीं सः सूर्याय नमः, इत्यनेन मूलमन्त्रेण
तद्व्यापकमावाहयेत् ॥
उपहृदयेनावाहनीमुद्रयाऽवाह्य, स्थापन्या पद्मासने
संस्थाप्य, सन्निधान्या सन्निधाप्य, निष्ठुरया निरोध्य, नित्य?
मुद्रां प्रदर्श्य,
प्. ११०)
सूर्यस्य हृदयादिकरान्तस्थानेषु हृदयादिमन्त्रान् विन्यस्य,
मूलेनैकत्वं कृत्वा, रक्षावकुण्ठने कृत्वा,
मूलेनामृतमुद्रां महामुद्राञ्च विधाय,
पाद्याचमनार्घ्याणि नमस्स्वधास्वाहान्तखषोल्किना दत्वा,
मूलेन वौषडन्तेन पुष्पदूर्वाक्षतादि च कृत्वा, ओं खं
खषोल्काय नमः, इत्युपहृदयेनाभ्यङ्गादिपूर्वं संस्नाप्य,
रक्त *पुष्पगन्धादिभिरलंकृत्य, ओं ह्रां ह्रीं सः सूर्याय
नमः, इति पुष्पाञ्जलित्रयेणाभ्यर्च्य अर्घ्यं दत्वा, पद्ममुद्रां
बिम्बमुद्रां च दर्शयेत् ॥
ततो लयाङ्गमभ्यर्च्य, भोगाङ्गपूजार्थं प्रार्थ्य,
आग्नेयैशाननैरृतवायव्यदलेषु हृदयशिरश्शिखाकवचमन्त्रान्
सूर्यहृदयादिस्थानेभ्य आदाय,
सौम्यानि रक्तवर्णानि परदाब्जकराणि च ।
भूषितानि द्विहस्तानि भानोरङ्गानि भावयेत् ॥
प्. १११)
इति विभाव्याभ्यर्च्य, देवस्याग्रतस्तद्वन्नेत्रं पूर्वोक्तरूपं
पूर्वादिचतुर्दलेषु अस्त्रं च
विद्युत्पुंज निभं चास्त्रमुग्रदंष्ट्राकरालिनम् ।
इति ध्यात्वाऽभ्यर्च्य, हृदयादीनां धेनुमुद्रां
नेत्रयोर्गोविषाणमुद्रामस्त्रस्य त्रासनीमुद्रां च
प्रदर्श्यार्घ्ययेत् ॥
तदनु पूर्वादिदलाग्रेषु ओं सं सोमाय नमः, ओं बुं
बुधाय नमः, ओं बृं वृहस्पतये नमः, ओं भं भार्गवाय
नमः, इति आग्नेयादिदलाग्रेषु, ओं अं अङ्गारकाय नमः, ओं शं
शनैश्चराय नमः, ओं रं राह्वे? नमः, ओं कं केतवे नमः, इति
च,
सोमं कुमुदकुन्दाभं बुधं चामीकरप्रभम् ।
गुरुं गोरोचनाभासं शुक्रं गोक्षीरसन्निभम् ॥
रक्तमङ्गारकं ध्यायेद्राजावर्तनिभं शनिम् ।
कृष्णं कृताञ्जलिं राहुं केतुं धूम्राहिसन्निभम् ॥
प्. ११२)
कामरूपधरान् सर्वान् दिव्याभरणभूषितान् ।
वामोरुन्यस्तहस्तांश्च दक्षहस्ताभयप्रदान् ॥
सितपद्मकरं सोमं राहुकेतू कृताञ्जली ।
अर्धकायोर्ध्वकेशौ च रक्ताग्रक्तलोचनौ ॥
शनि दंष्ट्राकरालन्तु राहुञ्च विकृताननम् ।
इति ध्यात्वाऽभ्यर्च्य, नमोमुद्रां दर्शयित्वा, अर्घ्यं दत्वा,
धूपदीपनैवेद्यपानीयतांबूलादिदर्पणच्छत्र-
-------------------------------
-------------------------------
(८५) चामराण्यन्तरान्तरा आचमनार्घ्यदानसहितान्युपहृदा
दत्वा, मूलमन्त्रं यथाशक्ति जप्त्वा, अर्घ्यपात्रांभसा
स्वाहान्तमूलेन भास्कराय समर्प्य, अङ्गानां दशांशं
जप्त्वा, निवेद्य,
दण्ड्याद्यैस्सेव्यमानो विमलमुखचतुस्सिंहपादासनस्थो
दीप्ताद्यैश्शक्तिजालैररुणमणिरुचिश्श्रीखषोल्कात्ममूर्तिः ।
स्वाङ्गस्वाङ्गग्रहर्क्षप्रमुखपरिवृतश्श्वेतपद्माधिरूढश्श्
वेताब्जां
प्. ११३)
सद्विहस्तश्शुभनयनयुगश्शंभुसूर्योऽवताद्वः ।
इति स्तोत्रादिकं पठित्वा, देवन्नमस्कृत्य, संपूज्य, (सूर्यः?
स्वाहान्तेन पराङ्मुखार्घ्यं दत्वा, क्षमस्वेत्यभिधाय,
हुंफडन्तास्त्रेण नाराचमुद्रया अङ्गादिमन्त्रानुत्थाप्य, ओं
खं खषोल्काय सूर्यमूर्तये नमः इति दिव्यमुद्रया देवे
संयोज्य, तन्मूलमन्त्रेण हृत्पुण्डरीकस्थे शिवसूर्ये योजयेत् ॥ (२०)
(प्र) अथ सन्ध्यावन्दनक्रममुदीर्य, सूर्योपस्थानमात्मेज्या
लिङ्गाग्निगुरुपुस्तकम् । इति नित्यं समाख्यातं
षडाधारशिवार्चनम् ॥ इति वचनात्
लिङ्गादिषडाधारशिवपूजनेषु सूर्याधारसपर्यायाश्च
नित्यतयाऽन्तर्गतत्वात् प्रथमन्तदर्चनविधिं दर्शयितुं
तत्पूर्वकरणीयन्निरूपयति
प्. ११४)
(ततः) इत्यादिना (उपहृत्य) इत्यन्तेन । ननु तर्हि शिवार्चनानन्तरं
तदर्चनमस्त्विति चेन्न सूर्यस्य सकलतया पूर्वमर्चनीयत्वात् । तथा
श्रीमदंशुमति
सकलस्सूर्यरूपस्तु निष्कलश्शिव एव च ।
देहस्थं पूर्वमाराद्ध्य पश्चाद्देवं यजेद्बुधः ॥
इति । ननु एतत्सूर्यपूजा कामनाविषयत्वात् मुमुक्षुभिः न कर्तव्येति
केचिंदूचिरे । तन्न
बुभुक्षुश्च मुमुक्षुश्च सकृन्नित्यं प्रपूजयेत्
इति श्रीमत्षट्सहस्रिकायामुक्तत्वात् मुमुक्षूणामपि कर्तव्येति
गुरवः । स्नानादिकर्म कृत्वा गृहं प्रत्यागच्छतः कृत्यमाह
(अस्त्र) इति । (अस्त्रपञ्जरमध्यगः)
अस्त्रमन्त्रमयविमानाभ्यन्तरगतः । आत्मानं
अस्त्रमयविमानमध्यवर्तिनं भावयन्निति तात्पर्यार्थः । तथा
श्रीमत्कामिके
विघ्नान्निरोध्य मार्गस्थानस्त्रात्मकविमानगः ।
प्. ११५)
व्रजेद्देवालयं वापि गृहमात्मीयमुत्तमम् ॥
इति । (पृथिव्यादितत्वानि) इति । अत्र
अप्तत्वादिमायान्ततत्वान्यादिशब्दार्थः । (सन्त्यजन्) (४६)
सोपानक्रमेणोल्लंघयन् इत्यर्थः । तथा श्रीसमनाथपद्धत्यां
धरादिमाया- पर्यन्त-तत्वसोपानपद्धतिम् ।
लङ्घयन् शुद्धविद्यात्मसदाशिवपदं विशेत् ॥
इति । (शुद्धविद्यातत्वान्तव्याप्तिकम्) शुद्धविद्याविधिव्यापकम् ।
(उपाहृत्य) समानीयं ॥
अथ सूर्यपूजाविधिमतिदिशति (पूर्वास्यः) इत्यादिना (योजयेत्)
इत्यन्तेन । ननु कथं सूर्यं पूजयेदित्याशंक्य तत्र तावत्
कुर्यात् कराङ्गविन्यासं सूर्यमूलाङ्गशंबरैः ।
विधाय देहसंशुद्धिं सूर्यशंबरभावतः ॥
भावयेद्भानुरूपेण स्नात्मानं भास्करं परम् ।
इति सिद्धान्तशेखरश्रुतिं हृदि निधाय सूर्यार्चकस्य
तत्स्वरूपसिद्धये
प्. ११६)
सकलीकरणप्रकारमाह (ओं रः अस्त्राय फट्) इति ।
सौरहृदयाद्यङ्गमन्त्राणामुद्धारः प्रदर्शितः
श्रीरामनाथपद्धत्यां
सानुस्वारेण पूर्वेण स्वरेण हृदयं शिरः ।
हृद्नीजपूर्वगर्काय शिरसे नम इत्यतः ॥
ओंभूर्भुवस्स्वरों ज्वालिनी शिखायै नमश्शिखाम् ।
हूंकारेण सरेफेण कवचं भामिति ब्रुवन् ॥
नेत्रे च सविसर्गाग्निबीजमस्त्रं च पूजयेत् ।
इति । (अङ्गन्यासक्रममाह) (दक्षिणाङ्गुष्ठे) इति । (भोटिकया) इति ।
एतल्लक्षणमुक्तं मुद्रालक्षणे छोटिका
अङ्गुष्ठतर्जनीमूर्द्धभ्यां शब्दोत्थापनरूपा
विघ्नप्रोत्सारणरूपा प्रयोज्या इति ॥
ततः किं विदधीतेत्याशंकायां दर्शनार्घ्यं
दद्यादित्याह (पश्चात्) इति । (रक्तपुष्पादि) इति । आदिपदेन
रक्तचन्दनाद्युच्यते । तथा
प्. ११७)
श्रीमच्चिन्त्यविश्वसादाख्ये तत्पात्रे जलमापूर्य
रक्तचन्दनतण्डुलैः । रक्तपुष्पकुशैर्वापि इति । (अर्घ्यं कृत्वा) इति ।
अत्र मूलमन्त्रेणेति शेषः । एवमाख्यातं
श्रीमन्मृगेन्द्रपद्धतिव्याख्याकारेण । (जानुभ्यामवनिं गतः)
महीनिहितजानुद्वय इत्यर्थः । सूर्यस्य
विशेषार्घ्यकरणविधिमभिधत्ते (ततः) इति ।
(ललाटमध्यस्फुरदरुणबिन्दुविनिस्रुतामृतधारया)
ललाटम्द्ध्यः अलिकान्तरालं तस्मिन् स्फुरन् प्रकाशमानः स
चासौ अरुणबिन्दुः रक्तवर्णसुधारूपतोयधारा तया ।
धेनुमुद्रालक्षणमुक्तं श्रीभोजदेवेन
अन्योन्यग्रथिताङ्गुलीषु कनिष्ठानामिकयोर्मध्यमातर्जन्योश्च
संयोजनेन गोस्तनाकारा धेनुमुद्रा इति ।
द्रव्यातमस्थानशुद्धिमाह (तज्जलैः) इति । (द्रव्यम्)
पूजोपकरणपुष्पाद्यम् । द्रव्यं वित्ते
प्. ११८)
गुणाश्रये इति नानार्थरन्तमाला । (आत्मानम्) स्वमस्तकमित्यर्थः ।
ननु क्रियाधारे सूर्यं यजेदित्याह (स्थण्डिले) इति । एतल्लक्षणमग्रे
वक्ष्यामः ॥
तत्र पूर्वं द्वारपूजामाचष्टे (तत्र द्वारदक्षिणपार्श्वे)
इति । (तत्र) स्थण्डिलादौ । दण्ड्याद्यर्कासनान्तमन्त्राणां
दीप्तादिशक्तिरहितानां बीजं सौरहृदयबीजमित्युच्यते । तथा
श्रीरामनाथपद्धत्यां शक्तीर्विनासनान्तानां हृदोबीजं
समुच्चरन् इति । दण्डिध्यानमाह (दण्डी) इति । दण्ड्यतेऽनेनेति दण्डो
लगुडः सोऽस्यायुधत्वेनास्तीति दण्डी । (द्वार्दक्षिणे) द्वाः द्वारं
स्त्रीद्वार्द्वारं इत्यमरः । तस्याः दक्षिणं याम्यभागः तस्मिन् ।
(गौरः) श्वेतः । गौरोऽरुणे सिते पीते इति नानार्थरत्नमाला ।
(तुंदिलः) स्थूलः । शेषं सुगमम् । (तद्वामपार्श्वे)
द्वारवामभागे इत्यर्थः ।
प्. ११९)
न तु दण्डिनः । तद्दक्षिणभागत्वादुत्तरदिशः ।
द्वारमन्तर्मुखं ज्ञेयं द्वारपास्तु बहिर्मुखाः इति वचनेन
द्वारस्यान्तर्मुखत्वात् दण्डयुक्तरदिशः द्वारवामपार्श्वत्वं
सिद्धमित्यत्र तात्पर्यम् । यदुक्तञ्च प्राक् दण्डी द्वार्दक्षिणे इति ।
पिङ्गलध्यानमाह । (पिङ्गलः) इति । (प्रतीहारः) द्वारपालः ।
प्रतीहारो द्वारपालः इत्यमरः । सुबोधमन्यत् । रक्तवर्ण
इत्याद्यर्द्धकारिका कैश्चित् कचित् प्रक्षिप्तेप्युपेक्षिता ।
गणपतिध्यानमाह (रक्तम्) इति । (दन्तम्) निजरदनम् । (फलम्)
आम्रफलम् । स्पष्टमन्यत् । (तस्य) आसनपद्मस्य । गुरुध्यानमाह
(जटा) इति । (नाभिस्थलोपरि) कृतयोगाख्यमुद्रम्)
नाभिस्थानोर्ध्वकृतचिन्मुद्रम् । स्फुटमन्यत् । प्रभूतासनं
श्वेतपीठमयम् । तथा श्रीरामनाथपद्धत्यां
श्वेतपीठात्मकं मध्ये प्रभूतासनमर्चयेत् इति ।
प्. १२०)
सिंहासनपादपूजामाह (आग्नेयादि) इति ।
दीप्तादिनवशक्तिपूजामाह (तस्य) इति । (तस्य) पद्मस्य ।
दीप्तादिशक्तिमन्त्राणामुद्धारः प्रदर्शितः
श्रीरामनाथपद्धत्यां त्यक्त्वाऽकारमिकारं च
षडर्णानन्तिमस्वरम् । क्रमाद्रेफाह्यनुस्वारस्वरा
दीप्तादिवाचकाः ॥ इति । तासां ध्यानमाह (दीप्त) इति । तत्र
पक्षान्तरमाह (यद्वा) इति । सुकरः श्लोकार्थः ।
विस्फुरमुद्रालक्षणमुक्तं श्रीभोजदेवेन
संमुखहस्ताकुञ्चितां गुल्यग्रोपरि अङ्गुष्ठचालनाद्विस्फुरां
इति । अर्कासनं मायातत्वान्तव्यापकम् । सूर्यध्यानमाह (धवल)
इति । (अंसासक्तस्फुटश्वेतसनालाब्जकरद्वयम्) अंसौ भुजशिरसी
तयोरासक्तञ्च संलग्नं स्फुटं च विकचं
व्याकोशविकचस्फुटाः इत्यमरः । श्वेतञ्च धवलं सनालं च तत्
अब्जञ्च पद्मं तत् करद्वये यस्य स
प्. १२१)
तथोक्तः तम् । (भानुम्) सूर्यं भानु रश्मिदिवाकरौं इत्यमरः ।
स्फुटमन्यत् सूर्यमूर्तिः सदाशिवतत्वान्तव्याप्तिका ।
एतन्मन्त्रोद्धारश्च कृतः श्रीरामनाथपद्धत्यां ओं खं
खषोल्काय सूर्यमूर्तये नम इत्यपि इति । (नेत्रे दत्वा) इति । अत्र
गोविषाणमुद्रयेति शेषः । सूर्यावाहनक्रममाह (पुष्पैः) इति ।
(अञ्जलिम्) करपुटद्वयम् । (ललाटाकृष्टस्फुरदरुणबिन्दुम्) इति
शब्दस्य तथाभूतबिन्दुगततेज इत्यर्थः । मूलमन्त्रं
शक्तितत्वान्तव्याप्तिकमुच्चरेत् । तदुक्तं माया सदेशशक्त्यन्तं
शिवाशिवोष्णरोचिषोः इति । तथा श्रीरामनाथपद्धत्यां
साग्निं सबिन्दुं हाकारं हीकारान्तत्समन्वितम् ।
सविसर्गं सकारञ्च सूर्यायेति पदं ततः ॥
नमश्चोच्चार्य शक्त्यन्तं रक्तं बिन्दुगतं महः ।
पुष्पाञ्जलिगतं ध्यात्वा बाह्ये संस्थाप्य विग्रहे ॥ इति ।
प्. १२२)
(तद्व्यापकम्) खषोल्कात्ममूर्तिव्यापिनम् ।
आवाहिन्यादिनिष्ठुरान्तमुद्राणां लक्षणं शिवावाहनप्रस्तावे
दर्शयिष्यामः । (बिम्बमुद्राम्) इति । एतल्ल्क्षणमुक्तं मुद्रालक्षणे
संबद्धपाणितला वक्राग्रसंसक्तानामिकाद्वया सूर्यस्य
दर्शनीया इति । (हृदयादिकरान्तस्थानेषु) हृदयं आदिर्येषान्तानि
हृदयादीनि करः अन्ते येषान्तानि करान्तानि हृदयादीनि च तानि
करान्तानि च हृदयादिकरान्तानि तानि च तानि स्थानानि च तथोक्तानि
तेषु । (एकत्वम्) हृदयाद्यङ्गानामङ्गिना सार्द्धमपृथग्भावम्
। अमृतमुद्रालक्षणमुक्तं प्राक् । (पायाचमनार्घ्याणि) पाद्यं
च पादार्हवारि आचमनं च वक्त्रप्रदेयं जलं अर्घ्यं च शिरः
प्रदीयमानमुदकं तथोदितानि । (खषोल्किना) ओं खं खषोल्काय
नमः, इति मन्त्रेण । अत्र ओं खं खषोल्काय नमः इति
प्. १२३)
पादयोः पाद्यं स्वधान्तेन तेन मुखे आचमनं स्वाहान्तेन तेन
शिरसि अर्घ्यं दद्यात् । यद्वक्ष्यति संहृदा नमोन्तेन पादयोह्
पाद्यं स्वधान्तेनेशानादिमुखपञ्चकेष्वाचमनं
स्वाहान्तेन तथैव शिरः पञ्चकेष्वर्घ्यं दत्वा इति । (अभ्यङ्गादि)
इति । आदिपदेन उद्वर्तनादि निगद्यते । तथा श्रीरामनाथपद्धत्यां
तदङ्गस्थानि पुष्पाणि व्यपोह्यास्त्रमुदीरयन् ।
अभ्यज्योद्वर्त्य निर्मृज्य क्रमान्मूलास्त्रनामभिः ॥
इति । (संस्नाप्य) इति । अत्र अभ्यङ्गादिस्नपनाङ्गानि विभाव्य
अर्घ्योदकबिन्दुना संस्नापयेत् । पद्ममुद्रालक्षणमुक्तं
श्रीभोजदेवेन पद्माकारौ करौ कृत्वा मध्येऽङ्गुष्ठौ
कर्णिकाकारौ विन्यसेत् इति । बिम्बमुद्रालक्षणं प्राक् प्रदर्शितम् ॥
ततः किं कुर्यादित्याकांक्षायां लयाङ्गपूजापूर्वं
प्. १२४)
भोगाङ्गमर्चयेदित्याह (ततः) इति । (लयाङ्गमभ्यर्च्य) इति । अत्र
हृदयादिलयाङ्गस्थानेषु हृदयादिमन्त्रैरर्चयेत् । केषु स्थानेषु
कथं पूजयेदित्याह (आग्नेयैशान) इति । हृदयाद्यङ्गस्थानमाह
(सौम्यानि) इति (सौम्यानि) रम्याणि अनुग्राणि वा । सौम्यः पुमान्
बुधे विप्रे त्रिषु स्यात् सोमदैवते । रम्येऽनुग्रे च इति
नानार्थरत्नमाला । स्पष्टमपरम् । (देवस्य) देवनशीलस्य
सूर्यस्येत्यर्थः । (अग्रतः) पश्चिमदल इत्यर्थः । (तद्वत्) इति ।
नयनस्थानादादायेत्यर्थः । (पूर्वोक्तरूपम्)
हृदयाद्यङ्गोदीरितस्वरूपम् । सूर्यास्त्रस्य ध्यानमाह (विद्युत्) इति ।
सुकरः श्लोकार्थः ।
गोविषाणमुद्रात्रासनीमुद्रयोर्लक्षणमुपलक्षितं
श्रीमद्भोजदेवेन बद्धमुष्टेर्दक्षिणहस्तस्य
मध्यमातर्जन्योर्विस्तारितप्रसारणेन गोविषाणा ।
बद्धमुष्टेर्दक्षिणहस्तस्य प्रसारिततर्जन्या
प्. १२५)
वामहस्ततलताडनरूपा त्रासनी इति । (अर्घ्ययेत्) अर्घ्यं दद्यात् ।
ननु भानोर्हृदयाद्यावरणादन्यदावरणं नास्ति
किमित्याशंक्य सोमाद्यावरणमस्तीत्याह (तदनु) इति । सोमादीनां
मन्त्रोद्धारः प्रदर्शितः श्रीरामनाथपद्धत्यां
स्वनामाद्यक्षरं बीजं ग्रहाणां बिन्दुसंयुतम् इति ।
सोमादिध्यानमाह (सोमम्) इति । (कुमुदकुंदाभम्) कुमुदञ्च
कैरवं कुन्दञ्च माध्यं कुमुदकुन्दे तयोरामेवाभा यस्य स
तथोक्तः तम् । सिते कैमुदकैरवे माध्यं कुन्दम् इति चामरः ।
(चामीकरप्रभम्) स्वर्णवर्णम् । (गुरुम्) वृहस्पतिम् ।
गुरूगीष्पतिपित्राद्यौ इत्यमरः । (राजावर्तनिभम्) राजावर्तः
कृष्णवर्णः पुष्पविशेषः तस्य सन्निभस्तुल्यः तम् । (शनिम्) इति ।
शनिर्नाम सूर्याच्छायादेव्यामुत्पन्नः सर्वग्रहमण्डलादुपरि
वर्तमानो गतिदृष्टिभावभेदैर्जगतां
प्. १२६)
शुभाशुभहेतुर्ग्रहविशेषः । शनिर्मन्दः
खेटकोणच्छायापुत्रासिर्कजाः इति वैजयन्ती । (राहुम्) इति । रहयति
चन्द्रार्काविति राहुः सिं?हिकासुतस्य आस्यात्मा (५०) ग्रहतिशेषः इति ।
कात्यायनस्तु राहुश्चन्द्रस्य ग्राहकः स्वर्भानुः सूर्यस्येत्याह
(उपरागरूपपुण्यकालसंपादनादिकार्यार्थं
राहुरूपत्वाद्राहुः। (केतुम्) इति । केतुर्नाम संहितासुतस्य
कलेबरात्मा सुधापानप्रभावतो हरप्रसादाच्च
ग्रहमण्डलवर्ती ग्रहविशेषः । (अर्द्धकायोर्ध्वकेशौ)
कायस्यार्द्धौ अर्द्धकायौ तौ च तौ ऊर्ध्वकेशौ च
ऊर्ध्वमुखशिरोरुहौ तथोदितौ । अत्र शिरोमात्रं राहुः
शरीरमात्रं केतुः इत्यवसेयम् । (दंष्ट्राकरालम्) दंष्ट्रया
करालः भीषणः तम् । करालो दन्तुरे तुङ्गे भीषणे च इति
नानार्थरत्नमाला । नमोमुद्रालक्षणमाम्नातं
सतताङ्गुलिसंलग्नौ
प्. १२७)
हस्तौ हृद्देशमाश्रितौ । सर्वेषां बन्धनं कार्य
वामाङ्गुष्ठेन पीड्य च । नमस्कारेति विज्ञेया सर्वकर्मणि
कारयेत् । इति । (उपहृदा) खषोल्काय नमः इति मन्त्रेण । यदुक्तं प्राक्
ओं खं खषोल्काय नमः , इत्युपहृदयेनेति । तथा च व्याहृतं
श्रीमत्सोमशंभुचरणैः धूपदीपादिनैवेद्यं देयं सर्वं
खषोल्किना इति । (दशांशम्) दशभागम् । सूर्यमूलेन यदि
शतञ्जप्तं तदा तदङ्गानामेकैकस्य दशदश जपेदिति तात्पर्यम्
। स्तोत्रादिकं वक्ति (दण्ड्याद्यैः) इति । (दण्डाद्यैः) दण्डी दण्ड्या
पदेन पिङ्गलादय उच्यन्ते । (विमलमुखचतुस्सिंहपादासनस्थः)
विमलः विमलाभिधः सिंहः मुखं प्रधानः येषां ते इति
नानार्थरत्नमाला । ते च ते चतुस्सिंहाश्च पादाः यस्य
तद्विमलमुखचतुस्सिंहपादं तच्च तत् आसनञ्च तत्र निष्ठतीति
तथोक्तः । मुखपदेन
प्. १२८)
सारादयो गृह्यन्ते । (शक्तिजालैः) शक्तिसमूहैः । जालं समूहं
आनायो गवाक्षक्षारयानपि इत्यमरः ।
(स्वाङ्गस्वाङ्गग्रहर्क्षप्रमुखपरिवृतः) स्वाङ्गानि
स्वकीयावयवहृदयाद्यङ्गानि स्वाङ्गग्रहर्क्षप्रमुखाः
स्वाङ्गाश्च निजपरिवाराः अङ्गं
गात्रान्तिकोपायप्रतीकेष्वप्रधानके इति नानार्थरत्नमाला ।
ग्रहाश्च ग्रहशब्दवाच्याः अर्कादयो ग्रहाः इत्यमरः ।
ऋक्ष?प्रमुखाः ऋक्षाणि नक्षत्राणि तेषां प्रमुखाः प्रकर्षेण
प्रधानाः चन्द्राङ्गारकादय इत्यर्थः । स्वाङ्गानि च
स्वाङ्गग्रहर्क्षप्रमुखाश्च स्वाङ्गस्वाङ्गग्रहर्क्षप्रमुखाः
तैः परिवृतः संवीतः । (शेताब्जां सद्विहस्तः) श्वेताब्जं
धवलाम्बुजं अंसयोः भुजशिरसोः द्विहस्तयोश्च यस्य स तथोक्तः
। (वः) युष्मान् । (भवतात्) पायात् । (स्फुटमन्यत् । अत्र गुरुः वः इति
लोकस्य अवनं प्रार्थयते स्वस्यापि लोकान्तर्भूतत्वात्
प्. १२९)
निजावनमेव प्रार्थयत इति भावः । इदं पद्यं प्रक्षिप्तमपि
व्याख्यातम् । (पराङ्मुखार्घ्यम्) विसर्जनाय देयमर्घ्यम् । तथा
समभिहितं श्रीमत्सर्वज्ञानोत्तरे विसर्जने तु गाङ्गेय
देयमर्घ्यं पराङ्मुखम् इति (क्षमस्व) सह्स्व ।
नाराचदिव्यमुद्रयोर्लक्षणमग्रे दर्शयिष्यामः ॥
=== तेजश्चण्डपूजा ॥ ===
(क्रि) (२२) ततश्चैशान्यां दिशि, ओं अं तेजश्चण्डाय नमः इति
चण्डं रक्तं करालास्यमब्जाभयकरद्वयम् ।
इति भावयन् संपूज्य, निर्माल्यं निवेद्य, विसृज्य, अर्घ्यञ्च विसृजेत् ।
यद्वा शिवपूजान्ते विसृजेत् ॥ (२२)
(प्र) अथ मार्ताण्डपूजाप्रकारमभिधाय
तदीयचण्डार्चनविधिमाह (ततः) इत्यादिना (विसृजेत्) इत्यन्तेन ।
सूर्यविसर्जने विकल्पमाह (यद्वा) इति ।
=== शिवपूजाङ्गद्वारपूजा ॥ ===
प्. १३०)
(क्रि) (२२) अथाचम्य, सकलीकृत्य, सामान्यार्घ्यपात्रमस्त्रेण
संशोध्य, हृदयेन वौषडन्तेन शुद्धजलेनापूर्य, प्रणवेन
सप्तधा संपूज्य, अभिमन्त्र्य, रत्ना?वकुण्ठनामृतीकरणानि
विधाय, द्वारमस्त्रेण संप्रोक्ष्य, तस्योर्ध्वोदुम्बरे दक्षिणभागे
लंबोदरं श्मामनिभं गणेशं
कुठारमक्षस्रजमूर्ध्वगाभ्याम् । सल्लड्डुकं दन्तमधः
कराभ्यां वामेतराभ्याञ्च दधानमीडे ॥
इति ध्यात्वा, ओं हां गणपतये नमः इति संपूज्य,
तदुत्तरभागे
शुक्लां शुक्लांबरामक्षमालापुस्तकधारिणीम् ।
सव्यवामकराभ्याञ्च सुप्रसन्नां सरस्वतीम् ॥
(५२) इति विभावयन्, ओं हां सरस्वत्यै नमः, इत्यभ्यर्च्य, तयोर्मध्ये
वामदक्षिणहस्ताभ्यां दधतीं श्रीफलाम्बुजे ।
हेमाभां सघटेभाभ्यां प्लाव्यमानं महाश्रियम् ॥
प्. १३१)
इति ध्यात्वा, ओं हां महालक्ष्म्यै नमः, इत्यभ्यर्च्य, आत्मनो
दक्षिणशाखायां
रक्तं त्रिनेत्रं जटिलं सव्यवामकरद्वये ।
अक्षमालां त्रिशूलञ्च दधानं नन्दिकेश्वरम् ॥
इति ध्यात्वा, ओं हां नन्दिने नमः इति संपूज्य तदुत्तरभागे
मकरासनगां गङ्गां सव्यवामकरद्वये ।
नीलोत्पलं पूर्णकुंभं दधतीं शुक्लरूपिणीम् ॥
इति ध्यात्वा, ओं हां गङ्गायै नमः, इति संपूज्य,
तदुत्तरशाखायां
कृष्णं ऋक्षं महाकालं वामसव्यकरद्वये ।
कपालञ्च त्रिशूलञ्च दधानं विकटाननम् ॥
इति ध्यात्वा, ओं हां महाकालाय नमः, इत्याराध्य,
तद्दक्षिणपार्श्वे
श्यामां कूर्मस्थितां वामसव्यहस्तद्वये घटम् ।
नीलोत्पलञ्च बिभ्राणां यमुनाञ्च विभावयेत् ॥
प्. १३२)
इति ध्यात्वा, ओं हां यमुनायै नमः, इत्यभ्यर्च्य रक्षामेषां
विज्ञाप्य,
(प्र) अथ सूर्यादिषड्विधाधारेषु प्रथमं
सूर्यार्चनविधिमुदीर्य अधुना लिङ्गाधिकरणं शिवपूजां
वक्तुं तन्मन्दिररक्षार्थं द्वारसपर्या वक्ति (अथ) इत्यादिना
[विज्ञाप्य] इत्यन्तेन । अथ सूर्यार्चनानन्तरम् । (आचम्य) इति ।
पूर्वोक्तसौरभावनानिवृच्यर्थमेतत् । द्वारार्चनार्थं
सामान्यार्घ्यस्थापनक्रममाह (सामान्यार्घ्यपात्रम्) इति ।
(शुद्ध जलेन) बिन्दुपरिस्रुतसुधारूपतोयेन । (प्रणवेन)
मुमुक्षुभिरसकृदावर्त्यमानोऽप्यादरातिशयात् क्षणे क्षणे
प्रकर्षेण नवो भवन् यः सः प्रणवः तेन ओमित्येकाक्षरेण । तथा
श्रीमत्सुप्रभेदे ओमित्येकाक्षरं ब्रह्म वदन्ते सर्वयोगिनः ।
(४३) प्रणवन्तु समासोक्तम् इति । (अभिमन्त्र्य) इति । अत्र
सप्तधेत्यनुसन्धेयम् । तथा श्रीमत्सहस्रे
प्. १३३)
प्रणवं सप्तधाऽऽमन्त्र्य धेनुमुद्रां प्र्दर्शयेत् इति । ततः
किमित्याकांक्षायां द्वारयजनक्रममाह (द्वारम्) इति । (द्वारम्)
पश्चिमद्वारम् । अत्र पश्चिमद्वारपूजैव चललिङ्गविषये प्रशस्ता ।
स्थिरलिङ्गविषये तु यथाद्वारं पूजा कर्तव्येति तात्पर्यम् । तथा
श्रीमदंशुमति खेटके पश्चिमे देशे द्वारं संपूज्य देशिकः
इति । तथा चोक्तं श्रीमद्वालज्ञानरत्नावल्याम् । तदनु
पश्चिमद्वारे द्वारपालानर्चयेत् । कथमिति चेत् पश्चिमद्वारस्य
पार्थिवत्वात् सद्योजातमयत्वात् पार्थिवस्य सिद्धिप्रदत्वात् । तथा
आवाहयेत् पश्चिमद्वारं सिद्धिकामस्समीहिते इति । अत्र केचित्
सदाशिवस्य पश्चिमाभिमुखत्वं व्यावर्णयन्ति । तदयुक्तं
सद्योजातस्य मूर्तित्वात् सृष्टिकारणत्वाच्च । तथा ईशमूर्द्धा स
पुवक्त्रोऽघोरहृद्वामगुह्यकः ।
प्. १३४)
सद्योमूर्तिश्च सादाख्यः प्रागास्यो हृदयांघ्रिकः ॥
इति । ततः सदाशिवस्य पूर्वाभिमुखत्वं उक्तरीत्या वक्ष्यमाणेन
च परिभाव्य पश्चिमद्वारे द्वारपालानर्चयेत् । किञ्च
स्वात्मसदाशिवयोर्दक्षिणवामत्वं पश्चिमद्वारस्यैव भवतीति ।
यद्वक्ष्यति च पश्चिमे नित्यवत् द्वारपालानाराध्य इति । तत्र
द्वारपालेषु गणपतिपूजां प्रथममाह (तस्य) इति । (तस्य)
द्वारस्य । (ऊर्ध्वोदुम्बरे) उपरिस्थदेहल्याम् । उदुम्बरो द्रुदेहल्योः
इति नानार्थरत्नमाला । (दक्षिणभागे) इति । अत्र पूजकापेक्षया
दक्षिणवामविभागो गन्तव्यः । तदुक्तं श्रीमताभोजदेवेन
नन्दिगङ्गे महाकालयमुने चात्मनो दक्षिणवामशाखयोः इति ।
तस्य ध्यानमाह (लम्बोदरम्) इति । (कुठारम्) परशुम् । (ईडे) वन्दे ।
शेषं सुगमम् ॥
सरस्वतीपूजामाह (तदुत्तरभागे) इति । तस्य
प्. १३५)
गणपतेः उत्तरपार्श्वे । तस्या ध्यानमाचष्टे (शुक्लाम्) इति ।
(सव्यवामकराभ्याम्) दक्षिणवामकराभ्याम् ।
वामदक्षिणयोस्सव्यम् इति नानार्थरत्नमाला । स्फुटमन्यत् ।
महालक्ष्मीसपर्यामाह (तयोः) इति । (तयोः) गणपतिसरस्वत्योः ।
तस्या ध्यानमाह (वाम) इति । (श्रीफलांबुजे) श्रीफलं च
बिल्वफलं बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि इत्यमरः
। अम्बुजं च पद्मं ते । (सघटेभाभ्याम्) घटेन कुंभेन सह
वर्तेते इति सघटौ तौ च तौ उभौ च गजौ सघटेभौ ताभ्याम् ।
(प्लाव्यमानाम्) अभिषिच्यमानाम् । उभयतः
पुष्करपरिधृतकुंभाभ्यामुभाभ्यामिभाभ्यां
अभिषिच्यमानं इत्यर्थः ॥ सुकरः श्लोकार्थः । नन्दिपूजामाह
(आत्मनः) इति । ननु नन्दिसपर्या पूर्वोक्तस्थाने किं इति शंकां
वारयति (दक्षिणशाखायाम्) इति ।
स्वदक्षिणपार्श्वस्थद्वारशाखायामित्यर्थः ।
प्. १३६)
तस्य ध्यानमाह (रक्तम्) इति । (जटिलम्) जटावन्तम् । सुबोधमन्यत् ।
गङ्गासमाराधनमाह (तदुत्तरभागे) इति । तस्य नन्दिनः
उत्तरपार्श्वे । तस्या ध्यानमाह (मकरासनगाम्) इति । स्पष्टः
श्लोकार्थः । महाकालस्यापवितिमाह (तत्) इति । (तदुत्तरशाखायाम्)
तस्याः गंगायाः उत्तरशाखा उदग्दिक्स्थितद्वारशाखा तस्यां
आत्मनो वामशाखायामित्यर्थः । तस्यं ध्यानमाह (कृष्णम्) इति
। (विकटाननम्) दंष्ट्राविकटमुखमित्यर्थः । तथा कृष्णं
पिङ्गजटं भीमं दंष्ट्राविकटवक्त्रकम् इति । स्फुटमन्यत् ।
यमुनार्चामाहं (तत्) इति । (तद्दक्षिणपार्श्वे) महाकालस्य
दक्षिणभागे । तस्या ध्यानमाह (श्यामाम्) इति । सुकरः
श्लोकार्थः । अत्र गणपत्यादीनां स्वैस्स्वैर्मन्त्रैरर्घ्यं दद्यात्
इत्युदीरितं श्रीमता मृगेन्द्रपद्धतिव्याख्याकारेण । वक्ष्यति च
प्रतिष्ठाविधौ
प्. १३७)
पश्चिमे नित्यवत् द्वारपाला चाभ्यचर्यार्घ्ययित्वा इति । (एषाम्)
गणपत्यादिद्वारपालानाम् । (विज्ञाप्य) इति । भवद्भिः
पूजास्थानस्य रक्षकत्वेन स्थातव्यमाहितादरैरिति
प्रार्थ्येत्यर्थः ॥
=== विघ्नोच्चाटनम् ॥ ===
(क्रि) (२३) न्यस्तमूलेन चक्षुषोर्ध्वं विलोक्य, दिव्यान्, ओं अः अस्त्राय
फट् इति ज्वलन्नाराचमुद्रया अस्त्रेण पुष्पं क्षिप्त्वा अन्तरिक्षगान्, ओं
हुं फट्, इति पाशुपतास्त्रेण दक्षिणपार्ष्णिघातत्रयेण
भूमिष्ठांस्त्रिविधान् विघ्नान् यागगृहादुद्वास्य ॥ (२३)
(प्र) अथ द्वारपालार्चां व्यपदिश्य, शिवपूजाया
निर्विघ्नसमापनाय विघ्नोच्चाटनमाचष्टे (न्यस्त) इत्यादिना
(उद्वास्य) इत्यन्तेन । (न्यस्तमूलेन) न्यस्तः
अङ्गुष्ठानामिकाभ्यां विन्यासितः मूलः, ओं हां हौं शिवाय
नमः, इति मायान्तोच्चारितमन्त्रो
प्. १३८)
यस्य तत् तथोक्तं तेन । तथा श्रीमच्चिन्त्यविश्वसादाख्ये,
अङ्गुष्ठानामिकाभ्यां ओं हौं शिवायनमोन्तकम् । नेत्रद्वये च
विन्यस्य निरीक्ष्य दिव्यविघ्नकान् ॥ इति । (चक्षुषा) इति (५५)
न्यस्तमूलतया दिव्यदृष्ट्येत्यर्थः । तथा समादिष्टं
श्रीमत्सोमशंभुचरणैः दिव्यदृष्टिनिपातेन दिव्यानुपरिवर्तिनः ।
इति । (दिव्यान्) दिव्याः दिविभवाः तान् । (अन्तरिक्षगान्)
अन्तरिक्षमाकाशं गच्छन्तीत्यन्तरिक्षगाः तान् ।
(दक्षिणपार्ष्णिघातत्रयेण) दक्षिणपार्ष्णिः
दक्षिणपादपार्ष्णिः पुमान् पार्ष्णिस्तयोरधः इत्यमरः । तस्य
घाताः आहतयः तेषां त्रयं तेन । (भूमिष्ठान्) भूमौ
तिष्ठन्तीति भूमिष्ठाः तान् । (त्रिविधान्)
दिव्यान्तरिक्षगभूमिष्ठभेदेन त्रिप्रकारान् । (उद्वास्य) उच्चाट्य ॥
प्. १३९)
=== शिवधामप्रवेशादिकम् ॥ ===
(क्रि) (२८) किञ्चिद्वामशाखां समाश्रयन्
दक्षिणपादपुरस्सरमन्तः प्रविश्य, देहल्यां, ओं हः अस्त्राय
द्वारपालाय नमः, इत्यत्र वक्ष्यमाणरूपं विभाव्य,
संपूज्य, प्रादक्षिण्येन गत्वा, नैरृते, ओं हां वास्त्वधिपतये
ब्रह्मणे नमः, इति
हंसस्थं तुन्दिलं गौरं सश्मश्रुचतुराननम् ।
दधानं दक्षिणे वामे दण्डाक्षस्रुक्कमण्डलुम् ॥
इति ध्यात्वा, संपूज्य,
(प्र) अथ दिव्याद्यन्तरायनिरसनक्रममुदीर्य,
शिवधामप्रवेशनं तदनन्तरकरणीयञ्चाह (किंचित्) इत्यादिना
(ध्यात्वा), इत्यन्तेन । (किंचिद्वामशाखां समाश्रयन्
दक्षिणपादपुरस्सरमन्तः प्रविश्य) इति । एतत्
शाखागतदेवानुसरणार्थमिति व्यपदिष्टं श्रीमता
सोमशम्भुपद्धतिव्याख्याकारेण । (देहल्याम्) अधोदुम्बरे ।
गृहावग्रहणी
प्. १४०)
देहली, इत्यमरः । (अस्त्रम्) शिवास्त्रम् । तथा, शिवास्त्रं देहलीमध्ये
पूर्ववच्चासनादिकम्, इति । (वक्ष्यमाणरूपम्) अथास्त्रं च
दंष्ट्रिणं पिङ्गद्युतिम्, इति वक्ष्यमाणस्वरूपम् । अत्र
देहल्यामरत्रार्चनं दिव्यादि
प्रत्यूहनिवहानामत्यन्तन्यपोहनायेत्यवसेयम् । तथा
श्रीमत्पञ्चावरणस्तवे गुरुभिरादर्शितं,
कल्पान्ताग्निप्रभञ्चास्त्रमधोदुम्बरगं भजे ।
दिव्यान्तरिक्षभूमिष्ठविघ्नसङ्घनिवारकम् ॥ इति ।
ततः किं कुर्यादित्याह (नैरृते) इति । वास्त्वधिपति ब्रह्मध्यानमाह
(हंसस्थम्) इति । (गौरम्) पीतवर्णम् । गौरोऽरुणे सिते पीते इति
नानार्थरत्नमाला । (सश्मश्रुचतुराननम्) श्मश्रुभिः
मुखरोमभिः सह वर्तन्त इति सश्मश्रूणि तानि च तानि चतुराननानि
यस्यं स तथोक्तः तम् । (दण्डाक्षस्रुक्कमण्डलुम्) अत्र दण्डः
स्रुवः अक्षः
प्. १४१)
अक्षमाला । सुबोधमन्यत् । (संपूज्य) इति पूर्वेणान्वयः ॥
=== पूजोपकरणसमाहरणप्रकारः ॥ ===
(क्रि) (२५) स्नपनार्थं
गड्डुकांश्चतुस्संस्कारसंस्कृतांस्तोयवस्त्रञ्चास्त्रेण
प्रक्षाल्य, हृदयेन पटपरिस्रुततोयेन सुधापुरेणापूर्य,
यागार्थं पुष्पादिसर्वद्रव्याण्युपाहृत्य,
(प्र) अथ शिवधामनिवेशनादिकं व्यपदिश्य स्नपनतीर्थादि
पूजोपकरण समाहरणप्रकारमाह (स्नपनार्थम्) इत्यादिना
(उपाहृत्य) इत्यन्तेन । (गुड्डुकान्)
अष्टोत्तरशतादिसंख्याकाभिषेककलशान् । तथा
श्रीमज्ज्ञानरत्नावल्यां, शतं साष्टोत्तरं वार्द्धं
तदर्द्धाष्टौ सदैव हि । गड्डुकानि प्रदेयानि यथाविधिरनुक्रमात्
॥ इति । यद्वक्ष्यति? च , जलबिन्दून् स्नानतोयभाण्डेषु सपुष्पं
निक्षिप्य, इति । स्थापितशिवकलशेनापि
प्. १४२)
संस्नाप्य, इति च । (चतुस्संस्कारसंस्कृतान्) चत्वारः संस्काराः
चतुस्संस्काराः ते चात्र निरीक्षणादयः तैः संस्कृताः
समाहितातिशयाः तान् । तथा श्रीमत्कामिके
रङ्गणं मूलमन्त्रेण प्रोक्षणञ्चास्त्रमन्त्रतः ।
ताडनञ्चास्त्रमन्त्रेण वर्मणाऽभ्युक्षणं भवेत् ॥
इति । (उपाहृत्य) सन्निधीकृत्य ॥
=== भूतशुद्धिः ॥ ===
(क्रि) (२६) देवस्य दक्षिणदिग्भागे ब्रु?स्याद्यासने
उदङ्मुखस्युखासनं समुपविश्य,
अस्त्रप्राकारकवचावकुण्ठनाभ्यां यागगृहं संरक्ष्य,
शिवी?करणं कुर्यात् । तत्र पूर्वं करन्यासं विधाय ।
पादाङ्गुष्ठद्वयादारभ्य यावद्वस्ति द्विरूपामूर्ध्वं
ब्रह्मनिलान्तमेकरूपां, हृतकण्ठादिष्विडापिङ्गलाभ्यां
संयुक्तामुधोमुखपद्ममुकुलयुक्तां सुषिररूपां सुषुम्नां
सञ्चिन्त्य तस्या एवान्तर्बहिरस्र
प्. १४३)
वदमृतधारां परमव्योमरूपिणीं शक्तिं विभाव्य, मध्ये
हूंकारं ज्वलन्तं (जीव) सञ्चिन्त्य पूरकं ?
(५७) कुंभकञ्च कृत्वा, हूंकारे चित्तं निवेश्य, वायुमूर्ध्वं
विरेचयेत् ॥
हूं फट् इति सन्ततोच्चारेण पद्ममुकुलानूर्ध्वमुखान्
भिन्नग्रन्थींश्च विधाय, प्रति उनिवर्त्य, दक्षिणनाड्या विरेच्य,
पुनः पूरकवायुना संहृतचैतन्यं हृत्कमलाश्रितं
स्फुरत्तारकाकारं सान्तबीजमयं जीवं हृत्संफुटितं
हूंकारमूर्ध्नि विन्यस्य । बीजविग्रहं हूंकारशिखान्तस्स्थं
पुर्यष्टकावच्छिन्नं पुरुषं सूक्ष्मं
बिन्दुभूतमेकाकिवन्निरामयं ध्यात्या ।
कुंभकं कृत्वा, वायुमूर्ध्वं प्रवर्तयन्
संहारमुद्रयाऽऽदाय,
ब्रह्मादिकारणत्यागक्रमेणैकेनोद्घातेन ओं हूं हां हं हां
हूं आत्मने नमः इति भोग्यकर्मोपभोगार्थं द्वादशान्ते शिवे
संयोजयेत् ॥
प्. १४४)
एवं बीजवृच्या शिवे लीनः सूक्ष्मदेहविशुद्धये प्रातिलोम्येन
स्वेषु स्वेषु कारणेषु तत्वानि बिन्दुपर्यन्तं लयं नयेत् ॥
तद्यथा गन्धे पृथ्वी, रसे जलं, रूपेऽग्निः स्पर्शे वायुः
शब्दे व्योम, एतास्तन्मात्रास्तामसाहङ्कारे,
वाक्पाणिपादपायूवस्थाख्यानि राजसाहंकारे,
श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि मनश्च सात्विकाहंकारे, स च
बुद्धौ, सा गुणेषु, गुणतत्वं पकृतौ, सा रागविधे च कलायां,
पुंस्तत्वं कालो नियतिः कला च मायायां, एवं विलीनानीति
विभाव्य, शुद्धिविद्यातत्वमीश्वरतत्वे, तत् सदाशिवतत्वे,
तच्छक्तितत्वे, तच्च शिवतत्वे, तदप्यक्षुब्धरूपे बिन्दौ विलीनमिति
भावयेत् ॥
यद्वा शब्दस्पर्शौ त्यजेद्ब्राह्मे रसं वै केशवे, त्यजेत् ।
रूपगन्धौ त्यजेद्रुद्रे बुद्ध्यहंकारमीश्वरे ॥
मनोबिन्दू क्रमादेव तत्वज्ञानी शिवे त्यजेत् ।
प्. १४५)
ततः स्थूलदेहं विशोधयेत् । पार्थिवं मण्डलं पीतं
कठिनं वज्रलाञ्छितं । *?मिति पार्थिवबीजेनाधिनायकेन
सद्योजातेनाधिष्ठितं ब्रह्मणा कारणेश्वरेण
-------------------------------------------
२ पा विरेचयन् ॥
३ पा- निवृत्य ॥
-------------------------------------------
(५८) युक्तं निवृत्तिकलारूपं चतुरश्रं पादादारभ्य
मूर्धान्तं विचिन्त्य, ओं ह्लां ह्लां ह्लां ह्लां ह्लां
निवृतिकलायै हः हुं फट्, इति पूरकपूर्वं सुषुम्नायां
यावद्द्वादशान्तं प्राणवायुं प्रेरयित्वा, प्रतिनिवर्त्य,
दक्षिणनाड्या रेचयेत् । इत्युद्घातपञ्चकेन
गन्धरसरूपस्पर्शशब्दगुणानुत्सार्य, पृथ्वीं
स्वविरुद्धवायुनाभिभूतां तदाकारान्वितां चिन्तयेत् ॥
तदनु आप्यं मण्डलं द्रवस्वभावमर्धचन्द्रनिभं सौम्यं
शुभ्रमंभोजलाञ्छितं ह्रीमित्याप्य
प्. १४६)
बीजेन वामदेवेनाधिनायकेनाधिष्ठितं विष्णुना कारणेश्वरेण
युक्तं प्रतिष्ठाकलारूपं ।
(ह्रीं) पूर्ववद्विभाव्य, पूर्वोक्तवदुद्घातचतुष्टयेन
रसादिगुणचतुष्टयमुत्सार्य, जलं स्वविरुद्धवङ्गिनाभिभूतं
तदाकारं भावयेत् ॥
ततः आग्नेयं मण्डलं त्र्यश्रं रक्तं स्वस्तिकलांछितं
ह्रूमिति वङ्गिबीजेनाधिनायकेनाघोरेणाधिष्ठितं रुद्रेण
कारणेश्वरेण युक्तं विद्याकलारूप (ह्रूं) मुद्घातत्रयेण
रूपादिगुणत्रयमुत्सार्य, तद्धि? स्वविरुद्धजलेनाभिभूतं
तदाकारं भावयेत् ॥
पश्चात् षडश्रं मण्डलं वायोर्बिन्दुभिष्षड्भिरङ्कितं
कृष्णं ह्यैमिति वायुबीजेनाधिनायकेन तत्पुरुषेणाधिष्ठितं
ईश्वरेण कारणेश्वरेणान्वितं शान्तिकलारूपमुद्घातद्वयेन
स्पर्शशब्दगुणद्वयमुत्सार्य, वायुं
स्वविरुद्धपृथिव्याभिभूतस्वरूपं तदाकारं चिन्तयेत् ॥
प्. १४७)
तदनु नभोमण्डले व्योमाकारं शुद्धस्फटिकसन्निभं
शून्यं बिन्दुशक्त्या विभूषितं हौमिति
नभोबीजेनाधिनायकेनेशानेनाधिष्ठितं कारणेशेन
सदाशिवेनोपेतं शान्त्यतीतकलामयं पूर्ववद्विभाव्य,
पूर्वोक्तवदेकेनोद्घातेन शब्दगुणमुत्सार्य,
अनित्यत्वाव्यापकत्वाशुद्धत्वादि स्वस्वरूपं विमुच्य,
नित्यत्वव्यापकत्वशुद्ध?त्वादियुक्तपरमाकाशाभिभूत-
स्वरूपं भावयेत् ॥
ततोऽस्त्रेण
पादाङ्गुष्ठोत्थितेनाग्निनाऽरब्धशरीरगतभूतदोषान् दग्ध्वा
आप्लावयेत् ॥
(५८) यद्वा स्वदेहं पृथिव्यादिभूतबीजं
ब्रह्मविष्णुभ्यामुद्भिन्नांकुरं रागद्वेष
धर्माधर्ममोहमूलं विद्याविद्याधिपतिपालितं
कलादितत्वसारं तन्मात्रेन्द्रियशाखोपशाखं
विषयालोचनपल्लवं भावप्रपञ्चकुसुमं
बुद्ध्यध्यवसायसंकल्पफलं पुरुषविहङ्गोपभोग्यं
भोग्यभोक्तृत्वरसमूर्ध्वमूलमधश्शाखं
प्. १४८)
वटतरुरूपं सञ्चिन्त्य प्रथमपूरकार्धेन
निवृत्तिकलाबीजोच्चारपञ्चकेन पत्रपुष्पफलरहितं स्तब्धं
विभाव्य, पूरकापरार्धेन प्रतिष्ठाकलाबीजस्य चतुर्धोच्चारेण
स्निग्धं पत्रपुष्पफलोपेतं विचिन्त्य,
कुंभकप्रथमापरार्धाभ्यां विद्याकलाबीजोच्चारत्रितयेन
सव्यपादाङ्गुष्ठोत्थितकालाग्निना शुष्कं पत्राद्यपेतं
दग्धञ्च विभाव्य, रेचकपूर्वार्धेन शान्तिकलाबीजोच्चारद्वयेन
भस्मीभूतं दशदिक्षु प्रलीनं विभाव्य, रेचकापरार्धेन
शान्त्यतीताकलाबीजैकोच्चारेण शुद्धस्फटिकरूपं व्योमरूपं
सञ्चिन्तयेत् ॥
ततो बन्धकरूपं सर्वशून्यमिति विभाव्य, वौषडन्तमूलेन
शिखान्तरुस्थाधोमुखपद्मस्रवदमृतधाराभिः
सकलनाडीमुखं प्रविष्टाभिः स्वबाह्याभ्यन्तरं
सर्वशरीरमाप्लाव्य,
प्. १४९)
हृदये नालपत्रकर्णिकारूपं पद्ममकारादिमात्रात्रययुक्तेन
प्रणवेनावतीर्णं शुद्धविद्यात्मकमासनं विन्यस्य,
तत्कर्णिकायां पुर्यष्टकं चतुष्कलेन प्रणवेनावतीर्णं
भावयित्वा, तस्मिन् द्वादशान्तस्थं बीजरूपं
शिवमयमात्मानं पञ्चकलेन प्रणवेन पूरकेण सृष्ट्या
समानीय, ज्योतीरूपं संस्थाप्य, वौषडन्तशक्तिमन्त्रोच्चारेण
क्षुब्धशक्तिबहुलामृतप्रवाहेणाभिषिञ्चेत् ॥
(प्र) अथार्चनोपकरणानयनक्रममुपवर्ण्य यो वेत्ति
पञ्चशुद्धिन्तु स पूजां कर्तुमर्हति इति श्रीमद्वातुलवचनेन
शिवीभूय शिवं यजेत् इति श्रुतेश्च
सकलीकरणपरभावनालम्बनादिना शिवीभूय अन्तर्बहिश्च
शिवं यजेदिति हृदि निधाय तत्र प्रथमं
आत्मशुद्ध्युपवर्णनतत्परः, तस्या
भूतशुद्ध्यन्तर्यजनहवनसमाधिसमाहारात्मकत्वात्
प्. १५०)
तेष्वपि पूर्वं भूतशुद्धिविधिमुदाहरति (देवस्य) इत्यादिनी
(६०) (अभिषिञ्चेत्) इत्यन्तेन । किमत्र भूतशुद्ध्यादिना क्रियत इति
चेदुच्यते, समयिनां तावत् सर्वमन्त्रप्रसाध्यानां यास्स्थिता *
व्यक्तशक्तयः विघ्नभूता निरोधिन्यस्तासां दाह इहेष्यते ॥
दाहश्चाप्तसवस्तासां निरोधो वा तदां स्मृतः । इति ।
निर्वाणदीक्षितानान्तु
अनेकभविकं कर्म दग्धं बीजमिवाणुभिः ।
भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः ॥
इति दीक्षायामक्षपितस्य प्रारब्धकार्यस्य कर्मणः
प्रत्यहमुपभोगेन क्षीयमाणस्यापि वासनायाः संभवात्
तस्यास्तदनुरोधेन स्थितस्य भोक्तृत्वविषयासक्तिजनकस्य
मलांशकस्य तत्साधनशरीरेन्द्रियजनकस्य मायांशस्य
प्. १५१)
च प्रत्यहमंशाशिकयाऽपचयः क्रियते इति समाख्यातं श्रीमता
सूक्ष्मस्वायम्भुववृत्तिकारेण । (देवस्य) आराध्यस्य ।
दक्षिणदिग्भागे । अघोरसन्निधावित्यर्थः ।
उत्तरदिग्भागावस्थितस्य देवानुकूल्येन उत्तरास्यानुपपतेः ।
तथा न प्राच्यामग्रतश्शंभोर्नोत्तरे योषिदाश्रये ।
न प्रतीच्यां यतः पृष्ठं तद्वक्षे देवमर्चयेत् ॥ इति ।
अत्र प्राच्यामग्रतश्शंभोरित्युक्तेः पूर्वाभिमुखत्वं
परमेश्वरस्य प्रतिपादितमेव । न प्रतीच्यां यतः पृष्ठमिति
पश्चिमभागे देवस्य पृष्ठसद्योजातवक्त्रस्य
पृष्ठग्रीवोपरिस्थितत्वं युक्तमेवेत्युक्तं
श्रीमद्वालज्ञानरत्नावल्याम् । (ब्र?स्याद्यासने) ब्र?सी
दर्भासनम्) व्याघ्राजिनादिरादिशब्दार्थः ।
तथा श्रीमत्सूक्ष्मे नासनं दर्भदारुं च सारङ्गञ्चर्म चैव
च । व्याघ्रचर्म सरोमापिं रत्नकंबलमासनम् ।
प्. १५२)
इति । व्रतिनामासनं ब्रसी इत्यमरः ।
सुखासनं तावत् पद्माद्यासनेषु सुस्थाभिधानमासनम् ।
तदुक्तं श्रेयस्सुस्थं सुखासनम् इति ।
अथार्चाभवने शुद्धे शस्त्रप्राकाररक्षिते ।
वर्मगर्भे शिवीभूय बहिरन्तश्शिवं यजेत् ॥
इति श्रीमन्मृगेन्द्रश्रुतेः शिवधामसंरक्षणक्रममाह
(अस्त्रप्राकार) इति । ततः किं विदधीत्याह (शिवीकरणम्) इति ।
शिवीकरणं तावत् आत्मनो विशेषशुद्धि साधनं कर्म ।
यदाह श्रीमत्सर्वज्ञानोत्तरवृत्तिकारः ।
अथातस्संप्रवक्ष्यामि शिवीकरणमुत्तमम् इत्यत्र शिवत्वं
सर्वज्ञत्वसर्वकर्तृत्वात्मकमुच्यते ।
तेन च नित्येनानावृतेन योगात् परमेश्वरः शिवोऽभिधीयते ।
तच्च शिवत्वमात्मनामनादिना अशुद्धिपर्ययेण मलेनावृतत्वात्
न सर्वविषयं प्रकाशते । तदुक्तमाचार्यैरपि न सर्वत्रयुगपत्
शिव
प्. १५३)
(६२) त्वं विराजते इति । अतश्च शिवोऽत्र शुद्धोऽभिधीयत इति ।
मलादियुक्तस्त्वशिवोऽशुद्धः । किञ्च येनेदं तद्धि भोगतः इति
श्रीमत्किरणश्रुतेः
असद्योनिर्वाणदीक्षायामारब्धकार्यकर्मभोगोपरोधेन सर्वथा
मलस्याक्षपितत्वात् प्रत्यहमपचयक्रमेण दीक्षोत्तरं
शिवीकरणार्चनादिना सोऽपनेय इति तावन्मात्रया शुद्ध्या
युक्तस्यात्मनः सामान्यशुद्धिभेदात् वक्ष्यमाणात्
स्नानादेरनन्तरं शुद्धिहेतुत्वादेव हेतोरुत्तमं
विशेषशुद्धिसाधकं शिवीकरणं संक्षेपप्रकर्षतो वक्ष्यामि
इति । अशिवः शिवः संपद्यमानः क्रियते अनेनेति
शिवीकरणशब्दार्थः तत् कथमित्याचष्टे (तत्र) इति ।
(तत्र) शिवीकरणे (करन्यासं विधाय) इति । अत्र पूर्वं
प्. १५४)
करन्यासाङ्गन्यासद्वये कृते सति हृदयादिस्थानन्यस्तमन्त्राणां
दाहप्रसङ्गः ।
अतः पूर्वं करन्यासमात्रं कर्तव्यमिति व्याहृतं
श्रीमद्बालज्ञानरत्नावल्याम् । तदनु किं विदधीतेत्याशंक्य
सुषुम्नावर्त्मना आत्मनो गमनागमनस्य करणीयत्वात् पूर्वं
तद्ध्यानमाह (पादाङ्गुष्ठद्वयात्) इति । (यावद्वस्ति)
यावन्मूलाधारः तावदवधिरित्यर्थः ।
तथा श्रीमत्सुप्रभेदे वस्तिश्चतुष्कलापत्रः कमलस्तेजसां निधिः
इति । वस्तिनार्भेरधो द्वयोः इत्यमरः । (ब्रह्मविलान्तम्)
यावद्ब्रह्मरन्ध्रम् । (हृत्कण्ठादिषु) इति ।
आदिपदेन तालुभ्रूमध्यब्रह्मरन्ध्राणि गृह्यन्ते ।
(इडापिङ्गलाभ्यां संयुक्ताम्) इति । अत्र कलेवरस्य वामभागे
इडानाडी दक्षिणे पिङ्गलानाडी मध्ये सुषुम्नानाडी ।
तथा सर्वज्ञानोत्तरे
प्. १५५)
वामनासापुटे यातु इडा सा परिकीर्तिता । दक्षिणे पिङ्गला ज्ञेया
सुषुम्ना मध्यतस्स्थिता ॥ इति । (सुषिररूपाम्) सरन्ध्राकाराम् ।
सरन्ध्रे सुषिरं त्रिषु इत्यमरः । (सञ्चिन्त्य) इति । विद्युल्लेखामिव
भास्वरां विभाव्येत्यर्थः । (तस्या एव) षुषुम्नाया एव ।
(परमव्योमरूपिणीं शक्तिम्) इति । परमव्योम परमाकाशं
कुण्डलिन्याख्यं रूपं अधिष्ठेयं यस्यास्तां तादृशीं
तद्द्वारा आत्मनः सूक्ष्मदेहस्थस्याधिष्ठात्रिं ततः
प्रवर्तितेनामृतेन च वर्षन्तीं शिवशक्तिमित्यर्थः । एवं
समादिष्टं श्रीमत्सर्वज्ञानोत्तरवृत्तिकारैः । (मध्ये)
सुषिरमध्यस्थायाश्शक्तेरन्तराले । तथा श्रीमत्सर्वज्ञानोत्तरे
सुषिरान्ते बहिश्शक्तिं विन्यसेद्व्योमरूपिणीम् । तस्या मध्ये तु
हूंकारं ज्वलन्तं पावकप्रभम् ॥ इति । (हूंकारम्)
शिखाबीजम् ।
प्. १५६)
(ज्वलन्तम्) प्रदीपवत् प्रकाशमानम् । तदनन्तरकरणीयान्याह
(पूरकम्) इति । पूर्वं अशुद्धं मारुतं विरेच्य, बहिष्ठेनं
शुद्धेन मारुतेन यथाशक्ति मूर्तेः पूरणम् ।
(कुंभकम्) रेचकात्मकं त्यागं पूरणरूपं संग्रहञ्च
त्यक्त्वा अन्तस्स्थस्य वायोर्निरोधात् कुम्भीकृत्यावस्थापनम् ।
तथा श्रीमत्तन्त्रसारे रेचयेद्देहगं वायुमशुद्धं
व्योमसंस्थितम् । शुद्धं वायुं पूरकेण समाहृत्य
शनैश्शनिः ॥ इति । तद्रुक्तञ्च श्रीमन्मृगेन्द्रे वाह्येन वायुना
मूर्तेश्शक्तिसीमप्रपूरणम् । पूरकस्स तदभ्यासात् सुमुर्वपि
विकर्षयेत् ॥ त्याग?संग्रहणे हित्वा निरोधः कुंभकस्स्मृतः । इति ।
(वायुम्) कुंभितमारुतम् । (ऊर्ध्वम्) यावद्द्वादशान्तम् ।
(विरेचयेत्) हृदयपुण्डरीकस्थं वायुं ब्रह्मरन्ध्रेण
विनिक्षिपेदित्यर्थः ॥
प्. १५७)
(हूं फट् इति सन्ततोच्चारेण) इति । पुरा भावितशिखाबीजं
फडन्तं विधाय तन्मन्त्रस्य निरन्तरपञ्चवारपठनेनेत्यर्थः ।
तथा श्रीरामनाथपद्धत्यां
शिखां समुच्चरेन्नाभेरूर्ध्वं तां दीपिकाकृतिम् ।
ध्यात्वा तया मनःप्राणयुक्तया ग्रन्थिपञ्चकम् ॥
सुरेचकं फडन्तां तामेकैकस्यैकशो वदन् । इति । (भिन्नग्रन्थीन्)
भिन्नाः दलिताः ग्रन्थयः दलसन्धयः येषान्ते भिन्न ग्रन्थयः
तान् । अत्र हृदयकण्ठतालु भ्रूमध्यब्रह्मरन्ध्रेषु
अधोमुखमवस्थितं कमलमुकुलबृन्द पूरकेण विकसितं,
कुंभकेन रोधितं ऊर्ध्वरेचकेन ऊर्ध्वमुखञ्च भवतीति
तात्पर्यम् । तथा श्रीमत्समानतन्त्रे
विकसति च वै पद्मं पूरकेण तु पूरितम् ।
ऊर्ध्वस्रोतो भवेत् पद्मं कुंभकेन तु रोधितम् ॥
इति । (विरेच्य) वायुं बहिः क्षिप्य ।
तत्स्थं गृहीत्वा चात्मानं रेचनाद्बिन्दुं मध्यगम् ।
कृत्वा कायं दहेत् पाशादस्त्रं सञ्चिन्त्य तैजसम् ॥
(प्.१५८)
इति श्रीमत्किरणश्रुतेः
शरीरदाहायात्मनश्शिवसंयोजनप्रकारमाह (पुनः
पूरकवायुना) इति । (संहृतचैतन्यम्) संहृतं चैतन्यं चेतनस्य
भावः कर्म वा दृक्क्रियारूपमित्यर्थः । तत् यस्य स तथोक्तः तम् ।
तथा श्रीमन्मृगेन्द्रे चैतन्यं दृक्क्रियारूपम् इति ।
(हृत्कमलाश्रितम्) इति । अत्र हृत्प्रदेश एव
पुर्यष्टकाख्यसूक्ष्मदेहस्थस्यात्मनोऽनुसन्धेयमित्यवधेयं
इत्युक्तम् श्रीमत्सर्वज्ञानोत्तर वृत्तिकारैः ।
(स्फुरत्तारकाकारम्) देदीप्यमाननक्षत्राकृतिम् ।
(सान्तबीजमयम्) सान्तः हकारः बीजं अक्षरं
बिन्दुयुक्तहंकाराक्षरात्मकमित्यर्थः । तथा
श्रीमद्वातुलशुद्धाख्यायां
नादं गुह्यं परो जीवो देहं भूतञ्च पञ्चमम् ।
सान्तं तत्वान्तभूतान्तं शिवान्तं शून्यमव्ययम् ॥
वर्णं बीजं तथाऽर्णञ्च लिपिरक्षरमातृकाः ।
एते वै बद्ध नामानि वर्ण पर्यायवाचकाः ॥
प्. १५९)
इति । तथा चाह श्रीमत्किरणवृत्तिकारः
बीजञ्चात्र प्रागुक्तमन्त्रारम्भकं प्रणवादि इति ।
(हृत्संपुटितम्) हृत्संपुटं कृतं हृद्वीजमध्यममित्यर्थः ।
(हूंकारमूर्ध्नि विन्यस्य) इति । प्राणवृत्तिनिरोधवशेन
हूंकारशिखारूढं कृत्वेत्यर्थः (बीजविग्रहम्) बीजमेन
सान्तात्मकं प्रोक्तवद्धृदयसंपुटं विग्रहो रूपं यस्य स
तथोक्तः तम् । (हूंकारशिखान्तस्थम्) हूंकारमूर्ध्नि
विन्यस्तत्वात् तच्छिखान्तस्थमित्यर्थः । एवमुक्तं
श्रीमत्सर्वज्ञानोत्तरवृत्तिकारैः । (पुर्यष्टकावच्छिन्नम्)
पुर्यष्टकाख्येनोपाधिना अवच्छिन्नम्
अत्र पुर्यष्टकं नाम प्रतिपुरुषनियतः सर्गादारभ्य
आकल्पान्तं मोक्षान्तं वाऽवस्थितः पृथिव्यादिकलान्त
त्रिंशत्तत्वात्मकोऽसाधारणरूपः सूक्ष्मदेहः । तथा
श्रीमत्तत्वसङ्ग्रहे
वसुधाद्यस्तत्वगणः प्रतिपुंनियतः कलान्तोऽयम् ।
प्. १६०)
पर्यटति कर्मवशतो भुवनजदेहेष्वयञ्च सर्वेषु ॥
इति । ननु
शब्दस्स्पर्शश्च रूपञ्च रसो गन्धरुप पञ्चमः ।
बुद्धिर्मनस्त्वहङ्कारः पुर्यष्टकमुदाहृतम् ॥
इति श्रीमत्कालोत्तरे श्रूयते । सत्यं अत एव तत् सूत्रं तत्र भगवता
रामकण्ठेन सड्त्रिंशत्तत्ववाचकतया व्याख्यातम् । कथं
पुनरस्य पुर्यष्टकत्वम् ?
भूततन्मात्रकर्मेन्द्रियबुद्धीन्द्रियान्तः करणसंज्ञैः
पञ्चभिर्वर्गैस्तत्कारणेन गुणेन तदापूरकेण प्रधानेन
कलादिपञ्चकञ्चुकात्मना वर्.गेणारब्धत्वादित्यविरोधः इति ।
(पुरुषम्) आत्मानम् । क्षेत्रज्ञ आत्मा पुरुषः इत्यमरः ।
पुरुषशब्दस्य तु निर्वचनमुदाहृतं
अव्यक्तं मन इत्याहुश्शरीरं पुरमुच्यते ।
अव्यक्ताख्ये पुरे शेते पुरुषस्तेन चोच्यते ॥
इति । (बिन्दुभूतम्) मन्त्रोच्चार
प्. १६१)
लयक्रमेण परमकारणबिन्दुस्वरूपम् । (एकाकिनम्)
सूक्ष्मशरीरेण मुच्यमानम् । तथा श्रीरामनाथपद्धत्यां
क्रमाच्छिसैकोच्चारेण देहं सूक्ष्ममपि त्यजन् । बिन्दुं
नादात्मना प्राप्यं इति । (निरामयम्) निर्गतः आमयः
अविद्यादिक्लेशः सत्वादिगुणश्च यस्य स तथोक्तः तम् ।
संहारमुद्रालक्षणमुक्तं मुद्रालक्षणे ।
अथ संहारिणी कनिष्ठाद्यङ्गुलिचतुष्टयानामङ्गुष्ठमूले
क्रमेण संयोजनात्मिका गृह्यसन्निधौ प्रदर्श्या इति ।
(ब्रह्मादिकारणत्यागक्रमेण) ब्रह्मा आदिर्येषां तानि
ब्रह्मादीनि तानि च तानि कारणानि च तेषां त्यागः विसर्जनं तस्य
क्रमः तेन । विष्ण्वादिरादिशब्दार्थः । अत्र त्यागक्रमः
हृदयकमलमध्ये ब्रह्मणस्त्यागः कण्ठकमले विष्णोस्त्यागः
तालुकमले रुद्रत्यागः भ्रूमध्ये महेश्वरत्यागः ब्रह्मरन्ध्रे
सदाशिवत्यागः इत्यवसेयः । (उद्घातेन) ऊर्ध्वं घातः
प्. १६२)
उद्घातः उदानवृत्त्या? वायोर्द्वादशान्तं यावत् प्रेरणं तेन ।
तथा श्रीमत्सर्वज्ञानोत्तरे
सन्निरोधे कृते सम्यमूर्ध्वं वायुः प्रवर्तते ।
स उद्घात इति ख्यातस्स्वेच्छया तु कनीयसः ॥
इति । तथा श्रीमन्मतङ्गे
ऊर्ध्वमाघातधर्मित्वात् साटोपाद्ग्रन्थिभेदनात् ।
उद्घाटनाच्च ग्रन्थीनामुद्घातः परिभाष्यते ॥
इति । वक्ष्यति च पूरकपूर्वं सुषुम्नायां यावद्द्वादशान्तं
प्राणवायुं प्रेरयित्वा प्रतिनिवर्त्य? दक्षिणनाड्या
विरेचयेत्दित्युद्घातपञ्चकेन इति । स्यादभ्यादानमुद्घातः
इत्यमरः । आत्ममन्त्रोद्धारः प्रदर्शितः
श्रीमत्सोमशंभुचरणैः
हङ्कारन्तारकाकार जीवं हृदयसंपुटम् ।
पूरकाहृतचैतन्यं हूंशिखोपरि विन्यसेत् ॥
इति । (भोग्यकर्मोपभोगार्थम्) भोग्यकर्म तावत्
वर्तमानदेहारंभकं दीक्षायामक्षपितं प्रारब्धकर्म
तस्य भोगार्थम् । अत्र पुनरप्यादानाय
प्. १६३)
न तु स्वेच्छोत्क्रान्ति वदपुनरावृत्तये इत्याकूतम् । तथा
श्रीमत्कामिके
योजनं देशिकः कुर्याद्रक्षार्थं भोग्यकर्मणः ।
अधिकारवशाद्भूयो देहित्वं प्रतिपद्यते ॥
इति । (द्वादशान्ते) द्वादशान्तपद्मस्थे इत्यर्थः । तथा
श्रीमत्सुप्रभेदे
संहारमुद्रयाऽत्मानं शिखाग्रे द्वादशाङ्गुले ।
पद्मस्थे योजयेद्विद्वान् इति (संयोजयेत्) रश्मिमात्रावियोगेन
प्रवेशयेत् ॥
ननु आत्मनोऽपि व्यापकत्वेन गमनासंभवात्
पुर्यष्टकद्वारेणात्र गमनमभ्युपगम्यते सूक्ष्मदेहस्यापि
शोध्यत्वेन एकाकिनमिति विशेषणेन हेयतयोक्तत्वाच्च कथमसा
वात्मा तद्विरहितो द्वादशान्तं यावन्नेय इत्याशंक्याह (एवम्) ।
(एवम्) पूर्वोक्तप्रकारेण ।
प्. १६४)
(बीजवृत्त्या) बीजविग्रहमित्युक्तत्वेन मन्त्रबीजवृत्त्या नादात्मनेति
यावत् । नादस्य हि पुर्यष्टक विरहेऽप्यविनाभावः । एतदुक्तं
भवति शिवशक्त्यधिष्ठितया आत्मनः क्रियाशक्त्या सूक्ष्मदेहो
नीयते । यदुक्तं श्रीमत्समानतन्त्रे शक्त्याऽनुनीयते जीवः इति ।
तत्त्यागे तु मन्त्रबीजवृत्त्या विन्दुभूतस्सन्नधिष्ठात्र्या
शिवशक्त्या सह शिवपदे प्रवेशमात्मनोऽनुसन्दध्यात् ।
ततस्तत्र प्रवेशो भवतीति । तथा श्रीरामनाथपद्धत्यां
बिन्दुर्नादात्मना प्राप्य शिवे शक्त्या लयं गतः इति । (लीनः)
व्याप्तिरूपेण । तत्तुल्यतां गतः । यच्छूयते लयस्तत्तुल्ययोग्यता इति ।
ततः किं कुर्यादित्याकांक्षायां सूक्ष्मदेहं शोधयेदित्याह
(सूक्ष्मदेहविशुद्धये) इति ।
द्वयोरप्यध्वनोरेवं क्रमप्रसवयोगिनोः ।
विलयः प्रातिलोम्येन शक्तितत्वं द्वयावधिः ॥
प्. १६५)
इति श्रीमन्मृगेन्द्रश्रुतेः तत्वानां सृष्टिक्रमवैपरीत्येन लयो
विधेय इत्याह (प्रतिलोम्येन) इति । कारणे हि कार्यस्य लयः नत्वन्यत्र
इति मनसि निधाय स्वकारणलयक्रममाह (स्वेषु) इति । स्वेषु स्वेषु
कारणेषु) स्वस्वोपादानेषु इत्यर्थः । (तत्वानि)
पृथिव्यादिषट्त्रिंशत्तत्वानि । (बिन्दुपर्यन्तम्) कुण्डलिनीपर्यन्तम् ।
(लयम्) उपसंहारम् । (नयेत्) प्रापयेत् । अत्र यत एव यस्य
प्रसवस्तस्यैव तत्रान्तर्भाव इति तात्पर्यम् ।
तत् कथमित्याह (तद्यथा) इति । (तत्) तत्वलयनम् । (यथा) यथा
स्पष्टं तथोच्यते । (गन्धे) गन्धतन्मात्रे । (पृथिवीम्) पृथिवीतत्वम्
। लयं नयेदिति पूर्वेणान्वयः । एवं सर्वत्र योजनीयम् ।
अनन्यादिभूतपञ्चकं
प्. १६६)
गन्धादिपञ्चतन्मात्रेभ्यः सञ्जातं ततः स्वकारणेषु तेषां
लयः । तथा श्रीमन्मृगेन्द्रे मात्रेभ्यो भूतपञ्चकम् इति ।
(एतास्तन्मात्राः) पूर्वोदीरितगन्धादय इत्यर्थः । तथा तत्रैव
शब्दस्स्पर्शश्च रूपञ्च रसो गन्धश्च पञ्चमः ।
गुणावशिष्टास्तन्मात्रास्तन्मात्रपदयोजिताः ॥
इति । (तामसाहंकारे) भूतादिसंज्ञके आहंकारिकतृतीयस्कन्धे
इत्यर्थः । कस्मात् तन्मात्राणि सञ्जातानि ।
(वाक्पाणिपादपायूपस्थाख्यानि) वाक्य पाणिश्च पादश्च पा-
(६६) युश्च उपस्थश्च वाक्पाणिपादपायूपस्थाः । एते इति आख्या
संज्ञा येषां तानि तथोक्तानि कर्मेन्द्रियाणीत्यर्थः ।
(राजसाहंकारे) वैकारिकाख्ये
प्. १६७)
आहंकारिकद्वितीयस्कन्धे । एतस्मात् वागादीनि समुत्पन्नानि ।
(श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि) इति । ज्ञानेन्द्रियाणीत्यर्थः ।
कर्मेन्द्रियन्तु वाय्वादि मनोनेत्रादि धीन्द्रियम् इत्यमरः ।
(सात्विकाहंकारे) तैजसापरपर्याये आहंकारिकप्रथमस्कन्धे ।
अमुष्मात् श्रोत्रादीनि मनश्च समुदितानि । तथा श्रीमत्पौष्करे
स च त्रिविध उद्दिष्टः प्रथमस्तत्र तैजसः ।
वैकारिको द्वितीयस्स्यात् तथा भूतादिकः परः ॥
सत्वेनोत्कृष्टभागो यस्स तैजस इहोच्यते ।
वैकृतो रजसोत्कृष्टो भूतादिस्तमसाऽधिकः ॥
तैजसादप्यहंकारान्मनो बुद्धीन्द्रियाणि च ।
पञ्च कर्मेन्द्रियाणि स्युरहंकारात्तु वैकृतात् ॥
अहंकारातु भूतादेर्जाता तन्मात्रसङ्गतिः ।
इति । (स च) अहंकारः । बुद्धितत्वात् अहंकारः संभूतः ।
प्. १६८)
तथा बुद्धितत्वादहंकारो जातस्सोपि त्रिधा भवेत् इति । (सा) बुद्धिः ।
गुणेभ्यो बुद्धिः सञ्जाता । तथा श्रीमत्तत्वप्रकाशे भवति
गुणत्रयतो घीः इति । प्रकृतेराविर्भूतं गुणतत्वम् । तथा
श्रीमच्चिन्त्ये अनेकगुणसंयुक्तप्रकृतेस्तु गुणत्रयम् इति । (सा)
प्रकृतिः । कलातत्वात् प्रकृतिरागविद्यातत्वानि संभवन्ति । तथा
श्रीमद्रौरवे कलातत्वाद्रागविद्ये द्वे तत्वे संवभूवतुः ।
अव्यक्तञ्च इति । (पुंस्तत्वम्) पुरुषतत्वम् । तथा श्रीमत्पौष्करे
शृणुध्वमथ पुंस्तत्वं यथावन्मुनिपुङ्गवाः ।
पञ्चकञ्चुकसंयुक्तः प्रकृतिं भोक्तुमुद्यतः ॥
अविद्यादिसमायुक्तः पुरुषः परिकीर्तितः ।
इति । अत्र कलादिपञ्चतत्वोपबृंहितोऽणुः पुंस्तत्वनिर्देशं याति ।
न तु परमार्थतरतस्य तत्वत्वम् ।
प्. १६९)
यत आत्मनो नित्यत्वं तत उत्पत्त्यभावान्मायायां लय
इत्युपचारत इति तात्पर्यम् । कालनियतिकलाः मायातत्वात् प्रादुरासन् ।
तथा श्रीमच्चिन्त्ये
अनन्तशक्तिरूपाया मायातः कालसंभवः ।
पुनश्च माया नियतिं जनयामास वै तदा ॥
सैव माया पुनश्चैव कलामजनयत् क्रमात् इति । मायायाः
परमकारणत्वेन नित्यत्वात् कुतश्चिदुत्पत्तिलयौ न विद्येते । तथा
श्रीमत्सूक्ष्मस्वायम्भुवे मायातत्वं
जगद्बीजमविनाश्यव्ययात्मकम् । इति । उक्तमर्थमुपसंहरति (एवम्)
इति । (विभाज्य) इति । अत्र तत्वानीति शेषः । ततः किमित्याकांक्षायां
सूक्ष्मदेहस्थतत्वप्रेरकशुद्धतत्वलयं विदधीतेत्याह
(शुद्धविद्यातत्वम्) इति । (तत्) ईश्वरतत्वम् । (तत्) सदाशिवतत्वम् ।
(तच्च) शक्तितत्वम् ।
प्. १७०)
(तदपि) शिवतत्वञ्च । विन्दोः शिवतत्वं तस्माच्छक्तितत्वं तस्मात्
सदाशिवतत्वं एतस्मादीश्वरतत्वं अमुष्मात् शुद्धविद्यातत्वं
प्रादुरभूत् । तदुक्तं श्रीमज्ज्ञानसिद्धौ
शिवेच्छया कुटिलोत्पन्नं नादतत्वं प्रधानकम् ।
नादमध्योदितो बिन्दुश्शिवशक्त्यर्थनामकः ॥
इत्यादि । (अक्षुब्धरूपे) अक्षुब्धं निर्विकारं रूपं यस्य सः
अक्षुब्धरूपः अस्मिन् शान्त्यतीतकलाभागलक्षण इत्यर्थः ।
(बिन्दौ) कुण्डलिन्याम् । अत्र बिन्दुः परमोपादानत्वात् कार्त्स्न्येन न
विक्रियते किन्तु घृतकीटन्यायेन एकदेशेन । तथा च
सविकारनिर्विकारयोर्मध्ये निर्विकारापरपर्यायः
योऽक्षुब्धभागः तल्लक्षणे बिन्दौ तत्वलय इति तात्पर्यम् । तथा
श्रीमत्पौष्करे
प्रकृतित्वादयं बिन्दुः क्षोभ्यते नाखिलात्मना ।
प्. १७१)
तत्र योऽक्षुब्धभागोऽस्य शान्यतीतकला तु सा ॥
लयादिभेदः प्रागुक्तो यदुपाधौ शिवस्य तु ।
स बिन्दुरिति मन्तव्यस्सैव कुण्डलिनी मता ॥
इति ॥ पृथिव्यादितत्वलयप्रकारः श्रीमद्गुरुभिः
पद्यरूपेणाभिहितः
गन्धे भूस्सलिलं रसे हुतवहो रूपे मरुत् स्पर्शने,
शब्दे स्यात् खमहङ्कृतौ पुनरिमास्तन्मात्रकास्तामसे ।
कर्माक्षाणि च राजसे सह मनो बुद्धीन्द्रियैस्सात्विके,
बुद्धौ सा च गुणेषु सा? गुणगणोऽव्यक्ते लयं गच्छति ॥
तद्रागविद्ये च कलां प्रयान्ति पुंस्त्वञ्च कालो नियतिः कला च ।
मायां सुविद्येशमसौ सदेशं स शक्तिमेषा शिवमेष बिन्दुम् ॥
इति ।
प्. १७२)
अत्र शब्दस्पर्शौ त्यजेद्ब्राह्मे इत्यादिकारिका क्वचित् कैश्चित्
प्रक्षिप्तेत्युपेक्षिता ॥
इत्थं सूक्ष्मदेहशुद्धिविधिमभिधाय
स्थूलशरीरशोधनविधानमभिधत्ते (ततः) इति ।
स्थूलदेहस्तावत् जातिकुलाद्यभिमानास्पदं पृथिव्यप्तेजो
वाय्वाकाशानां समवायः साधारणासाधारणरूपं
भुवनजं भूतशरीरमित्युच्यते (तदुक्तं?
शरीरं त्रिविधं प्रोक्तं स्थूलं लिङ्गं परं स्मृतम् ।
स्थूलं भूतशरीरञ्च लिङ्गं पुर्यष्टकं भवेत् ॥
परं बिन्दुसमुत्पन्नं त्रिविधं समुदाहृतम् ।
इति । (विशोधयेत्) विशेषेण शुद्धिं विदधीत । तत्र च
स्थूलसूक्ष्मदेहस्थानां तत्वानां विषनिवृत्त्यर्थं
गरुडभावनावत् बन्धकत्वनिवृत्त्यर्थं विलयभावनैव शुद्धिः
न तु साक्षादुपसंहारः प्रत्यक्षविरोधात् श्रुति विरोधाच्च ।
प्. १७३)
तस्मात् बाह्यदेहस्थानि पृथिव्यादीनि पञ्चभूतानीतस्देव वस्त्विति
ध्यायेत् । तेष्वात्मभावनां न कुर्यादिति तात्पर्यम् । यदुक्तं
श्रीमत्स्वायम्भुवे
अथात्मनो वधं मन्त्री न कुर्यात् फलवाञ्छया ।
न च दुःखसमुत्पत्तौ कामतो देहमुत्सृजेत् ॥
इति । स्मृतावपि
असुर्या नाम ये लोका अन्धेन तमसाऽवृताः ।
तास्ते प्रेत्याभिगच्छन्ति ये चैवात्महनो जनाः ।
इति । तथा श्रीमत्सर्वज्ञानोत्तरे इतरद्वस्तु इत्येवं पञ्चभूतानि
निर्देशेत् इति । तत् कथमित्याकांक्षायां स्थूलदेहस्य भौतिकत्वात्
प्रातिलोम्येन पृथिवीतत्वं तद्वर्णस्वभावचिह्नादिकं विभाव्य
शोधयेदित्याह (पार्थिवम्) इति । (पीतम्) स्वर्णवर्णम् । अनेन वर्णो
निर्णीतः । (कठिनम्) कर्कशम् ।
प्. १७४)
अमुना स्वभावः प्रदर्शितः । (वज्रलाञ्छितम्) कुलिशांकितम् ।
एतेन चिह्नमुदीरितम् । (ह्लाम्) इति । हाकारः हृदयबीजं लकारः
पृथिवीबीजम् । तथा धारणानां लवरयहकाराश्चेति कीर्त्तिताः इति ।
अत्र लकारं हृदयबीजयुक्तं पार्थिवमण्डले मन्त्रत्वेन
प्रयोजयेदित्यवसेयम् । तथा श्रीमत्सर्वज्ञानोत्तरे
लकारासनमारूढं हृद्बीजं मध्यतस्स्थितम् । इति ।
तेन मन्त्रः कथितः । (अधिनायकेन) अधिष्ठात्रा । नायको नेतरि
श्रेष्ठे हारमध्यमणावपि इति विश्वः । (सद्योजातेन)
सद्योजाताख्येन । अनेन देवस्समाख्यातः । (कारणेश्वरेण)
कारणेश्वरसंज्ञेन । तथा श्रीमन्मन्त्रवार्तिके
कमलजकेशवरुद्रमहेश्वराह्य परश्शिवः ।
एते कारणेश्वरसंज्ञाः स्वस्वाध्वव्यापिनः स्व मन्त्रस्थाः इति ।
प्. १७५)
अनेन कारणेश्वरो निगदितः । (निवृत्तिकलारूपम्)
निवृत्तिकलाधिष्ठितम् । एवमाख्यातं श्रीमता
सोमशंभुपद्धतिव्याख्याकारेण । अस्मात् कला भाषिता ।
(चतुरश्रम्) चतुष्कोणम् । अमुष्मान्मण्डलमभिहितम् । तथा
श्रीमज्ज्ञानरत्नावल्याम् ।
भूताति तत्वगर्भाणि पञ्चचिह्नयुतानि च ।
स्वभावदेवसंस्थानकलामण्डलकारणैः ।
वर्णमन्त्रगुणस्थान प्रमाणादियुतानि च ।
इति । एवं प्रतिभूतमूह्यम् । ननु पृथिव्यादि भूतानि
शरीरैकदेशव्यापकत्वेन ध्येयानि किमित्याशंवय
पादादारभ्य मूर्द्धान्तं सञ्चिन्त्य चतुरश्रकम् इति श्रुतेः
बाह्यशरीरव्यापकत्वेनावस्थानाच्च तानि चात्र
सर्वशरीरव्यापकत्वेन ध्येयानि न तु दीक्षायामिव
जान्वादिव्याप्त्या इत्याह (पादादारभ्य) इति । तदनन्तरं किं
कुर्यादित्याशंक्याह (ओं हाम्) इति । विवृत्त्यादिकलामन्त्रोद्धारोपि
प्. १७६)
निर्दिष्टः श्रीरामनाथपद्धत्यां
यद्भूतं यत्कलारूपं तस्य बीजेन संयुतम् ।
नाम तस्याश्चतुर्थ्यन्तं सजात्यस्त्रान्तिमं वदन् ॥
इति । (उद्घातपञ्चकेन) उद्घातानामूर्ध्वरेचकाकाराणां
पञ्चकेन । पृथिव्याः पञ्चगुणनाशनाय पञ्चोद्घाताः
प्रोत्ततः । प्रत्युद्घातं पूरकाद्यास्त्रयः प्राणायामा
अर्थसिद्धा एव । यदुक्तं श्रीमत्त्रयोदशशतिके
एवं पञ्चदश प्रोक्ताः प्राणायामास्तु भूगताः ।
वारुणस्य दश द्वे च इत्यादि ।
(गन्धस्सरूपस्पर्शशब्दगुणान्) गन्धश्च सुरभ्यसुरभूरूपः
रससश्च कह?म्लादिः रूपञ्च पीतादि स्पर्शश्च अशीतोष्णरूपः
शब्दश्च खटखटादिः गन्धरसरूप स्पर्शशब्दाः ते इति गुणाः
तथोक्ताः तान् ।
अत्र गन्धगुणः रसगुणः इत्यायवधेयम् ।
(स्वविरुद्धवागुणा?) स्वरूपाः पृथिव्याः विरुद्धः शत्रुः स
चासौ वायुश्च तेन । सयमाभिमानः?
भूमिपवनयोर्जलानलयोश्च
प्. १७७)
एषा चतुर्णां बाध्यबाधकभावेन परस्परम?वस्थितेः शत्रुता
। भूमिजलयोः पवनानलयोश्चान्योन्यं पोषकत्वान्मित्रत्वम् ।
जलपवनयोः क्षित्यग्न्योश्च परस्परं न शत्रुभाव इति
मध्यस्थत्वमेषाम् । आकाशस्य तु
वायुवारिशिखिक्षितीनामवकाशदायित्वेन मित्रत्वमिति ।
तथा श्रीमन्मृगेन्द्रे
खं समस्तेषु भूतेषु वारिवायू शिखिक्षिती ।
वार्यग्नी भूमिपवनौ वारिक्ष्मे अनलानिलौ ॥
मध्यस्थासति मित्राणि इति । (अभिभूताम्) आत्तगन्धाम् ।
आत्तगन्धोऽभिभूतस्स्यात् इत्यमरः । (तदाकाराम्) वायुमयीम् ।
कठिनादिस्वभावं विहायं पवनस्वभावाभिभूतां
भावयेदिति भावः ॥
एवं पृथिवी भूतशुद्धिमुदाहृत्य
जलभूतशुद्धिक्रममाचष्टे (तदनु) इति । जलस्य स्वभावः
द्रवस्वरूपः । तथा श्रीरामनाथपद्धत्यां जलभूतं द्रवं
सौम्यम् इति ।
प्. १७८)
अर्द्धचन्द्रं द्रवं सौम्यम् इति क्वचित् पाठः । (ह्रीम्) इति । हीमिति
शिरोबीजं वकारः वरुणबीजम् । अत्र आप्यबीजं वकारं
शिरोमन्त्रेण युक्तमाप्यमण्डले मन्त्रत्वेन प्रयोजयेत् इति बोध्यम् ।
तथा श्रीमत्सर्वज्ञानोत्तरे वकारासनमध्यस्थं
शिरोबीजमधोमुखम् इति । (पूर्ववद्विभाव्य) इति । पादादारभ्य
मूर्द्धान्तं विचिन्त्येत्यर्थः । एवं प्रतिभूतमवधेयम् ।
(पूर्वोक्तवत्) इति । अत्र ह्रीं ह्रीं ह्रीं ह्रीं प्रतिष्ठाकलायै हः
हुंफट् इति पूरकपूर्वमित्यादिपुरोदीरितमनुसन्धेयम् ।
(रसादिगुणचतुष्टयम्) इति । अत्र रसः मधुरः । रूपस्पर्शशब्दाः
आदिशब्दार्थः । तत्र रूपं शुक्लं स्पर्शः शीतः शब्दः
झलझलशब्दः । अत्र गन्धैकगुणह्रासादुद्घातह्रास
इत्यवधेयम् । एवमुत्तरत्राप्यूह्यम् । (तदाकारम्) अनलमयम् ।
प्. १७९)
द्रवादिस्वभावं व्यपोह्य ज्वलनस्वभावाभिभूतं चिन्तयेत् ॥
जलभूतशोधनमुपवर्ण्य अग्निभूतशुद्धिमभिधत्ते (ततः) इति ।
अग्नेः स्वभावो दाहात्मकः । (ह्रूम्) इति । हूंकारः शिखामन्त्रः
रेफोऽग्निबीजम् । शिखया युक्तमग्निबीजं आग्नेय मण्डले
मन्त्रत्वेन प्रयोजयेत् । तथा श्रीमत्सर्वज्ञानोत्तरे
रकारासनमारूढं शिखाख्यं बीजमुत्तमम् इति । (रूपादि गुण
त्रयम्) इति । अत्र रूपगुणः भास्वररूपः । आदिशब्दात्
स्पर्शशब्दावुच्यते । स्पर्श उष्णः । शब्दः धमधमशब्दः ।
(तदाकारम्) जलात्मकम् । दाहादिस्वभावं विमुच्य
जलस्वभावाभिभूतं चिन्तयेत् ॥
वह्निभूतशुद्धिं व्याहृत्य वायुभूतशुद्धिं ब्रूते
(पश्चात्) इति । वायोः स्वभावश्चलनरूपः । (ह्यैम्) इति । हैकारः
कवचमन्त्रः । यकारो वायुबीजम् ।
प्. १८०)
वायुबीजं कवचबीजेन युक्तं कृत्वा वायव्यमण्डले मन्त्रत्वेन
नियोजयेत् । तथा श्रीमत्सर्वज्ञानोत्तरे यकारासनसंविष्टं
कवचं वायुविग्रहम् इति । (स्पर्शशब्दगुणद्वयम्) इति । अत्र
स्पर्शगुणः अशीतानुष्णरूपः । शब्दगुणः शकशकरूपः ।
(तदाकारम्) मेदिनीमयम् । नलनादिस्वभावं विसृज्य
अवनिस्वभावाभिभूतं भावयेत् ॥
वायुभूतशुद्धिमुपवर्ण्य नभोभूतशुद्धिमुपदिशति
(तदनु) इति । नभोमण्डलं तावत् वर्तुलाकारम् । तथा व्योमाकारं
सुवृत्तञ्च इति । (व्योमाकारम्) लौकिकानां व्योमत्वेन
प्रसिद्धावकाशाकारम् । (शून्यम्) मूर्तद्रव्या भावात्मक
शून्याकारं न तु वस्तुरूपम् । (बिन्दुशक्त्या) कुटिलाशक्त्या ।
एवमाख्यातं श्रीमता सोमशम्भुपद्धतिव्याख्याकारेण ।
प्. १८१)
आकाशस्य स्वभावः शुषिरात्मकः । यदाह
श्रीमद्वालज्ञानरत्नावलीकारः
कठिनद्रवोष्णचलनावकाशस्वभावानि इति । (हौम्) इति ।
औकारयुक्तं हकारं नामसमण्डले मन्त्रतया नियोजयेत् ।
तथा श्रीमत्सर्वज्ञानोत्तरे औकारासनसविष्टं हकारं
नाभसं विभुम् इति । ननु पृथिव्यादिवाय्वन्तानां चतुर्णां
भूतानां हृदयादिमन्त्रचतुष्कबीजयुक्ताः
लकारादियकारान्तवर्णाः बीजानीत्युक्तं कथमत्राकाशस्य
अस्त्रं त्यक्त्वा केवलं हौमिति नभोबीजेनेत्युक्तम् ? सत्यं नभसः
शान्यतीताकलामयत्वात् तथोक्तमत्रेति तात्पर्यम् । तत् सर्वमुत्तरत्र
निर्वाणदीक्षाविधौ शान्त्यतीतकलाशोधने स्पष्टीकरिष्यामः ।
(सदाशिवेन) इति । सदा नित्यं शिवः सदाशिवः स्वशक्तिरूपया
सर्वमङ्गलया
प्. १८२)
शबलितस्वरूपत्वादपरिच्छिन्नकल्याणघन इत्यर्थः ।
तथोक्त
सदाशिवत्वं यः प्राप्तश्शिवस्साक्षादुपाधिना ।
सदाऽस्यापि भवेच्छक्तिस्तया हीनो निरस्तकः ॥
इति । (शब्दगुणम्) इति । अत्र शब्दः प्रतिश्रुतिशब्दः न तु वर्णात्मकः
। (अनित्यत्वाशुद्धत्वादिस्वरूपम्) इति । अत्र
अभूत्वाकारणजन्यत्वमेवानित्यत्वम् । तदुक्तं
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गं सावयवं
परतन्त्रं व्यक्तं विपरीतमव्यक्तम् इति । आदिपदेन अव्यापकत्वादि
सूच्यते ।
(नित्यत्वाव्यापकत्वशुद्धत्वादियुक्तपरमाकाशाभिभूतस्वरूप
म्) नित्यत्वञ्च कालानवच्छिन्नत्वं आद्यन्तरहितत्वमित्यर्थः ।
व्यापकत्वं च देशानवच्छिन्नत्वं सर्वगतत्वमित्यर्थः ।
यदाहुः
अनवच्छिन्न सद्भावं वस्तु यद्देशकालतः ।
तन्नित्यं विभु चेच्छन्ति आत्मनो विभुनित्यता ॥
प्. १८३)
इति । शुद्धत्वञ्च सितत्वं नित्यत्वव्यापकत्वसुद्धत्वानि तानि आदीनि
येषां तानि तथोदितानि । शान्तत्वादिरादिशब्दार्थः । तैर्युक्तम् ।
तच्च तत् परमाकाशञ्च विन्द्वाख्यं परमव्योम । तथा चोक्तं
श्रीमन्निश्वासकारिकायां
निर्गुणं साञ्जनातीतं ग्रहनक्षत्रवर्जितम् ।
शुद्धस्फटिकसंकाशं परं व्योम विचिन्तयेत् ॥
इति । श्रीमद्रत्नत्रये च
किञ्चातिशायिकं प्राहुस्तमंबरमनश्वरम् ।
शिवा नामं समैश्वर्यभाजां भोगापवर्गयोः ॥
ज्योतिर्गणानामाकाशमिव भूतादिकारणम् ।
इति । न तु भूताकाशमेव नित्यत्वादिधर्मकं ध्यायेत् तस्य
तन्मात्रकार्यत्वेन श्रुतेः । यच्छ्रूयते मात्रेभ्यो भूतपञ्चकम्
इति । तथा भूतेन तेन अभिभूतं स्वरूपं यस्य तत् तथोक्तम् ॥
प्. १८४)
इत्थं पृथिव्यादिभूतशुद्धिमुदीर्य, ततः परं किं
विधेयमित्याकांक्षायां गुणक्षयवशात् क्षीणशक्तिकस्य
भूतसमुदायात्मकशरीरस्य दहनाप्लावने विदधीतेत्याह (ततः)
इति । (ततः) तथाभावनानन्तरम् । (आरब्धशरीरगतभूतदोषान्)
आरब्धशरीरं फलितकर्मवर्तमानकलेबरं तद्गतानि च
समापन्नानि भूतादिनि मेदिन्यादीनि तेषां दोषाः,
पितृमातृभौतिकशरीरस्थशुक्लशोणिताख्यमलपरिणतिरूपदोषाः
तान् । तथा समुदीरितं श्रीमच्छिवतन्त्ररहस्यसारे
मातापितृमलोद्भूते देहे स्थातुं न युज्यते ।
तस्मान्मन्त्रमयः कायः क्रियते प्रतिवासरम् ॥
इति । (आप्लावयेत्) वौषडन्तमूलेन
शिखान्तस्थाधोमुखपद्मेत्यादिवक्ष्यमाणवदमृतधाराभिरब्
हिषेचयेत् इत्यर्थः ॥
प्. १८५)
ननु एवं भूतशुद्धिं विधातुमशक्तानां कथमित्याशंक्य
तद्विधिं प्रकारान्तरेण सञ्चष्टे (यद्वा) इति । (यद्वा) एवं नो चेत् ।
देहस्य वटतरुरूपत्वं वर्णयति (पृथिव्यादि) इति ।
(पृथिव्यादिभूतबीजम्) पृथिवी आदिर्येषां तानि पृथिव्यादीनि तानि
च तानि भूतानि च तान्येव बीजमंकुरकारणं यस्य स तथोक्तः
तम् । आदिपदेन अप्तेजोवाय्वाकाशानां प्रकाशः क्रियते ।
स्थूलशरीरापेक्षया चेदमुक्तं अतोऽत्र
भूतपरिणामशुक्लशोणितबीजमिति तात्पर्यार्थः ।
(ब्रह्मविष्णुभ्यामुद्भिन्नांकुरम्) ब्रह्मणः सृष्टिकर्तृत्वम्
विष्णोः पालकर्तृत्वं तत उभाभ्यामुद्भिन्नः उत्पादितः अङ्कुरः
यस्य स तथोक्तः तम् । (रागद्वेषधर्माधर्ममूलम्) रागश्च
इच्छा द्वेषश्च विरोधः धर्मश्च ज्योतिष्टोमादिः अधर्मश्च
ब्रह्म हत्त्यादिः ।
प्. १८६)
तौ च आम्नायसिद्धौ प्रागनुष्ठितौ बुद्धौ संस्काररूपतया
गुणत्वेनोच्यते । अत्र च लोकान् प्रकाशांस्तज्जातीयेषु भोग्येषु धत्ते
धारणं करोतीति धर्मः । तद्विपर्ययसाधनादधर्मः । नासौ
लोकान् धत्ते नापि च प्रीतिम् । किन्तु अलोकानसात्विकान् राजसांश्च
तज्जातीयेषु भोग्येषु धत्ते अप्रीतिञ्च दुःखमोहात्मिकां धत्ते इति
अधर्मः । एवं धर्माधर्मशब्दार्थः । तथा
श्रीमत्सूक्ष्मस्वायम्भुवे
धत्ते लोकानिमान् सर्वान् प्रीति च पुरुषे पराम् ।
धर्मस्तेनोच्यते तज्ज्ञैस्धर्मस्तद्विपर्ययात् ॥
इति । मोहश्च अनित्या शुचिदुःखानात्मसु
नित्यशुचिसुखात्मप्रतिपत्तिरूपश्चित्तमलः
रागद्वेषधर्माधर्ममोहाः त एव मूलं यस्य स तथोक्तः तम् ।
पूर्वजन्मार्जितपुण्यपापानुकूल्येन
ब्राह्मणादिदेहमिन्द्रियपाटनं नियतायुषं नियत भोगं
धरतीति धर्माधर्मयोर्मूलत्वम् ।
प्. १८७)
रागद्वेषमोहानां कर्मार्जनहेतुत्वात् तद्द्वारा मूलत्वमुक्तम् ।
(विद्याविद्याधिपतिपालितम्) विद्याश्च सप्तकोटिमहामन्त्राः
विद्याधिपतयश्च अनन्ताद्यष्टमन्त्र महेश्वराः विद्या
विद्याधिपतयः । तथा श्रीमद्रत्नत्रये तत्र विद्याभुजः पूर्वे
मन्त्रा विद्याश्च नामतः इति । तैः पालितः परिपोषितः तम् ।
(कलादितत्वसारम्) कला आदिर्येषां तानि कलादीनि तानिं च तानि
तत्वानि च तथोदितानि तान्येव सारः स्थिरांशः यस्य स तथोक्तः
तम् । सारो बले स्थिरांशे च इत्यमरः । आदिपदेन प्रकृत्यादि गृह्यते ।
(तन्मात्रेन्द्रिय शाखोपशाखम्) तन्मात्राणि च शब्दादि
तन्मात्राणि । पूर्वं व्याख्यातमेतत् । इन्द्रियाणि च
ज्ञानेन्द्रियकर्मेन्द्रियाणि तान्येव शाखा च महाशाखा
उपशाखा च कल्पशाखा एता यस्य स तथोक्तः तम् ।
प्. १८८)
(विषयालोचनपल्लवम्) विषयाः शब्दादयः रूपं शब्दो
गन्धरसस्पर्शाश्च विषया अमी इत्यमरः । तेषामालोचनानि
ग्रहणरूपव्यापाराः । तथा श्रीमत्पौष्करे आलोचनत्वं
व्यापारश्चक्षुरादेश्च केवलः इति । विषयालोचनानि तान्येव
पल्लवाः किसलयानि यस्य स तथोक्तः तम् । अत्र विषयालोचनानां
गमागमत्वदर्शनात् पल्लवत्वेन रूपकमुदितम् ।
(भावप्रपञ्चकुसुमम्) भावाः धर्मादयोऽष्टौ बुद्धि गुणाः ।
तथा श्रीमन्मृगेन्द्रे
भावा बुद्धिगुणा धर्मज्ञानवैराग्य भूतयः ।
सात्विका व्यत्ययेनैते रागमुत्सृज्य तामसाः ॥
इति । तेषां प्रपञ्चानि निकुरुम्बाणि शतत्रयमिति यावत् ।
तथा निर्दिष्टं भगवता रामकण्ठेन धर्मो
दशभिर्भेदैर्ज्ञानमशीत्या शतेन वैराग्यम् ।
प्. १८९)
ऐश्वर्यं चतुष्षट्या दशभिरधर्मस्तदर्द्धतोऽज्ञानम् ।
अवैराग्यञ्च दशभिरनैश्वर्य भिन्नमेकविंशत्या ।
भावप्रत्ययभेदश्शतत्रयेणायम् इति । तान्येव कुसुमानि यस्य स
तथोक्तः तम् । अत्र भावाः कालान्तरे फलरूपा भविष्यन्तीति
प्रसूनतया समाम्नाताः । (बुध्यध्यनसायसंकल्पफलम्)
बुद्धिः बुद्धितत्वं तस्या अध्यवसायश्च एतद्रजतमेव न शुक्तिरिति
निश्चयरूपो व्यापारः । संकल्पो नाम
एककोटिसहचरितोऽनेकधर्मानुसन्धानात्मको मनसो व्यापारः ।
तथा श्रीमत्पौष्करे विषयाध्यवसायात्मा बुद्धिरेवैष केवलः इति
। श्रीमत्तत्वप्रकाशे इच्छारूपं हि मनो व्यापारस्तस्य भवति
संकल्पः इति । तावेव फलं यस्य स तथोक्तः तम् । फलं फले
धने बीजे निष्पत्तौ भोगलाभयोः इति विश्वः । अत्र
बुद्ध्यवसितमर्थं
प्. १९०)
पुरुषश्चेतयते इति वचनेन बुद्धौ प्रतिबिम्बिताः मनोऽवधानिताः
अर्था एव फलरूपतया वर्णिताः । (पुरुषविहङ्गोपभोग्यम्)
पुरुषः भोक्तृस्वरूप आत्मा स एव विहङ्गः पक्षी तेन उपभोग्यम्
उपभोज्यम् । अत्र पुरुषस्य विहङ्गत्वं वासभोग
वियोगदर्शनादुक्तम् । (भोग्यभोक्तृत्वरसम्) भोग्यं च
भोगविषयं शरीरं यदाह पूर्वं पुरुषविहङ्गोपभोग्यम् इति ।
भोक्ता च भोगक्रियाकर्ता आत्मा, भोग्यभोक्तारौ तयोर्भावः
भोग्यभोक्तृत्वं तदेव रसः स्वादो यस्य स तथोक्तः तम् ।
रसो गन्धे रसे स्वादे शृङ्गाराध्ये ध्वनौ जले इति माधवः ।
भोग्यभोक्तृत्वसंबद्धरस इत्यर्थः ।
(ऊर्द्ध्वमूलमधश्शास्त्वम्) इति । एवं दहनस्य भोग्यतया
देहस्य तत्समानत्वाद्वर्णितम् । देहस्य करबीजवत्
सूक्ष्मोपचयार्थसाम्याद्वटतरुरूपत्वमभिहितम् ।
प्. १९१)
एवं तटतरुरूपविचिन्तनानन्तरकरणीयान्याह (प्रथम ) इति ।
(प्रथमपूरकार्द्धेन) इति । अत्र पूरकस्तावत् द्वादशमात्रा
प्रमाणः तदर्द्धं मात्राषट्कम् । इत्थं कुंभकरेचकयोरपि
प्रमाणं योजनीयम् । तथा श्रीमज्ज्ञानरत्नावल्यां
जानुमण्डलमावर्त्य मात्रा स्याच्छोटिका क्रमात् ।
ताभिर्द्वादश मात्राभिः पूरकः कुंभकस्तथा ॥
रेचकश्चैवमाख्यातः प्राणायामः कनीयसः ।
इति । (स्तब्धम्) निश्चलम् । पृथिवीधारणायाः सतंभन
कार्यकर्तृत्वेनोक्तत्वात् । अत्र ओं ह्लां निवृत्तिकलायै हः हुं फट् इति
पूरकपूर्वार्द्धेन पार्थिव्या धारणया
गन्धादिपञ्चकक्षयाय पञ्चवारं मनसा उच्चरन्
पल्लवकुसुमफलशून्यं निश्चलम् च देहन्यग्रोधपादपं
चिन्तयेत् इत्यवसेयम् ।
प्. १९२)
(स्निग्धम्) छायावृक्षम् । स्निग्धन्तु मसृणे सान्द्रे छायावृक्षे
नमेरुणि इति विश्वः । तदनन्तरं किं कुर्यादित्याह (ततः) इति ।
(बन्धकरूपम्) सूक्ष्मस्थूलशरीररूपमित्यर्थः । (शून्यम्)
बन्धकत्वाद्वयावृत्तं असत्कल्पमिति यावत् । अत्रावसरे द्वादशान्ते
ग्राह्य भूतैश्शून्यत्वादनालंबनं
खचिन्मात्रनिष्ठमेवात्मस्वरूपं भवति न तु
मूर्च्छाद्यवस्थास्विव निरुद्धमेवेति श्रीमता
सार्द्धत्रिशतिवृत्तिकृता द्वादशान्ते निरालम्बं विज्ञानं केवलं
स्थितम् इत्येतत्सूत्रवृत्तौ समुपदिष्टम् ॥
इत्थं समुत्सारितनिरवशेषदोषस्य वपुषः
सुधाप्लावनविधिमाह (वौषडन्त) इति । (वौषडन्तमूलेन)
मूलाधारादारभ्य हकारौ
काराद्युन्मनान्तमात्मानुसन्धानपूर्वोच्चारितवौषडन्तमूलेन्
एत्यर्थः ।
प्. १९३)
(शिखान्तस्थाधोमुखपद्मास्रवदमृतधाराभिः)
शिखान्तस्थाधोमुखपद्मं तावत् सकलवस्तूनामोतप्रोतरूपेण
सर्वाधारत्वेन स्थितः परमेश्वर शक्तेर्नित्याधिष्ठेयरूपः
परमामृतरूपो द्वादशान्तस्थः परबिन्दुः । तथा
प्रक्रियान्तस्थममृतं स्रवन्तं चिन्तयेत् सदा ।
प्रणवं श्वेतकमलं योगपीठमधोमुखम् ॥
चिन्तयेदमृतं तस्मिन् सुषुम्नाभिन्नमस्तकम् ।
इति । तस्मात् स्रवन्त्यः प्रसरत्न्यः ताश्च ताः अमृतधाराश्च
तथोदिताः ताभिः । (सकलनाडीमुखं प्रविष्टाभिः)
हृतसप्ततिसहस्रनाडीद्वारं प्रविशन्तीभिः । ततः किमित्याशंक्य
द्वादशान्तोपारूढस्य आत्मनो हृदि विन्यासाय
प्रथममासनकल्पनप्रकारमाह (हृदये) इति ।
हृदयस्वरूपमुक्तं श्रीमद्वसिष्ठेन
मनो निर्याति विषयान्यस्मिन्नेव प्रलीयते ।
प्. १९४)
हृदयन्तद्विजानीयान्मनसस्स्थितिकारणम् ॥
इति । (अकारादिमात्रात्रययुक्तेन) अकारः आदिः यासां ताः
अकारादयः ताश्च ताः मात्राश्च तासां त्रयम् ।
उकारमकारावादिशब्दार्थः । अत्र ओमित्यनेन
अकारोकारमकारमात्रात्रयमिलितेन
नालपत्रकर्णिकालक्षणमात्मासनं हृदयपुण्डरीकं
संभवतीति तात्पर्यार्थः । अशरीरो ह्यधिष्ठाता नात्मा
मुक्तात्मवद्भवेत् इति श्रुतेः दग्धबन्धनकलेवरस्य निष्कलस्य
आत्मन उत्तरत्र क्रिया नोपपद्यते, न हि शरीरादिविरहिण्यवबोधः
करणं वा युक्तिमदिति मनसि निधाय,
मन्त्रमयपुर्यष्टकशरीरावतरणक्रममाह । (तत्कर्णिकायाम्) इति
। पुर्यष्टकं पुनः दृक्क्रियाशक्तिमयम् । तथा श्रीमन्मृगेन्द्रे
निर्दहेत् पाशवीं मूर्तिं सदाशिवपदस्पृशा ।
प्. १९५)
तद्भस्म वायुना शक्तिनापनीया वलोकयेत् ॥
दिनकृन्मण्डलाकारं वृक्क्रिया मण्डलञ्चितः ।
तदेव वपुरस्यैतदव्यक्तांगमितीष्यते ॥
इति । (चतुष्कलेन) चतस्रः कलाः अकारादिबिन्द्वन्ता निजांशाः यस्य
स चतुष्कलः तेन । कलांशमात्रे शिल्पादौ इति नानार्थरत्नमाला ।
ततः प्रोक्ततत्वलयक्रमेण निर्मलस्यात्मनो हृदि पुनर्विन्यासमाह
(तस्मिन्) इति । (तस्मिन्) पुर्यष्टके । (बीजरूपम्) शिवबीजात्मकम् ।
(शिवमयम्) शिवीभूतम् । तथा श्रीमत्सर्वज्ञानोत्तरे
ततश्चाकर्षयेज्जीवं शिवीभूतं निरामयम् ।
पूरकेण शिखान्तस्थं शिवबीजमयं परम् ॥
इति । तं निरामयम् । पूरकेण शिखान्तस्थं शिवबीजमयं परम् ॥
इति । (पंचकलेन)
प्. १९६)
पञ्च कलाः अकारादिनादान्ताः यस्य स पञ्चकलः तेन ।
(वौषडन्तशक्तिमन्त्रोच्चारेण)
चतुर्थ्यन्तशक्तिशब्दयुक्तमूलमन्त्रोच्चारेण । ओं हौं शक्तये
वौषट् इति यावत् । एव मुक्तं श्रीमता
सोमशम्भुपद्धतिव्याख्याकारेण । अत्र तावत्
निष्कलशक्तिक्षोभात् स्रुतबहुलामृतमयस्य सलिलस्य ।
मध्ये प्लवन् स हंसः पुनरागच्छस्ततो ध्येयः ॥
इति श्रुतेः आत्मनः शरीराद्विश्लेषपूर्वं संस्थापितत्वात्
तदर्थं पुनरप्यमृताप्लावनं करणीयमित्यभिप्रायः ।
अन्तर्यागः ॥
क्रि (२७) तदनु पूर्ववदङ्गन्यासं विधाय,
हृन्नाभिबिन्दुस्थानानि पूजाहोमसमाधीनां स्थानानि
संकल्प्य, वक्ष्यमाणक्रमेण
भावोपनीतपुष्पाद्यैरन्तर्हृत्पद्मे शिवं सर्वोपचारैर्मनसा
प्. १९७)
संपूज्य, नाभिकुण्डे स्वतस्सिद्धेऽग्नौ
ज्ञानानलं न्यसेत्तत्र सूर्यायुतसमप्रभम् ।
हृत्पुण्डरीकमध्यात्तु सौषुम्नेन पथाऽनलम् ॥
द्वादशान्तपदे योज्य तत्तेजःपुंजपिञ्जरम् ।
तेन विन्यस्तमात्रेण सर्वकर्मार्हको भवेत् ॥
इत्युक्तवत् ज्ञानानलं विन्यस्य, शिवं संपूज्य, पूरकाकृष्टेन
बिन्दुप्रस्रुतामृतरूपेणाज्येन होमञ्च कृत्वा, अन्तः पूजितदेवाय
समर्प्य, पूजां समाप्य, बिन्दौ सर्वतोमुखं
स्फुरत्तारकाकारमीश्वरं ध्यात्वा, बहिः पूजयामीति प्रार्थ्य,
लब्धानुज्ञः ॥ (२७)
(प्र) अथ शिवीकरणविधिमुदीर्य सूक्ष्मदस्थूलदेहद्वयस्य
मन्त्रमयशक्तिविद्यादेहत्वसिद्धयर्थमङ्गन्यासं कुर्यादित्याह
(तदनु) इत्यादिना (विधाय) इत्यनेन ॥
प्. १९८)
अथ
ज्योतिर्लिङ्गं हृदिस्थं यत्तदेवाभ्यर्च्यते बहिः ।
यतस्तस्मात् पुरा कुर्यादन्तर्यागमिहोच्यते ॥
इति वचनेन प्रथममन्तर्यजनविधिमाह (हृन्नाभि) इत्यादिना
(लब्धानुज्ञः) इत्यन्तेन ।
हृदयेऽर्चाविधानन्तु नाभौ होमं प्रकल्पयेत् ।
ललाटे चेश्वरं ध्यायेद्वरदं सर्वतोमुखम् ॥
इति श्रीमत्कालोत्तरश्रुतेः हृदयादेः पूजाद्यवकाशत्वं
संकल्पयेदित्याह(हृत्) इति ।
कथमन्तरर्चयेदिव्याकांक्षायामाह (वक्ष्यमाणक्रमेण) इति ।
अत एवाऽत्र बाह्यार्चनमेव प्रकृतिभूतं सर्वैरङ्गैः
परिपूर्णत्वादिति तात्पर्यम् । कैर्यजेदित्याशंकायां
हृत्पद्मो पूजयेद्विद्वान् यथोक्तन्तु यथाक्रमम् ।
गन्धाद्यैरुपचारैस्तु मनसा कल्प्य पूजयेत् ॥
इति श्रीमत्सुप्रभेदवचनेन मनः कल्पितैः कुसुमगन्धादिभिः
संपूजयेदित्याह (भाव) इति । (हृत्पद्मे) इति ।
प्. १९९)
अत्र हृत्स्वरूपमुक्तं श्रीमद्वसिष्ठेन मनो निर्याति
विषयान्यस्मिन्नेव प्रलीयते । हृदयन्तद्विजानी
यान्मनसस्थितिकारणम् ॥ इति । तत्र पद्मं हृत्पद्मम् ।
तल्लक्षणमुक्तं श्रीमन्निश्वासकारिकायां
कदलीपुष्पसंकाशं हृदयं सर्वदेहिनाम् ।
तस्य मध्ये स्थितं पद्ममष्टपत्रं सकर्णिकम् ॥
वितस्तिमात्रं हृदयं कमलं चतुरङ्गुलम् ।
अष्टाङ्गुलप्रमाणन्तन्नाभेरूर्ध्वं व्यवस्थितम् ॥
पद्मनालं नवद्वारं समन्तात् कण्ट?कान्वितम् ।
अङ्गुष्ठपर्वतुल्याऽत्र कर्णिका सा सकेसरा ॥
कर्णिकायां भवेत् सूर्यस्तस्य मध्ये तु चन्द्रमाः ।
चन्द्रमध्ये भवेद्वह्निस्तस्य मध्ये महेश्वरः ॥
सदाशिवो महेशस्य तस्यापि परतश्शिवः ।
इति । (संपूज्य) इति । अत्र हृदयकमले अर्घ्यपात्रद्वयं कृत्वा
कन्दनालपत्रकर्णिकासु आधारशक्त्यादिशक्तिपर्यन्तशिवासनं
प्. २००)
विन्यस्य मूर्त्तिद्वयपरावाहनस्थापनादिजपसमर्पणान्तं कर्म
कुर्यादित्युक्तं श्रीमता बालज्ञानरत्नावलीकारेण ॥
अन्तर्हवनविधानमाह (नाभि) इति । (स्वतस्सिद्धे)
निसर्गसमुत्पन्ने । एतद्विशेषणं कुण्डानलयोरपि संबन्धनीयम् ।
एतेन कुण्डाग्निसंस्कारयोरकरणीयत्वं दर्शयति ।
एवमुदीरितं श्रीमता सोमशंभुपद्धतिव्याख्याकारेण ।
तथा च श्रीमच्चिन्त्ये पूर्वमेवाग्निसिद्धत्वाद्विनाचाग्निमुखं
तथा इति । नाभिकुण्डगताग्नौ ज्ञानपावकविन्यासप्रकारं
स्पष्टीकरोति (ज्ञानानलम्) इति । वह्निबीजं सुषुम्ना वर्त्मना
हृत्बिन्दुगतज्ञानानलाभ्यां संयोज्य,
द्वादशान्तपदस्थशिव*?शब्दिना? सह एकीकृत्य अनन्तरं
नाभिगतं ज्वलने विन्यसेदित्य च तात्पर्यम् । तथा चाह
प्. २०१)
भगवान् ज्ञानरत्नावलीकारः ।
नाभिकुण्डे स्वयं भूते त्रिमेखले निजभूताग्निं प्रज्वाल्य
क्रव्याकांशं परित्यज्य निरीक्षणादिभिस्संशोध्य वह्निबीजं
समुद्दीपितं रेचकेन
हृदयभ्रूमध्यगतज्ञानवह्निभ्यामेकीकृत्य द्वादशान्तं
नीत्वा पूरकेणं तं शिववह्निं नाभिगतं कृत्वा इति । (शिवं
संपूज्य) इति । अत्र अग्निं हृत्पद्मे आसनमूर्तिमूलमन्त्रैरर्चयेत् ।
तथा श्रीमज्ज्ञानरत्नावल्यां आसनं मूर्त्तिमावाह्य त्रयम्
तत्र
६ - सकृत् स्मरेत् इति । (होमञ्च कृत्वा) इति । अत्र यथाशक्ति मूलेन
ब्रह्माङ्गैश्च द्वादशांशतो हुत्वेत्यर्थः । (समर्प्य) इति ।
अत्र होमफलमिति शेषः । ततः किमित्याशंक्य अन्तर्यागं
समापयेदित्याह (पूजाम्) इति । अत्र अष्टभिः पुष्पैरभ्यर्च्य
प्. २०२)
पराङ्मुखार्घ्यं दत्वा पूजासमापनं विदधीत ।
तथा श्रीरामनाथपद्धत्यां हुत्वा वह्नि निरुध्याथ
ब्रह्मादींश्च हृदिस्थितम् । शिवमिष्ट्वाऽष्टपुष्प्याऽथ
दत्वाऽर्घ्यं च पराङ्मुखम् निरुध्य इति ॥
समाधिविधिमुपदिशति (बिन्दौ) इति । (सर्वतोमुखम्)
सर्वविषयज्ञानक्रियाशक्तियुक्तम् । (ईश्वरम्) निष्कलशिवम् ।
यदाह श्रीमत्सोमशंभुपद्धतिव्याख्याकारः ।
हृत्पद्मे शिवानले चार्चितं सकलरूपं तं महेश्वरं
पूर्वोक्तंमन्त्रात्मकावयवविभागरहितं निष्कलशिवं
बिन्द्वधिष्ठानात् बिन्दुरूपं चिन्तयेत् इति । एवं
भूतशुद्ध्यन्तर्यजनहवनसमाधिभिरात्मशुद्धिस्संजातेत्यवद्
हेयम् । तथा श्रीमत्कारणे
उत्सृज्य प्राकृतं भावं शिवोऽहमिति भावयेत् ।
हृदये यजनं कुर्याद्धोमं नाभौ प्रकल्पयेत् ॥
प्. २०३)
तथेश्वरन्तु भ्रूमध्ये ध्यायेत् सर्वगतं प्रभुम् ।
आत्मशुद्धिरियं प्रोक्ता स्थानशुद्धिं ततश्शृणु ॥
इति ॥
=== स्थानशुद्धिः ॥ ===
क्रि (२७) स्थानशुद्धिमाचरेत् । अस्त्रेण तालत्रयं दत्वा,
छोटिकाभिस्तत्स्थानाद्विघ्नानुच्चाट्य अस्त्रेण परितो
ज्वलदग्निवर्णप्रा?कारं, कवचेन दक्षिणतर्जनीभ्रमणेन
परिखात्रयञ्च संचिन्त्य धेनुमुद्रया ओम् हां हौं शक्तये
नमः इति शक्तिजालमूर्ध्वाधो विभाव्य, सर्वत्र कृतरक्षां
भावयेत् । इति स्थानशुद्धिं विधाय ॥
(प्र) अथ इत्थं आत्मशुद्धिमभिधाय अधुना द्वितीयां
स्थानशुद्धिमतिदिशति (स्थान) इत्यादिना (भावयेत्) इत्यन्तेन ।
कथन्तदाचरेदित्याह (अस्त्रेण) इति । छोटिकालक्षणमुक्तं प्राक् ।
(परिखात्रयम्) खेयत्रयम् । खेयन्तु परिखां इत्युमरः ।
(ऊर्ध्वाधो विभाव्य) इति ।
प्. २०४)
अत्र शक्तया पूजास्थानमोतं प्रोतञ्च भावयेदिति तात्पर्यार्थः ।
अनेन पूजामण्टपस्य
-
(७३) मायेयत्वनिवृत्त्या बैन्दवत्वमापादितमिति समाख्यातं
श्रीमन्मृगेन्द्रपद्धतिव्याख्याकारेण ॥
=== शिवार्घ्यकरणम् ॥ ===
(क्रि) (२९) ततः स्वर्णादिनिर्मितमर्घ्यपात्रमस्त्रो प्रक्षाल्य,
बिन्दुप्रसृतामृतधारामयेन, शुद्धाम्बुना
वौषडन्तहृदयेनापूर्य, गन्धपुष्पदूर्वाक्षतादि विक्षिप्य,
तस्मिन्नासनमूर्त्तिब्रह्मपञ्चकविद्यादेह नेत्रमूलाङ्गैः
पुनर्मूलेन च संपूज्य, संहितयाऽविमन्त्र्य, अस्त्रेण संरक्ष्य,
कवचेनावकुण्ठ्य, धेनुमुद्रया वौषडन्तमूलेन प्ररोचयेत् ॥
ततः तज्जलेन आत्मानमस्त्रेण संप्रोक्ष्य ॥ (२
(प्र) अथ शिवार्घ्यकरणं वक्ति ( ततः) इत्यादिना (प्ररेचयेत्)
इत्यन्तेन ।
प्. २०५)
(स्वर्णादि) इति । आदिपदेन रजतादिकं गृह्यते । तथा
सौवर्णं राजतं ताम्रं भौमं वा वारिपूरितम् ।
शिवार्घ्यपात्रमब्जांकं वृत्तं व्रणविवर्जितम् ॥
इति ॥ अथवा पात्रमेकन्तु पाद्यमाचमनार्घ्यकम् इति
श्रीमत्सूक्ष्मश्रुतेः शिवाभिधानं पूजान्ते पाद्ये
चाचमनीयके इति श्रीमन्मृगेन्द्रश्रुतेश्च
पाद्याचमनार्घ्याणां एकमेव पात्रं, न तु तेषां पृथक्
पृथमिति मनसि निधायाह (अर्घ्यपात्रम्) इति । (अक्षतादि) इति ।
आदिपदेन क्षीरादि निगद्यते । तदुक्तं
आपः क्षीरं कुशाग्राणि तण्डुलास्सुमनास्तिलाः ।
अर्घ्योऽष्टांग इति प्रोक्तो यवैस्सिद्धार्थकैस्सहा ॥
इति । यद्यष्टाङ्गाभावः तर्हि शिवार्घ्यं केवलं जलेन विदधीत ।
तथा अष्टाङ्गं कारयेद्यत्वात्तदभावेऽम्बुपूरितम् इति ।
(संहितयाऽभिमन्त्र्य) इति ।
प्. २०६)
अत्र ब्रह्मभिरङ्गैश्चाभिमन्त्रयेत् । तदुक्तं
शिवसनेन तन्मूर्त्या ब्रह्मभिर्विदया दृशा ।
मूलेनांगैर्विना नेत्रं पुनर्मूलेन चार्चयेत् ॥
ब्रह्माङ्गैरभिमन्त्र्याथ इति । (प्ररोचयेत्) इति ।
अत्र बिन्दुस्थानात्
कराङ्गुलिदशकाभिमुखनाडीदशकस्रवदमृतवत्तया
धेनुमुद्रया वौषट्कारेणास्य परमामृतरूपत्वमापाद्यत इति
तात्पर्यम्
अथ तदनन्तरकरणीयान्याह (ततः) इत्यादिना (संप्रोक्ष्य)
इत्यन्तेन । (तज्जलेन) शिवार्घ्यजलेन । (आत्मानम्) स्वशिर इत्यर्थः ॥
=== द्रव्यशुद्धिः ॥ ===
(७०) (क्रि) (३०) पुष्पादिपूजोपकरणद्रव्यजातमस्त्रेण संप्रोक्ष्य,
कवचेनाभ्युक्ष्य, हृदाऽभिमन्त्र्य, कवचेनाऽवकुण्ठ्य,
धेनुमुद्रयाऽमृतीकृत्य, अर्घ्यजलबिन्दून् स्नानतोयभाण्डेषु
सपुष्पं निक्षिप्य, अमृतीकुर्यात् ।
प्. २०७)
इति द्रव्यशुद्धिं विधाय, (३०) (प्र) अथ स्थानशुद्धिं व्याहृत्य
तृतीयां द्रव्यशुद्धिमभिधत्ते (पुष्पादि) इत्यादिना (विधाय)
इत्यन्तेन । ननु एवं कृतात्मस्थानद्रव्यमन्त्रलिङ्गशुद्धिः इति
स्थानशुद्धेरनन्तरं द्रव्यशुद्ध्युद्धेशस् अभिधास्यमानत्वात्
यथोद्देशन्तत्तल्लक्षणस्य तत्तत्समनन्तरं वक्तुमर्हत्वेन
कथमत्र तन्मध्ये शिवार्घ्यकरणविधिरुदितः इति चेत् । सत्यं
द्रव्यशुद्धेस्तावत् शिवार्घ्यजलप्रोक्षणपूर्वकत्वात्
तद्विधेस्तत्पश्चाद्भावित्वमित्यदोषः । (अभ्युक्ष्य?) इति ।
अधोमुखपताकाकारेण हस्ततलेन संस्पृश्येत्यर्थः ।
परिपूतेन तोयेन पूर्णान् कृत्वा लघूत्घटान् ।
घटिकोर्ध्वन्तु संस्थाप्य पत्रेणार्घ्यजले क्रमात् ॥
इति श्रीमत्किरणश्रुतेः स्नानतोयकुम्भेषु सपुष्पार्घ्यजलकणान्
पृथक् पृथक् पातयेदित्याह (अर्घ्यजलबिन्दून्) इति ।
(स्नानतोयभाण्डेषु) इति
प्. २०८)
गड्डुकांश्चतुरसंस्कारसंस्कृतानित्युक्ततोयभाजनेष्वित्यर्थः ।
भाण्डन्तु भाजने इति नानार्थरत्न माला । नन्वत्र द्रव्यशुद्ध्या
किं साध्यते, कुसुम जलादिद्रव्याणां स्वत एव शुद्धित्वादिति चेन्न
अशुद्धभुतनोत्पन्नमायेयद्रव्यजातस्याशिवतया
शिवभोगानर्हत्वात् । न च व्यापकं शिवसंबन्धाच्छिवत्वं
तस्येति वाच्यम् । शिवस्य पुष्करण पर्णवन्निर्लेपतया
द्रव्यसंपृक्तत्वाभावात् । ततः पुष्पादिपूजोपकरणद्रव्याणां
मन्त्रप्रोक्षणाभ्युक्षणाभिमन्त्रणावकुण्ठनादिना
शाक्तत्वापादनार्थं द्रव्यशोधनं विदधीत । तथा
मायेयरूपसन्त्या मादात्तशक्तिस्वरूपतः ।
शिवभोग्यं भवेद्द्रव्यं सा क्रियाद्रव्यशोधनम् ॥
इति ॥
=== आत्मपूजा ॥ ===
(क्रि) (३२) स्वासने ओम् हां शिवासनाय नमः इति पुष्पं दत्वा ।
हृदि मूर्त्तिं विन्यस्य चन्दनेन ललाटे
प्. २०९)
विन्यस्य इति अधितिलकं कृत्वा, मूलेन शिरसि पुष्पं दद्यात् ।
इत्थमात्मपूजां विधाय, पूजाऽविरुद्धमौनमास्थाय । (३२)
(प्र) अथ सूर्योपस्थानेत्याद्युक्तात्माधिकरणशिवार्चनमाह
(स्वासने) इत्यादिना (विधाय) इत्यन्तेन ।
अथ पूजकस्तदानीं कथंभूतो भवेदित्याशंक्य पूजा
विरोधविरहं वाचयमो भूयादित्याह (पूजा) इत्यादिना (आस्थाय)
इत्यन्तेन । मौनं तावत् शिवसपर्यानुचितानभिभाषणम् ।
तथा मौनन्तु शिवपूजायां तदयोग्याप्रशंसनम् ॥
=== मन्त्रशुद्धिः ॥ ===
(क्रि) (३२) मन्त्रान् ह्रस्वदीर्घप्लुतक्रमेण
ओङ्कारादिनमोन्तानुच्चार्य, मन्त्रशुद्धिं कुर्यात् ॥ (३२)
(प्र) अथ द्रव्यशुद्धिमुपवर्ण्य चतुर्थीं मन्त्राशुद्धिमाचष्टे
(मन्त्रान्)
प्. २१०)
इत्यादिना (कुर्यात्) इत्यन्तेन (मन्त्रान्) मन्यन्ते एभिरिति मन्त्राः ।
यद्वामननत्राणधर्मयोगिनो मन्त्राः तान् । तथा
मननं सर्ववेदित्वं त्राणं संसार्यनुग्रहः ।
मननत्राणधर्मित्वान्मन्त्र इत्यभिधीयते ॥
इति यद्यपि वात्त्यनिष्ठो मन्त्रशब्दस्तथाप्य भेदोपचारादिह
वाचकेषु च वर्तते । ते पुनर्ब्रह्माङ्गमूलाः । एतेषामुद्धारो
यथा षण्डाक्षररहितेषु षोडशाक्षरेषु ह्रस्वा
नवमसप्तमपञ्चमतृतीय प्रथमस्वराः सान्तसहिताः पञ्चं
ईशानादिपञ्चब्रह्म बीजानि क्रमादुच्यन्ते । तस्मिन्
षोडशस्वरवर्गे फु
द्वितीयचतुर्थषष्ठाष्टमदशमद्वादशस्वराः षट् सान्तयुक्ता
हृदयाद्यङ्गबीजान्युदीर्यन्ते । तथा समीरितं श्रीमत्कारणे
षोडशस्वरसंघे तु नपुंसकविवर्जिते ।
द्वादशस्वरसङ्घेन नादाख्यार्णसमन्वितम् ॥
प्. २११)
व्योमाग्निभूतवर्णाश्च सप्तमन्नवमन्तथा ।
बिन्दुनादसमायुक्तं ब्रह्मपञ्चकमुच्यते ॥
सद्यं वाममघोरं च तत्पुरुषेशानका द्विजाः ।
ब्रह्माण्यनुक्रमेणैव नमस्कारान्तकाणि तु ॥
द्वितीयेन चतुर्थेन षष्ठेनैवाष्टमेन च ।
दशद्वादशवर्णाभ्यां षडङ्गानि विधीयते ॥
हृदयं च शिरश्चैव शिखा कवचमेव च ।
नेत्रमस्त्रं षडङ्गानि कीर्तितानि क्रमेण तु ॥
हृदादिनेत्रपर्यन्ता बिन्दुयुक्ताः प्रकीर्तिताः ।
अस्त्रं विसर्गपर्यन्तं जातिषट्कसमन्वितम् ॥
प्रणवञ्चादितः कृत्वा मन्त्रोच्चारमनन्तरम् ।
अभिधानं चतुर्थ्यन्तं नमस्कारान्त संयुतम् ॥
ब्रह्माङ्गानामथोच्चारस्सर्वकार्येषु पूजिताः ।
इति । सदाशिवभट्टारकस्य मूलमन्त्रोद्धारः
कः पाठः ॥ # पा ओम् हां हं हां शिवमूर्तये नमः इति
अधिकः पाठः ॥
प्. २१२)
प्रदर्शितः श्रीमत्क्रियाकरणमण्डनपद्धत्यां
सान्तं षष्ठं सजंभारि बिन्दुनादसमन्वितम् ।
संप्रदानशिरोमन्त्रा हृद्ध्रुवा नीतियोजितः ॥
इति (ह्रस्वदीर्घप्लुतक्रमेण) ह्रस्वं च विन्द्वन्तोच्चारः दीर्घं च
ब्रह्मरन्ध्रान्तोच्चारः प्लुतञ्च द्वादशान्तपर्यन्तोच्चारः
ह्रस्वदीर्घप्लुतानि तेषां क्रमः तेन । अत्र ब्रह्मणां
ह्रस्वक्रमः अङ्गानां दीर्घक्रमः मूलमन्त्रस्य प्लुतक्रमः ।
तथा श्रीमत्सार्द्धत्रिशतिकायां ब्रह्माणि ह्रस्वान्युक्तानि
दीर्घाण्यङ्गानि षण्मुख इति । तथाऽन्यत्र मूलं प्लुतं
शिखान्तस्थम् इति ॥
ननु ब्रह्मबीजमध्ये ईशानतत्पुरुषबीजयोरोकारैकारयोः
कथं ह्रस्वत्वं सन्ध्यक्षराणां ह्रस्वा न सन्ति हीति । सत्यं
केषाञ्चिन्मतमेतत् । यदाहुः शिक्षाकाराः छन्दोगानां
सात्यमुग्रिराणायनीया ह्रस्वगोकारमैकारञ्च पठन्ति इति ।
एवमुक्तं श्रीमत्सार्द्ध त्रिशतिवृत्तिकारेण ।
प्. २१३)
तदुक्तं बिन्दुनादशिखाप्रान्तं मन्त्रमुच्चार्य शोधयेत् इति ।
तथा च ह्रस्वं बिन्दुगतं दीर्घं ब्रह्मरन्ध्रगतं प्लुतम् ।
द्वादशान्तपदे योज्य प्रासादं मन्त्रशुद्धये ॥ इति । (ओंकारादि
नमोन्तान्) इति । अत्र ब्रह्माङ्गमूलमन्त्रान्
प्रणवादिनमस्कारांतानुच्चरेत् । तथा
श्रीमत्सन्तानसंहितायां
ओंकारं पूर्वमुच्चार्य नमस्कारान्तमेव च ।
ब्रह्माङ्गानि च प्रासादं शिवबीजं तथैव च ॥
इति । अङ्गानां न गोऽन्तत्वं प्राक् सकलीकरणविधौ प्रदर्शितं च ।
मन्त्रशुद्धिर्नाम
मायीयशब्दव्यङ्गयत्वजनितस्पर्शलक्षणदोषस्य
परतत्वसमाश्रयतः क्षपणम् । तदुक्तं
मन्त्रशुद्धिर्भवेदैवं परतत्त्वसमाश्रयात् इति । तथा च
दन्ताधरोष्ठसञ्चारे मन्त्रस्याशौ च निर्हणात् ।
नादान्तोचारणे नैव मन्त्रशुद्धिरुदाहृता ॥
इति । अत्र च ब्रह्माङ्गानि शाक्तानि न त्वाणवानि ।
प्. २१४)
यदाह श्रीमन्मतङ्गवृत्तिकारः शिवाङ्गब्रह्मणां
शिवमूर्तित्वे सति शक्तिरुपत्वेनोक्तत्वात् वस्तुतः
७३- सदाशिवपद एव स्थितिः इति । तथा ज्ञानशक्तिमयो
मन्त्रश्शिवेनाधिष्ठितस्सदा इति ॥
=== लिङ्गशुद्धिः ॥ ===
(क्रि) (३३) तदनु पूर्वरचितां पूजां गायत्र्या संपूज्य,
सामान्यार्घ्येण सहृदा स्वाहान्तमूलेन सद्यादिक्रमेण
पञ्चशिरस्सु नर्घ्यं धूपं दीपञ्च दत्वा, पूजोपरि हस्तं
निधाय, सद्यादिब्रह्मपञ्चकमावर्त्य, लिङ्गात्
पूजामस्त्रमन्त्रेणापनीय, शुद्धपात्रे चण्डार्थमैशान्यां
हृदयेन विन्यस्य, अस्त्रेण लिङ्गपिण्डिके प्रक्षाल्य
सामान्यार्घ्यजलेनास्त्रेणाभिषिच्य, चललिङ्गे अष्टपुष्पिकया
आसनमूर्तिमूलमन्त्रैर्वाऽभ्यर्च्य, अर्घ्यधूपादि दत्वा, अस्त्रेण
पूजामपनीय,
प्. २१५)
शुद्धोदकेन संस्नाप्य, पञ्चामृतादि संभवे तेनापि
जलधूपाष्टपुष्पिकान्तरितेनाशून्य मस्तकं मूलेनाभिषिच्य,
यवादिचूर्णेन विरूक्ष्य, सम्यक् शुद्धिं कृत्वा, मूलेन
पञ्चवारं ब्रह्मभिरङ्गैः स्वाहान्तव्योमव्याप्यादिना ना
सहस्रधारया च सुगन्धिशीतलजलेन यथेष्टमभिषिच्य,
गन्धोदकेन स्थापितशिवकलशेनापि संस्नाप्य,
पश्चाद्धृदयेनार्घ्यजलेनाभिषिच्य, वर्मणा शुक्लवस्त्रेणोन्मृज्य
। पीठे समारोपयेत् ॥ एवं कृतात्मस्थान द्रव्य मन्त्रलिङ्गशुद्धिः
शिवं पूजयेत् ॥ (३३) (प्रभा) अथ मन्त्रशुद्धिमुदाहृत्य
पञ्चमीं लिङ्गशुद्धिमभिधत्ते (तदनु) इत्यादिना (समारोपयेत्)
इत्यन्तेन । तथा
प्राङ्मुखस्सकलैर्द्रव्यैरभिषिञ्चेद्यथाविधि ।
पीठमारोपयेत् पश्चादुदगास्यस्समर्चयेत् ॥
च कल लिङ्गे तु पूर्वास्यस्स्थि
ई पा स्नानवेद्युपरि वस्त्रं निधाय, सडुत्थासनं संपूज्य,
ओन्नमो देवदेवेश सर्वलोकैक नायक ।
प्. २१६)
उत्तिष्ठं स्नानकर्मार्थमात्मरक्षार्थमेव च ॥
इति विज्ञाप्य, शिवलिङ्गं समादाय, स्नानवेद्युपरि न्यस्य
इत्यधिकः पाठः ॥
पाठः ॥
(६८) त्वा ----- पूजयेत् । इति लिङ्गमूर्द्धगतां पूजां पूर्वकाल
प्रकल्पिताम् । गायत्र्या पूजयित्वा इति श्रीमत्कामिकवचनं हृदि
निधाय प्राक्कालकृतां लिङ्गोत्तमाङ्गसङ्गतामर्चां गायत्र्या
यजेदित्याह (पूर्वरचिताम्) इति । यदि चललिङ्गं तदा
पेटकमुद्घाटय लिङ्गं हस्ताभ्यां संगृह्य, वस्त्रं विसृज्य
स्नानवेद्युपरि विन्यस्य गायत्र्याऽर्चयेत् । (आवर्त्य) इति ।
कनिष्ठाद्यङ्गुलीभिः सद्यादिशिरस्स्पर्शनक्रमेण विन्यस्येत्यर्थः
। तथा श्रीमदंशुमति वक्त्रन्यासार्ध्यमेवं च निर्माल्यस्य
विसर्जनम् इति । अत्र च एवं नैष्ठिकः । भौतिकस्तु ईशानादिक्रमेण
पञ्चशिरस्स्वर्घ्यमङ्गुष्ठादिभिर्न्यासं च कुर्यात् ।
प्. २१७)
तद्यथा श्रीमत्सूक्ष्मे
अर्घ्योदकेन संप्रोक्ष्य वक्त्रन्यासं समाचरेत् ।
अङ्गुष्ठादिकनिष्ठान्तं पञ्चब्रह्ममनुं न्यसेत् ॥
इति । लिङ्गशब्देन चात्र लिङ्ग द्वित्रिकरणे इति धात्वर्थगत्या लिङ्गयति
सृष्टिस्थित्यादिभिः कृत्यैः जगत् चित्रीकरोतीति पारमेश्वरं
तेजोऽभिधीयते । तद्व्यक्तिस्थानं तु
शैलादिकमुपचाराल्लिङ्गशब्देनोच्यते । यदाहुर्गुरवः
लिङ्गितं चित्रितं येन जगत् कृत्यैश्च पञ्चभिः ।
तत्तेजश्शाम्भवं लिङ्गं भाक्तं तद्व्यक्तिभूमिकम् ॥
इति । (पूजामादाय) इति । अत्र कनिष्ठानामिकामध्ये पुष्पं
संगृह्य, अङ्गुष्ठतर्जनीभ्यां लिङ्गमस्तकात्
पूजामस्त्रेणावरोप्य, पुष्पं लिङ्गोत्तमाङ्गे विन्यसेत् । तथा
श्रीमदंशुमति
कनिष्ठानामिकामध्ये नवपुष्पं तु संग्रहेत् ।
अङ्गुष्ठतर्जनीभ्यां च निर्माल्यञ्च विसर्जयेत् ॥
प्. २१८)
इति ।
लिङ्गं प्रक्षाल्य चास्त्रेण शिवास्त्र यत् प्रकीर्त्तितम् ।
रुद्ररूपधरा विघ्ना?स्तेन प्रोत्सारितास्तु ते ॥
पीठं प्रक्षाल्य पश्चात्
इति श्रीमत्सर्वज्ञानोत्तरश्रुतेः विघ्ननिरसनाय लिङ्गपीठे
शिवास्त्रेणाभिषेचयेदित्याह (अस्त्रेण) इति ॥
इत्थं चलाचललिङ्गयोः सामान्येन लिङ्ग शोधनमुदाहृत्य
इष्टलिङ्गे पञ्चामृताद्यभिषेकाय अष्टपुष्पिकार्चनलक्षणं
सामान्यावाहनं करणीयमित्याह (चललिङ्गे) इति । (चललिङ्गे)
बाणादिलिङ्गे । तथा श्रीमत्सुप्रभेदे
स्फाटिकं क्षणिकं शैलं बाणलिङ्गं च लोहजम् ।
चललिङ्गम् समाख्यातम् इति । अष्टपुष्पिका लक्षणमग्रे वक्ष्यति ।
अत्र इष्टलिङ्गं गायरीपूजादिकं विना
केवलमष्टपुष्पिकयाऽभ्यर्च्यं अभिषेचयेदिति केचिदूविरे ।
तदसमञ्जसं, तत्रापि गायत्री पूजाया विहितत्वात् ।
प्. २१९)
तथा श्रीरामनाथपद्धत्यां
गायत्र्या प्राक्कृतामर्चामभ्यर्च्याजादिशम्बरैः ।
सामान्यार्घ्येण दत्वाऽर्घ्यं तथा ब्रह्माणि विन्यसेत् ॥
लिङ्गस्थं माल्यमैशान्यां हृदा चण्डाय निक्षिपेत् ।
अस्त्रेण पिण्डिकां लिङ्गं प्रक्षाल्यास्त्रार्घ्य वारिणा ॥
हृदाभिषेचयेल्लिङ्गमिति लिङ्गविशोधनम् ।
शिवमभ्यर्च्ययेदङ्गैः पीठंमूर्तिशिवादिभ्ः ॥
इति । चललिङ्गे पुनः स्थिरलिङ्गवत्
स्थिरासनपूजादिपूर्वमभिषेचनमनुचितम् । यदाह
श्रीमज्ज्ञानरत्नावलीकारः इष्टलिङ्गपूजायामावाहनादि कृत्वा
पञ्चगव्यादि स्नपनकरणमशक्यम् । यदि पञ्चगव्यस्नपनादि
क्रियते तदानीं निर्माल्यसंकरप्रसङ्गः । अतः
पञ्चगव्यादिविस्तरस्नपनकरणाय लिङ्गशुद्धिसमनन्तरं
अष्टपुष्पिकया आसनमूर्त्तिमूलैर्वा शिवं संपूजयेत् इति ।
प्. २२०)
तथा चाह भगवान् मृगेन्द्रपद्धतिव्याख्याकारः ।
अन्येत्वस्य चललिङ्गत्वात्
शक्त्यादिशक्तिपर्यन्तानामासनमन्त्राणां पीठ एव
न्यस्यमानत्वात्
समग्रासनपूजाष्टत्रिंशत्कलान्यासादिपूर्वकं
स्थिरलिङ्गतदावाहनादिषु कृतेष्वपि चलनमित्त्युन्ति ।
तन्न युक्तं
पूज्यमानं यदा लिङ्गं हस्तादि स्पर्शतो मनाक् ।
चलितं घोरमन्त्रस्य शतं शेष क्रियां नयेत् ॥
इति ज्ञानरत्नावल्यां मूलवचनत्वेनोक्तत्वात्
समग्रासनपूजायां विसर्जनात् पूर्वं चलनं न योग्यम् ।
किञ्च वायव्येशानकोणयोर्गणपतिं गुरुपूजायाः सर्वासु
संहितासु पद्धतिष्वपि करणीयतया विहितत्वात्, स्नपनसमये
निर्माल्यशुद्धिकाले पूजितयोस्तयोर्गणपति गुर्वोः पूजामध्ये
विसर्जनस्याश्रुतत्वात्, स्थण्डिलार्चितदेवानां विसर्जनात्,
प्. २२१)
पूर्वं चलने प्रायश्चित्तस्य श्रुतत्वात्, तयोश्चलनमवश्यभावि ।
अतः समग्रासनपूजा न कार्येत्यादि तत एवावधार्यम् ।
तथाऽन्यत्र
सासना मूर्तिमूलांगा नेत्रहीनाऽष्ट पुष्पिका ।
एतदावाहनं संभोस्स्नानकालोचितं विदुः ॥
अलमेतावदात्मार्थे
इति । (अर्घ्यधूपादि) इति । अत्र अर्घ्यं विशेषार्घ्यम् । तथा
श्रीरामनाथपद्धत्यां शिवमभ्यर्चयेदङ्गैः
पीठमूर्तिशिवादिभिः । विशेषाऽर्घ्येण दत्वाऽर्घ्यम् इति ।
तैलादिद्रव्याभिषेकविधिमाह (पञ्चामृतादिसंभवे) इति ।
अत्र पञ्चामृतन्तावत् द्विविधं रसंफलपञ्चामृतभेदेन ।
तत्र रसपञ्चामृतं गन्धोदकमिश्रितानि क्षीरदधिघृत
शर्करामधूनि । यद्येतानि कदलीपनसाम्रफलमिश्रितानि तर्हि
फलपञ्चामृतं भवति । तथा मधु
प्. २२२)
पयदधिसर्पिश्शर्करा मध्यमादीन्
शरपदशिवकोष्ठैर्विन्यसेद्ब्रह्ममन्त्रैः ।
कुडवयुगलयुग्मप्रस्थपादन्तु पञ्चामृतमिह
शिवमन्त्रैस्स्नापयेत् । त्रीणि काले ॥ इति । तथा श्रीचिन्त्यविश्व सादाख्ये
मध्ये दुग्धं दधि प्राचि दक्षिणे घृतमेव च ।
उत्तरे मधु संयोज्यं शर्करा पश्चिमे भवेत् ॥
कदलीपनसाम्रञ्च गन्धोदकन्तथैव च ।
अग्न्यादीशान पर्यन्तं स्थापयेत्तु विशेषतः ॥
इति ।
पञ्चमृतं ततस्स्नाप्यप्रतिप्रस्थं विशेषतः ।
इति । तैलादिरादिशब्दार्थः । तथा श्रीमत्कारणे
प्रथमं गन्धतैलं च द्वितीयं पञ्चगव्यकम् ।
त्रयं पञ्चामृतञ्चैव घृतस्नानं चतुर्थकम् ॥
पञ्चमं पयसा स्नानं दधिस्नानन्तु षष्ठकम् ।
सप्तमं मधुना स्नानं इक्षु स्नानमथाष्टमम् ॥
नवमं फलसारं च नालिकेरोदकं दशम् ।
प्. २२३)
एकादशं गन्धतोयं द्वादशं स्नपनं भवेत् ॥
शंखाभिषेकशुद्धान्नं धूपं दीपं विशेषतः ।
इति । (तेनापि) पंचामृतादिनापि । (जलधूपाष्टपुष्पिकान्तरितेन)
जलधूपाष्टपुष्पिकाभिः अन्तरितं अन्तरं कृतं मध्ये
कृतमित्यर्थः । अत्र पूर्वं तैलमभ्यज्य अष्टपुष्पादि दत्वा
जलेनाभिषिच्य तदनुद्रव्यान्तरेणाभिषेचयेत् । एवं प्रतिद्रव्यं
कुर्यादिति बोद्धव्यम् । तथा श्रीमच्चिन्त्यविश्वसादाख्ये
मध्ये मध्ये च धूपञ्च दीपं चैव प्रदापयेत् ।
जलप्रदानं पुष्पं च तथैवार्घ्यं निवेदयेत् ॥
इति । (अशून्यमस्तकम्) शून्यःपुष्परहितः मस्तकः मूर्द्धा यस्य
तत् शून्यमस्तकं तत् न भवतीति तथोक्तम् । तथा श्रीमत्करणे
न शून्यमस्तकं लिङ्गं पुष्पैः कुर्यात् कदाच इति ।
प्. २२४)
(विरूक्ष्य) उद्वर्त्य । तथा महास्नानं ततः कार्यं
गन्धतैलामृतादिभिः । उद्वर्त्य यवचूर्णेनं इति । (गन्धोदकेन) इति ।
गन्धाश्चन्दनकुंकुमादिगन्धद्रव्याणि । गन्धशब्दोऽयं
पुंसि बहुत्वे च ।
गन्धस्तु सौरभे मृत्योर्गन्धके गर्वलेशयोः ।
स एव द्रव्यवचने बहुत्वे पुंसि च स्मृतः इत्यभिधानात् ।
तैर्युक्तमुदकं गन्धोदकमिति मध्यपदलोपिसमासः तेन ।
(संमृज्य) इति । कवचेन समामृश्येत्यर्थः । तथावर्मणा
वाससाऽमृज्य इति । इत्थं लिङ्गशुद्धिमुदीर्य
उक्तमर्थमुपसंहरन् आत्मादिपञ्चशुद्धिं कृत्वैव
शिवमर्चयेदिति नियमयति (एवम्) इत्यादिना (पूजयेत्) इत्यन्तेन ॥
=== गणेशकमलागुरुपंक्तिपूजा ॥ ===
(क्रि) (३४) त्र पीठस्य वायव्यां दिशि दक्षिणाभिमुखस्थितं
प्. २२५)
गणपतिं पूर्वोक्तवत् ध्यात्वा, ओं हां गणपतये नमः इति
संपूज्य, उत्तरे दक्षिणाभिमुखस्थितां प्रियं पूर्वोक्तरूपां
शिवशक्तिमेव संस्मृत्य, ओं हां महालक्ष्म्यै नमः इति
संपूज्य, ईशाने
सदाशिवमनन्तञ्च श्रीकण्ठञ्च तथाऽम्बिकाम् ।
स्कन्दं विष्णुञ्च ब्रह्माणं गुरून् सप्त स्मरन् यजेत् ॥
ओं हां सदा शिवादिगुरुभ्यो नमः इति गुरुनभ्यर्च्य,
सामान्यार्घ्यं दत्वा, गन्धपुष्पधूपदीपादिभिरिष्ट्वा,
गणेश कमले स्वामिपादुके मां जगद्गुरुम् ।
यजन्तमनुजानीत यथा संपन्नकारकम् ।
इति विज्ञाप्य देवं संपूजयामीति प्रार्थ्य, लब्धानुज्ञः ॥ (३४)
(प्र) अविघ्नार्थन्तु यजनं गणेन्द्रस्य पुरा भवेत् इति
श्रीमत्पौष्करवचनेन पूर्वं गणपतिपूजां
प्. २२६)
लक्ष्मीगुरुपंक्तिसपर्याञ्च वक्ति (तत्र) इत्यादिना (लब्धानुज्ञः)
इत्यन्तेन । सदाशिवादि गुरुसप्तकस्य एकरूपतया ध्यानं
समीरितं तत्रभगवता मृगेन्द्रपद्धतिव्याख्याकारेण
ईशानकोणे जटामकुटयुक्तं सितपाण्डराङ्गं योगपट्टान्वितं
धृतयज्ञोपवीतं नाभिस्थलोपरि कृतयोगमुद्रं द्विभुजं
सौम्येक्षणं ध्यायन गुरुपंक्तिं पूजयेत् इति ।
गणपत्यादेः शिवार्चनं प्रति विज्ञापनप्रकारं
श्रीमन्मृगेन्द्रवचनेन समावष्टे (गणेश) इति ।
हे गणेश हे कमले हे स्वामिपादुके इति एकैकामन्त्रणात्मिका
संबुद्धिः । (यजन्तम्) जगद्गुरुयजनोद्यतम्
(यथासंपन्नकारकम्) यथाशक्त्युपहृतोपकरणम् ॥
=== शिवासनपूजाविधिः ॥ ===
(क्रि) ३५- शिवं यजेत् । ततो देवस्य पीठाधोभागे मध्यतः
प्. २२७)
अधः कूर्मशिलासीनां क्षीरोदसितविग्रहाम् ।
मौलौ बीजांकुराकारां वरदामभयप्रदाम् ॥
पाशांकुशधरां शक्तिं क्रियामाधाररूपिणीम् ।
इति ध्यात्वा, ओं हां आधारशक्तये नमः इति संपूज्य,
ब्रह्मशिलोपरि
पृथ्वीकन्दं कलान्तैकनालकं भावकण्टकम् ।
क्षुब्धमायामहापद्ममनेकदलसंकुलम् ॥
इति ध्यात्वा, ओं हां अनन्तासनाय नमः इत्यभ्यर्च्य,
तन्मध्यगमनन्तेशं शुद्धं व्याप्त्या स्थितं त्वधः ।
ध्यात्वा ब्रह्मशिलामध्ये यजेच्छुभ्रं शिवासने ॥
इति ध्यात्वा, ओं हां अनन्ताय नमः इति संपूज्य,
तत्सामर्थ्यरूपान्
विचित्रकेसरिप्रख्यानन्योन्यं पृष्ठदर्शिनः ।
कृतत्रेतादिरूपेण शिवस्यासनपादुकान् ॥
प्. २२८)
सितकाश्मीरतालालीश्चारुसिंहाकृतीन् स्मरन् ।
आग्नेयादीशपर्यन्तकोणेषु च यथाक्रमम् ॥
ओं हां धर्माय नमः, ओं हां ज्ञानाय नमः, ओं
हां वैराग्याय नमः, ओं हां ऐश्वर्याय नमः इत्यभ्यर्च्य,
कृष्णश्वेतं पूर्वभागे श्वेतरक्तञ्च दक्षिणे ।
रक्तपीतं पश्चिमतः पीतकृष्णमुदग्दिशि ।
चत्वारि गान्तकाण्येवमननन्तेशबलानि तु ।
यद्वा गात्रकान् स्फटिकप्रख्यां स्त्र्यक्षान् सिद्धाशिरोधृतान
स्तब्धबाहुशिरोग्रीवान् पादुकासंक्तमस्तकान्
अग्रगात्रकपादस्थमस्तकान्नररूपिणः ॥
ध्यायन् बुद्धिगुणा धर्ममुखाधिष्ठायकान् यजेत् ।
ओं हां अधर्माय नमः, ओं हां अज्ञानाय नमः, ओं
हां अवैराग्याय नमः, ओं हां अनैश्वर्याय नमः इत्यभ्यर्च्य,
पीठस्योर्ध्वे मेखला यामधोरक्तवर्णमधश्तुदनं नमः
प्. २२९)
तदूर्ध्वे पाण्डरवर्णमूर्ध्वंच्छदनं शुद्धविद्याधो
भागान्तं ईशाने ओं हां ऊध्वर्च्छदनाय नमः इति संपूज्य,
तन्मध्ये
मणिक्य सदृशं कन्दं नालं नीलसमप्रभम् ।
अंकुरन्तु प्रवालाभं दलं रजतसप्रभम् ।
केसरं हेमवर्णाभमग्रे मुक्तावलीयुतम् ।
ओं हां कन्दाय नमः ओं हां बीजाय नमः ओं हां
अंकुराय नमः ओं हां नालाय नमः खल्वपत्रे ओं हां
दलेभ्यो नमः इति विद्येश्वराष्टकरूपाणि दलानि
सञ्चिन्त्याभ्यर्च्य, तन्मूलपीठोपरि ओं हां केसरेभ्यो नमः
पीठोन्नतभागे मध्ये
तप्तचामीकरच्छायां पञ्चाशद्बीजगर्भिताम् ।
केसराणाञ्चतुष्षष्ट्या कर्णिकां पूजयेत्ततः ॥
प्. २३०)
ओं हां कर्णिकायै नमः ओम् हां बीजेभ्यो नमः इत्येवं
समुदितरूपं पद्मं विभाव्य ओं हां पद्माय नमः इति
पूजयेत् । यद्वा समुदितरूपं पद्मं कर्णिकाञ्च यजेत् ।
ततः पूर्वादीशान्तकेसरेषु
विद्येश्वराधिष्ठात्रीश्शिवशक्तीर्वामाद्या अष्टौ ।
शक्तिलिङ्गमूले कर्णिकायां शिवशक्तिमेव मनोन्मनीञ्च
उद्यद्दिनकराभासास्त्रिनेत्राश्च चतुर्भुजाः ।
जटामकुटखण्डेन्दुमण्डिता धृतचामराः ॥
वरदाभयहस्ताश्च शिवासक्तकराम्बुजाः ।
गोक्षीरधवलां शक्तिं कर्णिकायां मनोन्मनीम् ॥
इति ध्यात्वा, ओं हां वामायै नमः ओं हां ज्येष्ठायै नमः
ओं हां रौद्र्यै नमः ओं हां काल्यै नमः ओं हां
कलविकरण्यै नमः ओं हां बलविकरण्यै नमः ओं हां
बलप्रमथिन्यै नमः ओं हां
प्. ३३२)
सर्वभूतदमन्यैः नमः कर्णिकेशाने ओं हां मनोन्मन्यै
नमः इति संपूज्य, दलाग्रवृत्ते ओं हां सूर्यमण्डलाय नमः
इति पीतभास्वररूपं तदधिपतिं
ब्रह्मा चतुर्मुखः पीतश्चतुर्दोर्दण्डमण्डितः ।
स्रुग्दण्डाक्षकुशोपेतस्सूर्यमण्डलमध्यगः ॥
इति ध्यात्वा, ओं हां सूर्यमण्डलाधिपतये ब्रह्मणे नमः
इत्यभ्यर्च्य केसराग्रवृत्ते ओं हां सोममण्डलाय नमः इति
श्वेतरूपं तदधिपतिं- विष्णुर्चतुर्भुजो माली
शंखचक्रगदाब्जधृक् ।
९०- नीलांबुदप्रतीकाशस्सोममण्डल (संस्थितः) मध्यगः ।
इति ध्यात्वा, ओं हां सोममण्डलाधिपतये विष्णवे नमः
इत्यभ्यर्च्य, कर्णिकाग्रे ओं हां अग्निमण्डलाय नमः इति
रक्तरूपं तदधिपतिञ्च
प्. २३२)
अग्निमध्यस्थितं रुद्रं नीलकण्ठं त्रिलोचनम्
व्याख्यामुद्रानलज्ञानं शूलहस्तं चतुर्भुजम् ॥
सर्वालंकारिणं नागराजयज्ञोपवीतिनम् ।
इति ध्यायन् ओं हां अग्निमण्डलाधिपतये रुद्राय नमः इतीष्ट्वा,
कर्णिकामध्ये कुटिलात्मिकं क्षीरोदनिभां शक्तिं विचिन्त्य ओं
हां शक्तिमणुलाय नमः तदधिष्ठायकमीश्वरञ्च
शाक्तेश्च मण्डलासीनं व्यालयज्ञोपवीतिनम् ।
चन्द्रार्द्धशेखरं त्र्यक्षं शुद्धस्फटिकनिर्मलम् ॥
खड्गत्रिशूल बाणाक्षमालाभय करात्वितम् ।
कमण्डंलुधरं देवं वरारविन्दधारिणम् ॥
दक्षवामक्रमात् सिंहगजचर्मपरिच्छदम् ।
इत्थं विभाव्य, ओं हां शक्तिमण्डलाधिपतये ईश्वराय नमः
इति संपूज्य, तदुपरि क्षित्यादिकुटिलाप्रान्तव्याप्तिकमासनमेवं
विभाज्य ओं हां शिवासनाय नमः इति संपूज्य । (३५)
प्. २३३)
(प्र) अथ तदुपरि किं कुर्यादित्याशंक्य शिवासनपूजाविधिमाह
(शिवम्) इत्यादिना (संपूज्य) इत्यन्तेन । (तत्र
प्रथममाधारशक्तियजनविधानमाह (देवस्य) इति ।
तद्ध्यानमाह (अधः) इति । (अधः) शुद्धाशुद्धसकल
जगतामधः प्रदेशे । (कूर्मशिलासीनाम्) कूर्मशिला
आधारभूतशिला तस्यामासीना समुपविष्टा ताम् । तथा
श्रीमत्सर्वज्ञानोत्तरे ततश्शिलां प्रतिष्ठाप्य तस्या मध्ये
यथाविधि । तत्र शक्तिं न्यसेद्विद्वानंकुराकारसन्निभाम् ॥ इति ।
(क्षीरोदसितविग्रहाम्) क्षीरमुद्रकं यत्र क्षीरोदः दुग्धसागरः
स इव सितं विग्रहं यस्याः सा तथोक्ता ताम् । (बीजांकुसकाराम्)
बीजांकुराणामाकार इवाकारो यस्यास्सा तथोक्ता ताम्
प्. २३४)
कुटिलात्मिकामिति यावत् तस्या एवांकुरोपमानश्रवणात् ।
तथा हि श्रूयते श्रीमत्कालोत्तरे
चन्द्राग्नि रविसंयुक्ता ह्याद्या कुण्डलिनी तु या ।
हृत्प्रदेशे तु सा ज्ञेया ह्यंकुसकारवत् स्थिता ॥
इति । अस्या ह्यशुद्धानां जगदंकुराणामाधारतया
शुद्धानामुपादानतया च समस्तजगदधिष्ठानात्
तदाकारत्वोपमानमुपपन्नम् । सुगममन्यत् । सेयमाधारशक्तिः
शिवशक्त्यधिष्ठाता कुटिलेति व्यपदिष्टा तत्रभवता
सोमशंभुपद्धतिव्याख्याकारेण । नतु
किमर्थमाधारशक्तिन्यासः प्राग्विहितः ? उच्यते आधारशक्तेः
सर्वाधारत्वेन प्राक् पूजनम् ।
धर्मादीनाञ्चानन्तसामर्थ्यरूपत्वान्निराश्रयाणामवस्थित्यस्
अंभवात् शक्तिमतोऽनन्तस्य तदासनस्य च
सहस्रदलमायापद्मात्मकस्य न्यासोऽर्थ सिद्धएव ।
प्. २३५)
यदुक्तं श्रीमत्समानतन्त्रे
बीजांकुरं पुरा शक्त्या पश्चादानन्तमासनम् ।
अनन्तञ्च ततः कुर्यात्
इत्यादि । अनन्तेश्वरपूजामाह (ब्रह्म) इति । (ब्रह्मशिलोपरि)
आधारशिलोर्द्ध्वम् । ननु पूर्वं कूर्मशिलासीनामित्यत्र
आधारशिलासीनामिति, ब्रह्म शिलोपरीत्यत्रापि आधारशिलोर्ध्वमिति च
कथमुभयत्र एकार्थतया व्याख्यातम् ? सत्यं आधारशिला तावत्
द्विविधा कूर्मब्रह्मशिलाभेदात् । तत्र ब्रह्मशिला तु कूर्मशिलोपरि
ब्रह्मपदस्था आधारशिला । तथा श्रीमत्सुप्रभेदे
आदौ कूर्मशिलां न्यस्त्वा ब्रह्मभागान्वितां दृढाम् ।
न्यसेत् ब्रह्मशिलां मूर्ध्नि नन्द्यावर्तशिलात्विताम् ॥
इति । तदुक्तं श्रीमज्ज्ञानरत्नावल्यां पूर्वं कूर्मशिलायान्तु
ध्यात्वा शक्ति निवेशयेत् । ब्रह्माख्यायामनन्तञ्च इति ।
प्. २३६)
तथा श्रीमत्कालोत्तरे
नपुंसकात्मना कुर्याद्ब्रह्म कूर्म शिलान्ततः ।
इति । तथा श्रीमत्सर्वज्ञानोत्तरे ब्रह्ममध्ये शिलां न्यस्य इति ।
अनन्तासन पद्मध्यानमाह (पृथ्वी) इति । (कलान्तैकनालकम्)
जलादिकलान्तैकोनत्रिंशत्तत्वैकनालम् । (भावकण्टकम् ।
भावाः धर्मादयो बुद्धिधर्माः । एतेषां स्वरूपं
पूर्वमुदीरितम् । तत एव कण्टकाः नालगतास्तीक्ष्णाग्रावयवाः
यस्य तत् तथोक्तम् । वेणौ द्रुमांगे रोमाञ्चे क्षुद्राशत्रौ च
कण्टकः इति वैजयन्ती । (अनेकदलसंकुलम्) मायाया
अनेकश्रोवोसुक्तत्वात् सहस्रवर्णपरिपूर्णमित्यर्थः ।
(क्षुब्धमायामहापदाम्) इति । अत्र
पृथिव्यादिकलान्तत्रिंशक्तत्वात्मकं
अशुद्धमायाक्षुब्धभागलक्षणमनन्तासनपद्मं
शुद्धाध्वापेक्षया मायीयस्य
प्. २३७)
किञ्चिज्ञत्वादिहेतुत्वान्मोहत्वाच्च मुकुलाकारमिति बोध्यम् । तथा
समभिहितं श्रीमत्सोमशंभुचरणैः कुन्देन्दुधवलोद्दण्ड
पाथोजमुकुलाकृतिम् । यजेद्ब्रह्मशिलारूढं ३२-
शिवस्यानन्तमासनम् ॥ अनन्तस्य ध्यानमाह (तन्मध्यगम्) इति ।
(शुद्धम्) श्वेतम् । (अधः) शुद्धविद्याधोभागे । (व्याप्त्या)
निखिलाशुद्ध्याध्वद्धाध्वव्यापकत्वेन । तथा श्रीमत्किरणे
शुद्धेऽध्वनि शिवः कर्तां प्रोक्तोऽनन्तोऽसिते प्रभुः इति ।
अत्र अनन्तो विद्येशानां प्रथमः नत्वनन्ताख्यो नागराजः ।
तस्योर्वीतत्वान्तमेव व्याप्तिर्न तूर्ध्वम् । तथा
श्रीमत्पञ्चावरणस्तवे गुरुभिरुपदिष्टं
प्रपञ्चव्याप्तितो ब्रह्मशिलास्थं मन्त्रनायकम् ।
मायापद्मासनं श्वेतमनन्तं प्रणमाम्यहम् ॥
इति । यद्यपि वक्ष्यमाण विद्यापद्मदलत्वेन विद्येश्वराणां स्थितिः
।
प्. २३८)
अर्थसिद्धा । यदुक्तं च श्रीमत्किरणे विद्येश्वरदलाक्रान्तम् इति ।
तथाप्यनन्तस्यात्र प्रपञ्चव्याप्त्या च स्थितिरुक्तेत्यविरोधः ।
एवं निर्णीतं श्रीमत्सार्द्धं त्रिशतिवृत्तिकृता ।
सिंहासनाधारभूतधर्मादिपादचतुष्टय सपर्यामाह (तत्) इति ।
(तत्सामर्थ्यरूपान्) तस्य अनन्तस्य सामर्थ्यरूपाः
बुद्धिगुणधर्माद्यधिष्ठायकशक्तिलक्षणाः तान् ।
तदुक्तं श्रीमत्पराख्ये तस्य भा विदिशां पादा गात्रकाणि
दिशां मताः इति । तस्येति अनन्तस्य भाः तेजसः
विदिशामधिष्ठायकाः शक्तयः पादाः दिशामधिष्ठायकाः
गात्रकाणि इति तद्वृत्तौ कथितम् । तेषां ध्यानमाह(विचित्र) इति ।
(विचित्रकेसरिप्रख्यान्) आश्चर्यकरसिंहकल्पान् । (पृष्ठदर्शिनः)
पृष्ठस्य दर्शयितारः न तु द्रष्टारः । (कृतेत्रेतादिरूपेण) इति ।
अत्र धर्मादयः
प्. २३९)
कृतत्रेताद्वापरकलियुगरूपत्वमापन्नास्सन्तः शिवासनपादतां
भजन्तीति अवसेयम् । तथा श्रीमत्किरणे चतुर्युगमहापादम् इति ।
(सितकाश्मीरतालादीन्) सितश्च श्वेतः काश्मीरश्च रक्तः तालश्च
पीतः तालपदेनात्र हरितालमुच्यते । कलिः कृष्णः
सितकाश्मीरतालादयः तान् । शेषं सुगमम् । धर्मादीनां
सर्वातिशायिवीर्यत्वात् सिंहरूपत्वमिति निरूपितं श्रीमता
मृगेन्द्रवृत्तिकृता ॥
अत्र अनन्त सामर्थ्यरूपाणां धर्मादिशब्द वाच्यत्वे
निमित्तमुक्तं तत्र भगवता रामकण्ठेन श्रीमत्कालोत्तरवृत्तौ
धर्मादयस्त्वनन्तसामर्थ्यविशेषाः यैः सर्वं धत्ते जानानि न
केनचिदनुरज्यते सर्वेश्वरश्च भवति इति । न तु बुद्धिधर्मा इति
मौर्ख्याद्वयाख्येयम् । तेषामत्र प्रगमासंभवात् ।
प्. २४०)
न चेह पशवः पाशाश्चेज्यन्त इति ।
मात्रकभूताधर्माद्यर्चनमाह (कृष्णश्वेतम्) इति ।
अधर्मादीनां कृष्णश्वेतादिवर्णद्वयवत्वमत्र
९३- धर्मादिकान्तिसंक्रान्त्या सञ्जातमित्यवसेयम् । तथा
श्रीमज्ज्ञानरत्नावल्यां
अधर्मश्च तथाऽज्ञानमवैराग्यं शिखिध्वज ।
अनैश्वर्यमिति प्रोक्तं गात्रकाणां चतुष्टयम् ॥
धर्मादिवर्णसंमिश्रम्
इति । शेषं सुगमम् ॥
एतेषामेव ध्यानान्तरमाह (यद्वा) इति । स्पष्टः श्लोकार्थः ।
तदनु शिवासनपर्यंकस्य चरण
भूतधर्मादेस्तद्गात्रकरूपाधर्मादेश्च सपर्यामुदीर्य तस्य
विचो?लरुपाधश्छदनोर्ध्वच्छदनपूजनमतिदिशति (पीठस्य) इति ।
(अधश्छदनम्)
प्. २४१)
अधस्तत्वानि आच्छादयतीति तथोक्तम् । (तदूर्ध्वे)
ऊर्ध्वमेखलोपरिभागे । पद्मावयवभूतकन्दादिपूजामाह
(तन्मध्ये) इति । तेषां ध्यानमाह (माणिक्य) इति । स्पष्टः
श्लोकार्थः । अत्र
एवन्तत्वानि भावाश्च करणानि नपूंषि च ।
शुद्धाशुद्धाध्वनोर्विप्रा व्याख्यातानि समासतः ॥
इति श्रीमन्मृगेन्द्रश्रुतेः शुद्धविद्यामयपृथिवीतत्वरूपं
ब्रह्माणं कन्दत्वेन ध्यायेत् । शुद्धविद्यामयाः
पञ्चाशत्भावप्रत्ययाः बीजत्वेन ध्येयाः । शुद्धविद्यामयी
शुद्धिरंकुरत्वेन ध्येया । तन्मयं कलातत्वान्तं वस्तु नालत्वेन
ध्येयम् । एवमभिहितं श्रीमन्मृगेन्द्रपद्धतिव्याख्याकारेण ।
(खल्वपत्रे) पीठोर्ध्वनिम्नभागे । तथा
पीठोर्ध्वभागनिम्नन्तु खल्वपत्रं प्रतीयते ।
तत्राब्जं तत्क्रमादूर्ध्वं दलकेसरकर्णिकाः ॥
इति । दलानि किं रुपाणीत्याशंक्याह (विद्येश्वराष्टकरूपाणि) इति ।
प्. २४२)
अत्र अष्टानां विद्येश्वराणां शुद्धाध्वनि भोगार्थं
मुख्यतया प्रतिसर्गं सृज्यत्वेनावस्थितेरुक्तत्वात्
तदावासभूतानां पुराणानां प्रागादिष्वष्टासु दिसु
नवस्थानश्रुतेश्च तदुपाधीन्यष्टौ दलानि
ध्येयानीत्येवमाम्नातं तेनैव । (तन्मूलपीठोपरि) तस्य
खल्वपत्रस्य मूलपीठं मूलपिण्डिका तस्या उपरि ।
कर्णिकाध्यानमाह (तप्तं) इति । (तप्तचामीकरच्छायाम्)
तप्तचामीकरं द्रुतकनकं तस्य छायेव छाया यस्याः सा
तथोक्ता । छाया सूर्य प्रिया कान्तिः प्रतिबिम्बमनातपः इत्यमरः ।
(पञ्चाशद्बीजगर्भिताम्) इति । अत्र पञ्चाशद्बीजानि
पञ्चाशद्वर्णा एवेत्युक्तं श्रीमत्पौष्करे । तथा हि
पञ्चाशद्बीजानि कर्णिकायां ककारादिमकारान्तानि
पञ्चविंशतिः अकारादि विसर्गान्तानि षोडश
यकारादिक्षकारान्तानि न वेति ।
प्. २४३)
(केसराणां चतुष्षष्ट्या इति । अत्र मकार रहिताः
ककारादिपञ्चवर्गाः अन्तस्थाः ऊष्माणश्च
आद्यक्षरादिक्रमेण प्रत्येकमकारबिन्दुयुक्ता द्विरुच्चारिता एव
केशराणाञ्चतुष्षष्टिरित्युक्तं श्रीमत्पौष्करे । कर्णिका तु
समस्तवाचककारणभूतपञ्चाशदक्षरनिचिता
परमाकाशरूपा परमकुण्डलिन्येव ध्येया । पद्मन्तावत्
परमेश्वरस्य नित्याधिष्ठेय बिन्दुतत्वमयं ध्येयमित्युदितं
श्रीमन्मृगेन्द्रपद्धति व्याख्याकारेण । एतत् प्रफुल्ल भावनीयम् ।
यदाह श्रीमत्सोमशंभुपद्धतिव्याख्याकारः उत्फुल्लत्वं
सितत्वञ्चास्य शुद्धविद्यामयत्वमेव द्योतयति । यतः तस्य
सर्वज्ञत्वादिहेतुत्वेन विकासकत्वं शुद्धत्वञ्च इति ।
वामादिशक्तिपूजाविधिमाह (ततः) इति ।
ननु शिवासनसपर्याविधौ कथं
वामादिशक्तिपूजावर्णनमित्याशंक्य
प्. २४४)
पद्मदलाकाराणां मन्त्रमहेश्वराणामधिष्ठानभेदभिन्ना
या वामादि शिवशक्तयः ता एवात्र पूजनीया वान्या इत्याह
(विद्येश्वराधिष्ठातृशिवशक्तीः) इति । तासां ध्यानमाह
(उद्यद्विनकराभासाः) इति । मनोन्मन्या ध्यानमाह
(गोक्षीरधवलाम्) इति । अत्र वामादिशक्तीनां रक्तत्वमैश्वर्य
रक्तानामनन्तादीमधिष्ठानात् । मनोन्मन्यास्तु
अनन्ताद्यधिष्ठान सहित्यात् शुक्लत्वमिति समीरितं
श्रीमन्मृगेन्द्रपद्धतिव्याख्याकारेण ।
सूर्यादिबिम्बसपर्याविधिमाह (दलाग्रवृत्ते) इति । एतानि मण्डलानि
न लोकसिद्धानि भुवर्लोकचारिणी । अपि तु
ज्ञानक्रियेच्छाशक्तीनामाविर्भावाधिकरण भूतानि
आत्मतत्वविद्यातत्वशिवतत्व वाच्यानि बिन्दुविकारिणि ।
तेषां लोकसिद्धानां ब्रह्माण्डान्तर्गतत्वेन
प्. २४५)
दिव्यसिंहासने प्रगमासंभवात् । तदधिपतयश्च न लोकसिद्धाः
। किन्तु तदधिष्ठातृशक्तिविशेषा इत्युक्तं गुरुभिः
श्रीमन्मृगेन्द्रवृत्ति दीपिकायाम् । यद्वक्ष्यति
अरुणाभं स्मरेन्नेत्रं दृक्क्रियेच्छात्मकं विभोः ।
त्रितत्वरूपवह्न्यादिमण्डल त्रितयाश्रयम् ॥
इति । यद्वा इच्छाज्ञानक्रियाशक्तयः सूर्यसोमाग्निमण्डलानि ।
तदधिपाः ईश्वरसदाशिवशिखाख्याः
अधिकारभोगलयावस्थशिवभेदा एव । तदुक्तं
शिवतन्त्ररहस्यसारे
ईश्वरो ह्यात्मतत्वन्तु विद्यातत्वं सदाशिवः ।
शिवतत्वं परं शुद्धमप्रमेयमनौपमम् ॥
इति । परतत्वाभिव्यक्तिपदभूतशक्तिमण्डलपूजामाह
(कर्णिकामध्ये) इति । शिवासनपूजामाह (तदुपरि) इति । (तदुपरि)
शक्तिमण्डलोर्ध्वम् । (क्षित्यादिकुटिलाप्रान्तव्याप्तिकम्) क्षितिः
प्. २४६)
क्षितिशब्देन कुटिलारूपा आधारशक्तिर्विवक्षिता ।
९५- सा आदिर्यस्याः सा क्षित्यादिः कुटिलाप्रान्ता कुटिला
शक्तिमण्डलं प्रान्ते यस्याः सा कुटिलाप्रान्ता क्षित्यादिश्चासौ
कुटिलाप्रान्ता च क्षित्यादिकुटिलाप्रान्ता तथाविधा व्याप्तिः यस्य तत्
तथोक्तम् ॥
अत्र प्रोक्तनयेन आधारशक्तेः शक्तिमण्डलस्य च
कुटिलाशक्त्यात्मकत्व निरूपणात् इदं
शक्त्यादिशक्तिपर्यन्तासनमित्युच्यते । ननु कुटिलाशब्देन
परमेश्वरस्य नित्याधिष्ठेया महामाया कथ्यते
तदन्तव्याप्तिकत्वमत्र शिवासनस्य कथमुपवर्णितम्
क्षित्यादिशुद्धविद्यान्ततत्वव्यापकमासनम् इति श्रुतेः इति चेत् ।
सत्यं क्षित्यादिशुद्धविद्यान्तासनं वुभुक्षुविषयम् ।
क्षित्यादिमहामायान्तव्याप्तिकमासनं त्वत्र
मुमुक्षुविषयातयोक्तमित्यवधातव्यम् ।
प्. २४७)
यदाह श्रीमत्सोमशंभुपद्धतिव्याख्याकारः
क्षित्यादिशुद्धविद्यान्ततत्वव्यापकमासनम् इत्यत्र शुद्धविद्या
कुटिलाशक्तिः परा वागीश्वरी विद्या मायाऽविद्या परा स्मृता इति
श्रुतेः ।
शक्तयादिशक्तिपर्यन्तमासनम् इति प्रतिष्ठायां वक्ष्यमाणत्वात्
पीठमेवंविधं कल्प्यमशेषाध्वविनिर्मितम् इति श्रुतेश्च ।
शक्तितत्वस्य पर्यायान्तरे सत्यपि शुद्धविद्यान्तिमतत्वनामधेय
शुद्धविद्यातत्व ग्रहणं बुभुक्षुविषये शिवासनस्य
तज्ज्ञापनमिति केचित् । अस्यां पद्धत्यां सकृत्
बुभुक्षुमुमुक्षुविषयभेदेन कर्मणां
विधानादुभयमप्याचार्यानुमतमेवं इति ।
अत्र मूर्त्यादिमन्त्राणां लिङ्गे पूजा आधाररूपाणां पीठे इति
स्थितम् । तथोक्तं श्रीमद्रत्नत्रये पीठमन्त्रान् न्यसेत् पीठे
मूर्त्यादीन् लिङ्गविग्रहे इति ।
प्. २४८)
ननु प्रतिष्थासमये आधारशक्त्यादि सर्वमन्त्राणां न्यासः
कृतः पुनः प्रत्यहं किमिति क्रियते । सत्यं तदा
न्यस्तमन्त्राणामेव यजनं प्रीत्यर्थं प्रत्यहं कर्तव्यम् ।
नो चेत् पराङ्मुखा भवन्ति । तदुक्तं श्रीमज्ज्ञानरत्नावल्यां
मन्त्राणां यजनं कार्यम् नित्यं सन्निधिहेतवे ।
अन्यथा न प्रयच्छन्ति सिद्धिं विघ्नं प्रकुर्वते ॥
बहुदैवसिकी पूजा यदि नष्टा तदा गुह ।
पराङ्मुखास्ततो मन्त्रा व्रजन्ति स्थानमात्मनः ॥
इति ॥
=== शिवमूर्तिनिवेशनम् ॥ ===
(क्रि) (३६) ओं हां हं हां शिवमूर्तये नमः इति मूर्तिं
तेजोरूपां दण्डाकारामविभक्तावयवां
शिवतत्वात्मकपरबिन्दुव्याप्तिकां विभाव्य, लिङ्गवेष्टने निवेशयेत्
॥
९६ (प्र) अथ शिवासनपूजाविधिमभिधाय
शिवावाहनस्याधिकरणापेक्षत्वात्
प्. २४९)
शिवमूर्तिनिवेशनविधिमाह (ओं) इत्यादिना (निवेशयेत्) इत्यन्तेन ।
शिवमूर्तिमन्त्रोद्धारः प्रदर्शितः श्रीमज्ज्ञानरत्नावल्यां
हृत्संपुटस्त्वजातो वै मूर्तिमन्त्र ददाहृतः इति (अविभक्तावयवाम्)
इति । व्यक्तावयवत्वं विद्यादेहस्य आगमेषूक्तत्वात् ।
उभयात्मिकामित्यर्थः । (शिवतत्वात्मकपरबिन्दुव्याप्तिकाम्)
शिवतत्वमात्मा स्वरूपं यस्य स शिवतत्वात्मकः स चासौ
परबिन्दुः शिवतत्वापरपर्यायं परबिन्दुतत्वमित्यर्थः । तस्य
व्याप्तिः व्यापकत्वं यस्याः सा तथोक्ता ताम् ।
अत एवोक्तरीत्या सदाशिवादिशब्दवाच्येषु तत्वत्रयेषु शिवतत्वमेव
मुमुक्षुभिः शिवमूर्त्युपाधितया भावनीयमिति गुरवः ।
तथा च श्रीमज्ज्ञानरत्नावल्यां
शक्त्यादिशक्तिपर्यन्तमासनं परमेष्ठिनः ।
प्. २५०)
शिवतत्वस्थिता शक्तिर्मूर्तिर्ज्ञानात्मिकाऽनघा ॥
इति ॥ ननु मूर्तिमीश्वरतत्वाख्यां लिङ्गनाहेतु विन्यसेत् इति वचनेन
ईश्वरतत्वमेव शिवमूर्त्युपाधित्वेन ध्येयं कथमत्र
शिवतत्वमित्युक्तम् । सत्यं ईश्वरतत्वमयमूर्तिध्यानं
बुभुक्षुविषयं, अत्र तु मुमुक्षुविषयतयोक्तमित्यविरोधः ।
तथा श्रीमच्छिवतन्त्ररहस्यसारे
साधकस्येशतत्वाख्यपदापादकम् इति । तथा चाह
आक्षेपसमाधानपूर्वं श्रीमज्ज्ञानरत्नावलीकारः ननु
कथमीशसदाशिवशक्तितत्वात्मिका मूर्तिरिति ।
सत्यं सिद्धान्तस्तावत् त्रिविधाः ऊर्ध्ववक्त्रोद्भवा इत्यपि
पदार्थग्रन्था बीजग्रन्था मिश्रग्रन्था इति । तत्र पदार्थग्रन्थेषु
साधिकारपदान्येवोपास्यानि । बीजग्रन्थेषु
सर्वातीतविरधिकारपदमेवोपासनीयम् ।
उभयमप्युपासनीयमिति मिश्रग्रन्थेषु प्रतिपादितमस्ति ।
प्. २५१)
ततस्तत्र तत्र श्रोत्भेदादयं भेद इत्यदोषः इति । मूर्तिश्च
ज्ञानक्रियात्मिका स्वशक्तिरेव । सा च
कृत्यभेदनिबन्धनपञ्चब्रह्मात्मिका । शिवस्य निर्मलत्वेन
बैन्दवादिदेहायोगात् । तथा चोपदेशः आसनं कारणान्तन्तु
मूर्तिं शक्तिस्वरूपिणीम् इति । इच्छाशक्तिमयीं मूर्तिं कारणस्य
तु इति च श्रीमन्मोहशूरोत्तरे । मूर्तिरस्योपचारेण
पञ्चमन्त्रमयीशिवा इति श्रीमन्मतङ्गे । अलं
प्रसक्तानुप्रसक्तप्रसङ्गेन ॥
(९७)
=== अष्टत्रिंशत्कलान्यासः ॥ ===
(क्रि) (३७) अस्यां मूर्तौ मूर्द्धमुखहृद्गुह्यपादादिषु
सर्वाङ्गेषु ओं हां ईशानमूर्धाय नमः ओम् हें
तत्पुरुषवक्त्राय नमः ओं हुं अघोरहृदयाय नमः
प्. २५२)
ओं हिं वामदेवगुह्याय नमः ओं हं सद्योजातमूर्तये नमः
इत्यष्टत्रिंशत्कलाभेदेन विभाव्य विन्यसेत् । तद्यथा
ईशानमूर्धा पुंवक्त्रोऽघोरहृद्वामगुह्यकः ।
सर्वाङ्गसिद्धये सद्यः कलाभेदेन कल्पयेत् ॥
शशिन्येवोर्ध्वमूर्धास्यात्पूर्वमूर्धाऽङ्गदाभवेत् ।
इष्टा च दक्षमुर्धा स्यात् सौम्यमूर्धा मरीचिका ॥
ज्वालिनी पश्चिमो मुर्धा अव्यक्ताख्योर्ध्वमाननम् ।
शान्तिस्स्यात् पूर्ववदनं विद्या स्याद्दक्षिणाननम् ॥
प्रतिष्ठा चोत्तरास्यं स्यान्निवृत्तिः पश्चिमाननम् ।
तमा भवेत्तु हृदयं मोहाख्या च गलं भवेत् ॥
दया च दक्षिणांसस्यान्निष्ठा वामांस एव च ।
मृत्युर्नामिश्च मायाख्या जरश्च भवेद्भया ॥
पृष्ठं स्याच्च जरा वक्षो रजा गुह्यञ्च साधनम् ।
रक्षारतिस्स्याद्दक्षोरुः पाल्या वामोरुरेव च ॥
प्. २५३)
कामाख्या दक्षजानुस्स्याज्जानुरसयमनीतरः ।
क्रिया च दक्षजंघा स्याद्बुद्धिस्स्याद्वामजंघिका ॥
कार्या स्याद्दक्षिणस्फिक्च धात्री वामस्फिगेव च ।
कटिर्भवेद्भ्रामणी च दक्षपार्श्वश्च मोहिनी ॥
भवाख्या वामपार्श्वस्स्यात् सिद्धिस्स्याद्दक्षिणः पदः ।
ऋद्धिस्स्याद्वामपादश्च द्युतिस्स्याद्दक्षिणः करः ।
लक्ष्मी स्याद्वामहस्तश्च मेधावै नासिका भवेत् ।
कान्तिर्भवेच्छिरश्चैव दक्षबाहुस्स्वधा भवेत् ॥
धृतिस्स्याद्वामबाहुश्च एवं स्याछाक्तविग्रहः ।
ततः शक्तिनानेन सकलो विज्ञेयो विष्कलश्शिवः ॥ (३७)
(प्र) अथ
मूलाद्यसंभवाच्छाक्तं वपुर्नैतादृशं प्रभोः ।
तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ॥
ईशतत्पुरुषाघोर वामजैर्मस्तकादिकम् ।
इति श्रीमन्मृगेन्द्र श्रुतेः शाक्तशिवमूर्तेः शरीरत्वसिद्धये
ईशानादीनि ब्रह्माणि निजावान्तराष्टत्रिंशत्
कलाभेदभावनापुरस्सरं
प्. २५४)
मूर्द्धमुखादिस्थानेषु दण्डभंग्या विन्यसेदित्याह (अस्याम्)
इत्यादिना (विन्यसेत्) इत्यन्तेन । (अष्टत्रिंशत्कलाभेदेन)
अष्टत्रिंशत्कलाः शशिन्यादयः तासां भेदः विभागः तेन ।
तद्यथा
ईशानस्य कलाः पञ्च पुरुषस्य चतुष्कलाः ।
अघोरस्य कलाश्चाष्टौ वामदेवास्त्रयोदश ॥
सद्योजातकलाश्चाष्टावष्टत्रिंशत्कला स्मृता ॥
इति । एवं न्यासेन शिवः कीदृशश्चिन्तनीय इत्याकांक्षायामाह
(ततः) इति । (शक्तिन) शशिन्याद्यष्टत्रिंशत्कलासमूहेन । (सकलः)
सह कलाभिः पञ्चमन्त्रावान्तरभेदरूपाभिः वर्तते इति सकलः ।
तथा श्रीमन्मतङ्गे पञ्चमन्त्रतनुर्देवस्सकलः परिपठ्यते इति ।
अत्र एतत् सकलत्वं सकलशक्तिप्रसरात्मकम् । यद्योगादीश्वरोपि सकल
इत्युच्यते ।
प्. २५५)
न तु पुरुषवन्मायीयकलादिशरीरयोगादीति
सकलशब्दवाच्यत्वेनाप्यत्र न पुरुषत्वं तथाभूतस्य
सकलस्यासिद्धत्वादिति भावः । तथा च श्रीमत्किरणे
सकलोऽपि पुंमान्नैव मायावयववर्जनात् ।
निर्मलत्वाच्छिवस्यात्र न कल्प्यास्त्वसिताः कलाः ॥
मन्त्रात्मकाः कलास्तस्य ते च मन्त्राश्शिवात्मकाः ।
इति । एतस्मिन्नन्तरे ईशानमूर्द्धेत्याद्याः काश्चनकारिकाः क्वचित्
कैश्चिल्लिखिताः । प्रतिष्ठायां ईशानस्सर्वविद्यानां शशिन्यै
नमः इति सशक्तिन्यासस्यैव वक्ष्यमाणत्वात्, इष्टलिङ्गस्यापि
तस्यैव शिवागमेषु विहितत्वाच्च विशक्तिन्यासप्रकाशनमसङ्गतम्
॥
=== विद्यादेहन्यासः ॥ ===
(क्रि) (३७) क्षित्यादिकुटिलाप्रान्तमन्त्रसिंहासन स्थितम् ।
प्. २५६)
शुद्धस्फटिकसंकाशं द्वात्रिंशल्लक्षणान्वितम् ॥
पद्मासनस्थं पञ्चास्यं प्रतिवक्त्रं त्रिलोचनम् ।
दृक्क्रियेच्छा विशालाक्षं ज्ञानचन्द्रकलान्वितम् ॥
धवलेशानवदनं पीततत्पुरुषाननम् ।
कृष्णाघोरमुखोपेतं रक्ताभोत्तरवक्त्रकम् ॥
सुश्वेतपश्चिमास्यैक सद्योजातं समूर्तिकम् ।
नागोपवीतिनं शान्तं जटाखण्डेन्दुमण्डितम् ॥
शक्त्यसीशूलखड्वाङ्ग वरव्यग्रकराम्बुजम् ।
दक्षिणेऽतोऽथ वामस्थैर्डमरुं बीजपूरकम् ॥
नागाक्षसूत्रं नीलाब्जं विभ्राणं पञ्चभिः करैः ।
यद्वा
दक्षिणे परशुं खड्गं शूलं वज्रञ्च पावकम् ॥
वामभागेऽभयं घण्टां नागं पाशं तथाऽङ्कुशम् ।
अथवा
खड्गखेटधनुर्बाण खट्वाङ्गं नृकपालकम् ।
प्. २५७)
कुण्डिकामक्षमालाञ्च वरञ्चाभयमेव च ।
आयुधैर्हस्तबृन्दानि बिभ्राणं परमेश्वरम् ॥
संचिन्त्य मूर्तेरुपरि शक्तिमात्रविजृंभणम् ।
लिङ्गाकारोपमर्देन भावने लिङ्गतां त्यजेत् ॥
ओं हां हौं विद्यादेहाय नमः इति
ब्रह्मरन्ध्रान्तव्यापकं प्रासादमुच्चार्य,
शिवतत्वान्तव्याप्तिकं सौदामिनी निभं स्रगञ्जलावाविर्भूतं
ध्यात्वा, लिङ्गारोहे विद्यादेहं समुदितरूपं विन्यस्य ॥
ओं हौं नेत्रेभ्यो नमः इति नेत्रं सर्वज्ञताबीजं
मुखपञ्चकनेत्रेषु विन्यस्य ॥ (३७)
(प्र) अथ व्यक्तस्य सदाशिवस्य विद्यादेहस्य न्यासविधिमाह
(क्षित्यादि) इत्यादिना (विन्यस्य) इत्यन्तेन । (क्षित्यादिकुटिलाप्रान्त) इति ।
एतत् क्षित्यादिकुटिलाप्रान्त व्याप्तिकमासनमित्यत्र प्राग्व्याख्यातम् ।
(द्वात्रिंशल्लक्षणान्वितम्) इति ।
प्. २५८)
एतत्
पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम् ।
सप्तरक्तं त्रिगंभीरं द्विविस्तीर्णं प्रशस्यते ॥
इत्यादिसामुद्रिकालक्षणमेवेत्यवधार्यम् । (पद्मासनस्थम्)
बद्धपद्मासनस्थितम् । तथा श्रीमत्क्रियाकाण्डक्रमावल्यां
द्वात्रिंशल्लक्षणोपेतं बद्धपद्मासनस्थितम् इति । (त्रिलोचनम्) इति ।
लोच्यन्ते विचार्यन्ते व्याकरणैर्मीमांसादिभिश्च
शब्दतोऽर्थतश्चेति लोचनशब्देन वेदाः प्रतिपाद्यन्ते । त्रयो लोचना
वेदाः कर्म प्रतिपादनद्वारा साक्षाच्च प्रतिपादकत्वेन यस्य स
तथोक्तः । तदुक्तं सर्वैर्वेदैः प्रतीतो यः इति । अथवा त्रीणि लोचनानि
तमोपहररूपाणि नयनानि यस्य स तथोक्तः तम् ।
(ज्ञानचन्द्रकलान्वितम्) इति ।
प्. २५९)
अत्र प्रकाशकत्वादाह्लादकत्वाच्च ज्ञानशक्तिरेव
चन्द्रकलात्वेनोच्यते । एवमुदितं श्रीमन्मृगेन्द्र वृत्तिदीपिकायाम् ।
सुगममन्यत् ॥
(२००) ननु शुद्धस्फटिकसंकाशमित्युक्तत्वात् सादाशिवो देह
आपादमस्तकं सतैकवर्णः तत् कथं तत्पुरुषादिमुखानां
तद्वर्णविरहेण पीतादिवर्णभेदवर्णनमिति चेत् । सत्यं
तत्पुरुषाघोरवामदेवसद्योजातानां चतुर्णामपि मुखानां
क्रमेण शक्रय?मकुबेरवरुणोपरागात्
पीतकृष्णरक्तहिमवर्णानां व्यवस्थितिरित्यदोषः ।
तथा श्रीमत्पराख्ये
आकाशमूर्ध्वतश्शुक्लमतश्श्वेतं तु विन्यसेत् ।
प्राग्दिश्यमपरं पीतमिन्द्रच्छायापरिष्कृतम् ॥
प्. २६०)
अघोरं दक्षिणे देशे कृष्णमन्तकरुक् स्थितम् ।
वामञ्चोत्तरतो रक्तं कुबेरकिरणारुणम् ॥
सद्यं पश्चिमदिग्भागे विमलं वरुणच्छविम् ।
इति । विद्यादेहे तत्पुरुषादिमुखानां स्थानं प्रदर्शितं
श्रीमज्ज्ञानरत्नावल्यां
प्राचि तत्पुरुषं विद्याद्धृदयोपरि शोभनम् ।
अघोरं दक्षिणस्कन्धे वामस्कन्धे तु गुह्यकम् ।
सद्योजातं प्रतीच्यान्तु पृष्ठग्रीवोपरि स्थितम् ।
इति । (शक्त्यसिशूलखट्वाङ्गवरव्यग्रकरांबुजम्) इति । अत्र
खड्वांगं तावत् खट्यते काम्यते कामिभिरिति खट्वा पर्यंकः
तस्या अङ्गं खट्वांगं योगोपकरणविशेषः ।
खट्वाङ्गस्य योगोपकरणविशेषत्वमुक्तं पुष्पदन्तेन महोक्षः
खट्वांगम् इत्यादिश्लोके । वरः अधोमुखपताका । व्यग्रशब्दः
व्यापृतपर्यायः ।
वग्रो व्यापृत आकुले इति नानार्थरत्नमाला । (डमरुम्)
प्. २६१)
तुट्याख्यक्षुद्रकुन्दुभिम् । (बीजपूरकम्) मातुलुंगफलम् ।
शेषं सुगमम् । आयुधानि पक्षान्तरेण वक्ति (यद्वा) इति । (खड्गम्)
इति । खण्डति भिनत्तीति खड्गः निस्त्रिंशः । भूयः
प्रकारान्तरमाह (अथवा) इति । (नृकपालकम्) इति । कं पालयतीति
कपालं मूर्द्धास्ति । तच्चात्र चतुर्मुखस्य पञ्चमशिरः करोटिः ।
तच्च कपालमीश्वरेण लीलयोपात्तं न तु ब्रह्महननान्निमित्तात् ।
तस्य ब्रह्मणो जीवतोऽद्यापि अपरिमितपुष्टत्वेन वर्तमानत्वात् ।
ईश्वरस्यापि सर्वसंहर्त्तृत्वस्य समुचितत्वेन प्रत्यवायाभावाच्च ।
अयमर्थो मन्त्रशास्त्रे बिभ्रद्दण्डं त्रिशूलं वरदमसु शिरः
खड्गमीशानप्रात्रम् इति श्लोके दर्शितः । (आयुधैः) आयुध्य
वध्यन्ते छिद्यन्ते एभिः पाशजालानीत्यायुधानि तैः ।
प्. २६२)
एवमुक्तं श्रीमज्ज्ञानरत्नावल्याम् । अत्र युक्तानीति शेषः ॥
ननु शूलादीन्यायुधानि हिंसकानि किम् ? न किन्तु
ज्ञानशक्त्यादि रूपाणि । तथा श्रीमच्चतुर्विंशतिसहस्रे
बोधरूपा पराशक्तिस्सादाख्यमभयं स्मृतम् ।
इच्छाज्ञानक्रियारूपं त्रिशूलं संव्यवस्थितम् ॥
ता एव परिणामेन खट्वाङ्गमपि सांगिनम् ।
बीजानां विवृतिस्तेषां पूरणाद्बीजपूरकम् ॥
मायाडमरुरूपेण सैव दीर्घा द्विजिह्विका ।
इन्दीवरं मनः प्रोक्तमिन्द्रियाण्यक्षमालिका ॥
इति । लिङ्गभावं विहाय उक्तवत्
पञ्चवक्त्रत्रिपञ्चदृग्दशभुजाद्याकारं परमेश्वरं
भावयेदित्याह (लिङ्गाकारोपमर्देन) इति । (शिवतत्वान्तव्याप्तिकम्)
शिवतत्वं मूर्त्युपाधित्वेन चिन्तितं परबिन्दुतत्वं तस्य अन्तः
ज्ञानक्रिया
प्. २६३)
शक्तिरूपा मूर्तिः तद्व्याप्तिर्यस्य स तथोक्तः तम् । (सौदामिनी
निभम्) विद्युत्प्रतिमम् । तटित् सौदामिनी विद्युत् इत्यमरः । (लिङ्गारोहे)
लिङ्गदैर्घ्ये । दैर्घ्यमायाम आरोहः इत्यमरः । (विद्यादेहम्) इति ।
अत्र विद्यादेहो नाम पञ्चकृत्याधिष्ठात्री शक्तिः । तथा
श्रीमन्मृगेन्द्रे तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः
इति । विद्यादेहस्य चललिङ्गे पूर्वाभिमुखत्वं विद्यात् । तथा
श्रीमल्लक्ष्मीकेशवसंवादे
नित्ये नैमित्तिके माम्ये सर्वाधिकरणस्सदा ।
शिवः पूर्वाननो लक्ष्मीः प्रत्यक्पृष्ठः कलातनुः ॥
इति ॥
अथ नेत्रं दत्वा तदावाह्यो देवदेवस्सदा शिवः इति
श्रीमत्समानतन्त्रे वचनादावाहनात् पूर्वं नेत्रन्यासं वक्ति
(ओं) इत्यादिना (विन्यस्य)
प्. २६४)
इत्यन्तेन । (सर्वज्ञताबीजम्) दृक्क्रियेच्छात्मिका या शक्तिः
सर्वज्ञताया बीजं कारणं तन्नेत्रमित्युच्यते । तथा
श्रीमत्पौष्करे सर्वज्ञताया बीजं यत् ततस्तेन निरीक्षणम् इति ।
अनेनैवेह नेत्रमन्त्रमगत्वेनेति कथितम् । तथा किल
श्रीमत्सार्द्धत्रिशत्यां नेत्रमन्त्रः
पुनरंगमन्त्रानन्तर्भावेन पृथक्तया कथितः
ब्रह्माणि च शिवं साङ्गं नेत्रं पाशुपतञ्च यत् ।
समासात्कथितस्सर्वो मन्त्रोद्धारस्स्वयं शुभः ॥
इति ।
=== शिवावाहनक्रमः ॥ ===
(क्रि) (३९) पुष्पैरञ्जलिमापूर्य, मूलमन्त्रं मेधादिकलोपेतं
प्रचण्डमार्ताण्डोपमं ब्रह्मादिकारणत्यागक्रमेण
लयान्तमुच्चरन् सर्वकर्तारन्निष्कलं विभुं ज्ञानानन्दमयं
स्वरूपप्रकाशं सञ्चिन्त्य, तन्मयीभूतः सृष्टिक्रमेण
द्वादशान्तात्पतङ्गपिङ्गाभं
प्. २६५)
ललाटेऽवतार्य, चन्द्रकोटिसदृशं
निर्यत्सुधापिण्डपाण्डुरितदिङ्मण्डलं ध्यात्वा,
प्राणप्रवाहवर्त्मना विनिर्गत्य, अञ्जलिगतं विचिन्त्य,
लक्ष्यमूर्तावावाहिन्या हृदयेनावाह्य (३९)
(प्र) अथ विद्यादेहन्यासविधिमुपन्यस्य
शिवावाहनक्रममाह (पुष्पैः) इत्यादिना (आवाह्य) इत्यन्तेन ।
(अञ्जलिम्) पाणिपुटम् । (मेधादिकलोपेतम्) मेधा औकारकला ।
तथा श्रीमन्मन्त्रनिघण्टौ
औकारो दर्शनान्तञ्च चोल्का मुख्या परस्तथा ।
अन्वाहार्यञ्चरो मेधा हृषीकेशो जनार्दनः ॥
इति । सा आदिर्यासान्ताः मेधादयः ताश्च ताः कलाश्च मात्राः
ताभिः उपेतः तम् । आदिपदेन ऊकारादिकलाः प्रकाश्यन्ते ।
तदुक्तं अकारश्च उकारश्च मकारोबिन्दुरेव च इत्यादि ।
प्. २६६)
(प्रचण्डमार्ताण्डोपमम्) प्रचण्डः दुर्द्धर्षः ।
स्यात् कोदण्डं प्रचण्डस्तु ना श्वेतकर वीरके ।
त्रिषु प्रगल्भदुर्द्धर्षे
इति नानार्थरत्नमाला । स चासौ मार्ताण्डः सूर्यः तेन उपमा
यस्य स तथोक्तः तम् । (ब्रह्मादिकारणत्यागक्रमेण)
ब्रह्मादिवाचकाकारादिकलास्थानहृदयादित्यागपरिपाट्येत्यर्थः
। (लयान्तम्) लयः मूलमन्त्रलयः तस्यान्तः
द्वादशान्तपर्यन्तमित्यर्थः । (विभुम्) व्यापकम्
(ज्ञानानन्दमयम्) इति । अत्र आनन्दशब्द परिपूर्तिवाचकः ।
ज्ञानशब्दस्तु तस्य जडरूपतानिरासपरः । (स्वप्रकाशम्)
स्वसंविद्रूपम्) । अत्र स्वपरप्रकाशमिति पाठो न साधुः
परप्रकाशस्य मूर्तित्वेनोक्तत्वात् । तथा
श्रीमत्क्रियाकाण्डक्रमावल्यां
प्. २६७)
निष्कलं स्वप्रकाशं च संचिन्त्य परमं शिवम् इति ।
(तन्मयीभूतः) सोऽहंभाव नया अद्वैतस्वरूपीभूत इत्यर्थः ।
(पतङ्गपिङ्गाभम्) पतङ्गः सूर्यः पतङ्गः पक्षिसूर्ययोः
इत्यमरः । स इव पिङ्गा आभा यस्य स तथोक्तः तम् (ललाटे)
बिन्दुस्थाने । (निर्यत्सुधापिण्डपाण्डुरितदिङ्मण्डलम्)
निर्गच्छदमृतपिण्डधवलि तदिङ्मण्डलम् ।
(प्राणप्रवाहवर्त्मना) दक्षिणनासापुटेनेत्यर्थः ।
(लक्ष्यमूर्तौ) पूजालक्ष्यार्थं समुदितरूपविद्यादेहे इत्यर्थः ।
तदुक्तं साधकस्य तु लक्ष्यार्थं तस्य रूपमिदं स्मृतम् इति ।
(आवाहिन्या) इति । एतल्लक्षणमुक्तं श्रीमद्भोज देवेन
हस्ताभ्यामञ्जलिं कृत्वा अनामिकापर्वाङ्गुष्ठसंयोजनेन
आवाहिनी इति ॥
अत्र ऋजुकायः पुष्पैरञ्जलिमापूर्य, हृत्प्रदेशे निधाय,
प्. २६८)
पूरकं विभाव्य, कुंभकभावनया (२०३)
मूलाधारान्नाभ्यन्तव्याप्तप्राणजीवबीजहकारं
नाभ्यादिहृदयान्तव्याप्तौकारेण संयोज्य, हौकारं
हृदयादिकण्ठान्तव्याप्त ऊकारेण संयोज्य, हौकार ऊकारौ
कण्ठादितालुरन्ध्रव्याप्तमकारेण संयोज्य, हौंकारस्योपरि
भ्रूमध्यगतबिन्दुं ललाटगतार्द्धचन्द्रकलया,
अर्द्धचन्द्रकलां तावदुपरिगतनिरोधिकलया, निरोधिकलां
तावदूर्ध्वगतनादेन, नादञ्च तदुपरि
ब्रह्मरन्ध्रान्तव्याप्तनादान्तेन संयोज्य, ब्रह्मरन्ध्रादुपरि
शक्तिमेकांगुलव्याप्तां तदुपरि व्यापिनीं त्र्यङ्गुलव्याप्ताम्,
तदुपरि समनाञ्चतुरङ्गुल व्याप्तां, तदुपर्युन्मनामपि
चतुरङ्गुलव्याप्तां संचिन्त्य, प्रासादान्ते द्वादशान्तो परि
पञ्चाक्षरेण वाच्यवाचकादभिन्नं परमशिवं
प्. २६९)
संचिन्त्य, पुष्पाञ्जलिं द्वादशान्तपर्यन्तं नीत्वा,
सृष्टिमार्गेण भ्रूमध्यान्तमवरोप्य, चन्द्रकोटिसदृशं शिवं
रेचकभावनया हृदयस्थितपुष्पाञ्जलिगतं विभाव्य,
हृदयमन्त्रेण पुष्पाञ्जलिं लिङ्गमूर्ध्नि विन्यस्य, सदाशिवस्य
ब्रह्मरन्ध्रमार्गेण हृदंबुजप्रविष्टत्वं भावयेदिति
आवाहनक्रमोऽनुसन्धेयः ।
ननु अत्र आवाह्यते अनेनेति आवाहनम् ।
यद्यावाह्यते भगवान् तदां विसर्जनञ्च भवति । तर्हि
सर्वगतत्वं विहन्यते । नैवं व्यापकस्यैव शिवस्य
भक्तिमात्रेणाभिव्यक्तीकरणमिहावाहनमुच्यते । तदुक्तं
सर्वत्र व्यापिनं शान्तं देवदेवं सदाशिवम् ।
अभिमुखीकरणं यच्च तदावाहनमुच्यते ॥
पूजापरिसमाप्तौ तु विमुखं तद्विसर्जनम् ।
इति । ननु सर्वगतस्य सर्वत्र सन्निहितत्वादिकमपि विरुद्धम् ।
प्. २७०)
नैवं अत्र तथाविधसन्निधानेन प्रयोजनाभावात् इह
पूज्यपूजकभावानुविद्धसाधकश्रद्धानुरूपमनुग्राह्या
नुग्राहकसंअबन्धलक्षणसन्निधानमेवावाहनं तच्च
वाच्यवाचकयोरभेदाद्वाचकस्य मन्त्रस्य
विशेषविन्यासाद्वाच्यस्यापि शिवस्य विशिष्टा सन्निधिर्भवतीति न
विरुद्ध्यते । तथा
आमूलाग्र स्थितस्याग्नेरभिव्यक्तिर्यथा तरौ ।
तद्वदेकत्र चि?द्वयक्तिर्व्यापकस्य न बाध्यते ॥
इति । तथा च श्रीमन्निश्वासे
न चैवावाह्यते कैश्चित् कैश्चिन्न च निवेश्यते ।
निरुद्ध्यते न देवेशि सन्निधीक्रियते न च ॥
व्यापकं मन्त्ररूपेण चिन्तयेत् परमं शिवम् ।
तदावाहनमित्युक्तं क्षमस्वेति विसर्जनम् ॥
इति ।
प्. २७१)
=== स्थापनादिविधिः ॥ ===
(क्रि) (४०) स्थापन्या संस्थाअप्य, सन्निधान्या सन्निधाप्य,
निष्ठुरया निरोध्य, स्वागतन्ते महादेवेति विज्ञाप्य, वत्स
स्वागतमिति देवेनोक्तं विभाव्य,
स्वामिन् सर्वजगन्नाथ यावत् पूजावसानकम् ।
तावत् संप्रीतिभावेन लिङ्गेऽस्मिन् सन्निद्धीभव ॥
इति विज्ञाप्य, स्वागतार्घ्यं दत्वा,
कालकर्णिकलिंगनमस्कारमुद्रां दत्वा ॥
(प्र) अथ स्थापनादिविधि (स्थापन्या) इत्यादिना (दत्वा)
इत्यन्तेनाह । स्थापन्यादिलक्षणमुक्तं श्रीमद्भोजदेवेन
इयमेवाधोमुखी स्थापनी इयमेवेति आवाहिन्येवेत्यर्थः ।
संलग्नमुष्ट्युच्छितांगुष्ठौ करौ सन्निधानी । तावेव
गर्भाङ्गुठौ सन्निरोधः इति । भगवानपारकरुणानी
प्. २७२)
भोधिस्त्रानुग्रहार्थमास्ते इति भावः स्थापनं मनसो निश्चलता ।
अथ सन्निधिरनुग्राह्यानुग्राहकलक्षणसंबन्धः
प्रसादाभिमुखीभावः । अथ भगवान्मयि सततमनुग्रहपरो
भवेदिति प्रार्थना निरोधः इति श्रीमञ्ज्ञानरत्नावल्यां उक्तम् ।
(स्वागतम्) सुष्ठु शोभनं आगतं आगमनम् । (वत्स) हे सुत इति
संबुद्धिः । वत्सरे कुटजे वत्सस्सुतादौ कर्णिकेष्वपि इति
नानार्थरत्नमाला । स्वागतार्घ्यदानमन्त्रं वक्ति (स्वामिन्) इति ।
श्लोकार्थः स्पष्टः ॥
=== अङ्गन्यासविधिः ॥ ===
(क्रि) (४२) हृदयादिकरान्तस्थानेषु हृदयाद्यङ्गानि विन्यस्य,
मूलेनैकत्वं विधाय, अस्त्रेण संरक्ष्य, कवचेनावकुण्ठ्य,
अमृतमुद्रां दत्वा,
प्. २७३)
वौषडन्तमूलेन महामुद्रया परमीकृत्य
पञ्चमुखीमुद्रामाबद्ध्य ॥ (४२)
(प्र) अथ आवाहनादिक्रममुदीर्य हृदयाद्यङ्गन्यासविधिमाह
(हृदयादि) इत्यादिना (आबद्ध्य) इत्यन्तेन । (हृदयादिकरान्तस्थानेषु)
हृदयशिरश्शिखास्तनान्तरहस्ततलेषु पञ्चसु स्थानेष्वित्यर्थः ।
(एकत्वम्) अङ्गाङ्गिनोरपृथग्भावम् । तथोक्तं
श्रीमत्सोमशंभुचरणैः
सकलीकरणं कृत्वा मन्त्रैष्षड्भिरथैकताम् ।
अङ्गानामङ्गिना सार्द्धं विदध्यादेकतामिति ।
तथा च श्रीमत्कामिकतन्त्रसारे अङ्गाङ्गिनोरभिन्नत्व
प्रतिपत्तिर्विभिन्नयोः इति । (परमीकृत्य) प्ररोच्येत्यर्थः । तथा
प्रकृतेः परमीभाव संपत्त्यर्थमनन्तरम् ।
परमान्तिकमुच्चार्य प्रासादं पूर्ववन्न्यसेत् ॥
प्. २७४)
प्ररोच्च च यथा न्यायं मुद्रया प्रागुपात्तया ।
इति । पञ्चमुखीमुद्रालक्षणमुक्तं श्रीमत्किरणे
कृत्वाऽन्योन्यगतांगुल्योः पृष्ठतो हस्तयोर्द्वयोः ।
तिर्यक्स्थकन्यसौ कृत्वा ह्यङ्गुष्ठाभ्यां समाक्रमेत् ।
देशिको मध्यमे रुद्धेऽनामिकेचोच्छ्रितांगुली ।
कृत्वा पञ्चमुखीं मुद्रां मुद्रेयं शंकरस्य तु ॥ इति ।
=== पाद्यादिविधिः ॥ ===
(क्रि) (४२) सहृदा नमोन्तेन पादयोः पाद्यं स्वधान्तेन
ईशानादिमुखपंचकेष्वाचमनं, स्वाहान्तेन तथैव शिरः
पञ्चकेष्वर्घ्यं दत्वा, वौषडन्तमूलेन दूर्वापुष्पाक्षतादि
च दद्यात् । सहृदा स्वाहान्तमूलेन धूपं
पूर्ववदाचमनार्घ्यौ च दत्वा ॥ (४२)
प्. २७५)
(प्र) अथ पाद्यादिविधिः (सहृदा) इत्यादि (दत्वा) इत्यन्तम् । (सहृदा) इति
। हृद्बीजपूर्वमूलमन्त्रेणेत्यर्थः । तथा समीरितं
श्रीमत्सोमशंभुचरणैः हृत्पुरस्सरमुच्चार्य पाद्यादीनि
निवेदयेत् इति । (पाद्यम्) इति । अभ्यागतानामेव पादप्रक्षालनाय
प्रतिपादं दीयमानं जलम् । तथा पाद्यं पादतले न्यस्य
प्रतिपादं सकृत् सकृत् इति ॥
अत्र पाद्याचमनार्घ्यपुष्पदानानां प्रयोजनं
नमस्स्वधास्वाहावौषडाख्यानां चतुर्णां जातीनामर्थश्च
प्रदर्श्यते । ननु भगवतः पाद्यादिभिः किं प्रयोजनं
स्वभावशुद्धत्वात्
हेयोपादेयविवेचनेन पदे शैवे धाम्नि स्वस्यार्हत्वा
पादनं पाद्यम् । अत एव हि तत्र नमश्शब्दः प्रयुज्यते ।
प्. २७६)
नम इति शिवे चित्तं निवेशयति । तेन शिवश्च प्रसादाभिमुखं करोति
॥
चमधातो रदनार्थत्वात् अदनं
आसमन्ताच्छिवरसास्वादनमाचमनं शिवसमरसीभावः ।
अत एवात्र स्वधाशब्दः प्रयुज्यते । स्वधा स्वस्मिन् परमाह्लादनं
धत्ते इति स्वधा धातृप्तिप्रीतिदानाभिवादनेषु इत्यर्थत्वात् ॥
अतः परमुत्तमांगं परां संस्थामर्हतीत्यर्घ्यं
अस्योपादानमात्मनः शिवत्वव्यक्तिसंपांदनम् । अत एवात्र
स्वाहाजातिः प्रयुच्यते । स्वस्मिन्नाह्रियन्ते अभिव्यज्यन्ते
सर्वज्ञत्वादिगुणा इति ॥
एवं शिवत्वव्यक्तौ सत्यां यत्
पूर्वहेयोपादेयविवेचनज्ञानं तत् पुष्पमिव पुष्पं
प्. २७७)
शिवत्वफल निबन्धनस्तस्य समर्पणं नाशफलरूपेण
परिपाकः । अत एवात्र वौषट् जातिः प्रयुज्यते । विपूर्वस्य षच
समवाये इति धातोः वौषडिति निपातनात् सिद्धं यतस्तत एव
शिवसमवायित्वं प्रसूनार्पणमिति ॥
अत्र शिवस्य आवाहनादयः पुष्पदानान्ताः संस्कारा दश
इति बोद्ध्यम् । तथा श्रीमत्सिद्धान्तसारावल्यां
आवाहनस्थापन सन्निधाननिरोधनाकुण्ठन सौधमुद्राः ।
पाद्यन्तथा चाचमनार्घ्यपुष्पदानं मतास्संस्कृतयोदशैव ॥
इति ॥
=== भावनाभिषेकविधिः ॥ ===
(क्रि) (८३) अभ्यंगोद्वर्तननिर्मर्चनादीनि स्नपनांगानि विभाव्य,
अर्घ्योदकबिन्दुना संस्नाप्य, पाद्याचमनार्घ्यो च दत्वा,
सूक्ष्मवाससा संमृज्य ॥ (८३)
प्. २७८)
(प्र) अथ भावनाभिषेकविधिः (अभ्यंग) इत्यादि (संमृज्य)
इत्यन्तम् । (अभ्यंगोद्वर्तननिर्मर्चनादीनि) अभ्यंगश्च
तैलाभ्यञ्जनं उद्वर्तनञ्च यवचूर्णादिभिरुत्सादनम् ।
उद्वर्तनोत्सादने द्वे इत्यमरः । निर्मर्चनञ्च हरिद्रोदकादिना
अभिषेचनं अभ्यंगोद्वर्तननिर्मर्चनानि तानि आदीनि येषां तानि
तथोक्तानि ।
=== मानसस्नपनानन्तरकरणीयविधिः ॥ ===
(क्रि) (४४)
चन्दनाक्षतदूर्वाश्रीपुष्पहेमकौपीनमेखलोपवीतकुण्डलाद्या
भरणानि विचित्रवस्त्राणि मनसा भक्त्या निवेद्य, पुष्पाञ्जलित्रयेण
ओम् हां हौं आत्मतत्वाधिपतये शिवाय नमः ओं हां हौं
विद्यातत्वाधिपतये शिवाय नमः
प्. २७९)
इत्यभ्यर्च्य, इण्डादिभिः पुष्पदामभिरलंकृत्य अस्त्रेण घण्टा
वादयन् धूपदीपावाचमनार्घ्यौ च दत्वा, मनोरथ मुद्रां
दर्शयेत् ॥
(प्र) अथ मानसस्नपनानन्तरकरणीयमाह (चन्दन)
इत्यादिना (दर्शयेत्) इत्यन्तेन । (मेखला) इति । मीयते कट्याक्षिप्यत इति
मेखला काञ्ची । (इण्डादिभिः) दामवृत्तादिभिः ।
(घण्टांवादयन्) इति । अत्र हन्यते ताज्यत इति घण्टा ।
घण्टाघोषणलक्षणमुक्तं श्रीमत्कालोत्तरे
एकनादस्तु मोक्षाय विरक्तानां प्रशस्यते ।
घण्टाताडनमेवं स्याद्द्विनादो भोगमोक्षदः ॥
जानुनाभेरधो नादः कर्तव्यो न कदाचन ।
नाभेरूर्ध्वन्तु कर्तव्यं घण्टाताडनमुत्तमम् ॥ इति ।
मनोरथ मुद्रालक्षणमुक्तं मुद्रालक्षणे
प्. २८०)
अथ मनोरथमुद्रा परस्परवेष्टिते कनिष्ठिकाद्वये मध्यमाद्वये
अनामिकाद्वये च कृत्वा तर्जनीद्वये पुरतः प्रसारिते
अन्योन्यसंसक्ताग्रे सति स्वमूलगतांगुष्ठे सति स्वार्थ पोषणी
सदाशिवस्य प्रदर्श्या भवति इति ॥
=== लयांगपूजाक्रमः ॥ ===
(क्रि) (८५) ततो ब्रह्माङ्गानि लयाङ्गस्थानेषु संपूज्य, काम्यानि
विज्ञाप्य ॥ (४५)
(प्र) अथ भोगांगार्चनार्थं लयाङ्गपूजाक्रमं
प्रथममाह (ततः) इत्यादिना (विज्ञाप्य) इत्यन्तेन ।
(लयांगस्थानेषु) शिरोवक्त्रादिलयांगेष्वित्यर्थः ।
यदुक्तं श्रीमन्मृगेन्द्रपद्धत्यां ब्रह्मांगानि लयांगेषु
संपूज्य, प्रार्थ्य शङ्करम् । भोगस्थाने यजेत् इति ॥
प्. २८१)
=== एकावरणार्चनविधिः ॥ ===
(क्रि) (८६) आवरणपूजार्थमध्येष्य, लब्धानुज्ञश्शिवं
मूलेनाभ्यर्च्य, तस्य शिरःपञ्चकेभ्यः ईशानमादाय, ओं हों
ईशानमूर्द्धाय नमः इतीशानदले
स्फटिकाभञ्जगद्धेतुन्त्रिणेत्रं चन्द्रमौलिनम् ।
सौम्यं प्रसन्नमीशानन्त्रिशूलाभयपाणिकम् । इति ध्यात्वा
आवाहयेत् । वक्त्रपञ्चकेभ्यो वक्त्रमादाय, ओं हें
तत्पुरुषवक्त्राय नमः इति पूर्वदले
पीतांबरोपवीतञ्च नरं कनकसन्निभम् ।
मातुलंगाक्षसूत्रे च दधानञ्चन्द्रमौलिनम् ॥
इति ध्यात्वा यजेत् । हृत्प्रदेशादघोरमादाय,
२०७ ओम् हुं अघोरहृदयाय नमः इति दक्षिणदले
प्. २८२)
त्र्यक्षं मौलीन्दु हृत्सौम्यं कुण्डलालंकृतं ततः ।
बभ्रुभ्रूश्मश्रुकेशञ्च दंष्ट्रालुं विकृताननम् ॥
कपालमालाभरणं सर्ववृश्चिकभूषणम् ।
खट्वांगञ्च कपालञ्च खेटकं पाशमेव च ।
वामहस्तचतुष्के तु दक्षहस्तचतुष्टये ।
त्रिशूलं परशुं खड्गं दण्डञ्चैवारिमर्दनम् ॥
एवन्नवांबुदाभासमघोरं सर्वकामदम् ।
इति ध्यात्वा आवाहयेत् ॥
वामदेवं गुह्यमण्डलादादाय ओं हिं वामदेवगुह्याय
नमः इत्युत्तरदले
वामं रक्तं सुरक्ताभमाल्यवस्त्रोपवीतिनम् ।
तुंगनासारुणोष्णीषं खड्गखेटकपाणिकम् ॥
इति विभाव्य यजेत् ।
पादाद्यंगात् सद्योजातमादाय,
ओं हं सद्योमूर्तये नमः इति पश्चिमदले
प्. २८३)
सितस्रग्गन्धभूषाढ्यं सितोष्णीषं सितांबरम् सौम्यं
मौलीन्दुसंपन्नं बालाकारन्त्रिलोचनम् सद्योजातं स्मितास्यैकं
वरदाभयपाणिकम् ।
इति विभाव्य यजेत् । यद्वा ईशतत्पुरुषाघोर वामजान् सौम्यलोचनान् ।
सुश्वेतपीत भृंगासृध्हिमांश्चतुराननान् ॥
जटामकुटशोभाढ्यान् सर्पबालेन्दुभूषितान्
वामैर्नागाक्षसूत्रे च नीलाब्जं बीजपूरकम् शूलाभयवरान्
शक्ति सव्यैर्धारयतः करैः ।
इति विचिन्त्यावाहयेत् ॥
नेत्रेभ्यो नेत्रमादाय ओं हौं नेत्रेभ्यो नमः
इतीशानस्योत्तरभागे
अरुणाभं स्मरेन्नेत्रं दृक्क्रियेच्छात्मकं विभोः ।
त्रितत्वरूपवह्न्यादि मण्डलत्रितयाश्रयम् ॥
प्. २८४)
हृदाद्यङ्गोक्तवदनकरधार्यादिसंयुतम् ।
एकास्य वा त्रिशूला हि हरतं योगशिवोक्तितः ॥
इति विभाव्यावाहयेत् ॥
२०९ सद्भावात्मकहृदयं हृदयादादाय ओम् हां हृदयाय
नमः इत्याग्नेयदले सर्वेशित्वलक्षणं शिरश्शिरोदेशादादाय ओं
हां शिरसे नमः इतीशानदले । नेत्रस्योत्तरे
अनन्याधीनवशित्वरूपशिखां शिखाया आहृत्य ओ. हूं
शिखायै नमः इति, नैर्-ऋतदले परैरमेद्यं तेजोरूपं कवचं
सर्वांगादादाय ओं हैं कवचाय नमः इति वायव्यदले
प्रतापरूपमस्त्रं हस्तेभ्य आहृत्य, पूर्वादिचतुर्दलेषु
तत्पुरुषादिभ्यो वामभागे ओं हः अस्त्राय नमः इति
हृदयं चन्द्रसंकाशं शिरश्चामीकरप्रभम् ।
प्. २८५)
शिखां सिन्दूरवर्णाढ्यां कवचं भृङ्गभास्वरम् ।
पद्मासनस्थानर्द्धेन्दु जटामकुटधारिणः ॥
त्रिलोचनांश्चतुर्बाहून् सर्वाभरणभूषितान् ॥
शिवस्याभिमुखान् शक्तिशूलाभयवरान्वितान् ॥
चतुर्वक्त्रानथास्त्रञ्च दंष्ट्रिणं पिङ्गलद्युतिम् ॥
द्विभुजानेकवक्त्रान्वा वरदानभयप्रदान् ।
शूलाभयधरान्वापि विद्ध्यायेत् साधकोत्तमः ॥
एतान् शिववदावाहनस्थापनसन्निधानसन्निरोधनपाद्या-
चमनार्घ्यपुष्पदानान्तैरष्टभिः संस्कारैस्संस्कृत्य पूजयेत् ।
यद्वा संस्काराष्टकं समुदितमेव सर्वं संस्मृत्य,
अर्घ्यं दद्यात् । ईशानादीनां ब्रह्मणां
धेनुपद्मत्रिशूलमकरस्रुमाख्या मुद्राः अंगानाञ्च
नमस्कारमुद्रां दर्शयेत् ॥ (४६)
(प्र) अथ अनावृतो न शोभार्हः इति श्रीमत्पराख्य श्रुतेः
प्. २८६)
आवरणपूजाभावे शोभाभावात् किमत्रावरणपूजास्ति न वेति
जिज्ञासायां
एकावरणमेतत्तु सर्वकामार्थसाधकम् ।
सर्वतन्त्रेषु सामान्यं सर्वज्ञानेषु चोत्तमम् ॥
इति श्रीत्सार्द्धत्रिशतिकाश्रुतेः
मण्डलप्रकरणवक्ष्यमाणपञ्चावरणपूजाप्रकारो मास्तु
एकावरणार्चनमेव श्रेयस्करमिति मत्वा तदर्त्तनाविधिमाह
(आवरणपूजार्थम्) इत्यादिना (दर्शयेत्) इत्यन्तेन । (शिरः
पञ्चकेभ्य ईशानमादाय) इति । अत्र दीपाद्दीपन?दादानमिति
ज्ञेयम् । तथा श्रीमद्विजये
पञ्चब्रह्मतदंगानि देवस्य परितस्ततः ।
वक्त्रेभ्यस्तत्तदंगेभ्यो दीपाद्दीपवदाहरेत् ॥
इति । (ईशानमूर्द्धाय) ईशानः उन्नतियुक्तः अनादिस्वभावः स एव
मूर्द्धेन यस्य सोऽयमीशानमुर्द्धा तस्मै ।
प्. २८७)
केचिदीशानं मध्य इत्याहुः । यदुक्तं श्रीमत्किरणे ईशं
स्फटिकवन्मध्ये इति । तदयुक्तं अत्रैव स्थाने विनियोगस्य सिद्धत्वात् ।
इह हि पूर्वतः पुरुषादीनि वक्त्रत्रयेत्युक्तम् । तदीशानस्य
मूर्द्धत्वो पलक्षणार्थम् । ततश्च मूर्द्धत्वादेव तस्य शिरः
पूजास्थान एवैशान्यां विनियोगो युक्तः इत्युक्तं
श्रीमत्सार्द्धत्रिशतिवृतिकारेण । ईशानध्यानमाह (स्फटिकाभम्)
इति । स्फुटः श्लोकार्थः । (तत्पुरुषवक्त्राय) तत्पुरुषः
वक्त्रमिवयस्य सोयं तत्पुरुषवक्त्रः तस्मै । तस्य तस्य अमरादेः
या पूः पुरी तनूः तस्यां पुरि यजमानस्वरूपतया
अधिष्ठातृभावेन उषितः तत्पुरुषः । यस्माद्व्यनक्ति ज्ञानक्रिये
त्रायते जन्मादिस्वभावात् ततस्तत्पुरुषवक्त्रः ।
प्. २८८)
तत्पुरुषध्यानमाह (पीत) इति । (अघोरहृदयाय) हृदयपदेन
तावल्लोकप्रसिद्ध्या सद्भावः परमार्थतः कथ्यते ।
अघोरशब्देनापि घोरस्यमलादेः संसारात्मनो रागद्वेषादेः
व्युदासेन शान्तरूपता । ततश्च अघोरं शान्तं हृदयं
स्वभावः यस्यासावघोरहृदयः तस्मै । अघोरध्यानमाह
(त्र्यक्षम्) इति । अश्नुवत इत्यक्षिणी चक्षूंसि त्रीणि अक्षीणि
तमोपहरूपाणि यस्य स त्र्यक्षः । अथवा अश्नुते अश्नाति वा
एतैरर्थानिति अक्षाः व्यवहाराः अक्षो रथांगे सोधारे व्यवहारे
विभीतके इति वैजयन्ती । भुवनत्रये व्यवस्थिताः त्रेः? व्यवहाराः
निर्वाह्यत्वेन यस्य स त्र्यक्षः त
प्. २८९)
(बभ्रुभ्रूश्मश्रुकेशम्) वभ्रूणि पिङ्गलानि भ्रुवौ च
श्मश्रूणि च मुखरोगाणि केशाश्च शिरोरुहाणि यस्य स तथोक्तः
तम् । विपुले नकुले विष्णौ बभ्रुस्स्यात् पिङ्गले त्रिषु इत्यमरः ।
(दंष्ट्रालुम्) दंष्ट्रा अस्यास्तीति दंष्ट्रालुः तम् । स्फुटमन्यत् ।
(वामदेवगुह्याय) वामं विलक्षणं गुह्यं अदृष्टं तेजो यस्य
स वामदेवगुह्यः तस्मै । वामदेवध्यानमाह (वामम्) इति ।
(कं?गनासारुणोष्णीषम्) इति । अत्र उष्णीषशब्दस्य शिरोवेष्टनं
किरीटं वेत्यर्थः । पक्षरसहायेप्युष्णीषश्शिरोवेष्टकिरीटयोः
इत्यमरः । अन्यत् सुबोधम् । (सद्योजातमूर्तये) सद्यः
सर्गादिनिर्माणेच्छामात्रेणैव मूर्तित्वं
अधिकारशरीरावयवित्वं जातं संपन्नं यस्य स
सद्योजातमूर्तिः तस्मै ।
प्. २९०)
सद्योजातध्यानमाह (सितस्रक्) इति । स्पष्टः श्लोकार्थः ।
पक्षान्तरेण ब्रह्मणां ध्यानमाह (यद्वा) इति ।
ईशतत्पुरुषेत्यादिध्यानश्लोकार्थः स्पष्टः । (वेत्रेभ्यः)
ईशानादिपञ्चमुखनेत्रेभ्यः । नेत्रध्यानमाह (अरुणाभम्) इति ।
(त्रितत्वरूपवह्न्यादिमण्डलत्रितयाश्रयम्) त्रितत्वरूपाणि
शिवविद्यात्मतत्वत्रयात्मकानि तानि च तानि वह्न्यादिमण्डलानि च
अग्निसोमसूर्यमण्डलानि तेषां त्रितयं तस्य आश्रयः ।
शेषं सुगमम् ॥
तत्वकथनपूर्वं हृदयाद्यङ्गपूजामाह (सद्भाव) इति ।
सद्भावात्मकं अस्तित्वादिकम् । तथा श्रीमत्कामिकतन्त्रसारे
अस्तित्वं हृदयं तस्य इति । संश्चासौ भावश्च सद्भावः
तदात्मकं परमार्थलक्षणमित्यर्थः । (सर्वेशित्वलक्षणम्)
प्. २९१)
सृष्ट्यादिपञ्चकृत्यैः अष्टविधैश्वर्यरूपमित्यर्थः ।
तथा श्रीमच्छिवतन्त्ररहस्यसारे शिरश्वैश्वर्यमष्टधा इति ।
अत्र ऐश्वर्यस्य
अष्टविधत्वमणिमादिसिद्धिप्रवर्तकत्वादौपचारिकम् ।
न तु तद्रूपतया तस्य शरीरेन्द्रियधर्मत्वेन तद्रहितस्य शिवस्य
तदसंभवात् । तदुक्तं श्रीमन्मतङ्गे
त्रितयं कार्यतत्सिद्धमैश्वर्यमणिमादिकम् ।
प्राप्त्यादयो गुणाः पञ्च ते चोक्ताः (योगिनो) करणात्मकाः ॥
इति । अत एव दृक्क्रियात्मकमैश्वर्यमित्युक्तं श्रीमत्पराख्ये
दृक्क्रियात्मकमैश्वर्यं यस्य तद्वा?तृपूर्वकम् ।
ईश्वरस्सोत्र मन्तव्यः इति । (अनन्याधीनवशित्वरूपशिखाम्)
अन्याधीनं पराधीनं न भवतीत्य नन्याधीनम् ।
तच्च तत् वशित्वञ्च स्वातन्त्र्यं तद्रूपा चासौ शिखा च ताम् ।
प्. २९२)
अत्र वशित्वापरपर्यायं स्वातन्त्र्यं ईश्वरस्य मुक्तात्मवत्
ईश्वरान्तरव्यापारेण मलापोहनद्वारेण नाभिव्यक्तं किन्तु
अनादिसिद्धस्वातन्त्र्यरूपा या शक्तिः सैव शिखेतितात्पर्यार्थः ।
तथा श्रीमत्कामिकतन्त्रसारे शिखा स्वतन्त्रता तस्य इति ।
तथा च श्रीशिवतन्त्ररहस्यसारे अनन्याधीनता शंभोर्वश्यता
या शिखापरा इति । (परैः) अन्यैः । (अमेद्यम्) भेदतुमशक्यम् ।
(तेजोरूपम्) तेजः स्वदृक्क्रियाशक्तिकिरणः तदात्मकम् । तथा तत्रैव
तेजश्शर्वस्य दुर्भेद्यं वर्गत्वेन विनिर्मितम् इति । (कवचम्) इति । कं
ब्रह्मचित्तं पञ्चयतीति कवचं वर्म । (प्रतापरूपम्)
मलापनयनसामर्थ्यलक्षणम् ।
प्. २९३)
तथा श्रीशिवतन्त्र रहस्यसारे प्रभोः प्रतापः प्रथितश्शस्त्रं
स्यादघनाशकम् इति । इह हि
कर्णिकामध्यस्थितसदाशिवभट्टारकापेक्षयैव ईशानपूर्वादि
दिग्व्यवस्थेति ज्ञेयम् । हृदयाद्यंगानां ध्यानमाह (हृदयम्)
इति । ननु हृदयाअद्यङ्गदेवाः स्वस्वदिगभिमुखाः किमित्याशंक्य
नेत्याह (शिवस्याभिमुखान्) इति । अनेन ईशानादयोपि शिवाभिमुखा
इति सूच्यते । तथा श्रीमन्मतङ्गे
स्वामिनस्संमुखा ध्येयाः पूज्याश्चापि यथा क्रमात् ॥
इति । श्लोकार्थः स्पष्टः ॥
ननु ब्रह्माङ्गानि शिवमिव दशभिस्संस्कारैः संस्कृत्य
समर्चयेत् किमित्याशंक्य
आवाहनादिनैतानि स्वमन्त्रैः क्रमशोऽर्चयेत् ।
प्. २९४)
नावकुण्ठनमेतेषाममृतीकरणं तथा ॥
संस्काराष्टकमेवैषां प्रत्येकं विहितं बुधैः ।
स्नपनं दीपधूपौ च न पृथक्चाङ्गभावतः ॥
भोजनन्तु प्रभोः पार्श्वे तेषान्तस्य च कीर्त्तितम् ।
इति ब्रह्मशंभुपद्धतिश्रुतेः तेषामष्टसंस्कारा इत्याह (एतान्)
इति । संस्काराष्टककरणाशक्तिविषये कथमित्यत आह (यद्वा) इति ।
ततः प्रदर्शयेन्मुद्राः पूरणाय क्रियाविधैः इति
श्रीमन्मृगेन्द्रश्रुतेः शिवार्चनक्रिया परिपूरणाय
ब्रह्मांगानां मुद्राः प्रदर्शयेदित्याह (ईशानादीनाम्) इति ।
(धेनुपद्मत्रिशूलमकरस्रुगाख्याः) इति । अत्र
धेनुपद्ममुद्रालक्षणं प्राक् प्रदर्शितम् ॥
त्रिशूलादीनां लक्षणमुक्तं मुद्रालक्षणे । यथा अथ
शूलमुद्रा अन्योन्यान्तरितांगुल्योर्हस्तयोः परस्परश्लिष्टोच्छ्रित-
मध्यमाद्वयकनिष्ठाद्वयांगुष्ठद्वयरूपा
प्. २९५)
तर्जन्यनामाङ्गुलिचतुष्टयानां हस्तऋष्ठविधानात् भवति ।
अघोरनाथस्य प्रियकरी मकरमुद्रापि स्रुङ्मुद्रातत्
निबद्धहस्तद्वयस्य तर्जनीद्वये स्वामिमुख्येन
मकारानुकरणार्थं किञ्चित् किञ्चिते संसक्ताग्रे सति तदग्रं
यावदंगुष्ठद्वये प्रसारिते च सति दंष्ट्राकारे
कनिष्ठिकेऽन्तरिते च सति एषा व्यज्यते ॥ अथ स्रुङ्मुद्रा
परस्परावष्टब्धं कनिष्ठाद्वयं विधाय अनामिकाद्वयं
विपर्ययेण कृत्वा मध्यमाद्वयमप्यन्योन्यसंसक्ताग्रमुपरि
प्रसार्य तर्जनीयुग्मके अंगुष्ठयुग्मके च तत्पृष्ठोपरि श्लिष्टे
सतीत्यसौ ऋज्यते इति ॥
(मुद्राः) इति । करसन्निवेशविशेषा इत्यर्थः । इह देवानां
मोदनादसुराणां द्रावणान्मुद्रा इति ज्ञेयम् ।
प्. २९६)
तदुक्तं
मुदं करोति देवानां द्रावयत्यसुरांस्तथा ।
मोदनाद्द्रावणाच्चाथ मुद्रेति परिकीर्तिता ॥
इति । नमस्कारमुद्रा लक्षणम् प्राक् दर्शितम् । अत्र शिवस्य
हृदयस्थाने मुद्राः प्रदर्शयेदिति ज्ञेयम् । तथा
स्तनद्वया दधः कृत्वा करमुद्रां न सन्धयेत् ।
मुद्रास्थाने ततश्शंभोर्हृद्देशे तां निदर्शयेत् ॥
इति ॥
=== पुष्पाञ्जलिविधिः ॥ ===
(क्रि) ४७) तदनन्तरं मूलेन शिवाय पुष्पाञ्जलिं दत्वा,
महामुद्रां दर्शयित्वा, सर्वेषां शिवेन सार्द्धमैक्यं
भावयेत् ॥ (८७)
(प्र) अथ भोगांगार्थाहृतशक्तिपूरणार्थं
पुष्पांजलिविधिः । (तदनन्तरम्) इत्यादि (भावयेत्) इत्यन्तम् ॥
प्. २९७)
=== नैवेद्यादिदानविधिः ॥ ===
(क्रि) (८६) ततो धूपदीपावाचमनार्घ्यौ च दत्वा, नैवेद्यं
विविधं पानीयञ्चतुस्संस्कार संशुद्धं स्वाहान्तमूलेन
दत्वा, ब्रह्मांगानां स्वस्वमन्त्रैर्न्दत्वा, अभावे एकस्मिन् पात्रे
निवेद्य, आचमनञ्च निवेद्य,
हस्तोद्वर्तनतांबूलमुखवासमर्घ्यञ्च दत्वा, पुनरभ्यर्च्य,
धूपदीपा चमनार्घ्याद्युपाहृत्य ॥ (८६)
(प्र) अथ नैवेद्यादिदानविधिमाह (ततः) इत्यादिना (उपाहृत्य)
इत्यन्तेन । (विविधम्) पायसमुद्गोदनादिना बहुविधमित्यर्थः ।
विविधस्स्याद्वहुविधो नानारूपः पृथग्विधः इत्यमरः ।
(पानीयम्) इति । एतल्लक्षणमुक्तं सुप्रभेदे
पानीयञ्चाढकार्द्धं वा अर्धार्धकमथापि वा ।
उत्तमादि क्रमेणैव त्रिधाभेदमिहोच्यते ॥ इति ।
प्. २९८)
तथा श्रीमन्निश्वासोत्तरे
एलाचन्दनचन्द्राढ्यं पानीयमतिशीतलम् ।
पाटल्युत्पलदामाद्यैर्वासितञ्च सुगन्धिभिः ॥
इति । (दत्वा) इति । अत्र शिवस्य नैवेद्यं सपुष्पया
मध्यमानामिकांगुष्ठसमवायात्मिकया मृगी मुद्रया
दद्यात् । तथा श्रीमदंशुमति
मध्यमानामिके चैव अङ्गुष्ठाग्रे नियोजयेत् ।
ददाहस्तेर्हविर्दद्यान्मूलमन्त्रं समुच्चरन् ॥
इति । ननु ब्रह्मांगानां स्वस्वमन्त्रैर्नैवेद्यनानाशक्तिविषये
कथमित्याशंक्य तदर्थमस्य नैवेद्यं पृथक्पात्रेषु संभवे ।
पूतेष्वितरथैकस्मिन् इति श्रीमद्ब्रह्मशंभुपद्धतिश्रुतिं दद्यात्
सपरिवाराय मूलमन्त्रेण शंभवे इति क्रियाकाण्ड
क्रमावलीवचनं च हृदि निधाय ब्रह्मांगानां
प्. २९९)
शिवस्य च एकपात्रे सपरिवाराय शिवाय निवेदयेदित्याह (अभावे) इति ।
(पात्रे) हैमादिस्थालीकायाम् ॥
ईशानवक्त्र एव नैवेद्याद्युपचारो देयः न पुनरितरवक्त्रेषु ।
तत्पुरुषादीनां स्रोतोन्तर प्रवृत्तिहेतुत्वात् ऊर्ध्ववक्त्रस्य
अव्यवधानेनैव सिद्धान्तस्रोतसः प्रवृत्तिहेतुत्वाच्च
सिद्धान्तशास्त्रोक्तानुष्ठानविधायिनामीशानवक्त्र एव
नैवेद्याद्युपचारो देयः इत्येवमवधातव्यमत्रा तथा
श्रीमत्सर्वज्ञानोत्तरे
भक्ष्यभोज्यान्नपानादिलेऽयं शोष्यमनेकशः ।
ऊर्ध्ववक्त्रे तु दातव्यं यत्किञ्चिद्विधिचोदितम् ॥
इति । (हस्तोद्वर्तनतांबूलमुखवासम्) हस्तोद्वर्तनं
चन्दनचूर्णादिना उत्सादनम् । तथ श्रीमत्कामिके
हस्तोद्वर्तनसिद्ध्यर्थं चन्दनं हस्तयोर्द्वयोः इति ।
तांबूलञ्च नागवल्लिदलत्रयान्वितमेकं क्रमुकम् ।
प्. ३००)
तथा श्रीमत्सुप्रभेदे
पूगमेकं प्रतिप्रस्थं द्विगुणं त्रिगुणं तु वा ।
अधमादि क्रमेणैव पत्रं तत्त्रिगुणं भवेत् ॥
शैलचूर्णं सदा देयं तथैव शंखचूर्णकम् ।
इति । मुखवासञ्च मुखं वासयति परिमलं करोतीति मुखवासं
गुलिकीकृतकर्पूरादि द्रव्यमित्यर्थः ॥ तथा श्रीमत्कामिके
एलालवंगकर्पूरजातितक्कोलचूर्णयुक् ।
मध्वीषत्खड्गसंमिश्रं मुखवासमिदं भवेत् ॥
इति । हस्तोद्वर्तनतांबूलमुखवासम् । (धूपदीपाचमनार्घ्याणि)
इति । अत्र धूपं नासापुटे क्रियाशक्तियोगाय दीपं नेत्रत्रये
ज्ञानशक्तियोगाय दद्यादित्यवसेयम् । तथा
श्रीमत्क्रियासारसंग्रहे धूपं नासापुटे चैव दीपं नेत्रेषु
दापयेत् इति । तथा श्रीमत्त्रयोदशशतिके
प्. ३०१)
बिन्दुनादादिभिर्विश्वं यथा व्यापयते क्रिया ।
तथा शक्तिश्च सा शैवी धूपव्याजेन धार्यते ॥
ज्ञानशक्तिस्स्वनिष्ठा या स्वभेदाष्टस्वरूपिणी ।
शिवेन समवेता च सैव दीपेन विद्यते ॥
इति ॥
=== पवित्रदानविधिः ॥ ===
(क्रि) (८९) दूर्वाक्षतसहितं पुष्पमञ्जलौ गृहीत्वा, ओं हां हौं
सर्वतत्वाधिपतये शिवाय नमः इति पवित्रं दत्वा ॥ (४९)
(२२५) (प्र) अथ पवित्रेण विना पूजा तामसी परिकीर्तिता इति
श्रीमोहशूरोत्तरश्रुतेः प्रत्यहं पवित्रं ददेदित्याह (दूर्वा)
इत्यादिना (दत्वा) इत्यन्तेन ॥
=== आरात्रिकाराधनविधिः ॥ ===
(क्रि) ५०) आरात्रिकञ्चतुस्संस्कारसंशुद्धं स्वाहान्तेनाद्य?
ऊर्ध्वं वारत्रयं परिभ्राम्यावतार्य,
प्. ३०२)
आचमनार्घ्यौ च दत्वा भस्मदर्पणच्छत्रचामराण्युपाहृत्य,
सितवासतालवृन्ते च दत्वा, अनन्तादिभिः स्तूयमानं सन्तुष्टं
शिवं ध्यात्वा द्वयष्टककलोपेतप्रासादोच्चारेण पुष्पाञ्जलि
त्रयं दत्वा, महामुद्रया प्ररोच्य, पञ्चमुखी दत्वा ॥ (५०)
(प्र) अथ आरात्रिकाराधनविधिः (आरात्रिकम्) इत्यादि (दत्वा)
इत्यन्तम् । भस्मदानविधिरुक्तः श्रीमत्कामिके
सितं पूतं सुगन्धं च भस्मनिर्वालुकं ततः ।
अंगुष्ठानामिकाभ्यां तु तिलकं मुखपञ्चके ॥
इति । (द्व्यष्टककलोपेतप्रासादोच्चारेण) इति । अत्र द्व्यष्टककलाः
अकाराद्युन्मनान्ताः षोडशकलाः । तथा
अकारश्चाप्युकारश्च मकारो बिन्दुरेव च ।
अर्द्धचन्द्रो निरोधी च नादो नादान्त एव च ॥
शक्तिश्च व्यापिनी चैव समनाचोन्मना तथा ।
प्. ३०३)
व्यापिनी समनान्तस्थे व्योमांगानन्द संज्ञके ।
अनाथानाश्रिताभ्यां च युक्तो द्व्यष्टकलश्शिवः ।
इति । नन्वयं प्रणवोच्चारमन्त्रक्रमः । न तु प्रासादविषयः इति
चेन्मैवम् । अकारहकारयोरभेदविवक्षया । उक्तञ्च
अकारश्च हकारश्च द्वावेतावेकतस्स्थितौ ।
विभक्तिं नैव विन्देते मारुतांबरयोरिव ॥
इति ॥
=== जपदानविधिः ॥ ===
(क्रि) (५२) हस्ते पुष्पं गृहीत्वा, हृत्संपूजित याक्षमालया
मूलमन्त्रमष्टोत्तरशतञ्जप्त्वा, अस्त्र
कवचहृदयमन्त्रैर्हृदयकवचास्त्रमन्त्रैस्संपुटीकृत्य,
अस्त्ररक्षितं कवचावकुण्ठितं दक्षिणहस्ते गृहीत्वा,
सार्घ्यजलजपमुद्भवमुद्रयाभूमिष्ठजानुः
ओं हां गुह्यातिगुह्यगोप्तात्वं गृहाणास्मत्कृतञ्ज
प्. ३०४)
सिद्धिर्भवतु मे येन त्वत्प्रसादात् त्वयि स्थिते ॥ (पम्)
(२२६) ओम् हां यत्किंचित्कर्महेदेवसदासुकृतदुष्कृतम् ।
तन्मे शिवपदस्थस्य भुक्ष्व क्षपय शंकर ॥
ओं हां शिवोदाता शिवोभोक्ता शिवस्सर्वमिदजगत् ।
शिवो यजति सर्वत्र सश्शिवस्सोहमेव तु ॥ इति सहृदा श्लोकत्रयेण जपं
कर्म तथात्मानं क्रमेण शिवस्य वरदहस्ते निवेदयेत् ।
केवलेन हृदा वा निवेद्य, ब्रह्मांगानां दशांशञ्जप्त्वा
निवेदयेत् ॥ (५२)
(प्र) अथ जपदानविधिमाह (हस्ते) इत्यादिना (निवेदयेत्) इत्यन्तेन ।
(हस्ते) वामकरे । तथा श्रीचिन्त्यविश्वे
वामहस्ते तु कुसुमं निक्षिपेद्दक्षपणिना ।
दक्षहस्ते पटं न्यस्य जपं कुर्याद्विशेषतः ॥
इति । कुसुमसंग्रहणं जपाभिव्यक्तिस्थानाय इत्याकूतमत्र ।
प्. ३०५)
(अक्षमालया) इति । एतल्लक्षणमुक्तं श्रीमज्ज्ञानरत्नावल्यां
सप्तविंशतिभिश्चाक्षैः पञ्चवक्त्रैस्सकण्टकैः ।
मेरुरूर्ध्वमुखः कार्यः प्रत्यक्षं नागपाशके ॥
इति । (जप्त्वा) इति । अत्र अक्षमालां अनामिकायां निधाय अंगुष्ठेन
नक्षनिकरं एकैकशः सृष्टिमार्गेण भुक्तये
मुक्त्यर्थमूर्ध्वमार्गेण कर्षन्
मानसोपांशुभाष्याणामन्यतमेन मेरुमलंघयन् जपेत् ।
तथा श्रीषट्सहस्रे
अंगुष्ठानामिकाभ्यां च जपं कुर्यात्तु मानसम् ।
अष्टोत्तरशतेनैव फलं कोटिगुणं भवेत् ॥
अक्षराक्षरसन्धानं न द्रुतं न विलम्बितम् ।
इति । तथा क्रियाकाण्डक्रमावल्यां मानसोपांशुभाष्याणां
कुर्यादेकतमं जपम् इति । तथा चोक्तं
प्. ३०६)
भूतये सृष्टिमार्गेण कर्षयेदक्ष सूत्रकम् ।
ऊर्ध्वमार्गेण मुक्त्यर्थं कर्षयेतु शनैश्शनैः ॥
मेरुं न लंघयन्मन्त्री लंघयेद्दोष भाग्भवेत् ।
इति । (अस्त्रकवचहृदयमन्त्रैः हृदयकवचास्त्रमन्त्रैः
संपुटीकृत्य) इति । अत्र
करस्थितकुसुमोर्ध्वमस्त्रकवचबीजहृदयान्युपर्युपरि विन्यस्य,
तथैव हृदयकवचास्त्रमन्त्रैः संपुटं कर्तव्यमिति तात्पर्यम् ।
(उद्भवमुद्रया) इति । एतल्लक्षणमुक्तं मुद्रालक्षणे
अथोद्भवमुद्रा संकोचितकन्यसांगुलिः प्रसारितर्जनी
किञ्चिदाकुञ्चितांगुलिरूपा इति । (भूमिष्ठजानुः)
अवनीस्थितदक्षिणजानुः । तथा श्रीमच्चिन्त्यविश्वसादाख्ये
सव्यजानुं क्षितौ कृत्वा जपं तस्मै निवेदयेत् इति ॥
प्. ३०७)
केन मन्त्रेण जपं समर्पयेदिति बुभुत्सायामाह (ओम् हाम्) इत्यादि ।
ओमिति मन्त्रदीपनार्थम् । (गुह्यातिगुह्य) एतदामन्त्रणपदम् ।
गुह्यञ्चातिगुह्यं च गुह्यातिगुह्ये । तत्र गुह्यशब्देन
रहस्यपर्यायेण पञ्चविंशोऽयं पुरुष इत्यादिश्रुतिसिद्धानि
पुरुषप्राकृतानि वस्तून्युच्यन्ते । एतान्यतीत्य स्थितानि
सिद्धान्तसिद्धानि अतिगुह्यानि । अतिगुह्य शब्देन बिन्दुवैन्दवानि
तत्वानि नानादिवैस्वर्यन्तशब्दरूपाणि मायामायेयानि
कलादिरागान्तानि तत्तत्तत्ववासिनो विद्येश्वराः सर्वे आत्मानश्च
कथ्यन्ते । एते सर्वेपि यस्याधिष्ठेयाः सः गुह्यातिगुह्यः सः (त्वं
गोप्ता) सर्वेषामात्मनां रक्षकस्त्वमेव नान्यः । अयमर्थः
गुह्यातिगुह्य शिव सर्वेषां गोप्ता त्वं अस्मत्कृतं जपं गृहाण,
कारणेत्वयि
प्. ३०८)
रक्षकत्वेन स्थिते सति येन जपेन त्वत्प्रसादात् सिद्धिर्भवति ।
सिद्धिशब्देनात्र साधकविषये तत्तद्भूमिषु स्थितानि
अणिमाद्यैश्वर्याण्युच्यन्ते । मुमुक्षोरपि निवेशितसन्निवेदनेन
मुमुक्षूणां प्रतिबन्धनिराकरणाय क्रियन्ते ।
वा यत् किञ्चित् कर्माधिक्रियते तत् द्विविधमपि कर्म हे देव हेशंकर
शिवपदस्थस्य शिवपदे शिवरूपे दीक्षया योजितस्य मे भुंक्ष्वं
इति मन्त्रस्वरूपस्यार्थः क्षपयेतिपदेन उच्यते । अस्य मन्त्रस्य
क्षपणार्थवाचकत्वं प्रथमपदस्य शिखाक्षतत्वात्
द्वितीयपदस्य
श्रीमत्किरणोक्तप्रधानमन्त्रत्वाच्छिखाप्रयोगेणाभिः
ग्रन्थिच्छेदादिभिः विधीयते ।
प्. ३०९)
अतः क्षपणार्थत्वम् । [एतेन दीक्षोत्तरकालं अबुद्धिपूर्वप्राप्तं
पापकर्म अकामतया प्राप्तं कर्मचेष्यते ।
बुद्धिपूर्वकृतस्य पापसामान्यस्य विशेषशास्त्रेषु प्रायश्चित्तस्य
श्रुतत्वात् । काम्यस्य च कर्मणो मुमुक्षोर्निषिद्धत्वाच्च ।
अतः शंकर एतादृशं कर्म नाशयेत्यर्थः ॥]
आत्मसमर्पणमन्त्रमाचष्टे (शिवो दाता) इति ।
अनेन श्लोकेनात्मनिवेदनं क्रियते । अस्य
पूर्वार्द्धेनात्मनिवेदनस्य संप्रदानभूतः शिवो उच्यते । (शिवो
दाता) शिवशब्देन
क्रि?नित्यनिर्मलनिरतिशयसर्वार्थज्ञानक्रियारूपशिवत्वयुक्तः
परमेश्वर उच्यते । स एव दाता अनाद्यशुद्धियुक्तानामाशोधकः
।
दैव्?शोधने इत्यस्माद्दातार्निर्वृत्तं रूपं दातेति । (शिवो भोक्ता)
स एव सर्वेषां रक्षकः । भोक्तेति भुज पालनाभ्यवहारयोः
इत्युक्तत्वात् अत्र
प्. ३१०)
(२२७) भुजिः पालन एव वर्तते । शिवः पालक एव वर्तते ।
अव्यवहारासंभवात् अनश्वन्नन्यो अभिचाकशीति इति श्रुतेः ।
(शिवस्सर्वमिदं जगत्) स शिवः शुद्धमिश्राशुद्धरूपमिदं
सर्व जगत् रक्षकत्वेन शोधकत्वेन च व्याप्य स्थितः ।
अस्मान्नान्यः शोधको रक्षकश्च विद्यते ।
उत्तरार्द्धेन दाता अस्य कर्तृकारक आत्मोच्यते ।
(शिवो यजति) इति । प्राकृतं भावमुत्सृज्य शिवोहमिति भावयेत्
शिवीभूय शिवं यजेत् यावन्न तत्समो जातस्तावन्नाराधने
क्षमः इत्यादिभिर्वचनैः पूर्वोक्तभूतशुद्ध्यादिप्रकारेण
शुद्धः सर्वत्र शास्त्रचोदितेषु सर्वेष्वधिकरणेषु स्वकीया
शुद्धिक्षयाय यो यजति अर्चयति स पूजकः शिवः ।
प्. ३११)
अहं तु शब्देन संप्रदानभूताच्छिवात्
तत्प्रदेयभूतस्यात्मनः पूर्यष्टकावच्छिन्नं स्वरूपामुच्यते ।
एवं श्रीमन्मृगेन्द्रपद्धतिव्याख्याकारेण श्लोकत्रयं
व्याख्यातम् ॥
=== साध्यमन्त्रार्चनादिप्रकारः ॥ ===
(क्रि) (५२) काम्यमन्त्रपूजकः तदर्थं विज्ञाप्य,
लब्धानुशश्शिवासनपद्मस्य दक्षिणदलाग्रे प्राग्भागे
स्त्रीरूपान् गौर्यादिमन्त्रान्, पश्चिमभागे पुंरुपान्
मृत्युञ्जयादिमन्त्रान्, स्त्रीपुंरूपान् उमामहेश्वरादिमन्त्रान्
देवस्य पुरतो यजेत् । तत्र स्वाध्वान्तं प्रणवेनासनमूर्ती दत्वा,
हृत्संपुटितैस्स्वस्वमन्त्रैरावाह्य, सकलीकृत्य,
पाद्यादिभिस्संपूज्य सहस्रं शतमष्टोत्तरं वा यथाशक्ति
जप्त्वा, हृत्संपुटितं अस्त्ररक्षितं कवचावकुण्ठितं
काम्यमन्त्रोपरक्ताय शिवाय समर्पयेत् ।
प्. ३१२)
अथवा आवरणपूजान्ते काम्यमन्त्रानाराद्ध्य पश्चाज्जपान्ते
काम्यमन्त्रजपं कृत्वा, पूर्वोक्तवन्निवेदयेत् ॥ (५२)
(प्र) अथ साधकस्य साध्यमन्त्रार्चनादि प्रकारमाह
(काम्यमन्त्र) इत्यादिना (निवेदयेत्) इत्यन्तेन । (स्त्रीरुपान्)
स्त्रीदेवतावाचकान् । (पुंरूपान्) पुरुषदेवतावाचकान् ।
(स्त्रीपुंरूपान्) स्त्रीपुरुषोभयरूपदेवतावाचकान् । (देवस्य)
अघोरनाथस्य । (पुरतः) इति । अत्र यदा साध्यमन्त्रो देवीमूर्तिस्तदा
शिवासनपद्मयाम्यपत्रस्य पूर्वभागे पूज्यः देवविग्रहश्चेत्
तर्हि पद्मपत्रपश्चिमभागे स्त्रीपुंविग्रहो यदि तदा
पद्मपत्रमध्यत इति तात्पर्यम् ।
२२९- तथा श्रीमन्मृगेन्द्रे
याम्याब्जपत्रे प्राक्पश्चाद्भागयोस्स्त्रीनृविग्रहान् ।
अघोरलोचनज्योतिर्मध्ये नान्यत्र कुत्रचित् ॥
प्. ३१३)
इति । काम्यमन्त्रपूजास्थानमुक्त्वा तदर्चनाप्रकारमाह (तत्र) इति ।
(स्वाध्वान्तम्) इति । अत्र यावत्यध्वनि काम्यमन्त्रस्य व्याप्तिः तदन्त
अव्याप्तिकमावाहनं कुर्यादित्युक्तं श्रीमता
मृगेन्द्रव्याख्याकारेण (काम्यमन्त्रोपरक्ताय) इति ।
साधकाभिमतमन्त्रोपरंजितायेत्यर्थः । तथा
श्रीमत्सर्वस्रोतस्संग्रहसारे
येन येन हि रूपेण साधकस्संस्मरेत् सदा ।
तस्य तन्मयतां याति चिन्तामणिरिवेश्वरः ॥
इति । (समर्पयेत्) इति । प्रत्यहं वाञ्छितमभिधाय ममैनं जपं
पालयेति निवेदयेदित्यर्थः । तथा श्रीमन्मृगेन्द्रे स्वजपं
साधकः काममभिसन्धाय निक्षिपेत् इति । तन्मन्त्राराधन क्रमे
विकल्पमाह (अथवा) इति ॥
प्. ३१४)
=== स्वगुरुसपर्याविधिः ॥ ===
(क्रि) (५३) तदनु देवस्याग्नेय दिग्भागे सकृत्प्रयोगेणासनं
षडुत्थं वा दत्वा, तत्र मूर्तित्वेन गुरुमूर्ती मूर्तिमन्त्रेण
विन्यस्य, तस्यां शिवमावाह्य, पाद्यादिकं दत्वा,
गन्धपुष्पादिभिरभ्यर्च्य, शिवं ध्यात्वा,
श्रीमद्देशिकपादेभ्यस्सशक्तिभ्यो नमो नमः ।
सदा शिष्टात्मचिद्व्यक्ति कारणेभ्यो नमो नमः ॥
इत्यादिस्तोत्रादिभिस्तोषयेत् ॥ (५३)
(प्र) अथ काम्यमन्त्रार्चनक्रममुदाहृत्य,
स्वगुरुसपर्याविधिमाह (तदनु) इत्यादिना (तोषयेत्) इत्यन्तेन ।
(सकृत्प्रयोगेणासनम्) इति । अत्र
शक्त्यादिशक्तिपर्यन्तासनमन्त्रमनुचिन्तयन्
शिवासनमन्त्रमात्रमुच्चरन्नर्चयेदित्यर्थः । (षडुत्थं वा) इति ।
एतल्लक्षणमुक्तं
प्. ३१५)
श्रीमद्विमलावत्या
अनन्तञ्चैव धर्मञ्च ज्ञानं वैराग्यमेव च ।
ऐश्वर्यञ्चैव पद्मञ्च षडुत्थमिदमासनम् ॥
इति । स्तोत्रं वक्ति (श्रीमत्) (सशक्तिभ्यः) ।
पाशविमोचनसामर्थ्यसहितेभ्यः । शेषं सुगमम् । अत्र
गुरुर्निजगुरुः । यद्वक्ष्यति स्वगुरुं विद्यापीठञ्च इति ।
=== विद्यापीठार्चनविधिः ॥ ===
(क्रि) (५८) तदनु देवस्य पश्चिमदिग्भागे ओम् हां योगपीठाय
नमः ओं हां हौं विद्यापीठाय नमः इति विद्यापीठं
संपूज्य,
सकलाज्ञानहं विश्व विज्ञानप्रदमीश्वरम् ।
विद्यापीठस्थमाहृत्य मनोवाग्विग्रहैर्नमः ॥
इत्यादिभिः स्तुत्वा ॥ (५४)
(प्र) अथ विद्यापीठार्चनविधिः (तदनु) इत्यादि (स्तुत्वा) इत्यन्तम् ।
प्. ३१६)
योगपीठन्नाम शक्त्यादिशक्तिपर्यन्तासनम् । तथा
श्रीमत्पंचावरणस्तवे
क्षित्यादिकुटिलाप्रान्तसमस्ताध्वमयं शुभम् ।
योगपीठमिदं दिव्यं शिवस्यासनमाश्रये ॥
इति । योगस्य सादाशिवस्य देहस्य पीठमासनभूतम् इति गदितं
भगवता सर्वज्ञानोत्तरवृत्तिकारेण ।
विद्यापीठन्तावत् श्रीमन्मृगेन्द्रादिस्वस्वसंहिता । तथा
श्रीमज्ज्ञानरत्नावल्यां विद्यापीठं कोटिमात्रं पूजयेद्वा
स्वसंहिताम् इति । स्तोत्रं वक्ति (सकल) इति । (विश्वविज्ञानप्रदम्)
सर्वज्ञानक्रियाव्यक्तिलक्षणबोधप्रदमित्यर्थः । तदुक्त
श्रीमन्मृगेन्द्रे
तमश्शक्त्यधिकारस्य निवृत्तेस्तत् परिच्युतौ ।
व्यनक्ति दृक्क्रियानन्त्यं जगद्बन्धुरणोश्शिवः ॥
इति स्फुटमन्यत् ॥
प्. ३१७)
=== विद्यापीठार्चनानन्तरकरणीयविधिः ॥ ===
(क्रि) (५५) देवस्य पुष्पाञ्जलित्रयं दत्वा, (५५)
(प्र) तदनन्तरकरणीयविधिः (देवस्य) इत्यादि (दत्वा) इत्यन्तम् ॥
=== स्तुतिक्रमः ॥ ===
(क्रि) ५६) स्तोत्रैस्तोषयेत् । यथा
सुराधिपन्नमस्कृत्य शशंककृतशेखरम् ।
कपालमालिनं देवं प्रणतोस्मि सदाशिवम् ॥
कालेश्वरं महाकालं कालं जरनिवासिनम् ।
कालकृत्कालवेत्तारं प्रणतोस्मि सदाशिवम् ॥
सर्वकृत्सर्वदातारं सर्वज्ञमपराजितम् ।
सर्वभूतात्मभूतस्थं प्रणतोस्मि सदाशिवम् ॥
योऽसृजत् सर्वभूतानि ब्रह्माद्यांश्च सुरासुरान् ।
तमहं लोककर्तारं प्रणतोस्मि सदाशिवम् ॥
वरं वरेण्यं वरदं परिष्ठं परवाहनम् ।
प्. ३१८)
वरमालाधरं देवं प्रणतोस्मि सदाशिवम् ॥
प्रीतिमत्प्रीतिदातारं सुप्रियं प्रियदर्शनम् ।
उमाप्रियं सदा कान्तं प्रणतोस्मि सदाशिवम् ॥
धर्माधर्ममयं देवं सुखदुःखफलोदयम् ।
बन्धमोक्षप्रणेतारं प्रणतोस्मि सदाशिवम् ॥
मनोबुद्धिरहंकारन्तन्मात्रेन्द्रियगोचरम् ।
प्रधानपुरुषेशानं प्रणतोस्मि सदाशिवम् ॥
यं ध्यायन्ति महात्मानो मुनयस्संशिवव्रताः ।
तमोकारपरं सूक्ष्मं प्रणतोस्मिं सदाशिवम् ॥
सूक्ष्मं सर्वगतन्नित्यं सर्वविद्येश्वरेश्वरम् ।
सर्वतत्वाश्रयं देवं प्रणतोस्मि सदाशिवम् ॥
भूमिज्ञपोऽग्निरनिलः खमात्मा चन्द्रभास्करौ ।
मनोबुद्धिरहंकारः परा प्रकृतिरेव च ।
यस्येच्छामनुवर्तन्ते भावाभावविकारिणीम् ।
तस्मै परमदेवाय पराय परमात्मने ॥
प्. ३१९)
महद्भ्यश्चातिमहते महामायातिमायिने ।
सूक्ष्मेभ्योप्यतिसूक्ष्माय नमस्तेस्त्वमितात्मने ॥
नमस्ते बोधरूपाय कालान्तक नमोस्तु ते ।
कलाधिप नमस्तेस्तु सर्वकाल प्रवर्तक ॥
कलासकलरूपेण कलाभिर्विश्वरूपधृत् ।
विश्वेश्वर नमस्तेस्तु आदिकाल प्रवर्तक ॥
रौरवे
जलान्धक पृथुस्कन्ध बन्धभेदविवक्षण ।
जय प्रवर विरेश संरुद्धपुरदाहक ॥
जयाखिलसुरेशान शिरश्छेदं भयानक ।
जयप्रथितसामर्थ्य मन्मथस्थितिनाशन ॥
जयाच्युत तनुध्वंसिन् कालकूट बलापह ।
जयावर्तमहाटोप सरिद्वेग विदारण ॥
जयदारुवनोद्यान मुनिपत्नी विमोहक ।
जयनृत्तमहारंभ क्रीडाविक्षोभदारुण ॥
जयोग्ररुपसंरंभ त्रासितत्रिदशासुर ।
प्. ३२०)
जयक्ररगजेन्द्रास्य दर्शितासृक्सुनिर्झर ॥
जयवीरपरिस्पन्द दक्षयज्ञ विनाशन ।
जयाद्भुत महालिंग संस्थानबलगर्वित ॥
जयश्वेतनिमित्तोग्र मृत्युदेह निपातन ।
जयाशेष सुरावास काममोहित शैलज ॥
जयोपमन्युसन्ताप मोहजाल तमोहर ।
जय पातालमूलोर्ध्व लोकालोक प्रदाहक ॥
श्रिमत्किरणे
सर्वज्ञान नमस्तुभ्यं सर्वकर्त्रे नमोस्तुते ।
अविलुप्त स्वरूपाय चिन्मयाय नमोस्तु ते ॥
प्रमाणातीत देहाय नमश्शान्ताय तेजसे ।
सत्संवित्कारणातीत हानादानान्तरात्मने ॥
अनादिनिधनेशान शिवाय परमात्मने ।
नमस्ते तत्वरूपाय विभवायामितात्मने ॥
ज्ञानज्ञात्रे तथा ज्ञेय व्यतिरक्ताय ते नमः ।
ज्ञप्तिमात्र स्वरूपाय आनन्दब्रह्मणे नमः ॥
प्. ३२१)
अविद्याव्यतिरिक्ताय विद्यादेहाय ते नमः ।
स्वप्रमाणैकगम्याय स्वप्रकाशाय ते नमः ॥
नमोऽभिमतकर्त्रे ते पञ्चकृत्यैस्सदाऽत्मनाम् ।
षट्सहस्रिकायां
भगवन् भूतभव्येश ब्रह्मविष्ण्विन्द्रनायक ।
त्वत्प्रसादगुणाविष्टा दिवि दीव्यन्ति देवताः ॥
भवता निखिलं व्याप्तं जगत् स्थावरजंगमम् ।
त्वत्पादांबुजसामर्थ्य स्मरणादपि पापिनः ॥
प्रध्वस्तपापनिचयास्सिद्धिभाजो भवन्ति हि ।
किं पुनर्मुनयो धीरास्त्वय्येवार्पित चेतसः ॥
विमुक्तास्सर्वपापेभ्यो योगिनो विगतस्पृहाः ।
विरजस्का विशोकाश्च ह्यतिक्रान्त भवार्णवाः ॥
अन्येपि हि सुरेशान लब्धेप्सितवरा नराः ।
अहमेकोऽल्पभाग्यस्तु क्लेशभाक् सुखवर्जितः ॥
वज्रोपमं महत्पापं मदीयमथवा विभो ।
त्वदीयाश्शक्त्यस्तीव्रास्संसारोद्धारणं प्रति ॥
प्. ३२२)
मत्पापनिचयं प्राप्ता लघुना मृकुतां गताः ।
तस्मात् त्वमेव भगवन् वर्तयेथा ममेष्टद ॥
श्रीमन्मतङ्गपारमेश्वरे
जय जय परमेश्वरेन्दुमौले जय जय शिव सांब शंकरेश ।
जय जय मृड भीम कृत्तिवासो जय जय पुरकालजित् प्रसीद ॥
(२२३) जयजय जगदेकमातरीशे जय जय विनतात्मपालनेशे ।
जय जय करुणामृतांबुराशे जय जय गिरिजे नमः प्रसीद ॥
इत्यादि मतिविभवानुरूपं स्तुत्वा ॥ (५६)
(प्र) अथ स्तुतिक्रमः (स्तोत्रैः) इत्यादि (स्तुत्वा) इत्यन्तम् । स्तोत्रार्थः
स्पष्टः ॥
=== प्रदक्षिण नमस्कार विधिः ॥ ===
(क्रि) ५७) प्रदक्षिणत्रयमपदशब्दं कृत्वा साष्टांगं दण्डवत्
प्रणम्य, हृष्टस्समुत्थाय ॥ (५७)
(प्र) अथ प्रदक्षिण नमस्कारविधिं दर्शयति (प्रदक्षिण) इत्यादिना
(समुत्थाय) इत्यन्तेन ।
प्. ३२३)
(साष्टांगम्) शिरोहस्ताद्यष्टांगसहितम् । तथा श्रीमद्दीप्ते
शिरो हस्तौ च कर्णौ च चिबुकं बाहुयुग्मकम् ।
अष्टांगं च नमस्कारम् इति । (प्रणम्य) इति ।
अत्र त्रिवारं पंचवारं वा नमस्कुर्यात् ।
तथा दीप्त त्रीणि पंच च सप्तापि नव द्वादश संख्यया ।
भक्त्या कृत्वा नमस्कारं शिवस्याग्रे ततो नरः ॥ इति ।
=== द्विकालादिपूजाशक्तविधिः ॥ ===
(क्रि) (५७) द्विकालादि पूजाशक्तंस्तु
शिवमासनमूर्तिमूलैस्संपूज्य, भोगांगस्थानेषु
ब्रह्मनेत्रांगानि सन्ध्यागणनया पूजयेत् ॥ (५७)
(प्र) अथ एवं पूजाक्रममुदाहृत्य
परार्थे वा इयं पूजा ह्यात्मार्थे ना जनार्दन ।
एककालं द्विकालं वा त्रिकालं वा विधीयते ॥
इति श्रीमदजितादिश्रुतौ द्विकालादि पूजाया निहितत्वात् तदसमर्थस्य
किं
प्. ३२४)
विध्यन्तरमस्तीत्याशंक्याह (द्विकाल) इत्यादिना (पूजयेत्) इत्यन्तेन ।
अत्र एककालार्चनं मुख्यं माध्यन्दिन एव कार्यम् । तस्यैव
मुख्यत्वश्रुतेः । दिनार्द्दे सवनं गतः इत्युपक्रम्य
सर्वमन्त्रमुखे पुण्ये परमेशाधिदैवते ।
तदनिर्वर्त्य योऽश्नाति सवनं सुरपूजितम् ॥
तद्विरामं विना ख्यातं जन्तुर्मृत्योश्च वासरम् ।
मन्त्रास्तन्नाधितिष्ठन्ति योगपीठव्यवस्थिताः ॥
इति एकस्मिन् काले भोगाङ्गस्थानस्य पूजां विहाय, इतरक ।
लोद्वेशेन अष्टपुष्पिकार्चनेन च तत्तत्कालार्चनानां संपादनं
स्यादिति मन्तव्यम् । तदुक्तं
अष्टपुष्पादिदानेन द्विकालाद्यर्चनाविधिः ।
अन्तर्भाव्य कृतो यस्मादेककालार्चनैरपि ॥ इति ॥
प्. २२५)
=== नित्याग्निकार्यविधिः ॥ ===
(क्रि) (५३) अथ शिवं विज्ञाप्य, अग्निकार्यार्थमग्निसदनं यायात् ।
तदनधिकारी शिवमासनमूर्तिमूलांगैर्नेत्ररहितैरष्टभिः
पुष्पैर्यथास्थानं वा समस्तैर्ब्रह्मांगैस्संपूज्य,
पराङ्मुखार्घ्यं दत्वा, पूजां समापयेत् ।
अग्निकार्याधिकारयुक्तोप्युपकरणवैकल्यात्तस्मिन्नशक्तो वा
होमसंख्यया दशगुणञ्जप्त्वा, निवेद्य, पूजां समापयेत् ।
अथाग्निकार्याधिकारी संपन्नोपकरणः
अग्निंकार्यार्थमद्ध्येष्य, लब्धानुज्ञोऽर्घ्यपात्रादिकमानीय,
याम्यनैर्-ऋतवायव्येभ्योऽन्यस्यां दिशि कल्पितं कुण्डं वा
स्थण्डिलं वा समासाद्य पूर्वास्य उत्तरास्यो वा समुपविश्य
[कुण्डे वा स्थण्डिले वा] न्यस्तमूलेन चक्षुषा निरीक्षणम्,
शिवमन्त्रेण प्रोक्षणताडने,
कुशैहुंफडन्तास्त्रेणाभ्युक्षणं, वौषडन्तकवचेन
प्. ३२६)
खननावकीरणः पूरण
समीकरणसेचनकुट्टणसंमार्जनसमालेपनानि खड्गेन कुशेन
विधाय, कुण्डमद्ध्ये अस्त्रेण पूर्वाग्ररेखात्रयं कुशेन
संपाद्य, रेकामेकामुत्तराग्राञ्च संपादयेत् ।
उत्तरास्यश्चेद्विपर्ययेण संपाद्य, कवचेनाभ्युक्ष्य,
सर्वसंस्कारसंपत्तिं विभाव्य, तत्र हृदयेन दर्भकूर्च्या
विष्टरं दत्वा, ओम् हां वागीश्वर्यै नमः इति
देवीमावाहयेद्विद्यां विधिवद्विश्वमातरम् ।
श्यामामृतुमतीं ध्यात्वा सद्वासोमाल्यभूषणाम् ॥
प्रसन्नवदनां पद्मपत्राभनयनत्रयाम् ।
इति ध्यात्वा, तद्वद्वागीश्वरं देवं ओं हां वागीश्वराय
नमः इति संपूज्यार्घ्यं दत्वा पश्चादरण्यादिसंभवं वा
वह्नि शुद्धपात्रे समानीय, क्रव्यादांशं परित्यज्य,
निरीक्षणादिचतुस्संस्कारैस्संस्कृत्य, ओं हां हं हां
वह्निमूर्तये नमः इत्यनेन
प्. ३२७)
मन्त्रेण संहारमुद्रया वह्निमादाय, पूरकेण इडया आकृष्य,
कुंभकेन नाभ्यग्निना वैन्दवेन च संयोज्य, एकीकृत्य, रेचकेन
पिङ्गलया ओम् ह्रूं वह्निचैतन्याय नमः इति
प्रदीपकलिकोपममाग्नेयं बीजमुद्भवमुद्रया निवेश्य,
संहितया
(२२५) संपूज्य, पारमेश्वर वीर्यमिति विभाव्य, वागीश्वरेण वा
वागीश्वरीगर्भनाड्यां क्षिप्यमाणं विभावयन्,
मूलेनात्मसंमुखन्निक्षिप्य, समूह्य, देव्यैवासः
परिधानशौचाचमनानि हृदा दत्वा,
सद्योजातादिभिर्ब्रह्मभिरभ्यर्च्य, मूलेनाहुतिपञ्चकं दत्वा,
पूर्वदक्षिणपश्चिमोत्तरासु दिक्षु ओं हां ब्रह्मणे नमः ओं
हां विष्णवे नमः ओं हां रुद्राय नमः ओं हां अनन्ताय
नमः इत्यभ्यर्च्य, अग्नि शिशोरक्षां विज्ञाप्य, ओम् हां
शिवाग्निस्त्वं हुताशन इति अग्नेर्नाम कृत्वा, पितरौ विसृजेत् ।
ततोऽग्निहृत्पद्मे शिवं पूर्ववदभ्यर्च्य, नैवेद्यसमये
प्. ३२८)
तिलादिभिर्यथाशक्ति मूलेन ब्रह्मांगैश्च दशांशतौ हुत्वा,
पूर्णां दत्वा, तद्भस्माभिवन्द्य, अष्टपुष्पिकया संपूज्य,
पराङ्मुखार्घ्यं दत्वा, अग्निस्थमुत्थाप्य, मूर्तौ संयोज्य,
शिवन्निरपेक्षं विसृज्य, ओम् भूस्स्वाहा ओं भुवस्स्वाहा ओं
स्वस्स्वाहा ओं भूर्भुवस्सवस्स्वाहा इत्याहुति चतुष्टयं दत्वा,
ब्रह्मादिभ्यो बलिं दत्वा, वह्निन्नमस्कृत्य हुतं
भुक्त्वोपरमेत्युक्त्वा, ओं ह्रौं ह्रूं शिवाग्नये नमः इति वह्निं
विसृज्यं, ब्रह्मादीनपि व्युत्क्रमेण विसृजेत् ॥
(प्र) अथ सूर्योपस्थानेत्यादिश्रुतेरेवं
सूर्यादिपञ्चाधिकरणशिवार्चनक्रमं व्याहृत्य अधुना
षष्ठवह्न्या धारार्चन लक्षणस्य नित्याग्निकार्यस्य विधिं
लीलावती नाम शिवागमविहितप्रकारेण संक्षिप्य श्रुते (अथ)
इत्यादिना (विसृजेत्) इत्यन्तेन ।
प्. ३२९)
ननु सर्वैरप्यग्निकार्यं करणीयं वा इत्याशंक्य नेत्याह (तत्) इति
। (तदनधिकारी) तस्याग्निकार्यस्य अनधिकारी अधिकाररहितः ।
स च परहंसयतिप्रभृतिः । तथा श्रीमच्चिन्त्यविश्वसादाख्ये
परहंसयतीनाञ्च तपस्सन्न्यासिनश्च ये ।
अनयोरग्निकार्येषु योग्यत्वं न विधीयते ॥
इति । (यथास्थानं वा समस्तैर्ब्रह्माङ्गैस्संपूज्य) इति ।
अत्र सवा?दिक्रमेण तत्तत्स्थाने अभ्यर्चयेदित्यर्थः ।
तथा श्रीमदंशुमति
लयांगयजनं कृत्वा पराङ्मुखं ददेद्बुधः ।
सद्यादीशान्तमभ्यर्च्यं व्युत्क्रमेणैव योजयेत् ॥
(२२६) अस्त्रादिहृदयान्तञ्च अंगान्यङ्गेन योजयेत् ।
चतुर्दिक्ष्वस्त्रमभ्यर्च्य सोमादीन्द्रान्तमेव च ॥
नेत्रमग्रे समभ्यर्च्य कवचं वायुदेशके ।
नैर्-ऋते च शिखां चैव शिरस्त्वीशानदेशके ॥
प्. ३३०)
आग्नेय्यां हृदयं चैव अर्चयेत्तु लयांगकम् ।
इति । पराङ्मुखार्घ्यं नाम विसर्जन समये प्रदेयमर्घ्यम् ।
तथा श्रीमत्सर्वज्ञानोत्तरे विसर्जने तु गांगेयदेयमर्घ्यं
पराङ्मुखम् इति । एतत्स्वरूपमग्रे दर्शयिष्यामः ॥
ननु अग्निकार्याधिकारी यः तत्साधन विकलस्तस्मिन्नसमर्थः
स किं कुर्यादित्याह (अग्निकार्य) इति । तदधिकारी किंविधः कुत्र
यायादित्याशंक्याह (अथ) इति । अग्निकार्याधिकारी देशिकादिः ।
तथा श्रीमत्सारसंग्रहे
अग्निकार्याधिकारित्वंमभिषेकादनन्तरम् ।
यतस्तेन विनाऽचार्या दीक्षादौ नाधिकारिणः ॥
इति । तथा हुतेनैव तु मुच्यन्ते साधका जन्मबन्धनात् इति ।
(अन्यस्याम्) इति । आग्नेय्यादिदिशीत्यर्थः । तथा
श्रीमज्ज्ञानरत्नावल्यां
प्. ३३१)
नित्यहोमे तु वेदाश्रमाग्नेय्यां हस्तसंमितम् । कुर्यात्
कुण्डमथैशान्यां पूर्वे वा इति । कुण्डलक्षणमरे
दर्शयिष्यामः । स्थण्डिलं तावत् सिकतादिभिः । करमानं
त्र्यंगुलोन्नतं कल्पितं चतुरश्रक्षेत्रम् । तथा श्रीमत्कारणे
कुण्डस्य लक्षणं प्रोक्तं स्थण्डिलञ्चाधुनोच्यते ।
शुद्धदेशोत्थसिकतैरनार्द्रैर्हस्तविस्तृतम् ॥
अंगुलत्रयमानोर्ध्वं समं निम्नोन्नतं न च ॥
इति । कुण्डसंस्कारमाह (कुण्डे वा) इति । (विपर्ययेण) इति । अत्र
युद्युत्तराभिमुखस्तदा उदमग्रं रेखात्रयं रेखामेकां
प्रागग्राञ्च संपादयेदिति बोध्यम् ॥
वागीश्वर्यावाहनमाह (तत्र) इति । वह्निविन्यासमाह (पश्चात्)
इति । संहारिणीलक्षणमुक्तं प्राक् । (प्रदीपकलिकोपमम्) इति ।
प्. ३३२)
अत्र कलिकाशब्दः स्तवकवाची । स्याद्मुच्छकस्तु स्तवकः कलिका
इत्यमरः । (परमेश्वरवीर्यम्) परमेश्वरशुक्लम् । वीर्यं
पराक्रमे शुक्ले इति नानार्थरत्नमालः । अत्र
पारमेश्वरमेतद्वीर्यमिति भावनाभावे
वागीश्वरीगर्भनाड्युपक्षेपानुपपत्तिरिति तात्पर्यम् ।
आग्नेयममुना बीजं प्रदीपकलिकोपमम् ।
कुण्डस्थे पावके न्यस्य पञ्चब्रह्माणि पूजयेत् ॥
आहुतीः पञ्चमूलेन जुहुयात् तदनन्तरम् ।
इति श्रीमत्सोमशंभुवचनं हृदि निधाय
गर्भाधानादिपंचसंस्कारसिद्धये ब्रह्मभिरर्चां मूलेन
होमं च कुर्यादित्याह (सद्योजातादिभिः) इति ।
स्रुगादिकमर्घ्यप्रोक्षणेन संस्कारयेत् । तथा
श्रीमज्ज्ञानरत्नावल्यां
सकृत् प्रोक्षणमात्रेण स्रुक्संस्कारः कृतो भवेत् ।
प्. ३३३)
एवं घृतस्य कर्तव्यो ह्यर्घ्यपात्रोदकेन च ॥
इति । शिवावाहनमाह (ततः) इति । (शिवं पूर्ववदभ्यर्च्य) इति ।
अत्र पवित्रान्तं संपूजयेत् । तथा ज्ञानरत्नावल्यां
ततस्तद्वह्निहृत्पद्मे पूजयेत् पूर्ववत् सासनं
साङ्गमाश्रयोपाधिरूपं सोपचारं शिवं पवित्रान्तं
संपूज्य भगवंस्त्वां तर्पयामीत्याज्ञां नाडीसन्धानेन
होमं कुर्यात् इति । (यथाशक्ति) इति । अनेन दशकादिसंख्योच्यते ।
तथा श्रीमत्कामिके शतमर्द्धं तदर्द्धं वा विशतिर्दश एव च ।
शिवाद्दशांशतोऽङ्गानि तर्पयेत् इति । (तद्भस्माभिवद्य) इति ।
अत्र दर्भान् शिवाग्नौ सन्दीप्य तदभिव्यञ्जितशिवात्मना भस्मना
ललाटे तिलकं धृत्वेत्यर्थः । केचित्तु शिवं शिवाग्निं च विसृज्य
परिस्तरणदर्भमेकमग्नौ
प्. ३३४)
सन्दीप्य तद्भस्मतिलकं कुर्यादिति वदन्ति । तत्पक्षो
गुरुणामभिमतो न । यद्वक्ष्यति समनन्तरं शिवं निरपेक्षं
विसृज्य इति । तथा चाह श्रीमन्मृगेन्द्रपद्धतिव्याख्याकारः ।
भस्म वन्देत इत्यत्र शिवविसर्जनात् पूर्वं दर्भेण अग्निप्रदीप्तेन
तदभिव्यक्तस्वरूपेण भस्मना शिरोललाटादिषु आलंभनं
कुर्यात् इति । वह्निस्थ शिव विसर्जनमाह (अष्टपुष्पिकया) इति ।
(अग्निस्थम्) इति । शिवाग्निस्थितमन्त्रसंघातमित्यर्थः । (शिवं
निरपेक्षं विसृज्य) इति । अत्र आत्मिये हृदयकमले शिवं स्थापयेदिति
बोध्यम् । यदत्र हि मन्त्राणामभिव्यक्तिलयौ । तथा
श्रीमन्मृगेन्द्रपद्धत्यां भस्म वन्देत संगृह्य दैवमात्मनि
योजयेत् इति ।
प्. ३३५)
शिवाग्निविसर्जनमाह (ओम् ह्रौम्) इत्यादि । (वह्नि विसृज्य) इति ।
स्वस्य हृदि स्थाप्येत्यर्थः । तथा
विसर्जनं यथा वह्नेर्देशादिस्थं कदाचन ।
ज्ञानाग्नौ हृदये बिन्दौ योजयित्वा विसर्जयेत् ॥
इति । (विसृजेत्) स्वहृदये ब्रह्मादीनपि स्थापयेदित्यर्थः ।
तदुक्तं श्रीमत्सोमशंभुचरणैः भास्वरान् परिधिस्थांश्च
पूरकेण हृदाऽणुना । शुद्धया परयाऽत्मीये
स्थापयेत्तद्धृदंबुजे ॥ इति ॥
=== अन्तर्बलिबहिर्बलिविधिः ॥ ===
(क्रि) (६०) ततः स्वदक्षिणदिग्भागे मण्डलद्वयं संपाद्य,
प्रथममण्डले पूर्वाद्युत्तरान्तदिक्षु ओं हां रुद्रेभ्यो नमः
ओं हां मातृभ्यो नमः ओं हां गणेभ्यो नमः ओं हां
यक्षेभ्यो नमः ईशानादिकोणेषु
प्. ३३६)
ओं हां गृहेभ्यो नमः ओं हां असुरेभ्यो नमः ओं हां
राक्षसेभ्यो नमः ओं हां नागेभ्यो नमः मण्डलमद्ध्ये
ईशानाग्नेयनैर्-ऋतेषु ओं हां नक्षत्रेभ्यो नमः ओं हां
राशिभ्यो नमः ओं हां विश्वेभ्यो नमः वायुवरुणयोर्मद्ध्ये
ओं हां क्षेत्रपालाय नमः इत्यभ्यर्च्य स्वाहान्तं बल्यर्घ्यं
दत्वा, द्वितीयमण्डले पूर्वादीशान्तासु दिक्षु ओं हां इन्द्राय
नमः ओं हां अग्नये नमः ओं हां यमाय नमः ओं हां निर्-
ऋतये नमः ओं हां वरुणाय नमः ओं हां वायवे नमः ओं
हां कुबेराय नमः ओं हां ईशानाय नमः ऐशान्यां ओं
हां ब्रह्मणे नमः नैर्-ऋते ओं हां विष्णवे नमः मध्ये ओं
हां नीललोहिताय नमः इति संपूज्य, बल्यर्घ्यं दत्वा बहिः ओं
प्. ३३७)
हां वायसादिभ्यस्समयभेदिभ्यस्स्वाहा, ओम् हां
अग्न्यादिभ्यस्स्वाहा ओम् हां सर्वेभ्यो गृहवास्तुदेवेभ्यस्स्वाहा इति
बलिं दद्यात् । सर्वाण्विसृजेत् ।
यदि वा संक्षेपेणानेन बलिं दद्यात् ।
ओम् हां
ये रुद्रा रौद्रकर्माणो रौद्रस्थान निवासिनः ।
सौम्याश्चैव तु ये केचित्सौम्यस्थाननिवासिनः ॥
मातरो रौद्ररूपाश्च गणानामधिपाश्च ये ।
विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताः ॥
सर्वे सुप्रीतमनसः प्रतिगृह्व?न्विमां बलिम् ।
सिद्धिञ्जुषन्तु नः क्षिप्रं भयेभ्यः पान्तु मां सदा ॥
इत्येवं बलिं दत्वा, बलिमन्त्रान् स्वहृदिविन्यसेत् ॥
(प्र) अथ नित्याग्निकार्यक्रममभिधाय अन्तर्बलिबहिर्बलि बलिं
प्. ३३८)
जलमिश्रान्नेन स्वाहान्तेन दापयेत् । तथा
श्रीमज्ज्ञानरत्नावल्यां जलमिश्रान्नेन स्वाहान्तेन् रुद्रादिभ्यो
बलिं दत्वा इति । (मण्डलद्वयम्) इति । अत्र कुण्डस्य वह्निकोणे
मण्डलमेकं पश्चिमे मण्डलमेकं पूर्वे चतुरश्रं कुर्यात् ।
तथा श्रीरामनाथपद्धत्यां
मण्डलद्वितयं वह्निकोणे कृत्वाऽथ पश्चिमे ।
इन्द्रादीनर्चयेदष्टौ पूर्वे पूर्वादितः क्रमात् ॥
(२२९) इति । अन्तर्बलिदेवतापूजाक्रममाह (प्रथम) इति ।
बहिर्बलिदेवतापूजाविधिमाह (द्वितीय) इति । अत्र अन्तर्बहिर्बलिदेवता
रुद्रादयः शुद्धविद्यातत्वनिवासिनः ।
अशुद्धाध्वनिवासिनां पूजायामनुक्तत्वात् इति समीरितं
श्रीमन्मृगेन्द्रपद्धतिव्याख्याकारेण ।
प्. ३३९)
रुद्रादिभ्यो बलिदानमन्तर्बलिः । इन्द्रादिभ्यो बलिदानं बहिर्बलिरिति
कथ्यते । तथा श्रीमन्मृगेन्द्रपद्धत्यां
विसृज्याग्निं स्मरन् कुण्ड पार्श्वे मण्डलकद्वये ।
अन्तर्बहिर्बलिं दद्यात् स्वाहान्तैर्नामभिर्हृदा ॥
इति । पवित्रविधौ वक्ष्यति च अन्तर्बलिभुग्भ्यो रुद्रादिभ्यश्च
बहिर्बलिंभुग्भ्य इन्द्रादिभ्यश्च इति ॥
वायसादिबलिमाह (बहिः) इति । (बहिः) मण्डलयोरुभयोर्बाह्ये ।
(वायसादिभ्यः) इति । आदिपदेन श्वभूतादयो गृह्यन्ते । तथा
श्रीमत्सिद्धान्तशेखरे
तान् विसृज्य विनिर्गत्य नहिर्गोमयमण्डले ।
श्वभूतपतितप्रेतकाकादिभ्यो बलिं क्षिपेत् ॥
इति । (अग्न्यादिभ्यः) इति ।
प्. ३४०)
आदिपदेन सूर्यादिरुच्यते । तथा श्रीरामनाथपद्धत्यां
हृदा नमोन्तमग्न्यादिप्राक्पर्यन्तदिगष्टके ।
यजेदग्निं च सोम च सूर्यं चैव बृहस्पतिम् ॥
प्रजापतिं च देवांश्च सर्वान् विश्वांश्च नामभिः ।
अग्निं स्विष्टकृतं च इति । अथ पक्षान्तरेण संक्षेपबलिं अक्.ईकरोति
(यदि वा) इति । (यदि वा) एवं नोचेत् । ये रुद्रा इत्यादि मन्त्रश्लोकार्थः
सुबोधः ॥
=== बल्यनन्तरविधिः ॥ ===
(क्रि) (६२) ततः स्तोत्रचन्दनादिकं कृत्वा, सकलीकृत्य,
सार्घ्यजलहस्तश्शिवान्तिकं गत्वा,
यत्कृतं यत् करिष्यामि तत्सर्वं सुकृतन्तव ।
विश्वगोप्ता त्वमेवात्र नान्यो नाथो मे शिवः ॥
इति विज्ञाप्य, स्वाहान्तमूलेन पूजाहोमादिकं
प्. २४१)
पुण्यफलं शिवस्य वरदहस्ते अर्घ्यजलेन सहोद्भवमुद्रया
भूमिष्ठजानुर्निवेदयेत् ॥ (६२)
(प्र) अथ तदनन्तरकरणीयान्याह (ततः) इत्यादिता (निवेदयेत्)
इत्यन्तेन । यत्कृतमित्यादिग्रन्थार्थः स्पष्टः । (पुण्यपलम्) इति ।
फलति निष्पद्यत इति फलम् ॥
(२३०)
=== शिवपूजासमापनविधिः ॥ ===
(क्रि) (६२) ततोऽष्टपुष्पिकया संपूज्य पञ्चमुखीं दर्शयित्वा
सद्यादिक्रमेण मूलेनाभ्यर्च्य, अर्घ्यं दत्वा अस्त्रादीशानान्तं
। पूजाप्रातिलोम्येनार्घ्यं दत्वा, काम्यमन्त्रान् स्वस्वावधौ
संयोज्य नाराचमुद्रयाऽस्त्रेण मन्त्रान् पुष्पक्षेपेण उत्थाप्य
संहृत्य दिव्यमुद्रया मूर्तिमन्त्रेण मूर्तौ संयोज्य,
मूलेनाभ्यर्च्यार्घ्ययित्वाक्षमस्वेति ब्रूयात् ॥
यथा
प्. ३४२)
स्वामिन् क्षुद्रेण दासेन मलीमशधिया मया । कदर्थितोऽसि
यद्भक्तिलेशात् प्रीतः क्षमस्व तत् ॥ इति ।
ततो दिग्बन्धनावकुण्ठनामृतीकरणानि विधाय, अभ्यर्च्य ॥
(६२)
(प्र) अथ शिवपूजासमापनविधिं वर्णयति (ततः) इत्यादिना ।
(अभ्यर्च्य) इत्यन्तेन । (अर्घ्यम्) इति । विसर्जनसमये सद्योजातादि
क्रमेण देयं पराङ्मुखार्घ्यमित्यर्थः । तथा श्रीमत्कामिके
पराङ्मुखं ततश्चार्घ्यं सद्योजाताच्छिवावधि ।
अस्त्राद्धृदयपर्यन्तम् इति । अत्र पराङ्मुखार्घ्यो न विसर्जनार्थं
देयः । किन्तु इदमस्मदीयमर्चनमिति पूजायाः समाप्तौ
निरोधकत्वेन दद्यादिति भावः । तथा श्रीमन्मृगेन्द्रे
परोऽर्घ्यस्तेष्वियत्तायै पूजायां न विसृष्टये इति ।
तथा
प्. ३४३)
श्रीमत्कामिके चललिंगे तु सापेक्षं नापेक्षं स्थण्डिलादिषु ।
विसर्जनन्तु सर्वत्र कार्यं प्रोक्तेन वर्त्मना ॥ इति ।
काम्यमन्त्राणां संयोजनं कुत्रे व्याशंक्याह (काम्य) इति ।
(स्वस्वावधौ) इति । अत्र यावत्यध्वनि साध्यमन्त्राणां व्याप्तिः
तदन्ते तान् लीनान् भावयेत् । न तु तेषां परतत्वे लयः कार्यः इति
व्यपदिष्टं श्रीमन्मृगेन्द्रवृत्तिकारेण ।
नाराचमुद्रालक्षणमुदाहृतं मुद्रालक्षणे अथ नाराचमुद्रा
अङ्गुष्ठाग्रद्वयस्थपुष्पयोस्तर्जनीद्वयक्षेपणात् सिद्धा पूजित
मन्त्रोत्थापनकरी भवति इति । (मन्त्रान्)
भोगस्थानस्थमन्त्रानित्यर्थः । तथा श्रीमन्मृगेन्द्रे
एवं व्यक्तादिलिंगेषु किन्तु संहृत्य तानणून् ।
भोगस्थानस्थितान् मूर्तौ निदध्यान्नोपसंहरेत् ॥
इति । (उत्थाप्य) इति । विद्युद्वदुत्थितान् ध्यात्वेत्यर्थः
प्. ३४४)
तथा श्रीकालोत्तरे विद्युद्वदुत्थितान् ध्यात्वा स्वस्थानेषु लयं
नयेत् इति । दिव्यमुद्रालक्षणमुक्तं मुद्रालक्षणे दिव्यमुद्रा तु
अंगुष्ठानामाग्रगृहीतपुष्पद्वयेन देवस्य पूजासमाप्तौ
योव्याकारभ्रमणस्वरूपा स्यात् इति । आसनमन्त्रांस्तु
शिवासनमन्त्रेण पीठे संयोजयेत् । तथा श्रीमत्कामिके
संहारमुद्रयाऽस्त्रेण देवानावरणस्थितान् ।
समस्तानर्पितान् देवांस्तान् लिंगे सह योजयेत् ॥
आसनार्चितमन्त्रांस्तु पीठेनैव तु योजयेत् ।
इति । ततः किं कुर्यादित्याह (क्षमस्व) इति । तत्कथनं
कथमित्याशंक्याह (यथा) इति । स्वामिन्नित्यादि श्लोकार्थः
सुबोधः । तदनन्तरकरणीयमाह (ततः) इति । अत्र यदि चललिङ्गं
तदा शिवमन्त्रं समुच्चरन् पद्मपीठाल्लिङ्गमादाय
विचित्रवस्त्रेण संवेष्ट्य पेटकमध्ये विन्यस्य भीमरुद्रं स्मरन्
रक्षां विज्ञाप्य पिधानं कुर्यात् ।
प्. ३४५)
तथा श्रीमदंशुमति शिवमन्त्रमनुस्मृत्य लिङ्गं संगृह्य
देशिकः ।
चित्रवस्त्रेण संवेष्ट्य पेटिकामध्यमे न्यसेत् ॥
अपिधानन्तु संयोज्य भीमरुद्रं समरेत् ततः । इति ।
=== देशिकादिविसर्जनविधिः ॥ ===
(क्रि) (६३) स्वगुरुं विद्यापीठं गुरून्महालक्ष्मीं गणपतिं
द्वारस्थांश्चार्चयित्वा विसृजेत् ॥ (६३)
(प्र) अथ निजदेशिकादीनां विसर्जनविधिमतिदिशति (स्व) इत्यादिना
(विसृजेत्) इत्यन्तेन । अत्र स्वगुरु विद्यापीठादि मन्त्रान् आत्मगतान्
कुर्यादिति बोध्यम् । तथा श्रीरामनाथपद्धत्यां
सामान्यार्घ्येण दत्वार्घ्यं गुर्वादीनां पराङ्मुखम् ।
संहारमुद्रयाऽत्मस्थं कृत्वा इति ।
प्. ३४६)
=== चण्डेश्वरार्चनविधिः ॥ ===
(क्रि) (६४) ऐशान्यां दिशि शुद्धभूतले ओं च चण्डासनाय
हुंफण्णमः ओं चण्डमूर्तये हुंफण्णमः इत्यभ्यर्च्य
रुद्राग्निप्रभवञ्चण्डं कज्जलाभं भयानकम् ।
शूलटंकधरं रौद्रं चतुर्वक्त्रञ्चतुर्भुजम् ॥
मुखोद्गीर्ण महाज्वालं रक्तद्वादशलोचनम् ।
जटामकुटकण्डेन्दु मण्डितं फणिकं कणम् ॥
व्यालयज्ञोपवीतञ्च साक्षसूत्रं कमण्डलुम् ।
श्वेतपद्मासनासीनं भक्तिप्रह्वार्तिंनाशनम् ॥
(१३२) इति ध्यात्वा, ओम् हां चण्डनेत्रेभ्यो हुंफण्णमः इति
विन्यस्य ओं ध्वनिचण्डेश्वराय हुंफट् स्वाहा इत्यावाह्य, ओं
चण्डहृदयाय हुं फण्णमः ओं चण्डशिरसे हुंफण्णमः
ओं चण्डशिखायै हुंफण्णमः ओं चण्डकवचाय
हुंफण्णमः ओं चण्डास्त्राय हुंफण्णमः
इत्यङ्गैस्सकलीकृत्य पूजयेत् ।
प्. ३४७)
यदि वा आसनमूर्तिमूलैः केवलमूलेन वाऽभ्यर्च्य,
अर्घ्यनैवेद्याद्युपाहृत्य, पूर्वस्थापितनिर्माल्यं
दत्वाऽर्घ्ययित्वा,
लेह्यशोष्यान्नपानादि तांबूलं स्रग्विलेपनम् ।
निर्माल्यभोजनन्तुभ्यं प्रदत्तन्तु शिवाज्ञया ॥
इति विज्ञाप्य, यथाशक्ति जप्त्वा निवेद्य,
सर्वमेतत् क्रियाकाण्डं मया चण्ड तवाज्ञया ।
न्यूनाधिकं कृतं मोहात् परिपूर्णन्तदस्तुमे ॥
इति विज्ञाप्य, पराङ्गुखार्घ्यं दत्वा, अंगानुत्याप्य, मूर्तौ
मूर्तिमन्त्रेण संयोज्य, पूरकालितमूलेन संहारमुद्रया
स्वहृदि विन्यसेत् ॥ (६४)
(प्र) अथ एवं शिवलिङ्गार्चनं यथावदभिधाय
तन्न्यूनाधिकं दोषनिवारणाय चण्डेश्वरस्यार्चनमाह
(ऐशान्याम्) इत्यादिना (विन्यसेत्) इत्यन्तेन ।
प्. ३४८)
चण्डेश्वरध्यानमाह (रुद्र) इति । (रुद्राग्निप्रभवम्) रुद्राग्निः
रुद्रवह्निः । यद्वा रुद्रस्याग्निः क्रोधः चण्डं क्रोधाद्विनिर्गतम्
इति श्रुतेः । तस्मात् प्रभवः प्रकृष्टो भवो जन्म यस्य स तथोक्तः
तम् । एवमुक्तं श्रीमता सोमशंभुपद्धतिव्याख्याकारेण ।
सुगममन्यत् । चण्डासनमूर्तिमूलमन्त्राणामुद्धारः
प्रदर्शितः श्रीमत्कामिके
चण्डासनं चतुर्थ्यन्तं नत्यन्तमनुरासने ।
चण्डमूर्तिपदं दीप पूर्वं नत्यन्तमेव च ॥
चतुर्थ्यन्तमिदं मूर्ति मन्त्र इत्यभिधीयते ।
ध्वनिचण्डेश्वरायेति हुंफट् स्वाहापदेन च ॥
ओं चण्डपूर्वको हुंफट् नमोन्तस्त्याद्ध्रुवादिकः ।
इति । चण्डपूजाया विकल्पमाह (यदि वा) इति ।
निर्माल्यन्नाम परमेश्वरोपभुक्तं मन्त्रपुरस्सरं निरस्तं
माल्यमित्युच्यते ।
प्. ३४९)
तथा
माल्यं निरस्तं निर्माल्यं न लिङ्गादावस्थितम् ।
नादत्तं संभवे पूर्वं न चामन्त्रबहिष्कृतम् ॥
चण्डेश्वराय यद्दत्तं निरस्तं मन्त्रपूर्वकम् ।
उपभुक्तं हि देवेन निर्माल्यं तत् प्रकीर्तितम् ॥
इति । अर्घ्यं विशेषार्घ्यम् । चण्डेशस्य विशेषार्घ्यम् इति व्याहृतं
श्रीमन्मृगेन्द्रपद्धति व्याख्याकारेण । विज्ञापन प्रकारमाह
(लेह्य) इति । (लेह्यशोष्यान्नपानादि) लेह्यं च मध्वादि शोष्यञ्च
नालिकेरोदकादि । अन्नञ्च भोज्यमित्यर्थः । पानञ्च पेयमित्यर्थः ।
लेह्यशोष्यान्नपानानि तानि आदीनि यस्य तत् तथोक्तम् । आदिपदेन
भक्ष्यमुच्यते । तदुक्तं
भक्ष्य भोज्यं च पेयं च लेह्यं शोष्यं च पञ्चधा ।
भक्ष्यं फलादिकं भोज्यमन्नं पेयं रसायनम् ।
प्. ३५०)
लेह्यं मध्वादि शोष्यन्तु नालिकेरोदकादिकम् ।
इति । स्फुटमन्यत् । पुनरपि प्रार्थनान्तरमाह (सर्वम्) इति ।
(क्रियाकाण्डम्) शिवपूजाकर्मवर्गम् ।
काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु इत्यमरः ।
शेषं सुगमम् । चण्डेश्वर विसर्जन क्रममाह (पराङ्मुखम्) इति
। अत्र केचन आत्मार्थपूजायां चण्डेश्वर सपर्यां नेच्छन्ति ।
तत्गतं न रोचते । शैवसिद्धान्ते सर्वदा सर्वत्र चण्डेश्वरः
पूजनीय एवेति नियमः । चण्डपूजानिषेधश्च वामदक्षिणतन्त्र
विषयः । तथा श्रीमत्कालोत्तरे
स्थिरे चले तथा रत्नमृद्वासै शैलकल्पिते ।
लोहचित्रमये बाणे स्थितश्चण्डो नियामकः ।
सिद्धान्तस्येतरे तन्त्रे न वामे न च दक्षिणे ।
इति ॥
प्. ३५१)
=== शिवादिविसर्जनविधिः ॥ ===
(क्रि) (६५) ततः स्थण्डिले पूजितान् शिवादी नप्येवमेव विसर्जयेत् ॥
ततोऽर्घ्यपात्रस्थमन्त्रानुत्थाप्य, संहृत्य, हृत्कमले
विन्यस्य, निर्माल्यापनयनं कृत्वा, भूमिं गोमयेन संशोध्य,
प्रोक्षयेत् ॥ (६५)
(प्र) उक्तन्यायमन्यत्राप्यति दिशति (स्थण्डिले) इत्यादिना (विसर्जयेत्)
इत्यन्तेन ॥
अथ तदनन्तरकरणीयमाह (ततः) इत्यादिना (प्रोक्षयेत्)
इत्यन्तेन ॥
=== अघोरमन्त्रजपविधिः ॥ ===
(क्रि) (६६) ततो धौतपादस्समाचम्य, शुद्धभस्मना स्नात्वा,
सकलीकृत्य, समस्तपूजा फललाभार्थमघोरमेकविंशतिवारं
जपेत् ॥
(२३४) इति परमेश्वरापरनामधेय श्रीमदघोरशिवाचार्य
विरचितायां
प्. ३५२)
क्रियाक्रमद्योतिकायां शिवपूजाविधिस्समाप्तः ॥ (६६)
(प्र) अथ समस्तन्यूनातिरिक्तदोषशान्त्यर्थं
पूजाफललाभार्थञ्चाघोरं जपेदित्याह (ततः) इत्यादिना (जपेत्)
इत्यन्तेन ॥
=== कपिलार्चनाविधिः ॥ ===
(क्रि) (६७) '''ततः कपिलां संपूज्य,'''
'''अमृतमथनोत्पन्ने सुरभे
लोकधारिणि ।
इमं ग्रासं गृहाण त्वमिदं मे व्रतमुत्तमम् ॥
इति ग्रासं दत्वा'''
(प्र) अथ कपिलार्चनाविधिः ('''ततः''') इत्यादि ('''दत्वा''') इत्यन्तम् । ('''कपिलां
संपूज्य''') इति । अत्र ओं कपिले नन्दे नमः ओं कपिले भद्रे नमः ओं
कपिले सुशीले नमः ओं कपिले सुरभे नमः ओं कपिले सुमनसे
नमः इत्यर्चयेत् । तथा श्रीरामनाथपद्धत्यां
कपिलां कपिलापूर्वैजैन्नन्दादिनामभिः ।
यथा सतारं कपिले नन्दे नम इति व्रुवन् ॥
भद्रां सुशीलां सुरभिं तथा सुमनसामपि ।
इति । ग्रासप्रदानमन्त्रमाचष्टे ('''अमृत''') इति । ('''ग्रासम्''') कबलम् ।
ग्रासन्तु कबलार्थतः इत्यमरः । शेष सुबोधम् ॥
=== शिवसंहिताध्ययनविधिः ॥ ===
(क्रि) '''मध्याह्नसमयं यावत् स्वाध्यायादिकं कृत्वा,'''
(प्र) अथ अहन्यहनि योऽधीते विधिस्थश्शिवसंहिताम् ।
स हन्ति सर्वपापानि तामिस्रमिवभास्करः ॥
इति श्रुतेः शिवसंहितां प्रत्यहं समधीयीतेत्यभिधत्ते
('''मध्याह्न''') इत्यादिना ('''कृत्वा''') इत्यन्तेन । ('''स्वाध्यायादिकम्''') इति । अत्र स्वाध्यायः संहितास्वन्यतममीप्सितं शिवशास्त्रमित्यर्थः ।
आदिपदेन पुराणाद्यनुसन्धेयम् । ('''कृत्वा''') इति । अधीतेत्यर्थः । तथा
श्रीमन्मतङ्गवृत्तिकारेण लिखितं
मन्त्राणामेव जपतस्स्वाध्यायाध्ययनात्तथा ।
दुष्कृतेभ्यो विमुच्यन्ते कर्मणस्सुकृतादपि ॥
इति । तथा श्रीमन्मृगेन्द्रपद्धत्यां कुर्यात् स्वाध्यायमीप्सितम् इति ।
कुर्यात् अधीतेत्यर्थः । एवमुदितं तद्व्याख्याने ॥अत्र शिवागमाध्ययने शिवदीक्षितानां
चतुर्वर्णानामधिकार इत्येवधेयम् । तथा श्रीमत्सिद्धान्तबोधे
आगमान्ताख्यसिद्धान्तः पुराणं शूद्रवर्णिनाम् ।
शूद्राणां वृत्तयो वाच्याश्श्रुत्युक्तैरागमार्थकैः ॥
इति । तथा श्रीमत्किरणे यदवाप्य नरास्सर्वे इति ।
तथा चाह भगवान् नीलकण्ठाचार्यः पत्युरसामञ्जस्यात् इत्यत्र वयन्तु
वेदागमशैवागमयोर्विशेषं न पश्यामः इति । यदि सर्वात्मना
सिद्धान्तशैवागमवेदयोरभेदः किमर्थन्तर्ह्युभयोर्निर्माणमिति
चेन्न । अस्तीयाननयोर्भेदः वेदस्त्रैवर्णिकाधिकारः ।
आगमश्चातुर्वर्ण्याधिकार इति । एतदप्युक्तं श्रीकण्ठभाष्ये
वेदस्त्रैवर्णिक विषयः सर्वविषयश्चान्यः इति ।
शिवागमाध्ययन क्रमः श्रीमत्कामिकादिषु बहुशः प्रकाशितः
विस्तरभयान्नेह प्रतन्यते ॥
=== माध्याह्निकविधिः ॥ ===
(क्रि) '''मध्याह्नसमयेऽपि पूर्ववत् स्नानसन्ध्या शिवार्चनादि
कुर्यात् ॥
यद्वा पूर्वार्चिते तत्काले वा त्रिकालसंख्ययाऽष्टपुष्पिकया
संपूजयेत् ॥'''
(प्र) अथ माध्याह्निकविधिः ('''मध्याह्न''') इत्यादि ('''संपूजयेत्''')
इत्यन्तम् । मध्याह्नसमयनिर्णयः पूर्वं ध्यायेन्माध्यन्दिने
देवीम् इत्यत्र स्फुटीकृतः ॥
=== सान्तानिकभिक्षाभोजनविधिः ॥ ===
(क्रि) '''पश्चात् सुलिप्तं भोजनस्थानं कृत्वा, गोमयकल्पिते
भस्मना चतुस्त्रिद्वयेकरेखया परिष्कृते यथाक्रमं
देशिकादयः प्राग्दक्षिणपश्चिमोत्तरास्या वा स्वातन्त्र्येण सर्वे
प्रागास्या वा सवर्णैस्संस्कृतैः
पंक्तिपावनैरेकपंक्तयोपविष्टास्सभवे
सुवर्णरजतताम्रलोहपात्रेषु नभावे सप्तधा भस्म शोधिते
अघोरेण सप्तधाऽभिमन्त्रिते कांस्यपात्रे वा अभिषिद्धेषु
कदल्यादिपत्रेषु वा अश्नीयुः । जानुमद्ध्यकरो बंद्धवीरासनो वा भोजनानुपयुक्तां वार्तां वर्जयेत् ।
पात्रलग्नवामकरो भुञ्जीत ॥
ततः पात्रदत्तमन्नमस्त्रेण प्रोक्ष्य, वौषडन्तमृत्युञ्जय
मन्त्रेण सप्तधाऽभिमन्त्र्य, यथाशक्ति पृथक्पात्रेषु शिवादिभ्यो
निवेद्य अंभसा परिषिच्य, किञ्चिदन्नं भूमौ निक्षिप्य,
दक्षिणहस्तेन कनिष्ठांगुलिपातितजलेन'''
'''ओम्
नागकूर्मकृकरदेवदत्त धनञ्जयेभ्य
उपप्राणवायुभ्यस्स्वाहा इति मन्त्रेण
भूमिष्ठमन्नन्नागादिभ्यो निवेद्य, शिष्टञ्जलं'''
'''अमृतोपस्तरणमसि इति प्राश्य, यद्वा ईशानेन परिषिच्य, पुरुषेण
प्राश्य, अस्त्रेण औदर्यं अनलं ज्वलितं ध्यात्वा,'''
'''ओम् प्राणाय
स्वाहा'''
'''ओम् अपानाय स्वाहा'''
'''ओम् समानाय स्वाहा'''
'''ओम् उदानाय स्वाहा'''
'''ओम् व्यानाय स्वाहा'''
'''एवं भूमिसंस्थेन
पात्रेण प्राणाहुतीर्हुत्वा, यथेष्टं भुञ्जीत ॥
तत्रान्तरे मक्षिकानखकेशादि वृष्टञ्चेदल्पमन्नन्त्यक्त्वा,
हस्तं प्रक्षाल्य, स्पृष्ट्वा भस्म भुञ्जीत । लशुनपलाण्डुगृञ्जनालाबुकशंबूकमत्स्यमांससैन्धवोद्भ
वलवणहस्तदत्तलवणादीनि सामान्यशास्त्रनिषिद्धानि च वर्जयेत् ।
भुञ्जानो लवणाज्ये नाददीत । अन्नस्योर्ध्वं पानीयन्न पिबेत् ।
व्यावृतवक्त्रो वा पीतशेषञ्च न पिबेत् । नान्त्यजातिं विलोकयेत् ।
परिमितं भुक्त्वा, अन्ते अप्रक्षालित पाणिना अमृतापिधानमसि इति
जलन्तत्पुरुषेण वा प्राश्य, हस्तादिकं प्रक्षाल्याचम्य,
स्वदक्षिणमुष्टिस्थांगुष्ठच्युत तोयेन दक्षिणपादांगुष्ठं'''
'''ओम् हां कालाग्निरुद्राय स्वाहा'''
'''यद्वा ओम् हां आत्मतत्वाय स्वाहा इति सिञ्चेत् । ततः भस्मना
विशुद्धस्सकलीकृत्य, परिधामुद्रामाबद्ध्य,
वामदेवन्नवधाऽवर्त्य, तांबूलादिना मुखं संशोधयेत् ।
अन्यगृहभोजने अन्नस्याग्रतः शिवगायत्रीजपपूर्वं भुञीत ॥'''
(प्र) अथ माध्याह्निकविधिमुदीर्य शरीरस्थित्यर्थं
देशिकादीनां शैवानां सान्तानिकभिक्षाभोजनविधिं ब्रूते
('''पश्चात्''') इत्यादिना ('''भुञ्जीत''') इत्यन्तेन । आचार्यादयः कीदृशे
अवकाशे किंविधाः कैस्सह कस्मिन् भाजने
भोजयेयुरित्याशंक्याह ('''गोमयकल्पिते''') इति । करमान
गोमयकृतचतुरश्रमण्डले इत्यर्थः । तथा श्रीमत्षट्सहस्रे
हस्तमात्रन्तु वेदाश्रम् इति । चतुस्त्रिद्वयेकरेखाकं गुर्वादिसमयान्तकम् इति श्रीमत्किरण
श्रुतेराचार्यदिसमय्यन्तानां चतुर्णां यथाक्रमं
चतुरादिरेखालंकृत मण्डलमित्याह ('''चतुस्त्रिद्वयेकरेखया''') इति ।
('''देशिकादयः''') देशिकसाधकपुत्रसमयिनः । ('''सवर्णैः''') समानो
वर्णो येषान्ते सवर्णाः एकवर्णा इत्यर्थः तैः । ('''संस्वृतैः''')
दीक्षासंस्कारसंपन्नैः । तथा नादीक्षितेन वसतिं कुर्यात्
पंक्तौ च भोजनम् इति । ('''पंक्तिपावनैः''') पंक्तिं पवित्रीकुर्वाणैः
। अत्र संहेति शेषः । ('''संभवे''') द्रव्यसंपत्तौ ।
('''स्वर्णरजतताम्रलोहपात्रेषु''') अत्र गुरुप्रभृतेः यथाक्रमं
स्वर्णादिपात्रम् । तथा श्रीमत्किरणे
भाजनं यद्गुरोर्हैमं रौप्यं स्यात् साधकस्य तु ।
ताम्रकं पुत्रकस्योक्तं लोहजं समयार्थिनाम् ॥
इति । ('''अभावे''') आचार्यादिक्रमोक्तसौवर्णादिपात्राणां विरहे ।
('''कदल्यादिपत्रेषु''') रंभापद्मादिपत्रेषु । तथा
श्रीमन्मृगेन्द्रपद्धत्यां
पलाशकदली चूतपद्मिन्यादिदलोषु वा ।
अनिषिद्धेष्वमिश्रेषु तदूर्ध्वग्रथितेषु च ॥
इति । अस्वत्थादिवर्णानि निषिद्धानि । तथा श्रीमज्ज्ञानरत्नावल्यां
अश्वत्थैरण्डभल्लातैर्न्यग्रोधार्क विभीतकैः ।
शाकोदुंबरसज्जाद्यैर्न स्याद्भोजनभाजनम् ॥
इति । ('''अश्नीयु''') आशनः विदध्युः । कथं भुञ्जीत इत्याह ('''जानु''') इति ।
('''बद्धवीरासनः''') इति । एतल्लक्षणमुदितं श्रीमत्सुप्रभेदे
द्विर्भुजापतीतं वामपादं दक्षिणतोपरि ।
स्थितं वीरासनं प्रोक्तं भुक्तकाले विशेषतः ॥
इति । भोजनानुपयुक्तवार्तां वर्जयन्नित्येतदाचार्य व्यतिरिक्तविषयम्
।तथा श्रीमत्किरणे
मौनमास्थाय भोक्तव्यं साधकादित्रयेण तु ।
भोक्तव्यं प्रभुणा यद्वदाचार्येण यथेच्छया ॥ इति ॥
किं कृत्वा भुञ्जीतेत्याह ('''ततः''') इति । ('''ततः''')
एवमवस्थानानन्तरम् । मृत्युञ्जयमन्त्रोद्धारः प्रदर्शितः
श्रीमत्कामिके ओम् जुं स इति मन्त्रोऽयमेव मृत्युञ्जिदाह्वयः इति ।
('''शिवादिभ्यः''') शिवाग्निगुरुभ्यः । शिवादित्रयनिवेदनस्य
फलमुपवर्णितं श्रीमच्छिवधर्मोत्तरे
कृषिवार्द्धष्यवाणिज्यक्रोधासत्यार्जनादिभिः ।
पुंसा पापानि वर्द्धन्ते सूनादोषैश्च पंचभिः ।
संमार्जनाञ्जनं तोयमग्निमन्थनपेषणे ।
सूनाः पञ्च गृहस्थानां नित्यं पापाभिवृद्धये ॥
शिवाग्निगुरुपूजाभिः पापैरेतैर्न लिप्यते । इति ।
अत्र स्वेष्टलिंगादिनिवेदनावशिष्टं भुंजीयात् । न तु तन्निवेदितमिति
तात्पर्यम् । अत एवात्र यथाशक्ति पृथक्पात्रेषु इत्युक्तम् ।
तथा चाह श्रीमान् सोमशंभुपद्धतिव्याख्याकारः अनिवेद्य न
भुंजीत इत्यत्र स्वेष्टलिंगाग्निगुर्वधिकरणाय
शिवायेत्यध्याहर्तव्यं तन्निवेदनावशिष्टमेव
भुंजीतेत्याशयः इति । ('''किञ्चिदन्नम्''') इति । अनेन
ग्रासार्द्धमात्रमुपलक्ष्यते । तथा श्रीमदंशुमति
आत्मनस्सव्यभागे तु गोमयालिप्तमण्डले ।
भूमौ ग्रासार्द्धमात्रन्तु नागादिभ्यो निवेदयेत् ॥
इति । बलिं क्षिपेदिति । ('''औदर्यम्''') जाठरम् । ('''तस्मिन्''') उदरोतितानले ।
अत्र प्राणाद्याहुतिभिरात्मप्रभृतयस्तृप्ता भवन्ति इत्यवसेयम् ॥ तथा श्रीमज्ज्ञानरत्नावल्यां
आत्मा प्राणेस्थितोऽपाने संस्थिता भूतयोनयः ।
उदाने संस्थिता देवास्समाने पितरस्तथा ॥
व्याने व्यवस्थिता नागास्तथा पातालवासिनः ।
अंगुष्ठमध्यानामाग्रैर्दक्षहस्तस्रुताग्रगैः ॥
आस्यकुण्डान्तरस्थाग्निज्वाला मध्ये व्यवस्थिताः ।
एकैकाहुतिभिर्दन्तानस्पृशस्तर्पयेदिमान् ॥
घृतव्यञ्जनसंमिश्रं शेषमीशायं होमयेत् ।
इति । यदि भोजनभाजनस्थौदने नखादिपरिदृष्टं तदा किं
कुर्यादित्याह ('''तत्र''') इति । ('''तत्रान्तरे''') तस्मिन् भोजनावसरे । ('''केशादि''') इति ।
आदिपदेन तुषादि निगद्यते । तथा श्रीमत्कालोत्तरे
भोजने तु तुष केशं चीरांगारनखाव्यपि ।
सरीसृपाणि सर्वाणि अन्ने मत्कुणमक्षिकाः ॥
यूका भ्रमरदंशाश्च क्षेपाच्छुद्ध्यन्ति भस्मनः । इति ॥
अभोज्यानि वस्तून्यत्र कानीति बुभुत्सायामाह ('''लशुन''') इति ।
('''लशुनपलाण्डुगृञ्जनालाबुकमत्स्यमांससैन्धवलवणहस्तदत्तलवणादि''') लशुनं च श्वेतनालं पलण्डुश्च
सुकन्दकः पलण्डुस्तु सुकन्दकः इत्यमरः ।
गृञ्जनञ्च रक्तनालं गृञ्जनारिष्टमहाकन्दरसोनकाः
इत्यमरः । अलाबुकञ्च तुंवरफलं शंबूकश्च जलशुक्तिः
मत्स्यश्च मांसं च सैन्धवलवणं च हस्तदत्तलवणं च
तथोक्तानि तानि आदयः यस्य तत् तथोक्तम् । आदिपदेन
बिम्बोदुंबरफलादि निगद्यते । तथा श्रीमच्चिन्त्यविश्वे
उदुबरञ्चालाबुश्च सौवीरञ्च कुमारिका ।
वृन्ताकं कतकञ्चैव च्छत्राकं बिम्बिका तथा ।
इति । ('''सामान्यशास्त्रनिषिद्धानि''') सामान्यशास्त्राणि वेदस्मृतादीनि तैर्निविद्धानि अविहितानि । अत्र
वेदादेरपि धर्मोपदेशे सामान्यशास्त्रत्वेनाभ्युपगमः इति
भावः । तथा श्रीमोहशूरोत्तरे वेदस्मृतिपुराणाद्या आगमा
धर्मदर्शकाः इति । सामान्यं च विशेषं च शैवं वैशेषिकं
वचः इति । तथा च श्रीमत्स्वायंभुवे
धर्मसाधनसंविति सम्नायादेव जायते ।
तन्मूलत्वात् स्मृतेश्चापि ताभ्यामेवापरस्य तु ॥ इति ।
तानि च यथा
शिरः कपालमात्राणि नखचर्मतिलांस्तथा ।
एतानि क्रमशो नित्यमष्टम्यादिषु वर्जयेत् ॥
एतद्वचनार्थे बृहस्पतिः
पक्षद्वयेपि चाष्टम्यां नालिकेरन्न भक्षयेत् ।
नवम्याञ्च त्यजेल्लाबुं धूम्रालाबुञ्च वर्तुलम् ॥
भोजने वर्जयेन्नित्यं पटोलं दशमी दिने ।
एकादश्यां च निष्पावं द्वादश्यां सर्षपं त्यजेत् ॥ त्रयोदश्यां निषेधेन भक्षयेन्न तिलान् द्विधा ।
इति । इतः परं विस्तरभयान्न लिख्यते ।
('''भुञ्जान''') इति निर्देशात् भुक्तेः पूर्वमेव ('''लवणान्ये''') गृहीतव्ये इति
दर्शयति । ('''नाददीत''') न गृह्णीयात् । ('''अन्नस्योर्ध्वं पानीयं न
पिबेत्''') इति । अनेन भोजनावसाने पिबेदिति निर्दिश्यते । तथा
श्रीमदाग्नेयपुराणे
किंचिदूनं ततो भुक्त्वा भोजनान्ते द्रवोदकम् ।
पिबेत् स लवणं तक्रमातृप्तेस्स्वस्तिमान् भवेत् ॥
इति । ('''व्यावृतवक्त्रः''') व्यावृतं विदारितं वक्त्रं येन सः तथोक्तः ।
('''अन्त्यजातिम्''') नटकैवर्तादिजातिम् । तथा
रजकश्चर्मकारश्च नटो वरट एव च ।
कैवर्तो मेदभिल्लौ च सप्तधा चान्त्यजास्स्मृताः ॥
इति । भोजनानन्तरकरणीयमाह ('''अन्ते''') इति ।
आत्मा वै दक्षिणे पादे परात् परतरो विभुः ।
तमहमभिषिंचामि योऽङ्गुष्ठाग्रे व्यवस्थितः ॥
इति वचनं मनसि निधाय पक्षान्तरमाह ('''यद्वा''') इति । ततः किं
कुर्यादित्याह ('''ततः''') इति । परिघामुद्रालक्षणमुक्तं
श्रीमदंशुमति
आरोप्य वामहस्तस्य कनिष्ठां नाभिमण्डले ।
तामेव दक्षहस्तस्य वामांगुष्ठेन योजयेत् ।
विततौ च करौ कृत्वा दक्षांगुष्ठे न्यसेन्मुखे ।
परिघेयं समाख्याता दुष्टाहारविनाशिनी ॥
इति । ('''आवर्त्य''') इति । नाभिस्पर्शनपूर्वं जप्त्वेत्यर्थः ।
ननु परान्नं किमश्नीयान्न वेत्याशंक्य प्रायश्चित्तजपपूर्वं
भुञ्जीतेत्याह ('''अन्य''') इति ॥
=== तपस्विनां समाधिविधिः ॥ ===
(क्रि) '''विरक्तस्तु अथ माद्ध्यन्दिनं यावत् समाधिस्थो भवेद्यथा ।'''
'''ज्ञानज्योतिर्मयं लिङ्गं शरच्चन्द्रवदुज्वलम् ॥
भ्रूमद्ध्ये संस्थितं तत्र मनः प्राणं च योजयेत् ।
तल्लीन्स्तन्मयो योगी चित्तं शून्यं नयेत्त्घनैः ॥
नष्टे चित्ते चिदानन्दं स्वयमुद्योतते परम् ।
समाधिः कथितो ह्येवमणिमादिगुणालयः
इति ॥'''
(प्र) अथ सान्तानिकभोजनविधिमुपवर्ण्य तपस्विनां
यावन्माध्याह्निकं तावत् किं करणीयमित्याकांक्षायामाह
('''अथ''') इत्यादिना ('''इति''') इत्यन्तेन । समाधिकरणप्रकारमाह ('''ज्ञान''') इति ।
श्लोकार्थः स्पष्टः ॥
=== भिक्षाटनविधिः ॥ ===
(क्रि) '''अनन्तरं माध्यन्दिनं कृत्वा, यथाविधि भिक्षाटयित्वा,
भुञ्जीत । भिक्षाभोजननियतः क्वचिदप्येकान्नन्न भुञ्जीत ।
प्रार्थनादिक्लिष्टान्निरोधाख्यान्नाददीत ।
सान्तानिकायाचितमाधूकरीभ्यो माधूकरी श्रेष्ठा । सापि
कणान्नभिक्षाख्या द्विविधा । तत्र कणभिक्षा तु पूर्वाह्न एव
कार्या । द्वितीया तु द्वितीयसवनावसाने ॥'''
'''अथ तद्विधिः ।
स्वयं भस्मना स्नातः तत्रपरिवर्तितकौपीनोत्तरीयस्समाचान्तो
न्यस्तमन्त्रदेहस्ताम्रादिजनितं ब्रह्मवृक्षांदिपत्रकृतपात्रं
वाऽस्त्र प्रक्षालितञ्चतुस्संस्कारसंस्कृतं अघोरेण
सप्तधाऽभिमन्त्रितं कवचेनाभिमन्त्रितं वस्त्रावकुण्ठितं
दक्षिणकरे गृहीत्वा, अस्त्रेण सप्तधाऽभिमन्त्रितमात्मसमं
दण्डं वामकरेण सच्छत्रं वा गृहीत्वा, सोपानत्कः शिवं
गुरुं ध्यात्वा, विज्ञाप्य, सन्निहितश्चेदाज्ञां समादाय, गृहीताविरुद्धमौनः पतितनापिताभीशस्तकारु
गर्हितब्रह्मदेवस्वोपजीविलीलावधूगृहवर्जं शुद्धगृहेषु
भिक्षामन्त्रं जपन्नरेत् । तत्र
प्रणामनिष्ठीवस्पर्शोन्मार्गसपर्णकुत्सनकोप विवादानि न
कुर्वीत । भिक्षार्थ गृहं प्रविश्य, भिक्षां देहीत्भुक्त्वा,
स्वपादांगुष्ठाग्रं पश्यन् सन् रावत्सगोप्रस्नवकालावधि
स्थित्वा, गृहान्तरं प्रविशेत् । व्रजन्नाहूतः पुनर्नागच्छेत् । तत्रैव
भिक्षां हरतकांस्याद्यडूषितामाहरेत् । भिक्षां चरतो
भिक्षान्नादतीत । एवं पर्याप्तां भिक्षामटित्वा, जगतः शुभं
स्मरन् मठं गत्वा'''
(प्र) अथ समाधिकरणात् परं किं कुर्यादित्याह ('''अनन्तरम्''')
इत्यादिना ('''भुञ्जीत''') इत्यन्तेन ।
अथ भिक्षाटनविधिं वक्ष्ये निवर्त्यं यतिभिर्यथा । तथा ते संप्रवक्ष्यामि शृणु विप्रेश्वरेश्वर ॥
कर्तव्यमखिलं कृत्वा प्रत्यवस्थे तु दिवाकरे
इति श्रीमन्मतंगश्रुतेः मध्याह्नेपि स्नानसन्ध्यापूजादि
कुर्यादित्याह ('''माध्यन्दिनम्''') इति । मध्यन्दिने भवं माध्यन्दिनम्
। ननु भिक्षाशी एकान्नं किमश्नीयादित्याशङ्क्यनेत्याह ('''भिक्षा''')
इति । ('''भिक्षाभोजन नियतः''') इति । भुज्यते भूतैरद्यत इति भोजनमन्नम्
। भिक्षान्न नियम इत्यर्थः । ('''क्वचिदपि''') कुत्राप्युक्तमकुल इत्यर्थः ।
तथा
माधूकरीञ्चरेद्धृतिमतिम्लेच्छकुलादपि ।
एकान्नं तु न भुंजीत बृहस्पति कुलादपि ॥
इति । अत्र कादापित्कमेकान्नभोजनमनुमतं न तु सदा ।
तदुक्तं श्रीमत्सोमशंभुचरणैः सदैकान्नं तु वर्जयेत् इति ।
ननु यदि परेण प्रार्थितं तर्हि किमेकस्मात् गृह्णीयादित्याशंक्य नेत्याह ('''प्रार्थना''') इति ।
('''प्रार्थनादिक्लिष्टाम्''') इति । अत्र स्वात्मना वा परेण वा प्रवृत्तं
बलमादिशब्दार्थः । तथा श्रीमत्पौष्करे स्वात्मना वा परेण वा
इति । ('''विरोधाख्याम्''') निग्रहाभिधानाम् । निग्रहस्तु निरोधस्स्यात्
इत्यमरः । निरोधभिक्षा अध मेत्याकूतमत्र । तदुक्तं
श्रीमत्सोमशंभुचरणैः
एताभ्यस्त्वपरांभिक्षां प्रार्थनाद्युपरोधतः ।
साध्यां भिक्षां निरोधाख्यामधमां परिवर्जयेत् ॥
इति । सान्तानिकादि भिक्षासु का मुख्यभिक्षेति जिज्ञासायामाह
('''सान्तानिक''') इति । ('''सन्तानिक्रायाचितमाधुकरीभ्यः''') सान्तानिका च
शिष्यादिसन्तानभवभिक्षा । तथा
श्रीमद्ब्रह्मशंभुपद्धत्यां
शिष्यादिसन्तेतिश्शैवे सन्तानं तन्निवेदितम् ।
द्रव्यं यद्मुखे सा हि भिक्षा सान्तानिकी स्मृता ॥
इति । अयाचिता च अप्रार्थितभिक्षा । एतल्लक्षणमुक्तं श्रीमत्सोमशंभुचरणैः
आनीयायावमानाय श्रद्धया यत् प्रदीयते ।
अन्नादिभूमिपर्यन्तं सा भिक्षा स्यादयाचिता ॥
इति । अयाचितपदेनात्र श्रीमत्पौष्कराद्युक्ता स्वयं दत्ताख्या
भिक्षा चोपलक्षिता । तथोक्तं श्रीमत्पौष्करे
भैक्षं चतुर्विधं प्रोक्तं साधूनां हि महात्मनाम् ।
माधूकरं स्वयं दत्तं सान्तानिकमयान्वितम् ॥
इति । माधूकरी च एतल्लक्षणमुक्तं तत्रैव गृहाद्गृहे पर्यप्तो
भैक्षं माधूकरं स्मृतम् इति । सान्तानिकायातितमाधूकर्यः
ताभ्यः । तत्र माधूकरी भिक्षां विभजति ('''सापि''') इति । केन
प्रकारेण द्वैविध्यमित्याह ('''कणान्नभिक्षाख्या''') इति ।
कणशब्देनात्र तण्डुलान्युच्यन्ते । तद्भिक्षाकालमाह ('''तत्र''') इति ।
('''तत्र''') तयोः । ('''पूर्वाह एव''') इति ।एतल्लक्षणमुक्तं श्रीमत्सूक्ष्मे
आतपोदयमारभ्य आभूतद्वयंनाडिका ।
पूर्वाह्न इति विज्ञेयः इति । ('''द्वितीया''') अन्नभिक्षेत्यर्थः ।
सा कदा ग्राह्येत्याकांक्षायामाह ('''द्वितीय''') इति ।
('''द्वितीयसवनावसाने''') द्वितीयसवनं माध्याह्निकस्नानादि तस्य
अवसानं समापनं तस्मिन् । तथा श्रीमृगेन्द्रे
माधूकरीञ्चरेद्भिक्षां दिनेऽर्द्धे सवने गते इति ॥
अथ यथाविधि भिक्षामटित्वा भुञ्जितेत्युक्तं तत् कथमिति
बुभुत्सायां तद्विधिं ब्रूते ('''अथ''') इत्यादिना ('''गत्वा''') इत्यन्तेन ।
('''तद्विधिः''') तस्याः माधूकर्याः विधिः । उच्यत इति शेषः । तत्र तावत्
भिक्षुः किं लक्षणो भिक्षामभ्याददी तेत्याकांक्षायामाह
('''स्वयं भस्मना स्नातः''') इत्यादि । (परिवर्तितकौपीनोत्तरीयः)
परिवर्तिते विनिमयिते कौपीनोत्तरीये येन स तथोक्तः । पुरा विधृतं कौपीनं उत्तरीयञ्च विसृज्य
धारितकौपीनोत्तरीयान्तर इत्यर्थः । तदुक्तं
श्रीमत्सोमशंभुचरणैः विशुद्धभस्मना स्नातः
कौपीनञ्चोत्तरीयकम् । परिवर्त्य समाचम्य इति । ('''समाचान्तः''')
सम्यक् कृताचमन इत्यर्थः । कस्मिन् पात्रे भिक्षामाददीतेत्याह
('''ताम्र''') इति । ('''ताम्रादि हानितम्''') इति । अत्र लोहादिरादिशब्दार्थः ।
('''ब्रह्मवृक्षादिपत्रकृतपात्रम्''')
पलाशरसालप्रभृतिपर्णविरचितभाजनम् । तथा श्रीमत्कालोत्तरे
पलाशमधुपत्रैश्च कदंबाम्रादिपत्रकैः ।
वर्जयेच्च वटाश्वत्थ पिशाचाक्षादिकेसरम् ॥
इति । पात्रलक्षणमुक्तं श्रीमत्किरणे
भिक्षापात्रं तदावश्यं ताम्रं लोहमथापि वा ।
तदष्टाङ्गुलकोच्छ्रायं द्वादशांगुलविस्तृतम् ।
इति । ('''आत्म समम्''') स्वप्रमाणम् । तथा किरणे
हृदा प्रक्षाल्य तोयेन दण्डं गृह्यात्मसंमितम् इति ।
('''सोपानत्कः''') उपानहा पादुकया सह वर्तत इति । पादूरुपानत्
इत्यमरः । ननु माधूकरीञ्चरेद्धृत्तिमतिम्लेच्छकुलादपि इति
श्रुतेः माधूकरी भिक्षायै सर्वेषां भवनं किं
मायादित्याशंक्य नेत्याह ('''पतित''') इति । ('''पतितनापिताभिशस्तकारुगर्हितब्रह्मदेवस्वोपजीविलीलावधूगृहवर्जम्''') पतितश्च
स्वाश्रंमाचारात् परिभ्रष्टः । तथा श्रीमद्बृहन्नारदीये
भ्रष्टो यस्स्वाश्रमाचारात् पतितस्सोऽभिधीयते इति । नापितश्च
प्रसिद्धः । अभिशस्तश्च ग्रामणीकः । एवं निर्णीतं
श्रीमत्सर्वज्ञानोत्तर वृत्तिकारेण । कारुश्च शिल्पी । गर्हितश्च
निन्दितः । ब्रह्मदेवस्वोपजीवी च ब्राह्मण देवता द्रव्योपभोक्ता । लीलावधूश्च
परिहासक्रीडालापप्रणयकुशलवनिता । तथा श्रीमन्मृगेन्द्रे
परिहासादि चतुरा यत्र नार्यस्तथोपि च । भिक्षाचारान्न गृह्णीयात् इति
। पतितनापिताभिशस्त कारुगर्हितब्रह्मदेवस्थोपजीविलीलावध्वः
तासां गृहाणि तैर्वर्जं यथा तथा । पुनः केषु गृहेषु
भिक्षाटेदित्याह ('''शुद्धगृहेषु''') इति । शुद्धाः सदाचारवन्तो
विप्रादयश्चत्वारो वर्णाः तेषां गृहाणि तेषु । तथा
श्रीमत्सोमशंभुपद्धतौ
ब्रह्मक्षत्रविशां भिक्षामभिशस्तादिवर्जिताम् ।
अमद्यपास्तु ये शूद्राः शौचाचार समन्विताः ॥
तेषामेव परेद्भिक्षां नान्येषां तु कदाचन ।
इति । ('''अटेत्''') चरेत् । भिक्षाटनसमये किं न करणीयमित्याह (तत्र) इति । ('''तत्र''')
भिक्षाटने ।('''प्रणामनिष्ठीवस्पर्शोन्मार्गसपर्णकुत्सनकोपविवादानि''')
प्रणामश्च नमस्कारः निष्ठीवश्च आस्य जलोद्गिरणं स्पर्शश्च
यस्य कस्यापि स्पर्शनं उन्मार्गसपर्णं च अपथगमनं
कुत्सनं च निन्दा कोपश्चक्रोधः । भिक्षामलब्ध्वा तदर्थं वा
विधृतस्सन्नकुप्येत् । न च मार्गेषु ये प्रधावन्तो जनास्तेष्वन्येषु
वा अप्रियवादिषु कोपं कुर्यादित्यवधेयम् । तथा श्रीमन्मृगेन्द्रे
भिक्षामलब्ध्वानो कोपं कुर्यान्नो विधृतश्चिरम् इति ।
विवादश्च व्यवहारः विवादो व्यवहारस्स्यात् इत्यमरः । तानि
सामान्ये नपुंसकलिङ्गनिर्देशः । ('''न कुर्वीत''') न कुर्यात् ।
गृहेषु किं विधः कियत्कालं वा तिष्ठेदित्याह ('''भिक्षार्थम्''') इति । ('''सतत्सगोप्रस्नवकालावधि''') अत्र
धेनुर्वत्सयोगेन यावत्कालं प्रस्ननवं समवाप्नोति तावत्कालं
प्रतीक्षेत इति तात्पर्यार्थः । तथा समभिहितं
श्रीमत्सोमशंभुचरणैः
तावत्कालं प्रतीक्षेत यावद्गौर्वत्सयोगतः ।
प्रस्नवं समवाप्नोति ततोऽन्यत्र व्रजेन्मुनिः ॥
इति । ('''हस्तकांस्यादि''') इति । आदिपदेन दर्वी निगद्यते । तथा तैरेव न
दर्व्या न च हस्तेन न कांस्येनाददीत ताम् इति । ('''पर्याप्तम्''')
तृप्तिपर्यन्तम् । तथा श्रीमच्चिन्त्यविश्वसादाख्ये भिक्षित्वा
पात्रपूर्णान्तमथवा तृप्तिमात्रकम् इति । कामं प्रकामं
पर्याप्तम् इत्यमरः ॥
=== भिक्षाटनानन्तर करणीयविधिः ॥ ===
(क्रि) '''निर्माल्यादिभिरुपहितां गच्छेत् भिक्षापात्रसहितं
स्नायात् । भिक्षापात्रं शुद्धस्थाने धृत्वा, आचम्योद्धूल्य,
सकलीकृत्य, भिक्षामस्त्रेण प्रोक्ष्य, त्र्यक्षरेणामृतीकृत्य, मनसा
त्र्यंशन्निरूप्य, देवाय च मुखे च निवेद्य, स्वरक्षार्थं
पूर्वोक्तवत् भुञ्जीत ॥
एककालार्चकस्तु पूर्ववत् समाधि कृत्वा, कन्दादुत्थाप्य तन्नादं ब्रह्मरन्ध्रमुदीर्य च ।
सुप्रभोद्योतिताशेष दिगन्तान्तानलद्युतिः ॥
तत्रैव पश्यते सर्वं मन्त्रजालं महाद्युतिः ।
अनेनाधिष्ठिता मन्त्राश्शान्तरौद्रादिभेदजाः ॥
सिद्ध्यन्तीति किमाश्चर्यन्तद्भावगतचेतसः ।
तत्र चित्तं समाधाय यावदास्ते मुहूर्तकम् ॥
तावदस्य भवेत् कंपस्तदाऽनुभव एव सः ।तस्मिन् व्योम्नि शिखान्तस्थो निष्कलः परमश्शिवः ॥
ध्यानगम्यस्स्वयं भूत्वा, चिन्तामणिरिव स्थितः ।
एवं सन्ध्यासु सर्वत्र पूजनं स्याच्छिवप्रियम् ॥
इत्युक्तवत् सर्वदोपास्य च ]'''
(प्र) अथ भिक्षाटनविधिमुपवर्ण्य तदनन्तरकरणीयमाह
('''निर्माल्य''') इत्यादिना ('''भुञ्जीत''') इत्यन्तेन । ('''उपहिताङ्गः''')
रूषितविग्रहः । ('''धृत्वा''') इति । निधायेत्यर्थः । ('''त्र्यक्षरेण''')
मृत्युञ्जयमन्त्रेण । तदुक्तं
कार्यं त्र्यक्षरेणाभिमन्त्रितम् ।
तदाऽमृतं भवत्याशु तत् खातमृत्युकं भवेत् ॥
इति । अत्र भुक्तेरनन्तरं यावदस्तमयं स्वाध्यायादिकं कुर्यादिति
तात्पर्यम् । तदुक्तं श्रीमत्सोमशंभुचरणैः अथ
स्वाध्याययोगेन सन्ध्यामासाद्य पश्चिमाम् इति ॥
=== सायन्तनविधिः ॥ ===
(क्रि) '''पश्चात् सायाह्नसमयेपि सन्ध्यामुपास्य, यथाशक्ति
पूजाजपध्यानसमाधीन् कृत्वा'''
(प्र) अह सायन्तनविधिः । ('''पश्चात्''') इत्यादि ('''कृत्वा''') इत्यन्तम् ॥
=== शयनविधिः ॥ ===
(क्रि) '''स्वापकाले शय्यामधिरुह्य, शिवमक्षरात्मानं
ध्यात्वा, सुप्यात्'''
[] एतच्चिह्नितः मूलपाठः केषुचित् कोशेषु न दृश्यते ।
व्याख्यापि नास्योपलभ्यते ॥
(प्र) अथ शयनविधिः । ('''स्वापकाले''') इत्यादि ('''सुप्यात्''') इत्यन्तम् ।
स्वापकाललक्षणमुक्तं श्रीमच्चिन्त्यविश्वसादाख्ये
पूर्वपश्चिमयोर्मध्ये रात्रौ तु दशनाडिका ।
स्वापकाल इति प्रोक्तम् इति । ('''शय्याम्''') इति । अस्य लक्षणमुपवर्णितं
श्रीमत्किरणे
स्वपेत् पूर्वाशिराश्शय्यामथवा दक्षिणाशिराः ।
सा चतुष्करदीर्घा स्याद्विस्तारस्स्यात् तदर्द्धतः ॥
तत्समं चोपधानं स्याद्द्वादशांकुलविस्तृतम् ।
तस्यां स्वपेद्गृहस्थो यः इति । किं कृत्वा सुप्यादित्याह ('''शिवम्''') इति ।
('''अक्षरामानम्''') अक्षरः स्वाभिकौपाधिकक्षयादिदोषरहितः आत्मा
स्वरूपं यस्य स तथोक्तः तं निष्कलमिति यावत् । यद्वा
अक्षरात्मानं नादात्मानम् । तथा श्रीमन्निश्वासकारिकायां
अक्षरात् क्षरितं नित्यं वर्णाद्यं नैव तत् क्षरम् इति ।
स्वयमुच्चरते देहे अव्यक्तध्वनिरक्षरम् ।
ममात्मीयंमिदं सूक्ष्म शरीरं नादसंशितम् ॥
पंशोः पाशापनोदाय प्रकाशीकृतमद्भुतम् ।
इति च ।
भोगावस्थं सदाशिव संज्ञं सकलनिष्कलं शिवमिति
यावत् । तदुक्तं अधिकारी च भोती च लयी स्यादुपचारतः इति ।
तथा ईशस्सदाशिवश्शान्तः कृत्यभेदेन भिद्यते इति ।
यद्वा
अक्षरात्मानं अक्षरविशिष्टं पञ्चवक्त्राद्याकारं आत्मानि
गृह्णाति यः तं अधिकारावस्थ सदाशिवतत्वाधिष्ठातृत्वात्
सदाशिवापरपर्यायं ईश्वरसंज्ञं सकलरूपमिति यावत् ।
तदुक्तं ईशशब्देन भगवान् कीर्तितव्यस्सदाशिवः इति ।एवदवस्थात्रयमुक्तसन्ध्याध्यानवदधिकारिभेदेन
कर्तव्यत्वादुपपन्नमिति गुरवः । अत्र अक्षरमात्मानमिति
व्यस्तपदं न विदधीत । तदुक्तं श्रीमत्सोमशंभुचरणैः
चिन्तयन्नक्षरात्मानं शयित्वा योगनिद्रया इति । ('''सुप्यात्''') स्वापं
कुर्यात् ॥
=== अर्धरात्रविधिः ॥ ===
(क्रि) '''निशीथेप्युत्थाय, तुर्यां सन्ध्यां स्मृत्वा, कृतसमाधिः
पुनः सुप्यात् । प्रातरुत्थाय, शिवं संस्मृत्य, यथोक्तं कर्म कुर्यादिति
शुभम् ॥एवं यः प्रत्यहं भक्त्या संपूजयति कारणम् ।
न तस्य जायते पापं यथादित्योदयात्तमः ॥
न चाप्युपैति देहान्ते कर्माशयवशञ्जगत् ।
सामान्यं यजनं ह्येतन्नित्यमभ्युदयावहम् ॥
शुभ्रखण्डेन पयसा लिङ्गं स्नाप्य दिने दिने ।
पायसञ्च हविर्दद्यादगरुं चन्दनं लिपेत् ॥
व्योमव्यापिपदेनैव य इत्थं पूजयेच्छिवम् ।
उत्पातास्तस्य नश्यन्ति ग्रहपीडाश्च दारुणाः ॥
सर्वव्याधिविनिर्मुक्तश्शिवसायुज्यमेधते ।
श्रीमतंगादि शास्त्रेषु विद्यापादार्थसंग्रहम् ॥
सर्वविद्येशिनी नाम्ना निर्ममे यस्तदुक्तिभिः ।
पवित्रस्य स्वरूपञ्च निर्ममे यश्शिवोक्तिभिः ॥तेन ख्यातेन गुरुणा परमेश्वर संज्ञया ।
क्रियाक्रमद्योतिकायां नित्यकर्म विधिःकृतः ॥'''
'''इति परमेश्वरापर नामंधेय श्रीमदघोरशिवाचार्य
विरचितायां क्रियाक्रमद्योतिकायां नित्यकर्मविधिस्समाप्तः ॥'''
(प्र) अथ अर्द्धरात्रविधिः ('''निशीथे''') इत्यादि ('''समाधिः''') इत्यन्तम् ।
ननु दिवोपनीत तोयाद्यैरर्द्धरात्रे तु पूर्ववत् ।
सन्ध्यां शिवार्चनं कुर्यात् इति श्रुतेरर्द्धरात्रेपि
सन्ध्यावन्दनादिकरणस्य विहितत्वात् कथमन्त्र
सन्ध्यास्मरणविधिरिति चेत् । सत्यं
अर्द्धरात्रे तु संप्राप्ते कुर्यात् सायन्तनं विधिम् ।
आचम्योद्धूल्य वा ध्यायन् स्वपेत् पूर्ववदीश्वरम् ॥
इति ब्रह्मशंभुपद्धतिकारिकोत्तरार्द्धप्रदर्शितार्थं हृदि
निधाय तुर्यां सन्ध्यां स्मृत्वेत्युक्तमत्रेत्यविरोधः ।
तदनन्तर करणीयमाह ('''पुनः सुप्त्वा''') इति पदद्वयेन ।
अथ यथोद्दिष्टं क्रियाकाण्डं सर्वं प्रत्यहमाचरेदित्याहं
('''प्रातः''') इत्यादिना ('''इति शुभम्''') इत्यन्तेन ॥
अथ व्याख्यातस्य उपसंहारं व्याख्येयस्योपक्षेपं चाह
('''श्रीमतंग''') इत्यादि सार्द्धकारिकाद्वयेन । ('''पवित्रस्य स्वरूपञ्च''')
इति । अनेन व्याख्येयस्योपक्षेपः कृतः । ('''परमेश्वरसंज्ञया''') इति ।
अत्र परमेश्वर इति अघोरशिवाचार्यस्य
नामधेयान्तरमित्यवगन्तव्यम् । यद्वक्ष्यति ख्यातो यः
परमेश्वरापरमहानाम्ना महीमण्डले इति । शेषं सुगमम् ॥
गुरुणा निर्मलमणिना व्याख्यातो नित्यकर्मविधिरेषः ।
शिवदर्शनोदितार्थैः क्रियाक्रमद्योतिकाविहितः ॥
इति श्रीमत्कमलालयनिवासि भक्ताध्यक्ष
सन्तानप्रभवत्यागराजाचार्यात्मजनिर्मलमणिगुरुविरचितायाम-
स्फुटार्थ प्रकाशिकायां प्रभासमाख्यायां
क्रियाक्रमद्योतिकाव्याख्यायां नित्यकर्मविधिस्समाप्तः ॥
शिवमस्तु ॥
== पवित्रविधिः ॥ ==
=== पवित्रकर्मोपकरण समाहरणविधिः ॥ ===
(क्रि) '''अथ पवित्रविधिः । उक्तकाले उक्तवत् पवित्राणि निष्पाद्य, यागद्रव्याण्यपि मृण्मयानि नवानि ताम्रादि मयानि वा पात्राणि सुविशुद्धानि विधाय, समित्कुशकुसुमदूर्वादीनि समाहृत्य ॥'''
(प्र) नत्वाऽघोर शिवाख्य देशिकमणिं सद्विप्रवंशाब्धिजं सन्धार्यं हृदये सदा सुकृतिभिः कीर्तिद्युतिद्योतितम् ।
एकाब्दोद्भवकर्मलोपभिदुरं नित्यक्रियापूरकं व्याख्यास्ये
परमं पवित्रकविधिं लेशाद्यथादर्शनम् ॥
अथ एवमनुदिनमनुष्ठेयं नित्यकर्मविधिक्रममभिधाय
अधुना प्रत्यब्दमनुष्ठेयस्य नित्याङ्ग भूतस्य
पवित्रारोहणकर्मणोऽपि क्रममभिधातुं प्रतिजानीते (अथ
पवित्रविधिः) इति । (अथ नित्यकर्मकथनानन्तरम् । अत्र उच्यत इति शेषः
॥
ननु पवित्रस्य नित्यनैमित्तिककाम्यप्रायश्चित्ताख्येषु कर्मसु
कथमस्मिन्नन्तर्भावः । अत्रोच्यते इदं पवित्रकर्म नित्याङ्गम् ।
न तावन्नित्यम् । तथा हि, सूत्रारोपणस्य प्रत्यब्दमनुष्ठेयत्वेपि
प्रत्यहमननुष्ठेयत्वात् दैवसिकान्नित्याद्वैलक्षण्यस्य सत्वात् न
नित्यम् । नापि नैमित्तिकं दीक्षाप्रतिष्ठयोर्द्वयोरेव नैमित्तिकत्वनियमात् ।
तदुक्तं दीक्षा चैव प्रतिष्ठा च नैमित्तिकमिति द्विधा इति ।
दीक्षाप्रतिष्ठयोर्नैमित्तिकयोरकरणप्रायश्चित्तस्य
क्वचिदम्यवृष्टत्वाच्च । ननु नियतकालत्वान्नैमित्तिकमिति चेन्न ।
अनियतकालस्य दीक्षादेरपि नैमित्तिकत्व
श्रवणादुक्तलक्षणस्याव्याप्तेः । प्रातरादिनियतकाल
कर्तव्यानां सन्ध्यावन्दनादीनामपि
नैमित्तिकत्वप्रसङ्गादतिव्याप्तेश्च । न च काम्यम् । पवित्रस्य
कामनानधीनत्वात् । तत्तु अभिलक्षितं बाधकम् । तदुक्तं अणिमादि
प्रसिद्ध्यर्थं काम्यन्तदपि विस्तरम् इति । नापि प्रायश्चित्तम् । तद्धि
विहितेतर चरणरूपस्य कर्मणोडनंकुरप्रसवतामात्र जनकम् । न तु तत्पूर्वकम् । इदन्तु तदुभयजनकम् । तदुक्तं
वार्षिकान्मुच्यते कृत्यविप्लवात् पूरणं विधेः इति । ततः पवित्रं
नित्यांगमेव ।
तथा समाख्यातं श्रीमत्कालोत्तरे
ततो नित्यांगमेवाहुः पवित्रारोपणन्तु यत् इति । तत्तु द्विविधं
दैवसिकं वार्षिकं चेति । दैवसिकापेक्षया वार्षिकं
प्रधानञ्चेति सिद्धम् । एवं प्रपञ्चितं
श्रीमत्सोमशंभुपद्धतिटीकादौ तत एवावधार्यम् ॥
अत्र देशिकादयश्चत्वारोऽधिकारिणः । तत् समुदीरितं
श्रीमत्कामिके
दुरितस्य विनाशार्थं संवत्सरकृतस्य तु ।
प्रायश्चित्तमकुर्वाणो मन्त्रीविधिविलंघनात् ॥
सिद्धिभ्रंशमवाप्नोति देशिको दोषभाऽभवेत् ।
पुत्रको मुक्तिभाङ्ग स्याज्जन्मनैकेन रोधनात् ।
समयी समयस्थोपि नैवं यस्मात् पवित्रकम् । विधातव्यं प्रयत्नेन येन केन प्रकारतः ॥
इति । तथा च नैतत् कार्यन्न केनचित् इति । अलमतिविस्तरेण ॥
अथ पवित्रकर्मकरणाय तदुपकरणानि समाहर्तव्यानीति
प्रथमं सञ्चष्टे (उक्तकाले) इत्यादिना (समाहृत्य) इत्यन्तेन ।
कस्मिन् काले पवित्राणि समारोपयेदित्याह (उक्तकाले) इति ।
अत्रैतदुक्तं भवति । आषाढश्रवणभाद्रपदानामन्यतममासे
सितासितपक्षयोरेकस्मिन् अष्टम्यां चतुर्दश्यां वा मुमुक्षुः
पवित्रारोपणं कुर्यात् । बुभुक्षुस्तु मासत्रयेषु शुक्लपक्ष एव
कुर्यात् । इति । तथ श्रीमत्कामिके
आषाढादित्रयो मासा ज्येष्ठमध्यमकन्यसाः ।
अश्विनी कृत्तिकामासाव?थवा संप्रकीर्तितौ ॥
पूर्वपक्षे चतुर्दश्यामथाष्टम्यां पवित्रकम् ।
इति । शुक्लपक्षे गृहस्थस्य यतेरुभयपक्षयोः इति च ।
आषाढस्तावदत्र सौरवृशा उत्तरायणान्तिममासो मिथुनराशिः
इति श्रीमता सोमशंभुपद्धतिटिकाकारेण समुदीरितस्तत
एवावधार्यः विस्तरभयान्नेह प्रतन्यते ।
गुरुशुक्रमूढसंयुक्तमासं त्यक्त्वा शुद्धमासे
पवित्रारोहणं कुर्यात् । यदा
मूढगुरुशुक्रयोर्मासत्रयेऽप्युदयो न स्यात् तदा पवित्रस्य
नित्यांगत्वात् कर्तव्यमेव । तथा श्रीमत्सिद्धान्तशेखरे
कवौ गुरौ वाऽस्तमयं प्रयाते मासत्रयेवाप्युदयो न चास्ति ।
तथापि कुर्वीत पवित्रकार्यं नैमित्तिकत्वात् इति । (उक्तवत् पवित्राणि
निष्पाद्य) इति । अत्र अष्टोत्तरशतादिसंख्यैर्दुकूलादिसूत्रैस्तुल्यदश
ग्रन्थियुतानि समान्तरालानि लिङ्गमस्तकमानानि चतुरङ्गुलाद्यायतानि वा
तत्वपवित्रसंज्ञानि कंकणाकाराणि पवित्राणि अष्टादशग्रन्थि
समलंकृतं गंगावतारकन्नामकंकणाकारमेकं पवित्रं
च कुर्यात् । तथा श्रीमन्मृगेन्द्रे
दुकूलं पट्टसूत्रं वा क्षौमं कार्पासमेव वा ।
सूत्रं नवगुणं कृत्वा सद्येन नवतन्तुकम् ॥
शुद्धोदकेन प्रक्षाल्य तथा चन्दनवारिणा ।
शोषयेद्बहुरूपेण कुर्यात् कन्तुकवद्धृदा ॥
इति । तथा श्रीमच्चिन्त्यविश्वसादाख्ये
अष्टोत्तरशतेनैकं सूत्राणां स्यात् पवित्रकम् ।
इत्थं त्रीणि तदर्द्धेन दशधैवाथ सप्तभिः ॥
इति । तथा श्रीमन्मकुटे
सूत्रैर्विंवर्द्धयेद्विद्वान् नवधा तु पवित्रकम् ।
अधमं त्रयमित्युक्तं नवषोडशविंशकम् ॥ पञ्चविंशतिर्द्वात्रिंशत् षट्त्रिंशन्मध्यमत्रयम् ।
पञ्चाशत् सप्ततिश्चैव नवतिश्चोत्तमत्रयम् ॥
एतेष्वेकं यथाशक्ति संग्रहेत्तु महेश्वरि ।
पूर्वत्रयं चले कार्यमर्काष्टाब्ध्यंगुलायतम् ॥
कृत्वा कंकणवत्तत्र दशग्रन्थीन् समान्तरान् ।
गंगावतारकन्नाम चतुर्थं शक्तिसूत्रकम् ॥
बाहुमानञ्चले कार्यं यद्वा कुर्याद्यथाशुभम् ।
द्व्यंगुलान्तरितं तत्र कृत्वा ग्र?न्थिचतुष्टयम् ॥
ततस्तालान्तरन्त्यक्त्वा कुर्याद्ग्रन्थिचतुष्टयम् ।
इत्थं पार्श्वद्वये कार्यं षोडशैव कलामयम् ॥
शिवशक्तिमयं प्रान्ते कुर्याद्ग्रन्थिद्वयं पुनः ।
इति । तथा च श्रीमत्सूक्ष्मे
अष्टादशग्रन्थियुक्तं कुर्याद्गंगावतारकम् इति ।
द्वारद्वारपालादीनामष्टसूत्रैरेकग्रन्थिपरिशोभितं
गन्धपवित्रं विदध्यात् । तथा श्रीमज्ज्ञानरत्नावल्यां
ग्रहलोकेशलक्ष्मीणां सर्वेष्वावरणेषु च । द्वारपालेषु कर्तव्यं वसुतं तु युगांगुलम् ॥
गुर्वात्मनोः प्रकर्तव्यं पवित्रं नवतन्तुकम् ।
ग्रन्थ्यैकं नवसूत्राढ्यं द्वादशाङ्गुलमायतम् ।
कुर्याद्गन्धपवित्रन्तद्यद्वा मानविवर्जितम् । इति ।
=== मण्टपपूजापूर्वकरणीयविधिः ॥ ===
(क्रि) '''सप्तम्यां त्रयोदश्यां वा नित्यांह्निकद्वयं विधाय, सायाह्ने याग गृहं पुष्पदामभिरलंकृत्य [-क्षमाभिः] , नैमित्तिकीं सन्ध्यां विशेषतर्पणञ्च विधाय [कृत्वा], परीक्ष्य [परीक्षं] परिगृहीतायां भुवि [भुवि नित्यो] शक्रानलदिशोर्मध्ये नित्योक्तवत् सूर्यमभ्यर्च्याविसृज्यैव [भ्यर्च्य वि] ॥'''
(प्र) अथ पवित्राधिवासार्थं मण्टपपूजामभिधातुं
तत्पूर्वकरणीयान्याह (सप्तम्याम्) इत्यादिना (अविसृज्यैव) इत्यन्तेन । (सप्तम्यां त्रयोदश्यां वा ) इति । अत्र यद्यष्टम्यां
पवित्रारोहणं क्रियते तदा सप्तम्यामधिवासं कुर्यात् । यदि
चतुर्दश्यां तर्हि त्रयोदश्यामधिवासमिति तात्पर्यम् । यदा
त्वेकदिने साधिवासं पवित्रसमर्पणं कर्तव्यं तदा तत्र
संपूर्णा चतुर्दशी ग्राह्या । उक्तञ्ज
यदैकस्मिन् दिने कार्यं सर्वं पूर्णतिथिर्यदि ।
तदा त्वेकदिने शंभोः पवित्राद्यं चिकीर्षितम् ॥
इति । यदा चतुर्दशी दिवाद्वयगता तिथिर्भवति तदा
परघस्र?युक्तचतुर्दश्यां पवित्रसमर्पणं कर्तव्यम् ।
तथा श्रीसिद्धान्तशेखरे पवित्रकार्ये परघस्रयुक्ता चतुर्दशी
स्याच्छुभदाऽष्टमी च इति । तथाऽन्यत्रापि
यदा खण्डतिथिस्तत्र तदा तत्तिथिभागयोः ।
गन्धसूत्रं पवित्रञ्च दद्यात् इति ।
प्. ३९९)
विष्णुस्वापानन्तरकाले पवित्रस्य क्रियमाणत्वात्
मिथुनगतशुद्धाष्टमीं विना तच्चतुर्दश्यामारंभः
कर्तव्यः । उक्तञ्च
शुद्धाष्टमीं विना द्वन्द्वे कुलीरे सिंहभाद्रयोः ।
सितासितासु कर्तव्यं चतुर्दश्यष्टमीषु च ॥
इति । (नैमित्तिकीम्) पवित्रारोहणनिमित्तेन कर्तव्य?म् ।
तथा श्रीमज्ज्ञानरत्नावल्यां
पवित्रारोहणे कार्या या सन्ध्या तन्निमित्ततः ।
तेन नैमित्तिकी प्रोक्ता नैमित्तिकनिमित्ततः ॥
इति ॥ नित्यां सन्ध्यां निधाय पश्चान्नैमित्तिकीं
सन्ध्यामाचरेदित्यर्थः । काले हि कर्म चोद्यते न कर्मणि कालः इति
न्यायेन सायन्तनकाल एव नित्यसन्ध्यासमनन्तरं
पवित्राधिवासनार्थं पुनरपि सन्ध्यावन्दनं कार्यम् ।
एतद्विधिसामर्थ्यादेव तर्पणस्यापि सिद्धौपुनर्विशेष ग्रहणं
प्. ४००)
श्रीमन्मृगेन्द्राद्युक्त विस्तरतर्पणद्योतनाय ।
यथा
तैश्च पुनराचम्य पाण्यग्रेण गुणोत्तमम् ।
ब्रह्मादिपञ्चकं सर्वान् विद्याविद्येश्वरानपि ॥
तत्वान्यधिपतीन् सर्वान् ध्यायन् कालान्तमण्डले ।
चतुर्थ्यन्ताभिधानेन स्वाहाप्रान्तेन तर्पयेत् ॥
ततो यज्ञोपवीतेन मुनीन् कण्ठावलंविना ।
सनकादीन् सभृग्वादीन् सगोत्रप्रवराधिपान् ॥
कनिष्ठांगुलिमार्गेण भूतादीन् पर्वसन्धिभिः ।
तथाऽपसव्येन पितॄन् सपत्नीकान् पितामहान् ॥
प्रपूर्वांश्च गुरूनेवं चोदकान् बोधकान् परान् ।
भ्रातॄन् सखीनुपाध्यायान् समातामहमातुलान् ।
स्वधान्तेनाभिधानेन नतिप्रान्तेन मध्यमान् ।
इति । एवं समाख्यातं श्रीमत्सोमशंभुपद्धतिव्याख्याकारेण
। (परीक्ष्य) इति । भूशोधनं शल्योद्धारादिना विधायेत्यर्थः ॥
प्. ४०१)
=== द्वारद्वारपालाद्यर्चनक्रमः ॥ ===
(क्रि) समाचम्य, सकलीकृत्य, प्रणवसहितसामान्यार्घ्यहस्तो [-
तप्रणवार्ध्यं] द्वाराण्यस्त्रेण संप्रोक्ष्य, ओम् ह्यैं [हां]
शान्तिकलाद्वाराय नमः इति पूर्वे, ओम् ह्रूं [हां]
विद्याकलाद्वाराय नमः इति दक्षिणे ओम् ह्लां [हां]
निवृत्तिकलाद्वाराय नमः इति पश्चिमे, ओम् ह्नीं [हां]
प्रतिष्ठाकलाद्वाराय नमः इत्युत्तरे संपूज्य, तथैव
तच्छाखयोः [-योः ओ हां नन्दिने] स्वदक्षिणवामस्थयोः
पूर्वादारभ्य ओम् हां नन्दिने नमः ओं हां महाकालाय
नमः ओं हां भृंगिणे नमः ओं हां विनायकाय नमः ओं
हां वृषभाय नमः ओं हां स्कन्दाय नमः ओं हां देव्यै
नमः ओं हां चण्डाय नमः इति प्रतिद्वारं द्वौ द्वौ [द्वौ
वक्ष्यमाण ध्यानपुरस्सरं संपूज्य] पार्श्वकलशयोः
स्वदक्षिणवामक्रमेण च द्वारपालान् संपूज्य, पश्चिमे नित्यवत् द्वारपालानभ्यर्च्य[संपूज्य],
विघ्नानुत्सार्य, द्वाराण्यन्यान्यस्त्रेण [-ण्यस्त्रेण] संघट्य,
पश्चिमद्वारेणान्तः प्रविश्य, अस्त्रमुदुंबरे [-स्त्रोर्दुथरे]
राक्षायै विन्यस्य, प्रदक्षिणं [प्रादक्षिण्येन] गत्वा [-त्क- - नैर्-
ऋते ओं] ओं हां वास्त्वधिपतये [वासत्वाधि-] ब्रह्मणे नमः इति
नैर्-ऋते पुष्पं दत्वा [संपूज्य]
अस्त्रप्राकारकवचावकुण्ठनाभ्यां यागगृहं [-ग्रहं]
संरक्ष्य, मण्डलाद्दक्षिणतः कृष्णाजिनादौ सौम्यास्य उपविश्य
॥ (७९)
(प्र) अथ तद्द्वारतत्पालाद्यर्चनक्रमं ब्रूते ('''आचम्य''') इत्यादिना ('''उपविश्य''') इत्यन्तेन ॥
=== शिवहस्तकरणपूर्वकर्तव्यविधिः ॥ ===
(क्रि) (८) भूतशुद्धिं विधाय, अंगन्यासञ्च पूर्वोक्तवत्
कलान्यासपूर्वं विधाय,
विहितान्तर्यजनहवनध्यानस्तालत्रयादीना [-दीना] धाम
संरक्ष्य, क्षीरादिसाष्टांगं विशेषार्घ्य मुपकल्प्य [च]
तदंभसा स्वशिरसि [शिरः] संप्रोक्ष्य, सकुशजलेन [-कुशेन]
यागोपकरणद्रव्यजातमस्त्रेण संप्रोक्ष्य, कवचेनाभ्युक्ष्य
[कवचेनेभ्यक्ष्य?], हृदयेनाभिमन्त्र्या [-कवचेना-]
वकुण्ठ्यामृतीकुर्यात् [-कुण्ड्य] ।
ततश्चन्दनेन ललाटे तिलकं कृत्वा, आत्मानमभ्यर्च्य,
मन्त्रशुद्धिं विधाय [कृत्वा] ॥ (७०)
(प्र) शिवहस्तकरणात् पूर्वकर्तव्यान्याह ('''भूतशुद्धिम्''') इत्यादिना ('''विधाय''') इत्यन्तेन ॥
=== शिवहस्तकरणतदधिरोपणादिकम् ॥ ===
(क्रि) (५) चन्दनालेपनपूर्वमासनमूर्त्यादिमन्त्र संहितया
[संहिताया] शिवहस्तं संकल्प्य, तेजोरूपं ध्यात्वा,
स्वशिरस्यधिरोपयेत् [-रस्याधि-] ज्ञानखड्गं
सप्तधाऽस्त्रजप्तमादाय,
(प्र) शिवहस्तकरण तदधिरोपणादिकं वक्ति ('''चन्दन''') इत्यादिना
('''आदाय''') इत्यन्तेन ॥
=== शिवभावना ॥ ===
(क्रि) '''शिवोऽहमादिसर्वज्ञो मम यज्ञे प्रधानता इति भावितशिखाद्वैतः [-तश्शिवाद्वय] ॥'''
(प्र) अथ शिवभावनां ब्रूते ('''शिवः''') इत्यादिना ('''शिवाद्वैतः''') इत्यन्तेन । ('''आदिसर्वज्ञः''') आदिश्चासौ सर्वेषां अनन्तादीनां गुरूणां सर्वज्ञाश्चेत्यादिसर्वज्ञः । यदाहुः स पूर्वेषामपि गुरुः कालेनानवच्छेदात् इति ॥
=== मण्टपसंस्कारः ॥ ===
(क्रि) '''पञ्चगव्यं संसाद्ध्य[संस्थाप्य]विकितान् [विकिरान्] सप्तधाऽस्त्रेणाभिमन्त्र्य, नैर्-ऋत्यामीशाभिमुखः [नैऋत्यामीशानाभिमुख] स्थित्वा, पञ्चगव्यार्घ्याभ्यां यागगृहं [-गग्रहं] संप्रोक्ष्य, निरीक्षणादि च[-चतुस्त्रेणं]तुष्पथान्तसंस्कारैस्संस्कृत्य ॥'''
(प्र) अथ मण्टपसंस्कारमतिदिशति ('''पंचगव्यम्''') इत्यादिना ('''संस्कृत्य''') इत्यन्तेन । ('''पंचगव्यं संसाध्य''') इति । अत्र दीक्षाविधौ वक्ष्यमाणवद्विधेयमित्यवधेयम् ॥
=== मण्टपसंस्कारानन्तरकरणीयविधिः ॥ ===
(क्रि) तस्मिन् ज्वलच्छस्त्रभूतान्विकारानस्त्रेण विक्षिप्य,
कुशकूर्च्योपसंहृत्य, वर्द्धन्यासनायैशान्यां [-यैशन्यां]
संकल्प्य, नैर्-ऋते [नै-ऋते] वास्तुनाथमभ्यर्च्य [मभ्यच्य],
पश्चिमे ओम् हां महालक्ष्म्यै नमः इति संपूज्य [-ज्य द्वारस्य
संमुखीं श्या-], श्यामां पुष्परत्नौघवर्षिणीं [-णीं
ध्यात्वावाह्य यजेद्विद्वान् स्मरेन्मण्ट-] मण्टपरूपिणीं
ध्यायेत् [-णीं इति ध्या-] ।
(प्र) तदनन्तरकरणीयान्याह ('''तस्मिन्''') इत्यादिना ('''ध्यायेत्''') इत्यन्तेन ॥
=== सपरिकरशिवकुंभवर्धनीपूजाविधिः ॥ ===
(क्रि) (९) तत ऐशान्यां सर्वधान्यस्थे गलितांभसा पूरिते
चूतपल्लवाहलंकृतमुखे [-लंकृते निष्कमात्र सुवर्णगर्विते
पश्चि-] पश्चिमानने मूतिर्भूते [मूर्तिभूते] कुंभे चलासनं
दत्वा, सांगं भगवन्तं शिवमावरणरोधरहितं संपूज्य, तद्दक्षिणतो वर्द्धन्यान्तथा भूतायां ओम्
अस्त्रासनाय [ओं ओं] हुंफण्णमः [हुं फट् नमः] ओम्
अस्त्रमूरत्ये [ओं ओं] हुंफण्णमः[हुं फट् नमः] ओं श्लीं
[श्रीं] पशूं हुंफडस्त्राय हुंफण्णमः [-शूं हुं फट्
नमः] ओं हृदयाय [ओं ओं] हुंफण्णमः [हुं फट् नमः]
ओं श्लीं [श्रीं] शिरसे हुंफण्णमः [हुं फट् नमः इत्यादिना
पाशु-] ओं पं शिखायै हुंफण्णमः ओं शूं कवचाय
हुंफण्णमः ओं हुं नेत्रेभ्यो हुंफण्णमः ओं फट् अस्त्राय
हुंफण्णमः इति पाशुपतास्त्रं संपूज्य [अभ्यर्च्य],
सितवस्त्रादिनोभयं विभूष्य, मण्डपस्याभ्यन्तरदिग्भागे
लोकपालान्वाहनायुधसंयुक्तान् ध्यात्वा, प्राच्यादिदिक्षु [-दिक्षु]
कुंभेषु महाकालसूर्ययोर्मध्ये ओं हां इन्द्राय नमः ओं
हां अग्नये नमः ओं हां यमाय नमः [-नमः ओं हां नि-ऋते-
] गणेशस्य पश्चिमकुंभे ओं हां निर्-ऋतये नमः [-नमः
इन्द्राभिमुखं ओं हां वरु] ओं हां वरुणाय नमः [-नमः
ओं हां वाय-] स्कन्दस्योत्तरे ओं हां वायवे नमः [नमः ओं हां सोमाय नमः ओं हां इशा] ओं हां कुबेराय
नमः चण्डेशस्य पूर्वे ओं हां ईशानाय नमः तत्रैव [तस्यैव
द] तत्कुंभस्य दक्षिणे ओम् हां ब्रह्मणे नमः नैर्-ऋते [नै-ऋतां
पूर्वे ओं हां वि] तत्कुंभस्योत्तरे ओम् हां विष्णवे नमः इति
संपूज्य भोभो शक्र [चक्र] त्वया स्वस्यां [स्वभ्यां] दिशि
विघ्नप्रशान्तये ।
सावधानेन यागान्तं यावत् स्थेयं [यावस्थेयं] शिवाज्ञया ॥
इत्यनेन क्रमेण सर्वान् लोकपालान् शिवाज्ञां श्रावयेत्, ततो
वर्द्धनीमादाय, कुंभाग्रगामिनीमविच्छिन्न [मिनी विच्छन्न?]
पयोधारां [पयोधरां]
मूलमन्त्रेणास्त्रदुर्गमनुस्मरन्नीशादीशपर्यन्तं
[नीशानादीशान्तं परि] परिभ्राम्य, स्वस्थाने पूर्वं [पूर्व]
कुंभं पश्चाद्वर्द्धनीञ्च संस्थाप्य, कुंभे स्थिरासनं
शिवं संपूज्य, वर्द्धन्यामस्त्रमभ्यर्च्य, लिङ्गमुद्रया ओं
हौं ह्रौं [हौं] शिवशक्तिभ्यान्नमः [शक्तिशिवाभ्यां
नमः] इति भगलिंगसमायोगं [लिङ्गं] विधाय, ज्ञानखड्गं
[खट्गं] समर्प्य, मूलमन्त्रजपं दशांशतो वर्द्धन्यामस्त्रञ्च [न्याञ्च] निवेद्य, अवभृथान्तमत्र [अथ
प्रथमान्तम] भगवंस्त्वया स्थातव्यमिति विज्ञाप्य,
निरोधार्घ्यं कृत्वा, तदंभसा निरोधार्घ्यमघोरेण दत्वा
[र्घ्यं दत्वा], तत्पात्रन्तत्रैव निश्चलं संस्थाप्य,
वर्द्धन्यासनविकिरोत्थास्त्रैर्यागगृहमपसारिताशेषविघ्नं
[विकीरोर्थास्त्रैयागग्रहमप] समन्तात् भावयेत् ।
(प्र) अथ शिवकुंभवर्द्धनीपूजां तत्परिकरलोकपालपूजया सह वक्ति ('''तत ऐशान्याम्''') इत्यादिना ('''भावयेत्''') इत्यन्तेन । ('''अवभृथान्तम्''') यावद्दीक्षान्तम् । दीक्षान्तोऽवभृथो यज्ञे इत्यमरः ॥
=== गणेशपूजाविधिः ॥ ===
(क्रि) '''वायव्यान्तत्पूर्वकुंभे गणपतिमाराध्य, अविघ्नमस्त्विति विज्ञाप्य, ॥'''
(प्र) अथ अविघ्नार्थं गणेशपूजाविधिः ('''वायव्याम्''') इत्यादि ('''विज्ञाप्य''') इत्यन्तम् ॥
=== इष्टलिङ्गपूजाविधिः ॥ ===
(क्रि) '''ऐशान्यान्तत्पश्चिमकुंभे गुरूनिष्ट्वाऽध्येष्य, लब्धानुज्ञः स्वेष्टलिङ्गे [ज्ञ स्त्वेष्ट] शिवं पञ्चगव्यादिभिर्विभवानुसारेण भोगाङ्गपूजार्थं [-गाङ्गं पूजान्तं] संपूज्य,'''
(प्र) इष्टलिङ्गपूजाविधिः ('''स्व''') इत्यादि ('''संपूज्य''') इत्यन्तम् ॥
=== मण्डलेश्वरपूजाविधिः ॥ ===
(क्रि) (२२) ब्रह्मस्थाने लतालिङ्गोद्भवादि मण्डले
गन्धविरचितमण्डले वा परमकारणमध्वपतिं [मध्वरपतिं]
शिवं स्वेष्टलिङ्गपूजान्तं [जान्तज्जपान्तं समा] वा जपान्तं
वा समाराद्ध्य [समाराध्या]
(प्र) अथ मण्डलेश्वरपूजाविधिं वर्णयति (ब्रह्म) इत्यादिना
(समाराध्य) इत्यन्तेन । (ब्रह्मस्थाने) इति ।
प्. ४१०)
एतत्स्वरूपं दीक्षाविधौ निरूपयिष्यामः ।
(लतालिङ्गोद्भवादिमण्डले) इति । अत्र लतालिङ्गोद्भवलक्षणं
समुदीरितं श्रीमत्सिद्धान्तसारावल्यां
भक्ते विंशतिधा बहिश्शशिपदाविथी सिता दिक्षु
जैर्द्दराणीशमुखद्युतीन्युभयतो लिङ्गानि पाण्डुद्युगैः ।
कोणेष्वब्धिपदैलता हरितभा वीथी चतुष्षष्टिभिः पद्मं
शान्तिकलादिभानि च लतालिङ्गोद्भवे मण्डले ॥
इति । (स्वेष्टलिङ्गपूजान्तम्) इति । अत्र भोगाङ्गपूजान्तं संपूज्येति
प्रागुपपादितं स्मर्तव्यम् ॥
=== अग्निस्थानगमनविधिः ॥ ===
(क्रि) (२३) अग्निकार्यार्थमध्येष्य, लब्धानुज्ञोर्घ्यपात्रमादाय,
प्रदक्षिणं ससंभारं यागोपकरणं दिव्यदृष्ट्याऽवलोकयन्
कुण्डसमीपमेत्य [-ण्डसकाशमे-] कुण्डनाभिं पुरस्कुर्वन्
सौम्यास्य [-म्यस्या] उपविशेत् [-पवेशेत्] ॥
(प्र) अथ अग्निकार्याय तत्स्थानगमनमतिदिशति (अग्निकार्य) इत्यादिना
(उपविश्य) इत्यन्तेन । (अग्निकार्यार्थम्) शिवाग्न्युत्पादनाय ।
(अध्येष्य) अग्निकार्यं करिष्येऽहमिति प्रार्थ्य । (अर्घ्यपात्रम्)
सामान्यार्घ्यपात्रम् । तथा निगदितं श्रीरामनाथपद्धत्यां
हीमार्थं प्रार्थ्य सामान्यं गृहीत्वाऽर्घ्यं हविर्भुजे इति ।
(ससंभारम्) सोपकरणम् । क्रियाविशेषणमेतत् । एवं समुदीरितं
श्रीमत्सोमशंभुपद्धतिकारेण । (यागोपकरणम्)
शिवाध्वरसाधनद्रव्यम् । वामसव्यभागयोः स्थित्मेतत् ।
तदुक्तं श्रीमत्सोमशंभुचरणैः
निविष्टो विधिना तस्मिन्नर्घ्यगन्धघृतादिकम् ।
वामे सव्ये तु विन्यस्य समिद्दर्भतिलादिकम् ॥
इति । (दिव्यदृष्ट्या) परचक्षुषा । (कुण्डसकाशम्) इति ।
प्. ४१२)
अत्र कुण्डलक्षणमाम्नातं श्रीमोहशूरोत्तरे
हस्तमात्रं खनेत्तिर्यमूर्ध्वमेखलया सह ।
खाताद्वाह्योऽङ्गुलः कण्ठस्सर्वकुण्डेष्वयं विधिः ॥
मेखलात्रितन्नं कार्यमश्ररामयमांगुलैः ।
दैर्घ्यात् सूर्यांगुला नाभिस्त्र्यंशेन विस्तरेण तु ॥
एकांगुलोच्छ्रिता सा तु प्रविष्टाऽभ्यन्तरे तथा ।
कुंभद्वयसमायुक्ता चाश्वत्थदलवद्यथा ॥
अंगुष्ठमेखला युक्ता मध्येत्वाज्यधृतिर्यथा ।
दक्षस्था पूर्वयाम्ये तु जलस्था पश्चिमोत्तरे ॥
इति ।
कुण्डलाभिस्तु होतुरग्रस्थितावयवविशेषः ॥
=== कुण्डसंस्कारविधिः ॥ ===
(क्रि) (२८) तत्रानामिकांगुष्ठाभ्यां [-मिकाभ्याङ्गु-]
न्यस्तमूलेन चक्षुषा कुण्डस्य निरीक्षणं शिवमन्त्रेण
प्रोक्षणताडने [-प्रोक्षणं ताड-]
प्. ४१३)
कुशैः हुंफडन्तास्त्रेणाभ्युक्षणं वौषडन्तकवचेन [-डन्त
पवचे-] खननावकिरण[-नावकीरण-
]पूरणसमीकरणसेचनकुट्टनसन्मार्जनसमालेपनानि[-
नसंमार्जन-] खड्गेन कुशेन विधाय,
कुण्डमध्यपूर्वयाम्योत्तरपश्चिमेषु [-कुण्डमध्ये पूर्व-]
शान्त्यतीतादिकलामन्त्रान्[शान्त्याती-] न्यस्त्वा, कलामयं
परिकल्प्य, त्रिसूत्र्यास्त्रेण संवेष्ट्य[आवेष्ट्या] ओम् हां
कलामयाय कुण्डाय नमः इत्यभ्यर्च्य, प्रागायतमुदगायतं
वा तिर्यग्रेखया सह रेखाचतुष्टयमुभयत्र [भ्ययत्रिषु]
त्रिशूलाकृतिना [-शूलाकृतीना] कुशत्रयेण वज्रीकरणं
पूर्वोत्तराग्रकुशद्वयेन चतुष्पथन्यासमस्त्रेण[?] ॥ (९०)
(प्र) अथ अग्निस्थानगमनविधिं व्याहृत्य
असंस्कृते वाप्यग्नौ वा हुतं भवति निष्फलम् ।
तस्मात् कुण्डादिसंस्कारान् कुर्यान्मन्त्रेण देशिकः ॥
प्. ४१४)
इति श्रीमदजितनिगदित वचनेन पुरा तावत् कुण्डसंस्कारविधिं
वर्णयति (तत्र) इत्यादिना (अस्त्रेण) इत्यन्तेन । (तत्र) तस्मिन् कुण्डे ।
(न्यस्तमूलेन) न्यस्तः मूलः मूलमन्त्रः यस्य तत् तथोक्तं तेन ।
(निरीक्षणम्) वीक्षणाख्यः प्रथमस्संस्कारः । (प्रोक्षणताडने)
प्रोक्षणञ्च प्रोक्षणाख्यो द्वितीयस्संस्कारः । ताडनञ्च
ताडनाख्यः तृतीयस्संस्कारः ते । प्रोक्षणं सार्घ्यजलेन
उत्तानपादेन पताकाकारेण हस्ततलेन । ताडनं प्रसृततर्जन्या
मुष्ट्या (अभ्युक्षणम्) अभ्युक्षणाख्यश्चतुर्थस्संस्करः ।
अभ्युक्षणं अधोमुखेन पताकाकारेण हस्ततलेन ।
कुशैरित्यभ्युक्षणस्थापि संबन्धनीयम् । एवमाख्यातं
श्रीमता सोमशंभुपद्धतिव्याख्याकारेण ।
(खननावकिरणपूरणसमीकरणसेचन
कुट्टनसन्मार्जनसमालेपनानि)
प्. ४१५)
खननं च खातः पंचमस्संस्कारः अवकिरणं च उद्धारः
षष्ठस्संस्कारः पूरणं पूर्तिकरणं सप्तमस्संस्कारः
समीकरणं च समताविधानं अष्टमस्संस्कारः सन्मार्जनं
च रजोव्युदासः एकादशस्संस्कारः समालेपनं च सम्यक्
रूक्षणं द्वादशस्संस्कारः (खड्गेन) अस्त्रेण ।
अत्र अस्थिशल्यादिदोषनिवृत्त्यर्थं खननादिकं मनसा विधेयमिति
भावः (कुण्डमध्यपूर्वयाम्योत्तरपश्चिमेषु) कुण्डमध्यं
च मेखलान्तरालावकाशः पूर्वं च पूर्वमेखला याम्यं च
याम्यमेखला उत्तरं च उत्तरमेखला पश्चिमञ्च
पश्चिममेखला कुण्डमध्यपूर्वयाम्योत्तरपश्चिमानि तेषु ।
(परिकल्प्य) इति । कलारूपप्रकल्पनाख्यस्त्रयोदशस्संस्कारः ।
(आवेष्ट्य) इति ।
प्. ४१६)
त्रिसूत्रीपरिधानाख्यश्च चतुर्दशस्संस्कारः । (अभ्यर्च्य) इति ।
कलामयाभ्यर्चनाख्यः पंचदशस्संस्कारः । (प्रागायतम्)
प्रागाननमित्यर्थः । (उदगायतम्) उत्तराननमित्यर्थः ।
कुशेनेति शेषः । अत्र गुरुः पूर्वाननश्चेत् तर्हि पूर्वाननं
रेखात्रयं उत्तराग्रामेकां रेखाञ्च कुर्यात् । यद्युत्तरास्यस्तदा
उदग्रगं रेखात्रयं प्रागग्रामेकां रेखाञ्च कुर्यात् इति
तात्पर्यम् । यदुक्तं प्राक् नित्याग्निकार्ये पूर्वाग्रं रेखात्रयं
कुशेन संपाद्य, रेखामेकामुत्तराग्राञ्च संपादयेत् ।
उत्तरास्यश्चेद्विपर्ययेण संपाद्य इति । तत्र रेखाचतुष्टयं
ब्रह्मविष्णुरुद्र महेश्वरात्मकमित्यवसेयम् । तथा श्रीमत्किरणे
रेखात्रयञ्च पूर्वास्यं रेखैकाचोत्तरामुखा ।
वामो वाऽयं विधिः कार्यो रेखाः कल्प्यास्सुरात्मिकाः ॥
प्. ४१७)
ब्रह्मविष्णुहरेशाख्याः
इति । रेखाचतुष्टयविन्यासाख्योऽसौ षोडशस्संस्कारः । (उभयत्र)
मूलाग्रयोरित्यर्थः । (वज्रीकरणम्) वज्रीकरणसंज्ञः
सप्तदशस्संस्कारः । अत्र रेखाचतुष्टयविन्यास
वज्रीकरणसंस्कारद्वयं हृदयमन्त्रेण कुर्यात् ।
अनुक्तान्यन्यानि कर्माणि यानि तान्यपि हृदयेनेत्युच्यते ।
यदुक्तं उक्तानुक्तं च यत् किंचित् तत्सर्वं हृदयेन तु इति ।
यद्वा अस्त्रेण वा कुर्यात् । (चतुष्पथन्यासम्)
चतुष्पथन्यासाभिधानोऽष्टादशस्संस्कारः ।
तथा श्रीमज्ज्ञानरत्नावल्यां
चक्षुषापि प्रसादेन वीक्ष्य प्रोक्ष्य शिवाणुना ।
आताड्याभ्युक्षयेद्विद्वान् वौषडन्तेन वर्मणा ॥
अस्त्रेण खातमुद्धारं पूरणं समतां हृदा ।
सेचनं कवचेनाथ कुट्टनं हेतिना चरेत् ॥
प्. ४१८)
सन्मार्जनं समालेपं कवचेन समाचरेत् ।
न्यस्तव्याश्शान्त्यतीताद्या मध्य पूर्वादितः कला ॥
त्रिसूत्रीपरिधानेन तनुत्राणेन वेष्टयेत् ।
कलामयाय कुण्डाय नमस्संयोज्य चार्चनम् ॥
तिस्रः पूर्वाननाः कार्या रेखैका चोत्तरानना ।
वज्रीकरणमस्त्रेण वज्राकारं कुशैस्त्रिभिः ॥
हृदा चतुष्पथं कार्यं सोमेन्द्राग्र कुशद्वयात् ।
इत्यष्टादश संस्काराः कुण्डेप्रोक्तास्समासतः ॥
इति ।
=== वागीश्वरीवागीश्वरावाहनम् । ===
(क्रि) (२५) कुण्डस्याभ्यन्तरे समन्तादुत्थितैः कुशैरक्षपाटं
कवचेन विधाय [-चेनापिधाय], मध्ये कूर्चरूपं विष्टरं ओम्
हां वागीश्वरवागीश्वरासनाय [-गीश्वरीवागीश्वराभ्यां]
नमः इति दत्वा [ध्यात्वा देवीं-], तस्मिन् देवीमावाहयेद्विद्यां [-
येद्विद्वान्] विधिवद्विश्वमातरम् ।
प्. ४१९)
श्यामामामृतुमतीं [श्यामा-] ध्यात्वा,
सद्वासोमाल्यभुषणाम् ॥
प्रसन्नवदनां पद्म पत्राभनयनत्रयाम् ।
२५८- इति ध्यात्वा, ओं हां वागीश्वर्यै नमः इति । [-इति
वागीश्वर्यै नमः इति वागीश्वरं तद्वागीश्व-]
तद्वद्वागीश्वरञ्च ओं हां वागीश्वराय नमः इति
गन्धादिभिरभ्यर्च्य ॥
(प्र) अथ एवं संस्कृते कुण्डे किं कुर्यादित्याशंक्य
अक्षपाटासनविन्यासपूर्वं वागीश्वरीवागीश्वरावाहनमाह
(कुण्डस्य) इत्यादिना (अभ्यर्च्य) इत्यन्तेन । (समन्तात्) परितः ।
(उत्थितैः) विन्यस्तैरित्यर्थः । (अक्षपाटम्) तिरस्करणीशाटिः ।
अत्र वागीश्वरीवागीश्वरयोस्तदर्थं कुण्डाभ्यन्तरस्थकण्ठोपरि
परितः कुशचतुष्टयमास्तीर्यताम् । तथा
श्रीमज्ज्ञानरत्नावल्यां
अक्षपाटाय कण्ठोर्ध्वे कवचेन कुशान्न्यसेत्
इति । तथा श्रीरामनाथपद्धत्यां
कण्ठोर्ध्वं परितः पूर्वोत्तराग्रैर्वर्मणा कुशैः ।
प्. ४२०)
अक्षपाटम् इति । (विष्टरम्) दर्भकौप्तमासनम् ।
विष्टरो विटपीदर्भमुष्टिः पीठाद्यमासनम् इत्यमरः । (तस्मिन्)
विष्टरे । वागीश्वरीध्यानमाह (देवीम्) इति । (विद्याम्) विद्याख्याम् ।
तदुक्तं परा वागीश्वरी विद्या इति । (विधिवत्) शास्त्रोक्तेन क्रमेण ।
(विश्वमातरम्) अशेषजगत्कारण भूतामित्यर्थः । (श्यामाम्)
श्यामवर्णाम् । (ऋतुमतीम्) ऋतुस्नातामित्यर्थः । तथा श्रीचिन्त्ये
ध्यायेद्यस्तु विशेषेण ऋतुस्नातां स यौवनाम् ।
नीलोत्पलदलाभासाम्
इति । सुबोधमन्यत् । वागीश्वरध्यानमभिहितं
श्रीमज्ज्ञानरत्नावल्यां
दशबाहुं सितं सौम्यं पञ्चास्यं तिथिलोचनम् ।
नादरूपन्तथा देवं देव्या बिन्दुस्वरूपया ॥
सन्निधी भवतं वह्निजननाय युवामिति ।
प्. ४२१)
हृदाऽवाह्य समभ्यर्च्य तयोर्योगं विभावयेत् ॥
इति ॥
=== वह्निन्यासः ॥ ===
(क्रि) (२६) अरणेस्सूर्यकान्तात् द्विजगृहाद्वैश्यगृहात् स्वगृहाद्वा
[दिजग्रहात् स्वग्रहा-] वह्निं मृत्पात्रे ताम्रपात्रे वानीय [-नीय्य],
आग्नेय्यामैशान्यां [आग्नेर्यामै-] वा [-शान्यां नै-ऋत्यां]
निधाय, अग्निशकलं क्रव्यादार्थमस्त्रेण [-व्यादांशमस्ते-]
नैर्-ऋते [नै-ऋते) निस्सार्य,
निरीक्षणाद्यैश्चतुर्भिस्संस्कारैस्संस्कृत्य[-स्कारैर्विशोध्य], ओम्
हां [हं] हं हां वह्निमूर्तये नमः इति भूताग्निं पूरकेण
गृहीत्वा, हृदयेन कुंभकेन नाभ्यग्निना [-केनाभ्यग्निं-]
बिन्द्वग्निना च संयोज्य, रेचकेण निस्सार्य [-केणा निस्-], ओम् हां
[हां] ह्रूं वह्निचैतन्याय नमः इति पात्रस्थेऽग्नौ विन्यस्य,
संहितयाऽभिपूज्य, संरक्ष्यावकुण्ठ्य, प्रासादेन वौषडन्तेन
धेनुमुद्रयाऽमृतीकृत्यादाय, कुण्डस्योपरि प्रदक्षिणन्त्रिः
परिभ्राम्य, शिवबीजमिति ध्यात्वा, पितरौ ईशदिग्गतशिरसौ [ईशगताशि-] ध्यायन्
[ध्यायेरन्] वागीश्वरीगर्भनाड्यां [-गर्भनाढ्यां]
वागीश्वरेण क्षिप्यमाणं [-श्वरे निक्षिप्य-] विभाव्य,
भूमिष्ठजानुर्मूलेनात्मसंमुखं
[जानुमूलेनात्मसन्निभं] क्षिपेत् ॥
(प्र) अथ वह्निन्यासं ब्रूते (अरणेः) इत्यादिना (क्षिपेत्) इत्यन्तेन
। (अरणेः) अश्वत्थादिवह्निप्रभवकाष्ठादित्यर्थः । (वह्निम्) वहति
प्रापयति हव्यमिति वह्निः तम् । (मृत्पात्रे) अभिनवमृण्मयशरावे ।
वह्निमूर्तिमन्त्रोद्धारः कृतः श्रीरामनाथपद्धत्यां अथ
हृदा पुटम् । आत्मबीजं वदन् वह्निमूर्तये नम इत्यपि इति ।
(भूताग्निम्) भौतिकानलम् । (नाभ्यग्निना) औदर्यवह्निना ।
(बिन्द्वग्निना) बैन्दवपावकेन । (संयोज्य) इति ।
भौतिकजाठरबैन्दवाग्नित्रयमेकीकृत्येत्यर्थः ।
तथा व्याहृतं श्रीमत्सोमशंभुचरणैः
प्. ४२३)
औदर्यं बैन्दवं भौतमेकीकृत्यानलत्रयम् इति । (प्रदक्षिणम्)
सव्यक्रमेण । (परिभ्राम्य) इति । एतत् वागीश्वरीयोनिक्षोभा येति
भावः । तथा श्रीमज्ज्ञानरत्नावल्यां
योनि क्षोभाय कुण्डोर्ध्वे त्रिधा तं भ्रामयेद्धृदा इति ।
(शिवबीजम्) परमेश्वरशुक्लमित्यर्थः । अत्र वह्नेः
शिवबीजत्वाभावे वागीश्वरीगर्भनाडी प्रक्षेपानुपपत्तिरिति
भावः । (पितरौ) पिता च माता च पितरौ वागीश्वरि
वागीश्वरावित्यर्थः । पिता मात्रा इत्येकशेषः ।
(वागीश्वरीगर्भनाड्याम्) वागीश्वरीयोनावित्यर्थः ।
(भूमिष्ठजानुः) भूतलस्थितजानुद्वय इत्यर्थः ।
तथा श्रीमन्मतङ्गे
आत्मानं शिववद्ध्यात्वा ध्यायेदग्निन्तु बीजवत् ।
सद्योजातेन मन्त्रेण भ्रामयित्वा त्रिधा शनैः ॥
जानुभ्यामवनिं गत्वा इति ॥
=== वह्निविन्यासानन्तर करणीयविधिः ॥ ===
(क्रि) (२७) ततो नाभिदेशे समूह्य, परिधानस्य संवृतिं विभाव्य,
शौचाचमनार्थं तोयबिन्दुं [-बिन्दु] हृदा [ह्रदा] दत्वा, कवचेन
सदिन्धनैराच्छाद्य, अस्त्रेण प्रज्वाल्य, ओम् ह्रां ह्रूं गर्भाग्नये
[-ओम् हां गर्भा-] नमः इति गर्भाग्निं संपूज्य,
गर्भरक्षार्थमस्त्रजप्तदर्भकंकणं देवीहस्ते [देविहस्ते]
बद्ध्वा ॥
(प्र) अथ वह्निविन्यासानन्तर करणीन्याह (ततः) इत्यादिना (बध्वा) इत्यन्तेन । (नाभिदेशे) नाभिर्नाम कुण्डमध्यवर्ती पद्माकारोऽवयवविशेषः । तथा श्रीमत्कामिके
नाभिस्स्यात् कुण्डमध्ये तु सार्द्धमानेन निर्मिता ।तच्चतुर्थांशतोऽतुंगापद्माकारं यथा भवेत् ॥
इति । तस्याः देशे । (समूह्य) समूहनं विधाय, नाभिदेशेवह्नौ विक्षिप्ते सति परितो व्यस्तन्तमे अत्र पुञ्जीकृत्येति यावत् । (परिधानस्य)
वस्त्रस्य । (संवृतिम्) आच्छादनम् । (अस्त्रजप्तदर्भकंकणम्) इति ।
अत्र शुभं कणतीति कंकणति सरतीति वा कंकणं हस्ताभरणम्
। प्रतिसरो वा कंकणं करभूषणम् । कंकणं स्यात् प्रतिसरः
इति नैघण्टुकाः । (देवीहस्ते) वागीश्वरी दक्षिण हस्ते । तथा
श्रीमत्स्वतन्त्रे
सप्त वारास्त्रजप्तेन दर्भेणैवास्त्रकंकणम् ।
बध्नीयाद्दक्षिणे हस्ते अस्त्रमन्त्रमनुस्मरन् ॥
रक्षार्थमग्निगर्भस्य
इति ।
=== गर्भाधानादिसंस्कारविधिः ॥ ===
(क्रि) '''गर्भाधानाय सद्योजातेनाभ्यर्च्य, हृदयेनाहुतित्रयं तिलैर्दत्वा, पुंसवनार्थं तृतीये मासि वामदेवेभ्यर्च्य [-देवेनाभ्य-], शिरसाऽहुतित्रयन्तिलैर्दत्वा [-त्रयं हुत्वा-], जलबिन्दुं विनिक्षिप्य, सीमन्तीन्नयननिमित्तं षष्ठे मास्यघोरेणाभ्यर्च्य, शिखयाऽहुतित्रयं दत्वा, शिखयैव वक्त्रांगकल्पनानिष्कृतिञ्च [-कल्पनां निष्कृ-] विधाय, जननार्थं दशमे मासि पुरुषेणाभ्यर्च्य, कवचेन तिस्राहुतीर्दत्वा, जाते गर्भमलापहस्नानार्थं [-दला गर्भ-] वह्निन्दर्भाद्यैस्सन्धुक्ष्य [वह्निदर्भा], देवीहस्तदर्भकंकणमुन्मुच्य [हस्तस्तन्दर्भ-], स्वर्णबन्धनं देव्याः कृतमिति [देव्याकृत-] ध्यात्वा, हृदाभ्यर्च्य, सद्यस्सूतकनिवृत्तये कुण्डमस्त्रांबुना [-मस्त्राम्भसा] संसिच्य, दर्भेणास्त्रेणाताड्य, कवचेनाभ्युक्ष्य, वह्निरक्षार्थं पूर्वादिमेखलासूत्तरपूर्वाग्रान्दर्भानस्त्रेणास्तीर्य, तेषु परिधिविष्टरान् [-विष्टनान्] संस्थाप्य, वक्त्राणां लालापनोदनायाग्नेः पुष्टये च मूलाग्रयोर्घृताक्ताः पञ्चसमिधः खड्गेन हुत्वा, पूर्वपश्चिमदक्षिणोत्तरासु दिक्षु [-त्तरदिक्षु]'''
'''ओं हां ब्रह्मणे नमः'''
'''ओं हां विष्णवे नमः'''
'''ओं हां रुद्राय नमः'''
'''ओम् हां अनन्ताय [ईश्वराय] नमः'''
'''इति परिधिस्थान् [परिस्थानं] संपूज्य, विष्टरेषु पूर्वादिदिक्षु'''
'''ओम् हां इन्द्राय नमः [विष्ठरे इन्द्राद्यष्टदिक्षु ओं हां इन्द्रा-]'''
'''ओम् हां अग्नये नमः'''
'''ओम् हां यमाय नमः'''
'''ओं हां निर्-ऋतये [नि-ऋतये] नमः'''
'''ओम् हां वरुणाय नमः'''
'''ओम् हां वायवे''' '''नमः'''
'''ओम् हां कुबेराय [सोमाय] नमः'''
'''ओम् हां ईशानाय नमः'''
'''ऊर्ध्वभागमुद्दिश्य ऐशान्यां ओम् हां ब्रह्मणे नमः [-नमः ओं हां ब्रह्मणे नमः ऐशान्यां ओं हां विष्ण-]'''
'''अधोभागमुद्दिश्य नैर्-ऋत्यां ओं हां विष्णवे नमः'''
'''इति संपूज्यार्घ्ययित्वा, विघ्नसंघातं निवार्य, बालकं [निवार्य विघ्नसंघातं बाल-] पालयिष्यथेति शिवाज्ञां श्रावयेत् ॥ ततस्स्रुक्स्रुवौ सकुशावूर्ध्ववदनाधोमुखौ [-कुशादादूर्ध्ववदनायोमुखौ-] गृहीत्वा [ग्रहीत्वा], अस्त्रेण संप्रोक्ष्य, कवचेनाभ्युक्ष्यावकुण्ठ्य, अग्नौ [-वकुण्ढ्याग्नौ-] प्रताप्याभ्राम्य, कुशाग्रेण तदग्रं संस्पृश्य पुनः परिभ्राम्य, मध्येन मध्यं संस्पृश्य पुनः परिभ्राम्य मूलेन मूलं संस्पृश्य, तयोः कुशस्पृष्टप्रदेशेषु [-भ्राम्य मूलेन मूलं संस्पृश्यतयो-] शिवविद्यात्माख्यं तत्वत्रयं रुद्रत्रयं रुद्रविष्णुब्रह्माख्याधिपसंयुतं क्रमात् [-धिपं संयुक्तं क्रमात्-] ओम् हूं [हं] हीं हां शंबरैर्विन्यस्य, स्रुचिशक्तिं स्रुवे शंभुं न्यस्त्वा वर्मणा [-शंभु विन्यस्त्वा वर्म-] त्रिसूत्रीवेष्टितग्रीवावात्मनस्सव्यभागे कुशोपरि मूलेन [मूले *] संस्थाप्य, हृदा [ह्रदा] संपूजयेत् [संपात्य?] ॥'''
'''अथ गव्यमाज्यमानीय वीक्षणादिभिर्विशोद्ध्य स्वदेहं ब्रह्ममयं विचिन्त्यादाय, कुण्दस्योर्ध्वं त्रिधाऽवर्त्य, अग्निगोचरे तापयित्वा [दापयित्वा], आग्नेय्यां स्थापयित्वा [संस्थाप्य], दर्भाग्रेण घृतबिन्दुमादाय,'''
'''ओम् हां ब्रह्मणे स्वाहा'''
'''इति हुत्वा, पुनर्विष्णुमयं [-हुत्वा स्थापकं पुन-] स्वदेहं ध्यात्वा, ऐशान्यामधिश्रित्य, कुशाग्रेणाज्यविन्दुं'''
'''ओं हां विष्णवे स्वाहा'''
'''इति हुत्वा, पश्चात् [-हुत्वा अधिश्रवणं पश्चा-] स्वमूर्तिं रुद्रमयीं मत्वा, नाभौ धृत्वा,'''
'''ओं ह्रूं [ह्रां] रुद्राय स्वाहा'''
'''इत्याज्यबिन्दुं कुशाग्रेण जुहुयादित्युद्वास्य, प्रादेशमात्रदर्भाग्रद्वयनिर्मितं मध्यग्रन्थिपवित्रकमंगुष्ठानामिकाभ्यां [-देशामात्रं दर्भाग्रद्वयं निर्मितं मध्य-] गृहीत्वा, अस्त्रेणाज्यमग्निसन्मुखं त्रिधा उत्प्लावयेत् ।तद्वदात्मसन्मुखं संप्लवनं हृदा कृत्वा, तत्पवित्रग्रन्थिमुन्मुच्याग्नौ [-वित्रग्रन्धिमुमुच्य-] क्षिप्त्वा, हृदाऽभिमन्त्रितदग्धदर्भोल्मुकमस्त्रेण घृते क्षिप्त्वा, पवित्रीकृत्य, तदप्यग्नावस्त्रेण क्षिपेत् । दीप्तेनान्येन दर्भेण कवचेन [कवचेना] नीराज्याग्नौ क्षिप्त्वा, अपरेण दीप्तेनास्त्रेण सन्दीप्य तदप्युल्मुकं [-दीप्य तदत्युल्मुक] वह्नौ क्षिपेत् ॥ ततः प्रादेशमात्रमध्यग्रन्थिकुशद्वयं [-देशमात्रं मध्य-] प्रणवेन घृतमध्ये न्यस्त्वा, स्वदक्षिण [-स्त्वादक्षिण] वामक्रमेण शुल्ककृष्णपक्षद्वयं [शुक्लकृष्ण-] विभाव्य, दक्षिणवामक्रममध्यभागेषु [-द्वयदक्षिण- -वाममध्य-] पिंगलेडासुषुम्ना [पिङ्गलेडान्सुषुम्ना] नाडीत्रयञ्च संकल्प्य, सव्यभागान् स्रुवेणाज्यमादाय,'''
'''ओम् हां अग्नये स्वाहा'''
'''इत्यग्नि दक्षिणनेत्रे, वामभागादाज्यमादाय [-माजं गृही ओं हां सोमा-]'''
'''ओं हां सोमाय स्वाहा'''
'''इत्यग्निवामनेत्रे मध्यादादाय [मध्यभागादादाय],'''
'''ओम् हां अग्नीषोमाभ्यां स्वाहा'''
'''इत्यग्नि मध्यनेत्रे,'''
'''ओम् हां''' '''अग्नये स्विष्टकृते स्वाहा'''
'''इत्यग्नि वक्त्रे च स्वा इति किंचिद्धुत्वा, शेषमाज्यं तत्तदाज्यभागेषु हा इति क्षिपेत् शुक्लपक्षे । कृष्णपक्षे तु'''
'''ओम् [शुक्लपक्षे तु ओम् हां सोमाय] हां सोमाय स्वाहा'''
'''ओं हां अग्नये स्वाहा'''
'''ओं हां सोमाग्निभ्यां स्वाहा'''
'''ओं हां अग्नये स्विष्टकृते स्वाहा'''
'''इति वामदक्षिणमध्यभागेभ्य आज्यमादाय, अग्नेर्वामदक्षिणमध्यनेत्रेषु [-इति अग्नेर्वाम-] वक्त्रे च पूर्ववत् हुत्वा, आज्यं संहितयाऽभिमन्त्र्य [-संहितायाऽभि-], संरक्ष्यावकुण्ठ्य, मूलेन धुनुमुद्रयाऽमृतीकृत्य मूलेन संपूज्य [-वकुण्ढ्य धेनुमुद्रं मुद्रयामुद्रीकृत्य-], हृदयेनाज्यबिन्दुक्षेपादन्याज्यशोधनं कुर्यात् । तदनु'''
'''ओम् हं [हां] सद्योजाताय स्वाहा'''
'''ओम् हिं [हीं] वामदेवाय स्वाहा'''
'''ओं हुं अघोराय स्वाहा'''
'''ओम् [देवाय स्वाहा''' '''ओं हें-] हें तत्पुरुषाय स्वाहा'''
'''ओं हों ईशानाय स्वाहा'''
'''इत्येकैकया घृताहुत्या अग्निवक्त्राभिघारं [-वक्त्राणामाधारं]'''
'''ओम् हं हिं [हीं] सद्योजातवामदेवाभ्यां स्वाहा'''
'''ओम् हिं हुं वामदेवाघोराभ्यां स्वाहा'''
'''ओम् हुं हें अघोरतत्पुरुषाभ्यां स्वाहा'''
'''ओं हें हों तत्पुरुषेशानाभ्यां स्वाहा'''
'''इति वक्त्रानुसान्धानं'''
'''ओं हं हिं [हीं] हुं हें हों सद्योजातवामदेवाघोरतत्पुरुषेशानाभ्यस्स्वाहा [-नाभ्यां स्वाहा]'''
'''इत्यग्नितो वायुं गतया निर्-ऋतित ईशानं [नि-ऋति इर्शा-] गतया घृताहुत्या अग्निवक्त्रैकी करणं [-हुत्य वक्त्रेकीक-] विदध्यात् । ततो नामकरणार्थमीशेनाभ्यर्च्य [-मीशानेनाभ्य-], अस्त्रेणाहुतित्रयन्दत्वा, शिवाग्निस्त्वं [-दत्वा ओम् हां शिवा-] हुताशनेति नाम [नामं] कृत्वा ॥'''
(प्र) अथ वह्निविन्यासमुपन्यस्य तदानुषंगिकगर्भाधानादिसंस्कारान् गन्धाद्यैरर्च्य सद्येन हृदा दत्वाऽहुतित्रयम् इत्यादिश्रीमत्किरणश्रुतेः सद्यादिब्रह्मभिरभ्यर्च्य अनेन हृदयादिभिः प्रतिसंस्कारमाहुतित्रयेण निर्वर्तयेदित्याह ('''गर्भाधानाय''') इत्यादिना ('''नाम कृत्वा''') इत्यन्तेन ॥ तत्र प्रथमं गर्भाधान संस्कारविधिमाह ('''गर्भाधानाय''') इति । ('''सद्योजातेन''') इति । अत्र तद्रूपशिवस्मरणपूर्वकं पूजनं कार्यमित्यभिहितं श्रिमत्षट्सहस्रिकायां
योनौ तु बीजवत् क्षिप्त्वा सद्योमन्त्रं शिवं स्मरन् । सद्योजातेन तु हृदा दद्यादाहुतिपञ्चकम् ॥ गर्भाधानं भवेदेवम्
इति । एवं पुंसवनादिष्वपि वामदेवादिरूपशिवस्मरणादिपूर्वकं पूजनं कार्यमिति षट्सहस्रिकायां मित्यनुसन्धेयम् ॥ पुंसवनसंस्कारमाह ('''पुंसवनम्''') इति । ('''पुंसवनार्थम्''') पुंसवनं पुरुषो भव मास्त्रीति तदर्थं पुरुष परिकल्पनार्थमिति यावत् । पुमान् स्रूयतेऽनेनेति पुंसवनम् ।
किन्तु पुंसवने बिन्दुमपां दर्भेण निक्षिपेत् ।.जीवमित्यभिसन्धाय ब्रूयाद्भव पुमानिति ॥
इति श्रीमन्मृगेन्द्र श्रुतेः कुशाग्रेणार्घ्यजलकणं पुमान् भवेति गर्भस्थस्याग्नेश्चैतन्याभिसन्धानार्थं निक्षिपेदित्याह ('''जलबिन्दुम्''') इति ॥सीमन्तोन्नयन संस्कारमाह ('''सीमन्त''') इति । ('''सीमन्तोन्नयननिमित्तम्''') सीमा अवयवानामवधिः मर्यादा तस्यान्तो यः समाप्तिः तस्य उन्नयननिमित्तं परिकल्पनार्थम् । ('''वक्त्रांगकल्पनाम्''') शिरोवदनग्रीवोरुपादाद्यवयवकौप्तिम् । अनेन कर्मणात्र शिवाग्नेर्वपुः निष्पन्नमिति मन्तव्यम् । तथा श्रीमन्मृगेन्द्रे वपुस्स्त्रीसीमसीमन्ते दर्भेण प्राक् पकल्पयेत् इति । ('''निष्कृतिं च''') निश्शेषकरणं च । एवमाख्यातं श्रीमत्सोमशंभुपद्धतिव्याख्याकारेण । वक्त्रांगकल्पनार्थं निष्कृत्यर्थञ्चात्र शिखामन्त्रेण त्रिवारं प्रत्येकं जुहुयात् । तथा श्रीरामनाथपद्धत्यां
संपूज्य शिखया हुत्वा त्रिधा वक्त्रांगकौप्तये । उद्घाटनाय वक्त्राणां निष्कृत्यैव च तथा त्रिधा ॥
इति । निष्कृत्यर्थं पंचदशवारं हुनेदिति केचित् ॥ जातकर्मसंस्कारमाह ('''जननार्थम्''') इति । ('''सन्धुक्ष्य''') वह्निं दर्भाद्यैस्सन्दीप्येत्यर्थः । तथा श्रीमज्ज्ञानरत्नावल्यां वह्निमुद्दीप्य दर्भाद्यैर्जातं बालंशिवात्मजम् इति । ('''दर्भकंकणम्''') दर्भकृतवलयम् । कंकणं करभूषणम् इत्यमरः । ('''स्वर्णबन्धनम्''') कनकपट्टम् । तथा श्रीरामनाथपद्धत्यां स्वर्णपट्टविभूषितां ध्यात्वा इति । (पूर्वादिमेखलासु) पूर्वादिमध्यमेखलास्वित्यर्थः । तथा श्रीमत्सुप्रभेदे
एकमेखलकुण्डञ्चेन्मेखलायां परिस्तरेत् । स्थण्डिले सैकताद्वाह्ये परिस्तरणमुच्यते ॥ द्विमेखले द्वितीये च मध्यमे च त्रिमेखले
इति । ('''तेषु''') परिस्तरणदर्भेषु । ('''परिधिविष्टरान्''') परिधयश्च कुण्डपरिस्तरणशाखाः परिधिर्यज्ञियतरौ इत्यमरः । विष्टराश्च दर्भमुष्टयः परिधिविष्टराः तान् । परिधिलक्षणमुक्तं श्रीमत्कामिके
तन्माना ऋजवस्सार्द्रास्तत्कुण्डसमिदुद्भवाः । निर्व्रणाश्च समच्छेदाः प्रोक्ताः परिधयस्समाः इति ।
विष्टरलक्षणमुक्तं श्रीमत्किरणे
शुद्धस्थानसमुत्पन्नाः कोमला ऋजवश्शुभाः । ख्याश्मशानवल्मीकचतुष्पथविवर्जिताः ॥ तैरेव विष्टरः कार्यस्त्रिंशद्दर्भकृतस्समः । हस्तमात्रप्रमाणस्स्याद्वेणिका वेष्टिका तथा
इति । ('''लालापनोदनाय''') लाला आस्यस्यंदीनी दन्तान्तर्गतोदकमिति यावत् । सृणिका स्यन्दिनी लाला इत्यमरः । तस्याः अपनोदनाय अपोहनाय । परिधिदेवतार्चनमाचष्टे ('''पूर्व''') इति ।विष्टराधिदेवतापूजामाह ('''विष्टरेषु''') इति । ('''ऐशान्याम्''') इति । ईशानस्य दक्षिणत इत्यर्थः । ('''नैर्ऋत्याम्''') इति । निर्-ऋतेरुत्तरत इत्यर्थः । ('''बालकम्''') अग्निशिशुम् । परिधिविष्टराधिदेवताः हुतवहाभिमुखा ज्ञेयाः । तथोक्तं श्रीमत्सोमशंभुचरणैः
पूर्वाद्युत्तरपर्यन्तं परिधिस्थाननुक्रमात् । इन्द्रादीशानपर्यन्तान् विष्टरस्थाननुक्रमात् ॥ अग्नेरभिमुखी भूतान्निजदिक्षु हृदाऽर्चयेत् ।
इति । अथ स्रुक्स्रुवसंस्कारमतिदिशति ('''ततः''') इति । ('''स्रुक्स्रुवौ''') स्रुक्च स्रुवश्च तौ । स्रवत्यधोमुखं घृतादिकमिति स्रुवः यज्ञोपकरणम् । एतयोर्लक्षणमुदितं श्रीमन्मृगेन्द्रे
ब्रह्माश्वत्थशमीपर्णशिंशपादिमहीरुहः । द्व्यंगुष्ठपर्वगोऽङ्गुष्ठदण्डो हस्तायतिस्स्रुवः ॥ गोष्पदाभार्द्धविष्कंभः कर्षाधारावटश्रियै ।विपर्ययोऽधिकन्यूनव्यंगवक्त्रवपुर्मतः ॥ षडंगायतिरष्टांगरसवेदेककन्धरा । पञ्चत्वद्रिमुखा हस्ता कन्यसा पृथुनिर्गमा ॥ वेदवृत्तादिपृथुता संस्थितिस्त्रिकलावटा । भागार्द्धमेखला शेषचित्रपत्रादिभूषणा ।वेद्यर्धसंमिताशाग्रगण्डिकासक्तवेदिका ।षण्णाहदण्डभागार्द्धनिवृत्तकलशोद्गता ॥ स्रुग्वराञ्जलिगोकर्णप्रणालाभपरिस्रुतिः ।
इति । ('''प्रताप्य''') इति । अनेन स्रुक्स्रवयोः काष्ठत्वं निरस्तमित्यवसेयम् ।तथा श्रीमज्ज्ञानरत्नावल्यां
तत्काष्ठत्व निरासाय वीक्षणादि विशोधितौ । प्रताप्य स्रुक्स्रुवावेतौ
इति । ('''तदग्रम्''') स्रुक्स्रुवाग्रम् । अग्रस्पर्शः शिवतत्वप्रकल्पनार्थः । ('''मध्येन''') दर्भमध्येन । ('''मध्यम्''') स्रुक्स्रुवमध्यम् ॥ विद्यातत्वन्यासाय मध्यस्पर्शः । मूलस्पर्शस्त्वात्मतत्वन्यासायेत्येवमाख्यातं श्रीमत्किरणव्याख्याकारेण । ('''ओं हूं ह्रीं हां शंबरैः''') शिखाशिरोहृदयबीजमन्त्रैः । तथा श्रीरामनाथपद्धत्यां हृच्छिरोज्वालिनी बीजैस्तेषु तत्वत्रयं न्यसेत् इति । अत्र ओं हूं शिवतत्वाय नमः ओं हूं शिवतत्वाधिपतये रुद्राय नमः एवं विद्यातत्वाद्यमपि विन्यसेत् । भुक्त्यर्थिनामयं क्रमो ज्ञेयः । मुमुक्षूणान्तु स्रुक्स्रुवमूलमध्याग्रेषु आत्मविद्याशिवतत्वव्याप्त्या संस्पृशेदिति प्रदर्शितं श्रीमन्मृगेन्द्रवृत्तिकारेण । ('''सव्यभागे''') दक्षिणपार्श्व इत्यर्थः । तथा श्रीमत्सुप्रभेदे दर्भोपरि तथा स्थाप्य स्रुक्स्रुवावपि दक्षिणे इति । ('''संस्थाप्य''') इति । अधोमुखौ प्रतिष्ठाप्येत्यर्थः । तथा श्रीमन्मृगेन्द्रे विधायावङ्मुखौ स्थाप्यौ सव्यतः कुशविष्टरे इति । अत्र उक्तस्रुक्स्रुवाभावे पलाशपर्णादिभिस्तौ कुर्यात् । तथा श्रीमत्किरणे
अभावे तु स्रुवञ्चापि पलाशौदुंबरैर्दलैः । किंशुकस्य दलैर्वापि इति ॥
स्रुक्स्रुवसंस्कारं समीरयित्वा आज्यसंस्कारं कथयति ('''अथ''') इति । ('''गव्यम्''') गोविकारम् । ('''आवर्त्य''') परिभ्राम्य । अयंपर्यग्निकरणाख्य संस्कार इत्युच्यते । तथा श्रीमज्ज्ञानरत्नावल्यां त्रिधा तद्भ्रामयेत् कुण्डे पर्यग्निकरणं हि तत् इति । ('''तापयित्वा''') तापनाख्यसंस्कारं कृत्वा । अत्र ओम् हां ब्रह्मणे स्वाहा इति मन्त्र होमेन तापनाख्यसंस्कारः कृतः । एवमुत्तरत्रापि बोध्यम् । तथोक्तं
स्वकां ब्रह्ममयीं मूर्तिं धृत्वाऽदाय कुशाग्रतः । ब्रह्मणे जुहुयाद्बिन्दुं स्वाहान्त हृदयाणुना ॥ तापनं तत् समाख्यातं पुनर्विष्णुमयं स्वयम् ।ईशकोणे घृतं धृत्वा विष्णवे जुहुयात् ततः ॥ इत्यधिश्रयणं ख्यातं नाभौ धृत्वा तथा घृतम् । रुद्रो रुद्राय तद्दद्यादुद्वासनमितीरितम् ॥क्वचिदेतत्त्रयं प्रोक्तं हृच्छिरश्चूलिकाणुभिः । इति ।
('''प्रादेशमात्रदर्भाग्रद्वयनिर्मितम्''') प्रादेशमात्रं प्रादेशप्रमाणं प्रादेशो नाम प्रसृततर्जन्यंगुष्ठः संकुचितान्यांगुलिः पाणिः । प्रादेशतालगोकर्णास्तर्जन्यादि युते तत्त् । अङ्गुष्ठे इत्यमरः । तच्च तत् दर्भाग्रद्वयञ्च अखण्डितमूलाग्रदर्भद्वयमित्यर्थः तेन निर्मितम् । ('''मध्यग्रन्थिपवित्रकम्''') मध्ये ग्रन्थिः ब्रह्मग्रन्थिः यस्य तत् मध्यग्रन्थि तच्च तत् पवित्रकम् । ('''अंगुष्ठानामिकाभ्यां गृहीत्वा''') इति । अत्र वामकराङ्गुष्ठानामिकाभ्यां मूलभागं तदितरांगुष्ठानामिकाभ्यां अग्रभागं गृह्णीयादिति बोध्यम् । तथा श्रीमज्ज्ञानरत्नावल्यां
अखण्डिताग्रमूलाश्च कुशाः प्रादेशमात्रकाः । घृतसंस्कृतये योज्या नेतरे शुभदा भृशम् ॥ कुशकाण्डद्वयं मध्ये ब्रह्मग्रन्थिकृता स्पदम् । द्विहस्तांगुष्ठानामाग्रे तन्मूलाग्रं निगृह्य च ॥ इति ।
('''उत्प्लवेत्''') उत्प्लवं कुर्यात् । अत्र उत्प्लवविधानानन्तरं तद्दर्भद्वयं मुक्तग्रन्थिं विधाय वह्नौ विनिक्षिपेत् । ('''तद्वत्''') इति । अत्र अन्येन तादृग्विधदर्भद्वयेन संप्लवनं विदध्यादिति बोध्यम् । तथा श्रीरामनाथपद्धत्यां
मध्यग्रन्थियुतं दर्भद्वयं प्रादेशसंमितम् । आदायानामिकांगुष्ठैर्वह्निसंमुखमुत्प्लवम् ॥ शस्त्रेण कृत्वा तं मुक्तग्रन्थिं वह्नौ विनिक्षिपेत् । तद्वत्तादृशदर्भेण हृदयेनात्मसंमुखम् ॥ कृत्वा संप्लवनं प्राग्वत्तदग्नावपि निक्षिपेत् । इति ॥
उत्प्लवस्तावत् अग्निज्वालोन्मुखं त्रेधोदीरणम् । संप्लवनं उन्नयनम् । सूक्ष्मरूपाणां विघ्नानामूर्ध्वगमनमुत्प्लवनम् । तेषामेव विघ्नानां सर्वथाऽधोगमनं संप्लवनमित्यभिहितं श्रीमद्बालज्ञानरत्नावल्याम् । ('''अभिमन्त्रितदग्धदर्भोल्मुकम्''') इति । अत्र उल्मुकशब्देनालातमुच्यते । अंगारोऽलातमुल्मुकम् इत्यमरः । ('''पवित्रीकृत्य''') इति । अत्र हृन्मन्त्रितदग्धदर्भस्य शस्त्रमस्त्रेण यः प्रक्षेपस्तेन तदाज्यं परिशुद्धं कृतमित्यवसेयम् । तथा समाख्यातं श्रीमत्सोमशंभुचरणैः हृदालब्धदग्धदर्भशस्त्रक्षेपात् पवित्रयेत् इति । ('''नीराज्य''') नीराजनसंस्कारं कृत्वा । ('''दक्षिणवामक्रमेण''') आत्मनः सव्यापसव्यक्रमेण । ('''संकल्प्य''') इति । घृते प्रविष्टं भावयित्वेत्यर्थः । ('''सव्यभागात्''') पिंगलानाडीगतवह्निभागादित्यर्थः । ('''आज्यम्''') तेजोमयघृतम् । ('''दक्षिणनेत्रे''') दक्षिणनेत्राग्नौ । ('''वामभागात्''') इडानाडीगतचन्द्रभागात् । ('''आज्यम्''') अमृतमयघृतम् । ('''वामनेत्रे''') वामनयनचन्द्रे । ('''मध्यात्''') सुषुम्नागताग्नीषोमात्मकमध्यभागात् । ('''आज्यम्''') तदुभयात्मकघृतम् । ('''मध्यनेत्रे''') तथाविधललाटनेत्र ज्योतिषि । ('''अग्निवक्त्रे च''') सोमानलात्मकज्वलनवदने । एवमुपपादितं श्रीमता ज्ञानरत्नावलीकारेण । ('''अग्नये स्विष्टकृते स्वाहा''') इति । एतदाहुतिं सव्यभागादाज्यमादाय दद्यात् । तथा श्रीरामनाथपद्धत्यां
घृतं भागत्रये स्विष्टकृते स्वेति ज्वलन्मुखे । हेत्युक्त्वा जुहुयाच्छिष्टं घृतभागत्रयेपि च ॥ इति ।
('''तत्तदाज्यभागेषु''') ते ते आज्यभागाः तत्तदाज्यभागाः तेषु । यद्यद्भागात् घृतमाहृतं तत्तद्भागे इत्यर्थः । अग्न्याद्याहुतयो नेत्रोद्घाटनार्थमत्रेति मन्तव्यम् । तथा व्याहृतं श्रीमत्सोमशंभुचरणैः उद्घाटनाय नेत्राणामग्नेर्नेत्रत्रये मुखे इति । ('''शुक्लपक्षे''') पूर्वपक्षे । ('''कृष्णपक्षे''') अपरपक्षे । पक्षौ पूर्वापरौ शुक्लकृष्णौ इत्यमरः । कृष्णपक्षे चन्द्रमसः क्षीयमाणतेति कृत्वा प्रथमन्तदाप्यायनाय सोमस्तर्प्य इति उपदिष्टं भगवता मृगेन्द्रवृत्तिकारेण ॥ अत्र आज्यस्य वीक्षणाद्यमृतीकरणान्ताः संस्कारा अष्टादश इत्यवधेयम् । तथा श्रीमज्ज्ञानरत्नावल्यां
वीक्षणाद्याश्चतस्रश्च वह्नौ तद्भ्रमणं त्रिधा । तापनाधिश्रयोद्वा समुत्प्लवस्संप्लवस्तथा ॥ पूतनीराजनोद्योतमन्त्र द्योतनमन्त्रणम् ।रक्षाकुण्ठनरोच्यं च घृतेऽष्टादश संस्कृतिः ॥ कर्तव्या मन्त्रपूता च तदा तदमृतं भवेत् । इति ॥
इत्थमाज्यसंस्कृतिमुदाहृत्य वक्त्राभिघार तत्सन्धान तदेकीकरण विधिमतिदिशति ('''तदनु''') इति । ('''अभिधारम्''') दीपनमित्यर्थः । तथा श्रीमत्षट्सहस्रिकायां वक्त्राभिघारः कथितो वक्त्राणां दीपनम् इति । यद्वा अभिधारन्नाम तद्वक्त्रे पृथक् पृथगाहुतिदानम् । सन्धानं नाम समष्टीकृतोच्चारेण द्वयोर्वक्त्रयोरेकाहुतिदानम् । वक्त्रैकीकरणं नाम पंचवक्त्राणामेकोच्चारेणाग्नितौ वायुगतया निर्-ऋतित ईशानगतयाऽविच्छिन्नया घृताहुतिधारया तत्तदभिवांछितवक्त्रे शेषवक्त्राणामन्तर्भावं विभाव्य तत्तदूर्ध्वगतवक्त्रस्य विवृतास्यकुण्डप्रमाणतया विभावनम् ॥ उक्तं च
वक्त्राणामभिघारोऽग्नेस्संध्यानं च मुखैकता । सद्येन जुहुयादाज्यं पश्चिमास्ये हविर्भुजः ॥ वामेनोदङ्मुखे हुत्वा दक्षास्ये बहुरूपिणा । पुंसा प्राग्वदनेचोर्ध्वमुखे चैशानमन्त्रतः ॥ एकैकया घृताहुत्या तिसृभिर्वाभिघारणम् । कथ्यते वक्त्रसन्धानं पञ्चाज्याहुतयो यथा ॥ जुहुयादजवामाभ्यां स्रुवेणाज्यन्तदास्ययोः । जुहुयाद्वामघोराभ्यां तद्वक्त्रद्वितये घृतम् ॥ घोरतत्पुरुषाभ्यां तु तद्वक्त्रद्वितये घृतम् । जुहुयात्पुरुषेशाभ्यां वदनद्वितये घृतम् ॥ ऐशे च जुहुयादाज्यं तद्वक्त्रे शिववाचकम् । एका वा वक्त्रसन्धाने तिस्रो वाऽहुतयो मताः ॥ कथितं वक्त्रसन्धानं कथ्यते च मुखैकता । सद्यादिपञ्चवक्त्रेभ्यो घृतधारां क्षिपेद्यथा ॥ अग्निकोणमथारभ्य वायुकोणान्तनीतया । निर्-ऋतेः कोणमारभ्य रुद्रकोणान्तनीतया ॥ कुर्वीत वदनैकत्वमविच्छिन्नाज्यधारया ।
इति । अत्रान्तरे प्रसंगात् एकैकाहुतिदानेन जिह्वादीपनमाचरेत् इति केचिद्विस्तररुचय ऊचिरे इति व्याहृतं श्रीमता सोमशंभुपद्धति व्याख्याकारेण ॥ अग्नेर्नामकरणसंस्कारं ब्रूते ('''ततः''') इति । अत्र इत्थं पारमेश्वरैर्गर्भधानादिभिः पंचभिः संस्कारैरग्निः शुद्धः कृतः अन्यथा शिवावाहनाद्यनुपपत्तिरिति तात्पर्यम् । तथा श्रीमत्सर्वज्ञानोत्तरे
नाशिवश्शिवकर्माणि कुरुते किं कदाचन । तदर्थन्तु शिवः कार्यो यत्नेन तु हुताशनः ॥ इति ॥
=== गर्भाधानादिसंस्कारानन्तरकरणीयविधिः ॥ ===
(क्रि) '''हृदयेन वागीशी वागीशावभ्यर्च्य [वागीशावागीशा-], विसृज्य, कुण्डमानं यथाऽभिलषितं वक्त्रं परिकल्प्य, मध्यजिह्वायां चूडान्तसंस्कारपूरणार्थं वौषडन्तमूलेन पूर्णान्दद्यात् । तद्यथा सर्पिषा स्रुचमापूर्य, पुष्करोपर्यधोमुखं [-पर्यथोमुखं-] स्रुवं कृत्वा, तदग्रे पुष्पन्दत्वा [-दग्रे च पुष्प-] वामदक्षिणहस्ताभ्यां शंखवत् संसक्ताभ्यां [संसप्ताभ्यां] पुरस्सव्येन [पुनस्सव्-] संलग्नौ तावुपादाय [-वुभादाय] समपादस्समुत्थाय [-समुद्धाय ऊर्द्ध्वकायो सामनाभ्यां] समुद्गतोर्ध्वकायोनाभ्यां तिर्यग्विधाय, स्रुगग्रदत्तदृष्टिर्वौषडन्तमूलमुच्चरन् [-मूले मुच्चरन्-] वामस्तनान्तं स्रुङ्मूलमानीयानुद्विग्नोधवप्रमाणधारया [-स्रुङ्मूलेमानीय अनुद्वग्नौ यव प्रमाण-] समस्तमाज्यं वह्नौ क्षिपेत् । इति पूर्णां विधायोपविश्य ॥'''
(प्र) अथ गर्भाधानादिसंस्कारविधिमुपवर्ण्याधुना तदनन्तर करणीयान्युदाहरति ('''हृदयेन''') इत्यादिना ('''उपविश्य''') इत्यन्तेन । ('''विसृज्य''') इति । अत्र देवीं सन्तर्प्य संहृत्य इति श्रुतेराहुतिदानानन्तरं विसृजेदिति केचित् । ('''कुण्डमानम्''') कुण्डप्रमाणम् । ('''यथाऽभिलषितम्''') यथा वाच्छितम् । अत्र ईशानवक्त्रैकीकरणवदन्येषु वदनेष्वपि
ईशानं मूर्तये होमः पुरुषेत्वणिमादिकम् । प्रायश्चित्तादिकं घोरे तथा स्यात् क्रूरकर्मणि ॥ वश्याकर्षणहोमार्थं वामदेवेन होमयेत् । नित्यकर्म विधानं तु वक्त्रेऽस्मिन् पश्चिमे हितम् ॥
इति श्रीमद्बृहत्कालोत्तर वचनेन कृत्यानुगुणमन्योन्यं वक्त्राणामेकत्वं परिकल्पयेदिति तात्पर्यम् । यद्वा
ध्यात्वा वक्त्राणि पञ्चाग्नेर्येन यत् कर्म वाञ्छितम् । तन्मुखमूर्ध्वं कुर्वीत तत्स्थाने चोर्ध्वगं मुखम् ॥ अन्तर्भाव्यान्यवक्त्राणि तच्च कुण्डप्रमाणकम् ।
इत्युक्तवदीशानवक्त्रे अन्यवक्त्रानामन्तर्भावं विभाव्य तत्तद्वक्त्रफलप्रदत्वमीशानवक्त्रे विभावयेदिति मन्तव्यम् । एकैव बहुरूपत्वात् सर्वकामफलप्रदा इति श्रुतेर्बहुरूपाख्यायामीशानजिह्वायां मुख्यत्वसिद्धेः तस्यामेव पूर्णाहुतिविधिमतिदिशति ('''मध्य''') इति । ('''मध्यजिह्वायाम्''') इति । बहुरूपाभिधानायामीशानरसनायामित्यर्थः ।तथा समीरितं श्रीमत्सोमशंभुचरणैः
हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा । जिह्वाऽग्नेरतिरक्ता च बहुरूपा च सप्तमी । रुद्रेन्द्रवह्निमांसादवरुणानिलगोचरे । हिरण्याद्या विनिर्दिष्टा रसनाष्षडनुक्रमात् ॥ मध्यतो बहुरूपा तु दक्षिणोत्तरगामिनी । इति ।
किमर्थं पूर्णादानमित्यत आह ('''चूडान्तसंस्कारपूरणार्थम्''') इति । चूडा शिखासंस्कारः अन्ते यस्य स चूडान्तः स चासौ संस्कारश्च तस्य पूरणार्थं पूर्तये । अत्र गर्भाधानादि नामकरणान्तपञ्चसंस्काराणां कृतत्वात् निष्क्रामणादिचूडान्तमित्यवसेयम् । तथा श्रीमज्ज्ञानरत्नावल्यां
अशेषसंस्कारसंसिद्ध्यै पश्चात् पूर्णां प्रदापयेत् । निष्क्रामणान्नप्राशश्च व्रतबन्धनमेव च ॥ चूडा गोदानपर्यन्तं वृत्तान्तं पूर्णया कृतम् ।
इति । ननु पूर्णां दद्यादित्युक्तं तत् कथमित्यत आह ('''तद्यथा''') इति । ('''सर्पिषा''') घृतेन । घृतमाज्यं हविस्सर्पिः इत्यमरः । ('''पुष्करोपरि''') पुष्करस्य आज्याश्रयपद्मस्य उपरि । यदाह श्रीमन्मृगेन्द्रवृत्तिकारः पुष्करविधिरित्यत्र आज्याश्रयणपद्मान्तं यावत् कल्प्य इति । ('''तदग्रे''') स्रुक्स्रुवाग्रे । ('''शंखवत्''') शंखेन तुल्यम् । एतल्लक्षणमुक्तं मुद्रालक्षणे स्रुक्स्रुवयोर्दण्डमूलाग्रद्वये वामसव्यपाण्यवष्टंभनात् शंखमुद्रा पूर्णावसरे कार्या इति । ('''तौ''') स्रुवस्रुवौ । ('''ऊर्ध्वकायः''') समकायशिरोग्रीवः । ('''अनिद्विग्नः''') निर्व्याकुलः । अन्तर्भावनावानितिवार्थः । तथा श्रीरामनाथपद्धत्यां
धृत्वा दक्षिणहस्तेन पश्चाद्वामेन पाणिना । समकायशिरोग्रीवस्स्थित्वाऽन्तः परिभावनात् ॥
इति । ('''क्षिपेत्''') पातयेदित्यर्थः ॥
=== अग्निभजनक्रमः ॥ ===
(क्रि) '''चर्वाद्यर्थमग्नि विभज्य, स्थानान्तरे [-नान्तरं] संरक्ष्य, शिवाग्नेराप्यायनायाकाराद्यैस्स्वरैष्षोडशांगुलानिध्मान् [शिवाग्रेराप्याय- काराद्यस्स्व-] पलाशान् जुहुयात् ॥'''
(प्र) अथ चरुपचनाद्यर्थं शिवावाहनात् पूर्वमग्निभजनक्रममाचष्टे (चरु) इत्यादिना ('''जुहुयात्''') इत्यन्तेन । ('''चर्वादि''') इति । आदिपदेन धूपादिरुच्यते । तदुक्तं सोमशंभुचरणैः धूपदीपचरूणां च कृते वह्निं समुद्धरेत् इति । ('''आप्यायनाय''') पुष्टये । ('''स्वरैः''') अकारादिविसर्गान्तैः षोडशस्वरैरित्यर्थः । तथा श्रीमद्वातुलशुद्धाख्यायां अकारादि विसर्गान्ता एते वै षोडश स्वराः इति । ('''इध्मान्''') इति । एतल्लक्षणमुक्तं श्रीमन्मृगेन्द्रे इध्मास्त्वस्फुटिता ऋज्व्यस्सत्वचष्षोडशांगुलाः इति । अत्र पंचसंस्कारसंस्कृते शिवहुताशने अनावाहितशिवे चरुवचनादि? आवाहितशिवे तु होमः कार्य इति तात्पर्यम् । तथा श्रीमत्पौष्करे
वाच्याश्चरुपुरोडाशाः पंचसंस्कारसंस्कृते । अनाहूतशिवे वह्नौ होमस्त्वावाहिते शिवे ॥
इति ॥
=== शिवाग्निप्रार्थनाप्रकारः ॥ ===
(क्रि) '''सितपद्मासनासीनं चतुर्वक्त्रं चतुर्भुजम् । लम्बकूर्चं ब्रह्ममूर्तिं जठामण्डित शेखरम् ॥ स्रुक्कमण्डलुदण्डाक्षमालाव्यग्रकरांबुजम् । (स्रुक्कमण्डलदण्डा-] । यद्वा स च रक्तत?नुस्त्र्यक्षश्शिवायुध [-सचरस्तदण्डस्त्र्यक्षशिशिवा-] भुजान्वितः ॥'''
'''इत्थमग्निं ध्यात्वा,'''
'''अग्ने त्वमैश्वरं तेजः पावनं परमं यतः । तस्मात् त्वदीयहृत्पद्मे संस्थाप्य [स्थाप्य] तर्पयामि [सन्तर्प्ययाम्यहम्] तम् ॥'''
'''इत्याज्ञां [इत्याज्ञा] प्रार्थ्य ॥'''
(प्र) अथ शिवाग्निध्यानकथनपूर्वं शिवावाहनाय तत्प्रार्थनाप्रकारमाह । ('''सित''') इत्यादिना ('''प्रार्थ्य''') इत्यन्तेन । ध्यानश्लोकार्थः स्पष्टः । ('''हे अग्ने''') इत्यामन्त्रणम् । ('''तेजः''') वीर्यम् । तेजो बले प्रतापेऽग्नावादित्य त्विषि रेतसि इति नानार्थरत्नमाला । ('''तम्''') शिवम् । ('''तर्पयामि''') मुहोमि । स्फुटमन्यत् ॥
=== अग्नौ शिवयजनपूर्वकहोमविधिः ॥ ===
(क्रि) '''अनन्तरमग्नेविग्रहमध्यनाड्या [-ग्नेर्विग्रहंमध्य-] प्रविश्य, तदीयहृत्पद्मे पूर्ववत् भास्वरं भगवन्तं सासनं सावरणंमभ्यर्च्य [-वत् सासनं भगवन्तं भास्वर सावरण-], धूपदीपौ [धूपदीपं] दत्वा, शिववक्त्राग्निवक्त्रयोस्सन्धानं कृत्वा, निस्सृत्य, मूलमन्त्रमुच्चार्य, वह्निस्थशिवनासाविनिर्गत-ज्योतीरूपशिखां [वह्निस्तशिव-] यागस्थशिवाशिखालीनां [-ज्योतिरूपंशिखाया याग] रश्मिमात्राविनियोगेनावच्छिन्नां [शिखशिखालनारश्मि वियोगेना- -च्छिन्नम्] उभयत्र कृतास्पदां ध्यायेत् [?] ॥ एवं कुंभयागाग्निशिवैरात्मना [-रात्माना] सह नाडीसन्धानं कृत्वा, मन्त्रतर्पणार्थं मूलमन्त्रमष्टोत्तरशतं तद्दशांशतो ब्रह्माङ्गानि च हुत्वा, पूर्णान्दत्वा, विशेष तर्पणाय च तथैव कृत्वा देशापादनकालापादन दुर्निमित्तशान्तिसुनिमित्तापादन हेतवे मूलेन चतुश्शतं [यथा शक्ति] हुत्वा, पूर्णासहितं [हुत्वा पवित्रकरणार्थं मूलेना शतं पूर्णा-] जुहुयात् । ततो मन्त्राणां तर्पणं दीपनं च विदध्यात् । ओम् हों ईशानमूर्द्धाय स्वाहा [-मन्त्रा तर्पणं कृत्वा दीपं च कुर्यात् । ओं हों ईशा-] इत्याद्येकैकया [इत्याद्यैकैका हुत्या-] घृताहुत्या तर्पणम् । ओम् हूं हों हूं [ह्रां] ईशान मूर्द्धाय हुंफट् इत्यादित्र्याहुत्या दीपनम् [इत्यादिन दीप-] ॥'''
(प्र) अथ कुण्डसंस्कारादीन्युपपाद्य अग्नौ शिवयजन पूर्वं होमविधिमाह ('''अनन्तरम्''') इत्यादिना ('''दीपनम्''') इत्यन्तेन । ('''प्रविश्य''') इति । प्रविष्टोऽहमिति स्वात्मानं संस्मृत्येत्यर्थः । ('''तदीयहृत्पद्मे''') शिवानलहृदयकमले । ('''भगवन्तम्''') भगः ऐश्वर्यादिगुणः यस्य स भगवान् तम् । श्रीविष्णुपुराणे
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥
इति श्रुतेः । अत्र शिवाग्नौ आधारशक्त्यादिभोगांगपूजान्तं शिवमभ्यर्च्य नैवेद्य समये होमं विदध्यात् । यदुपदिष्टं पूर्वं नित्याग्निकार्ये ततोऽग्निहृत्पद्मे शिवं पूर्ववदभ्यर्च्य नैवेद्य समये तिलादिभिर्यथाशक्ति मूलेन ब्रह्मांगैश्च दशांशतो हुत्वा पूर्णां दत्वा नैवेद्याय चरुं हुत्वा इति ।वक्ष्यति च पूर्णान्तं समस्तहोमविधिमुदीर्य अनन्तरं नैवेद्याचमनचन्दनतांबूलादीनि दत्वा इति । ('''शिववक्त्राग्निवक्त्रयोः''') शिवोर्द्ध्वाननवह्न्यूर्ध्वाननयोरित्यर्थः । तथा सिद्धान्तसारावल्यां
वागीश्यां जनितं शिवाग्निमनघं नाड्या प्रविश्यैव तत्स्वान्ते पूर्ववदर्चिते परशिवे निर्गत्यचोर्ध्वानने । वह्न्यूर्ध्वास्यसुसन्धिते इति ।
कुंभस्थण्डिलवह्निस्थ शिवानां गुरोश्च नाडी सन्धान क्रममाह ('''मूल''') इति ('''उभयत्र''') वह्निस्थयागस्थ शिवयोरित्यर्थः । उक्तन्यायमन्यत्राप्यतिदिशति ('''एवम्''') इति । ('''आत्मना सह''') इति । अत्र स्वनाडी सन्धानं कुंभयागाग्निशिवैः कुर्यादिति तात्पर्यम् । तथा श्रीमन्मृगेन्द्रपद्धत्यां कुर्यात् स्वनाडी सन्धानं कुंभयागाग्निशंकरैः इति । होमविधिमाह ('''मन्त्रतर्पणार्थम्''') इति । ('''तद्दशांशतः''') तस्य मूलमन्त्रस्य दशांशतः प्रतिदशकमेकैकत इत्यर्थः । अत्र प्रधानभूत शिवमन्त्रापेक्षया तदङ्गब्रह्मांगमन्त्राणां कल्पहोम इति तात्पर्यम् । यदुक्तं श्रीमत्किरणे दशांशतो नुजुहुयात् इति । ('''ब्रह्मांगानि च हुत्वा''') इति । अत्र ब्रह्मणामीशादीनां प्रयोगे पूर्वं प्रणवमुच्चार्यानन्तरं तत्तद्बीजमुच्चार्य पश्चादीशानमूर्द्धायेत्यादि व्योमव्यापिपदमध्यपठितमन्त्रानुच्चार्य होमयेदिति गुरवः । तथा श्रीमत्सोमशंभुचरणैरुक्तं होमं निर्वर्तयेदेवं ब्रह्मबीजपदैस्ततः इति । ('''देशापादनकालापादनदुर्निमित्तशान्तिसुनिमित्तापादन हेतवे''') देशापादनञ्च पञ्चाष्टकक्षेत्रेषु अन्यतमत्वपरिकल्पनं कालापादनं च आध्यात्मिकस्य कालस्य दीक्षानुगुणसंपादनम् । एवमुक्तं मृगेन्द्रपद्धतिव्याख्याकारेण । दुर्निमित्त शान्तिश्च दिव्यान्तरिक्ष भूमिगत दुर्निमित्त दोषप्रोत्सारणं सुनिमित्तापादनं च तथाभूत सुनिमित्तसंपादनम् । तथा श्रीमत्कालोत्तरे
देवा विमाने दृश्यन्ते नित्यं तच्छुभदं मतम् । कुसुमानि विचित्राणि यदा व्योम्नः पतन्ति च ॥ शस्तञ्चेन्द्रधनुः पुंसां सौम्यवृष्टिर्विशेषतः ।पांसुपातनवर्षं वा आकाशे शकुनं हि तत् ॥ शिखिहंसशुकादीनां मधुरालाप इष्यते । भानुरश्मिसमायोगादंभसः पतनं शुभम् ॥
शंखदुन्दुभिजीमूतवल्लकीनां ध्वनिश्शुभः । आचार्यविप्रनारीणां नरेन्द्राणां च दर्शनम् ॥ तथा हस्तितुरंगाणां दर्शनञ्चाति शस्यते । खरोष्ट्रमहिषव्याल व्रतिनां दर्शने शुभम् ॥ वाक्यं प्रशस्तन्तच्छस्तं यद्दुष्टो नेष्यतेध्वनिः । अकस्मात् कलहो नेष्टः प्रमादाद्दारुणो रवः ॥ प्रासादाकारवृक्षाणां साधूनां दर्शनन्तथा । यागकार्ये शुभेष्वेवमशुभे तु गृहस्य तु ॥ अघोरेण शतं होम्यम्
इति । देशापादनकालापादनदुर्निमित्तशान्तिसुनिमित्ता पादनानि तेषां हेतुः तस्मै । तर्पणदीपकरणक्रममाह ('''ततः''') इति ॥
=== चरुपाकः ॥ ===
(क्रि) '''विधिवत् चरुपाकं कृत्वा ॥'''
(प्र) अथ शिवयजनं होमक्रमञ्चोपवर्ण्य तदनन्तरं किं कुर्यादित्याशंक्य चरुं पचेदित्याह ('''विधिवत्''') इत्यादिना ('''कृत्वा''') इत्यन्तेन । अत्र चरुकरणे कर्तव्यं दीक्षाविधौ वक्ष्यमाणवदवसेयम् ॥
=== पवित्राणामधिवासदिने कर्तव्यत्वम् ॥ ===
(क्रि) '''ततः पवित्राणि शुद्धपात्रस्थानि समादाय, अग्निसन्निधौ समानीय, कुण्डपश्चिमभागे सदर्भे प्रणवासनमण्डले निधायास्त्रेण संप्रोक्ष्य, तन्तुनवकेषु प्रणवं चन्द्रं वह्निं [-चन्द्रवह्निं-] ब्रह्माणं नागं गुहं रविं सादाख्यं सर्वदेवांश्च क्रमेण प्रणव नमस्कार युक्तेन चतुर्थ्यन्तेन [युक्ते चतु-] स्वस्व नाम्ना विन्यस्य [विन्यसेत्], ग्रन्थिषु प्रकृतिं पौरुषीं [पौरुषं] वीरामपराजितां [परामपरा-] जयां विजयामजितां [-जयां जितां] सदाशिवां मनोन्मनीं सर्वतोमुखीञ्च [-मुखञ्च] पूर्ववत् स्वस्वनाम्ना विन्यसेत् [पूजयेत्] ॥ तत्वपवित्रके [-पवित्रे] गंगावतारके द्विरष्टककलाश्शिवशक्तिर्विन्यसेत् [द्विरष्टकलाश्शिवं शक्तिं च विन्य-] ॥ पवित्रचतुष्टये मण्डलचतुष्टयं [मण्डले-] साधिपतिं [स्याधिपं] विन्यस्य [संपूज्य], संहितयाऽभिमन्त्र्य [संहितभिम-] कृष्णाजिनादिना समाच्छाद्य संवत्सरात्मकं, सर्वकृत्यसाक्षिणमव्ययं [-रात्मक सर्व-] गोप्तारं संश्रयं कर्मफलप्राप्तिनिमित्तबन्धनं शिवमनुस्मरन् मन्त्रसंहितया [-ताया] एकविंशतिकृत्वस्संपाताभिहुतानि कृत्वा अस्त्रेण संरक्ष्य, कवचेनावकुण्ठ्यामृतीकृत्य, कुंभसमीपे स्थापयेत् ।'''
(प्र) अथ पवित्राणामधिवासदिने कर्तव्यतामाह ('''ततः पवित्राणि''') इत्यादिना ('''स्थापयेत्''') इत्यन्तेन । सूत्राधिदेवतान्यासक्रममाह ('''तन्तुनवकेषु''') इति ।पवित्राणां त्रिगुणत्रिगुणीकृतसूत्रेष्वित्यर्थः । तथा समभिहितं श्रीमत्सोमशंभुचरणैः
कर्त्रितं द्विजकन्याभिस्त्रिगुणं त्रिगुणीकृतम् । इति ।
चकार उक्तसमुच्चयार्थः । ('''प्रणवनमस्कारयुक्तेन''') प्रणवश्च नमस्कारश्च नमः पदं प्रणवनमस्कारौ ताभ्यां युक्तं तेन ('''चतुर्थ्यन्तेन''') चतुर्थी चतुर्थीविभक्तिः अन्ते यस्य तत् तथोक्तं तेन । ('''स्वस्वनाम्ना''') प्रणवचन्द्रादिनामधेयेन । अत्र ओं हां प्रणवाय नमः इत्यादि ज्ञेयम् । तत्वपवित्रकस्थ ग्रन्थिदशकाधिदेवतान्यासक्रममाह ('''ग्रन्थिषु''') इति । ('''पूर्ववत्''') इति । प्रणवनमस्कारयुक्तेन चतुर्थ्यन्तेनेत्यर्थः । ('''स्वस्वनाम्ना''') प्रकृत्यादिसंज्ञया । गंगावतारकपवित्राष्टादश ग्रन्थ्यधिदेवतान्यासप्रकारमाह ('''गंगावतारके''') इति । गंगावतारग्रन्थिष्वित्यर्थः । ('''द्विरष्टककलाः''') प्रासादमन्त्रगतषोडशकलाः । अत्र प्रासादकलाः शिवशक्तिभ्यां सह न्यस्तव्या इति केचित् । ताभ्यां सह शशिन्यादयो न्यस्तव्या इत्यपरे । यथा
शशिनी शाखिनी लक्ष्मीः कामिनी च प्रभा तथा । पुष्पिणी पुष्टिभावा च आमुदा कुमुदा तथा ॥ आशासी शायिनी विद्या मोहिनी च प्रमोहिनी ।वितक्लिनी तथा सौम्या अमृता षोडशी कला ॥
इति । एवमुक्तं श्रीमता सोमशंभुपद्धतिटीकाकारेण ।
('''मण्डलचतुष्टयम्''') सूर्यमण्डलादिचतुष्कम् । ('''संवत्सरात्मकम्''') इति । संवत्सरः पवित्रारोपणदिवसात् प्रभृति अद्य अब्दं यावत् कालः स आत्मा शरीरमधिष्ठेयत्वेन यस्यासौ संवत्सरात्मकः तम् । ('''सर्वकृत्य साक्षिणम्''') सर्वकृत्यानि सांवत्सरिकनिखिलकर्माणि तेषां साक्षी उपद्रष्टा तम् । ('''अव्ययम्''') अक्षीणम् । तथा अक्षीणमव्ययम् इति । परिपूर्णमित्यर्थः । ('''गोप्तारम्''') सर्वकृत्यफलपालकमित्यर्थः । ('''एकविंशतिकृत्वः''') एकविंशतिवारेणेत्यर्थः । ('''संपाताभिहुतानि''') इति । एतल्लक्षणं दीक्षाविधौ चरुपचनविधाने वक्ष्यति संहितया स्वेत्यग्नौ हेति संस्कार्यस्योपरि शेषमाज्यं स्रुवं धुन्वन् पातयेत् इति ॥
=== गन्धपवित्रारोपणपूर्वकर्तव्यविधिः ॥ ===
(क्रि) '''ततश्शिवसूर्याय चरुं [चरुं] निवेद्य, तद्द्वारपालगणपतिगुरूंश्च पवित्रेणानुमोद्य [पतित्रेणा-], गन्धपुष्पदूर्वाक्षतान्वितं गन्धपवित्रं धूपयित्वा, ओं समस्तेत्यादिसूर्यनामविशिष्टमामंत्रणं [-मामन्त्रिणं-] पठित्वा, तन्मूलेन स्वाहान्तेन दत्वा, तदंगग्रहेभ्यश्च [तदङ्गेभ्योग्रहेभ्यश्च] स्वस्वमन्त्रैः स्वाहान्तैर्दत्वा, परमीकृत्य, जपन्निवेद्य [-कृत्यनजपं-], नमस्कृत्याचम्य, कृत सकलीकरणो यागधामादिं पूजोपकरणादिकं च कवचेन [-दिकं कवचेना] सूत्रेणावेष्ट्य, द्वारपालवास्तुनाथलक्ष्मीभ्यः [-णावेष्ट्यातद्वारं-] क्रमेण पवित्रकन्दत्वा [-त्रं दत्वा-], इन्द्रादिलोकपालेभ्यस्सास्त्रेभ्यः स्वस्वमन्त्रैः [-लेभ्यश्च स्वस्व-] स्वाहान्तैर्गन्धपवित्रन्निवेदयेत् [-मन्त्रैः गन्ध-] । ततस्समस्तेत्यादि पठित्वा स्वाहान्तं शिवमन्त्रेण शिवकुंभास्त्रवर्द्धन्योश्चरु निवेदन पूर्वं गन्धपवित्रमारोप्य, जप्त्वा निवेद्य, गणपति [-पतिरूपपवि-] गुरूंश्च पवित्रेणाराद्ध्य, मण्डलसमीपमागत्य [-मागम्य] चरुन्निवेद्य[?] आमन्त्रणमन्त्रपूर्वं गन्धपवित्रन्दत्वा [-पवित्र निवेदयेत्] परमीकरणपूर्वं जपं कृत्वा निवेद्य क्षमाप्य ॥'''
(प्र) अथ पवित्राणां कर्तव्यतामभिधाय देवस्य गन्धपवित्रारोपणार्थं तत्पूर्वकरणीयान्याह ('''ततः''') इत्यादिना ('''क्षमाप्य''') इत्यन्तेन । तत्र तावत् सूर्यस्य गन्धपवित्रारोपणमाह ('''शिवसूर्याय''') इति । ('''गन्धपवित्रकम्''') इति । एतल्लक्षणमुक्तं प्राक् निर्दिष्टम् । वक्ष्यति च एकग्रन्ध्यल्पतन्तुकम् इति । ('''ओं समस्तेत्यादि''') इति । आदिशब्दवाच्यमग्रे वक्ष्यति । ('''सूर्यनामविशिष्टम्''') इति । अत्र सर्वथा सर्वदा शंभो इत्यत्र शंभुपदं विहाय सर्वथा सर्वदा सूर्य नमस्तेस्तु इत्यादि पठेत् । ('''तन्मूलेन''') सूर्यमूलमन्त्रेण । ('''स्वस्वमन्त्रैः''') हृदयादिसोमादिमन्त्रैः । यागमण्डपाद्यस्य सूत्रवेष्टनमाचष्टे ('''आचम्य कृतसकलीकरणः''') इति । ('''यागधामादि''') इति । आदिपदेन वृषभस्थानादि निगद्यते । तदुक्तं श्रीमत्सोमशंभुचरणैः
यागधामवृषस्थानप्रासादानलसंश्रयात् । कारकौप्यंच सूत्रेण वर्मणा परिवेष्टयेत् ॥ इति ।
द्वारादीनां गन्धपवित्रारोपणमाह ('''द्वार''') इति । दिक्पालानां गन्धपवित्रारोपणमाह ('''इन्द्रादि''') इति । शिवकलशवर्द्धन्योः पवित्रारोपणमाह ('''शिवकुंभ''') इति । गणपतिगुरूणां पवित्रारोपणमाह ('''गणपति''') इति । ('''पवित्रेणाराध्य''') इति । अत्र पवित्राराधनानन्तरं त्वदाज्ञया अविघ्नमेतत् कर्म भवेदिति प्रार्थ्य पंक्तिगुरुभ्योऽप्येवमेव कथ्यताम् । मण्डलेशस्य पवित्रारोपणमाह ('''मण्डल''') इति । ('''आमन्त्रणमन्त्रपूर्वम्''') आमन्त्रणमन्त्रः ओं समस्तेत्याद्यः कारिकारूपो मन्त्रः पूर्वः यस्य तत् तथोक्तम् । ('''क्षमाप्य''') क्षन्तव्यमिति विज्ञाप्य ॥
=== शिवस्य व्रतभोगाङ्ग द्रव्यनिवेदनविधिः ॥ ===
(क्रि) '''देवसमीपं गत्वा, स्वासने समुपविश्य, संपूज्य, व्रतचर्याद्यंगानि निवेदयेत् । तत्र प्राच्यान्तत्पुरुषेण दन्तकाष्ठं, दक्षिणस्यामघोरेण [-दक्षिणेघोरेण] भस्म, पश्चिमायां सद्योजातेन मृदं, उत्तरस्यां वामदेवेन धात्री फलोदके, ऐशान्यां [फलोदकेनैशा-] वा जलं [न्मां जलं] सपञ्चगव्यमीशेन [-मीशाने] पुनस्तत्रैव मूलेन शिरसा वा सुपुष्पाणि [पुषाणि] गोरोचनामाग्नेय्यां हृदा [हृद] अगरुं [अगरूं] नैर्ऋत्यां [नै-ऋते] शिखया [शिखायां] वायव्ये चन्दनागरुकर्पूरकुंकुमानि विशिष्टानि समानीय [-शिष्टानि मान्यानि सामान्यानि] कवचेन निवेद्य, पश्चिमे सद्येन होमद्रव्याणि सकुशानि तिलाज्यादीनि रूपिणा दण्डाक्षसूत्रकौपीनभिक्षापात्राणि [-भिक्षपात्रा-] व्रतांगानि दक्षिणे कज्जलं कुंकुमं तैलं शलाकां केशशोधनं तांबूलं दर्पणं रोचनादि [दर्पणरोचनादीनि] वामदेवेन उत्तरस्यामीशानेन आसनपादुकापात्रयोगपट्टातपत्राण्यैशान्याञ्चरुमाज्यञ्च [-दुकंपात्र- तपात्रेणैशान्या-] गन्धादि च पूर्वस्यान्नरेण [-धादि पूर्व-] निवेदयेत् [विनिवेदयेत्] । यदसंपन्नमेतेषां मनसा [मनसं] तत् प्रकल्पयेत् ॥'''
(प्र) अथ मण्डपाद्यस्य मण्डपावरणदेवतादीनां च गन्धपवित्रारोपण क्रममुपवर्ण्य शिवस्य व्रतभोगाङ्गद्रव्य निवेदन विधिमतिदिशति ('''देव''') इत्यादिना ('''प्रकल्पयेत्''') इत्यन्तेन । ('''व्रतचर्याद्यंगानि''') व्रतचर्या व्रतानुष्ठानं आदिर्यस्य तत् तथोक्तं तस्य अङ्गानि दन्तकाष्ठादि साधनानि । कथं निवेदयेदित्यत आह ('''तत्र''') इति । ('''तत्र''') तेषु व्रतचर्याद्यङ्गेष्वित्यर्थः । ('''धात्रीफलोदके''') धात्रीफलञ्च उदकञ्च ते । ('''ऐशान्यां वा जलम्''') इति । अत्र स्थानभेदो मन्त्रभेदश्च ज्ञेयः । तथा सन्दिष्टं श्रीमत्सोमशंभुचरणैः
उत्तरे देवदेवस्य दद्यादामलकीफलम् । जलं च वामदेवेन शिरसा वापि पावनम् ॥ ऐशान्यामीशमन्त्रेण मूलमन्त्रेण वा जलम् ।
इति । ('''रूपिणा''') अघोरमन्त्रेण । ('''गन्धादि''') इति । आदिपदेन हस्तोद्वर्तनमुखवासादि सूच्यते । दन्तकाष्ठमृद्भस्म जलगव्यहोमद्रव्यदण्डाक्षसूत्रादिव्रतोपयोगि द्रव्यजातं व्रतांगं व्रतवृद्धये देयम् । एवं निर्णीतं श्रीमता सोमशंभुपद्धतिटीकाकारेण ।ननु कुंकुमादिद्रव्यासंभवे कथमित्याशंक्य विन्यसेत् तत् पुनस्सर्वं यथा मानसवैभवम् इति श्रीमन्मृगेन्द्रश्रुतिं हृदि निधाय यथालाभं निवेदयेदित्याह ('''यदसंपन्नम्''') इति ॥
=== गन्धपवित्रारोपणक्रमः ॥ ===
(क्रि) '''तदनु देवमष्टपुष्पिकया [-पुष्टिकया] संपूज्य, ततश्चरोश्शिवभागमस्त्रप्रोक्षितं कवचावकुण्ठितं हृन्मन्त्रपूजितममृतीकृतं [ह्रां मन्त्र-] भगवते निवेद्य, नित्यवत् द्वारपालेभ्य आत्मने [-पाले आत्मने] गणपतिलक्ष्मीगुरुपंक्तिभ्यश्च पवित्रन्दत्वा पश्चात् शिवाय [शिवासनाय] निवेद्य, गन्धादिवासितमेकग्रन्थ्यल्पतन्तुकन्धूपितं [ग्रन्धादिवासीत - ग्रन्ध्यल्प- -क?] सपुष्पमामन्त्रणपवित्रकमंजलावादाय आमन्त्रणात्मकं मन्त्रं [सुपुष्प- -कुमन्त्रणपदात्मकमन्त्र] पठेत् ॥ ओम् समस्तविधिविच्छिद्र पूरणेश [-विधिवच्छिद्र-] मखंप्रति ।प्रभवामन्त्रयामि [प्रभभवान्मन्त्र-] त्वां [त्वा] त्वदिछावाप्तकारकः [त्वदिक-] ॥ तत्सिद्धिमनुजानी हि यजतश्चिदचित्पदे । सर्वधा सर्वदा शंभो नमस्तेऽस्तु प्रसीद मे ॥ यद्वा [?] आमन्त्रितोऽसिदेवेश सहदेव्या गणेश्वरैः । मन्त्रेशैर्लोकपालैश्च सहितः परिवारकैः ॥ निवेदयाम्यहन्तुभ्यं प्रभाते तु पवित्रकम् । नियमञ्च करिष्यामि परमेश तवाज्ञया ॥ सद्योधिवाशे तु सद्यः [-वाशे भवतः सद्यः] काले पवित्रकमिति पठेत् । एवमामन्त्र्य, रेचकेणामृतीकृत्य, मूलं लयान्तमुच्चार्य, शिवाय दत्वा, ब्रह्मांगानां च दत्वा [जप्त्वा], धूपदीपादिभिर्देवं सन्तोष्य, मूलेन पुष्पाञ्जलिं दत्वा, अमृतमुद्रां महामुद्राञ्च विधाय ॥'''
(प्र) अथ व्रतचर्याद्यङ्गनिवेदनप्रकारं समुदीर्य देवस्य रज्जुं कृत्वा तु रंजयेत् बन्धयत्नेन रज्ज्वा तु ग्रन्थयेत्तु रुरो विदुः इति गन्धपवित्रारोपणक्रमं स्पष्टीकरोति ('''तदनु देवम्''') इत्यादिना ('''विधाय''') इत्यन्तेन । ('''गंधाधिवासितम्''') इति । अत्र गन्धपदेन कृष्णागरुकर्पूरः सूच्यते । तथा श्रीमद्रौरवे
कृष्णागरुश्च कर्पूर कस्तूरी नवनीतकम् । ननं घोषोशिरश्चैव चन्दनञ्च फलत्रयम् ॥ एलालवंगतक्कोलं घात्रं गोरोचनं तथा । गन्ध द्रव्यमिति प्रोक्तं रञ्जद्रव्यमथोच्यते ॥ गैरिकं जातिलिङ्गञ्च कुंकुमं रोचनं तथा ।रक्तचन्दनसंयुक्तं कर्पूरेण विमिश्रितम् । मनोशिला रजनी चैव मंजिष्ठा दर्विरेव च ॥ रञ्जद्रव्यमिति प्रोक्तं रञ्जयेत्तु पवित्रकम् । त्रिगुणीकृत सूत्रेण
इति । तथा श्रीमन्मोहशूरोत्तरे
मुरावांसी वचा कुष्ठं शैलेयं रजनीद्वयम् । मुसली चैव मुस्तं च सर्वौषधिगणस्स्मृतः ॥
('''अल्पतन्तुकम्''') इति । तत्तदधिकरणोचितपवित्रगततन्तु संख्यया हीनतन्तुकमित्यर्थः । ('''आमन्त्रणपदात्मकम्''') इति । अत्र पदशब्दो लक्ष्मवाचकः । यदाहामरदत्तः पदं व्यवस्थितत्राणस्थानलक्ष्मांघ्रिवस्तुषु इति । आमन्त्रणद्योतकवाक्यसमूहात्मकं मन्त्रमित्यर्थः । तदुक्तं श्रीमन्मतङ्गे पठेन्मन्त्रोत्तमं विद्वानामन्त्रणपदात्मकम् इति । ननु आमन्त्रणमन्त्रं पठेदित्युक्तं तत् कथमित्याशंक्य तन्मन्त्रं स्पष्टीकरोति ('''ओं समस्त''') इति । ओमिति मन्त्रदीपनार्थम् । ('''समस्तविधिविच्छिद्रपूरणेश''') समस्तविधयः निजमूर्त्याद्यधिकरण भेदेन बहुविधत्वेन प्राक् प्रतिपादिताः नित्यनैमित्तिककाम्यभेदभिन्नाः पवित्रारोहण कालात् पूर्वमनुष्ठिताः सांगोपांगाः सर्वपूजाविधयः तेषां विच्छिद्राणि अन्तरायद्वारेण असंपूर्णकरणादिलक्षणक्लिष्टादिसंज्ञत्वेन वक्ष्यमाणानि तेषां पूरणेश परिपूरणक्षम । ('''मखं प्रति''') शिवयज्ञं प्रति । ('''प्रभो''') स्वामिन् । ('''त्वदिच्छावाप्तकारकः''') त्वदीया ज्ञालब्धोपकरणः । ('''आमन्त्रयामि''') विशेषसपर्याग्रहणायानुज्ञापयामि । यच्छ्रूयते आवाहनं न सन्निध्यै पूजाऽनुज्ञप्तयेऽन्वहम् इति । ('''तत्सिद्धिम्''') पवित्राख्यकर्मफलनिष्पत्तिम् । शेषं सुगमम् । आमन्त्रण प्रकारान्तरमाह ('''यद्वा''') इति । ('''नियमम्''') इति । व्रतावधेर्नियमम् । सुबोधमन्यत् । ('''एवमामन्त्र्य''') इति । इत्थं संबोध्येत्यर्थः । ('''रेचकेणामृतीकृत्य''') इति । अत्र अञ्जलिगतं पवित्रममृतीकुर्यादिति तात्पर्यम् । तदुक्तं श्रीमत्सोमशंभुचरणैः
इत्येवं देवमामन्त्र्य रेचकेनामृतीकृतम् । शिवान्तं मूलमुच्चार्य तच्छिवाय निवेदयेत् ॥
इति । ('''लयान्तम्''') द्वादशान्तावधि ॥
=== गन्धपवित्रारोपणानन्तरकरणीयविधिः ॥ ===
(क्रि) '''जप्त्वा [जप्ता] निवेद्य, ब्रह्मांगानां दशांशतो [दशांशं] जप्त्वा निवेद्य, प्रदक्षिणीकृत्य [-क्षिणीकृत्या] साष्टाङ्गं प्रणमेत् ॥'''
(प्र) अथ देवस्य गन्धपवित्रारोपणप्रकारमुदाहृत्य तदनन्तर करणीयान्याह ('''जप्त्वा''') इत्यादिना ('''प्रणमेत्''') इत्यन्तेन ॥
=== अग्न्यधिकरण शिवार्थक्रिया ॥ ===
(क्रि) '''ततोऽग्निस्थाय भगवते चरोस्तृतीयांशं हुत्वा, मन्त्रेण [आमन्त्रेण] पवित्रकन्दत्वा, ब्रह्माङ्गेभ्यश्च दत्वा [दत्वां प्रायश्चित्ता-], क्षमाप्य, पूर्णां दत्वा, प्रायश्चितार्थं मूलेनाष्टोत्तरशतं हुत्वा, पूर्णां विधाय, नैवेद्याचमनचन्दनतांबूलादीनि निवेद्य भस्माभिवन्द्य, निरोधार्घ्यं [नव्याचमनतांबूलादि निवेद्य निरोधा-] दत्वा, शिवं [शिव?] निष्ठुरया [निष्ठुया?] निरोध्य, व्याहृतिहोमं [व्याहृति] कृत्वा [दत्वा], स्विष्ट कृदाहुतिं [कृदाहुतीश्च?] च कृत्वा, वह्निमपि निरुद्ध्य ॥'''
(प्र) अथ अग्न्याधिकरणेपि तत्क्रियामाह ('''ततः''') इत्यादिना ('''निरुद्ध्य''') इत्यन्तेन । ('''चरोस्तृतीयांशं हुत्वा''') इति । अत्रायमनुष्ठानक्रमः
विधिवच्चरुकं कृत्वा संपाताहुतिशोधितम् । देवाग्न्यात्मभेदेन दर्व्या तं विभजेत्त्रिधा ॥ दत्वा भागौ शिवाग्निभ्यां संरक्षन् भागमात्मनः ।
इति श्रीमत्सोमशंभुपद्धतिश्रुते चरुं देवाग्न्यात्मनिमित्तं त्रिधा विभजेत् । अनन्तरं शिवाय कल्पितं भागं पञ्चधा विभज्य कलशकर्करीमण्डलस्वेष्टलिंगाधिकरणस्थाय शिवाय दत्वा शेषं व्रतांगनियमन काले निवेदनीयम् । तथा अग्न्यर्थं भागं चतुर्धा विभज्य एकं भागं निवेदनस्य चरुनिवेदनानन्तरं हुत्वा द्वितीयेनान्तर्बलिं दत्वा तृतीयमग्नौ पवित्रारोपणकाले हुत्वा तच्च दत्वा तुर्येण बलिर्देयः । तथा आत्मभागं स्वात्मशिष्यसंख्यया विभज्य कर्मान्ते तैस्सह प्राशनीयमिति ॥
=== बलिविधानम् ॥ ===
(क्रि) '''परिधिविष्टरस्तेभ्यो ब्रह्मादिभ्य इन्द्रादिभ्योऽन्तर्बलिभुग्भ्यो रुद्रादिभ्यश्च बहिर्बलिभुग्भ्य इन्द्रादिभ्यश्च स चरुं [सचरू] पवित्रकन्दत्वा [पवित्रन्दत्वा] ॥'''
(प्र) अथ बलिविधानं ('''परिधि''') इत्यादि ('''दत्वा''') इत्यन्तम् ।अन्तर्बहिर्बलिविधानं प्राक् प्रदर्शितम् ॥
=== बलिविधानानन्तरकरणीयविधिः ॥ ===
(क्रि) '''समाचम्य, स्तोत्रवन्दनं कृत्वा, कृत सकलीकरणो मण्डलस्थमपि समर्पितक्रियाशेषञ्च संपूज्य ॥'''
(प्र) अथ तदनन्तरकरणीयान्याह ('''समाचम्य''') इत्यादिना ('''संपूज्य''') इत्यन्तेन ॥
=== संस्कृतपवित्ररक्षा ॥ ===
(क्रि) '''पूते वंशादिसंभवे पात्रे अस्त्रकवचहृदयानि विन्यस्य [विन्यस्त], तस्मिन्मूलेन पवित्राण्यारोप्य, पुनः हृदयकवचास्त्राणि विन्यस्य अन्येन विधाय, सूत्रैरावेष्ट्य, संपूज्य, संहितामन्त्रैस्संपूज्य [-वेष्ट्यसंहि-], कलशायतनस्थे [-यतस्थे] रक्षायै समर्प्य, विज्ञाप्य, लोकपालांश्च यागरक्षणे सावधानांश्च संभाव्य [-धानां संभा-], लिङ्गस्थमपि, शिवं संपूज्यानुज्ञाप्य ॥'''
(प्र) अथ संपातसंस्कृतस्य पवित्रस्य संस्कारानन्तरं रक्षणञ्चाह ('''पूते''') इत्यादिना ('''अनुज्ञाप्य''') इत्यन्तेन । ('''पूते''') परिशुद्धे । ('''वंशादिसंभवे''') वेण्वादिसमुत्पन्ने ॥
=== विद्यागुरुपूजादिकम् ॥ ===
(क्रि) '''सिद्धान्तपुस्तके गुरौ च पवित्रं दत्वा, नृत्तगीतादिभिर्देवस्य जागरणं विधाय, बहिर्निस्सृत्य आचम्य, शुचिर्गोमयकृतमण्डलत्रये पञ्चगव्यं चरुं दन्त धावनञ्च क्रमादासेव्याचम्य [-मादासेप्याच-], शुचिश्शय्यां [शुद्धशय्यां] दर्भैरास्तीर्य, बुभुक्षुः तिलैः प्राकारत्रयेण रक्षां [-भुक्षुः प्रकारत्रयेण तिलादिना रक्षां] कृत्वा, शिवमनुस्मरन् स्वपेत् । मुमुक्षुरप्येवं भस्मशय्यायां स्वपेत् [-मायां वा स्वपेत्] । इति पवित्राधिवासविधिः [-धिवासः-] ॥'''
(प्र) अथ विद्यागुरुपूजा ('''सिद्धान्त''') इत्यादि ('''विधाय''') इत्यन्तम् । अथ तदनन्तरं किं कुर्यादित्याशंक्याह ('''बहिः''') इत्यादिना ('''स्वपेत्''') इत्यन्तेन । उक्तार्थोपसंहारः ('''इति''') इति । समाप्त इति शेषः । इति पवित्राधिवासविधिव्याख्या ॥
=== पवित्राधिवासद्वितीयदिवसे पवित्रारोपण पूर्वकरणीयविधिः ॥ ===
(क्रि) '''अथ प्रातरुत्थाय कृतस्नानो विहितसन्ध्योपासनो [वीहिसन्ध्यो-] मण्टपमनुप्रविश्य, भूमिं संशोध्य [संशयोध्य], देवदेवमाराध्याविसृज्यैव, गन्धपवित्रं [-पवित्रकं] व्रतांगानि [व्रताङ्गान्यपि] पञ्चगव्यचरुवर्ज्यान्यादाय, शुद्धपात्रे कृत्वा ऐशान्यां मण्डलके संस्थाप्याष्टपुष्पन्दत्वा, शिवं विसृज्य [सृज्य], निर्माल्यादिकमपनीय, समाचम्य, शुद्धभूतले पूर्ववन्नित्याह्निकद्वयं कृत्वा, नैमित्तिकीं सन्ध्यां विशेष-तर्पणञ्च विधाय, पूर्ववत् सूर्यमभ्यर्च्य, द्वाराणि द्वारपालांश्च संपूज्य, पूर्ववत् पश्चिमद्वारेण [-द्वारेण प्रविश्य-] अन्तः प्रविश्य, वास्तोष्पतये पुष्पन्दत्वा, स्वासनं प्रणवेन संपूज्य समुपविश्य, भूतशुद्धिं विधाय, विहितान्तर्यजनहवनध्यानस्थानशुद्धिर्विशेषार्घ्यद्रव्य [-शुद्धिं विशे-] शोधनात्मपूजामन्त्रशुद्धिशिवहस्तपञ्चगव्यानि कृत्वा, वास्तुपतिं लक्ष्मीं शिवकलशमस्त्रं वर्द्धनीं [-वस्त्रवर्द्धनीं] लोकपालान् गणपतिं गुरूंश्च क्रमेणाभ्यर्च्य, मण्डलस्थमपि पूर्ववत् संपूज्य, लिङ्गस्थं विशेषेण पञ्चगव्यादिभिस्संस्नाप्य संपूज्य, कुण्डान्तिकभागत्य, कुण्डमस्त्रेण संप्रोक्ष्य, मेखलासु परिधिविष्टरेषु [परिविष्ट-] ब्रह्मादीन् [ब्रह्मादीन् लोक-] सास्त्रान् लोकपालांश्च संपूज्य, स्रुक्स्रुवावाज्यञ्च [-स्रुवाज्यञ्च] पूर्ववत् संस्कृत्य पूर्णां [संस्कृतपूर्णां] दत्वा, अग्निस्थं शिवं गन्धादिना सत्कृत्य मन्त्राणां सामान्यविशेषतर्पणे विधाय, दुस्स्वप्नादिशान्तये [-नादिचेन्तच्छान्तये-] अस्त्रेण अष्टोत्तरशतं प्रायश्चित्तं [-चितार्थ] हुत्वा, पूर्णां विधाय, पूर्ववत् चरुं संसाध्य, संपाद्य [संपात्य] पूर्ववत् विभजेत् ॥'''
(प्र) अथ एवं पवित्राधिवासनमुक्त्वा अनन्तरदिवसे पवित्रारोपणात् पूर्वकरणीयान्याह ('''अथ''') इत्यादिना ('''विभजेत्''') इत्यन्तेन । ('''देवं अविसृज्यैव''') इति । अत्र शिवमष्टपुष्पिकया अर्चयेदिति तात्पर्यं अष्टपुष्पिकाया विसर्जन समये विहितत्वात् । तथोक्तं श्रीमत्सोमशंभुचरणैः अष्ट पुष्पिकया देवं पूजयित्वा विसर्जयेत् इति । समनन्तरं वक्ष्यति च अष्टपुष्पं दत्वाशिवं विसृज्य इति ।('''नित्याह्निकद्वयम्''') प्रातर्मध्याह्नकृत्यद्वयम् । पूर्वदिनवत् नैमित्तिकं सन्ध्यावन्दनं विशेष तर्पणं च कुर्यादित्याह ('''नैमित्तिकीम्''') इति । अत्र पूजायां पवित्रदान समये गन्धपवित्रमपि देयमिति गुरवः ॥
=== मण्डपस्थितदेवानां पवित्रारोपणविधिः ॥ ===
(क्रि) '''ततस्सूर्याय चरुं निवेद्य, तद्द्वारपालगणपतिगुरूंश्च पवित्रेणानुमोद्य, सूर्यनामविशिष्टं [-नामभिधिष्टं] कालात्मेत्यादि [कलात्मनेत्यादि] पठित्वा, सूर्यमन्त्रेण पवित्राणि दत्वा, तदङ्गग्रहाणां च पवित्राणि [पवित्रं] दत्वा, जप्त्वा निवेद्याचम्य, कृतसकलीकरणश्शान्त्यादि द्वारेभ्यो नन्द्यादिभ्यः [नद्यादिभ्यः] पवित्रन्दत्वा, वास्तोष्पतये महालक्ष्म्यै [-लक्ष्म्यै] लोकपालेभ्यश्च [लोपाले-] पवित्रं दत्वा [समर्प्य], कुंभवर्द्धन्योश्चरु निवेदनपूर्वं कालात्मेत्यादि पथित्वा, पवित्राणि समारोप्य, गणपतये गुरुभ्यश्च पवित्रं समर्प्य, एवं मण्डलस्थाय [-वर्द्धन्योश्च गणपतिगुरुभ्यश्च समारो मण्डलं-], भगवते पवित्राणि दत्वा, ॥'''
(प्र) अथ मण्डपस्थितदेवानां पवित्रारोपणविधिमाह ('''ततः''') इत्यादिना ('''दत्वा''') इत्यन्तेन ॥
=== देवस्य पवित्रारोपण पूर्वकरणीयविधिः ॥ ===
(क्रि) '''लिङ्गस्थं [वित्राणि लिङ्ग-] शिवं संपूज्य, व्रतचर्याद्यंगानि [वृतचर्या-] पञ्चगव्यचरुरहितानि [गव्यचरू-] यथा स्थानं निवेद्य, तद्दिनसिद्धमपि पञ्चगव्यञ्चरुं [पञ्चव्यं चरु-] निवेद्य, नित्यवत् [नित्यद्वार-] द्वारपालात्मगणपतिलक्ष्मीगुरुपंक्तीः [लक्ष्मीं गुपङ्क्तिं] पवित्रेण संपूज्य ॥'''
(प्र) अथ देवस्य पवित्रारोपणाय तत्पूर्वकरणीयान्याह ('''लिङ्गस्थम्''') इत्यादिना ('''संपूज्य''') इत्यन्तेन । न्यस्ते च दन्तकाष्ठादौ यथास्थानं गुरूत्तम इति श्रीमन्मयश्रुतिं हृदि निधाय अनन्तरवासरेपि व्रतभोगाङ्गद्रव्याणि निवेदयेदित्याह ('''व्रतचर्याद्यङ्गानि''') इति । ('''यथास्थानम्''') इति । इन्द्रादीशानान्तासु दिक्षु इत्यर्थः । ('''तद्दिनसिद्धम्''') तदहर्मातम् । अत्र द्रव्यनिवेदने जलकुंकुमपञ्चगव्यतांबूलचरवो नूतना एव देयाः । इतराणि तु पूर्वदिनदत्तद्रव्याण्येवेत्याकूतम् । यदुक्तं प्राक् अविसृज्यैव गन्धपवित्रं व्रतांगान्यपि पञ्चगव्यचरुवर्ज्यान्यादाय शुद्धपात्रे कृत्वा इति ॥
=== शिवस्य पवित्रारोपण विधिः । ===
(क्रि) '''देवं सप्रकृतिमण्डलमभिनन्दितं [-मण्डलविनिन्दित] परदानोद्यतमभिध्यात्वा [-दानोद्यतत्यत्वा-], शिवं [शिव] कालात्मकं [कलाम्तकं] स्मरन् [स्मरेत्] वर्षाय नर्तुमासपक्षदिन घटिकाप्राणादिविग्रहं सर्वेन्द्रियशरीरार्थ व्यवहारैककारणं कृताकृतसमुत्सृष्टिक्लिष्टकर्मैकसाक्षिणं [कृतसमष्टं क्लिष्ट-] क्षेत्रगोप्तारमीशानं शरण्यं शुचिमानसः पवित्राणि [शुतिमव्ययं पवित्रा-] समादाय धूपयन् किञ्चित्कालसन्मुखी [किञ्चित्कलशसन्मुखी] विज्ञापयेत्'''
'''ओम् कालात्मना त्वया देव [देवा] यद्वृष्टं [यद्दुष्टं] मामके विधौ । कृत क्लिष्टं समुत्सृष्टं [कृतत्वष्टं समु-] हृतं गुप्तञ्च मत्कृतम् [मत्कत्म्] ॥'''
'''तदस्तु क्लिष्टम क्लिष्टं [तदस्रक्लिष्टमक्लिष्ट] कृतं पुष्टमसत्कृतम् ।सर्वात्मनाऽमुना शंभो पवित्रेण त्वदिच्छया ॥'''
'''ओं पूरय पूरय मखव्रतनियमेश्वराय स्वाहा'''
'''इत्युच्चार्य,'''
'''प्रकृत्यन्तव्याप्तिके ब्रह्मकारणपालिते आत्मतत्वे ओं हां हौं आत्मतत्वाधिपतये शिवाय स्वाहा'''
'''इति मायान्तमुच्चार्य [-यान्तमूच्चार्या],'''
'''शुद्धविद्यान्तव्याप्तिके विष्णुकारणपालिते विद्यातत्वे ओं हां हौं विद्यातत्वाधिपतये शिवाय स्वाहा'''
'''इति ईश्वरान्तमुच्चार्य [शिवान्त-],'''
'''शिवान्तव्याप्तिके रुद्रकारणपालिते शिवतत्वे ओं हां हौं शिवतत्वाधिपतये शिवाय स्वाहा'''
'''इति शिवान्तमुच्चार्य [-चार्यदूर्वा-], क्रमेण दूर्वापुष्पाक्षतोपेतं लिङ्गमूर्ध्नि पवित्रत्रयं दद्यात् मुमुक्षुः [मूक्षुः शिवतत्वाद्यु-] । बुभुक्षुस्तु शिवतत्वादिकमुच्चार्य पवित्रत्रयं दद्यात् । पश्चात्'''
'''सर्वकारणपालिते सर्वतत्वे ओं हां हौं सर्वतत्वाधिपतये शिवाय स्वाहा'''
'''इति लयान्तमुच्चार्य, सर्वतत्वात्मकं गंगावतारकं दत्वा, ब्रह्मांगेभ्यश्च पवित्राणि दत्वा, पुष्पाञ्जलिं शिवाय मूलेन दत्वा महामुद्रया परमीकृत्य ॥'''
(प्र) अथ शिवस्य पवित्रारोपण विधिमतिदिशति ('''देवम्''') इत्यादिना ('''परमीकृत्य''') इत्यन्तेन । ('''सप्रकृतिमण्डलम्''') विरिञ्चादिप्रधानमण्डल सहितं विरिञ्चाद्यभिष्टुतमित्यर्थः । तथा समाख्यातं सोमशंभुचरणैः स्तूयमानं विरिञ्चाद्यैस्सन्तुष्टं भावयेच्छिवम् इति । प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणे इति यादवः । कथं विज्ञापनं कुर्यादित्याह ('''ओम्''') इत्यादि । ('''कालात्मना''') त्रुटिलवनिमेषकाष्ठाकलामुहूर्तघटिकायामाहौरात्रपक्षमासर्त्वयनसंवत्सरयुगमन्वन्तरकल्पमहाकल्पाख्योऽष्टादशावयवः काल आत्मा शरीरं नित्याधिष्ठेयत्वेन यस्य स तथोक्तः तेन । ('''मामके विधौ''') मदीया व्यापारे । ('''यत् क्लिष्टं कृतम्''') असंपूर्णमनुष्टितम् । ('''यच्च समुत्सृष्टम्''') अज्ञानादिना यत् किञ्चन कर्म संस्कारमुपेक्ष्य कृतं नानुष्ठितं वा । ('''यच्च वा हृतम्''') कार्यवशात् बुद्धिपूर्वं व्यग्रतया वा स्वावसरमपि कृत्यं कृतम् । ('''यच्च वागुप्तम्''') वित्तशाठ्येन कृतम् । दुष्कृतमपि प्रायश्चित्ताभावात् लज्जया गोपितम् । तत् क्वचिद्दृष्टं कर्म क्लिष्टमक्लिष्टमस्तु असत्कृतं पुष्टमस्तु । अनेनैतत्समुत्सृष्टहृतगुप्तानां तन्त्रेणाभिधानं सर्वेषामसत्कृतत्वाविशेषात् । ('''सर्वात्मना''') आत्मतत्वादिरूपत्वेन सर्वव्यापकत्वेन सर्वपूरकेणेति यावत् । ('''अमुना''') पवित्रेण ।क्लिष्टाद्युपलक्षित सर्वकर्मच्छिद्राणि ('''पूरय पूरय मखव्रतनियमेश्वराय स्वाहा''') मखोयागः व्रतं कृष्णाष्टम्यादि नियमः अक्रोधादयः स्वयं कल्पितो वा तेषामीश्वरः तस्मै । स्वाहेत्यत्र स्वशब्दः स्वात्मवाची । हेतिशब्दः....
[Missing page no. 493]
क्षित्यादिमायान्ताध्वांशव्यापकमात्मतत्वमिति भावः ।('''ब्रह्मकारणपालिते''') इति । अत्र ब्रह्मा श्रीमत्किरणाद्युक्तत्वात् अशुद्धाध्वस्थितः शुद्ध एव न तु प्राकृत इति केचित् ।अणुशक्तिशंभुभेदेन मन्त्रमन्त्रेश्वराणामिव कारणेशानामपि त्रिविधत्वात् ब्रह्माद्यधिष्ठान युक्तशक्तिविशेषा एव तत्र ब्रह्मादिशब्देनोच्यन्त इति गुरवः । तदुक्तं श्रीमत्पराख्ये एको वा नामगैर्भेदैः पञ्चधा समवस्थितः इति । ('''आत्मतत्वे''') इति । अत्र सप्तमी निमित्तार्थे इति केचित् । अधिकरणार्थे सप्तमी तत्रत्वधिष्ठातारं शिवमित्याध्याहृत्य व्याख्येयमिति भणन्ति । एवमुत्तरत्रापि ज्ञेयम् । ('''मायान्तमुच्चार्य''') इति । अत्र माया तत्वान्तव्यापकस्य तालु पद्मे प्रकाशमानस्य रुद्रवाचकस्य मकारान्तमुच्चारः कार्यः ॥ द्वितीयपवित्रदानविधिमाह ('''शुद्ध''') इति । ('''शुद्धविद्यान्तव्याप्तिके''') शुद्धविद्यान्ता ईश्वरतत्वपर्यन्ता व्याप्तिः यस्य तत् तथोक्तं तस्मिन् । अत्र श्रीमन्मृगेन्द्रादौ ईश्वरतत्वस्य शुद्धविद्यायामन्तर्भाव श्रवणात् ईश्वरान्तं समुच्चार्येति लिङ्गेन चात्र लक्षणया विद्यातत्वशब्देन ईश्वरतत्वं विवक्षितम् । तत्तत्वार्द्धांशव्यापकं विद्यातत्वमित्याशयः । तदधिष्ठातारं शिवं ध्यात्वा । ('''ईश्वरान्तमुच्चार्य''') इति । अत्र ईश्वरतत्वान्तव्यापकस्य भ्रूमध्ये प्रकाशमानस्य ईश्वरवाचकस्य बिन्दोरन्तमुच्चारः कार्यः ॥ तृतीयपवित्रदानविधिमाचष्टे ('''शिव''') इति । ('''शिवान्तव्याप्तिके''') शिवान्ता शिवशक्त्यवधिः व्याप्तिः यस्य तत् तथोक्तं तस्मिन् । शक्तितत्वाध्वान्तव्यापकं शिवतत्वमिति यावत् । तस्मिन् अधिष्ठातारं शिवं ध्यात्वा । ('''शिवान्तमुच्चार्य''') इति ।अत्र ब्रह्मरन्ध्रान्ते प्रकाशमानस्य सदाशिव वाचकस्य अर्द्धचन्द्रनिरोधिभ्यां सहितस्य नादस्यान्तं मन्त्रमुच्चार्य लिंगमूर्ध्नि पवित्रं दद्यात् ॥ एवं केन पवित्रं देयमित्याशंक्याह ('''मुमुक्षुः''') इति । ('''मुमुक्षुः''') मुक्तिकामः नैष्ठिकदीक्षावानिति यावत् । कथमेतस्मादन्यस्येत्याशंक्याह ('''बुभुक्षुः''') इति । ('''बुभुक्षुः''') भुक्तिकामः भौतिकदीक्षा दीक्षित इत्यर्थः । न तु गृहस्थः । एष भेदो दीक्षायां स्पष्टयिष्यमाणत्वान्नेह प्रपञ्च्यते ॥ अत्र बुभुक्षु विषये केचित् ऊर्ध्वस्थायि शिवतत्वपवित्रस्य स्वाधोवर्तिविद्या....
[Missing pages no. 497 and 498]
'''......अकृतं वाक्यहीनञ्च तत्पूरय [तत्पूर्वय] महेश्वरः ॥'''
'''सुपूतस्त्वं सुरेशान [महेशान] पवित्रं पापनाशनम् । त्वया पवित्रितं सर्वं जगत् स्थावरजंगमम् [जगस्थाव-] ॥'''
'''खण्डितं यन्मया देव व्रतं वैकल्य योगतः । एकी भवतु तत्सर्वं तवाज्ञा सूत्रगुंभितम् [सूत्रकुंभित] ॥'''
'''इति विज्ञाप्य ॥'''
(प्र) अथ तदनन्तरकरणीयान्याह ('''पुष्पाञ्जलिपुटः''') इत्यादिना ('''विज्ञाप्य''') इत्यन्तेन । कथं विज्ञापयेदित्याशंक्य विज्ञापनमन्त्रमाह ('''ओं त्वं गतिः''') इति । ('''गतिः''') मुक्ति लक्षणा । तथोक्तं श्रीमत्स्वायंभुवे
दग्धसंसारबीजस्य या पुंसः पश्चिमा स्थितिः । सागतिस्तस्य विज्ञेया न देशान्तरसंस्थितिः ॥
इति ।
श्रीमत्पराख्येपि प्राप्तिस्स्यात् समताऽस्य तु इति । परमेश्वरस्य गतित्वासंभवात् तद्धेतुत्वेन गतिशब्दवाच्यत्वमिति ज्ञेयम् । ('''सर्वभूतानाम्''') निश्शेषजन्तूनाम् । खादौ जन्तौ तु भूतन्तु इति वैजयन्ती । ('''चराचरे''') स्थावरजंगमे । ('''संस्थितः''') लक्षणया दोषवचनाय तन्निवृत्तये चाधिष्ठातृतया सम्यक् स्थितः । ('''अन्तश्चारेण''') अन्तर्यामितया । ('''द्रष्टा''') शुभाशुभकर्मसाक्षी । ('''कर्मणा''') कायव्यापारेण । ('''मनसा''') ध्यानादि हेतुना । ('''वाचा''') स्तुत्यादिरूपया । ('''गतिः''') गन्तव्यम् । मदीयानां कायमनोवाक्साध्यानां क्रियाणां त्वमेव विषय इत्यर्थः । ('''अकृतम्''') च्युतं सन्ध्योपासनादि यत्तत् । ('''वाक्यहीनम्''') स्वागतविज्ञापनादि वाक्यं तस्य हीनम् । ('''सुपूतः''') सुष्ठु अतिशयेन शुद्धः अनादिनिर्मल इत्यर्थः । ('''पवित्रम्''') पतनत्राणहेतुः । ('''पापनाशनम्''') पापस्य मलादेर्नाशनं वस्तु त्वमेव । अत एव त्वया सर्वं पवित्रितम् । मया यद्व्रतं वैकल्ययोगतः खण्डितं विच्छिन्नं तत् सर्वं तवाज्ञा सूत्रगुंभितं भवदाज्ञासूत्रेण ग्रथितं एकीभवतु ॥
=== विज्ञापनानन्तरकरणीयविधिः ॥ ===
(क्रि) '''धूपदीपारात्रिकदर्पणच्छत्रचामराणि दत्वा, अनन्तादिभिस्स्तूयमानं सन्तुष्टं विभाव्य, अमृतीकरण-परमीकरणे विधाय [विधाया], जप्त्वा निवेद्य, ब्रह्मांगानां दशांशं जप्त्वा निवेदयेत् । आचार्यः सर्वदेवेभ्यः पवित्रमारोपयेत् । साधकस्साध्यमन्त्रस्यापि [-मन्त्रस्याभिवि-] दद्यात् । चतुर्मासादिक्रियापर्यवसानान्तं यथेष्टं गुरुणादिष्टं वा व्रतनियमं गृहीत्वा, देवं स्तोत्रैस्स्तुत्वा प्रणम्य क्षमापयित्वा, कुंडान्तिकमागत्याग्निस्थाय भगवते पवित्राण्यारोप्य, विधिवच्छिद्रपूर्तिस्थैर्याय [विधिच्चिद्रपूज्यैस्थैर्यां-] शताधिकं जुहुयात् । ततश्चरुं [चरूं] हुत्वा प्रायश्चित्तार्थं [-चितार्थ] मूलेन शतं हुत्वा, पूर्णां विधाय, नैवेद्याचमनचन्दनतांबूलादीनि निवेद्य, भस्मचन्दनं विधाय, शिवन्निरुद्ध्य, व्याहृतीर्हुत्वा, शिवाय पवित्रं दत्वा निरुद्ध्याग्निं स्विष्टकृदाहुतिं हुत्वा ॥ '''
(प्र) अथ विज्ञापनप्रकारं व्याहृत्य तदनन्तरकरणीयान्याह ('''धूपदीप''') इत्यादिना ('''हुत्वा''') इत्यन्तेन । ('''सर्वदेवेभ्यः''') यागमण्डपस्थितदेवेभ्यः । केचिन्नित्यकर्मणि पूजितानां देवानां पवित्रारोपणं कार्यमिति भणन्ति । साधकस्य साधिकारदीक्षादीक्षितत्वात् सोपि काम्यमन्त्रस्य ददेदित्याह ('''साधकः''') इति । पवित्रनियमग्रहण प्रकारमाह ('''चतुर्मास''') इति । ('''चतुर्मासादि क्रियापर्यवसान्तम्''') इति । अत्र मास त्रयादिरादिशब्दार्थः । तदुक्तं श्रीमत्सोमशंभुचरणैः
चतुरस्त्रीनथो द्वौ वा मासं मासार्द्धमेव च । सप्ताहं पञ्चरात्रं व त्र्यहमेकाहमेव च ॥
इति । क्रियापर्यवसानान्तमित्यत्र चतुर्मासादिविधानं सुप्त एव जनार्दने इति विहितत्वात् वुष्णुस्वापान्तावधिकमेव । तदवधिस्तु कार्तिकशुक्लद्वादश्येव कार्तिक्यां शुक्लद्वादश्यां कुरुते बोधनं हरिः इति वचनात् । अत एव श्रीमत्किरणे कृत्तिकाशुक्लनवम्यामेव पवित्रनियमावधिरित्यादिष्टं
यथा हि चतुरो मासान्नियमेन नयेत् खग । अवधिं कार्तिकीं कृत्वा नवमीं शुक्ल एव तु ॥
इति । अत एव तत्तिथिपर्यन्तमेव यथासंभवं यथारुचि
चातुर्मास्यादि व्रतग्रहणनियमो ग्राह्यः । एतन्नियमप्रकारश्च श्रीमत्पौष्करादावुक्तः यथा
संकल्प्य चतुरो मासांस्थानमाश्रित्य वाञ्छितम् । कार्यो नियमितैस्तैस्तु मृद्भस्मादिपरिग्रहः । आर्द्रच्छेदमथाध्वानं गुरुरन्यत्र वर्जयेत् ।
इति । श्रीमन्मोहशूरोत्तरश्रुतेरपि
न गन्तव्यं सहस्राक्ष पवित्रेत्वविवर्जिते । विसर्जिते तु गन्तव्यं स्वेच्छं वै यत्र रोचते ॥
इति । तत्र पक्षान्तरमाह ('''यथेष्टम्''') इति । ('''गुरुणाऽदिष्टं वा''') इति । अत्र परमावधित्वेनोक्तकालात् पूर्वं यथोक्तकालव्यतिरेकेण गुरुणा स्वयं यो नियमकालावधिरुद्दिष्टः सोपि वा ग्राह्यः इत्यवसेयम् । एवं श्रीमत्सोमशंभुपद्धतिव्याख्याकारेण निर्वर्णितम् ॥ अग्न्याधारस्य देवस्य पवित्रारोपणक्रमं व्रूते ('''कुण्डान्तिकम्''') इति । ('''पवित्राणि''') आत्मतत्वादिपवित्राणि । तदुक्तं श्रीमत्सोमशंभुचरणैः पावकस्थे शिवेप्येवं पवित्राणां चतुष्टयम् इति । ('''व्याहृतीर्हुत्वा''') इति । अत्र भूराद्याहुति चतुष्टयं देयमित्यवसेयम् ॥
=== बलिदानादिविधिः ॥ ===
(क्रि) '''परिधिविष्टरस्थेभ्यस्सपवित्रं बलिन्दत्वा निरुद्ध्यान्तर्बलिं बहिर्बलिञ्च सपवित्रन्दत्वा, स्तोत्र वन्दनपूर्वं सकलीकृत्य, गुरवे सिद्धान्तपुस्तकेभ्यश्च पवित्रन्दत्वा, मण्डलस्थं शिवं संपूज्य, कर्म निवेद्य, क्षमापयित्वा, लिङ्गस्थं कुंभस्थञ्च संपूज्य, लोकपालान् यागरक्षायै सावधानान् संभाव्य ॥'''
(प्र) अथ बलिदानादिविधिः ('''परिधि''') इत्यादि ('''संभाव्य''') इत्यन्तम् ।('''गुरवे''') इति । अत्र पञ्चब्रह्ममन्त्रेण पवित्रं देयम् । तथा श्रीमत्सुप्रभेदे
पञ्चब्रह्मणाचारोप्यमाचार्यस्य पवित्रकम् । शिष्यस्य तु षडंगेन अन्येषां हृदयेन तु ॥
इति ॥
=== सदस्यपूजाविधिः ॥ ===
(क्रि) '''यथाशक्ति भोजनाच्छादनादिभिर्दीक्षितान् संपूज्य, दीनान्धकृपणानाथबालवृद्धकृशातुरांश्च सन्तोष्य, अनेन दानेन प्रीयतां मे सदाशिव इति ब्रूयात् ॥ '''
(प्र) अथ सदस्यपूजामाह ('''यथाशक्ति''') इत्यादिना ('''ब्रूयात्''') इत्यन्तेन । ('''यथाशक्ति''') यथा विभवम् । ('''भोजनाच्छादनादिभिः''') भोजनवस्त्रचित्तादिभिः । ('''दीक्षितान्''') शिवदीक्षासंपन्नान् । ('''दीनान्धकृपणादींश्च''') कृपणः दरिद्रः कृपणो दुर्विधो दीनः इत्यमरः ।बालवृद्धादिरादिशब्दार्थः । ('''प्रीयताम्''') प्रियं कुर्यात् । ('''ब्रूयात्''') उच्यताम् ॥
=== भोजनविधिः ॥ ===
(क्रि) '''ततश्शिष्यैस्सह भुञ्जीत ॥'''
(प्र) अथ तदनन्तर करणीयमाह ('''ततः''') इत्यादिना ('''भुञ्जीत''') इत्यन्तेन ॥ एकाहपक्षे द्वितीयदिन करणविधिः ॥
(क्रि) '''अपरेद्युः स्नात्वा, सन्ध्यान्निर्वर्त्य, शिवात् पवित्राण्याहृत्य, पूर्वदिनवत् शुद्धपात्रे निधाय, अष्टपुष्पिकया देवं संपूज्य विसृज्य, नित्याह्निकद्वयं निर्वर्त्य, नैमित्तिक सन्ध्यापूर्वं पूर्वदिनवत् सूर्यपूजादिशिवपूजान्तं कर्म विर्वर्त्य, वह्निस्थमपि संपूज्य, मन्त्रतर्पणं विधाय, चरुं विपाच्य संपाद्य [संपात्य] निवेद्य सूर्यादीनां यथापूर्वं पवित्राण्यारोप्य शिवायापि [शिवायति] द्रव्यनिवेदनपूर्वं पूर्ववत् पवित्राण्यारोप्य, जपान्तं कर्म [जपान्तकर्मं] निर्वर्त्य वह्निस्थमपि सन्तर्प्य, चरुं निवेद्य, प्रायश्चित्तार्थं मूलेन वा अस्त्रेण वा अघोरेण वा शतं हुत्वा, पूर्णां विधाय ॥'''
(प्र) अथांगिनं पवित्रमभिधाय इदानीमेकाहपक्षे द्वितीयदिनकरणीयान्याह ('''अपरेद्युः''') इत्यादिना ('''विधाय''') इत्यन्तेन ।अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् । तथाधरान्यान्यतरेतरात् पूर्वेद्युरादयः इत्यमरः ॥
=== कर्मसमर्पणविधिः ॥ ===
(क्रि) '''भुक्तिकामो भगवन् ममास्तु फलसाधकमिति व्रतं शिवाय समर्पयेत् । मुक्तिकामस्तु कर्मेदन्मास्तु मे नाथ बन्धकमिति कर्म निवेद्य ॥'''
(प्र) अथ कर्मसमर्पणविधिन्निरूपयति ('''भुक्तिकामः''') इत्यादिना ('''निवेद्य''') इत्यन्तेन । ('''भुक्तिकामः''') भौतिकः । ('''मुक्तिकामस्तु''') नैष्ठिकः । ('''बन्धकम्''') मोक्षप्रतिबन्धकम् । ('''निवेद्य''') इति । अत्र विशेषार्घ्यजलेन ओं हां हौं शिवाय स्वाहा इति मूलमन्त्रेण शिवस्य वरदहस्ते निवेदयेदिति बोध्यम् । तथा श्रीरामनाथपद्धत्यां
प्रणवं हृदयं मूलं शिवायेति पदन्ततः । पूजाहोमादिकं स्वाहेत्युच्चार्यार्घ्योदकान्वितम् ॥ मुद्रयोद्भवया कर्म वरहस्ते निवेदयेत् ।
इति ॥
=== यागविसर्जनक्रमः ॥ ===
(क्रि) '''वह्निस्थाय नैवेद्याचमन चन्दनतांबूलानि भस्मचन्दनं कृत्वा, वह्नौ प्रविश्य, अष्टपुष्पन्दत्वा, नत्वार्घ्यन्दत्वा, नाडीयोगेन वह्निस्थं भगवन्तं मण्डलस्थे शिवे संयोज्य, वह्नेर्मन्त्रान् संहृत्य, द्वादशान्तं नीत्वा, निस्सृत्य, स्वहृदि सन्निवेश्य, वह्निं व्याहृतिभिस्सन्तर्प्य, तदपि विसर्जयेत् ॥ यद्वा चण्डपूजान्ते तदपि संपूज्य, यथाशक्ति हुत्वा विसर्जयेत् । सूर्यादीनां मण्डपार्चितानां परिधिविष्टरस्थेभ्यो बलिं दत्वा, उद्वास्य बलिं दत्वा स्तोत्रवन्दनपूर्वं सकलीकृत्य, मण्डलस्थमपि कुंभस्थे संयोज्य, कुंभास्त्रवर्द्धन्योः मन्त्रान् संहृत्य, यागेश्वरे संयोज, सापेक्षं क्षमस्वेति विसर्जयेत् । ततो देवञ्चाष्टपुष्पिकया संपूज्य, अधिकरणानुरूपं सापेक्षं निरपेक्षं वा विसृज्य, सूर्यञ्च यथार्हं विसृजेत् । ततो दिक्पालद्वारपालादीन् वैलोम्येन विसृज्य ॥ '''
(प्र) अथ यागविसर्जनक्रममतिदिशति ('''वह्निस्थाय''') इत्यादिना ('''विसृज्य''') इत्यन्तेन । ('''मण्डलस्थे शिवे संयोज्य''') इति । तत्र विशेषसन्निधानं संभाव्येत्यर्थः । ('''मन्त्रान्''') संहितामन्त्रान् । ('''विसर्जयेत्''') इति ।अत्र स्वाभिषेकार्थं कलशस्थं सामान्यसन्निधानं शिवं सापेक्षमेव विसृजेदित्यवसेयम् । यदुक्तं प्राक् अवभृथान्तमत्र भगवस्त्वया स्थातव्यमिति विज्ञाप्य इति । स्वेष्टलिङ्गस्थ शिवस्य सापेक्षविसर्जनमाह ('''ततः''') इति । ('''देवम्''') स्वेष्टलिङ्गस्थितशिवम् । ('''यथार्हम्''') यथोचितम् । अधिकरणानुरूपमिति यावत् । लोकपालादिविसर्जनक्रममाह ('''ततः''') इति । ('''दिक्पालादीन्''') इति । आदिशब्देन मण्डपे पूजितसर्वदेवताग्रहणम् । अतो गुरुगणेशादीन् पूजाक्रमविपर्यासेन निरपेक्षितं विसृजेदित्यर्थः ॥
=== चण्डेशपूजाविसर्जनभूतशुद्धिप्रकारः ॥ ===
(क्रि) '''देवात् पवित्राणि यथान्यायमाहृत्य [न्यायमाघृत्य?] मण्डले स्थण्डिले वा चण्डेश्वरमाराद्ध्य, पवित्राणि समारोप्य, निर्माल्यं सपवित्रं दत्वा, तं विज्ञापयेत्'''
'''यत्किंचिद्वार्षिकं कर्म कृतं न्यूनाधिकं मया ।'''
'''तदस्तु परिपूर्णं मे चण्डनाथ तवाज्ञया ॥ इति ।'''
'''तदनु तञ्च स्तुत्वा, चण्डाग्नौ चण्डेश्वरमाराद्ध्य, शतं हुत्वा, विसृज्य, अन्धकूपादिके निर्माल्यं प्रक्षिप्य, पवित्राण्यग्नौ दग्ध्वा, तमुभयतो व्याहृतिहोमपूर्वमग्निञ्च ब्रह्मादींश्च विसर्जयेत् । ततो भूमिं गोमयेन संशोद्ध्य, आचम्य सकलीकृत्य, पुनर्देवं संस्नाप्य पूजयेत् ॥'''
(प्र) अथ यागविसर्जनक्रममाख्याय चण्डेश्वरपूजातद्विसर्जनभूतशुद्धिप्रकारमुदाहरति ('''देवात्''') इत्यादिना ('''संशोद्ध्य''') इत्यन्तेन । ('''देवात्''') स्वेष्टलिंगाधिकरणस्थशिवात् । ('''पवित्राणि समारोप्य''') इति । शुद्धपवित्राणि सन्धार्येत्यर्थः । तदभिहितं श्रीमत्सोमशंभुचरणैः चण्डेशरविवह्नीनां शिववत् सूत्रसंपदि इति । ('''निर्माल्यम्''') पर्युषितपूजया चण्डार्थमवतार्य स्थापितं पुष्पमालादिकम् । अत्र निर्माल्यशब्देन ईशादवरोपितस्य पवित्रस्यापि सिद्धेः पुनस्तद्ग्रहणं आरोपितशुद्धपवित्रायापि तस्मै निर्माल्यपवित्रारोपणमवश्यं कार्यमिति ज्ञापनायेत्यवसेयम् । चण्डेश्वरं प्रति विज्ञापन प्रकारमाह ('''यत् किञ्चित्''') इति । ('''वार्षिकम्''') वर्षे भवम् । सुगममन्यत् । ('''तम्''') चण्डेश्वरम् । ('''उभयतः''') स्थण्डिलकुण्डाभ्याम् ॥ अथ चण्डनाथ यजनादिविधानमभिधाय तदनन्तर करणीयविधिमभिधत्ते ('''आचम्य''') इत्यादिना ('''पूजयेत्''') इत्यन्तेन । ('''देवं संस्नाप्य''') इति । अत्र शिवं स्वेष्टलिंगस्थ पवित्रारोपणाय कृतपर्युषितपूजितत्वान्निर्माल्यपरिशोधनार्थं स्वेष्टलिंगं नित्यवत् स्थापयित्वा पूजयेदिति बोद्ध्यम् । तदुक्तं सोमशंभुचरणैः स्नापयित्वा शिवं यजेत् इति ॥
=== सद्योधिवासे कर्तव्य क्रमः ॥ ===
(क्रि) '''सद्योऽधिवासे सूर्यादीनां मण्टपार्चितानां पूर्वोक्तक्रमेण गन्धपवित्रदानानन्तरं शुद्धपवित्रं समर्प्य [दत्वा], देवस्यापि गन्धपवित्रदानात् [देवस्या गन्ध-] पश्चात् अष्टपुष्पन्दत्वा, शुद्धपवित्राण्यारोप्य, वह्नावपि''' '''गन्धपवित्रशुद्ध पवित्राण्यधिरोप्य, शेषं [-पवित्राण्यपि निवेद्य ऐषं] पूर्ववत्कृत्वा, पूर्वोक्तवत् यागं विसृजेत् ॥'''
(प्र) अथ सद्योऽधिवासे कर्तव्यक्रममाचष्टे ('''सद्यः''') इत्यादिना ('''विसृजेत्''') इत्यन्तेन ॥
=== पञ्चगव्यप्राशनविधिः ॥ ===
(क्रि) '''ततश्शुद्ध्यर्थं पञ्चगव्यं प्राशयेत् ॥'''
(प्र) अथ तदनन्तर करणीयमाह ('''ततः''') इत्यादिना ('''प्राशयेत्''') इत्यन्तेन । अत्रावसरे शिवकुंभास्त्रवर्द्धनीस्थजलैः शिष्योऽभिषिच्यतामित्यवसेयम् । तथा श्रीमन्मृगेन्द्रे पवित्रावसाने
ततो विसृज्य चण्डेष्टिं विधायावभृथं भजेत्
इति । पूर्वमुक्तञ्च सापेक्षं क्षमस्वेति विसर्जयेत् इति ॥
=== गुरुपूजाविधिः ॥ ===
(क्रि) '''गुरुश्शिव इवाभ्यर्च्यो वस्त्रवित्तविभूषणैः ।''' '''तुष्टेन गुरुनाथेन तुष्टो भवति शंकरः ॥'''
'''समग्रं [सङ्ग्रहं च समं तस्य] सकलं तस्य क्रियाकाण्डादि वार्षिकम् ।''' '''यस्य तुष्टो गुरुस्सम्यगित्याह परमेश्वरः ॥'''
(प्र) अथ गुरुपूजामाह ('''गुरुः''') इत्यादिश्लोकद्वयेन । श्लोकार्थः स्पष्टः ॥पवित्रकरणस्य गुरुसन्निधौ कर्तव्यत्वम् ॥
(क्रि) '''पञ्चयोजनसंस्थोपि शिष्यः पवित्रं [पवित्र] गुरुसन्निधौ निर्वर्तयेत् [निवृत्तयेत्] ॥'''
(प्र) अथ एतत्पवित्रकरणं गुरुसन्निधावेव कार्यमित्याह ('''पञ्च''') इत्यादिना (निर्वर्तयेत्) इत्यन्तेन ॥ गुरुसन्निध्यभावे पवित्रकरण प्रकारः ।
(क्रि) '''ततः परं दूरस्थितोऽशक्तश्चेत् स्वसान्तानिकैः ज्येष्ठादिभिस्सह निर्वर्तयेत् ।तदभावे स्वयमेव निर्वर्तयेत् ॥'''
'''परमेश्वरापराख्याख्यातो जगति [जगती] यो गुरुः ।तेनाघोरशिवाख्येन पवित्रविधिरीरितः ॥'''
'''इति परमेश्वरापरनामधेय श्रीमदघोरशिवाचार्य विरचितायां क्रियाक्रमद्योतिकायां पवित्रारोपणविधिस्समाप्तः ॥'''
(प्र) अथ गुरुसन्निधानाभावे पवित्रकरणप्रकारमाह ('''ततः''') इत्यादिना ('''निर्वर्तयेत्''') इत्यन्तेन ॥ अथ एतत्पवित्र प्रकरणोपसंहारः ('''परमेश्वर''') इत्याद्येकश्लोकेन । सुबोधः श्लोकार्थः ॥
इति श्रीमत्कमलालयनिवासि भक्ताध्यक्षसन्तानप्रभवत्यागराजाचार्यात्मजनिर्मलमणिगुरुविरचितायामस्फुटार्थप्रकाशिकायां प्रभासमाख्यायां क्रियाक्रमद्योतिकाव्याख्यायां पवित्रविधिस्समाप्तः ॥
शिवमस्तु ॥
== दमनविधिः ॥ ==
(क्रि) '''ये पुनर्न करिष्यन्ति दमनं पर्व मानवाः ।''' '''तेषान्ते चैत्रमासोत्थं दत्तं पुण्यफलं मया ॥'''
'''इति श्रवणात् चैत्रमासपूजापुण्यफलालाभभयात् तन्त्रान्तर विहितमपि दमनोत्सवविधिं साधकाश्श्रद्दधते तच्छ्रद्धालूनां पवित्रवद्यागं कुर्यात् । उद्यानगतं गृहगतं वा दमनं गत्वा संबोधयेत् । यथा अस्त्रेण संप्रोक्ष्य, संहिताया संपूज्य,'''
'''हरप्रसादसंभूत त्वमत्र सन्निधीभव ।''' '''शिवकार्यं समुद्दिश्य नेतव्योऽसि शिवाज्ञया ॥'''
'''इति ।'''
'''सपञ्चांगं दमनं अग्निसन्निधिं नीत्वा, संपात्य निवेदयेत् । शिवस्य पश्चिमे दमनमूलं मृदञ्च सद्येनाददीत । उत्तरे वामेन नालं धात्री फलं दक्षिणे रूपिणा पत्रं भस्म, प्राच्यां तत्पुरुषेण पुष्पं दन्तधावनार्थं काष्ठं''',
'''ऐशान्यां गायत्र्या फलं चन्दनञ्च निवेद्य, सपञ्चाङ्गं दमनमञ्जलौ गृहीत्वा विज्ञापयेत्'''
'''अर्पितोऽस्मीह देवेश सद्यः काले त्वया प्रभो ।''' '''कर्तव्यन्तु यथा लाभं पूर्णं पर्व तवाज्ञया ॥ इति ।'''
'''देवस्य मस्तके मूलेन संयोज्य, अष्टपुष्पं दत्वा, ततः'''
'''ओं हां हौं आत्मतत्वाधिपतये शिवाय नमः'''
'''ओम् हां हौं विद्यातत्वाधिपतये शिवाय नमः'''
'''ओं हां हौं शिवतत्वाधिपतये शिवाय नमः'''
'''ओं हां हौं सर्वतत्वाधिपतये शिवाय नमः'''
'''ओं हां हौं मखं पूरय पूरय शिवाय नमः'''
'''इति क्रमेण देवस्य मस्तके संयोज्य, निवेद्य,'''
'''भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतम् ।''' '''सर्वं तदस्तु संपूर्णं पर्व दामनकं मम ॥'''
'''इति विज्ञाप्य, अग्न्यादिभ्योऽपि दमनं निवेद्य, विज्ञाप्य, यागं विसृजेत् ॥'''
'''इति परमेश्वरापरनामधेय श्रीमदघोरशिवाचार्य विरचितायां क्रियाक्रमद्योतिकायां दमनविधिस्समाप्तः ॥'''
(प्र) योऽनुग्रहं वटमहीरुहमूलभागे स्थित्वा करोति यमिनाममुमानमय्य । लेशाद्यथामति शिवागमयुक्तियुक्तां दामार्चनक्रमविधेर्विवृतिं विधास्ये ॥ अथ इत्थं वार्षिकं नित्याङ्गभूतं पवित्रारोपण विधिमभिधाय दमनपूजामभिधातुं तत्करणे हेतुमाह ('''ये पुनः''') इत्यादिना ('''श्रद्दधते''') इत्यन्तेन । ये पुनरित्यादिकारिका दमनं प्रति परमेश्वरवाक्यम् । ('''तन्त्रान्तर विहितमपि''') स्वच्छन्दभैरवतन्त्रविहितमपीत्यर्थः । तदभिहितं श्रीमत्सोमशंभुचरणैः स्वच्छन्द भैरवे तन्त्रे यद्यपीदमुदाहृतम् । तथापीह समानत्वात् सिद्धान्तेप्युपयुज्यते ॥ इति । अनेन मिश्राचारो न कर्तव्यः इत्यादि वाक्यभयादेतदकर्तव्यमित्याकांक्षा परिहृता । ('''साधकाः''') इति । साधयन्ति भोगमोक्षावित्याचार्यादय इत्यर्थः । ('''श्रद्दधते''') श्रद्धां कुर्वन्ति । अत्र दमनोत्सवाकरणे चैत्रमासपूजा
दमनरूपभैरवस्य स्यात् ततस्तन्मासपूजादि फललाभाय
दमनार्चनमवश्यं करणीयमिति तात्पर्यम् ॥ अथाधिवासनमाह ('''तत्''') इत्यादिना [एतच्चिह्निताः प्रतीका अधोमुद्रित मूले नोपलभ्यन्ते । अतोऽनुमीयते व्याख्यानुसारी] ('''स्वपेत्''') इत्यन्तेन । ('''तच्छ्रद्धालूनाम्''') दमनोत्सवश्रद्धावताम् । ('''पवित्रवत्''') पवित्रेण तुल्यम् । ('''यागम्''') मण्डपपूजादिकम् । दमनकामन्त्रणप्रकारः कथ्यते ('''उद्यानगतम्''') इत्यादिना ('''सपञ्चाङ्गम्''') पञ्चांगसहितम् ॥ मूलपाठोऽन्यादृश इति । स च तत्र तत्र कोशेष्वन्विष्यद्भिरप्यस्माभिर्नेयता कालेनालंभि । यदीतः परमपि कुत्रचिल्लभ्येत तदा ग्रन्थावसाने मुद्राप्येतेति बोद्ध्यम् ॥ पञ्चांगान्यत्र मूलनालपत्रपुष्पफलसंज्ञानि । ('''संपाद्य''') दमनस्य संपातसंस्कारं विधायेत्यर्थः । एतत्संस्कारानन्तरकरणीयान्याह ('''शिवस्य''') इति ।विज्ञापनपुरस्सरं गन्धदमनारोपणक्रममाह ('''सपञ्चांगम्''') इति । अवशिष्टदमनकावस्थापनप्रकारमाह ('''शेषम्''') इति । ('''कुंभे''') कुंभस्थशिवे । ('''निवेदयित्वा''') रक्षस्वेति निवेदय । समीपे निवेशयेदित्याशयः । अनन्तर करणीयमाह ('''पवित्र''') इति । अथ एवमंगभूतं दमनाधिवासनमभिधाय प्रातः कृत्यादि पूर्वमंगिनो दमनारोपणस्य प्रकारमाह ('''प्रातः''') इत्यादिना ('''विज्ञाप्य''') इत्यन्तेन । यागविसर्जनमाह ('''यागं विसृजेत्''') इति । अथोपसंहारः ('''इति''') इति ॥
इति श्रीमत्कमलालयनिवासि भक्ताध्यक्षसन्तानप्रभवत्यागराजाचार्यात्मजनिर्मलमणिगुरु विरचितायामस्फुटार्थ प्रकाशिकायां प्रभासमाख्यायां क्रियाक्रमद्योतिका व्याख्यायां दमनविधिस्समाप्तः ॥
[[वर्गः:शैवागमः]]
1b6wxhoox4iyq9s74mt8k9n4jro3vy3
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२९८
104
104748
415696
267761
2026-04-21T12:19:30Z
Geeta g hegde
6704
415696
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|२६४|मनुस्मृतिः।|[ अध्यायः ७}}</noinclude>
{{Block center|{{bold|<poem>उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् ।
युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ॥ १९७ ॥</poem>}}}}
{{gap}}तदानीं च उपेत्यादि ॥ उपजापार्हान् रिपुवंश्यान् राज्यार्थिनः क्षुब्धानमात्या-
दींश्च भेदयेत् । उपजापेनात्मीयकृतां च तेषां चेष्टां जानीयात् । शुभग्रहदशादिना
शुभफलयुक्ते दैवेऽवगते निर्भयो जयेप्सुयुध्येत ॥ १९७ ॥
{{Block center|{{bold|<poem>साम्ना दानेन भेदेन समस्तैरथवा पृथक् ।
विजेतुं प्रयतेतारीन युद्धेन कदाचन ॥ १९८ ॥</poem>}}}}
{{gap}}साम्नेत्यादि ॥ प्रीत्यादरदर्शनहितकथनाद्यात्मकेन साम्ना हस्त्यश्वरथहिरण्यादीनां
च दानेन तत्प्रकृतीनां तदनुयायिनां च राज्यार्थिनां भेदेन । एतैः समस्तैर्व्यस्तैर्वा
यथासामर्थ्य मरीन्जेतुं यत्नं कुर्यान्न पुनः कदाचिद्युद्धेन ॥ १९८ ॥
{{Block center|{{bold|<poem>अनित्यो विजयो यसादृश्यते युध्यमानयोः ।
पराजयश्च संग्रामे तमायुद्धं विवर्जयेत् ॥ १९९ ॥</poem>}}}}
{{gap}}अनित्य इति ॥ यस्माद्युध्यमानयोर्बहुलबलत्वाद्यल्पबलत्वाद्यनपेक्षमेवानियमेन
जयपराजयौ दृश्येते तस्मात्सत्युपायान्तरे युद्धं परिहरेत् ॥ १९९ ॥
{{Block center|{{bold|<poem>त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे ।
तथा युध्येत संपन्नो विजयेत रिपून्यथा ॥ २०० ॥</poem>}}}}
त्रयाणामित्यादि ॥ पूर्वोक्तानां त्रयाणामपि सामादीनामुपायानामसाधकत्वे
सति जयपराजयसंदेहेऽपि तथा प्रयत्नवान्सम्यग्युध्येत । तथा शत्रून्जयेत् । यतो
जयेऽर्थलाभोऽभिमुखमरणे च स्वर्गप्राप्तिः । निःसंदिग्धे तु पराजये युद्धादपसरणं
साधीयः । यथा वक्ष्यति 'आत्मा तु सर्वदा रक्ष्यः' इति मेधातिथिगोवि-
न्दराजौ ॥ २०० ॥
{{Block center|{{bold|<poem>जित्वा संपूजयेद्देवान्ब्राह्मणांश्चैव धार्मिकान् ।
प्रदद्यात्परिहारांश्च ख्यापयेदभयानि च ॥२०१॥</poem>}}}}
जित्वेति ॥ परराष्ट्र जित्वा तत्र ये देवास्तान्धर्मप्रधानांश्च ब्राह्मणान्भूमिसुवर्णा-
दिदानसंमानादिभिः पूजयेत् । जितद्रव्यैकदेशदानादिनैव चेदं पूजनम् । तदाह
याज्ञवल्क्यः—'नातः परतरो धर्मो नृपाणां यद्रणार्जितम् । विग्रेभ्यो दीयते द्रव्यं
प्रजाभ्यश्चाभयं सदा' । तथा देवब्राह्मणा) मयैतद्दत्तमिति तद्देशवासिनां परिहा-
रान्दद्यात् । तथा स्वामिभक्त्या यैरस्माकमपकृतं तेषां मया क्षान्तमिदानीं निर्भयाः
सन्तः सुखं स्वव्यापारमनुतिष्ठन्त्वित्यभयानि ख्यापयेत् ॥ २०१ ॥
{{Block center|{{bold|<poem>सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् ।
स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ॥ २०२ ॥</poem>}}}}
{{gap}}सर्वेषामिति ॥ येषां शत्रुनृपामात्यानां सर्वेपामेव संक्षेपतोऽभिप्रायं ज्ञात्वा<noinclude></noinclude>
b2v9ro9dduktgvxg8dpxsqtb00zb07k
परात्रीशिकातात्पर्यदीपिका सोमानन्दकृतं शाक्तविज्ञानम् च
0
164221
415698
415695
2026-04-22T05:12:48Z
Shubha
190
415698
wikitext
text/x-wiki
{{header
| title = परात्रीशिकातात्पर्यदीपिका सोमानन्दकृतं शाक्तविज्ञानम् च
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00043
Uniform title: parātriśikātātparyadīpikā and śāktavijñāna
Main title: parātriśikātātparyadīpikā
Secondary title: śāktavijñāna
Author : somānanda II
Editor : Zadoo J D
Description:
These two texts have been transcribed from vol. 74 of the Kashmir Series of Texts and Studies.
Notes:
The texts have been transcribed by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski .
Revision 0 Jan 28, 2007
Publisher : Research Department Jammu and Kashmir State
Publication year : 1947
Publication city : Srinagar
Publication country : India
----
Kष्ट्ष् वोल्. नो. ७४
कश्मिरसंस्कृतग्रन्थावलि
ग्रन्थाङ्क - ७४
परात्रीशिकातात्पर्यदीपिका
सोमानन्दकृतं शाक्तविज्ञानम् च
श्रीराजराजेश्वर-महाराजाधिराज-कश्मीरनरेन्द्र
श्रीहरिसिंहजी-बहादुराज्ञया
रिसर्चकार्यालयाध्यक्ष -
पण्डित जगद्धर जाडूशास्त्रिणा
कार्यालयस्थेतरसंपादकपण्डितसहायेन
संशोधनादिसंस्करणोत्तरं संपाद्य
श्रीनगरे नार्मलप्रेस मुद्रणालये मुद्रापयित्वा
प्राकाश्यमुपनीते
कश्मीर-श्रीनगर
संवत् २००४
ईस्वी १९४७
श्रीपरात्रीशिकातात्पर्यदीपिका ।
वन्दे कुन्देन्दुनीहारवलक्षं विघ्नहारिणम् ।
हरगौरीसमारब्धं हेरम्बं हस्तिपुङ्गवम् ।। १ ।।
अकलङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती ।
मुद्रापुस्तलसद्वाहा पातु वः परमा कला ।। २ ।।
श्रीमत्कैलासकश्मीरकाशीव्याघ्रपुरीस्थितम् ।
त्रिकार्थदर्शिनं वन्दे देवं सोमांशभूषणम् ।। ३ ।।
यैः सर्वशिष्यैराचार्यैः प्रत्यक्षपरमेश्वरैः ।
व्याख्यातं त्रिशिकाख्यं यच्छ्रीशासनमनुत्तरम् ।। ४ ।।
तद्दर्शितदिशा तस्य पद्यैर्व्याख्योदयत्यसौ ।
तात्पर्यप्रथनार्थत्वात्तेजोरूपाः प्रमाकृतः ।। ५ ।।
तदपेक्षात्मसद्भावाः तमःकल्पाः प्रमाभुवः ।
उपक्रान्त्यवलम्बैतदुदयात्मतयोदिताः ।। ६ ।।
तेजस्तमोमयात्मीयसद्भावा मानराशयः ।
यत्र सृष्टितया भान्ति लभन्ते तत् तदात्मताम् ।। ७ ।।
हृदयत्वेन भान्त्येते त्यक्ततत्तत्प्रथाविधाः ।
तदेकरसतां याताः तदात्मत्वेन भान्त्यलम् ।। ८ ।।
तदेतत्सततं त्यक्तपारोक्ष्यं सन्निधिं श्रयन् ।
समन्यूनाधिकत्वेन यस्य कस्याप्यभावतः ।। ९ ।।
अनुत्तरं चिदेकात्मज्योतिर्वन्दनरूपया ।
स्तुत्याभिवादरूपात्म तदन्योन्यात्मतात्मना ।। १० ।।
(प्. २) स्फुरामि तन्मयत्वेन शाश्वतेन समाविशन् ।
विश्रान्तिः पूर्णरूपेयं निबद्धैवमुपक्रमे ।। ११ ।।
विश्रान्तयोंशगास्त्वन्ते निभेत्स्यन्ते कृताविह ।
शासनैर्मालिनीसिद्धाप्रमुखैः शासिता शिवः ।। १२ ।।
मन्दमध्यमरूपाणामौचित्येनाधिकारिणाम् ।
अप्रबुद्धमतीनां हि एता बालविभीषिकाः ।। १३ ।।
मातृमोदकवत्सर्वं प्रवृत्त्यर्थमुदाहृतम् ।
इति विज्ञानचिन्नाथप्रतिपादितया दिशा ।। १४ ।।
उत्तरोत्तरतत्त्तादृग्भूमिकारोहहेतवे ।
अतिविस्तृततत्तादृग्दीक्षाचर्यादिडम्बरैः ।। १५ ।।
त्रिकं प्रकाशयामास नरशक्तिशिवात्मकम् ।
अपरादिमयत्वेन प्रस्तुतेनागमेन तु ।। १६ ।।
अनुत्तरेण तन्मातृमानमेयात्मकं त्रिकम् ।
अनुत्तरं स्वकीयं तद्धृदयं विश्वतत्परम् ।। १७ ।।
श्रीमदुत्पलदेवीयं शास्त्रं स्तोत्रपदात्मकम् ।
प्रत्यभिज्ञानमात्रोद्यद्भैरवीभाववैभवम् ।। १८ ।।
कथयामि न सन्देहः सद्यः कौलिकसिद्धिदम् ।
हृदयं देवदेवस्य सद्यो योगविमोक्षदम् ।। १९ ।।
अदृष्टमण्डलोऽप्येवं तिलाज्याहुतिवर्जितम् ।
इत्येवमादिरूपेण मुने श्रेष्ठकमात्मनः ।। २० ।।
प्रकाशयति तद्व्याख्या निर्माणाप्येष तस्य ये ।
प्रसंहप्राविकान्योक्ततत्तदीक्षाभिविस्तराम् ।। २१ ।।
व्याख्यां वितेनिरे तेषामपहाय दृशिस्थितिम् ।
श्रीमदुत्पलदेवीयमतसारतया परम् ।। २२ ।।
(प्. ३) व्याख्यां करोति विशदामेवं मेयादिकं त्रिकम् ।
विमर्शसारमेवेह सिद्ध्युपायतया मतम् ।। २३ ।।
अभिधेयतया तस्य विषयत्वेन दर्शितम् ।
शेषद्वयम्,
अनवच्छिन्ननानात्ममाहेश्वरविमर्शताम् ।। २४ ।।
अवाप्तं शासनमिदमनिदं धीपदोदयम् ।
तथाविधेन भावेन सदाहन्त्वेन सिद्धिमत् ।। २५ ।।
१प्रकाशामर्शरूपत्वादत एव ह्यनुत्तरम् ।
अनुत्तरस्य देवस्य हृदयं स्वोल्लसत्तया ।। २६ ।।
प्रत्नतत्प्रतिबोधैतदुपसंहाररूपया ।
स्वातंत्र्यात्स्वत एवैवं स्फूर्जत्यस्यायमाशयः ।। २७ ।।
परापरविभूत्याप्तिरूपो मन्त्रतयोद्यताम् ।
विद्यात्मनां विमर्शानामित्यन्तस्यात्महृद्भुवः ।। २८ ।।
प्रसृतस्यागमस्यैव परसंबन्धरूपता ।
देवाद्देव्या समायातं तस्यास्तारकवैरिणः ।। २९ ।।
इत्यादिगुरुवर्यात्मक्रमावाप्तिस्वरूपकम् ।
संबन्धमनपेक्ष्यैवं स्वतन्त्रा बुध्यतामिति ।। ३० ।।
तृतीयस्य देव्युवाचेत्युपक्रान्तस्य देवताम् ।
गतस्य भैरवेत्यादिमध्यस्यैवं फलोदयः ।। ३१ ।।
शेषः ।
व्याख्यातृतोऽपि हृदयं व्याख्यैषा तन्मयत्वतः ।
तद्वदेव स्वसंवित्तिसमुल्लासतयोक्तया ।। ३२ ।।
स्फूर्जत्यनुत्तरं कृत्वा नतु शिष्याद्यपेक्षया ।
एवं प्रवृत्तौ व्याख्यातुर्देवस्येच्छैव चोदिका ।। ३३ ।।
-----------------------------------
१प्रकाशत्वानुरूपत्वात् - इत्यपि पाठः ।
(प्. ४) हरिणा यत्र यच्चोक्तं सामानाधिकरण्यता ।
देवस्यानुत्तरं हृत्तत् स्फूर्जति स्वयमित्यतः ।। ३४ ।।
अनुत्तरं कथं देव सद्यः कौलिकसिद्धिदम् ।
इत्युपक्रमरूपस्य प्रश्नस्यास्य विनिर्णये ।। ३५ ।।
हृदयं देवदेवस्य सद्यो योगविमोक्षदम् ।
इत्युपक्रमशास्त्रस्य यावत्पूर्ति यदुच्यते ।। ३६ ।।
विश्वावभासकारित्वं सिद्धिद्वितयदायिका ।
हृदयस्य कथं तस्य वचनस्यात्र संगतिः ।। ३७ ।।
भवेदिति निरासाय शंकाया अवधार्यताम् ।
संबन्धो मौलिकः सोऽयं दर्शितः फलतस्तु सः ।। ३८ ।।
देवेनागमरूपेण स्वेनाग्रे दर्शयिष्यते ।
खेचरीसमतां येन व्रजेदित्यादिना स्फुटम् ।। ३९ ।।
व्याचिख्यासितरूपस्य शासनस्य यदात्मना ।
व्याख्यया संविधानस्य सामान्येन कुतो विधिः ।। ४० ।।
कस्य संग्रहतस्तावत् तात्पर्यं प्रतिपाद्यते ।
शासनस्यादिमे श्लोके सा शेषेऽनुत्तरेशितुः ।। ४१ ।।
देवस्य ...................... केन स्यात् वेद्यादित्रितयात्मना ।
प्रकारेण यतो ज्ञाता संविदः पूर्णशक्तितः ।। ४२ ।।
प्रकारेण च केनास्य सिद्धिद्वितयदायिता ।
इति प्रश्ने दर्शयित्वा वस्त्वेतं प्रस्तुतात्मकम् ।। ४३ ।।
बोधयात्मन् प्रभावाख्या प्रबन्धेनेति वृत्तिकृत् ।
समस्तमुपचिक्षेप शास्त्रस्यार्थं द्वितीयके ।। ४४ ।।
सेयं स्वातंत्र्यशक्त्यात्मा स्वपरामर्शविग्रहा ।
हृदि सर्वस्य भात्येव प्रक्रियेति च तं पुनः ।। ४५ ।।
(प्. ५) प्रश्नं शिथिलयित्वाथ प्रश्नोऽयं सिद्ध्यवाप्तये ।
सा तस्याः प्रत्यभिज्ञानलाभेन प्रक्रियात्मनः ।। ४६ ।।
शक्तिं विना न भवतीत्येवं तदुपयोगिता ।
प्रश्नस्यास्योपपाद्याथ तृतीये शक्तिमीरिताम् ।। ४७ ।।
प्रस्ताव्य कथनीयेति कौलिकोऽयं विधिर्मम ।
हृदये हृदयत्वेन चास्तेऽसौ विदितस्तदा ।। ४८ ।।
इति शेषेण चौचित्यं तस्य वक्तुरदर्शयत् ।
कथनं चोत्तरारम्भपूर्वावस्थाप्रदर्शनात् ।। ४९ ।।
प्रवर्तयंश्चतुष्के तु तां परादित्रिकात्मिकाम् ।
शक्तिं पञ्चाशता वर्णैः प्रसरन्तीं प्रदर्शयन् ।। ५० ।।
शेषेण चाप्यमूलेति ज्ञेयैषेत्येवमूचिवान् ।
अष्टमे तु तथा तस्या अविभागात्मना स्थितिः ।। ५१ ।।
सारं प्रदर्श्य नवमे तदात्मीकारमात्रतः ।
सूचितां प्रथमे सूत्रे सिद्धिं प्रादर्शयत् पराम् ।। ५२ ।।
अथाष्टके त्वतीतादिप्रहरोचितया विधिः ।
इति शेषत्रयोपेक्षे (ते) शासनान्तरचोदिताम् ।। ५३ ।।
प्राणादिजयकालादि नियमात्मतयोदिताम् ।
विद्याव्रतादिरूपाञ्च मन्त्रार्पणविधोचिताम् ।। ५४ ।।
संकुचत्तां विना संवित्परामर्शस्य संपदे ।
परा अपि प्रसिद्ध्यन्ति सिद्धयोऽस्याप्तिरेव तु ।। ५५ ।।
एतन्मन्त्रग्रहे साध्येत्येतत्सम्यङ्न्यरूपयत् ।
चतुष्केऽथाष्टमश्लोकप्रोक्तस्य हृदयात्मनः ।। ५६ ।।
बीजस्य विश्वाभिन्नायाः शक्तिसंपूर्तिलक्ष्मणः ।
परायाः स्वात्मसंवित्तेर्विमर्शत्वं न्यरूपयत् ।। ५७ ।।
(प्. ६) तद्वाच्यवाचकाभेदाभ्यासतत्फललक्षणम् ।
उक्त्वा द्वाविंशके सूत्रे नवमश्लोकसूचितम् ।। ५८ ।।
फलं प्राकट्यमनयत् उपसंहारवर्त्मना ।
अथ त्रये तदभ्यासे पूर्वभावितयोद्यते ।। ५९ ।।
सपर्याविधये भेदरूपिण्या विघ्नसंहृतेः ।
सामान्यतो विशेषाच्च शान्तिं सन्दर्श्य तल्परे ।। ६० ।।
चतुर्दशाभिजप्तेनेत्युपक्रान्त्यंशसंयुते ।
........टथा पूज्यरूपनिष्कर्षपूर्वकम् ।। ६१ ।।
यागहोमोभयात्मत्वं पूजायाः पूर्तिलक्षणम् ।
उपपाद्य च सर्वेषां अभ्यासानां फलात्मनाम् ।। ६२ ।।
पूजापुरःसरत्वं यत्तत् समर्थितवानथ ।
त्रिंशे तु यान्यानित्यंशसहिते प्रोक्तलक्षणः ।। ६३ ।।
तस्याभ्यासचतुष्कस्य संविदामर्शनात्मनः ।
सफलस्य स्फुटेनैव स्वरूपेणोपदर्शनम् ।। ६४ ।।
प्रथयित्वा तथांशस्य चतुर्याममयं दिनम् ।
यावदभ्यस्य तत्सिद्धिं योगिनः प्रत्यवादयत् ।। ६५ ।।
उपान्त्येत्वस्य शास्त्रस्य समर्थ्यार्थोपसंहृतिम् ।
सप्रभावं परामृश्य .................................. ।। ६६ ।।
प्रादर्शयदयं तावत्तत्तात्पर्यस्य संग्रहः ।
अथावयवशो व्याख्या तस्येदानीं विलिख्यते ।। ६७ ।।
शेषः ।
गुरुशिष्यप्दे स्थित्वा स्वयं देवः सदाशिवः ।
पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं समवतारयन् ।। ६८ ।।
इति स्वच्छन्ददेवोक्तस्वसंवित्सिद्धवर्त्मना ।
(प्. ७) प्रबुध्यमाना स्वात्मैव देवता प्रत्यगात्मनः ।। ६९ ।।
सती प्रत्यभिजिज्ञासुरात्मनां पृच्छतीश्वरम् ।
तत्र श्रीदेव्युवाचेति कृतः श्रीशासनोदयः ।। ७० ।।
समनन्तरसूत्रस्य कथंकारानुरूप्यतः ।
अस्य धातोर्वचेरत्र प्रश्नार्थत्वेन योजना ।। ७१ ।।
तद्गताय तु भूतत्वं पारोक्ष्यञ्चास्य निर्वचः ।
भविष्यत्युचिते पश्चात् प्रतिपतृनिरूपणे ।। ७२ ।।
किंपृच्छतीत्यपेक्षायां जातायामाह शासनम् ।
शेषम् -
अनुत्तरं कथं देव सद्यः कौलिकसिद्धिदम् ।। ७३ ।।
येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् ।
एतद्गुह्यं महागुह्यं कथयस्व मम प्रभो ।। ७४ ।।
हे देवेति समस्तार्थजीवतात्मन् महेश्वर ।
ज्ञाने क्रियायां सर्वत्र ज्ञातृताकर्तृतात्मना ।। ७५ ।।
आत्मनैवादिसिद्धत्वात्प्राथम्याभिमुखत्वभाक् ।
त्वं तवानुत्तरं रूपमुत्तरान् ग्राहकान् मितान् ।। ७६ ।।
ग्राह्यसापेक्षसद्भावाज्जडाद्देहादितर्पितान् ।
अन्यदेव स्वयं भानं मादिकालादिकल्पनम् ।। ७७ ।।
अनपह्नवनीयेन जागर्त्यनिशमात्मना ।
तत्र वाचोऽवकाशो नो दूरे वाच्यनियोजनाः ।। ७८ ।।
अतस्तत्प्रश्नविषयः कस्य चेतयितुर्भवेत् ।
शेषः
इदं तु पृच्छत्येतस्य तया प्रक्रिययात्मनः ।। ७९ ।।
देहाक्षभुवनाद्यात्मकुलसंपत्तिरूपता ।
(प्. ८) भासते स्वाम्यपूर्णत्वस्वतन्त्रत्वानिवारिता ।। ८० ।।
एतया ज्ञातया किं स्यादिति चेदुच्यतेऽनया१ ।
ज्ञानगोचरतापन्नमात्रया व्योम्नि चिन्मये ।। ८१ ।।
चरन्ती संविदेषा स्यात्पूर्णशक्तित्वतः स्वतः ।
कृतार्थप्रत्यभिज्ञातादन्यथा नैव खेचरी ।। ८२ ।।
वेद्यभूमिषु संचारादत एव न पूर्णता ।
वेद्यैर्नियन्त्रितात्मीयचारायाः संविदो महः ।। ८३ ।।
शेषः ।
तया वा ज्ञातमात्रेण देवताभिः समत्वदम् ।
रूपं संविन्मयं तत्ते कुलसंबन्धिनीं पराम् ।। ८४ ।।
जीवन् भैरवतामर्शसुधास्वादोत्सवात्मिकाम् ।
अपरां च तथा सिद्धिं विश्वात्मत्वोदयात्मिकाम् ।। ८५ ।।
स्वसंविद्देवताचक्रचक्रवर्त्तित्वचिन्मयीम् ।
ददाति धारणाद्यात्मक्रियायाः सानपेक्षितम् ।। ८६ ।।
यदेतत्प्रस्तुतं वस्तु द्वयमप्रकटं स्वतः ।
न मायीयेन केनापि शक्त्यास्य प्रकटा क्रिया ।। ८७ ।।
उपादेयतमत्वेन भाति चोत्कर्षवत्तया ।
स्वयमेव यथा भाति तथाकृत्वास्य गोपतेः ।। ८८ ।।
प्रभुः प्रकटने च त्वं मम त्वत् कॢप्तसंस्थितेः ।
त्वन्नियुक्ततयैवैवं पृच्छन्त्याः संविदस्तव ।। ८९ ।।
कथनेन विमर्शस्य पश्यन्त्यादिक्रमोदयाम् ।
वैखरीवृत्तिपर्यन्तां पदवीमानय प्रभो ।। ९० ।।
न तु च ग्राहकत्वात्मा हृदये सा प्रकाशते ।
----------------------------------
१अधुनेत्यपि पाठः ।
(प्. ९) सर्वस्य तस्य प्रश्नेन किं स्यात् सत्यं प्रकाशते ।। ९१ ।।
प्रकाशमानाप्येषा तु स्वभावेन यथा तथा ।
हृदयङ्गमतां नैति पथि पर्णतृणादिवत् ।। ९२ ।।
नत्वप्रकाशमानत्वं स्वतो नो चेत्तथास्तु सा ।
तदानीं को भवद्दोषो नैतत् संसरणं परम् ।। ९३ ।।
तदेतद्राघवायोक्तं वसिष्ठेन महात्मना ।
शेषः ।
स्वापरामर्शमात्रोऽयमपराधः कियानसौ ।। ९४ ।।
तावन्मात्रेण तज्जातं यद्वक्तुं नैव पार्यते ।
प्रत्यभिज्ञा मयापूर्वचमत्काररसात्मनि ।। ९५ ।।
हृदयङ्गमतायां गीः सत्यां पूर्वोक्तलक्षणा ।
पुरा तदा तदभ्याससाध्याप्यपररूपिणी ।। ९६ ।।
द्विविधापि भवेत् तृप्तिः सिद्धिरूपा नवान्यथा ।
इति प्रथयितव्यांशप्रथनायोपयोगवान् ।। ९७ ।।
प्रश्नस्तदर्थमेतस्मादुत्तरः शासनोदयः ।
हृदये या तु सा शक्तिः कौलिकी कुलनायिका ।। ९८ ।।
तां मे कथय देवेश येन तृप्तिं व्रजाम्यहम् ।
स्वयं संविन्मये तत्र त्वद्रूपेऽनुत्तरे हृदि ।। ९९ ।।
तदात्मत्वेन विश्रान्ता यासौ स्वातंत्र्यलक्षणा ।
शक्तिर्धात्वर्थरूपत्वात्सर्वधात्वर्थधर्मिणी ।। १०० ।।
स्फुरत्ता वाङ्मयी वर्णपञ्चाशक्तिशरीरिणी ।
वर्णत्रयाविभागात्मबीजभावव्यवस्थिता ।। १०१ ।।
यस्याः कुलमिदं ग्राह्यग्रहणग्राहकात्मकम् ।
चक्रं निर्मेयतां लब्ध्वा सत्तामाप्नोति शाश्वतीम् ।। १०२ ।।
(प्. १०) निर्मितस्य कुलस्यास्य नायिका तस्य वेदनात् ।
तद्भातं कुर्वती या च तदधिष्ठातृतापदम् ।। १०३ ।।
तदीयरूप (रे शन्ति) वियोगनयनक्रिया (?) ।
नेत्री च ममतामेनां हृदयंगमतां नय ।। १०४ ।।
हृदयंगमतानीत्या यया प्रस्तुतरूपया ।
स्वात्मलाभात्मना लब्धतदभ्यासात्मना तथा ।। १०५ ।।
अहं सर्वार्थसंवित्तिमयी पूर्णाशया सती ।
तृप्ती द्वे प्रस्तुते प्राप्य त्वयि पेये चिदम्बुधौ ।। १०६ ।।
शेषः ।
एवमुद्यन्तृता शक्तिस्वरूपानुप्रवेशनैः ।
प्रबुद्धता स्यात् पूर्णत्वात्सैषा भैरवरूपिणी ।। १०७ ।।
स्वात्मैव देवता प्रषॄप्रतिवक्तृत्वमश्नुते ।
शेषः ।
प्रश्नकृत्प्रतिवक्तृत्वप्रथारूपेऽत्र वस्तुनि ।। १०८ ।।
इदानीमिदमेतादृगिहेति व्यवहारगा ।
व्यवहारपदानां या वस्तुनामादितेष्यते ।। १०९ ।।
यैषा न वास्तवी तद्वत्स्वरूपमनिदंप्रथम् ।
अनुज्झदेव कालेन स्वक्लप्तकलनात्मना ।। ११० ।।
भिन्नेनावर्तते यस्माद् भूतत्वेनोच्यते ततः ।
तथावेद्यतयाप्येतद्भाति कल्पितरूपया ।। १११ ।।
प्रत्यक्षग्राह्यताभावात् परोक्षेणोच्यते ततः ।
ततः श्रीभैरवो देव उवाचेतीदमुच्यते ।। ११२ ।।
शेषः ।
शृणु देवि महाभागे उत्तरस्याप्यनुत्तरम् ।
(प्. ११) कौलिकोऽयं विधिर्देवि मम हृद्व्योम्न्यवस्थितः ।। ११३ ।।
कथयामि न सन्देहः सद्यः कौलिकसिद्धिदम् ।
श्रुतिः कथनसापेक्षा कथनं ज्ञानपूर्वकम् ।। ११४ ।।
अतस्तदानुगुण्येन योज्यतेऽर्धत्रयं त्विदम् ।
इत्येवमुत्तरत्रापि तत्र तत्र भविष्यति ।। ११५ ।।
शेषः ।
प्रबोधोदयपर्याप्तमहाभाग्यशरीरीणि ।
श्रुत्वावधार्यतां सैषा यतस्तामुत्तरां तव ।। ११६ ।।
ग्राहकत्वमयीं ग्राह्यग्रहणग्राहकात्मकाम् ।
अनुत्तरां परां शक्तिमुक्ततृप्तिप्रयोजनाम् ।। ११७ ।।
हृदयङ्गमतामेनां तथा देवि नयामि ते ।
यथावधारणे जातमात्र एवात्र वस्तुनि ।। ११८ ।।
न पुनः संशयानन्तप्रोक्तमालिन्यमज्जनम् ।
यतो मम प्रबुद्धस्य हृदये मातृकात्मिका ।। ११९ ।।
शब्दराशिस्तया प्राप्तभैरवीभावसंपदः ।
हृदयत्वेन चास्तेऽसौ विदिता बीजरूपिणी ।। १२० ।।
अथाद्यास्तिथयः सर्वे स्वरा बिन्द्ववसानकाः (गाः) ।
तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ ।। १२१ ।।
पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु ।
क्रमात्कादिषु वर्गेषु मकारान्तेषु सुव्रते ।। १२२ ।।
वायवग्निसलिलेन्द्राणां धारणानां चतुष्टयम् ।
तदूर्ध्वं शादि विख्यातं पुरस्ताद्ब्रह्मपञ्चकम् ।। १२३ ।।
अमूला तत्क्रमाज्ज्ञेया क्षान्ता सृष्टिरुदाहृता ।
सर्वेषामेव मन्त्राणां विद्यानां च यशस्विनि ।। १२४ ।।
(प्. १२) इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा ।
हृद्व्योम्नीत्यत्र सप्तम्या हृदयात्संविदात्मनः ।। १२५ ।।
अनुत्पादतया सिद्धिः प्रसिद्धा केयमिष्यते ।
कौलिकस्य विधेरेष इति प्रत्यक्षरूपता ।। १२६ ।।
सर्वस्य कथमित्येषा त्र्यंशिका नात्र युज्यते ।
ज्ञेयज्ञानाग्रहे ज्ञातुस्तद्रसे स्वमयत्वतः ।। १२७ ।।
तद्भावेन स्वतैवैका कदाचिद्भात्यसाविति ।
जानामि घटमित्यात्मविश्रान्तिर्ज्ञेयरूपिणी ।। १२८ ।।
कदाचित्स्वामिनैवैका कालयोरुभयोरपि ।
पदार्थद्वितयं तत्र संविदि प्रथते यतः ।। १२९ ।।
शेषः ।
तत्र ज्ञाता च सर्वात्मनिर्विवादा परोक्षभाक् ।
ज्ञेयोन्मेषनिमेषात्म-स्वक्रिया-कलनात्मना ।। १३० ।।
तत्संकोचविकासात्मना........................................... ।
नित्येन विभुना ज्ञानक्रियानिर्वृतिलक्षणा ।। १३१ ।।
स्वेन भावेन परितः स्वस्याहमिदमात्मता ।
स्पन्दनेनैव सारेण प्रसिध्यति न जातुचित् ।। १३२ ।।
परिनिष्ठितरूपत्वं परिच्छिन्नं प्रकाशताम् ।
जडानामात्मसाकुर्वन्नेति लोष्ठातितुल्यताम् ।। १३३ ।।
काणादसांख्यबौद्धादिमितदृक्कल्पितामसौ ।
संसृतौ गुणिनं तत्र कणभुग्दर्शनाश्रिताः ।। १३४ ।।
अपवर्गे तदुच्छेदे मन्यन्ते तं शिलोपमम् ।
अर्थप्रकाशकं ज्ञानं बौद्धमेवेति निश्चिताः ।। १३५ ।।
कापिला अपि तं प्राहुरर्थादेनमसत्समम् ।
(प्. १३) धीवृत्तिर्निर्विमर्शात्मा क्षणिकात्मेति सौगताः ।। १३६ ।।
स्वयमेवोपयान्त्येनं शून्यमेव विपश्चितः ।
निर्विमर्शक्रियं भानं विश्वात्मत्वेन तं परे ।। १३७ ।।
अभ्युपेत्यास्य सद्भावं मायावेदान्तिशाब्दिकाः ।
अविद्यान्धत्वतन्मुक्त्योरविशिष्टं विविञ्चते ।। १३८ ।।
अन्येऽपि चैवमन्योक्तस्वोक्तदूषणभूषणे ।
वितन्वानास्त्वयीत्युक्तरूपमेनमुपासते ।। १३९ ।।
ज्ञेयसत्ताप्रथारूपज्ञातृकर्तृत्वलक्षणः ।
ज्ञातैष स्वपरिस्पन्दसारत्वेनेह निश्चितः ।। १४० ।।
सा संकोचविकासात्मा तस्य च स्पन्दतिक्रिया ।
बाह्यान्तरात्मव्याप्त्यन्यमयद्वैविध्ययोगिनी ।। १४१ ।।
विश्वबीजात्महृदया तदंशेषु यथा यथा ।
उच्चारणमुहूर्तादिसमावेशात्मना दिशा ।। १४२ ।।
ज्ञातेषु स्फुटतामेति ज्ञातृतास्य तथा तथा ।
उत्कृष्यते परे यावत्तत्त्वे भैरवसंज्ञिनि ।। १४३ ।।
उच्चारणेऽपि प्राणात्मस्पन्दनात्मन्यसन्मुखी ।
यथा यथा सा न्यूनत्वमज्ञातेष्वश्नुते तथा ।। १४४ ।।
तथा निकृष्यते यावज्जडे पाषाणपर्वणि ।
शेषः ।
स चायं मम संकोचविकासवपुरात्मनः ।। १४५ ।।
अनुत्तरस्य शक्तिः सा विसर्गात्मैवमात्मनः ।
प्रकाशैकतनुर्यस्मात्सेयं ज्ञानक्रियात्मिका ।। १४६ ।।
अनुत्तरस्य मे शक्तिर्विसर्गात्मात्तरूपिणी ।
अः इत्यत्रात एवैष सद्विश्रान्त्युदयात्मनोः ।। १४७ ।।
(प्. १४) शिवो विश्वाद्यनन्तान्तः परं शक्तित्रयं मतम् ।
इत्येतद्दर्शितात्मीयलक्ष्मणोः भैरवात्मनोः ।। १४८ ।।
शिवशक्त्योश्चिद्विमर्शपरिपूर्तिस्वरूपयोः ।
संघट्ट उच्यते रुद्रयोगिनीयामलात्मना ।। १४९ ।।
सा च स्वान्तरभेदेन भवद्भिः सार्वकालिकैः ।
चिदानन्दैषणेशित्वसोन्मेषोनत्वशक्तिभिः ।। १५० ।।
इच्छेशनचिदन्तःस्थचेत्यसत्तास्फुरान्वितैः ।
चिदानन्दगुणीभूतवृद्धीच्छोन्मेषमिश्रणैः ।। १५१ ।।
चतुर्भिरेषणाज्ञानक्रियातत्समतात्मभिः ।
वेद्यसंस्कारवित्त्यात्मबिन्दुसंवेदनान्वितैः ।। १५२ ।।
विशेषैस्तिथिःसंख्यातैः पूर्यमाणावतिष्ठते ।
एवं पूर्णविसर्गात्मा यश्चिदात्मा विसर्गतः ।। १५३ ।।
परभैरवभैरव्योर्यामलं तद्विसर्गता ।
तेषु सामान्यरूपत्वान्न पृथक्त्वेन गण्यते ।। १५४ ।।
शेषः ।
एवं विसर्गरूपे मे हृदयेऽनुत्तरात्मनः ।
वक्तुर्वक्तिक्रियारूपे तादात्म्येन स्थिता सती ।। १५५ ।।
प्रसरत्येवमेषा यदकाराद्या अमन्तिमाः ।
एते प्रबोधचन्द्रस्य प्रकाशाह्लादरूपिणः ।। १५६ ।।
स्थितेर्विसर्गरूपायाः पूरणात्तिथिसंज्ञिनः ।
स्वराश्च शब्दनात्मानः स्वपरामर्शविग्रहाः ।। १५७ ।।
स्वयञ्च स्वप्रकाशार्थप्रकाशत्वेन राजनम् ।
कुर्वते सर्व एवैते यत्तात्पर्यवसानभूः ।। १५८ ।।
सोमसूर्यात्मसंकोचविकासस्पन्दनात्मकः ।
(प्. १५) अध ऊर्ध्वविभागोद्यद् बिन्दुद्वितयविग्रहः ।। १५९ ।।
कालेन कलनारूपपरामर्शात्मतात्मना ।
अवियुक्ततया भाति तिथीनां कालताजुषाम् ।। १६० ।।
तेषामात्मा विसर्गाच्च भूत्वा प्रसरति स्वयम् ।
शेषः ।
एषैव बहिरप्यात्तसोमसूर्यात्मतात्मनाम् ।। १६१ ।।
तिथीनां कालताभाजां याति नक्तंदिवात्मताम् ।
परेयं सा विसृष्टिः स्यात्तदिच्छेशनवर्तिनः ।। १६२ ।।
वेद्यस्य बहिरुन्मेषे स्थूलसूक्ष्मत्वभेदतः ।
पृथ्व्यम्ब्वग्न्यानिलव्योमसंज्ञा यत्तत्त्वपञ्चकम् ।। १६३ ।।
गन्धरूपरसस्पर्शशब्दनात्म च पञ्चकम् ।
स एव वेद्यस्योल्लासः स्पृश्यते करणात्मना ।। १६४ ।।
यदा तदेन्द्रियाणां स्यात्कर्म ज्ञानात्मनां प्रथा ।
दशधोदेति वागाद्या प्राणाद्या तत्त्वरूपिणी ।। १६५ ।।
ततः क्रमेण वेद्यत्वन्यग्भावे वेदनोद्गमे ।
मनोऽहंकरणं बुद्धिः प्रधानं पञ्चमः पुमान् ।। १६६ ।।
इति तत्त्वानि जायन्ते पञ्च वेद्यानि तानि च ।
ननु पुंसो वेदकस्य वेद्येषु गणनं कथम् ।। १६७ ।।
उच्यतेऽस्य मितत्वेन पुंसो वेद्येषु कीर्तनम् ।
तेनानेन विना कस्य वेद्यं पृथ्व्यादि तद्भवेत् ।। १६८ ।।
उक्तक्रमं शिवो वेत्ति यतः सर्वं तदक्रमम् ।
अहमित्यात्मविश्रान्तं ममेति तु न जातुचित् ।। १६९ ।।
यस्मात्तेन विना वेद्यं न स्यात् तत् पृथिवीमुखम् ।
तद्वेद्याभासनस्येयद्रूपं यद्वेद्यताजुषः ।। १७० ।।
(प्. १६) देहादेर्वेद्यजातस्य भिन्नं वेद्यं प्रतिस्वतः ।
वेदकी भावना तत्र क्रियायां व्यावृता इमाः ।। १७१ ।।
किंचित्कर्तृतया तस्य प्रेरिका वायवी कला ।
विद्या किंचिञ्ज्ञतृतास्य वाह्नी तस्य प्रकाशिका ।। १७२ ।।
अभिष्वङ्गनिमग्नत्वस्तम्भनव्यावृतिस्फुरा ।
पार्थिवी रागशक्तिस्तच्चतुष्कात्मा नियामिका ।। १७३ ।।
नियतिस्तस्य कार्येषु ताश्चतस्रो हि शक्तयः ।
वेद्यवेत्त्रात्मनोर्वित्त्योर्मध्ये विश्रमयन्त्रितम् ।। १७४ ।।
रोदस्योरन्तरे यद्वत् त्रिशङ्कुमुनिशक्तयः ।
अन्यथेदंप्रथैकत्वादसौ लोष्ठादितां व्रजेत् ।। १७५ ।।
अहंसंवेदनैकत्वे पूर्णं चित्खं समुत्पतेत् ।
प्रकारद्वितयेऽप्यस्य मायामातुरभावतः ।। १७६ ।।
अकिंचनत्वे वेद्यस्य पृथ्व्यादेरपि तत्त्वतः ।
संकोचो वा विकासो वा न भवेद्वास्तवस्तदा ।। १७७ ।।
अन्योन्याश्रयभावेन तयोरेकात्मता यतः ।
तद्विसर्गस्वरूपेण संकुचद्विकसत्तया ।। १७८ ।।
अशेषमियदाक्षिप्तं यद्ग्राह्यग्राहकात्मकम् ।
अन्योन्यौचित्यतः सृष्टिः पदार्थानां प्रतायते ।। १७९ ।।
शेषः ।
व्योमशक्तिस्त्वकायात्मा नात्र व्याप्रियते विधौ ।
अवेद्यत्वाच्च वेद्यानामवकाशत्वतश्च तत् ।। १८० ।।
प्रमातृता परं सिद्ध्यै तया शुद्धा स्वयंप्रथा ।
शेषः ।
एवमारभ्य पृथिवीं मायान्ता तत्त्वविस्तृतिः ।। १८१ ।।
(प्. १७) कादिमान्तपरामर्शरूपेयमपरोच्यते ।
वेद्यतायाः क्रमेणास्य न्यग्भावे संविदात्मनः ।। १८२ ।।
प्रकाशने च रूपस्य प्रथते तत्त्वपञ्चकम् ।
कञ्चुकोन्मोचनारूपविकासब्रह्मनात्मकम् ।। १८३ ।।
तद्धृत्याप्यायनालोकस्पन्दनव्यापनक्रियम् ।
सद्विद्येश्वरसादाख्यशक्तिसंवित्स्वरूपकम् ।। १८४ ।।
सद्यादीशानपर्यन्तब्रह्मत्वेनापि विश्रुतम् ।
ककारादिक्षकारान्तपरामर्शशरीरकम् ।। १८५ ।।
तदात्मा प्रसृतिस्तस्या वाचः सोक्ता परापरा ।
एवं विसर्गरूपत्वं प्राप्तात्तस्मादनुत्तरात् ।। १८६ ।।
प्रसृतं तद्विसर्गस्य रूपं संवित्क्रियात्मकम् ।
अनुत्तरा या प्रसृतिर्हान्ता विश्वस्वरूपिणी ।। १८७ ।।
प्रत्याहृताशेषविश्वानुत्तरे सा विलीयते ।
तदिदं विश्वमन्तस्थं शक्तौ सानुत्तरे परे ।। १८८ ।।
तत्तस्यामिति यत्सत्यं विभुना संपुटीकृतिः ।
विसर्ग एव शाक्तोऽयं शिवबिन्दुतया पुनः ।। १८९ ।।
गर्भीकृतानन्तविश्वः श्रूयतेऽनुत्तरात्मता ।
इति निश्चितया नीत्या तस्मिन्नात्मन्यनुत्तरे ।। १९० ।।
प्रत्याहृतैतद्वर्णौघपरामर्शप्रथात्मकम् ।
पुनः प्ररोहणौचित्यमयबीजात्मबिन्दुताम् ।। १९१ ।।
प्राप्तं तथाविसर्गत्वनिसर्गं प्रतिपद्य च ।
विश्रम्य वपुरप्येवं प्रसृतिं प्रतिपद्यते ।। १९२ ।।
यतो ममैतच्छक्तीनां चक्रमिच्छानुवर्तनम् ।
चिदानन्दैषणाज्ञानक्रियाणां भावयात्मनाम् ।। १९३ ।।
(प्. १८) भूतकञ्चुकबीजत्वमौचित्येनाश्रितात्मनाम् ।
अनुत्तरेच्छोन्मेषात्मत्र्यश्रविश्रमितात्मकम् ।। १९४ ।।
तथाह्यनुत्तरा तत्र चित्स्यादिच्छा त्रिधोद्यताम् ।
इष्यमाणार्थसद्भावा मीलनोन्मीलतत्त्वभाक् ।। १९५ ।।
आनन्दः प्रथमांशेन मध्येनेच्छान्तिमेन सा ।
ज्ञानमुन्मेषशक्तिः स्यात् क्रियातस्तत् त्रयात्मकम् ।। १९६ ।।
अविभागपरामर्शरूपं प्रथमतस्ततः ।
विभागामर्शवपुषा पञ्च तद्भेदमागतम् ।। १९७ ।।
परामृश्यात्मना बाह्यतत्त्वजालञ्च जायते ।
परामर्शात्मता तस्य जीवितं तस्य मातृका ।। १९८ ।।
उत्पत्तिभुमिस्तत्सैव मन्त्राणां गुप्तभाषिणाम् ।
चतुष्कलनवात्मादिबीजपिण्डतयोद्यताम् ।। १९९ ।।
पुंरूपवाच्याध्यासेन भातां विद्यात्मनामपि ।
नमः शंभव इत्यादिस्फुटवेद्यार्थवाचिनाम् ।। २०० ।।
स्त्रीरूपवाच्याध्यासेन भातां मायात्मनामपि ।
सर्वेषां कारणत्वेन चोच्यते .................................... ।। २०१ ।।
तथाहि सर्वतन्त्रेषु यत्किंचित्तत्त्वमिष्यते ।
परापरविभूत्याप्तिपरतृप्तिप्रदायकम् ।। २०२ ।।
तत्सर्वं लभते तत्त्वषट्त्रिंशत्यान्तरात्मनि ।
विमर्शजीवितत्वेन तस्याः सर्वविमर्शभूः ।। २०३ ।।
सर्वं ददाति सा देवी मातृका तत्तदात्मिका ।
शेषः ।
एषोक्ता त्रिविधा सृष्टिरादिक्षान्ताक्षरात्मिका ।। २०४ ।।
अनुत्तराच्चिदाकाशादक्षरादस्वरात्मनः ।
(प्. १९) प्रसृता कान्त तत्त्वौघा पुनर्विश्रमणोन्मुखी ।। २०५ ।।
प्रत्याहृतसमस्तैतद्वाच्यवाचकचिन्मयी ।
तत्रैवानुत्तरे धाम्नि क्रमणं भजते शिवे ।। २०६ ।।
तव ज्ञेयतयेदानीमात्मनोदाहृता मया ।
अनया ज्ञातयैवं हि त्वया ज्ञातमनुत्तरम् ।। २०७ ।।
अखण्डपूर्णपरचित्प्रकाशस्पन्दनात्मकम् ।
सहजाहंपरामर्शशक्तिसंभाविताखिलम् ।। २०८ ।।
वितत्य व्यक्तमेवैतदहमन्यत्ततोपि यत् ।
इति क्षयैव ज्ञातं स्यादत एवं यशस्विनी ।। २०९ ।।
इयद्विश्वशरीरासि त्वमित्युद्धोष्यसे बुधैः ।
इयं किलोक्तविभवा तत्तत्त्वमिति निश्चयः ।। २१० ।।
तदेवमविभागात्मा स्थिता पूर्वं हृदम्बरे ।
शक्तिर्विमर्शरूपा सा विभागामर्शरूपतः ।। २११ ।।
समस्ततत्त्वसद्भावमयी कौलिकसिद्धिदा ।
अनेनैवोक्तरूपेणानुत्तरस्य ममात्मनः ।। २१२ ।।
स्वातंत्र्येण विसर्गोऽसौ स्वीकरोतीति निश्चितम् ।
नन्वेते सन्ति भेदात्मपरामर्शमयोदयाः ।। २१३ ।।
क्रमादाद्याः क्षकारान्तास्तदभेदमयोदयाः ।
प्रस्तुता वाङ्मयी शक्तिर्येयं भैरवतामयी ।। २१४ ।।
यतो बीजादुदेत्येषा हृदयात्तव शाश्वतात् ।
तत्प्राप्तसर्वसंपत्तिसंप्राप्त्यमृतसागरे ।। २१५ ।।
हृदयस्य स्वरूपे ते निश्चयाभावलक्षणः ।
संशयोऽद्यापि नोपैति च्यवनं मनसो मम ।। २१६ ।।
तत्कर्तव्यमिदानीमित्येतदाशंक्य शासनम् ।
(प्. २०) तं च्यावयति सूत्रेण परेण परमेशितुः ।। २१७ ।।
चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् ।
तृतीयं ब्रह्म सुश्रोणि हृदयं भैरवात्मनः ।। २१८ ।।
संपूर्णानुत्तरानन्दसंवित्संपत्तिशालिना ।
क्रियाद्वारान्तरानीतवाञ्च्छाज्ञानद्वयश्रिया ।। २१९ ।।
अशेषसंवित्संघट्टपरामर्शमयात्मना ।
चतुर्दशेन यदिदं स्वरेण सहितं तदा ।। २२० ।।
तृतीयं ब्रह्म सादाख्यतत्त्वात्माघोरभासनम् ।
अहन्तान्तःकृतेदन्तारुपग्राह्यार्थलक्षणम् ।। २२१ ।।
तद्विश्वं तत्तिथीशानां स्वराणामुक्तलक्षणम् ।
पर्यन्तभित्तिभूतोऽसौ य आत्मत्वेन निश्चितः ।। २२२ ।।
विसर्गस्तत्र विश्राम्यदवियोगेन वर्तते ।
तदिदं हृदयं शब्दराशेः चिद्भरितात्मनः ।। २२३ ।।
सर्वतत्त्वमयः कायस्तं चेदानीं शृणु प्रिये ।
पृथिवी कठिनत्वेन द्रवत्वेंऽभः प्रकीर्तितम् ।। २२४ ।।
इत्यादि त्रिशिरोदेव(स्थित्या)स्त्रित्यायुपपन्नया (?) ।
तत्त्वैस्ततस्य देहस्य तन्त्रितस्य त्वगादिभिः ।। २२५ ।।
साधुभिर्भिन्नसन्धानैस्तदशेषभिदोज्झितम् ।
तत्सत्तासंविदात्मत्वं सतत्त्वं सततोदितम् ।। २२६ ।।
हृदयं पद्यतेरर्थतया यद्वदपेक्ष्यते ।
एवमेवात्मनः शम्भोः शब्दराशेः शरीरिणः ।। २२७ ।।
विभक्ततत्त्वभूतादिप्रथासंतानतन्त्रितम् ।
परामर्शमयत्वेन पञ्चाशद्वर्णतात्मकम् ।। २२८ ।।
विश्वं शरीरं यदिदं तदशेषभिदोज्झितम् ।
(प्. २१) तत्सत्ता संविदात्मत्वं सतत्त्वं सततोदितम् ।। २२९ ।।
हृदयं विश्रमस्थानं सच्चिदानन्दलक्षणम् ।
हे विश्रान्तिमयाह्लादविमर्शमयविग्रहे ! ।। २३० ।।
सुश्रोणि यदिदं प्रोक्तं शक्तित्रितयसंकुचत् ।
विकसत्वमयस्वात्मत्र्यश्रस्पन्दनसुन्दरम् ।। २३१ ।।
तद्विद्धि हृदयं तस्य शब्दराशितनोर्मम ।
पराया आत्मभूतायाः परामर्शतनोश्चितेः ।। २३२ ।।
एतदुक्तं भवत्येषा मामसौ संविदद्वया ।
एतेन तावत्स्पन्देन प्रोक्तबीजात्मना द्वयोः ।। २३३ ।।
कोट्योरुदयविश्रान्तितत्त्वयोः स्पन्दते तथा ।
तत्प्रभावत एवार्थप्रकाशामर्शनात्मनि ।। २३४ ।।
स्वात्मभैरवसंवित्तौ विसर्गात्मनि वक्ष्यते ।
तुर्यपर्यन्तरूपायाः क्षेपो विश्वव्यवस्थितेः ।। २३५ ।।
एतन्नायोगिनीजातो नारुद्रो लभते स्फुटम् ।
हृदयं देवदेवस्य सद्यो योगविमोक्षदम् ।। २३६ ।।
विश्वस्य बीजमेतद्यो लभते पुण्यकृत्पुमान् ।
तदैवं न पशुः सोऽयं लब्धेऽस्मिन्नेतदेव हि ।। २३७ ।।
जायते हृदयं तस्य सैतद्धृदयतैव यत् ।
भैरवत्वं ततो रुद्रयोगिनीयामलात्मनोः ।। २३८ ।।
स्वात्मभैरवभैरव्योः स्वतोऽन्योन्यावियुक्तयोः ।
स्वरूपोन्मीलनात्मात्मवीर्यपानक्रियोद्यताम् ।। २३९ ।।
दाम्पत्याज्जात एवासौ न लभेतैतदन्यथा ।
अस्मिन् ह्युन्मीलितेऽनेन हृदयेन सहैकता ।। २४० ।।
एतद्धृदयलाभश्च स एवोक्तस्वरूपयोः ।
(प्. २२) दम्पत्योर्यामलावेशा मिषत्तद्भावलक्षणः ।। २४१ ।।
एवमुन्मीलने जातमात्रे रूपमनुत्तरम् ।
यथा ददाति तत्सिद्धिं जीवन्मुक्तिमयीं पराम् ।। २४२ ।।
तथा निर्णीतमधुना यथा तदपरा अपि ।
कुलसंबन्धिनी सिद्धिः त्यक्तान्यायासडम्बरम् ।। २४३ ।।
स्वात्मसंवित्परामर्शबलादेव ददात्यमुम् ।
प्रकारं प्रकटीकर्तुं शासनोपक्रमः परम् ।। २४४ ।।
अस्योच्चारे कृते सम्यङ्मन्त्रमुद्रागणो महान् ।
सद्यस्तन्मुखतामेति स्वदेहावेशलक्षणम् ।। २४५ ।।
एतत्संवित्स्वसत्त्वं चेद्धृदयत्वं प्रपद्यते ।
तदा स्याज्जिवतो मुक्तिः परा सिद्धिरितीरितम् ।। २४६ ।।
यथा तदेव प्राणादिभूमिष्वाभाससंपदा ।
तद्रूपजाड्यमालिन्यसमुन्मूलनतत्त्वया ।। २४७ ।।
रसधातुवदुक्तैतद्रूपतापादनात्मना ।
प्रसरद्रूपतामेति तदास्या देवसंविदः ।। २४८ ।।
नाडीजयादिशास्त्रोक्तयोगसापेक्षतोज्झिताः ।
तत्समावेशपर्यायाः प्रसरात्संपदोऽखिलाः ।। २४९ ।।
अपरा अपि जायन्त इति तात्पर्यवर्णना ।
अस्येत्यमुत आरभ्य जायते यजनं प्रति ।। २५० ।।
इति पर्यवसानस्य शासनांशस्य विस्तृतेः ।
अथास्य बीजस्योच्चारे वक्ष्यमाणेन वर्त्मना ।। २५१ ।।
तदुच्चारयितुस्तस्य तदुद्योगक्रियात्मनि ।
प्राणात्मतायां जाते तु समावेशपुरोदिते ।। २५२ ।।
ज्ञानक्रियाशरीराया मन्त्रमुद्रामहौजसः ।
(प्. २३) विद्यन्ते गणनातीतविभवा गणशः स्थिताः ।। २५३ ।।
आभिमुख्यं भजन्त्येताः स्वदेहावेशतः कथम् ।
संपूर्णे वित्क्रियात्मोक्तहृदयैकात्मताजुषा ।। २५४ ।।
प्राणेनाधिष्ठितेनाहन्ताद्वारेण तदात्मकम् ।
अवश्यं कम्पघूर्ण्यादिविधायिन्यो भवन्ति ताः ।। २५५ ।।
मन्त्रमुद्रागणावेशो जातो यः प्राणदेहयोः ।
अयं तावद्विभूतीनामुपक्रमतयोच्यते ।। २५६ ।।
तदा यत्नतया तासां ता हि तत्सिद्धिसाधने ।
देवतात्वेन तद्वीर्यरूपत्वेन च सन्निधिम् ।। २५७ ।।
कुर्वाणाः साधकस्यास्य साधयन्ति समीहितम् ।
मुहूर्तं स्मरते यस्तु चुम्बकेनाभिमुद्रितः ।। २५८ ।।
स बध्नाति तदा देहे मन्त्रमुद्रागणं महत् ।
अतीतानागतानर्थान्पृष्टोऽसौ कथयत्यपि ।। २५९ ।।
तथाविधं समावेशं यदि नाडीद्वयावधिम् ।
अभ्यस्यति मुखं कुर्वन्काकचञ्चुपुटाकृति ।। २६० ।।
बहिश्चोच्छिष्टभावौघभक्षणोद्योगभावितः ।
सद्वृत्तिरूपसोमात्मशीतस्पर्शोदयावधिः ।। २६१ ।।
उच्चरन् हृदयं पीतवियच्चरसमीरणः ।
प्राणेन स्पर्शरूपेण प्रोक्तेनैकत्वमानयन् ।। २६२ ।।
नाभिस्थानस्थितस्वात्मवैश्वानरहुताशनिः ।
तज्ज्वालात्मक्रियारूपां तत्प्रीतष्टां समाचरन् ।। २६३ ।।
अपारजलधिप्रख्यामाश्रयन् कामपि स्थितिम् ।
आस्ते यदा तदा देहे वाग्रूपे कायलक्षणे ।। २६४ ।।
मन्त्रमुद्रागणावेशमवशत्वेन पश्यति ।
(प्. २४) प्रष्टश्च प्रतिवक्त्येष वस्तु कालत्रयोदितम् ।। २६५ ।।
तद्ग्रासात्प्राप्ततद्भावधिषणादत्तबिम्बितम् ।
प्रहराद्यदभिप्रेतं देवतारूपमुच्चरन् ।। २६६ ।।
साक्षात् पश्यत्यसन्दिग्धमाकृष्टं रुद्रशक्तिभिः ।
प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन् ।। २६७ ।।
अवैतथ्येन जातायां सिद्धौ तत्कथनात्मनि ।
अप्यनुज्झितपूर्वोक्ततादृशाभ्यासकौशलः ।। २६८ ।।
कांचिन्मन्त्रमयीं मुद्रामयीं वा देवतां स्मरन् ।
आस्ते चेद्यामपर्यन्तकालग्रासात्मचित्क्रियः ।। २६९ ।।
तदानीं तदवष्टम्भसामर्थ्यापादितात्मताम् ।
तामेव देवतां तत्तद्वेषभूषादिलक्षिताम् ।। २७० ।।
अध्यक्षयत्यसन्दिग्धं निजाहंसंविदात्मिकाम् ।
पुनरप्येवमेवेममभ्यासमपरित्यजन् ।। २७१ ।।
यावद्धृदयमास्तेऽसौ तदेकात्मा यदा तदा ।
देहादिकं न किंचित्स्वमावृतित्वेन पश्यति ।। २७२ ।।
अनावरणचिद्व्योमरूपं सर्वमपीक्षते ।
त्रयेण मातरः सर्वा योगीश्वर्यो महाबलाः ।। २७३ ।।
वीरा वीरेश्वराः सिद्धाः बलवान् शाकिनीगणः ।
आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः ।। २७४ ।।
यच्छन्ति परमां सिद्धिं फलं यद्वा समीहितम् ।
स्वेनान्यदेहकं येन देहेनानेन भाविते ।। २७५ ।।
सर्वात्मना क्षयं याते स्वस्यावच्छेदने सति ।
पुनरप्यनवच्छिन्नस्वसमावेशपुष्कलः ।। २७६ ।।
यामत्रितयमास्ते च तदेतच्चास्य नोदिताः ।
(प्. २५) ब्राह्म्याद्या मातरस्तत्तामाप्ता योगीश्वरीगणाः ।। २७७ ।।
त्रिपूर्वशास्त्रनिर्दिष्टा वीरा वीरेश्वराश्च ये ।
अघोरमुख्याः श्रीमन्तो नपेशाद्यास्तदीश्वराः (?) ।। २७८ ।।
तद्रूपावाप्तसिद्ध्या ये सिद्धाः साधकपुङ्गवाः ।
खेचर्यादिभिदाभाजां शक्तीनां शक्तताजुषाम् ।। २७९ ।।
मात्रन्तर्बाह्यकरणमेयप्रमितलक्षणम् ।
प्रमातुरात्मनः शंभोः स्फूर्तिः स्वातंत्र्यसंपदाम् ।। २८० ।।
या चैषा भाति ते सर्वे स्वात्मनो भैरवात्मनः ।
बलेन हि महाविश्वहठात्मीकरणात्मना ।। २८१ ।।
बीजरूपेण वीर्येण हृदयेनैकतां गताः ।
स्वरूपाच्छादने कादिधारणान्ताक्षरात्मनि ।। २८२ ।।
भोगेऽवभासने स्वस्य शादिक्षान्तान्तरात्मनि ।
तुर्यवृत्तिमयस्वात्मसंविद्ध्याप्तोक्ततत्रये (?) ।। २८३ ।।
भुक्तिमुक्त्युभयास्वादे स्वचिच्चक्रानुजीवने ।
कर्त्रेषितृज्ञातृमयस्वप्रथामर्शनात्मनि ।। २८४ ।।
विमर्शनस्वरूपस्य विसर्गात्मन्यनुत्तरे ।
आनन्दकेवलात्मीयप्रथास्वादोदयात्मनि ।। २८५ ।।
कैवल्ये चात्मता तेन भैरवेणेयतः फलम् ।
अभ्यासिने प्रदातव्यमियदित्येवमात्मना ।। २८६ ।।
व्यवस्थया प्रकर्षेण चोदितास्तदधीशिना ।
....................एव तदाविष्टशरीरादेस्तदात्मनः ।। २८७ ।।
स्थिता अनुचरत्वेन पुरतो देवतागणाः ।
.............................षमावेशैकलक्षणः ।। २८८ ।।
योगो य एष देहादेर्हृदैक्यापादनात्मना ।
(प्. २६) समावेशेन कालस्य ग्रासे संकलनात्मनः ।। २८९ ।।
अभ्यस्यंस्तं विनाप्येष शक्तीनामुक्तलक्षणम् ।
सामान्यशक्तिचक्रेशस्वरूपाध्यवसात्मकम् ।। २९० ।।
भवेत्तदीशतासिद्धियोग्यतां लभते च यत् ।
तथात्मत्वेन तासां च चक्रेऽनैति समानताम् ।। २९१ ।।
यतश्च यजने येयमितिकर्तव्यतोच्यते ।
तत्क्रियापूरकत्वेन तामविद्वानपि त्वयम् ।। २९२ ।।
ज्ञातेन हृदयेनैव पूरणात्सर्ववस्तुनः ।
विद्वान्भवति यश्चैष शङ्कासंकोचवर्तिनः ।। २९३ ।।
विधीन् नियामकत्वेन न जानात्यात्मनोऽखिलान् ।
अपि तान् ज्ञातवानेव यतो विधिमनुत्तरम् ।। २९४ ।।
चिदात्मस्वविमर्शात्महृदयैक्यस्वलक्षणम् ।
जानाति ननु चोक्तैतत्परामर्शात्मसात्कृतौ ।। २९५ ।।
यागेन भाव्यं मैवं यत्तस्मिन्नात्मन्यनुत्तरे ।
तद्योजनैव यजनं तत्तामात्रो ह्यनुत्तरः ।। २९६ ।।
अतो नयेऽस्मिन्निखिलं विधानविधिरूपकम् ।
बहिरङ्गं भवत्यन्यदिति यागः क्रियामयः ।। २९७ ।।
पूर्वभावितया चास्य ग्रहणे येन चोदिता ।
ननु यत्पूर्वमुक्तं मे हृदयं भवतोरिति ।। २९८ ।।
बीजं चतुर्दशेत्यादि तदुद्धारोपदेशने ।
तस्यान्तस्तत्त्वषट्त्रिंशद्रूपविश्वात्मताजुषः ।। २९९ ।।
शक्तिसंपूर्तिरूपाया परायाश्चात्मनश्चितेः ।
विमर्शयति सद्भावमित्याशंक्य निरूप्यते ।। ३०० ।।
कालाग्निमादितः कृत्वा मायान्तं ब्रह्मदेहगम् ।
(प्. २७) शिवो विश्वाद्यनन्तान्तः परं शक्तित्रयं मतम् ।। ३०१ ।।
तदन्तर्वर्ति यत्किंचिच्छुद्धमार्गे व्यवस्थितम् ।
अणुर्विशुद्धमचिरादैश्वरं ज्ञानमश्रुते ।। ३०२ ।।
तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः ।
सर्वगो निर्मलः स्वच्छस्तृप्तः स्वायतनः शुचिः ।। ३०३ ।।
यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः ।
तथा हृदयबीजस्थं सर्वमेतच्चराचरम् ।। ३०४ ।।
यथा घटशरावादिविकारानवलोकने ।
गन्धता तदनामर्शे क्रमेणाहंकृतात्मता ।। ३०५ ।।
यथा भूतभिदाभङ्गे सुखादित्रयरूपता ।
वेद्यवेदकतामात्रा तस्याः पार्यन्तिकी स्थितिः ।। ३०६ ।।
तद्रूपकञ्चुकामर्शवञ्चने तस्य विश्रमः ।
ब्रह्मपञ्चकरूपायां सत्तायामेव जायते ।। ३०७ ।।
सदित्यस्यापि रूपस्य प्रत्ययांशापहस्तने ।
बीजाद्यवर्णमात्रा स्याद्विश्रान्तिः पारमार्थिकी ।। ३०८ ।।
एवं जलादिमायान्ततत्त्वरूपस्य वस्तुनः ।
सर्वस्य सैव विश्रान्तिरन्त्येत्यत्रान्त्यविश्रमे ।। ३०९ ।।
सर्वमेकघनं विश्वं तद्रूपस्यापरिच्युतेः ।
अमृतीभूतमभ्येति प्रकृतिं ब्रह्मरूपताम् ।। ३१० ।।
सदेव सौम्य ब्रह्मेदमग्र इत्यध्यवस्यताम् ।
विश्रान्तिस्तावति ब्रह्मवादिनां श्रुतिवेदिनाम् ।। ३११ ।।
तन्निर्मन्थनवृत्त्या तु भैरवो विश्वसृष्टिकृत् ।
गीतं च गुरुणा सूनोः प्रथायास्तत्त्वबोधने ।। ३१२ ।।
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।
(प्. २८) यदा सतोऽस्य विश्रान्तिधाम्नोऽप्यनवलोकनम् ।। ३१३ ।।
तदा प्रथा विमर्शात्मशक्तिविश्रामितात्मनः ।
प्रकाशमानता सिद्धिरस्येत्यस्य तदेकता ।। ३१४ ।।
सा च वाञ्छाक्रियाज्ञानशक्तिष्वन्यतमा भवेत् ।
सर्वं वस्तु सदिच्छामि जानामित्यादिसंविदि ।। ३१५ ।।
विश्रम्य व्यवहाराय नियतायोपकल्पते ।
इच्छामीत्यत्र केच्छायामस्ति ज्ञानक्रियात्मता ।। ३१६ ।।
प्रथा संरम्भरूपायामेवमेवान्ययोरपि ।
अस्त्येवान्योन्यरूपत्वमतस्तत्त्रितयात्मनि ।। ३१७ ।।
शक्तौ त्रिशूलरूपायां तद्विश्रान्तं प्रकाशते ।
तस्यापि तत्त्रयस्यैकं स्वतन्त्रं कर्तृतत्त्वतः ।। ३१८ ।।
अध ऊर्ध्वोद्यदिन्द्वर्कमयबिन्दुद्वयात्मता ।
विश्वविश्वोत्तरस्वात्मव्यञ्जनस्वरतामयी ।। ३१९ ।।
ज्ञेयाद्युपायसंघातनिरपेक्षाद्वयोदयात् ।
ज्ञप्तिञ्च ज्ञातृतारूपामहमित्याश्रयत्तनुम् ।। ३२० ।।
प्रकाशमानमेवात्मरूपं तात्त्विक इष्यते ।
तदेतद्वेद्यविद्वेत्तृविश्रान्तित्रयलक्षणम् ।। ३२१ ।।
बीजस्य रूपमित्युक्तं भवत्यत्र हि विश्वता ।
संपूर्णशक्तिरूपत्वं स्वात्मभैरवरूपता ।। ३२२ ।।
एवं हृदयरूपायाः सिद्धा आसंश्चितेरिमाः ।
प्रधानीकुरुते तत्र यां विश्रान्तिं तदन्तता ।। ३२३ ।।
तदंशाध्यवसायत्वप्राप्तान्यांशद्वयोदया ।
बीजोच्चारस्य रूपं स्यान्नतु तत्तत्कलान्तता ।। ३२४ ।।
भुक्तिश्च भुक्तिमुक्ति च मुक्तिश्चेत्यत्र सिद्धयः ।
(प्. २९) स्वात्मभैरवचिद्रपे प्रकाशेऽहमिदन्तया ।। ३२५ ।।
इच्छादिशक्तिद्वारेण सतः पूर्वोक्तलक्षणः ।
अक्रमक्रमरूपेण क्षेपो वैसर्गिकी स्थितिः ।। ३२६ ।।
सद्रूपमेतद्वेद्यञ्च वेदकं भैरवात्मकम् ।
उभयस्पर्शनाच्छक्तिरूपा चातुर्दशी स्थितिः ।। ३२७ ।।
अवरोहक्रमेणैव वेत्तृवेदनरूपतः ।
वेद्यविदितृसामान्यरूपता ब्रह्मणि स्थितिः ।। ३२८ ।।
शान्तोदितोभयात्मैतत्त्र्यश्रैकरसतामयी ।
परा विसर्गता यस्य विश्रान्तित्वेन सम्मता ।। ३२९ ।।
विश्वात्मा पूर्णशक्तिश्च नाथो भैरव एव सः ।
इति कालाग्निमित्यादेः सर्वमेतच्चराचरम् ।। ३३० ।।
इत्यन्तस्यागमांशस्य तात्पर्यमवधार्यताम् ।
ग्रन्थोऽथ योज्यते पृथ्व्यां यन्निवृत्तिकलात्मनि ।। ३३१ ।।
पुरषोडशकं प्रोक्तं कालाग्न्यादि तथा च यत् ।
जलादिमूलपर्यन्ते प्रतिष्ठाख्याकलात्मनि ।। ३३२ ।।
नकुलीशादिषट्पञ्चाशत्संख्यात्मकं पुरं स्थितम् ।
पुमादिमायापर्यन्ते विद्यात्मनि च या स्थिता ।। ३३३ ।।
पुराष्टाविंशतिर्वामप्रमुखा तैः शतात्मभिः ।
भुवनैः सह पृथ्व्यादिमायान्तं तत्त्वमण्डलम् ।। ३३४ ।।
पुरैर्हालाहलारम्भैरष्टादशभिराचिते ।
शान्तितत्पररूपान्यकलाद्वितयविग्रहे ।। ३३५ ।।
उक्तस्य ब्रह्मणो देहे तत्त्वपञ्चकलक्षणे ।
कादिहान्तपरामर्शरूपं विश्रान्तिमृच्छति ।। ३३६ ।।
षट्त्रिंशत्तत्त्वरूपस्य सतोऽस्य व्यञ्जनात्मनः ।
(प्. ३०) आदीः कर्तृज्ञेतृज्ञातृमयो ह्रस्वत्रयात्मकः ।। ३३७ ।।
शिवः स्वरात्मा यो या च तदिच्छा शक्तिरूपिणी ।
अनुत्तरा परेच्छा च परापरतया स्थिता ।। ३३८ ।।
उन्मेषशक्तिर्ज्ञानाख्या त्वपरेति निगद्यते ।
इत्यानन्देशनोनत्वमयदीर्घस्वरात्मिका (?) ।। ३३९ ।।
शिवा शक्तित्रयमयी स्यात्तद् बिन्द्वन्तवेदना ।
तदेतद् द्वितयं कर्तृक्रियारूपमनुत्तरे ।। ३४० ।।
विसर्गात्मनि चिद्रूपे स्वतन्त्रेऽनन्तनामनि ।
न विद्यतेऽन्यपर्यायो यस्यान्तस्तत्र चात्मनः ।। ३४१ ।।
अशेषशक्तिसंघट्टपरामर्शमयात्मनि ।
तुर्यसन्ध्यर्णरूपायां चितौ चानुत्तरेशितुः ।। ३४२ ।।
विश्राम्यति य एषोऽस्य शब्दराशिमहातनोः ।
विसर्गस्यात्तविश्वस्य चोदकत्वेन वर्तते ।। ३४३ ।।
चतुर्दशमयः प्राणः शिवस्यात्मतया शिवः ।
स एव शुद्धविद्यादौ शिवान्ते तत्त्वपञ्चके ।। ३४४ ।।
स्वव्यापिब्रह्मणो देहे सतोऽव्यापकतां भजन् ।
ज्ञेयस्तत्रांशतो विद्यामायात्मात्वाद्यपर्वणि (?) ।। ३४५ ।।
भिन्नस्य भिन्नाभिन्नस्य सर्वस्य ज्ञातृतापदम् ।
स्वमायासङ्कटोत्तीर्णं प्राप्नोति परमेशिताम् ।। ३४६ ।।
पाशैरागन्तुकैर्मायाविभ्रमैः कञ्चुकात्मभिः ।
वियोगात्स्वैरसञ्चारो भवेत्संविन्मयोऽम्बरे ।। ३४७ ।।
सहजाणववैकल्यसिद्धिसंभावनापरम् ।
वैमल्यमीऽस्वराख्ये च द्वितीये याति पर्वणि ।। ३४८ ।।
तथा पर्वणि सादाख्ये तृतीये वेद्यलक्षणः ।
(प्. ३१) इदं प्रतीतिरूपस्य विश्वरूपस्य वस्तुनः ।। ३४९ ।।
आच्छादितत्वात्स्वं वीर्यं प्रत्याहृतसमस्तया ।
अहमाशान्तकल्लोलश्चिदब्धिः स्वास्थ्यमश्नुते ।। ३५० ।।
शक्तिरूपे तथा स्वस्मिन्नन्यसापेक्षतोज्झिते ।
स्वभानादात्मनः पूर्णादवियोगिन्यनश्वरे ।। ३५१ ।।
आत्मन्यायतते तिष्ठन् बुद्ध्यते स्वस्य पूर्णताम् ।
तत एव शिवाख्येऽस्मिन्नशुद्धेर्भेदलक्षणः ।। ३५२ ।।
सर्वात्मना तिरोधानाच्छुचिः संवर्तको भवन् ।
कर्षानुत्तरसंघट्टत्र्यश्रसंविन्नभोऽन्तरे (?) ।। ३५३ ।।
स्वाहाज्वालासमालीढतत्त्वौघो ज्वलति स्वयम् ।
एवं चोदकरूपस्य शिवस्यैवं स्वरूपतः ।। ३५४ ।।
एतद्विश्रान्तिनिष्ठोऽणुरुक्तेनाभ्यासवर्त्मना ।
मुहूर्तादिक्रमेणैव पुरोक्ते तत्त्वपञ्चके ।। ३५५ ।।
शुद्धाशुद्धाध्वरूपे यद्वर्तते दृक्क्रियामयम् ।
स्वातन्त्र्यमैश्वरं सर्वमश्नुते तत्परः परम् ।। ३५६ ।।
एवं मुक्तिमयी भुक्तिः फलत्वेनास्य कीर्तिता ।
चोदकाभ्यासनिष्ठस्य विसर्गांशव्यवस्थितेः ।। ५५७ ।।
मुक्तिर्ब्रह्मांशनिष्ठस्य भुक्तिश्चैकेति सूचिता ।
चतुर्थ्यां परविश्रान्तौ सर्वमेकरसात्मना ।। ५५८ ।।
अभेदेनैतदुक्तं तत्त्रयमास्ते यथा महान् ।
वृक्षो न्यग्रोधधानायां तद्धानात्मस्वरूपया ।। ५५९ ।।
तच्छक्त्यैवात्मना भाति तथात्र हृदयात्मनि ।
बीजे तच्छक्तिभेदेन चरं शुद्धं प्रमातृ च ।। ३६० ।।
अचरञ्च तथाशुद्धं मेययं च प्रथतेऽखिलम् ।
(प्. ३२) तस्माद्यत् सूचितं पूर्वं सद्यो योगविमोक्षदम् ।। ३६१ ।।
अरुद्रयोगिनीजातो न लभेतैतदित्यतः ।
स्वात्मचिद्भैरवावेशमात्रसिद्धिप्रयोजनम् ।। ३६२ ।।
तदेतदुपसंहारद्वारा प्रकटमुच्यते ।
एवं यो वेद तत्त्वेन तस्य निर्वाणगामिनी ।। ३६३ ।।
दीक्षा भवत्यसंदिग्धा तिलाद्याहुतिवर्जिता ।
एवमुक्तेन रूपेन निःशङ्कत्वेन निश्चितः ।। ३६४ ।।
यो वेत्ति हृदयत्वेन बीजमेतद्विकस्वरम् ।
तस्यास्य परमार्थेन दीक्षा निर्वाणसत्फला ।। ३६५ ।।
भवत्येवास्तसन्देहा तथा ह्येष स्वसंविदा ।
एतद्धृदयतालाभे तद्गताभिस्तदात्मभिः ।। ३६६ ।।
संविद्भिर्दत्तमेवैतत्पूर्वं हृदयलक्षणम् ।
ज्ञानं क्षपितमेवैवं संकोचात्म च पाशवम् ।। ३६७ ।।
जानात्येव ततो दीक्षा दानक्षपणलक्षणा ।
स्वप्रतीतिप्रथासारा सैषा ज्ञानस्वरूपिणी ।। ३६८ ।।
अतो नात्र तिलादीनामुपयोगः क्रमात्मनाम् ।
एतावज्जीवतो मुक्तिमात्रनिष्ठितचेतसः ।। ३६९ ।।
एतल्लाभादिकं किंचिन्नोपयोगीति दर्शितम् ।
अधुना तु समावेशाभ्यासार्थमुपयोगवान् ।। ३७० ।।
पूजाविधिः स वक्तव्यो यतो वक्ष्यति शासनम् ।
कृतपूजाविधिर्बीजं स्मरन् स्यात्सिद्धिभागिति ।। ३७१ ।।
तस्मादत्र शरीरादौ तदभ्यासोपदर्शनम् ।
कृतं करिष्यते चेति विधातुं तत्र हृन्मतिम् ।। ३७२ ।।
प्राप्तं तालमनुक्तादौ न्यासमेवाह शासनम् ।
(प्. ३३) मूर्ध्नि वक्त्त्रे च हृदये गुह्ये मूर्त्तौ तथैव च ।। ३७३ ।।
न्यासं कृत्वा शिखां बद्ध्वा सप्तविंशतिमन्त्रिताम् ।
एकैकेन दिशां बन्धं दशानामपि कारयेत् ।। ३७४ ।।
तालत्रयं पुरा दत्त्वा सशब्दं विघ्नशान्तये ।
पुष्पादिकं क्रमात्सर्वं लिङ्गं वा स्थण्डिलं चवा ।। ३७५ ।।
शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत्ततः ।
स्वचैतन्यैकतानीतजगत्त्रित्वोदयात्मकम् ।। ३७६ ।।
वाचः पराया वक्त्यर्थरूपाया हृदयात्मनः ।
विवक्षाध्यवसोक्त्यात्मपश्यन्त्यादिक्रमात्मनः ।। ३७७ ।।
परादिशक्तिरूपेण प्रसरत्त्रित्वसूचकम् ।
मातृमानार्थसद्भाववाच्यांशत्रितयात्मकम् ।। ३७८ ।।
हृदयं भैरवीयं तदात्मत्वेनावधारयन् ।
तदंशोऽन्तरुपांशूच्चैः शब्दनक्रमलक्षणम् ।। ३७९ ।।
शक्त्यादिचतुरण्डोद्यत्पातालक्ष्मान्तरिक्षगान् ।
सर्वान् शमयितुं विघान् भेदतद्धीमयान्विभून् ।। ३८० ।।
तालत्रयं पार्ष्णिहस्तमुखशब्दनमाचरन् ।
स्वीकुर्वन्मातृमापीयत्रयसद्भावलक्षणम् ।। ३८१ ।।
सृष्टिं स्वकीयामाविश्य संविदं शक्तिमादितः ।
जन्मचारप्रवाहाख्यलयविच्छित्तिलक्षणाः ।। ३८२ ।।
दृश्यमानाः शरीरेऽत्र स्वकीये सततोदिताः ।
आत्मनो भैरवीयस्य हृदयामृतवारिघेः ।। ३८३ ।।
चिदानन्दैषणाज्ञानक्रियाख्याः स्पन्दसंपदः ।
विमृश्य हृदयेऽत्रैव सर्वतत्त्वमये निजे ।। ३८४ ।।
भाति देहतया कास्यहृद्गुह्याङ्घ्रिह(?)यात्मता ।
(प्. ३४) पञ्चकृत्वो न्यसेद्बीजं तेषु स्थानेषु पञ्चसु ।। ३८५ ।।
विश्वसत्तामयब्रह्मपञ्चकस्फूर्त्तिलक्ष्मसु ।
एवं हृदयविद्वद्भिः समाश्लेषात्तदात्मनः ।। ३८६ ।।
शिखावतोऽस्य देहस्य या शिखा संविशिष्यते ।
तद्व्यापकतया द्योतत्तज्ज्वालारूपणोचिते ।। ३८७ ।।
बुद्धिप्राणमयात्मीयप्रकाशस्पन्दनात्मता ।
तस्याः स्वव्यापितद्देहषट्त्रिंशत्तत्त्वरूपता ।। ३८८ ।।
तासामन्योन्यभावेन प्रत्येकं पञ्चकात्मता ।
शक्तीनां पञ्चविंशत्या प्रोक्ताभ्यां च तदात्मनः ।। ३८९ ।।
द्वाभ्यामुभयविश्रान्तितत्त्वाभ्यां तत्त्वसंपदम् ।
जातया सप्तविंशत्या बीजोच्चारस्वरूपया ।। ३९० ।।
विमृश्य बन्धनं कुर्यात् तत्त्वेत्यनियमात्मकम् ।
स्थूले सूक्ष्मे परे देहे कृत्वैवं हृदयात्मताम् ।। ३९१ ।।
दिशो दिशापि हृदयपरामर्शैकशेषताम् ।
नयेत्सकृत्सकृद्बीजं स्मरन्नास्ते कृताखिलः ।। ३९२ ।।
अथार्घ्यपात्रविश्रान्तपरानन्दरसस्य च ।
शिखासमाधिनाधाय हृदयैकस्वरूपताम् ।। ३९३ ।।
तक्षणाभ्युक्षणद्वारा कृत्वेदन्तां विलापयेत् ।
पूजोपयोगिपु.पौघं तदेकरसतां नयेत् ।। ३९४ ।।
पूजाधिकरणं लिङ्गं स्वान्तादि च यथोदितम् ।
सामान्यतो विशेषाच्च कृत्वैवं भेदधिलयम् ।। ३९५ ।।
हृदयैकात्मतां नीते तत्त्वादौ वेद्यविस्तरे ।
आधाराभिमते क्वापि संभवत्यत्र वस्तुनि ।। ३९६ ।।
पूज्यस्वरूपनिष्कर्षपूर्वं पूजोच्यतेऽधुना ।
(प्. ३५) चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना ।। ३९७ ।।
तत्र सृष्टिं यजेद्धिरः पुनरेवासनं ततः ।
सृष्टिं तु संपुटीकृत्य पश्चाद्यजनमाचरेत् ।। ३९८ ।।
सर्वतत्त्वसुसंपूर्णां सर्वावयवभूषिताम् ।
यजेद्देवीं महेशानीं सप्तविंशतिमन्त्रिताम् ।। ३९९ ।।
ततः सुगन्धिपुष्पैश्च यथाशक्त्या समर्चयेत् ।
पूजयेत्परया भक्त्या आत्मानं च निवेदयेत् ।। ४०० ।।
यैषा विस्पष्टताद्यात्मजागरादिप्रथामयी ।
पृथिव्यादिपुमन्तानां तत्त्वानां पञ्चविंशतिः ।। ४०१ ।।
तत्संभावमयीमाद्यां कलां हृदयसंविदः ।
आद्यं पर्वात्मतत्त्वाख्यं तदुन्मेषोनतात्मकम् ।। ४०२ ।।
तद्भिन्नाभिन्नसंवित्तिकञ्चुकब्रह्मविग्रहम् ।
तत्त्वद्वयं शक्तिशंभुमयं व्याप्यावभासिनीम् ।। ४०३ ।।
त्रिशूलरूपिणीं वृत्तिं तुरीयामुत्तरं तथा ।
परामृश्यासनांशस्य पर्वतद्द्वयविग्रहे ।। ४०४ ।।
आसनेऽस्मिन्नशेषैतत्सद्रसैकत्वचिन्मयीम् ।
आत्मनोऽनुत्तरस्यात्मभूतां भैरवरूपिणः ।। ४०५ ।।
स्वान्तः स्थाव्यतिरेकेण क्षिप्त्वादिक्षान्तसृष्टिकाम् ।
विसर्गरूपिणीं वृत्तिं तुर्यातीतात्मिकां पराम् ।। ४०६ ।।
विमृश्य देवतां पूज्यां विसर्गं बीजमुच्चरन् ।
पुष्पेण तां प्रतिष्ठाप्य तस्यां तत्तादृशात्मनि ।। ४०७ ।।
तदासनांशविश्रान्ततत्त्वक्रमशरीरिणीम् ।
अशेषां वाङ्गमयीं सृष्टिं तुर्याद्याभोगशालिनीम् ।। ४०८ ।।
क्षिपेद्येन विसर्गोऽयं तन्मध्यस्थानुभावतः ।
(प्. ३६) तदुत्तिर्णी तदात्मानं सर्वक्रमशरीरिणीम् ।। ४०९ ।।
सर्वैरवयवीभूतैर्भूषितां भावराशिभिः ।
स्वात्मीकृत्य स्वयं भाति कला सा तादृशी परा ।। ४१० ।।
ततस्तादृशतद्रूपस्वरूपामर्शरूढये ।
हृदयङ्गमतारूप - सौरभ्यभरितोदयैः ।। ४११ ।।
स्वात्मार्पणवशात्तस्मिंस्तस्य रूपस्य पोषकैः ।
पुष्पादिसद्भावजातैरुपचारैर्यथोदितैः ।। ४१२ ।।
तां देवतां तदात्मत्वचमत्काररसात्मना ।
पूर्णया स्वस्य संवित्त्या तत्पूर्त्यादर्शरूपया ।। ४१३ ।।
स्नानधूपाञ्जनालेपताम्बूलासवमुख्यया ।
बाह्यया चापि संपत्त्या पूजयेत्सम्यगात्मनः ।। ४१४ ।।
देहादिना निमग्नत्वमयप्रहृत्यपूर्वया ।
तत्पूज्यदेवतासंविदुत्कर्षामर्शरूपया ।। ४१५ ।।
तदेकरसतावेशश्रद्धातिशयतत्त्वया ।
भक्त्या भजनरूपिण्या परया पूर्णरूपया ।। ४१६ ।।
परा च याऽसौ पुष्पादेर्भक्तिः पूजोपयोगिनी ।
उक्तैतत्स्वात्महृदयहठावेशक्रियापदः ।। ४१७ ।।
भागः परिमलाद्यात्मा तच्छक्तिस्तत्स्वरूपया ।
भक्त्येत्युक्तेन रूपेण पूजायाः पूर्तिलक्षणः ।। ४१८ ।।
संपूर्यमाणमात्मानं सर्वाभेदघनां चितिम् ।
सप्तविंशतिवारोक्तहृदयामर्शनक्रियः ।। ४१९ ।।
निश्चितेनात्मभावेन .......................................... (?) ।
नियतेनात्मभावेन नियमेनामृशेन्मुहुः ।। ४२० ।।
एषा पूजोदिता तावदस्याः पूर्तीहलक्षणा ।
(प्. ३७) सा भोक्त्र्याः संविदस्तस्या भुक्तायास्तत्त्वपद्धतेः ।। ४२१ ।।
पुनः प्ररोहौचित्यात्मसंस्कारात्मतया स्थितिम् ।
अजीर्णेव भिदा जन्मव्यापिशंकोदयावधिम् ।। ४२२ ।।
न भवेद्भस्मसाद्भावतद्भोग्यत्वविलापनम् ।
अतीत्वेत्याशयेनैनां सपर्यामुपसंहरन् ।। ४२३ ।।
सूचयत्यतिदिष्टेन विधानेन हुतिक्रियाम् ।
एवं यजनमाख्यातमग्निकार्येऽप्ययं विधिः ।। ४२४ ।।
हुतिक्रियायां तत्रापि तद्विभूतार्घ्यविप्रुषा ।
अभ्युक्षणं तिलादीनां स्रुक्स्रुवादेर्हुताशनः ।। ४२५ ।।
हुताशने च पूर्वोक्तवर्त्मनासनकल्पनम् ।
भोक्तृस्वरूपनिष्कर्षस्तत्राक्षेपो जगत्स्थितेः ।। ४२६ ।।
तद्भुक्ततत्त्वसंस्काररूपभोग्यविलापनम् ।
हवनेन तिलादीनां षट्त्रिंशत्तत्त्वताजुषाम् ।। ४२७ ।।
तदेकरसतावेशतत्त्वात्मा वर्णरूपिणी ।
पूर्णाहुतिक्रियेत्येवं तत्प्रकारः प्रतीयताम् ।। ४२८ ।।
एवं यजनहोमात्मा पूजैषा पूर्तिरूपिणी ।
आभ्यन्तरत्वसंकॢप्त्या बाह्यद्रव्योपसंहृतेः ।। ४२९ ।।
निवर्तितेन भावेन सूत्रे पश्चात्तु संगतिः ।
कृतपूजाविधिः सम्यक्स्मरन्बीजं प्रसिद्ध्यति ।। ४३० ।।
......................................षम्यक् चेत्तेन वर्त्मना ।
वक्ष्यमाणेन विश्वस्य बीजं हृदयमात्मनः ।। ४३१ ।।
स्मृतिरूपपरामर्शविषयत्वं समानयन् ।
सम्यक् चापास्तसन्देहविभ्रमावाप्तिलक्षणाः ।। ४३२ ।।
प्रकृष्टेन प्रकारेण सिद्धिः पूर्वोक्तलक्षणाः ।
(प्. ३८) त्रैकाल्यदर्शनाद्यास्ता भगवान् भैरवो यथा ।। ४३३ ।।
आप्त्वानेनैव देहेन प्रसिद्धो भुवने भवेत् ।
बीजात्मनो विमर्शस्य भातोऽप्यभिनवात्मनः ।। ४३४ ।।
अस्य पूर्वा(र्णा)दिरूपेण स्वरूपेणावभासनात् ।
अपास्तकालकलनाभेदयोगितयोद्यतः ।। ४३५ ।।
आभासनीलरूपस्य सर्वथाभ्यन्तरस्य च ।
सतोऽवभासनादुक्तं विश्रान्तित्रयलक्ष्मणः ।। ४३६ ।।
वस्तुनः स्मृतिसादृश्यात्स्मृतित्वेनोपदेशनम् ।
शत्रा च प्रत्ययेनास्तविच्छेदस्वापभासनम् ।। ४३७ ।।
परामृष्टारमादेवं वन्दे (?) दर्शयता शिवम् ।
सूच्यतेऽयं परामर्शः तथा स्वीक्रियतां यथा ।। ४३८ ।।
उक्ताद्विच्छेदराहित्यादकालकलितत्वतः ।
सकृदक्रमरूपेण विशेषेणात्मतात्मना ।। ४३९ ।।
भाति स्वानुभवेनैव प्रमाणेनास्तसंशयम् ।
इति नन्विदमुक्तं यत् सम्यक् बीजं स्मरन्निति ।। ४४० ।।
तत्सम्यक्त्वं स्मृतेरस्याः पूर्वं यद्यपि दर्शितम् ।
कालाग्निमादीत्यनेन ग्रन्थेन विततात्मना ।। ४४१ ।।
तथापि स्फुटताभाजा रूपेणास्य विनिर्णयम् ।
विधातुं विधिरूपेण निरूपयति शासनम् ।। ४४२ ।।
आद्यन्तरहितं बीजं विकसत्तिथिमध्यगम् ।
हृत्पद्मान्तगत ध्यायेत्सोमांशुं नित्यमभ्यसेत् ।। ४४३ ।।
बीजं वाचकरूपं यद्वाच्यः सोमांशुरस्य यः ।
उमया स्वात्मसंवित्त्या विश्वोत्तरतदात्मना ।। ४४४ ।।
आत्मनोदयमानोऽसावात्मा सोमस्य भात्मनः ।
(प्. ३९) ज्ञातृताकर्तृतारूपयामलात्मा स्वतन्त्रता ।। ४४५ ।।
इच्छादिसंविच्छक्त्यैक्यमयी संघट्टरूपता ।
पृथ्व्यादिशिवपर्यन्तषट्त्रिंशत् स्फूर्तीरूपता ।। ४४६ ।।
इत्येतत्त्रितयात्मा च प्रकाशः सार्वकालिकः ।
द्वयं तदपि भेदेन वाच्यवाचकतात्मना ।। ४४७ ।।
अभ्यसेदुपदेशो यः पाठे सोमाशुमित्यतः ।
सोमांशमिति पाठे तु पूर्णचिच्चन्द्रलक्षणः ।। ४४८ ।।
प्रकाशानन्दसद्भावमत एव स्वभावतः ।
ज्वलनं गलनं चैव वृत्तिं सारयताश्रयन् ।। ४४९ ।।
संकुचद्विकसत्त्वेन तेन स्वातन्त्र्यलक्ष्मणा ।
प्रदर्शयन्पृथिव्यादिशिवान्तां तत्त्वविस्तृतिम् ।। ४५० ।।
तदुन्मेषनिमेषात्मसंविच्छतततोदयम् ।
तत्संपादनसामर्थ्यसतत्त्वस्वपुरामयम् ।। ४५१ ।।
सकारौकाराःकारात्मस्वकीयांशत्रयात्मना ।
उत्तरोत्तरमाविष्टं शश्वत् भागत्रयेण च ।। ४५२ ।।
अनुत्तरत्रिकोणात्म यदेतद्धृदयं महत् ।
सोमश्चांशाश्च सोमांशमिति सामस्त्यमानतः ।। ४५३ ।।
समाहारस्वरूपेण द्वन्द्वेनापादितोदयम् ।
तदेतदाभिमुख्येन स्वसंविद्रूपविश्रमम् ।। ४५४ ।।
चतुष्कं शून्यधीप्राणदेहात्मनि चतुष्टये ।
चतुष्टयं तूत्तरत्र क्षिपेत् पूर्वादितो यथा ।। ४५५ ।।
तथा सोमांशतैवात्र जडतालो(रो)हलक्षणा ।
शून्यादितैव तत्रापि त्यक्तपारोक्ष्यमीलना ।। ४५६ ।।
भासते चिन्मयत्वेन प्रत्यक्षत्वेन वाङ्मनः ।
(प्. ४०) बिलमुक्तं भवेद्रूपं विसर्गाणां चतुर्विधम् ।। ४५७ ।।
तत्र सोममयं पूर्णमुदयव्ययवर्जितम् ।
सकृद्विभातं विश्वस्य बीजं तद्भावतः सदा ।। ४५८ ।।
पीतः स विश्वभावेन विश्वस्थितिविधायिनाम् ।
तत्संकलनरूपत्वस्वभावात्कालताजुषाम् ।। ४५९ ।।
शब्दराशिमयस्वात्मलहरीस्पन्दनात्मनाम् ।
संविन्मरीचिचक्राणा चक्रवर्तित्वमास्थितम् ।। ४६० ।।
समस्तज्ञेयशून्यत्वमयस्वप्रथनात्मनि ।
जानाति सातु तन्मात्रे प्रकाशे प्रत्यगात्मनि ।। ४६१ ।।
क्षिपेदभेदतो येन सोमस्यात्मतयोदयात् ।
अमित्यपास्तपारोक्ष्यं साक्षित्वं सततं भवेत् ।। ४६२ ।।
सोमे तत्रात्मनः क्षेपात् प्रतीचस्तत्तयोदयात् ।
त्यक्तसंकोचमालिन्यमीलनाविशदात्मनः ।। ४६३ ।।
अशेषविश्वभरितमचिन्त्यानन्तशक्तिकम् ।
अखण्डैकरसानन्दस्फुरणात्मकमद्वयम् ।। ४६४ ।।
आत्मत्वमनिदंत्वेन भवेत् साक्षादनारतम् ।
सोमस्यैवं विसर्गस्य पूर्णसंवेदनात्मनः ।। ४६५ ।।
पूर्णभैरवतैवोक्ता सिद्धिरित्युदितं भवेत् ।
तदंशेषु यदाद्यन्तस्वरव्यञ्जनवर्जितम् ।। ४६६ ।।
बीजं विसर्गरूपत्वात् स्थितं पूरयतान्निजाम् ।
शब्दनात्मतया स्वीयस्वविमर्शात्मताजुषाम् ।। ४६७ ।।
स्वप्रकाशाविनाभूतस्वयंप्रथनलक्षणाम् ।
चिदादिबिन्दुपर्यन्तसंवेदनमयात्मनाम् ।। ४६८ ।।
स्वराणां तिथिरूपाणां विकासौन्मुख्यलक्षणम् ।
(प्. ४१) स्वेशनासंविदन्तःस्थं स्वशक्त्या तुर्यरूपया ।। ४६९ ।।
आभासितं बहिष्ट्वेन कादिक्षान्ताक्षरात्मकम् ।
पृथिव्यादिशिवात्मान्तविश्वमात्मतया श्रयत् ।। ४७० ।।
तद्विद्यायामशुद्धायामपूर्णोऽस्मीति संविदि ।
अशेषाभेदकलनावागुरासूत्रणात्मनि ।। ४७१ ।।
सुखी दुःखी विमूढोऽस्मीत्येवंधीवृत्तिलक्ष्मणि ।
हृदि क्षिप्द्येन सोऽयं विसर्गः पूर्णचिन्मयः ।। ४७२ ।।
तत्सामान्यतया तत्त्वमाप्त्वा साक्षाद् भवेत्सदा ।
सा च क्षिप्ता विसर्गेऽस्मिन् तदेकरसतां गता ।। ४७३ ।।
तत्पूर्णतासमाविष्टा सर्वतत्त्वशरीरिणी ।
सर्वाक्षरसमाहारसंविद्रूपाहमात्मिका ।। ४७४ ।।
ज्ञातृताकर्तृतारूपप्रमातृत्वात्मिका भवेत् ।
विसर्गात्मा विसर्गोऽयं विश्वं वेत्त्यहमित्यतः ।। ४७५ ।।
वेदको वित्तिभेदैक्यविधातैवं निरूपितः ? ।
सोमस्य वेदितुस्तस्य या शक्तिर्वाङ्मयी परा ।। ४७६ ।।
वित्तिर्यया विदन्विश्वं स्मरन्नयमपोहति ।
स्वान्तःस्थितं तदात्मानं भवन्संविन्मयत्वतः ।। ४७७ ।।
एतदाद्यन्तभूतैतत्सद्विसर्गद्वयोज्झितः ।
बीजं त्रिशूलवृत्त्यात्मविश्वस्थितिमयात्मना ।। ४७८ ।।
स्वरव्यञ्जनरूपाणां कलानां कलनत्वतः ।
चोदकत्वेन माध्यस्थ्यरूपं तादात्म्यमाश्रयत् ।। ४७९ ।।
मायामयसुषुप्त्युद्यद्बीजात्माहङ्क्रियात्मनि ।
कलनात्मतया योगकलातत्त्वस्वरूपिणी ।। ४८० ।।
समीरात्मतया पञ्चवृत्तिस्पन्दनलक्षणे ।
(प्. ४२) प्राणे हृद्युक्तिवेद्येन चोदिकेयं तदात्मताम् ? ।। ४८१ ।।
पूर्णसंफ(क)लनात्मत्वादाप्त्वा साक्षाद्भवेत्सदा ।
तत्र क्षेपात्तथा प्राणस्तन्मयीभावयोगतः ।। ४८२ ।।
स्वस्पन्दनमयाशेषस्वरव्यञ्जनवाङ्मयः ।
सर्वतत्त्वमयत्वेन तन्मयं देहमाविशन् ।। ४८३ ।।
ज्ञानस्मृतिविकल्पात्मविश्वसंवेदनात्मकम् ।
वेदितुं करणं मत्वा भवेत् साक्षादनाश्रितः ।। ४८४ ।।
सोमस्य वेदितुस्तस्य स्वात्मनो वेदनात्मनः ।
तया करणसंपत्त्या संपादितजगत्स्थितेः ।। ४८५ ।।
यैषा संबन्धसामान्यद्रव्यदिक्कालरूपिणी ।
सत्तात्मा कर्तृतारूपा क्रियास्मीत्यनपायिनी ।। ४८६ ।।
सृष्टिस्वरूपिणी विश्वं षट्त्रिंशत्तत्त्वसन्ततिम् ।
शरीरयन्ती शब्दाब्धेस्तस्य प्रत्याहृतक्रमा ।। ४८७ ।।
अहमित्यात्मविश्रान्तिः सा सदोदेति सर्वदा ।
तत्स्वरेणादिभूतेन विसर्गेणान्तिमेन च ।। ४८८ ।।
रहितं केवलं बीजं सद्रूपं तत्त्वलक्षणम् ।
आत्मना लब्धसत्तानां तत्त्वानां वेदनात्मनः ।। ४८९ ।।
दशायाः शक्तिरूपाया अवरुह्येदमात्मना ।
संविदा वेदनीयत्वं प्राप्तानां स्थितिमाजुषाम् ।। ४९० ।।
विश्वस्य कादिक्षान्तात्मस्वरव्यञ्जनतात्मनाम् ।
माध्यस्थ्यमात्मतारूपं चोदकस्वरतामयम् ।। ४९१ ।।
आश्रयद्धृदये देहे क्षिपेद्येन तदात्मिका ।
सैषा क्रिया तत्सद्भावरूपा साक्षाद्भवेत्सदा ।। ४९२ ।।
तत्र क्षेपेण देहोऽयं तल्लीनत्वेन तन्मयः ।
(प्. ४३) तद्भूतमुखपाण्यङ्घ्रिमध्यधातुसमीरचित् ।। ४९३ ।।
अनपोह्यान्यभावेन तस्याहंत्वेन वेद्यताम् ।
अन्तःकृताखिलार्थेन भवेत् प्राप्तमनारतम् ।। ४९४ ।।
इत्येवं सोमताभाजामंशानामंशताजुषाम् ।
सोमस्य च स्वरूपेण शून्यादीनां चतुष्टयम् ।। ४९५ ।।
स्वीकुर्वन्नात्मना सिद्धरसन्यायेन रूपयन् ।
विसर्गेण विधायैषां तन्मयत्वे स्ववर्णताम् ।। ४९६ ।।
अपोह्य पूर्वतद्रूपजाप्यरूपान्यथाकृताम् ।
पूर्वोक्तेन पथाभ्यस्यन् सोमास्थानन्दलक्षणम् ।। ४९७ ।।
कालस्य ग्रसनं कुर्वन्मुहूर्त्तादिक्रमात्मनः ।
यान्यान्कामयते कामांस्तांस्तांच्छिघ्रमवाप्नुयात् ।। ४९८ ।।
आरभ्य मन्त्रमुद्राणामावेशं प्राणदेहयोः ।
षट्त्रिंशत्तत्त्वविष्टया च स्वातन्त्र्यावाप्तिसंपदम् ।। ४९९ ।।
अवधीकृत्य पूर्वोक्ताः सिद्धिः सम्यगवाप्नुयात् ।
अह्ना प्रत्यक्षतामेति सर्वज्ञत्वं न संशयः ।। ५०० ।।
यावद्यामचतुष्कात्मदिनं तावदवस्थितिः ।
यद्याचरति पूर्वोक्तसोमस्वादनलक्षणम् ।। ५०१ ।।
तदास्य सर्वतोऽव्यक्ते वितते स्वात्मतेजसा ।
मायासंकोचरूपायां निशायां शमितात्मनि ।। ५०२ ।।
प्राप्तायामनुपाख्यत्वं स्वात्मचित्प्रसरात्मनि ।
तुरीयतदतीतात्मदशाद्वितयलक्षणे ।। ५०३ ।।
प्रवृत्तेऽहनि सार्वज्ञ्यंमसन्दिग्धं प्रवर्तते ।
एवं मत्रफलावाप्तिरित्येतद्रुद्रयामलम् ।। ५०४ ।।
एव मन्त्रफलानां यदुक्तसिद्धिद्वयात्मनाम् ।
(प्. ४४) अनुत्तरादितो बीजादुक्तादेवाप्तिरित्यतः ।। ५०५ ।।
एतत्तत्प्रथनायोद्यच्छासनं रुद्रयामलम् ।
सपादकोटिसंख्यातं फलसंपादकं महत् ।। ५०६ ।।
एतदेव हि बीजात्म तदुक्तं रुद्रयामलम् ।
शिवशक्त्योस्तयोरत्र नित्यसंघट्टदर्शनम् ।। ५०७ ।।
अत एवोक्तरूपैद्धृदयाभ्यासशालिनः ।
संक्षेपतः फलं प्राह शासनं शासितुः पुरा ।। ५०८ ।।
एतदभ्यस्य तत्सिद्धिः सर्वज्ञत्वमवाप्यते ।
जिज्ञासितं वा यत्किंचिच्चिकीर्षितमथापि वा ।। ५०९ ।।
यथा तथैव जानाति करोति तदशेषतः ।
अयमस्य स्थितैवोक्ता परा भैरवरूपता ।। ५१० ।।
अभ्यासेन विनापीति पूर्णं श्रीशासनं शिवम् ।
एव देवेन शासित्रा स्वरूपं यदनुत्तरम् ।। ५११ ।।
सदा प्रकाशमानं सदपि स्वातन्त्र्यसंपदा ।
पूर्णया स्वस्य विच्छिद्य धाम्नो याथात्म्यलक्षणात् ।। ५१२ ।।
तत्तच्छङ्कात्मसंकोचकारि लोकादिरूपिणाम् ।
तन्त्राणां नैतदेवं स्यात्तत्त्वमेतादृशत्वतः ।। ५१३ ।।
तत्प्रवृत्तिश्च नषौ सावेवेंत्वादुदितेति च ।
बहुधा कथनेनैव गोपितात्मात्र शासने ।। ५१४ ।।
स्वपरामर्शरूपे तद्धृदयत्वेन भासितम् ।
व्याख्याकृतोऽपि श्रीशास्त्रमनुत्तरमिदं तथा ।। ५१५ ।।
स्वस्मात्स्थानादपोह्यैव परत्राक्षिप्तसूत्रकम् ।
तन्त्रात्मना गोपितार्थभाषयाप्याकृताविह ।। ५१६ ।।
भासितात्मीयहृदयं जातं प्रोक्तमथात्मनि ।
(प्. ४५) व्याख्यात्रा श्रोतृशिक्षार्थं व्याख्या त्वागमवस्तुनः ।। ५१७ ।।
अप्रमोषात्मसात्कारविधित्सासिद्धचेतसा ।
व्याख्यादौ पूर्णरूपाया विश्रान्तेर्लक्षितत्वतः ।। ५१८ ।।
विश्रान्तीनां तदंशत्वात्तत्संवित्स्थैर्यलक्षणम् ।
तिसॄणामधुना रूपं वक्ष्यते ते स्वकर्मणः ।। ५१९ ।।
हे भोक्तृमुदिताविऽऽवाः ? सन्तः साधकपुङ्गवाः ।
त्यक्त्वान्यकायचिन्तात्मविभ्रमैः श्रूयतामिदम् ।। ५२० ।।
अनुत्तरस्य सोमस्य सत्तां तत्त्वात्मना तताम् ।
समस्तसंपत्संपत्तिपरितृप्तिप्रथामयीम् ।। ५२१ ।।
समाविश्यात्मभावेन तास्ताः स्वाभोगसंपदः ।
अवाप्नुतास्तसन्देहविपर्यस्ततयोदिताः ।। ५२२ ।।
एतद्व्याख्याविमर्शात्मविवेकमयचेतसाम् ।
मा भूद्भ्रमो वः सच्छिष्या ह्यन्यव्याख्याविचारणे ।। ५२३ ।।
एतदर्थात्मसात्कारमात्र एव ह्यवाप्नुत ।
स्वीयस्य भैरवत्वस्य चमत्कारमयीः श्रियः ।। ५२४ ।।
यस्यामनुत्तरानन्दौ पूर्णतोत्कर्षशालिनौ ।
योगक्षेमात्मतां श्रित्वा श्रूयते संहितोदयौ ।। ५२५ ।।
शक्तित्रयात्मिका सैषा लोकसृष्ट्यादिकारणा ।
सतः सोमस्य संवित्तिः संप्रत्ययशरीरिणी ।। ५२६ ।।
लोक्यसत्कवलीकारे लोकयित्रात्मविश्रमे ।
अभितो जा...यं दक्षा त्रिशूलत्रयरूपिणीम् ।। ५२७ ।।
त्रिलोकीं च तदात्मत्वमात्मीयप्रत्याभिज्ञया ।
स्वीकुर्वाणां चिदाह्लादपूर्णतावेशपुष्कला ।। ५२८ ।।
अहमित्यात्मसात्काररूपायां कवलीकृतौ ।
(प्. ४६) वेद्यस्य सत्ता सततं शोभतामस्तविप्लवा ।। ५२९ ।।
आत्मनापूर्यमाणं सदात्मना संविदोक्तया ।
क्षिपन्तीमात्मनोऽत्रैव क्रमाक्रमविभागवत् ।। ५३० ।।
अनुत्तरस्य सोमस्य सुदतां नौमि षोडशीम् ।
एष स्पन्दनिधानस्य पुरे चित्परिषट्पतेः ।। ५३१ ।।
तेनैव पश्वकृत्यात्मनाट्याभिनयवेधसा ।
पुमांसं पुण्यसंपूर्णं कमप्याविशतेच्छया ।। ५३२ ।।
इदंवादिनतः स्वस्मात् व्याख्याश्रीत्रिशिकात्मनः ।
शासनस्य स्वकीयस्य स्वालोकादर्शरूपिणः ।। ५३३ ।।
तथाभिनवगुप्तोक्तविवृतिव्यापृतात्मनः ।
तात्पर्यैकप्रथात्मत्वात् नाम्ना तात्पर्यदीपिका ।। ५३४ ।।
सेयं प्रकाशिताशेषत्रिशिकाशासनाशया ।
सविसासं नभोर्मध्ये सर्वमङ्गलया समम् ।। ५३५ ।।
सदारब्धं तु जगति त्वटनोद्योगशालिनः ।
पुरतः शाश्वतीमाप्त्वा स्थितिं देदीप्यते शिवम् ।। ५३६ ।।
इति श्रीपरात्रीशिकातात्पर्यदीपिका संपूर्णा ।
इति शिवम् ।।
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
6mhnp0wzcpfc9ojajcjvru49ral3lp9
परात्रिंशिकाविवृतिः (तत्त्वविवेकाख्यव्याख्योपेता)
0
164222
415699
2026-04-22T10:40:45Z
Shubha
190
{{header | title = परात्रिंशिकाविवृतिः (तत्त्वविवेकाख्यव्याख्योपेता) | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ---- MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Ca... नवीन पृष्ठं निर्मीत अस्ती
415699
wikitext
text/x-wiki
{{header
| title = परात्रिंशिकाविवृतिः (तत्त्वविवेकाख्यव्याख्योपेता)
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00154
Uniform title: parātriśikāvivṛtī
Main title: parātriśikāvivaraṇa
Secondary title: parātriṃśikāvivṛtī
Author : abhinavagupta
Editor : śāstrī m r
Description:
Photographed from volume 18 of the Kashmir Series of Texts and Studies.
Notes:
Publisher : Research Department Jammu and Kashmir State
Publication year : 1918
Publication city : Srinagar
Publication country : India
----
ओं तत्सत्स्वप्रकाशानन्दवपुषे शिवाय नमः |
अथ
श्रीपरात्रिंशिकाग्रन्थः |
श्रीमदभिनवगुप्ताचार्यकृततत्त्वविवेकाख्यव्याख्योपेतः |
विमलकलाश्रयाभिनवसृष्टिमहा जननी
भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः |
तदुभययामलस्फुरितभावविसर्गमयं
हृदयमनुत्तरामृतकुलं मम संस्फुरतात् [अभिनवसृष्टौ -
शुद्धाध्वरूपायां महः - पारिपूर्ण्यलक्षणं तेजो यस्यां सा
विमलकलाश्रया - परविमर्शसारा जननी शक्तिः तथा पञ्चमुखेति
पञ्चशक्तिपूरिताभिलाषः आकाङ्क्षणीयविरहात् भरिततनुः -
पूर्णस्वभावो जनकः शिवः तदुभयेति - तत्सामरस्यात्मनः संघट्टात्
स्फुरितभावः उल्लसितसताको यो बहिरुल्लिलसिपास्वभावो विसर्गः स प्रकृतिः यत्र
तादृशम् अनुत्तरामृतकुलं स्वातन्त्र्यरूपं मम हृदयं संस्फुरतात् इति -
सर्वत्रात्र ह्यहं - शब्दो बोधमात्रैकगोचरः |
इति मीमांसावाक्येन ममेति बोधस्य हृदयं सत्तादायि स्वातन्त्र्यलक्षणं
जगदानन्दादिशब्दवाच्यं पारमार्थिकं वस्तु संस्फुरतात् - सम्यक्
विकसतात् स्वातन्त्र्यरहितो हि बोधोऽबोध एव तेन यत् बोधस्य अबोधलक्षणं
स्वातन्त्र्यराहित्यं तत् अपास्य बोधतया स्फुरतात् इत्यर्थः | अथ च
अभिनवगुप्तस्य बिमलाभिधाना जननी नरसिंहगुप्तो जनक इति प्रसिद्धिः |
अस्य पञ्चस्य व्याख्याविस्तरस्तु तन्त्रालोकविवेकेऽस्ति तत् एव द्रष्टव्यम् |] || १ ||
प्. २)
यस्यामन्तर्विश्वमेतद्विभाति
बाह्याभासं भासमानं विंसृष्टौ |
क्षोभे क्षीणेऽनुत्तरायां स्थितौ तां
वन्दे देवीं स्वात्मसंवित्तिमेकाम् [यस्यामन्तरिति प्रतिबिम्बलक्षणोपेतत्वात्
अतिरिक्तत्वेऽपि अनतिरिक्ततया इत्यर्थः | बाह्याभासमिति इदन्ताभासं विश्वं
विभाति | क्षोभ इति इदन्ताभासलक्षणे क्षीणे सति स्वात्मसंवित्तिं स्वस्मिन्नेव
आत्मनैव संवित्तिः प्रकाशो यस्याः ताम् - इति अनुत्तरास्वरूपकथनम् | वन्दे
समाविशामि |] || २ ||
नरशक्तिशिवात्मकं त्रिकं
हृदये या विनिधाय भासयेत् [अन्तः स्थितमेव बहिः प्रकटयेदित्यर्थः |] |
प्रणमामि परामनुत्तरां
निजभासां [स्वीयशक्तीनाम्] प्रतिभाचमत्कृतिम् || ३ ||
जयत्यनर्घमहिमा विपाशितपशुव्रजः |
श्रीमानाद्यगुरुः शंभुः श्रीकण्ठः परमेश्वरः || ४ ||
प्. ३)
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता |
निजशिष्यविबोधाय [अन्यशास्त्रनैरपेक्ष्यं विबोधो यथा स्यात्तदर्धम्]
प्रबुद्धस्मरणाय [अन्यशास्त्रेण ये प्रबुद्धास्तेषां स्मरणाय |] च |
मयाभिनवगुप्तेन श्रमोऽयं [भ्रमः - शास्त्रलक्षणः |] क्रियते मनाक्
|| ५ ||
श्रीदेवी उवाच
अनुत्तरं कथं देव
सद्यः कौलिकसिद्धिदम् |
येन विज्ञातमात्रेण
खेचरीसमतां व्रजेत् || १ ||
परमेश्वरः पञ्चविधकृत्यमयः सततम् [सततं - सृष्ट्यादिनिर्भासेऽपि]
अनुग्रहमयया परारूपया शक्त्या आक्रान्तो वस्तुतोऽनुग्रहैकात्मैव नहि
शक्तिः शिवात् भेदमामर्शयेत् | स च शक्तिः लोकानुग्रहविमर्शमयी
प्रथमतः परामर्शमयया पश्यन्त्या आसूत्र -
प्. ४)
यिष्य[बहिरनुद्भिन्ना इत्यर्थः |]माणानन्तशक्तिशताविभिन्ना प्रथमतरं
परमहामन्त्रमययाम् अदेशकालकलितायां संविदि निरुढा तावत्
पश्यन्त्युद्भविष्यदुक्तिप्रत्युक्त्यविभागेनैव वर्तते | सैव च
सकलप्रमातृसंविदद्वयमयी सततमेव [सततमेवेति
पश्यन्त्याद्याविर्भावेऽपि |] वर्तमानरूपा ततस्तु पश्यन्ती यद्यत् [यद्यत् -
इष्यमाणादि वस्तुजातम् |] अभीप्सितं तत्तदेव
समुचितकारणनियमप्रबोधितं [कारणम् - इच्छादि |] बोधसूत्रमात्रेण
विमृशति यथा [पश्यन्ती हि सर्वस्य सामान्यभूरिति कथं तत्रेच्छादिक्रमं
इति आशङ्का तत्र स्फुटप्रतीत्यै दृष्टान्तमाह यथा इति |]
अनेकभावाभावज्ञानसंस्कारसंस्कृताया मेचकधियः [नीलधियः |]
स्मृत्तिबीजप्रबोधकौचित्यात् [सदृशादृष्टचिन्ताद्येकतमस्य स्मृतिबोधकस्य
सत्त्वात् |] किंचिदेव स्मृतिर्विमृशति नहि प्रथमज्ञानकाले भेदोत्र
[पश्यन्त्याम् इष्यमाणादिना भेदस्याप्रथनात् |]
प्. ५)
अस्फुरत् यत्र वाच्यवाचकविशेषयोः अभेदः मध्यमा पुनः तयोरेव
वाच्यवाचकयोः भेदमादर्श्य सामानाधिकरण्येन [तादात्म्येन |]
विमर्शव्यापारा वैखरी तु तदुभयभेदस्फुटतामययेव - इति तावत्
व्यवस्थायां स्वसंवित्सिद्धायां [तत्र स्फुटभेदस्य स्वानुभवसिद्धत्वात्
न प्रमाणगम्यमेतदिति भावः |] यैव परावाग्भूमिः सैव
मायीयशब्दशक्तिपरमार्थस्वभावासांकेतिकाकृतकपारमार्थिक-
संस्कारसारा वक्ष्यमाणनयेन मन्त्रवीर्यभूतांशचोदिता तदुत्तरं
पश्यन्त्यादिदशास्वपि वस्तुतो व्यवस्थिता तया विना पश्यन्त्यादिषु
अप्रकाशतापत्त्या जडताप्रसङ्गात् | तत्र [तत्रेति प्रथमतरभुवि | इदम् इत्यादि
क्रमेण निरिकल्प सविकल्प देश कालानां स्वरूपनिर्देशः |] च इदम् एवम् अत्र
इदानीम् - इत्यादिभेदकलना न काचित् तत एव च
परमहामन्त्रवीर्यविसृष्टिरूपाया [पश्यन्त्या इत्यर्थः |] आरभ्य
वैखरीप्रसृतभावभेदस्प्रकाशपर्यन्तं यत् इयं [इयं परा वाग्भूमिः
|] स्वचमत्कृतिमयी -
प्. ६)
स्वात्मन्येव प्रकाशनमये विश्रम्य स्फुरति तदेवं
स्फुरितमविच्छन्नतापरमार्थम् अहम् इति | तदेतत् अग्रे स्फुटिभविष्यति |
तन्मध्य एव तु पश्यन्त्यां यत्र भेदांशस्यासूत्रणं यत्र च
मध्यमायां भेदावभासः तत्र उभयत्र ज्ञानक्रियाशक्तिमये रूपे
सदाशिवेश्वरसारे [शक्ति शक्तिमतोरभेदोपचारात् ज्ञानशक्तिमान्
सदाशिवः उद्रिक्तक्रियाशक्तिरीश्वर इति |] सैव अहम् इति चमत्कृतिः
अन्तःकृतानन्तविश्वेदन्ताचमत्कृतिपूर्णवृत्तिः तत् पश्यन्तीमध्यमात्मिका
स्वात्मानमेव [अनुद्भिन्नोद्भिन्नेदन्तालक्षणं स्वं रूपमित्यर्थः |]
वस्तुतः परसंविदात्मकं विमृशति परैव च संवित् देवी इत्युच्यते | इयता
पश्यन्त्यादिसृष्टिक्रमेण बाह्यनीलादिपर्यन्तेन स्वविमर्शानन्दात्मना
क्रीडनेन [स्वेच्छया हर्षानुसारी स्पन्दः क्रीडा तात्पर्येणात्र
सर्वमयसर्वोत्तीर्णस्वरूपकथनमेवाभिप्रायः |]
प्. ७)
सर्वोत्तीर्णत्वेन सर्वोत्कर्षावस्थितेः भगवतो भैरवस्य तथा [तथा -
सर्वोत्कर्षेण |] स्थातुमिच्छया विजिगीषात्मना
इयदनन्तज्ञानस्मृतिसंशयनिश्चयादिव्यवहारकरणेन सर्वत्र च
भासमाने नीलादौ तन्नीलाद्यात्मभासनरूपेण द्योतनेन सर्वैरेव
तदीयप्रकाशावेशैः तत्प्रवणैः स्तूयमानतया [यदुक्तम्
स्तुत्याख्यं नास्ति वस्त्वन्यद्व्यापकात्परमेश्वरात् |
सर्वोत्तीर्णादिरूपेण शिवोऽहमिति हि स्तुतिः ||
इति |] यथेच्छं च देशकालावच्छेदेन सर्वात्मतागमनेन [न चात्र
देशकालावच्छेदेन सर्वात्मतागमनेन इति विरुद्धं शङ्क्यं यतो यो हि
व्यापकः सोऽवश्यं सर्वदिक्षु सर्वकालेषु वर्तते न तु
दिक्कालाद्यनवच्छेदेन सर्वात्मता | उक्तं हि श्रीसोमानन्दपादैः
दिक्कालादिलक्षणेन व्यापकत्वं विहन्यते |
अवश्यं व्यापको यो हि सर्वदिक्षु स वर्तते ||
इति |
दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये |
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ||
इति तत्रभवद्भर्तृहरिपादैर्यत्सर्वात्मताया लक्षणं कृतं तदेतदनेन
निराकृतम् |] अत एव मुख्यतो
प्. ८)
भैरवनाथस्यैव देवत्वमिष्यते तच्छक्तेरेव भगवत्या देवीरूपता |
यदुक्तम् - दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिगतिषु | तथा च एवं
विधमुख्यपारमैश्वर्यमयदेवत्वांशांशिकानुग्रहात्
विष्णुविरिञ्च्यादिषु [यथा हि अन्यत्राचार्याभिनवगुप्तपादैर्निर्णीतम् -
एवं तात्त्वेश्वरे वर्गे लीने सृष्टौ पुनः परे |
तत्साधकाः शिवेष्टा वा तत्स्थानमधिशेरते ||
ब्राह्मी नाम परस्यैव शक्तिस्तां यत्र पातयन् |
स ब्रह्मा विष्णुरुद्राद्या वैष्णव्यादेरतः क्रमात् ||
इति |] देवताव्यवहारः | एवं भगवती पश्यन्ती मध्यमा च स्वात्मानमेव
यदा विमृशति अहमेव परावाग्देवतामयी एवमवोचम् इति तदा तेन रूपेण
उल्लसन्मायारम्भतया [इयं द्वयी हि इदन्ताभासलक्षणा अतो
मायारम्भणम् इत्यर्थः |] स्वात्मापेक्षतया तन्मायीयभेदानुसारात्
तामेव पराभुवं स्वात्ममयीं
प्. ९)
भूतत्वेन [सामान्य भूतकालत्वेन |] अभिमन्वाना
भेदावभासप्राणनान्तर्बहिष्करणपथव्यतिवर्तिनीत्वात् परोक्षतया
[अक्षेभ्यो यत् परं तत् परोक्षम् इति परोक्षलक्षणम् |]
सूर्यादिसंचारायत्तदिनविभागकृताद्यतनानवच्छेदात् [ब्रह्मलोको हि
मेरूर्ध्ववर्ती सूर्यस्तु अधोवर्ती इति कथं तत्राद्यतनत्वव्यवहारः
सूर्यादिसंचारेण परिच्छिद्यते इत्यर्थः |] ब्रह्मणोऽनेककल्पसंमितमहः
ततोऽपि विष्णुप्रभृतेः [तदूर्ध्ववर्तित्वात् |] अन्तश्च प्राणचारादौ [बाह्यदिने
सशतषट्कैकविंशसहस्रप्राणचारास्तत्रैव षष्ट्यब्दोदय इति स्वयमूह्यम्
|] प्राणीयशतसहस्रांशेऽपि अहर्व्यवहारः इति अवस्थितं काल्पनिकं च
अद्यतनत्वम् अकाल्पनिके संविद्वपुषि कथम्? इति न्यायात्
भूतानद्यतनपरोक्षार्थपरिपूरणात् परोक्षोत्तमपुरुषक्रमेण विमृशेत्
अहमेव सा परावाग्देवीरूपैव सर्ववाच्यवाचकाविभक्ततया एवमुवाच इति
तात्पर्यम् |
प्. १०)
स्वप्तोऽहं किल विललाप इति हि एवमेव उपपत्तिः | तथाहि - ताम् अतीतामवस्थां
न स्मरति प्रागवेद्यत्वात् इदानीं पुरुषान्तरकथितमाहात्म्यात्
अतिविलापगानादिक्रियाजनितगद्गदिकादिदेहविक्रियावेशेन वा तदवस्थां
चमत्कारात् प्रतिपद्यते नहि अप्रतिपत्तिमात्रमेव एतत् मत्तः सुप्तो वा अहं किल
विललाप इति मदस्वप्नमूर्च्छादिषु हि वेद्यविशेषानवगमात् परोक्षत्वं
परावस्थायां तु वेद्यविशेषस्य अभाव एव इति केवलमत्र
वेदकतादात्म्यप्रतिपत्त्या तुर्यरूपत्वात् मदादिषु तु मोहावेशप्राधान्यात् -
इति इयान् विशेषः परोक्षता तु समानैव | एवं सर्व एव प्रमाता
गुरुशिष्यादिपदे अन्यत्र वा व्यवहारे स्थितः सर्वकालमेव यत्किंचित्
कुर्वाणः एनामेव संविदमनुप्रविश्य सर्वव्यवहारभाजनं भवति अतः
तामेव वस्तुतो विमृशति देवी उवाच इति यावदुक्तं स्यात् अहमेव सततं
सर्वमभेदेन
प्. ११)
विमृशामि पराभूमौ अन्यथा पश्यन्तीमध्यमाभूमिगं स्फुटमिदं
प्रथनं न स्यात् तावदेव उक्तं भवति देवी उवाच इति | एवमेव पुरस्तात्
भैरव उवाच इति मन्तव्यम् | तत्रापि हि स्वपरशक्त्यविभागमयो
भैरवात्मैव अहमुवाच - इत्यर्थः | केवलं शक्तिप्रधानतया
सृष्टिस्वभावाख्यामर्शे अहम् इति उचितो देवी परामर्शः
शक्तिमत्प्रधानतया संहारावेशविमर्शे मह-अ इति
भैरवरूपचमत्कारः | स्फुटयिष्यते च एतत् | एतच्च [पूर्वोक्तं सर्वं
संगृह्य आह एतच्चेति |] पश्यन्तीमध्यमाभुवि ज्ञानशक्तिमययामेव
परस्या इच्छाशक्तिमययाः संविदो विमर्शनं तदेव च
सर्वारम्भपर्यन्तशास्त्रप्रयोजनम् अत एव ज्ञानशक्तावेव
सदाशिवमययां पूर्वोत्तरपदवाक्यक्रमोल्लासात्
वास्तवपरमहामन्त्रवीर्यविमर्श एव दकार-एकार-वकार-यकार-उकार-
वकार-आकार-अकार-भकार-ऐकार-
प्. १२)
रेफ-अकार-वकार-अकारादिपदवाक्ययोजना | उक्तं च स्वच्छन्दतन्त्रे -
गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः |
पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं [गुरुशिष्यपदे इति शिवशक्तिलक्षणे | तन्त्रमिति
विमर्शलक्षणं शास्त्रम् |] समवतारयत् ||
इति | एवं च अनुग्रहशक्तिः सततं सर्वप्रमातृषु अनस्तमितैव [संविदमेव
अनुप्रविश्य व्यवहारभाजनं भवति इत्युक्तेः |] इति सैष
षडर्धसारशास्त्रैकप्राणः पर एव संबन्धः [यदुक्तम् -
शिवस्य परिपूर्णस्य परस्यामिततेजसः |
तच्छक्तिश्चैव सादाख्या स्वेच्छाकर्तृत्वगोचरः ||
सत्त्वं तेन च संप्राप्तं संबन्धं प्रथमं विदुः |
अवान्तराच्च योगेन सादाख्यात् क्रमशः पुनः ||
प्राप्तोऽनन्तेशदेवेन द्वितीयस्तेन कीर्तितः |
तृतीयस्तु पुनर्देवि श्रीकण्ठे नन्दिना सह ||
द्वाभ्यां देवात्तु स त्वेवं तेन दिव्यः प्रकीर्तितः |
ऋषीणां च समासेन नन्दिना प्रतिपादितम् ||
चतुर्थस्तद् भगवता दिव्यादिव्यः प्रकीर्तितः |
व्याख्यानक्रमयोगेन विद्यापीठप्रपूजने ||
शिष्याचार्यस्वरूपेण पञ्चमस्त्वितरेतरः |
इति पञ्चप्रकारोऽयं संबन्धः परिकीर्तितः ||
इति | अत्र च एकात्म्यस्यैव भेदगन्धस्यापि विगलनात्
सर्वसर्वात्मतालक्षणपूर्णत्वात् पर एव संबन्ध इति |] |
अत्र अनुत्तरे संबन्धान्तराणां
प्. १३)
महदन्तराल-दिव्यादिव्यादीनामुक्तोपदेशेन परैकमयत्वात् | तदुक्तं
त्रिकहृदये
नित्यं विसर्गपरमः स्वशक्तौ परमेश्वरः |
अनुग्रहात्मा स्रष्टा च संहर्ता [विसर्गपरम इति तदेकलग्नः अहमिति
स्रष्टृरूपः तद्वैपरीत्येन संहर्तृरूपः |] चानियन्त्रितः ||
इति | एवम् अमुना क्रमेण सदोदितता एवं परमार्थमयत्वात् परमेश्वरस्य
चित्तत्त्वस्य यदेव अविभागेन अन्तर्वस्तु स्फुरितं तदेव पश्यन्तीभुवि वर्ण
पद वाक्यविबिभाजयिषया परामृष्टं मध्यमापदे च भेदेन स्थितं
वस्तुपूर्वकं संपन्नं यावत् वैखर्यन्तम् अनुत्तरं कथम् इत्यादि
भिन्नमायीय-वर्ण-पद-वाक्यरचनान्तम् | एतदेव तदनुपलक्ष्यं
भैरववक्त्रं सृष्टिपरामर्शात्मकम्
अनुत्तराहंभावसाराकाराकाररूपशिव-
प्. १४)
शक्तिसंघट्टसमापत्तिक्षोभात्मकं त्रिकशास्त्रप्रसरबीजं ध्रूवपदं
मौलिकं सर्वजीवतां जीवनैकरूपम् अत एव व्यवच्छेदाभावात्
स्थाननिर्देशाद्ययोगात् [ननु च इत्थं हि परतन्त्रनीतिः - यत् आदौ कश्चित्
भक्तोऽनुग्राह्यजनावेदनपूर्वकं देवी भैरवयोः स्थाननिर्देशं करोति
यथा स्वच्छन्दादौ कैलासशिखरासीनमित्यादि इहापि तत् अत क्वचितमेव इति किं
न कृतम्? अत एवाह व्यवच्छेदाभावादित्यादि | न च एतत् स्थानादिकथनं
स्थूलपक्षे एव युज्यते नान्तारूपतायाम् इति मन्तव्यम् | कैलासेत्यादावपि
सूक्ष्मार्थस्यैव कथनीयत्वात् तथाहि - के मूर्धन्ये ब्रमबिले एला स्फुरन्ती
शक्तिः तस्याम् आसः आसनम् उपरिस्थितिः यस्य व्यापिनीसमनात्मनः
शिखरस्य सर्वाध्वोपरिवर्तिनः पदस्य तत् कैलासशिखरं तत्र आसीनं
तदुत्तीर्णं प्रकाशतत्त्वमिति ||] स्थानादिपूर्वकत्वं नोपपन्नम् | वस्तु च
प्रश्नतदुत्तररूपं सततोदितमेव प्रथममविभागमयम् तेन एतावदेव
अत्र तात्पर्यम् - स्वात्मा सर्वभावस्वभावः स्वयं प्रकाशमानः
स्वात्मानमेव स्वात्मा-
प्. १५)
विभिन्नेन प्रश्नप्रत्रिवचनात् (नेन) प्रष्टृप्रतिवक्तृस्वात्ममयेन अहन्तया
चमत्कुर्वन् विमृशति - इति अहमेव एवं विचित्रचमत्कारेच्छुः तथा जानन्नेव
तथैव भवामि - इति यावत् तावदेव देवी उवाच अनुत्तरं कथम् इत्यारभ्य
भैरव उवाच शृणु देवि इति मध्यतो यावत् इत्येतद् रुद्रयामलम् इति | यद्वा
सर्वाणि पञ्चस्रोतः प्रभृतीनि शास्त्राणि यावत् लौकिकोऽयं व्यवहारः स
एष उक्तः परः संबन्धः |
गोप्यमुपदेशसारं सद्यो भैरवपदावहं सततम् |
अभिनवगुप्तेन मया व्याख्यातं प्रश्नसर्वस्वम् ||
शिष्यहितपरतया तु इदमेव संगृह्य अभिदध्मः |
सर्वेषु व्यवहारेषु ज्ञेयं कार्यं च यद्भवेत् |
तत्परस्यां तुर्यभुवि गतभेदं विजृम्भते ||
भेदासूत्रणरूपायां पश्यन्त्यां क्रमभूजुषि |
अन्तःस्फुटक्रमायोगे मध्यायां तद्विभेदभाक् ||
प्. १५)
मध्या पश्यन्त्यथ परामध्यास्याभेदतो भृशम्
परोक्षमिव तत्कालं विमृशेन्मत्तसुप्तवत् ||
जाहणकुणहजहिं शिहपहिल-उ-उशि-असब्वो
वि-अलि-अरो-ओवि-अम्ब-इजाणिब्व उका
अब्व-ईणजो-अन्तिहि मज्जि-अभेदस्फुरन्तु
कामेण आसरिसे-इण-ओ-अव
इसोच्चि-आरेच्चभेरेणमतु-उजिमणि
अवत्थबहि-अणुसंधे-इखनेन ||
एवमेव इतदनुत्तरत्वं निर्वक्ष्यति - इति | तदुक्तं श्रीसोमानन्दपादैः -
पञ्चविधकृत्यतत्परभगवद्भैरवभट्टारकस्य
प्रथमशाक्तस्पन्दसमनन्तरम् |
इत्यादि निजविवृत्तौ | तद्ग्रन्थिनिर्दलनाथ [अर्थस्य स्फुटानुक्तिः ग्रन्थिः तस्य
निर्दलनं विवेकः |] एव अयमस्माकं तच्छासनपवित्रितानां यत्नः | उक्तः
संबन्धः | अभिधेयं त्रीशिका इति तिसृणां शक्तीनाम् इच्छा-ज्ञान-
क्रियाणां -
प्. १७)
सृष्ट्याद्युद्योगादिनामान्तरनिर्वाच्यानाम्
[सृष्टिस्थितिसंहारतिरोधानानुग्रहाः सृष्ट्यादयः तथा उद्योगादयः
उदयावभासचर्वणकालग्रासस्वरूपविश्रान्तयः
इत्यादिनामान्तरैर्निर्वक्तुमहांणाम् इति |] ईशिका ईश्वरी ईशना च
ईशितव्याव्यतिरेकेणैव [कर्मांशानुप्रवेशयोगात् तदम्यतिरेकित्वम् |]
भाविनी इति एतच्छक्तिभेदत्रयोत्तीर्णातच्छक्त्यविभागमयी संविद्भगवती
भट्टारिका परा अभिधेयम् तद्योगादेव च इदमभिधानं त्रीशिकाख्यम् |
त्रिंशका इत्यपि गुरवः पठन्ति अक्षरवादसाम्यात् च निरुक्तमाहुः - तिस्रः
शक्तीः कायति - इति त्रिंशका न तु त्रिंशच्श्लोकयोगात् त्रिंशिकाः एतावतोऽपि
[एतावत इति सशतसहस्रद्वयसंख्याकस्य इत्यर्थः |] त्रिंशकार्थत्वात् |
तथाहि श्रीतन्त्रसारे -
त्रिंशकार्थस्त्वया प्रोक्तः सार्धकोटिप्रविस्तरः |
इति | अभिधानाभिधेययोश्च पर एव संबन्धः तादात्म्यात् - इति उक्तप्रायम् |
प्रयोजनं च सर्वप्रमातॄणां -
प्. १८)
विभोः परशक्तिपातानुग्रहवशोत्पन्नैतावदनुत्तरज्ञानभाजन-
भावानाम् इत्थं निजस्वरूपहृदयङ्गमीभावेन
निजामोदभरक्रीडाभासितभेदस्य निखिलबन्धाभिमततत्त्वव्रातस्य
स्वात्मचमत्कारपूर्णाहन्तातादात्म्य
भैरवस्वरूपाभेदसमावेशात्मिका जीवत एव मुक्तिः |
प्राणदेहादिभूमावेव हि अन्तर्बहिष्करणविषयायां प्रेरणाख्यायाम्
उद्योगबलजीवनादिरूपायां रूढस्य बन्धाभिमतेभ्यो मुक्तिः इति गीयते |
त्रुटितेऽपि हि मायीये संस्कारमात्रे केयं मुक्तिवाचोयुक्तिः किमपेक्षया वा?
इति तदुक्तं श्रीस्पन्दे -
इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् |
स पश्यन् सततं युक्तो जीवन्मुक्तो न संशयः ||
इति | स्फुटीभविष्यति च एतत् अविदूर एव |
जहि जहि धाव-इ जंकुण तहि तहि बि-अबि-अका-उ |
अच्छम्त उपरि-उणबि-अपाय इहल-इफलसिवणा-ओ ||
प्. १९)
तदनेन स्वसंवेदनेन प्रयोजनमेव अत्र सकलपुमर्थपर्यवसानम् - इति
प्रयोजनप्रयोजनानवकाशः [यदुक्तं स्तोत्रे -
फलं क्रियाणामथवा विधीनां
पर्यन्ततस्त्वन्मयतैव देव |
फलेप्सवो ये पुनरत्र तेषां
मूढा स्थितिः स्यादनवस्ययैव ||] |
उक्तान्येव संबन्धाभिधेयप्रयोजनानि |
अथ ग्रन्थार्थो व्याख्यायते | अनुत्तरम् इति न विद्यते उत्तरमधिकं यतः यथा
हि तत्त्वान्तराणि षट्त्रिंशत् अनाश्रितशिवपर्यन्तानि
परभैरवबोधानुप्रवेशासादिततथाभावसिद्धीनि संविदमधिकयन्ति
नैवं परा परिपूर्णा परभैरवसंवित् [स्वव्यतिरिक्तमन्यत् किमपि न
अधिकयति |] तस्याः सदा स्वयमनर्गलानपेक्षप्रथाचमत्कारसारत्वात् |
तथा न विद्यते उत्तरं प्रश्नप्रतिवचोरूपं यत्र यत एव हि
महासंवित्सिन्धोः उल्लसदनन्तप्रतिभापर्यन्तधाम्न -
प्. २०)
उल्लास्यप्रश्नप्रतिभानादिपात्रं भवति शिष्यः तदेव वस्तुतः तत्त्वं
सततोदितम् - इति किमिव आचार्यीयमुत्तरमन्यत् स्यात् | उत्तरणम् उत्तरो
भेदवादाभिमतोऽपवर्गः स हि वस्तुतो नियतिप्राणतां नातिक्रामति | तथाहि
प्रथमं शरीरात् प्राणभूमावनुप्रविश्य ततोऽपि बुद्धिभुवमधिशयय
ततोऽपि स्पन्दनाख्यां जीवनरूपतामध्यास्य ततोऽपि
सर्ववेद्यप्रक्षयात्मशून्यपदमधिष्ठाय ततोऽपि
सकलमलतानवतारतम्यातिशयधाराप्राप्तौ शिवत्वव्यक्त्या अणुरपवृज्यते
आरोपव्यर्थत्वात् - इति | ईदृश एव नाभिहृत्कण्ठतालुब्राह्मभैरवबि -
प्. २१)
लाद्यधिष्ठानक्रमप्राप्त ऊर्ध्वतरणक्रम [तथा सृष्टिक्रमेण तन्त्रालोके-
संविन्मात्रं हि यच्छुद्धं प्रकाशपरमार्थकम् |
तन्मेयमात्मनः प्रोज्भय विविक्तं भासते नभः ||
स एव स्वात्मा मेयेऽस्मिन् भेदिते स्वीक्रियोन्मुखः |
पतन् समुच्छलत्त्वेन प्राणस्पन्दादिसंज्ञितः ||
तेनाहुः किल संवित् प्राक् प्राणे परिणता तथा |
अन्तःकरणतत्त्वस्य वायुराधारतां गतः ||
इयं सा प्राणनाशक्तिरान्तरोद्योगदोहदा |
स्पन्दः स्फुरता विश्रान्तिर्जीवो हृत् प्रतिभा मता ||
सा प्राणवृत्तिः प्राणाद्यै रूपैः पञ्चभिरात्मसात् |
देहं यत् कुरुते संवित्पूर्णस्तेनैव जायते ||
इति | इथं यथाप्रसृति लयभावनया ऊर्ध्वक्रमणम् ||]
उत्तरः तथा उत्तरन्ति अत इति उत्तरो बन्धः उत्तरणमुत्तरो मोक्षः तत् एवं विधा
उत्तरा यत्र न सन्तिः उत्तरं च शब्दनं तत् सर्वथा ईदृशं [ईदृशमिति
प्रत्यक्षतया व्यवच्छेदः तादृशमिति परोक्षतया व्यवच्छेदः इति |] तादृशम्
इति व्यवच्छेदं कुर्यात् तत् यत्र न भवति अव्यवच्छिन्नम् इदम् अनुत्तरम् | इदम्
इत्यपि हि व्यवच्छिन्नोत्तरव्यवच्छेदप्राणमेव - इति व्यवच्छेदकत्वात्
विकल्पात्मैव -
प्. २२)
अत एव तावदनुत्तरे रूपे प्रविविक्षुः मायीयः प्रमाता तावत् कल्पित एव
विशेषात्मनि तत्र तु अविकल्पितं यत् अविनाभावि तद्विना कल्पितरूपास्फुरणात्
तदेव वस्तुतोऽनुत्तरम् | तत्र हि भवनादेः अनुपपत्तिरेव वस्तुतः - इति
भावनाकरणोज्झितत्वमुक्तं [यथा श्रीसोमानन्दपादैः -
भावनाकरणाभ्यां किं शिवस्य सततोदितेः |
सकृज्ज्ञाते सुवर्णे किं भावनाकरणादिना ||
सर्वदा मातृपित्रादितुल्यदार्ढ्येन सत्यता |
एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ||
ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना |
करणेन नास्ति कृत्यं क्वापि भावनयापि वा ||
इति ||] नतु अनुपयुक्तित एव तत् ईदृशमनुत्तरं व्यवहारवृत्तिष्वपि एवमेव - इति |
तदुक्तं मयैव स्तोत्रे -
वितत इव नभस्यविच्छिदैव
प्रतनु पतन्न विभाव्यते जलौघः |
प्. २३)
उपवनतरुवेश्मनीघ्रभागा -
द्युपधिवशेन तु लक्ष्यते स्फुटं सः ||
* * * * * * * * * * * * * * * *
* * * * * * * * * * * * * * * * |
* * तद्वत् परभैरवोऽतिसौक्ष्म्याद्
अनुभवगोचरमेति नैव जातु ||
अथ देशाकृतिकालसन्निवेश-
स्थितिसंस्पन्दितकारकत्वयोगाः |
जनयन्त्यनुभाविनीं चितिं ते
झटिति न्यक्कृतभरवीयबोधाः ||
इत्यादि | तथा च वक्ष्यते उत्तरस्याप्यनुत्तरम् इति | व्याख्यायते च एतत् | एवमेव
नरात्मनः शाक्तमुत्तरं ततोऽपि शाम्भवं तथा तेष्वपि
भूततत्त्वात्ममन्त्रेश्वरशक्त्यादिभेदेन स्वात्मन्येव उत्तरोत्तरत्वं
भूतादिष्वपि पृथिव्यादिरूपतया जाग्रत उत्तरं स्वप्नः ततः सुप्तं
ततस्तुर्यं ततोऽपि तदतीतं जाग्रदादिष्वपि स्वात्मन्येव च तुरादिभेदतया
उत्तरोत्तरत्वम् | तदेतत् श्री -
प्. २४)
पूर्वपञ्चिकायां मयैव विस्तरतो निर्णीतम् इह अनुपयोगात् ग्रन्थगौरवात् च
न वितत्य उक्तम् | तत् ईदृशमौत्तराधर्यद्वैतसंमोहाधायि उत्तरत्वं तथा
विप्रराजन्यवैश्यशूद्रान्त्यजातिविभागमयम् ऊनाधिकत्वं यत्र न स्यात्
भावप्राधान्यमुत्तरशब्दस्य | उत्तराः पश्यन्त्याद्याः शक्तयः
अघोराद्याः पराद्याः [परसूक्ष्मस्थूलरूपतया पश्यन्ती मध्यमा
वैकहरीति व्यवस्थिताः एते न च क्रमेण इच्छाज्ञानक्रियारूपाः शक्तयः |
अधिष्ठातृलक्षणा अघोर घोरा घोर घोराश्च शक्तयः | परादिस्वरूपं
यथा अन्यत्र - यया इदं शिवादिधरण्यन्तम् अविकल्पसंविन्मात्रतया बिभर्ति
च पश्यति च भासयति च परमेशवरः सा अस्य पराशक्तिः | यया
दर्पणहस्त्यादिवत् भेदाभेदाभ्यां सा परापरा यया परस्परविविक्ततया
भेदेन सा अपरा | एतत् त्रितयं यया आत्मनि क्रोडीकारेण अनुसंधानात्मना
ग्रसते सापि परैव कालकर्षिणीशब्दान्तरनिर्दिष्टा इति |अन्यत्र - यया इदं श्]
ता यत्र न स्युः नुद प्रेरणे इत्यस्य नोदनं नुत् तया तरणं दीक्षाक्रमेण
तरः शिष्यचैतन्ये गुरुः चैतन्यं -
प्. २५)
प्रेर्यते [आत्मनो ग्रहणं कुर्याद्दीक्षाकाले गुरुर्धिया | इति नीत्या अप्रबुद्धे
शिष्यचैतन्ये स्वकीयं प्रबुद्धं चैतन्यं प्रेर्यते इति |] तेन
हंसप्राणादिशून्यविषुवत्प्रभृतिस्थानभेदपरिपाट्या सकले निष्कलेऽपि
वा पूर्णाहुतियोजनिकादिस्थित्या [योजनिकेति यथोक्तं तन्त्रसारे तत्त्वशुद्धि -
शिवयोजनारूपा दीक्षा इति |] मोक्षदां दीक्षां विधत्ते तत् अत्र चैतन्यस्य
स्वप्रकाशस्य व्यापिनो देशकालाकारविशेषाविशेषितस्य कथङ्कारम् [अत्र
क्रमेण हेतुपूर्वः संबन्धः कार्यो यथा - यत आकाराविशेषितः कथं
सकले निष्कले वा इति यतो व्यापी कथं योजनं यतो देशकालाविशेषितः कथं
मोक्षदां दीक्षां विधत्त इति यतश्च स्वप्रकाशः स्वतन्त्रश्च कथं
विधानं तत्र संभवेत् | तत्र भोगमोक्षप्राप्त्यर्थं सकलनिष्कलयोगः
केवलं मोक्षप्राप्त्यर्थं निष्कल एवेति दीक्षाक्रमः |] इमा विडम्बनाः? |
तत् एवंविधो नुदा प्रेरणेन तरः तरणं यत्र न भवति तत् अनुत्तरम् | यत्
वक्ष्यते -
एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी |
दीक्षा भवति * * * * * * * * * * * ||
इति | अनिति श्वसिति इति क्विपि अन् अणुः आत्मा देहपुर्यष्टकादिः तथा अननं जीवनम्
-
प्. २६)
अन् देहाद्यन्तर्गतैव भिन्नभिन्नशक्त्याद्यहन्ताशून्यप्राया जीवनाख्या
वृत्तिः यः शून्यप्रमाता [यन्नाम हि इदं
मातृमानमेयत्रयात्मविश्वाभेदेन अवभासमानं प्रकाशतत्त्वम्
इच्छादिशक्त्यविशेषितं तदेव स्वस्वातन्त्र्यात् स्वात्मनि
स्वाविभागेनावस्थितं विश्वात्ममेयमवविभासयिषया आत्मनः
पृथक्कृत्य सर्वस्मात् उत्तीर्णोऽहम् इत्यामर्शनेन सकलभावशून्यत्वात्
निरावरणरूपतया न्यप्रमाता इत्यागमेषु आम्नातः | शून्यत्वं चात्र
सकलभावक्षयात् न तु संविदोऽपि तथात्वे च सर्वमनेलमूकं स्यात् | उक्तं
च अन्यत्र -
सर्वालम्बनधर्मैश्च सर्वतत्त्वैरशेषतः |
सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ||
इति |] इति अभिहितः तस्यैव उत्तरत्वं सर्वतः परमार्थतया आधिक्यं यत्र -
भैरवैकमयत्वात् जडाजडभरिते जगति जडैः जीवदेकमग्नैः स्थीयते
[अत्रायं भावः घटो मम स्फुरतीति कोऽर्थः मदीयं स्फुरणं
स्पन्दनमाविष्टो मद्रूपतामापन्न एव चिन्मयत्वात् | उक्तं च
श्रीमदुत्पलदेवप्रभुपादैः -
एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी |
जडाः * * * * * * * * * * * * * * ||
इति | येऽपि अन्ये जडेभ्यो जीवन्त इति प्रसिद्धाः तेषामपि
शरीरप्राणपुर्यष्टकशून्याकारास्तावत् जडा एवेति तेषामपि किमुच्यते
एवं च सति घटशरीरप्राणपुर्यष्टक सुख तदभावरूपं सत् यल्लग्नं
भाति तदेव जीवरूपभूतं सत्यम् | तथा ईश्वरप्रत्यभिज्ञायाम् -
तथाहि जडभूतानां प्रतिष्ठा जीवदाश्रया |
इति] -
प्. २७)
जीवतां च जीवनं नाम प्रागुक्तं ज्ञानक्रिया रूपमेकं
पारमेश्वर्यं सर्वेषां परत्रापि हि स्ववत् देहादिरेव [अजीवन्त इति जीवन्त इति
च आपात एवाभाति न तु संविद्रूपे इत्यर्थः |] पृथक्तया भाति | यत् पुनः
प्राणमं तत् अभेदेनैव स्वप्रकाशम् एतदेव च परमार्थः | यदुक्तं
श्रीमदुत्पलदेवपादैः -
ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् |
इति | तथा च जीवनं ज्ञानक्रिये एव इति | अ इति च या इयम्
अमायीयाश्रौतनैसर्गिकमहाप्रकाशविश्रान्तनिस्तरङ्गचिदुदधि-
स्वात्मचमत्काररूपा
शाक्तोल्लासमयविश्वामर्शनरूपपरिपूर्णाहंभावप्रथमपर्यवसानो-
भयभूमिगा [शाक्तोल्लासमयी प्रथमभूमिः - अहमिति विश्वामर्शमयी
पूर्णाहंभावभूमिः पर्यवसानभूमिरित्यर्थः |] कला तस्या एव
वक्ष्यमाणनयेन या इयं नूत् विसर्गान्तता तस्या एव तरः प्लवनं
सर्वोपरि-
प्. २९)
वृत्तित्वं यत्र | अविद्यमाना देशकालगमनागमनादिद्वैतसापेक्षा नुत्
प्रेरणा क्रमात्मकक्रियामयी यत्र तत् अनुत् आकाशादि लोकप्रसिद्धया ततोऽपि
सातिशयमनुत्तरम् तस्यापि [अनुत्तरस्यातिशयमेवाह तस्यापीत्यादिना |] हि
आकाशादेः संयोगिघटादिचित्रोपाधिवशात् समवायिशब्दादियोगात् च
स्यादपि ईदृशी सक्रमा क्रिया | संवित्तत्त्वे तु
सर्वतोऽनवच्छिन्नपूर्णस्वातन्त्र्यैश्वर्यसारे
विच्छिन्नचमत्कारमयविश्रान्त्या
स्वीकृतशङ्क्यमानोपाधिभावसकलेदन्तास्पदभावपूगपरिपूरिताह-
मात्मनि निराभासे सदाभासमाने स्वीकाराभासीकृतानाभासे
इदन्ताभासतदनाभाससारदेशकालापेक्षक्रमाभावात् अक्रमैव
स्वात्मविमर्शसंरम्भमयी मत्स्योदरीमतादिप्रसिद्धा विमर्शाभिधा -
प्. २९)
क्रिया इति तदेव अनुत्तरम् अतिशयमात्रे तमपो विधिः द्विवचनविभज्योपपदे अत्र
तरप् | तत्र अयं शुक्लोऽयं शुक्लः अयमनयोः अतिशयेन शुक्लः इति
वाक्येऽयमर्थः - अनयोः शुक्लयोः मध्यात् अतिशयेन अयं शुक्लः
शुक्लतरः एषां तु शुक्लानामयमतिशयेन शुक्लः इति काऽयमधिकोऽर्थः
तथाहि - अयं प्रासादः शुक्लः अयं पटः शुक्लः अयं हंसश्च शुक्लः
एषां सातिशयः शुक्लतमः इति तत्र प्रासादोऽपि शुक्लः पटोऽपि शुक्लः इति
किमिव अधिकमुक्तं स्यात् तमपि प्रत्यये एवंविधवाक्यकरणमयुक्तमेव न
च तरपः तमप् अधिकमतिंशयमभिदध्यात् एवं तावत् तु स्यात् अविवक्षिते
प्रतियोगिविशेषे तमप्प्रयोगः प्रतियोगिविशेषापेक्षायां तु तरप्
प्रतियोग्यपेक्षैव -
प्. ३०)
द्विवचनविभज्योपपदार्थः एक एव हि प्रतियोगी भवेत् अनयोः अयं
शुक्लोऽतिशयेन इति न तृतीयः प्रतीयते निर्धारणार्थेन प्रथमस्यैव
प्रतियोगित्वावगतेः | न च द्विप्रभृत्यपेक्षा भवति एकस्य युगपत् एकैकापेक्षा
मता - इति तस्य क्रमेण नाधिकोऽर्थः कश्चित् | तारतम्यम् इति तु प्रयोगः
क्रमातिऽसयेऽव्युत्पन्न एव रूढः न तु तरप् तमप्प्रत्ययार्थानुगमात्
तार्यं ताम्यम् इत्याद्यपि हि स्यात् | तदलम् अकाण्डे श्रुतलवकौशलप्रथनेन |
इह तु उत्तरक्रमिकप्रतियोग्यपेक्षायां अनुत्तमम् इत्यपि प्रयोगे अयमेव अर्थः |
तथाहि आगमान्तरे -
अद्यापि यन्न विदितं सिद्धानां बोधशालिनाम् |
न चाप्यविदितं कस्य किमप्येकमनुत्तमम् [अद्यापीति
सम्यक्प्रकाशसमापत्तौ सिद्धानामिति
परशक्तिपातवशोन्मिपितगुरुशास्त्रसंप्रदायानाम् अत एव बोधशालिनां
स्वातन्त्र्याख्यबोधमूलविमर्शशालिनां यन्न विदितं स्वयमेव
तथाधारधेयोभयस्वरूपत्वात् वेद्यतया न ज्ञातम् तथा कस्यापि
सामान्यजनस्य न च अविदितं तेन विना कस्यापि सिद्ध्यनुपपत्तेः ज्ञातमेव
ज्ञानार्हम् अत एव आपाते विरोधिरूपत्वात् किमपीति सर्वोत्कृष्टमित्यर्थः |] ||
प्. ३१)
इति | एवं स्वातन्त्र्यसाराकलितक्रियाशक्तिशरीरमनुत्तरम् |
तदुक्तमुत्पलदेवपादैः -
सक्रमत्वं च लौकिक्याः [लौकिक्या इति हस्तोत्क्षेपणापक्षेपणादिरूपायाः |
कालशक्तित इति आभासविच्छेदनप्रदर्शनसामर्थ्यरूपात् पारमेश्वरात्
शक्तिविशेषात् | शाश्वत्या इति अत्यक्तप्राच्यस्वभावायाः | प्राभव्या इति
प्रभ्वव्यतिरेकिण्याः | अत्रायं तात्पर्यार्थः -
लौकीकज्ञानव्यवहारमूलज्ञातृज्ञेयप्रकाशने सामर्थ्यं
ज्ञानशक्तिर्देवस्य तत्रैव संयोजनादिस्वतन्त्रतात्मा विमर्शशक्तिरेव क्रिया
सा तु वेद्यच्छायाच्छुरणम् अच्छ्रस्वादवच्छेदकम् अभ्युपयती क्रमवती
भाति वस्तुतोऽक्रमत्वेपि इति कालानवच्छेदात् तावत् अक्रमत्वं स्थितमेव इति
किमत्रोच्यते उन्मिषितेऽपि वेद्यग्रामे मायाप्रमातृपदमध्यासीनोऽपि
भगवान् यावदेव बाह्याभ्यन्तररूपवेद्यकुलं स्वात्मनि -
प्रकाशस्यात्मविश्रान्ति * * * * * * |
इति
इदमित्यस्य विच्छिन्न * * * * * * |
इत्यादिनयेन विश्रमयति ग्रसते तावत् तन्निष्ठोऽवभासनक्रमोऽपि ग्रस्त एवेति
अहमिति या संयोजनादिचित्रितसमस्तभावप्रकाशोपसंहारपर्यन्तदशा
विशेषविमर्शलक्षणा क्रिया सा निष्क्रमैवेति ||] क्रियायाः कालशक्तितः |
घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव ||
इति | तत् व्याख्यातमिदमनुत्तरं षोडशधा | यदुक्तं सारशास्त्रे -
अनुत्तरं तद् हृदयं हृदये ग्रन्थिरूपता |
ग्रन्थिं षोडशधा ज्ञात्वा कुर्यात्कर्म यथासुखम् ||
प्. ३२)
इति | तथा -
हृदये यः स्थितो ग्रन्थिः * * * * * * * * |
इत्यादि | तत् ईदृक् अनुत्तरं केन प्रकारेण किमुत्तररूपपरित्यागेन उत स्वित्
अन्यथा? - इति [सामान्यविच्छेदको विशेषः प्रकारः | उत्तररूपेति
विश्वोत्तीर्णस्वरूपेण अन्यथेति विश्वमयस्वरूपेण स्वीकारात्] | कश्च अयं
प्रकारः - यदनुत्तरं सर्वमिदं [ज्ञानज्ञेयभेदेन द्विधैव जगत् |] हि
ज्ञानज्ञेयजातं सर्वत एव अन्योन्यं भेदमयं विरोधमुपलभते ततश्च
इदम् औत्तराधर्यं भवेदेव - इति कस्मिंश्च प्रकारे मोक्षे एव किं वा
बन्धाभिमतेऽपि ? [किं मुक्तावेव ईदृशमनुत्तरस्वरूपमुपलभ्यते किं
वा बन्धाभिमते संसारेऽपि इति अपिशब्दस्यायं भावः यत् संसारोऽस्ति न
तत्त्वतः इति प्रोक्त नीत्या वस्तुतोऽसंभवी संसारो
मोहनीशक्तिवशाद्बन्धतयाभिमतोऽपि इति |] - इति थमुप्रत्ययस्य
विभक्तिविशेषार्थानियमेन प्रकारमात्रे विधानात् प्रकारमात्रविषय एव
अयं प्रश्नः | देव इति व्याख्यातम् | कुलं
स्थूलसूक्ष्मपरप्राणेन्द्रियभूतादि - समूहात्मतया
कार्यकारणभावात् च | यथोक्तम् -
प्. ३३)
संहत्यकारित्वात् ( )
इति | तथा कुलं बोधस्यैव आश्यानरूपतया [शिवात्मा खलु प्रकाशः
शक्तिसदाशिवादिपरिपाठ्यनुसारेण भूतपञ्चकपर्यन्तः स्त्यानीभवति
वेदितृस्वभावन्यग्भावात् वेद्यतोत्कर्षात्मकं काठिन्यं स्त्यानीभवनं
तथा च सति तदेव स्वात्मनि बन्धतयाभिमन्यते पशुजन इति |
आश्यानतायामपि न स्वस्वरूपं कदाचित् परित्यजति हिममिव जलत्वमित्याह
नहीत्यादीना | उक्तं च महार्थमञ्जर्याम् -
स्त्यानस्य क्रियावशादिक्षुरसस्येव शिवप्रकाशस्य |
गुडपिण्डा इव पञ्चापि भूतानि मधुरतां न मुञ्चन्ति ||
इति |] यथावस्थानात् बोधस्वातन्त्र्यादेव च अस्य बन्धाभिमानात् | उक्तं हि
कुल संस्त्याने बन्धुषु च (धा० भ्वा० प०) इति | नहि
प्रकाशैकात्मकबोधैकरूपत्वात् [बोधैकरूपत्वादिति
विशुद्धचिन्मयप्रमात्रैकात्म्यमनुज्झतामेव भावानां प्रकाश
उपपद्यते तेन ज्ञानशक्तिमूलत्वात् स्मरणविकल्पादीनामपि इत्थमेव
मन्तव्यम् | उक्तं चेश्वरप्रत्यभिज्ञायाम् -
वर्तमानावभासानां भावानामवभासनम् |
अन्तःस्थितवतामेव घटते बहिरात्मना ||
इति |] ऋते -
प्. ३४)
किमपि एषामप्रकाशमानं [अप्रकाशमानमिति नीलादेरर्थजातस्य
नीलादिरूपतैव यदि प्रकाशमानता न पुनरर्थशरीरोत्तीर्णा
प्रकाशमानता तर्हि यथा ज्ञानानुत्पादे सर्वान् प्रति तन्नीलमेव भण्यते
न कंचिद्वा प्रति वस्तुतो वा स्वात्मन्येव तन्नीलं परस्य
परनिष्ठतानुपपत्तेः स्वात्मन्यपि वा न नीलं नापि अनीलं
प्रकाशानुग्रहेण विना व्यवस्थानायोगात् तथा अप्रकाशमानतापि इति
अप्रकाशमानताप्रसङ्गोपरतिः |] वपुरुपपद्यते तत्र कुले भवा कौलिकी
सिद्धिः - तथात्वदार्ढ्यं परिवृत्त्य आनन्दरूपं
हृदयस्वभावपरसंविदात्मकशिवविमर्शतादात्म्यं [हृदयस्वभावेति
स्पन्दस्वभावः |] तां सिद्धिं ददाति अनुत्तरस्वरूपतादात्म्ये हि कुलं
तथा भवति | यथोक्तम् -
व्यतिरेकेतराभ्यां [स्वसत्तायामन्याभावः अन्याभावे स्वस्य भाव इति
व्यतिरेकान्वयौ |] हि निश्चयोऽन्यनिजात्मनोः |
व्यवस्थितिः प्रतिष्ठाथ सिद्धिर्निर्वृत्तिरुच्यते ||
इति | सद्य इति शब्दः समाने अहनि इत्यर्थवृत्तिः उक्तनयेन [काल्पनिकं च
अद्यतनत्वम् अकाल्पनिके संविद्वपुषि कथं स्यात् इत्युक्तो नयः |]
अह्नोऽनवस्थितत्वात् समानेक्षणे -
प्. ३५)
इत्यत्र अर्थे वर्तते | समानत्वं च क्षणस्य न सादृश्यम् अपितु
तत्त्वपर्यवसाययेव एवमेव सद्यःशब्दात् प्रतीतिः | अतस्तस्मिन्नेव क्षणे इति
वर्तमानक्षणस्य सावधारणत्वेन भूतभविष्यत्क्षणान्तरनिरासे
तदुभयापेक्षकलनाप्राणां वर्तमानस्यापि कालतां निरस्येत यतो
यावदिदं परमेश्वरस्य भैरवभानोः रश्मिचक्रात्मकं
निजभासास्फारमयं कुलमुक्तम् तत् च एतत्
अन्तर्मुखपरभैरवसंवित्तादात्म्यलक्षणं निरोधमेति तदा तदेव
परमानन्दामृतास्वादमयमदेशकालकलितम् अनुत्तरं ध्रुवं
विसर्गरूपं सततोदितं | तदुक्तं श्रीवाद्यतन्त्रे -
संरुध्य [एतदेव अत्र संरोधनं यत् नीलादेरर्थजातस्य आश्यानस्य
देहप्राणादिप्रमातृताभिमानेन विद्यतोत्कर्षात् तन्निमजनात् तस्यापि
प्रकाशैकमग्नत्वमुक्तनयेन |] रश्मिचक्रं स्वं पीत्वामृतमनुत्तमम् |
कालोभयापरिच्छिन्नं वर्तमाने सुखी भवेत् ||
प्. ३६)
इति | विस्तारितश्च विस्तरतोऽन्यत्र मयैव कालोभयापरिच्छेदः | तथा कुलात्
प्राणदेहादेः आगता सिद्धिः भेदप्राणानां नीलसुखादीना निश्चयरूपा
तां ददाति इति - शरीरादयो [यदेतत् संक्षेपेणोक्तं तदेव विवृण्वन् आह
शरीरादयो हीत्यादि | अयमत्र भावः - यदाहुरन्ये
धर्माधर्मसम्बन्धादेव सर्वो व्यवहारः तेनैव इच्छागुणेन करणानि
अचेतनान्यपि स्वस्वकार्येषु प्रवर्तन्ते न पुनस्तदधिष्ठानादिति शङ्का |
झगितीति न तु इच्छादिव्यवधानेनेतिभावः |] हि झगिति
अनुत्तरध्रुवविसर्गवीर्यावेशेन अकालकलितेन
प्राणादिमध्यमसोपानारोहेणैव भावानां तथात्वनिश्चयरूपां
सिद्धिं विदधते | यथोक्तम् -
अपि त्वात्मबलस्पर्शात् पुरुषस्तत्समो भवेत्
[परप्रमातुरनन्यापेक्षस्वातन्त्र्यलक्षणात् ईश्वरसमो भवतीति |] |
(स्प० उ० १-८)
इति | तथा -
* * * * * * * * करणानीव देहिनाम् | (स्प० उ० २-१०)
इति | तथा कुले शिवशक्त्यात्मनि संनिहितेऽपि सिद्धिरुक्तनयेन जीवन्मुक्ततामयी
समभि -
प्. ३७)
लषिताणिमादिप्रसवपदं
[अणिमा महिमा चैव लघिमा गरिमा तथा |
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ||
इति हि सिद्धयोऽत्राभेदसारा एव मन्तव्या इति | तथाहि चित्स्वरूप एव
सर्वान्तर्भावक्षमत्वादणिमा व्यापकत्वान्महिमा
भेदमयगौरवाभावात् लघिमा विश्रान्तिस्थानत्वात् प्राप्तिः
विश्ववैचित्र्यग्रहणात् प्राकाम्यम् अखण्डितत्वादीशित्वं
सर्वंसहत्वाद्वशित्वं यत्रकामावसायित्वं च इति यत्र सिद्धयः सत्यतः
परिपूर्णतया विद्यन्ते इति ||] तां सद्यः अनाकलितमेव
भावनाकरणादिरहितत्वेनैव ददाति | यदुक्तं श्रीसोमानन्दपादैः |
भावनाकरणाभ्यां किं शिवस्य सततोदितेः [भावनाकरणाभावे
सततोदितत्वमेव हेतुः तत्तद्रूपाभासेपि तदेव हेतुः] |
इति | तथा -
एकवारं [एकवारमिति यथा तन्त्रालोके
गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात्
समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात् |
विलीने शङ्काभ्रे हृदयगगनोद्भासिमहसः
प्रभोः सूर्यस्येव स्पृशत चरणान् ध्वान्तशयिनः ||
इति | प्रमाणेनेति स्वयमूहितेन |] प्रमाणेन शास्त्राद्वा गुरुवाक्यतः |
प्. ३८)
ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना ||
करणेन नास्ति कृत्यं क्वापि भावनयापि वा |
इति | कुले [कुले शिवशक्तिसंघट्टात्मनि या विसिसृष्टा सैव अन्तःस्थितवती
बहिरौन्मुख्यरूपा विसर्गलक्षणा शक्तिः |] जाता सिद्धिः शाक्त-
हादिरूपप्रसरणात् आरभ्य बहिर्भावपटलविकासपर्यन्तं
भेदावभासना तां ददाति तदेव हि अनुत्तरं महाप्रकाशात्म अन्तः
कृतबोधमयविश्वभावप्रसरम् अनुत्तरत्वादेव
निरतिशयस्वातन्त्र्यैश्वर्यचमत्कारभरात् भेदं विकासयति | नहि
अप्रकाशरूपं भावविकासप्रकाशे कारणं भवेत् प्रकाशात्मकं चेत्
नूनं तत् परमेश्वरभैरवभट्टारकरूपमेव - इति किमपरेण [अत्रायं
मायाप्रकृतिपरमाण्वादिः यदि प्रकाशरूपं तर्हि कृतं तदुक्त्या यदि च
न तथापि अलब्धसत्ताकं स्वात्मनि कथं परत्र कारणता मियादिति |]
वाग्जालेन | तथा येन अनुत्तरेण विशेषेण ज्ञाता मात्रा मानेन
प्रमात्मना त्राणं पालनं पतित्वं यासां
प्रमातृप्रमाणप्रमेयप्रमितिरूपाणां ता मात्रा विज्ञाता येन तत्
विज्ञातमात्रं |
प्. ३९)
तथा विशेषेण प्रतिपत्तिदार्ढ्यबन्धेन यत् ज्ञातं तत् विभातमेव न पुनः
भावनीयं सकृद्विभातात्मत्वात् | तथा ज्ञातमात्रं ज्ञातमेव
ज्ञेयैकरूपत्वात् न तु कदाचित् ज्ञातृरूपं घटादि तथा ज्ञाता
ज्ञेयरूपा भेदमयी इयं माया तदुभयं विगतं यत्र तत्
विज्ञातमात्रं घटादयो यत्र ज्ञात्रेकरूपत्वेन स्वप्रकाशात्मानः यत्र
च माया न प्रभवति तेन विज्ञातमात्रेण | खे ब्रह्मणि अभेदरूपे स्थित्वा
चरति - विषयमवगमयति तथा हानादानादिचेष्टां विधत्ते स्वरूपे च आस्ते
इति खेचरी अन्तर्बहिष्करणतदर्थसुखादिनीलादिरूपा तथाहि
वेद्यवेदकभावानुल्लासिपदे शून्ये संविन्मात्रदृगुल्लासे
संवेद्यगतान्तरैक्यरूपदिश्यमानभेदोल्लासे स्फुटभेदोद्रेके च क्रमेण
व्योमचरी-गोचरी-दिक्चरी-भूचरीभूता याः शक्तयः -
प्. ४०)
ता वस्तुत उक्तनयेन स्वभावचरखेचरीरूपशक्त्यविभक्ता एव - इत्येकैव सा
[सा हि परमेश्वरस्य स्वरूपादभिन्ना शक्तिरेकैव तात्त्विकी इदमिति
परामर्शभेदमात्रजन्मना नानारूपविभक्तभावभेदेन
अवभासमाना सती बहुत्वेनापि व्यपदेशमर्हतीति | शक्तिशब्देन च
व्यक्तिव्यपदेशः परमेश्वराच्छक्तिमते | भेदाभावप्रतिपादनमेव
प्रयोजनमिति |] पारमेश्वरी शक्तिः | यदुक्तम् -
शक्तयोऽस्य जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः |
इति | ततः स्त्रीलिङ्गेन निर्देशः नहि आत्मनो मनसः इन्द्रियाणां बाह्यानां
च भेदविषयस्य व्यवस्थापनं व्यवस्था च युज्यते -
अभिसंधानाद्ययोगात् अप्रकाशत्वात् च सैव खेचरी कामक्रोधादिरूपतया
वैषम्येन लक्ष्यते तस्याः समता सर्वत्रैव परिपूर्णभैस्वस्वभावात्
अणुमात्रमपि अविकलानुत्तरस्वरूपापरिज्ञानमेव चित्तवृत्तीनां वैषम्यं
स एव च संसारः [संसारो गमनागमनादिरूपः | तदेव द्रढयति
अपूर्णेति | अपूर्णाभिमननं द्विविधम् एकः प्रकाशस्य
स्वातन्त्रपहानिरूपः द्वितीयः स्वातन्त्रया बोधरूपः तत्रैकत्वेन
व्यपदेशः स्वस्वरूपापहानेरेकत्वात् |] -
प्. ४१)
अपूर्णाभिमानेन स्वात्मनि अणुत्वापादनात् आणवमलस्य
तदपूर्णरूपपरिपूर्णाकाङ्क्षायां [* * * * * * * * अभिलापो मन्त्रोऽत्र तु |
इति नीत्या |] भेददर्शनात् मायाख्यस्य
[भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् |
कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम् || इति] मलस्य
तच्छुभाशुभवासनाग्रहेण कार्ममलस्य च उल्लासात् [इयत्पर्यन्तम्
अणुमात्रमपि इत्याद्येव उपोद्बलितम् सूक्ष्मेक्षिकावधार्यमेतत्]
स्वरूपापरिज्ञानमयतद्वैषम्यनिवृत्तौ [तस्यानुत्तरस्य वैषम्यनिवृत्तौ
त्रिलक्षणस्य मलस्याभावात् |] मलाभावात् क्रोधमोहादिवृत्तयो हि
परिपूर्णभगवद्भैरवभट्टारकसंविदात्मिका एव | यदुक्तं
श्रीसोमानन्दपादैः -
* * * * * * * * उत्सरत्प्रकृतिः शिवः |
इति | तथा -
सुखे [क्रमात् सत्त्वरजस्तमोगुणकार्ये |] दुःखे विमोहे च स्थितोऽहं परमः
शिवः |
इति |
प्. ४२)
दुःखेऽपि प्रविकासेन स्थैर्यार्थे धृतिसंगमात् |
इत्यादि | क्रोधादिवृत्तयो हि चिच्चमत्कारतादात्म्यात् अन्यथा
तत्स्वरूपलाभस्यैव अयोगाच्च परमेश्वर्यः करणदेवता एव
भगवत्यस्तास्ताः क्रीडा वितन्वत्यः शिवार्कस्य दीधितिरूपाः तथा ता एव
[आभ्यन्तरक्रोधादिवृत्तय एव |]
तत्तत्परस्परसांकर्यलब्धासंख्येयरूपाः तत्तदुच्चाटन-
मारण-शान्त्यादिरूपेषु कर्मसु परिकल्पिततत्तत्समुचितसौम्यरौद्रप्रकाराः
कृत्यादिभेदात् [वामा संसारवमनात् इत्यादिः कृत्याभेदः स्वयमेवोह्यः |]
देवतात्वेन [परिवारेति शक्तयः | यथोक्तम् -
बहिर्मुखस्य मन्त्रस्य वृत्तयो याः प्रकीर्तिताः |
ता एवान्तर्मुखस्यास्य शक्तयः परिकीरिताः ||
इति |] उपास्या उक्ताः मतादिशास्त्रेषु
भगवद्भैरवभट्टारकपरिवारभूताश्च | यथोक्तम् -
प्. ४३)
उच्चाटने काकवक्त्रा * * * * * * * * |
इत्यादि उपक्रम्य -
ता एव देवदेवस्य रश्मयः कादिधारिकाः ||
इत्यादि | तथात्वेन तु अपरिज्ञातस्वरूपाः चिच्चमत्कारं विकल्पेऽपि
निर्विकल्पैकसारं तेन तेन विचित्रवर्णाक्षरपुञ्जात्मना घोरतरात्मना
विकल्परूपेण देवतात्मना शङ्कातङ्कानुप्रवेशेन तिरोदधत्यः
सांसारिकपाश्यपशुभावदायिन्यः | यथोक्तम् -
पीठेश्वर्यो महाघोरा मोहयन्ति मुहुर्मुहुः |
इति | तथा -
विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून् |
इत्यादि | तथा -
शब्दराशिसमुत्थस्थ [अकारादिः क्षकारान्तः शब्दराशिः | शक्तिवर्गस्य -
कादिवर्गस्य कलाभिः - ककाराद्यक्षरैः |] शक्तिवर्गस्य भोग्यताम् |
कलाविलुप्तविभवो गतः सन्स पशुः स्मृतः ||
प्. ४४)
इति | ज्ञातस्वरूपाः ता एव उक्तयुक्त्या जीवन्मुक्तताप्रदायिन्यः | तथा उक्तम् -
यदा त्वेकत्र [एकत्रेति सामान्यस्पन्दे | तस्येति कादिवर्गस्य | चक्रेति आदिहान्तस्य |
] संरूढस्तदा तस्य लयोद्भवौ |
नियच्छन् भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ||
इति | स्वरूपपरिज्ञानं च एतावदेव - यत् एतासु वृत्तिषु [वृत्तिषु - क्रोधादिषु |]
उदयसमयनिर्विकल्पैकरूपासु [यथोक्तम् -
यदा समग्रज्ञानाग्रज्ञातृस्पर्शदशास्वपि |
स्थितैव लक्षयते सा च तद्विश्रान्त्या तथा फले ||
इति |] विकल्पोऽपि उदयमानो वर्णराशिसमारब्धतत्तद्विचित्रशब्दारूषितत्वेऽपि
न तादृशेन वर्णपुञ्जात्मना शक्तिचक्रेण युज्यते यत् तस्य
प्राक्तननिर्विकल्पैकव्यवहारमयस्य विकल्पात्मनो मातुः स्वरूपं
खण्डयेत् |
प्. ४५)
न च विकल्पा अनुभवात् विकल्पान्तराद्वा भिन्नाः अपि तु स एव एकः
स्वातन्त्र्यभेदितभावोपरागलब्धभेदभूताद्यभिधविज्ञानचक्रप्रभुः
तदेवं खेचरीसाम्यमेव मोक्षः तत् च अनुत्तरस्वरूपपपरिज्ञानमेव
[अनुत्तरेति अयमत्राभिप्रायः - न चात्र एतन्मन्तम्यं यदि स्वरूपमेव
मोक्षः तदलं खेचर्या खेचरी हि शक्तिदशा आम्नायेषूक्ता
अनुत्तरस्वरूपं सर्वाध्वोपरिवर्तीति यतोऽत्र अनुत्तरस्वरूपपरिज्ञानं
मोक्षः तच्च खेचर्यैव सूक्ष्मतमविमर्शरूपया सिद्ध्यतीति |] सततोदितं
परमेश्वर्याः शिवात्मनि संघट्टसमापत्त्या उभयविमर्शानन्दरूढि |
शिवो हि परवाङ्मयमहामन्त्रवीर्यविसृष्टिमयः परमेश्वरीविसृष्ट्या
तद्वीर्यघनतात्मकप्रसूननिर्भरया [तस्य अनुत्तररूपस्य प्रकाशस्य
वीर्यं परिस्फुरणं बाह्यवीर्यं च तेन घनात्मकं तत्तादात्म्येन
वर्तमानं च तत् प्रसूनं विश्वलक्षणमिदन्तास्फुरणं बाह्यप्रसिद्धं
च तेन निर्भरया संकुलया सृष्ट्या तादृक्क्रियारूपया |] सृष्ट्या युज्यते |
तथा हि सर्वेषामन्तर्बहिष्करणानां -
प्. ४६)
यत् यत् अनुप्रविशतिं तत्तत् मध्यनाडीः भुवि [सर्वान्तरतमत्वेन
वर्तमानत्वात् मध्यमिति
यत्तत्र नहि विश्रान्तं तत्रभः कुसुमायते |
इति वचनेनन चैतन्मन्तव्यं नभःकुसुमं व्यतिरिक्तमेवेति तदपि
प्रकाशैकत्वात्र तथा इति |] सर्वाङ्गानुप्राणनसारायां प्राणात्मना
चेतनरूपेण आस्ते यत् ओज इति कथ्यते तदेवसर्वाङ्गेषु अनुप्राणकतया
तदविभक्तवीर्यरूपत्वेन ततोऽपि पुनरपि नयनश्रवणादीन्द्रियद्वारेण
वृंहकरूपं रूपशब्दादि अनुप्रविशत् वृंहकत्वादेव तत्
वीर्यक्षोभरूपकामानलप्रबोधकं भवति [अयमत्रभावः -
प्रमाणप्रमेययोर्यत् शब्दाद्यात्म श्रोत्रादिरूपं च कलाजालं तस्य
ग्राह्यग्राहकाभावात्मपरस्परसंघट्टात् यत् मेलनं ततः -
शुचिर्नामाग्निरुद्भूतः संघट्टात्सोमसूर्ययोः
इति - नीत्या मध्यधामानुप्रवेशात् विसर्गानन्द उन्मिषति तदनुकल्पतया यत्
अन्य आनन्द उपचर्यते येन तदपि परसंविदनुप्रवेशे कारणतामेतीत्यर्थः |]
| यथोक्तम् -
आलापाद्गात्रसंस्पर्शात् * * * * * * * * ||
इत्यादि | एकेनैव च रूपाद्यन्यतमेन उद्रिक्तप्राक्तनबलोपवृंहितस्य
सर्वविषयकरणीयोक्तक्षोभकरणसमर्थत्वं सर्वस्य सर्वस्य
सर्वसर्वात्मकत्वात् -
प्. ४७)
स्मरणविकल्पादिनापि सर्वमयमनोगतानन्तशब्दादिवृंहणवशात् जायत
एव क्षोभः परिपुष्टसर्वमयमहावीर्यमेव पुष्टिसृष्टिकारि न तु अपूर्ण
नापि क्षीणं समुचितशैशववार्द्धकयोरिव वीर्यविक्षोभे च वीर्यस्य
स्वमयत्वेन अभिन्नस्यापि अदेशकालकलितस्पन्दमयमहाविमर्शरूपमेव
परिपूर्णभैरवसंविदात्मकं [अत्रायं भावः -
संकोचतारतम्येन पाशव ज्ञानमीरितम् |
विकासतारतम्येन पतिज्ञानं तु बाधकम् ||
इति सिद्धान्तरीतिः | तत्र -
इष्टेन शिवलिङ्गेन विश्वं संतर्पितं भवेत् |
इति | कुलादिदर्शने पुनरसौ लिङ्गपूजा निषिद्धा तत्र लिङ्गपूजायां
सर्वाध्वमयतां ते भावनयाहुः पारमेश्वरं लिङ्गं हि
गर्भीकृतनिखिलाध्वप्रपञ्चम् इति | अन्ये पुनर्देह एव सर्वाध्वमय इति तत्रैव
साक्षात्कारः सुलभः इति किमनुपपत्तिना बाह्येन लिङ्गादिना फलम् |
यदाहुः -
हृदयगुहागेहगतं सर्वज्ञं सर्वगं परित्यज्य |
प्रणमति मितमतिरशिवं शिवाशयाश्मादिमश्लाघ्यम् ||
इति | इह पुनः परमाद्वयदर्शने त्रिकमते तद्विधिना तन्निपेधेन वा न किंचित्
प्रयोजनं यच्चात्र कुलदर्शनं कृतं तदभिज्ञोपदर्शनफलमेव तथा
पूर्वपक्षतोद्द्योतनार्थं कुलात् परतरं त्रिकम् इत्युक्तेश्च | यदुक्तं
भट्टनायकेनापि अनेनैवाशयेन -
नपुंसकमिदं नाथ परब्रह्म फलेत्कियत् |
तत्पौरुषनियोक्त्री चेन्न स्यात् त्वच्छक्तिसुन्दरी ||
इति |] स्वातन्त्र्यमानन्दशक्तिमयं -
प्. ४८)
सुखप्रसवभृः नयनयोरपि हि रूपं
तद्वीर्यक्षोभात्मकमहाविसर्गविश्लेषणयुक्त्या [अत्रायं भावः -
पूर्वकोटावुल्लिलासयिपाद्यात्मभिर्व्यापारैरनुपहिते निस्तरङ्गजलधिप्रख्ये
अनुत्तरात्मनि विसर्गे परस्मिन् प्रकाशे प्रथममूल्लासनलीलात् एव
व्यतिरिक्तविमृश्याभावात् चित्परामर्शः स्फुरेत् येन अस्य सर्वत्रैव
स्वातन्त्र्यमुदियात् ततः स्वस्वातन्त्र्यमाहात्म्यादेव अनुत्तरप्रकाशात्मा
परमेश्वरः स्वस्वरूपं गोपयति प्रमाणादिदशारोहेण | तत्रेत्थं क्रमः
नीलसुखादिरूपेण बहिर्भावनं सृष्टिः तथा कंचित्कालं चर्वणं स्थितिः
स्वात्मसात्कारेण संहारः तदनु ज्ञातोऽयमर्थः इति संतोषाभिमानात्
लयः ततोऽपि बहीरूपतांविलापनेन स्वात्मन्येव विश्रमणमनुग्रहः |
उक्तं च -
परो विसर्गविश्लेषस्तन्मयं विश्वमुच्यते |
इति |] एव सुखदायि भवति | श्रवणयोश्च मधुरगीतादि | अन्यत्रापि इन्द्रिये अन्यत्
केवलं परिपूर्णसृष्टितां न अश्नुते स्वात्मन्येव उच्छलनात् तथा च
तद्वीर्यानुपवृंहितानाम्
अविद्यमानतथाविधवीर्यविक्षोभात्मकमदनानन्दानां पाषाणानामिव
रमणीयतरतरुणीरूपमपि नितम्बिनीवदनघूर्णमानकाकलीकलगीतमपि
प्. ४९)
न पूर्णानन्दपर्यवसायि यथा यथा च न वृंहकं भवति तथा तथा
परिमितचमत्कारपर्यवसानं सर्वतो हि अचमत्कारे जडतैव
अधिकचमत्कारावेश एव वीर्यक्षोभात्मा सहृदयता उच्यते यस्यैव
एतद्भोगासङ्गाभ्यासनिवेशितानन्तवृंहकवीर्यवृंहितं हृदयं तस्यैव
सातिशयचमत्क्रिया दुःखेपि एष एव चमत्कारः अन्तर्व्यवस्थितं हि यत्तत्
दयितसुतसुखादि वीर्यात्मकं तदेव भावनासदृशदृगाक्रन्दादिबोधेन
क्षोभात्मकं विकासमापन्नं पुनर्न भविष्यति इति
नैरपेक्ष्यवशसविशेषचमत्क्रियात्म दुःखसतत्त्वम् | तदुक्तम् -
दुःखेऽपि प्रविकासेन * * * * * * * * |
इति | यदा सकलेन्द्रियनाडीभूतमरुदादिपरिपूरणे तु
महामध्यमसौषुम्नपदानुप्रवेशे निजशक्तिक्षोभतादात्म्यं प्रतिपद्यते
तदा सर्वतोद्वैतगलने -
प्. ५०)
परिपूर्णस्वशक्तिभरविमर्शाहन्तामयचमत्कारानुप्रवेशे -
परिपूर्णसृष्ट्यानन्दरूपरुद्रयामलयोगानुप्रवेशेन
तन्महामन्त्रवीर्यविसर्गविश्लेषणात्मना
ध्रुवपदात्मकनिस्तरङ्गाकुलभैरवभावाभिव्यक्तिः | तथाहि
तन्मध्यनाडीरूपस्य उभयलिङ्गात्मनोऽपि
तद्वीर्योत्साहबललब्धावष्टम्भस्य कम्पकाले
सकलवीर्यक्षोभोज्जिगमिषात्मकम् अन्तःस्पर्शसुखं स्वसंवित्साक्षिकमेव |
न च एतत्कल्पितशरीरनिष्ठतयैव केवलं तदभिज्ञानोपदेशद्वारेण
इयतिमहामन्त्रवीर्यविसर्गविश्लेषणावाप्तध्रुवपदे
परब्रह्ममयशिवशक्तिसंघट्टानन्दस्वातन्त्र्यसृष्टिपराभट्टारिका-
रूपेऽनुप्रवेशः | तद्वक्ष्यते -
ततः सृष्टिं यजेत् * * * * * * * * * * |
इत्यादि | तथा -
प्. ५१)
यथा न्यग्रोधबीजस्थः * * * * * * * * |
इत्यादि | तथा -
* * * * * * * * * इत्येतद्रुद्रयामलम् ||
इत्यादि | अन्यत्रापि उक्तम् -
लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्स्मृतेः |
शक्त्यभावेऽपि [बाह्यशक्त्यभावेपि शाक्तस्वरूपावेशे स्मरणपुरःसरं
भावनातिशयात् तन्मयीभावः इति भावः |] देवेशि भवेदानन्दसंप्लवः ||
इति | भरात् स्मर्यमाणो हि संस्पर्शः तत्स्पर्शक्षेत्रे च
मध्यमाकृतिमपरात्मकशक्तिनालिकाप्रतिबिम्बितः
तन्मुख्यशाक्तस्पर्शाभावेपि तदन्तर्वृत्तिशाक्तस्पर्शात्मकवीर्य-
क्षोभकारी भवति इत्यभिप्रायेण | तथा
शक्तिसंगमसंक्षोभशक्त्यावेशावसानकम् |
यत्सुखं ब्रह्मतत्त्वस्य तत्सुखं [स्त्रीसङ्गानन्दाविर्भूतसमावेशान्ते यत्
सुखं त्वक्तस्त्रीपुरुषादिपर्यालोचनं स्वात्ममात्रनिष्ठं तत्
स्वाक्यमात्मन एव संबन्धि नान्यत आघातं भावयेत् स्त्रीसङ्गमस्तु
व्यक्तिकारणमेवेत्यर्थः] स्वाक्यमुच्यते ||
इति |
* * * * * * * * स्नेहात्कौलिकमादिशेत् |
इति च | महावीरेण भगवता व्यासेनापि -
प्. ५२)
मम [मम - परब्रह्मस्वरूपस्य महत् - स्थूलं यतो वेद्यतया
परामृश्यमानं गर्भं - संविल्लक्षणस्ववीर्यसंक्रान्तिम् ततः -
इदन्तया परामृस्यमानात् स्वभावात् | इदमत्र तात्पर्यम् -
परब्रह्मस्वरूपं परामृशत् प्रकृतिलक्षण तत्त्वमवभासयामि
तस्येदन्तायामपि चित्प्रकाशानुप्रवेशं विना प्रकाशमानत्वाभावात्
ब्रह्मस्वरूपत्वं व्यवच्छिन्नवेद्यस्वरूपत्वात् तु स्थूलम् इति
सकलजगद्भावभेदकहेतुभूतेदन्तात्मकं महब्रह्म मम
जगत्सिसृक्ष्यासिकस्य योनिस्थानीयम् इति |] योनिर्महद्ब्रह्म तस्मिन् गर्भं
दधाम्यहम् |
संभवः सर्वभूतानां ततो भवति भारत ||
इत्यपि गीतम् | सोमानन्दपादैरपि निजविवृत्तौ -
भगवत्या रतस्थाया प्रश्न इति परैकमयत्वेऽपि
तन्मयमहदन्तरालाभिप्रायेण
इति |
तदलम् अमुना त्रिकशास्त्ररहस्योपदेशकथातिप्रस्तावेन | तदितम् अनुत्तरं
कौलिकसिद्धिदं येन ज्ञातमात्रेण खेचरीसाम्यम् उक्तनयेन || १ ||
एतद्गुह्यं महागुह्यं
कथय स्व मम प्रभोः |
प्. ५३)
गुह्यम् अप्रकटत्वात् यतो गुहायां मायायां स्वरूपापरिज्ञानमययां
सत्यां स्थितमपि [स्थितमित्यत्र अयमाशयः - सर्वथा हि प्रकाशस्वरूप
आत्मा तावत् प्रकाशत एव न केनापि अंशेन न प्रकाशते इति अप्रकटमिति
सर्वथा हृदयगमीभावमप्राप्तमित्यर्थः |] अप्रकटम् | अथ च महत्
अगुह्यं सर्वस्य एवं विधचमत्कारमयत्वात् |
मातृमानमेयमयभेदाविभागशालिनी भगवती शुद्धविद्यैव
त्रिकोणामायायामतिशयप्रतिफलितभेदावग्रहा
[चिकीर्षालक्षणपरामर्शरूपा परमेशशक्तिर्माया ततश्च वस्तुतो विद्यैव
या हि जननभूः सा कथमविद्या यत् पुनरस्या अविद्यात्वं तत्
स्रक्ष्यमाणजडवस्त्वपक्षेया इयमेव सांख्यनये प्रकृतिरित्युक्ता यत्
पञ्चस्तव्याम् -
यामामनन्ति मुनयः प्रकृतिं पुराणीं
विद्येति यां श्रुतिरहस्यविदो गृणन्ति |
तामर्धपल्लवितशंकररूपमुद्रां
देवीमनन्यशरणः शरणं प्रपद्ये ||
इति | देवी च माया यतो हि इयमहन्ताच्छादितोन्मिमिष्विदन्तास्वरूपा
स्फुटमिदमहमिति प्रतीतिरूपा अत एव च अन्यत्र मन्त्रवीर्यत्वमस्या उक्तम् |
एतद्दशामधिशयानो हि मन्त्रः स्वोचितफलदानसामर्थ्यभाक् भवतीति |
उक्तं चान्यत्र
न पुंसि न परे तत्त्वे शक्तौ मन्त्रं नियोजयेत् |
पुंस्तत्त्वे जडतामेति परतत्त्वे तु निष्फलः ||
इति | तथा श्रीतन्त्रालोके च
योगिनीहृदयं लिङ्गमिदमानन्दलक्षणम् |
बीजं योनिसमापत्त्या सूते कामपि संविदम् ||
इति |] भवति -
प्. ५४)
इति मायापि जगज्जननभूः विद्यैव वस्तुतः तत् उक्तेन नयेन सा
एवंभूतत्वेन अपरिज्ञायमानत्वात्
अभेदमाहात्म्यतिरोहिततत्प्रमात्रादिकोणत्रयत्वात् महागुहा इति उच्यते सैव च
वस्तुतः पूजाधाम त्रिशूलं त्रिकार्थे | तदुक्तम् -
सा त्रिकोणा महाविद्या त्रिका सर्वरसास्पदम् |
विसर्गपदमेवैष [एतद्धामसमापत्त्या
स्वातन्त्र्याख्यकौलिकशक्तेरानन्दधारा प्रसरतीत्याह विसर्गपदमिति |
विसर्गपदता तस्याः तन्त्रालोके विवृता यथा -
विसर्गता च सैवास्या यदानन्दोदयक्रमात् |
स्पष्टीभूतक्रियाशक्तिपर्यन्ता प्रोच्छलत्स्थितिः ||
इति क्रमोच्छलत्तया बहिरुच्छलितमपि सत् विश्वं नवनवं भाति उक्तं
चान्यत्र -
एतल्लिङ्गसमापत्तिविसर्गानन्दधारया |
सिक्तं सदेव तद्विश्वं शश्वद्मवनवायते ||
इति | संहारक्रमोऽत्र भावनयैव लभ्यते इति | सर्वरसेति
भोगमोक्षरूपमित्यर्थः | भेदाभावेनैव सृष्टेरत्र महत्त्वमित्यर्थः |]
तस्मात् संपूजयेत्त्रिकम् ||
इति | तथा -
उदेत्येकः समालोकः प्रमाणार्थप्रमातृगः |
प्. ५५)
इति | ततश्च ईदृश्यां महागुहायां शुद्धविद्याहृदयमययां
महासृष्टिरूपायां जगज्जन्मभूमौ स्वचमत्काररूपेण भवति यत् मह-अ
इति यत् एतत् गुह्यम् एतेन हि यत् इदमविच्छिन्नभैरवभासा विमर्शरूपं
स्वातन्त्र्यं भावेभ्यः स्वरूपप्रत्युपसंहारक्रमेण
आत्मविमर्शविश्रान्तिरूपत्वं प्रकाशस्य हि
स्वाभाविकाकृत्रिमपरवाङ्मन्त्रवीर्यचमत्कारात्म अहमिति [पूर्णाहन्ताया
लक्षणं यथा विरूपाक्षपञ्चाशिकायाम् -
प्रत्यवमर्शात्मासौ चितिः स्वरसवाहिनी परा वाग्या |
आद्यन्तप्रत्याहृतवर्णगणा सत्यहन्ता सा ||
इति |] | यथोक्तम् -
प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः |
इति | तदेव गुह्यम् अतिरहस्यं तथाहि - सृष्टिक्रमेण यथा
अविकृतानुत्तरध्रुवरूपविश्रान्तो भैरवभट्टारकः
सकलकलाजालजीवनभूतः सर्वस्य आदिसिद्धोऽकलात्मकः स एव -
प्. ५६)
प्रसरात्मना [प्रसरात्मनेति स्पन्दरूपया स्वात्मोच्छलत्तयेत्यर्थः |
यदुक्तम् -
तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः |
आनन्दशक्तिः सैवोक्ता यतो विश्वं विसृज्यते ||
इति आनन्दशक्तिरेव परविसर्ग इत्युच्यते | यथोक्तम् -
अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा |
सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् ||
इति | तत्रेत्थं क्रमः -
* * * * * * * * विसर्गरहिता तु सा |
शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा ||
विसर्गप्रान्तदेशे तु परा कुण्डलिनीति च |
शिवव्योमेति परमं ब्रह्मात्मस्थानमुच्यते ||
विसर्गमात्रं नाथस्य सृष्टिसंहारविभ्रमाः |
इति |] रूपेण विसर्गरूपतामश्नुवानो विसर्गस्यैव कुण्डलिन्यात्मक-
ह-शक्तिमयत्वात् पुनरपि तच्छाक्तप्रसराभेदवेदकरूपबिन्द्वात्मना
नररूपेण प्रसरति | तथा [तथा पुनरपीति यथा
पूर्वं विसृज्य सकलं कर्तव्यं शून्यतानले |
चित्तविश्रान्तिसंज्ञोऽयमाणवस्तदनन्तरम् ||
दृष्टश्रुतादितद्वस्तुप्रोन्मुखत्वं स्वसंविदि |
चित्तसंबोधनामोक्तः शाक्तोल्लासभरात्मकः ||
तत्रोन्मुखत्वतद्वस्तुसंघट्टाद्वस्तुनो हृदि |
रूढेः पूर्णतयावेशान्मितचित्तलयाच्छिवे ||
प्राग्वद्भविध्यदौन्मुख्यसंभाव्य मिततालयात् |
चित्तप्रलयनामासौ विसर्गः शांभवः परः ||
इति] पुनरपि तन्मूलत्रि -
प्. ५७)
स्फुटयिष्यते च एतत् अविदूर एव | महेपरमानन्दरूपे पूर्वोक्ते यदिदम्
उक्तनयेन अ इति रूपं तदेव गुह्यम् एतदेव च महागुह्यं - जगज्जननधाम
तथा उभयसमापत्त्या आनन्देन अगुह्यं सर्वचमत्कारमयं स्व !
आत्मन्नेव हे प्रभो एवंविधवैचित्र्यकारितया प्रभवनशील आमन्त्रणमेतत्
तच्च आमन्त्र्यस्य आमन्त्रकं प्रति तादात्म्यमाभिमुख्यं प्रातिपदिकार्थात्
अधिकार्थदायि [आमन्त्रणे च इति सूत्रे प्रातिपदिकार्थातिरिक्ते आमन्त्रणे
प्रथम्ना इति वृत्तिकारः |] | यथोक्तम् |
संबोधनाधिकः प्रातिपदिकार्थः |
इति | निर्णीतं च एतत् मयैव श्रीपूर्वपञ्चिकायाम् | एतत् कथय -
परावाग्रूपतया अविभक्तं स्थितमपि पश्यन्तीभुवि
वाक्यप्रबन्धक्रमासूत्रणेन योजय | यथोक्तं प्राक् -
प्. ५८)
गुरुशिष्यपदे स्थित्वा * * * * * * * * |
इत्यादि | पराभट्टारिकायाश्च पश्यन्त्यादितादात्म्यं निर्णीतं प्रागेव |
तथा मम इत्यस्य प्रत्यगात्मसंबन्धित्वस्य इदंभावस्य यत् गुह्यं मह-अ
इत्युक्तम् अहमिति | तथा हि मम [ममेदं भासते इति इदंपदस्य स्वात्मनि
असत्कल्पत्वात् संहारक्रमेण मदीयं स्फुरणं स्पन्दनरूपतामाविष्टम्
इत्यनेन अहंपरामर्शैकसार एव व्यपदेश्यः न तु अत्र कश्चित् सृष्टिक्रमो
नापि संहारक्रम इत्यवधार्यं स्वयमेव सूक्ष्मदर्शिभिः |] इदं भासते
इति यत् भासनं तस्य विमर्शः पुनरपि अहंभावैकसारः स पुनः
अहंभावो भावप्रत्युपसंहरणमुखेन इति मह-अ इत्येतद्रूप एव
यथोक्तं प्राक् | यदुक्तम् -
इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता |
या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ||
इति | अन्यत्रापि -
घटोऽयमित्यध्यवसा नामरूपातिरेकिणी |
परेशशक्तिरात्मेव भासते न त्विदन्तया || (ई० प्र० अ० १ आ० ५ श्लो० २०)
प्. ५९)
इति | तदुक्तं श्रीसोमानन्दपादैः निजविवृत्तौ |
अबीजं शुद्धशिवरूपम्
इत्यादि | तदेव अस्माभिः विपञ्चितमिति | तथा स्वमम - सुष्ठु अविद्यमानं
मम इति यस्य अहन्ताभरैकरूपत्वात् विश्वं न किंचित् यस्य
व्यतिरिक्तनिर्देशप्राणषष्ट्यर्थयोगी भवति | शास्त्रान्तरदीक्षितानां
विज्ञानाकलानां प्रलयकेवलिनां च यद्यपि ममेति व्यतिरिक्तं नास्ति तथापि
यत् भेदयोग्यतावसाना स्यादेव प्रबोधसमये तद्विकासात्
अहंभावरूढिः तदपाकृत्यै सुष्ठुशब्दार्थे सुः | यदुक्तं मयैव स्तोत्रे
-
यन्न किंचन ममेति दीनतां
पाप्नुवन्ति जडजन्तवोऽनिशम् |
तन्न [तन्नेति तेषां निषेधरूपम् अत आह सर्वमस्मीति |] किंचन ममास्मि
सर्वमि-
त्युद्धुरां धूरमुपेयिवानहम् ||
प्. ६०)
इति | शोभनेन द्वैतकलङ्काङ्कनाकालुष्यलेशशृन्येन अमेन
परमार्थोपदेशाद्वयात्मना ज्ञानेन मानम् अवबोधो यस्य
स्वप्रकाशैकरूपत्वात् | अमतीति अमा अ इति मा यत्र अविद्यमानं मा मानं
निषेधश्च यत्र नित्योदितत्वात् संहारश्च यत्र नास्ति सा भगवती अमा इति
उच्यते | मा शोभना सततोदिता यत्र मायां प्रमाणप्रमेयव्यवहृतौ सा
तादृशी मा यस्य इति बहुब्रीह्यन्तरो बहुब्रीहिः | परमेश्वरो हि
प्रमाणादिव्यवहारेऽपि परशक्तिमय एव सर्वथा अद्वैतरूपत्वात् तस्य
आमन्त्रणमात्मन एव || १-१/२ ||
इदमेव सार्धश्लोकनिरूपितानन्तप्रश्नतात्पर्यसंग्रहेण एतदुक्तं भवति
इति निर्णेतुं निरूप्यते
प्. ६१)
हृदयस्था तु या शक्तिः
कौलिकी कुलनायिका |
तां मे कथय देवेश
येन तृप्तिं लभाम्यहम् || २ ||
सर्वस्य नीलसुखादेः [नीलेति बाह्यान्तरग्राह्यस्य देहेति ग्राहकस्य उभयोः
प्रतिष्ठास्थानं संविदित्यर्थः |] देहप्राणबुद्ध्यादेश्च परं
प्रतिष्ठास्थानं संविदात्म हृत् तस्यैव निजस्वातन्त्र्यकल्पितभेदा अया -
विचित्राणि घटादिज्ञानानि तत्स्था इयं स्फुरणमयी शक्तिः कुलस्य नायिका
शरीरप्राणसुखादेः स्फुरत्तादायिनी ब्राह्म्यादिदेवताचक्रस्य वीर्यभूता
निखिलाक्षनाडीचक्रस्य मध्य मध्यमरूपा
जननस्थानकर्णिकालिङ्गात्मा अस्ति | तत्रैव च कुले भवा कुलरूपा कौलिकी
यद्वा कुले भवमकुलात्म -
प्. ६२)
कौलं तत् यस्यामन्तः तादात्म्येन अस्ति सा कौलिकी कुलं हि
अकुलप्रकाशरूढमेव तथा भवति | यदुक्तम्
अपि स्वात्मबलस्पर्शात् | (स्प० १ नि० ८ का० उ०)
इति | तथा
तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः |
प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् || (स्प० २ नि० १० का० )
इति | देवानां ब्रह्मविष्णुरुद्रादीनाम् ईशस्य आमन्त्रणं | तन्मे कथय
इत्यपि पठन्ति श्रीसोमानन्दपादाः व्याचक्षते च तत् तस्मात् इति | यद्वा तत्
कथय येन तृप्तिं परमानन्दमयीं लभे
परमाद्वयनिर्वृतिस्वातन्त्र्यरसाभवामि इति समन्वयः | ब्रजामि इत्यपि
पाठः | अहमित्यनेन सर्वप्रमातृजीवनरूपमेव सततं परामृश्यते तत् च
एवमभिहितस्वरूपोपदेशेन प्रत्यभिज्ञाय निजमीश्वररूपं
परिपूर्णभावात्मिकां तृप्तिं विन्दति इति प्राक् प्रकटितमेव |
प्. ६३)
तदुक्तं सोमानन्दपादैः स्वविवृतौ -
हृदि अयो गमनं ज्ञानम्
इत्यादि |
इति शिवरसं पातुं येषां पिपासति मानसं
सततमशिवध्वंसे सत्तां शिवेन निवेशिताम् |
हृदयगगनग्रन्थिं तेषां विदारयितुं हठाद्
अभिनव इमां प्रश्नव्याख्यां व्यधात्त्रिकतत्त्वगाम् ||
तदत्र प्रश्नसर्वस्वे -
श्रीभैरव उवाच -
व्याख्यातं प्रागेव एतत् किं पुनरुक्ततापादनेन भैरवो भरणात्मको
[भरणं विश्वस्य धारणं स्वात्मनि तथा स्वात्मभित्तिलग्नत्वेन पोषणं
च यतोऽनेनैव अन्यत्रोक्तं विश्वं बिभर्ति धारणपोषणयोगेन इति | तथा तेन
चास्य धारणं पोषणं च इति विश्वमयत्वेनास्य सर्वत्र स्फुरणात् विश्वं
संवित्प्रकाशलग्नं चैतन्यव्यक्तिस्थानमित्याचार्याभिनवगुप्तपादा
अन्यत्र | तथा स्वस्मिन्नेव स्वात्मनैव विमर्शात्मकश्चेति |]
महामन्त्ररवात्मकश्च केवलमत्र शक्तिमत्प्राधान्यं [प्रसरे
पश्यन्त्यादिरूपतया शक्तिप्राधान्यं संहारे पुनः शक्तिसंकोचेन
शक्तिमत्प्राधान्यं सुबोधमेवेति |] संहाररूपेण मह-अ इत्येवं रूपम्
इत्युक्तं प्राक् स्फुटीभविष्यति च अग्रत एव |
प्. ६४)
तत् इयान् अत्र तात्पर्यार्थः |
परा [परेति अनुत्तरस्वरूपा निराकाङ्क्षा पूर्णेत्यर्थः | स्वरूपसत्तया
प्रसरन्ती अभ्युपगमरूपत्वादिच्छाशक्तिः सापि परानुत्तररूपैवेत्यर्थः
तत्रैव हेतुमाह भैरवस्याविभेदिनी इति | तत्रेत्थं क्रमः - औन्मुख्ये इच्छा
सा परैव ज्ञानशक्त्यौन्मुख्ये पश्यन्ती स्थितौ तस्याः क्रियाशक्त्यौन्मुख्ये
मध्यमा स्थितौ वैखरीति |] भगवती संवित्प्रसरन्ती स्वरूपतः |
परेच्छाशक्तिरित्युक्ता भैरवस्याविभेदिनी ||
तस्याः प्रसरधर्मत्वज्ञानशक्त्यादिरूपता |
परापरापरारूपपश्यन्त्यादिवपुर्भृतिः [आदिना
मध्यमावैखरीग्रहणम् |] ||
तदेवं प्रसराकारस्वरूपपरिमर्शनम् |
प्रश्न इत्युच्यते देवी तन्मयप्रश्नकारिणी ||
तस्य [प्रश्नसतत्त्वमुक्त्वा परस्परं प्रश्नोत्तरसतत्त्वमाह तस्येत्यादि |]
प्रसररूपस्य परामर्शनमेव यत् |
तदेव परमं प्रोक्तं तन्प्रश्नोत्तररूपकम् ||
तदेवापरसंवित्तेरारभ्यान्तस्तरां [व्यस्ततयोत्तरस्वरूपमाह
तदेवापरेत्यादि |] पुनः |
परसंविद्धनानन्दसंहारकरणं मुहुः ||
प्. ६५)
अन्तर्भावितनिःशेषप्रसरं भैरवं वपुः |
प्रतिवक्तृस्वरूपेण सर्वदैव विजृम्भते ||
एतौ प्रसरसंहारावकालकलितौ यतः |
तदेकरूपमेवेदं तत्त्वं प्रश्नोत्तरात्मकम् ||
तदेवं परसंबन्धमनुत्तरतयान्वितम् |
षडर्धसारसर्वस्वं गुरवः [गुरव इति श्रीशंभुनाथादयः |] प्राङ्
न्यरूपयन् ||
पफिल-उ फुर-इ फुरण
अवि आरिणा हो-इपरावर
अवरविह-इण
देवि विसरिम इ-ऊ उ |
सासच्चि-अ परिसरि
से-इस-ऊ-अ-उदे-उ
विलोम-इ भैरव ऊ-अ-उ
उत्तरु एहु अणुतुल |
शृणु देवि महाभागे
उत्तरस्याप्यनुत्तरम् || ३ ||
कौलिकोऽयं विधिर्देवि
मम हृद्व्योम्न्यवस्थितः |
कथयामि सुरेशानि
सद्यः कौलिकसिद्धिदम् || ४ ||
प्. ६६)
देवि इति प्राग्वत् | महान् भागो यस्याः या भज्यमाना
उक्तवक्ष्यमाणोपदेशानुशीलनेन सेव्यमाना
पारमेश्वर्याख्यमहाबलदा भवति इति | महत् - परममहद्रूपतया
प्रसिद्धोऽनाश्रितशिवरूपः स यस्याः भागः अंशः पारमेश्वरी हि
शक्तिः अनन्तषट्त्रिंशदादितत्त्वगर्भिणी [अयमत्राभिप्रायः यदुक्तम् -
सदाशिवः स्वकालान्ते बिन्द्वर्धेन्दुनिरोधिकाः |
आक्रम्य नादे लीयेत गृहीत्वा सचराचरम् ||
नादो नादान्तवृत्त्या तु भीत्वा ब्रह्मबिलं हठात् |
शक्तितत्त्वे लयं याति गृहीत्वा सचराचरम् ||
शक्तिः स्वकालविलये व्यापिन्यां लीयते पुनः |
ततस्तेन क्रमेणैव लीयते साप्यनाश्रिते ||
सोऽपि याति लयं साम्यसंज्ञे सामनसे पदे |
सा शक्तिः साम्यसंज्ञा स्यान्नित्याकल्पा कलात्मिका ||
यत्तत्सामनसं रूपं तत्साम्यं ब्रह्म विश्वगम् |
इति |] | महान् - बुद्ध्यादिः तत्त्वविशेषोभागो विभागकलापेक्षि रूपं यस्याः
पारमेश्वरी हि संविदेकघनशक्तिः
स्वस्वातन्त्र्योपकल्पितभिन्नज्ञेयकार्यप्रतिष्ठापदत्वे बुद्धिरित्युच्यते |
प्. ६७)
यदुक्तं श्रीसोमानन्दपादैः -
* * * * * * * * अपरस्थितो [अत्र कैश्चिद्वित्यं विकल्पितं - निर्विमर्शः श्रुद्धः
प्रकाश इति सविमर्शत्वे हि सविकल्पत्वमापतेत् तथाहि जानातीति ज्ञानं बोधो
बुद्धिवृत्तिः कथं वृत्तिमतीं बुद्धिं विना स्यात् इतो बुद्धिः प्रकृतेः प्रजाता
जडा न च तथा तस्य शिवतत्त्वस्य संबन्ध इति तथा चोक्तं
पूर्वपक्षव्यवस्थायां श्रीमत्सोमानन्दपादैः
बुद्धिं विना कथं बोधः सा बुद्धिः प्रकृतेः प्रजा |
न च तस्य तया योग इति चेत् * * * * * ||
इति | अत्राम्यैरित्यमुत्तरो दत्तः - अपरावस्थायामवयात्युल्लसितेषु भिन्नेषु
भावेषु बुद्धिरुच्यते अभेदे तु चिन्मये बोधोऽस्य सहज इति | अत्रायं
पुनस्तात्पर्यार्थः - पुर्यष्टकप्रमातॄणां बुद्धिः
पूर्णप्रमातृतायामबोध्यरूपं बोधमात्रामिति ज्ञानकालेऽपि
शिवसत्तास्तीति दर्शितम् |]
सा बुद्धिर्यत्पुनः सूक्ष्मं सर्वदिक्कमवस्थितम् |
ज्ञानं बोधमयं तस्य शिवस्य सहजं [प्राकृतबुद्ध्युल्लासेऽपि
तत्सद्भावात् तद्विना तदभावात् |] सदा ||
इति | भागो भेदः स यत्र अस्ति रूपे इति मत्वर्थीयाकारप्रत्ययान्तेन
भागशब्देन विभक्तं रूपमुच्यते | विभक्ते च वपुषि
परिच्छेदोऽन्योन्यव्यवच्छेदेनैव भवति इति प्रसादात्मकविषयनिश्चयो
बुद्धावुपजायमानोऽपररम्यारम्यादिविश्ववर्तिनो [अपर इति भिन्नः |]
भावान् अस्पृशन्नेव प्रत्युत तान् व्यवच्छिन्दन् उपजायते इति |
प्. ६८)
सुखवृत्तिबुद्धेः धर्मैश्वर्यादिरूपत्वात् सत्त्वात्मको गुणनिःष्यन्दः इति
गीयते | यदि तु तत्रापि अन्तस्तमाम् अनुप्रविश्यते तत् तद्द्वारेणैव तन्मूलवर्तिनि
परमानन्दधाम्नि भवेदेव सततमुदयः अत एव महस्य
सर्वतोऽखण्डितपरिपूर्णनिरर्गलनिरपेक्षस्वातन्त्र्यजगदानन्दमयस्य आ -
ईषत् भागाः [इह खलु अशून्यं शून्यम् इत्युक्त्या केवलानश्चये
भावभेदाकलुषिते संविदात्मनि सत्त्वगुणवृत्तौ विश्रान्तिमासाद्य
स्वात्मानमेव केवलतया साक्षात्कुर्वन् निजानन्दविश्रान्तस्तिष्ठेत् | १ | ततः
प्राक्संवित्प्राणे परिणता इति नीत्या प्रमाणात्मनः प्राणस्य
हृदयाद्द्वादशान्तं रेचकक्रमेण उदये कथंचिद्बहिरौन्मुख्यात्
प्रमातृसंमतात् निजादानन्दान्निष्क्रान्तो निरानन्ददशास्थस्तिष्ठेत् | २ |
ततोऽपि अपानात्मनि प्रमये पुनरुदयति प्ररेण प्रमेयेण कृतमानन्दं
विभावयेत् यतस्तत्र प्रमेयोदयदशायामपि परानन्दस्तिष्ठेत् | ३ | ततोऽपि
हृदये क्षणं विश्रम्य
नीलसुखादिप्रतिभासमानमेयानामन्योन्यमेलनात्मना संघट्टेन
ब्रह्मानन्दनिष्ठस्तिष्ठेत् | ४ | ततोऽपि मानमेयौघग्रासतत्परः
संघट्टनपरायणः प्रमातृसंमतमानन्दं विभावयेत् -
स्वात्ममात्रविश्रान्तिरूपतया विमृशेत् महानन्दमयस्तिष्ठेत् | ५ | ततोऽपि
एतत्सर्वानुसंघातृरूपत्वात्मप्रकाशरूपे जगदानन्दे तिष्ठेत् | ६ |
यदुक्तं तन्त्रालोके जगदानन्द स्वरूपम्
यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरेत् |
यदनाहृतसंवित्ति परमामृतवृंहितम् ||
यत्रास्ति भावनादीनां न मुख्या कापि संगतिः |
तदेतज्जगदानन्दमस्मभ्यं शंभुरुचिवान् ||] सुखलक्षणां -
प्. ६९)
अंशा यतः यत् यत् किल सुखं तत् महानन्दनिर्वृतिपरमधाम्नि विसर्गशक्तौ
अनुप्रवेशात् तथाऽचेत्यमानतया कियद्रूपतां प्राप्तम् | तदुक्तं
भट्टनारायणेन -
त्रैलोक्येऽप्यत्र [भवाभवातिभवरूपे] यो यावानानन्दः कश्चिदीक्ष्यते |
स बिन्दुर्यस्य तं वन्दे देवमानन्दसागरम् || (६१ श्लो०)
इति प्राङ्नयेन यदुक्तं मह-अ इति रूपं तदेव भजनीयं यस्याः
परमेश्वरस्य हि स्वचमत्कारवृंहितं यत् अहम् इति तदेव शाक्तं वपुः
तदेव च पराभट्टारिकारूपमिति उच्यते अत एव सैव च परमेश्वरी सर्वं
शृणोति - श्रवणाख्यया सत्तया तिष्ठन्ती
श्रवणसंपुटस्फुटक्रमिकस्वस्पन्दमयवर्णराशिनिष्ठमैकात्म्यापादन्
अरूपसंकलनानुसंधानाख्यं स्वातन्त्र्यं तेन हि विना
कलकललीनशब्दविशेषं शृण्वन्नपि - न शृणोमि इति व्यवहरति प्रमाता |
प्. ७०)
कलकलमात्रविषयमेव तु संकलनमिति तत्रैव श्रुतमिति व्यवहारः |
वस्तुतस्तु स कलकलध्वनिः श्रोत्राकाशे अनुप्रविशन् न वर्णान् अनुप्रवेशयन्
तथा भवेत् तद्वर्णातिरिक्तस्य कलकलस्यैव भावात्
[तस्मादेकः क्रमविरहितः कल्पितासत्यभागो
वाक्यस्फोटो जनयति मतिं तादृशि स्वाभिधेये |
वर्णास्ते ते प्रकृतिलयवः कल्पनैकप्रतिष्ठा-
स्तस्मिन्नर्थे विदधति धियं नेत्यलं तत्कथाभिः ||
इति स्फोटवादो वैयाकरणैरुपगतः |] तद्वर्णविशेषविवक्षायां च
कलकलस्य च कारणाभावादेव अनुत्पत्तिः स्यात् -
तद्विवक्षोत्पन्नस्फुटवर्णमयशब्दकार्यत्वेपि
सजातीयशब्दोत्पत्त्यनुपपत्तेः | सर्वथा त एव वर्णाः तेन स्फुटरूपेण
संकलनामगच्छन्तः कलकलशब्दवाच्याः तत्संकलनावधानोद्युक्तस्य
भवेदेव कियन्मात्रस्फुटोपलम्भ इति संकलनमेव अत्र उपयोगि |
प्. ७१)
संकलनं च भगवती सैव परा परमेश्वरी करोति | यदुक्तम् -
तदाक्रम्य बलं मन्त्रा (स्प० २-१०)
इत्यादि | वस्तुतो हि शृणोति पश्यति वक्ति गृह्णाति इत्यादि भगवत्या एव रूपम् |
यथोक्तम् -
येन रूपं रसं गन्धं स्पर्शशब्दौ च मैथुनम् |
एतेनैव विजानाति किमत्र परिशिष्यते || (कठ० उ० २-३)
इति वेदान्ते परमेश्वरेण | न तु श्रवणं नाम
स्फुटकलकलात्मकतारगद्गदादिरूपवर्णाकर्णनमेव | तथाहि -
श्रीपरमेश्वर एव श्रीस्वच्छन्दशास्त्रे जपविभागनिर्णयावसर एवमेव
निरूपितवान् -
आत्मना श्रुयते यस्तु स उपांशुरिति स्मृतः |
अत्र हि मध्यमापदे आत्मैव संशृणुते नापरः
प्. ७२)
इत्युक्तम् स्थानादिप्रयत्नस्फुटतायां दन्तौष्ठ पुटादिसंयोगविभागेन
अतिनिभृतमपि शब्दोच्चरे निकटतरवर्तिपरश्रवणमपि स्यादिति
सशब्दतापत्तिरेव |
परैः संश्रूयते यस्तु सशब्दोऽसौ प्रकीर्तितः |
इत्युक्तम् यतः न चात्र निकटादिविशेषः कश्चित् इति |
परप्रमातृदर्शनमात्रगोचरजिह्वोष्ठपुटादिसंयोगे तु यद्यपि आत्मन एव
श्रवणं स्यात् न परस्य तथापि मध्यमापदमेव एतत् संपद्यते - वर्णस्य
बहिरात्मलाभाभावात् | वायवभिघातात् हि स्फुटवर्णनिष्पन्न एव न च तत्र
वायवभिघातो बाह्यतापत्तिपर्यन्तः स्यात् | ओष्ठादिचलनमपि न तत्र
वर्णांशेऽनुप्रविशेत् अपि तु स्वात्मनिष्ठमेव तात्कालिकं तत्स्यात्
तात्कालिकेङ्गितनिमिषित -
प्. ७२)
करव्यापारादिस्थानीये स्फुटस्थानकरणप्रयत्नयोगे तु वर्णनिष्पत्तावपि
यदि नाम ध्वनीनां तारतम्येन तारमन्द्रादिविभागे
दूरादूरादिश्रवणं स्यात् सर्वथा परैः श्रूयते - इति वैखरीपदमेव एतत्
इत्यलं प्रसक्तानुप्रसक्त्या | सैव [श्रवणलक्षणा |] परमेश्वरी
आमन्त्रणयोगेन स्फुटं शक्तिरूपतयोक्ता नर-शक्ति-शिवात्मकं [स्फुटं
शक्तिरूपतया उक्ता इत्येव सविचारं स्फुटयति - नरशक्तीत्यादिना तत्र
भेदप्रधानो नरः भेदाभेदप्रधाना शक्तिः केवलमभेदप्रधानः
शिव इति | यदुक्तं
विभागाभासने चास्य त्रिधा वपुरुदाहृतम् |
इति | इच्छा-ज्ञान-क्रियास्वरूपमत्र सुबोधं सृष्टिक्रमेण |] हि इदं सर्वं
त्रिकरूपमेव तत्र यत् केवलं स्वात्मनि अवस्थितं तत् केवलं जडरूपयोगि -
प्. ७४)
मुख्यतया [मुख्यतयेस्यस्यायमभिप्रायः - यज्जडं स्वात्मनि
अलब्धसत्ताकमेव परमार्थतः प्रकाशलग्नमेव इदानीं तावत्ताटस्थ्येन
भासमानतया मुख्यतो जडमित्यर्थः |] नरात्मकं घटः तिष्ठति [घट
इति सविकल्पकं ज्ञानम् इदमिति निर्विकल्पमित्यनयोर्विशेषः |] इतिवत् एष एव
प्रथमपुरुषविषयः शेषः | यत् पुनरिदमित्यपि भासमानं [इदमित्यस्य
विच्छिन्नविमर्शस्य कृतार्थता |
या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ||
इति | तथा
घटोऽयमित्यध्यवसा नामरूपातिरेकिणी |
परेशशक्तिरात्मेव भासते न त्विदन्तया ||
इति | तत्रायं विवेकः - ये पुनर्नामरूपे ते भेदहेतुभूततया नरात्मके
यत्पुनरिदमित्यध्यवसायशक्तिः सा अभेदतया शक्तिस्वरूपा यत आत्मेव
इयमभिन्ना अहन्ताच्छादितत्वात् |] यदामन्त्र्यमाणतया
आमन्त्रकाहंभावसमाच्छादिततद्भिन्नेदंभावं
युष्मच्छब्दव्यपदेश्यं तच्छाक्तं रूपं त्वं तिष्ठसि इत्यत्र हि एष एव
युष्मच्छब्दार्थः आमन्त्रणतत्त्वं च | तथाहि यथा अहं तिष्ठामि तथैव
अयमपि इति तस्यापि
अस्मद्रूपावच्छिन्नाहंभावचमत्कारस्वातन्त्र्यमविच्छिन्नाहं
चमत्कारेणैव -
प्. ७५)
अंभिमन्वान आमन्त्रयते यथार्थेन मध्यमपुरुषेण व्यपदिशति सेयं हि
भगवती परापरा सर्वथा
पुनरविच्छिन्नचमत्कारनिरपेक्षस्वातन्त्र्याहंविमर्शे अहं तिष्ठामि [तथा
च विरूपाक्षपञ्चाशिकायां
प्रथमो मध्यम उत्तम इति पुरुषा भेदिनस्त्रयोऽपि मिश्रः |
मत्तस्तु महापुरुषात्प्रत्यवमर्शात्मनो न बहिः ||
युष्मच्छेषापोहवदहमिति यद्भाति भिन्नमिव रूपम् |
तदिदं भागविभेदो न त्वहमेकोस्मि यन्नित्यम् ||
इति |] इति पराभट्टारिकोदयः यत्र उत्तमत्वं पुरुषस्य यदुक्तम् -
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः |
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ||
इति | अत्र क्षराक्षररूपात् उभयतोऽपि हि उत्तमत्वम् अस्मि इत्यस्मदर्थेन उक्तम्
नहि [ननु अहं तिष्ठामीत्यत्र शरीराद्यहन्तैव स्फुटं प्रतीयते
तत्कथमत्र पराभट्टारिकोदयः ? इत्यत आह - नहीत्यादि अयं पुनरत्र
भावः - स्वतन्त्रप्रकाशघनाविनश्वरवस्तुतत्त्वं हि परमार्थः तदेव
स्वस्वातन्त्र्यात् गृहीत देहाद्यहंभावोऽपि अहमित्युच्यते
तत्प्राच्यस्वरूपानपहारतोद्दयोतनाम् | देहादेस्तु प्रत्यक्षमेव
विच्छिन्नतापरमार्थत्वम् इति कथं तत्र अस्मीति व्यपदेशः |] अत्र -
प्. ७६)
सर्वत्र अहमिति परिमितं शरीरादि अपदिश्यते तस्य प्रत्यक्षेणैव
ताद्रूप्यविरोधात् | तदेवमीदृशं स्वयंप्रथात्मकं
[स्वयंप्रकाशात्मकं न तु नररूपशक्तिरूपभेदभेदाभेदतया
प्रकाशाधीनमित्यर्थः |] शिवात्मकं रूपम् अत एव बोधस्यास्य
स्वसंवित्प्रथात्मकस्य किंचिन्न ऊनं नाप्यधिकं [भेदाभेदरूपम् |] -
तस्याप्रकाशरूपस्य चिन्मये अननुप्रवेशात् [प्रकाशरूपस्य पुनः
चित्स्वरूपेऽनुप्रवेशादित्यर्थसिद्धम् |] तदपेक्षया च माध्यस्थ्यमपि न
किंचित् -
इत्युपचयापचयमध्यस्थानीयेदन्तानिर्देश्याभावलब्धप्रतिष्ठाने
[उपचयः प्रकाशे अपचयः घटे माध्यस्थ्यं युष्मदि इति |] न प्रभवन्ति
तद्बोधाविच्छेदरूपास्मदर्थाः विच्छेदितोऽपि युष्मदर्थ एवमेवेति अत एव
अलिङ्गे युष्मदस्मदी गीते | देहगतसंख्याद्युपचारेण परापरादि
शक्तिगर्भीकारात् संख्यायोगस्तु उपपद्यते -
प्. ७७)
तथाहि - स्वस्वातन्त्र्योपकल्पितभेदावभासस्य अनन्तशरीराद्येकतयैव
विमृशेत् आवां युवां वयं यूयं इति च उपचयाद्यास्तु देहगता
उपचरितुमपि न शक्याः - चिद्रूपस्य ऊनाधिकतानुपपत्तेः सर्वं हि
सर्वात्मकमिति नरात्मानो जडा अपि त्यक्ततत्पूर्वरूपाः
शाक्त-शैवरूपभाजो भवन्ति - शृणुत ग्रावाणः मेरुः शिखरिणामहं
भवामि अहं चैत्रो ब्रवीमि इत्यपि प्रतीतेः | शाक्तमपि युष्मदर्थरूपमपि
नरात्मकतां भजत एव - शाक्तरूपमुज्झित्त्वा त्वं गतभयधैर्यशक्तिरिति
अनामन्त्रणयोगेनापि प्रतिपत्तेः | भवानित्यनेन पादा गुरव
इत्यादिप्रत्ययविशेषैश्चापरावस्थोचितनरात्मकप्रथमपुरुषविषयतयापि -
प्. ७८)
प्रतीतिसद्भावात् त्यक्तशाक्तरूपस्यापि च अहंरूपशिवात्मकत्वमपि स्यात् |
व्यस्ये दयिते शरीरचित्तत्त्वमेव अहं भवामि इति प्रत्ययात् शिवस्वरूपमपि च
उज्झितचिद्रुपमिव नरशक्त्यात्मकं वपुराविशत्येव | कोऽहम् एषोऽहम् अहो
अहं धिक् माम् अहो मह्यम् इत्यादौ हि अहमिति गुणीकृत्याविच्छिन्नं
स्वातन्त्र्यं मुख्यतया तु विच्छिन्नैव इदन्ता प्रतीयते यत्र भगवत्या
अपराया उदयः हे अहम् इत्यादौ परापरशाक्तस्पन्दस्पर्श एव शिवस्य किं तु
पूर्वं पूर्वमव्यभिचरितमुत्तरत्र तेन नररूपं स्फुटयैव प्रतिपत्त्या
शाक्त-शांभवधुरमारोढुं शक्नुयादेव न पुनर्वैपरीत्येन
आरोहणं स्फुटप्रतीतिमयम् अत्यक्तनिजनिजरूपतया
प्. ७९)
त्र्यात्मकत्वात् एक द्वि बहुरूपभागित्वमेति प्रत्येकमेतत् त्रिकम् | उक्तं हि
एकं वस्तु द्विधा भूतं द्विधा भूतमनेकधा |
इति एकात्मकत्वे हि अप्रतियोगित्वात् शिवताप्रतियोगिसंभवे शाक्तत्वम्
अनेकतायां भेद एव नरात्मभाव एकस्यैव घटः घटौ घटाः
घटपटपाषाणा इत्यपि हि तिष्ठति तिष्ठतः तिष्ठन्ति इति च एकेनैव
क्रियाशक्तिस्फुरितमेव एतत् यथोक्तं -
अनेकमेकधा कृत्वा को न मुच्येत बन्धनात् |
इति | अत एव नर-शक्ति-शिवात्मनां युगपदेकत्र परामर्शे
उत्तरोत्तरस्वरूपानुप्रवेश एव - तस्यैव वस्तुतः तत्परमार्थरूपत्वात् स च
त्वं च तिष्ठथः स च त्वं च अहं च तिष्ठामः इति प्रतीतिक्रम -
प्. ८०)
एव अकृतकसंस्कारसारः शाब्दिकैर्लक्षणैरनुगम्यते तथा च
निजभाषापदेष्वपि संस्कारस्य यत्र नामापि न अवशिष्यते
बौद्धान्द्रद्रविडादिषु तत्रापि अयमेव वाचनिकः क्रमः वचनक्रमश्च
हार्दीमेव प्रतीतिं मूलतोऽनुसरन् तत्प्रतीतिरसरूपतया प्रतीतेरपि
एवंरूपत्वमवगमयेत् यथोक्तं मयैव
* * * न हृदयंगमगामिनी गीः |
इति | तत् सर्वथा अकृतका एवंप्रतीतिः यथोक्तम् -
न तैर्विना भवेच्छब्दो नार्थो नापि चितेर्गतिः |
इति | श्रीमालिनीतन्त्रेऽपि |
एवं सर्वाणुसंघातमधिष्ठाय यथा स्थिता |
तथा ते कथिता शंभोः शक्तिरेकैव शांकरी ||
इति | श्रीतन्त्रसमुच्चयेऽपि -
नर शक्ति-शिवावेशि विश्वमेतत्सदा स्थितम् |
व्यवहारे क्रमीणां च सर्वज्ञानां च सर्वशः ||
प्. ८१)
इति | तदेव नरशक्तिशिवात्मकं स्फुटप्रतिपत्तिसंप्रदायोपदेशेन दर्शितं
नरः शक्तिः शिव इति तु सर्वंसहः प्रतिपत्तिक्रमः
परमेश्वरेच्छास्वातन्त्र्यसृष्टः इत्यलं
परशक्तिपातपवित्रितबहुश्रुतसहृदयसोपदेशकतिपयजनहृदयहारिण्या
[सहृदया इति रसिकश्रोतारः | कतिपयेति तथा चोक्तम् -
पूजकाः शतशः सन्ति भक्ताः सन्ति सहस्रशः |
प्रसादपात्रमाश्वस्ता द्वित्राः सन्ति न पञ्चपाः |
इति |] प्रसक्तानुप्रसक्त्या | तत् व्याख्यातं शृणु देवि इति | उत्तरस्यापि इति यदुक्तं
- कथमनुत्तरमिति तत्र प्रतिवचनम् - उत्तरस्यापि संनिहितस्य यत् अनुत्तरं
प्रागुक्तक्रमेण हि उत्तरमपि अनुत्तरतादात्म्येनैव भवेत् नान्यथा अत एव
उत्तरमपि अनाहृत्य अनादरे षष्ठी उत्तरं रूपं हि
अनाहृततद्भावमनुतररूपमेव [अनादृतोत्तरभावम् |] भेदो हि
अयमुत्तररूपो नितरामेव अभेद-
प्. ८२)
भुवमधिशयय [अधिशयय - आश्रित्य | तथा - भेदरूपतया |] तथा भवेत् |
यथोक्तं
परव्यवस्थापि [परव्यवस्था - भेदनियमः | परे - भिन्नपदार्थे |] परे
यावन्नात्मीकृतः परः |
तावन्न शक्यते कर्तुं यतोऽबुद्धः परः परः ||
इति | तथा उत्तरस्यापि [उत्तरस्यापीति वक्ष्यमाणस्य | अनुत्तरम् - उत्तीर्णम् |]
ग्रन्थभागस्य अनुत्तरं तेनापि उत्तरीतुं न शक्यते | पश्यन्त्या [पश्यन्त्या
अपीति विमर्शसतत्त्वं हि प्रकाशतत्त्वं स एव विमर्श प्रथमप्रसररूपः |
यदुक्तम्
अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा |
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागवपायिनी ||
इति | सैव चार्थप्रतिपादनेच्छारूपविवक्षास्वरूपे मनसि विज्ञानरूपे
वर्तते या मध्यमेति कथ्यते इयं च नित्यं प्राणापानान्तरे
सर्वसाधारणैकेति | यदुक्तम् -
आस्ते विज्ञानरूपत्वे स शब्दोऽत्र विवक्षया |
मध्यमा कथ्यते सैव बिन्दुनादमरुत्क्रमात् ||
इति | पुनरपि च सैव वक्त्रनाड्यां प्राप्ता
कण्ठादिस्थानविभक्तककारादिवर्णासाधारणा वैखरीत्युच्यते सैव
ग्रन्थरूपेति इत्यतस्तख्यैतत्प्रसररूपत्वात् कथं तेन निर्णेतुं शक्यते |
उक्तं च -
स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा |
वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ||
इति] -
प्. ८३)
अपि पराभट्टारिकायाः प्रथमप्रसरत्वात् उत्तरस्यापि च मदीयस्य
एतदेवानुत्तरं परमार्थः उत्तरस्य त्रिशूलप्रेरणादिमयस्य [यथालोकेन
दीपस्य किरणैर्भास्करस्य वा |
ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ||
इति | त्रिशूलेन लोलीभूतशक्तित्रितयेन यः उत्तरः समावेशस्तस्य ! यथोक्तं
लोलीभूतमतः शक्तिग्रितयं तत्त्रिशूलकम् |
यस्मिन्नाशु समावेशाद्भवेद्योगी निरञ्जनः ||
इति |] यत् अनुत्तरं विश्रान्तिस्थानं किं तत् ? इत्याह - यतः स्यात् अयं कौलिको
विधिः - कौलिकः कुलाकुलात्मा प्राक् व्याख्यातो विधीयमानत्वात् विधिः
महासृष्टिरूपो [महासृष्टिरूपः - शुद्धविद्यारूपः |]
गर्भीकृतानन्तसृष्ट्यादिकोटिशतो यस्मात्प्रसृत एतदेव तदनुत्तरं यदुक्तम् -
प्. ८४)
* * * * यतः [यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः |
यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ||
तत्र यत एकस्मात् कर्तुः सर्वमिदं कार्यजातं प्रभवतीति यतः सर्वम्
इत्येकस्य तत्त्वस्य सर्वकर्तृत्वं प्रतिपादितं तथा यस्मिन् सर्वम् इति
सर्वज्ञत्वम् इदमत्यन्तभिन्नाभासमयं भावजातं
संवेद्यमानतामात्रनिबन्धनतत्तत्स्वात्मना सत्
सुखादिसर्वावस्थानुगतैकसंवेदितृत्वमात्रस्वभावे प्रकाशात्मनि यस्मिन्
स्थितं नानात्वमेवेदमित्थं यद्वशात् स्फुरतीत्यर्थः यःसर्वम् इत्यनेन
स्वेच्छामात्रव्यतिरिक्तोपादानरूपवस्त्वन्तरनिरपेक्षत्वमस्योक्तम् सर्वतश्च
य इत्यनेन सर्वस्मिन् वेद्ये वस्तुनि य एवैकः परिस्फुरति तेन नास्य
स्वरूपविक्रियेत्यर्थः यश्च सर्वमयो नित्यम् इति कार्यानारम्भेऽपि
सर्वात्मकत्वप्रतिपादनम् इत्यमत्र तात्पर्यार्थः - सर्वमेकः सर्वज्ञः
सर्वकर्ता निरुपादानः निरुपाधिर्नित्यं सर्वात्मकत्वेनावभासते इति
श्रीमद्राजानकरामकण्ठटीकायाम् |] सर्वं * * * * * * * *
इति | तथाहि इदं विश्वं
चिच्चित्तप्राणदेहसुखदुःखेन्द्रियभूतघटादिमयमेकस्यां [चित् इति
शून्यप्रमाता |] वा परस्यां परमेश्वर्यां भैरवसंविदि [ननु च
सर्वमिदं प्रकाशरूपमेवान्यथा जगतोऽन्धताप्रसङ्गस्तत्किमिति उक्तं
संविदि अभेदेनैव बोधात्मकेन रूपेणेति अयमत्र भावः - यद्यपि
प्रकाशसत्तां विना न किञ्चित् प्रकाशते इति सत्यं तथापि परस्परं ते
विच्छिन्ना एव अनुत्तरस्वरूपे तु परस्परविच्छेदो नास्ति इति अनुत्तरत्वमस्य|]
अविभागेनैव बोधात्मकेन रूपेण आस्ते यद्यपि बोधात्मकं -
प्. ८५)
रूपं नास्तमेति जातुचिदपि तदस्तमये अप्रकाशमानतापत्तेः तथापि
परस्पराभावात्मकोऽवच्छेदः तत्र नास्ति विश्वात्मान
[आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्विभुः |
अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः ||
स यदास्ते चिदाह्लादमात्रानुभवतल्लयः |
तदिच्छा तावती तावत्तावज्ज्ञानं क्रिया हि सा ||
सुसूक्ष्मशक्तित्रितयसामरस्येन वर्तते |
चिद्रूपाह्लादपरमो निर्विभागः परस्तदा ||
इति शिवदृष्टौ |] एव भावाः तत्र च यदि एषामवस्थितिः न स्यात् तत्
प्रथमानुसंधानादिकमेव अक्षप्रेरणोपयोग्यपि न भवेत् इति
समुचितानुदितेदन्ताकमहंपरामर्शमात्राभिन्नमेव भावजातं
विगतभेदकलनं तिष्ठति न तत्र कश्चित् अवच्छेदः तथा यदि अत्र स्पष्टः
सन्नयं विधिः कौलिकः स्थितो -
प्. ८६)
विश्रान्तिं प्राप्तः सर्वमिदं हि षट्त्रिंशदात्म ततः
सामान्यस्पन्दसंविदात्मनः शक्तिमतः परशक्तिप्रधानात् शिवात्
स्वशक्त्या सृष्टमपि सत् तत्रैव भैरवविशेषस्पन्दात्मनि शक्तिप्रधाने
स्वस्वरूपे विश्राम्येत् तदेव स्वस्वभावनिष्ठितत्वं भावानां | यदुक्तं
यस्मिन्सर्वं * * * * * * * * * *
इति | तदेतत् शिवशक्त्यात्मैव सामान्यविशेषरूपमेकात्मकमपि
परमेश्वरेणैव उपदेशोपाय प्रवेशाय पृथक् कृत्य निरूप्यमाणं
वस्तुतः पुनरेकमेव स्वतन्त्रचिन्मयमहमित्यैश्वर्यशक्तिसारमनुत्तरम् |
यत्र कीदृशे स्वस्वरूपेऽवस्थितः मम हृद्व्योम्नि ममेति यत् एतत् हृदयं
सर्वभावानां स्थानं प्रतिष्ठाधाम नीलादीनां हि अन्ततः
क्रिमिपर्यन्तं चिदंशानिविष्टानां न किंचित् नीलादि रूपमिति प्रमातुरेव
प्. ८७)
यत् ममेति अविच्छिन्नचमत्कारांशोपारोहित्वं मम नीलं भातम् इति तदेव
नीलादिरूपत्वमिति तस्य ममेत्यस्य नीलाद्यनन्तसर्वभावहृदयस्य यत् व्योम
यत्र तत् ममकारात्मकं विश्वं वीतं [विशेषेण इतं गतं वीतम् |] सम्यक्
धृतम् अत एव त्यक्तभिन्ननिजरूपतया शून्यरूपं व्योम यत्र तथा
ममेत्यस्य भिन्नाभिन्नरूपपरापरसंविदात्मनो यत् हृदयं
पर्यन्तप्रतिष्ठाधाम अहमिति तस्यापि व्योम संहाररूपकलनेन म ह अ इति
नरात्मकं लीनं बिन्द्वात्मशक्तौ म-इति कुण्डलिनी-ह-कलारूपायां
प्रविश्य परिपूर्णनिरर्गलचमत्कारे सर्वाविच्छिन्ने अ-इत्यनुप्रविष्टं
तथाभवति एतदेव मम हृद्व्योम एवं यत इदं -
प्. ८८)
प्रसृतं यत्र च विश्रान्तं तदेव नित्यमनावृतस्वभावं स्वयं
प्रथमानम् अनपह्नवनीयमनुत्तरम् | यथोक्तम्
यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् |
तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् ||
इति | आवरकत्वेन निरोधकाभिमतोऽपि हि तदावरणादिस्वातन्त्र्येण
प्रकाशमानो दृक्क्रियात्मक एव परमेश्वरः यदित्ययं निपातः
सर्वविभक्त्यर्थवृत्तिः अपरवाक्यीयसंबन्धौचित्यात् विशेषे स्थास्नुरत्र
पञ्चम्यर्थे सप्तम्यर्थे च वर्तते | अयं हि आञ्जस्येन [सूक्ष्मार्थविवेकं
विनापि] अर्थः - यदयं [यत् - यस्मात् |] कौलिकः सृष्टिप्रसरः यच्च मम
हृद्व्योम्नि अवस्थितः तदेवानुत्तरम् | एवं तस्यैव
प्रसरविश्रान्त्युभयस्थानत्वं -
प्. ८९)
निरूप्य प्रसरक्रमस्वरूपं क्रियाशक्तिस्पन्दविसर्गं निरूपयति कथयामि
इत्यादि तदेव हि रूपम् अहं
परानुत्तरात्मपरापरादिमयपश्यन्त्यादिप्रसरपरिपाट्याऽविच्छिन्नैकता-
परमार्थः कथयामीति समुचितव्यपदेशं
पराभट्टारिकोदयभागिवैखर्यन्तं वाक्यप्रबन्धं
शास्त्रीयलौकिकादिबहुभेदं व्यक्तयामीति तदुक्तम्
* * * * * * * * * सर्वतश्च यः
इति | प्रथमपर्यन्तभुवि पराभट्टारिकात्मनि तत्प्रसरात्मनि च
परापरादेवतावपुषि अनुत्तरध्रुवपदविजृम्भैव तदाहुर्निजविवृतौ [तथैव
शिवदृष्टावपि
यदा तु तस्य चिद्धर्मविभवामोदजृम्भया |
इत्याद्युक्तम् | श्रीमदुत्पलदेवप्रभुपादैरपि
स्फारयस्यस्त्रिलमात्मना स्फुरन्
विश्वमामृशसि रूपमामृशन् |
यत्स्वयं निजरसेन घूर्णसे
तत्समुल्लसति भावमण्डलम् ||
इति |] श्रीसोमानन्दपादाः -
प्. ९०)
कथयामि इति उच्चारयामि उत्कलिकात इति तथाहमेव सर्वस्य अन्तश्चिद्रूपेण
कथयामीति तदेवास्माभिः युक्त्युपदेशसंस्कारैः निर्मलयय
हृदयङ्गमीकृतम् | स्वरूपं चास्य परमेश्वरस्य सद्य इति - य एव च
परमेश्वरो भैरवात्माकुलानुतरध्रुवधामतया - उक्तम् तदेवेदं सर्वं
सत् कौलिकविधिरूपं नहि प्रकाशविमर्शशुद्धभैरवस्वरूपातिरेकि किंचित्
भावानां सत्त्वं सत्तासंबन्धार्थक्रियाकारित्वादीनामपि सत्ताहेतुता
पराभिमतानामपि सत्तायोगे तथात्वानुपपत्तेः
सत्त्वान्तरार्थक्रियान्तरयोगे चानवस्थापत्तेः प्रथमत एव तथा
विमर्शजीवितप्रकाशमयत्वमेव सत्त्वं तत् च
स्वातन्त्र्यविमर्शसाराहंभावभरितमिति भैरवरूपमेव | यद्वा सति
सद्रूपे यस्यति यत्नं करोति क्रियाशक्तिप्राणत्वात् तत् सद्य इति क्विपि -
प्. ९१)
नपुंसकनिर्देशः सद्यदिति केचित् गुरवः पठन्ति | तदुक्तं श्रीसिद्धसन्ताने -
प्रकाशमानाभासैव यद्भूतिस्तत्सदेव हि |
इति | श्रीस्पन्देऽपि
* * * * तदस्ति परमार्थः |
इति | श्रीसोमानन्दपादैरपि -
यत्सत्तत्परमार्थो हि परमार्थस्ततः शिवः |
इति स्वरूपमुक्तम् | तदुक्तं -
यः सर्वं * * * * * * * * *
इति | अस्यैव क्रियाशक्तिप्रसरं निरूपयति कौलिकसिद्धिदम् इति कौलिकं यत्
व्याख्यातं तस्य सिद्धिः तथात्वदार्ढ्यं तत् यतो भवति तत्र हि
परमार्थप्रमातरि सकलं कुलाकुलादि तथा भवति यत्र प्रतीयमानं
सर्वं तथात्वदार्ढ्यं भजते | तदुक्तं
* * * * * * * * परात्परतरं त्रिकम् |
प्. ९२)
इति | अन्यत्रापि -
वेदाच्छैवं ततो वामं ततो दक्षं ततः कुलम् |
ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम् ||
इति | श्रीनिशाचारेऽपि
वाममार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित् |
संस्कार्यो भैरवे सोऽपि कुले कौले त्रिकेऽपि सः ||
इति | श्रीसर्वाचारेऽपि -
वाममार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित् |
क्रमाद्भैरवतन्त्रेषु पुनः संस्कारमर्हति ||
इति | क्रमश्च एष एव यथोक्तम् - एवं यत्
सर्वलोकवेदसिद्धान्तवामदक्षिणकुलमतभूमिषु परमार्थप्रमातृ इति |
यथोक्तम्
यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः |
इति | तदेवानुत्तरमेतत्सर्वं गर्भीकृत्योक्तं निजविवृतौ सोमानन्दपादैः
किंबहुना सर्वमेवानुत्तरमनुत्तरत्वात् इति | अयं तात्पर्यार्थः -
प्. ९३)
स-अल बहुसंवे-अणफुरितमत
उजहित हिंचि अजत्तो हित्त-उपफुर |
इज कुट्टि उस अलभाव
संवे-अणर-अणणिहाणुइ-उ ||
परि-आणहु-एत्ति-अणुतुरुछत्तुहजसठ्ठ-उसम्मूढतुणि-अच्छहतुह-अत्तासि-अ-ऊ-
उ-ऊ-उसुबाहिरवितुरहुंबन्धुणमोक्खत-उ-इरि-अवहुविकुणसिविसग्गुणिमसिद्व-
उपुणसंहरसिज्जितिपविणणुविरिञ्चरुद्रम-अलक्खहिमसरणिरोहचिन्त-इमलक्ख-
एक्कवा-अपरि-आणहु-अत्ताण-उपरमत्थ-अणणुणको-इवि-आसुबहु-इ-उस-अल-
उसत्थत्थ |
इतीदृक् व्याख्यानं त्यक्त्वा यत् अन्यैः व्याख्यातं तत्प्रदर्शनं दूषणम्
यद्यपि पदवाक्यसंस्कारविहीनैः सह ब्रीडावहा गोष्ठीकृता भवति
तथापि सचेतसोऽनुत्तरमवबोधयितुं तत् एकवारं तावत् लिख्यते - अनुत्तरम्
इत्यादिना सार्धेनश्लोकेन शिवविषयः [अत्रायं भावः | शिवः विषयो यस्येति
विग्रहः यतः
येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् ||
इत्युक्तम् | तथा शक्तिर्विषयो यस्येत्येवं विग्रहो बोध्यः यतः
तां मे कथय देवेश * * * * * * * ||
इत्युक्तम् इति पूर्वपक्षव्याख्या तदेव सिरसितुमाह - अत्र यदीत्यादि तत्र
अनुपपत्तिमाह तन्नरेति |] प्रश्नः | हृदयस्था
प्. ९४)
इत्यादिना श्लोकेन शक्तिविषयः | तथा शृणु देवि इत्यत्र प्रतिवचनग्रन्थे
उत्तरस्याप्यनुत्तरम् इति तत्रार्थः उत्तरं च शृणु अनुत्तरं च इति | अत्र यदि एषा
त्रिकार्थाभिप्रायेण व्याख्या तत् नरविषयतृतीयप्रश्नप्रसङ्गः | अथ तु
यामलाभिप्रायेण तत्रापि न द्वे वस्तुनी शिवशक्त्यात्मके यामलमुच्यते येन
[येनेति द्विवस्तुपृथक्स्वभावतया इत्यर्थः |] पृथक् प्रश्नविषयतोपपत्तिः
अथशब्दार्थश्च [अथाद्या इत्यत्र वक्षयमाणः |] न संगच्छते स हि
सजातीयनिश्चयानन्तर्यवृत्तिः उत्तरस्वरूपावधारणमन्तरेण च
अनुत्तरविषयस्यैकप्रश्नस्य अनुपपत्तिः तथाहि [यदुक्तं तैः
प्रतिवचनग्रन्थे उत्तरं च शृणु अनुत्तरं चेति तन्निर्दलयितुमाह
उत्तरस्वरूपेति तदेव समर्थयति तथाहीत्यादिना |] केषुचित् वृद्धपुस्तकेषु
प्. ९५)
ईदृक् श्लोकान्तरं दृश्यते
श्रुतं देव महाज्ञानं त्रिकाख्यं परमेश्वर |
उत्तरं च तथा ज्ञानं त्वत्प्रसादावधारितम् ||
इति | तस्मात् श्रीसोमानन्दपादनिरूपितव्याख्यानुसारेणैव यत् गुरवः
समादिक्षन् तदेव सर्वस्य करोति शिवम् |
इत्यसंस्कृतदुर्व्याख्यातामसोन्मूलनव्रतः [तामसं तमोपटलम् |] |
षडर्धशासनापूतहृदम्बुजविकासकः ||
संस्त्यानानन्त [संस्त्थानः श्यानीभूतः |] पाशौघविलापकलसद्रुचिः
[सूर्यपक्षे पाशौघः पिशाचादिसमूहः |] |
दीप्तोऽभिनवगुप्तेन व्याख्याभानुः प्रकाशितः ||
एवं यतोऽयं कौलिको विधिः प्रभवति यत्र च प्रतिष्ठापदवीं भजते
यन्मयं च इदं कौलिकं तदेवानुत्तरमित्युक्तम् | तत्र कस्तावत् कौलिको
विधिः? कथं च अस्य प्रसरोऽनुत्तरात्? कथं चात्रैव अस्य प्रतिष्ठा? कथं
च अनुत्तरैक
प्. ९६)
रूपत्वं? [कौलिकविधेरिति योज्यम् |] यच्चोक्तम् - उत्तरस्याप्यनुत्तरमिति तत् सर्वं
युक्त्यागमस्वसंवेदननिष्कर्षणतत्त्वावबोधावाप्तविमर्शनिपुणान्
शिष्यान् प्रति वितत्य निर्णिनीषुः भगवान् प्रस्तौति ग्रन्थान्तरम्
एतावद्दृढोपदेशनिर्दलितभेदाभिमानविकल्पानल्पसंस्काराणां तु
सर्वमेतावतैव अनुत्तरं कथम् इत्यादिसार्धश्लोकयुगलनिगमितेन [निगमितेति -
इत्थं मायापदे परप्रतिपत्त्यै नयः
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि बोधहेतवः तत्र साध्यवत्तया
पक्षसाधनं प्रतिज्ञा संदिग्धसाध्यवान् पक्षः यथा - पर्वतोऽयं
वह्निमानिति तत्रैव परप्रतिपत्त्यै लिङ्गप्रतिपादकं हेतुः यथा -
धूमवत्त्वाअदिति तत्रैव स्फुटप्रतिपत्तिकारणमुदाहरणम् यथा -
धूमवाम्यः स वह्निमान् इति महानसादौ व्याप्तिदर्शनात् पक्षे
साधनोपसंहार उपनयः - तथा चायमिति तत्रैव पक्षे साध्योपसंहारो
निगमनमिति यथा - तस्मात्तथेति तत्र दृढशक्तिपातवतां निगमनेनैव
प्रतिपत्तिरिति किं तेषामन्येन अन्येषा तर्केणैव प्रतिपत्तिरिति
वक्ष्यमाणग्रन्थावतारः |] प्रश्नेन शृणु देवि इत्यादिना
सार्धश्लोकनिर्णीतेन चोत्तरेण अनुत्तरपदप्राप्तिवशाविष्टजीव -
प्. ९७)
न्मुक्तभावानां कृतकृत्यता अतस्तावन्मात्र एव
दृढप्रतिपत्तिवित्रीकृतैर्विश्रमणीयम् - इत्युद्भुजाः फूत्कुर्मः |
तदनुत्तरपरभैरवपदविमलदर्पणान्तर्निविष्टकौलिकपदप्रविविक्तये
ग्रन्थान्तरमवतरति इत्युक्तम् || ४ ||
तद्यथा -
अथाद्यास्तिथयः सर्वे
स्वरा बिन्द्ववसानगाः |
तदन्तः कालयोगेन
सोमसूर्यौ प्रकीर्तितौ || ५ ||
पृथिव्यादीनि तत्त्वानि
पुरुषान्तानि पञ्चसु |
क्रमात्कादिषु वर्गेषु
मकरान्तेषु सुव्रते || ६ ||
वायवग्निसलिलेन्द्राणां
धारणानां चतुष्टयम् |
तदूर्ध्वं शादि विख्यातं
पुरस्ताद्ब्रह्मपञ्चकम् || ७ ||
प्. ९८)
अमूला तत्क्रमाज्ज्ञेया
क्षान्ता सृष्टिरुदाहृता |
सर्वेषामेव मन्त्राणां
विद्यानां च यशस्विनि || ८ ||
इयं योनिः समाख्याता
सर्वतन्त्रेषु सर्वदा |
तत्राकुलमनुत्तरमेव कौलिकं - सृष्टिरूपमिति निर्णीयते | अथ तत्सृष्टिरिति
संबन्धः तदेवानुत्तरं पदं - सृष्टिरित्यर्थः यद्यपि च सृष्टावपि
प्राक्तननयेन कालापेक्षि पौर्वापर्यं न स्यात् तथापि
उपदेश्योपदेशभावलक्षणो भेदो यावत् स्वात्मनि स्वातन्त्र्यात् परमेश्वरेण
भास्यते तावत्पौर्वापर्यमपि - इति तदपेक्षया अथ-शब्देनानन्तर्यम् -
प्. ९९)
अनन्तरमकुलमेव सृष्टिरूपमिति यावत् न तु
प्रश्नप्रतिज्ञाभ्यामानन्तर्यमथ-शब्देनोक्तम्-
एकप्रघट्टकगतसजातीयप्रमेयापेक्षक्रमतात्पर्यप्रतीतिप्रवणत्वादस्य
[अस्य - अथशब्दस्य |] अन्यथा तूष्णींभावादेरनन्तरमिदम् इत्यपि सर्वत्र
तत्प्रयोगावकाशः अस्तु - क इव अत्र भवतः क्लेशः? इति चेत् - न कश्चित् - ऋते
प्रतीत्यभावात् [प्रतीतिबाध एव क्लेश इत्यर्थः तेन नापातक्लेशः अपि तु
मूलक्लेश एवेति भावः |] यत्तु श्रीसोमानन्दपादाः -
अकारः शिव इत्युक्तस्थकारः शक्तिरुच्यते |
इत्यागमप्रदर्शनेन अथ इत्येतावदेवानुत्तरम् [तथा च सति
अधिकरणसिद्धान्तनीत्या यत् पूर्वमुक्तं यद्यपि पौर्वापर्यं न संभवति
तथा तूष्णींभावादेरपि इत्यादि तच्छङ्कैव काचिन्नास्तीति | एकस्मिन्कार्ये
सिद्धे कार्यान्तराणि स्वयमेव सिद्ध्यन्ति यत्र सोऽधिकरणसिद्धान्तः |] इति
व्याचचक्षिरे थकारहकारसमव्याप्तिकताभिप्रायेण सर्वत्र प्रथमोल्लासे
प्रसरदनन्तानन्त -
प्. १००)
वस्तुसृष्टिशक्त्यभेदरूपत्वात्
सर्वभूतस्थजीवनरूपपरनादावलम्बनरूपत्वाच्च अथ-शब्दार्थस्य तत्
नास्माभिः वितत्य विवेचितम् - तादृशस्य आगमस्य यतो न
साक्षाद्वयमभिज्ञाः तैस्तु तथा-
विधागमसाक्षात्कारिभिरनेकयुक्तिशतसहिष्णुता सूत्रग्रन्थस्य सूत्रितैव
धूलिभेदप्रदर्शनमपि [चूर्णिकार्थाभिधानम् |] तेनैवाभिप्रायेण
[तेनैव - समव्याप्तिकताभिप्रायेण |] तैरितश्च [तैः - सोमानन्दपादैः इतः
परात्रिंशिकालक्षणात् अमुत इति तत्तदागमात् |] अमुतश्च विततम् | वयं तु
तच्छासनपवित्रितास्तद्ग्रन्थग्रन्थिनिर्दलनाभिलषितस्वात्मपवित्रभावाः तैः
निर्णीतेषु एवमादिषु अर्थेषु उदासीना एव | धूलिभेदादिना च
कल्पितसामयिकलिप्यपेक्षणमपि [सामयिकः - सांकेतिकः |] -
प्. १०१)
भवेदपि कस्यचित् [यतः सर्वदेशेषु विपरीतैव वर्णरचना अतो न सर्वस्य
उपायाय | कालभेदश्च इत्यमेव बोध्यः |] उपायाय न तु
तत्सकलदेशकालगतशिष्यविषयम् - इति नास्माभिः वितत्य विपञ्चितम्
एतदनुभवयुक्त्यनुप्रविष्टानां च तदकार्यकरं स्वकल्पनाभिश्च सुकरम्
अवस्थितं च अन्येषां च एतदुपदेशानभिज्ञानां [इत्थमत्र विवेकः -
निदाघतापतप्ताश्मपतितान्बिन्दुवत्सदा |
अन्तःस्पर्शं नो करोति मूडानामुपदेशगीः ||
तथा चोक्तमन्येन
ज्ञेयत्वमप्युपगता हृदये न रोढुं
शक्ताः प्रमूढमनसामुपदेशवाचः |
आर्द्रत्वमादधति किं नलिनीदलानां
श्लिष्टा निरन्तरतयापि नभोऽम्बुधाराः ||
इति |] तदुपदेशनमपि अकिंचित्करम् इत्यलमनेन प्रकृतविघ्नविधायिना |
प्रसुतमनुसरामः - अ आद्यो येषां स्वराणां यदि वा थकारेण
सुखोच्चारणार्थेन सह अथ् आद्यो येषा-
प्. १०२)
मिति आद्य-शब्दश्च अत्र न व्यवस्थामात्रेण अपि सामीप्यादौ अपि तुं आदौ
भव आद्यः तथापि अमीषां वर्णानां परावाग्भूमिरियमिह निर्णीयते
यत्रैव एषामसामयिकं नित्यमकृत्रिमं संविन्मयमेव रूपं
संविन्मये च वपुषि सर्वसर्वात्मकता सततोदितैव सा च परमेश्वरी
पराभट्टारिका तथाविधनिरतिशयाभेदभागिन्यपि पश्यन्त्यादिकाः
[मयूराण्डरसन्यायेन परा वटधानिकान्यायेन पश्यन्ती
माषशमिकान्यायेन मध्यमा ततः परं वैखरी |]
परापराभट्टारिकादिस्फाररूपा अन्तः कृत्य तत्तदनन्तवैचित्र्यगर्भमयी
नहि तत्र यन्नास्ति तत् क्वाप्यस्ति इति न्याययम् परामृशत च प्रथमां
[मयूराण्डरसन्यायेन परा वटधानिकान्यायेन पश्यन्ती
माषशमिकान्यायेन मध्यमा ततः परं वैखरी |] प्रतिभाभिधानां
संकोचकलङ्ककालुष्यलेशशून्यां भगवतीं संविदम् | तथाहि -
यत्किंचित् चरमचरं च तत् पारमार्थिकेन अनपायिना रूपेण
वीर्यमात्रसारात्मना
तदुद्भविष्यदीषदस्फुटतमेषदस्फुटतरेषदस्फुटादिवस्तुशतमृष्टिकालोप्
अलक्ष्यमाणतत्तदनन्त -
प्. १०३)
वैचित्र्यप्रथोन्नीयमानतथाभावेन संविदि
भगवद्भैरवभट्टारिकात्मनि तिष्ठत्येव तथावधानातिशयरूढैः
[अत्रायं भावः | संविन्निष्ठा विषयव्यवस्थितयः इति सिद्धान्तोक्तिः तच्च न
भिन्नरूपप्रमात्मकसंविन्मात्रविश्रान्त्या सिद्धयति अपि तु
तत्तद्विभिन्ननिश्चयादिरूपप्रमात्मद्वारेण अमी भावा यदि चैकस्मिन्नेव
अहमिति स्वरूपे तिष्ठन्ति अन्यथा अर्थानां जडानां तज्ज्ञानानां
तद्विकल्पानां तन्निश्चयानां देशकालक्रमिणां
स्वरूपमात्रप्रतिष्ठानां न कश्चित् समन्वयः स्यात् | उक्तं
चेश्वरप्रत्यभिज्ञायाम्
तत्तद्विभिन्नसंवित्तिमुखैरेकप्रमातरि |
प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते ||
प्. १०४)
तथा
देशकालक्रमजुषामर्थानां स्वसमापिनाम् |
सकृदाभाससाध्योऽसावन्यथा कः समन्वयः ||
इति | तथा
इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ |
समलो विमलो वापि व्यवहारोऽनुभूयते ||
इति तदेतदुक्तं तथावधानेति | अनेनैवाभिप्रायेण शिवोपनिषदि
ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् |
योगिनां तु विशेषोऽयं संबन्धे सावधानता ||
इति |] सहसैव सर्वज्ञताभूमिरसंकुचितपरमार्था अकृत्रिमतद्रूपा
अधिशययते एव
परानुग्रहपवित्रितैरभ्यासक्रमशाणनिघर्षनिष्पेषिततदप्रत्ययरूप-
कम्पाद्यनन्तापरपर्यायविचिकित्सामलैः सविचिकित्सैरपि
प्रतिभातकियन्मात्रवस्तुदत्तसंकोचा [प्रतिभातेति अयमत्र भावः - इह
नीलं गृह्णतः प्राणस्तुटिषोडशकात्मा वेद्यावेशपर्यन्तमुदेति तत्र आद्या
तुटिरविभागैकरूपा द्वितीया ग्राहकोल्लासरूपा अन्त्या तु ग्राह्याभिन्ना
तन्मयी उपान्त्या तु स्फुटीभूतग्राहकरूपा मध्यं यद्द्वादशकं
तस्यार्धं निर्विकल्पस्वभावं विकल्पाच्छादकं तत्र स्वरूपेणैका
आच्छादनीये विकल्पे पञ्चकत्वमुन्मिमिपिषा उन्मिषत्ता साचेयं
स्फुटक्रियारूपत्वात्तुटिद्वयात्मिका स्पन्दनस्यैकक्षणरूपत्वाभावात्
उन्मिषितता स्वकार्यकर्तृत्वं च
इत्येवमाच्छादनीयविषयपाञ्चविध्यात्स्वरूपाच्च षट्क्षणा निर्विकल्पकाः
ततोऽपि निर्विकल्पस्य ध्वंसमानता ध्वंसः विकल्पस्य उन्मिमिषिपा
उन्मिषत्ता तुटिद्वयात्मिका उन्मिषितता च इति षट् तुटयः स्वकार्यकर्तृता तु
ग्राहकरूपता इत्युक्तं न सा भूयो गण्यते इति तत्र विकल्पन्यूनत्वे
तुटिन्यूनता एवं स्थिते यावत् स्फुटेदन्तात्मनो भेदस्य न्यूनता
तावद्द्वयं द्वयं हसति यावत् द्वितुटिकः शिवावेशः तत्र आद्या तुटिः
सर्वतः पूर्णा द्वितीया सर्वज्ञानकरणाविष्टा अभ्यस्यमाना
सर्वज्ञत्वसर्वकर्तृत्वाय कल्पते - न त्वाद्या तदेतद्भट्टकल्लटेन तुटिपात इति
आम्नातम् तुटेराद्यायाः पातोऽपचयोऽपरा तुटिर्द्वितीयेत्यर्थः |] न तु
कृत्रिमा | यदाहुः श्रीकल्लटपादाः -
तुटिपाते सर्वज्ञत्वसर्वकर्तृत्वलाभः |
इति | एवमेष स्वप्रकाशैकरूपोऽपि अर्थो युक्त्या -
प्. १०५)
प्रदर्श्यते - यत् यत् स्वसामर्थ्योद्भूतोत्तरकालिकार्थक्रियायोग्यतादिवश-निः
शेष्यमाणसत्यतावशावाप्ताविचलसंवादं विरोधावभासि
संमतक्रमिकविकल्प्यमाननीलादिनिष्ठविकल्पपूर्वभावि
निर्विकल्पसंविद्रूपं
तत्तद्विकल्पनीयवैरुद्धाभिमतनीलपीताद्याभासाविभागि भवति यथा
[यथा चित्रज्ञाने न तावच्चित्रं रूपं न भासते - संवित्तिविरोधात् जडस्य
च प्रकाशायोगः तेनेदं ज्ञानात्मकमेव रूपं न च आकारभेदेन
ज्ञानभेदः - चित्ररूपस्यैकस्य आकारभेदाभावात् यथा नीलस्यैको
नीलस्वभाव आकारः तथा वैचित्र्यस्यैकस्य चित्रस्वभाव एवाकारः
तस्मिंश्चात्मभूते ज्ञानं प्रवर्तमानं कृत्स्न एव प्रवर्तते यदि वा न
प्रवर्तत एव न तु भागेन प्रवर्तते तस्य निर्भागत्वात् ये त्वमी भागाः
परस्परविविक्ताः प्रतिभान्ति न ते चित्रं रूपमिति भावः |
शिखरथस्य हि सत्यपि गृहादिवेद्यभेदे एक एव नगरावभासः स्यात् |
मेचकबोधो निर्विकल्पकनीलादिज्ञानं तत्राप्यविभाग एवेत्यर्थः |]
चित्रज्ञानशिखरस्थसंविन्मेचकबोधादि यत्तु
तद्विरुद्धरूपनीलपीताद्याभासाविभक्तं न भवति
तत्तदनन्तस्वसामर्थ्योद्भूतनीलपीताद्या -
प्. १०६)
भासविकल्पपूर्वभाग्यपि न भवति यथा नीलैकसाक्षात्कारि ज्ञानम् भवति
च इदमस्तमितोदेष्यदुभयविकल्पज्ञानान्तरालवर्ति उन्मेषप्रतिभादि
शब्दागमगीतं [शब्दागमः - प्रक्रियाशास्त्रम् |] निर्विकल्पकं
ससंवादविरुद्धाभिमतनीलादिविकल्पपूर्वभावि
तस्मात्तदनन्तावभासाविभागमयमेवेति उभयोश्च
ज्ञानयोरन्तरालमनपह्नवनीयं - ज्ञानयोर्भेदादेव तच्च
संविदात्मकमेव अन्यथा तेनैव संवित्संस्कारोच्छेदे [संस्कारोच्छेद इति
नवनवाभासाः प्रतिक्षणमुदयव्ययभाज इति व्यवहारहानिः ततश्च
कस्मिंश्चिदर्थे पूर्वगृहीते यत्संवेदनं पूर्वं बहिर्मुखमभूत्
तस्यान्तर्मुखं यत् चित्स्वरूपत्वं तत्कालान्तरेऽपि अवस्थास्रु स्वात्मगतं
तद्विषयविशेषे बहिर्मुखत्वं परामृशतीति स्मरणशक्तिः |
तथानुसंधानमेकविषयभावोपपन्नस्मृतिताप्राप्तिरूपम् |]
स्मरणाद्यनुसंधानाद्ययोग इति प्रतिभाख्यस्य धर्मिणः सर्ववादिनः
प्रति
प्. १०७)
अविवाद [उक्तं हि सूत्रविमर्शिन्यामनेनैव
विना येन न किंचित्स्यात्समस्ता अपि दृष्टयः |
अनस्तमितसंबोधस्वरूपं तं स्तुमः शिवम् ||
इति |] एव इति न असिद्धिः संकेतव्युत्पत्तिकालानवलम्बनात् च अस्य अविकल्पत्वमेव
सहजासामयिकतथापरामर्शयोगो हि जडविलक्षणसंविद्रूपनान्तरीयको
[ननु च विशुद्धसंवेदनरूपे भगवति कथं परामर्शो विकल्पतुल्यः
स्यात्? इत्यत आह - जडेत्यादि | उक्तंच -
स्वभावमवभासस्य विमर्शं विदुरन्यथा |
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ||
इति | न च वाच्यं कथं तथापि तद्विकल्परूपं न स्यात् इति न विकल्पतुल्यत्वं
- भेदानुल्लासादिति | तथा चोक्तं
अहंप्रत्ययमर्शो यः प्रकाशात्मापि वाग्वपुः |
नासौ विकल्पः स युक्तो द्वयाक्षेपी विनिश्चयः ||
इति |] न विकल्पतुल्यत्वं - भेदानुल्लासात् भेदसारतालब्धतया तु अर्थभावं
कुर्यात् विकल्पानां च अविकल्पं विना नोदयः - अस्वातन्त्र्यात् अस्वातन्त्र्यं च
प्. १०८)
संकेतादिस्मरणोपायत्वात् संकेतादिस्मरणं च तथा अनुभवं विना
कुतः संविदश्च प्राङ्न्यायेन कालादिपरिच्छेदाभावः इति एकैक सा
पारमेश्वरी प्रतिभा अस्मदुक्तिमाहात्म्यकल्पिता एवंविधा
अपरिच्छिन्नस्वभावापि सर्वात्मैव मध्येऽपि
वर्तमानभूतभविष्यद्रूपविकल्पान्तरप्रसवभूरेव तथा [तथा चेति
इत्थं तन्मतं - यदि हि ज्ञानादर्थः पृथगवभासितात्मा भवेत्
ज्ञानमन्तरेणापि असावुपलभ्येत? न चैवमस्ति तस्मादभेद एव
ज्ञानार्थयोरिति | यदाहुः
सहोपलम्भनियमादभेदो नीलतद्धियोः |
इति | तस्माज्ज्ञानमेव सर्वत्र तथा तथा प्रतिभाति न तद्व्यतिरिक्तो नाम
कश्चिदिति ज्ञान एव च एकग्नायं प्रमेयप्रमाणप्रमितिव्यवहारः
समाप्यते इति तस्य हि विषयाकारता प्रमेयं ग्राहकाकारणता प्रमाणं
स्वसंवित्तिश्च फलमिति | यथोक्तं
यदाभासं प्रमेयं तत्प्रमाणं फलते पुनः |
ग्राहकाकारसंवित्त्योस्त्रयं नातः पृथक्कृतम् ||
इति | तदिदमनाद्यविद्यावासनाविलासविपर्यासिततत्त्वदर्शनतया ज्ञानमेव
ग्राह्यग्राहकसंवित्तिभेदवदिव लक्ष्यते अविद्याविरतौ तु स्वच्छमेवैतत्
संपद्यते न किंचिद्वेति | तदुक्तं
नान्योऽनुभावो बुद्ध्यास्तु तस्यानानुभवः परः |
ग्राह्यग्राहकवैधूर्यात्स्वयं सैव प्रकाशते ||
इति | तथा
अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः |
ग्राह्यग्रहकसंवित्तिभेदवानिव लक्ष्यते ||
इत्यर्थरूपरहितं संविन्मात्रं किलेदमिति पश्यत् |
परिहृत्य दुःखसन्ततिमभयं निर्वाणमाप्नोति ||
इति सौगतमतम् |] च विवेककुशलैरालयविज्ञानमेव
प्. १०९)
मेवोपगतं ससंवादत्वं च तदनन्तरभाविनां विकल्पानां दर्शितमेव
- इति नासिद्धो हेतुः साध्यधर्मिणि न च एकावभासिविकल्पसंविभागकारिणि
[यत् वेद्यते येन वेदनेन तत् ततो न भिद्यते यथा - आत्मा ज्ञानस्य वेद्यन्ते
नीलादयः भेदे हि ज्ञानेनास्य वेद्यत्वं न स्यात् - तादात्म्यस्य
नियमहेतोरभावात् अन्येनान्यस्य असंबद्धास्य वेद्यत्वेऽतिप्रसंग इति भेदे
नियमहेतोः संबन्धस्य व्यापकस्यानुपलब्ध्या
भेदाद्विपक्षाद्वयावर्तमानं वेद्यत्वमभेदेन व्याप्यते इति | यच्चायं
ग्राह्यग्राहकसंवित्तिनां पृथगवभासः स एकस्मिंश्चन्द्रमसि
द्वित्वावभास इव भ्रमः | यथोक्तं -
भेदश्चाभ्रान्तिविज्ञाने दृश्येतेन्दाविव द्वयः |
इति |] अविकल्पके विपक्षे सदा वा कदाचिदपि वा वर्तते न च ततोऽस्य व्यावृत्तिः
संदिग्धा - इति न विरुद्धो नानैकान्तिको न
प्. ११०)
संदिग्धविपक्षव्यावृत्तिः [यथा छिदिक्रिया छेद्येन संबध्यते भिद्यते च
तथा ज्ञानक्रियापि ज्ञेयेन सह संभत्स्यते भेत्स्यते च - इति
सहोपलम्भनियमस्यापि विपक्षाद्व्यावृत्तिः संदिग्धेति पूर्वपक्षः | अत्र -
ज्ञानस्वपरसंवेद्यतामात्रेणैव
नीलतद्धियोर्युगपद्ग्रहणनियमस्योपपत्तेः बाह्याभावाज्ज्ञानं परस्य
संवेदकं न भवति इत्युत्तरपक्षः |] दृष्टान्तधर्मणि अपिचित्रज्ञानादौ
हेतोरेवमेवासिद्धतादिदोषाः परिहृता भवन्त्येव हेतुदोषेषु तु परिहृतेषु
दृष्टान्तादिदोषा निरवकाशा एव इत्यादि बहु निर्णीतकल्पमपरैरेव इति किं
तदनुभाषणक्लेशेन | सिद्धं तावत् ह्येतत् -
यत्प्रातिभं निखिलवैषयिकावबोध -
पूर्वापरान्तरचरं निखिलात्मकं तत् |
तस्यां प्रलीनवपुषः परशक्तिभासि
ग्लानिर्घटेत [घटेत - विश्लेषमाप्नुयात् |] किमभाववशोपकॢप्ता [अभावेति -
यथाम्यैरुक्तम्
अभावं भावयेत्तावद्यावत्तन्मयतां व्रजेत् |
इति] ||
प्. १११)
शरीरप्राणादौ परधनसुखास्वादपटल -
मनालोक्य स्वस्मिन्स्पृशति हृदये ग्लानिमसमाम् |
प्रविष्टा चेदन्तर्निखलजगतीसूतिसरसा
परा देवी हन्त प्रविलसतु पूर्णं हविरिव ||
तदुक्तं स्पन्दे
ग्लानिर्विलुण्ठिका देहे तस्याश्चाज्ञानतः सृतिः |
तदुन्मेषविलुप्तं चेत्कुतः सा स्यादहेतुका ||
इति |
एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः |
उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ||
इति च |
मायीयकार्ममलमूलमुशन्ति तावद्
अज्ञाननाममलमाणवमेव भद्राः |
बीजं तदेव भवजीर्णतरोः परस्मिन्
संविन्निसातदहने दहते क्षणेन ||
यथाहुः -
मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् |
इति | तदेवोक्तम्
तदुन्मेषविलुप्तं चेत् * * * * * * |
इति | एवमेव च व्याख्यातम् अतोऽन्यथा ग्लानेः विलोपकत्वमस्याश्च अज्ञानात्
सरणम् अज्ञानस्य च उन्मेषेण विलोपः - इति किं केन संश्लिष्टम् इति
नृपनिरूपणप्रायमेव भवेत् -
स-इपरि-उण्णपमरु-उत्ताण
उतहुगहि-अवुणभज्जि-अणिज्ज-इ |
अजाणि-अविहड-इ-अञ्जाण
उजम्पुसु-अच्छ-इपूरि-अकज्ज ||
तदेवं भगवती परावाग्भूमिः गर्भीकृत
स्वस्वातन्त्र्यसत्तोद्भविष्यत्पश्यन्त्यादिविनिविष्टपरापराभट्टारिकादि-
प्रसरात् तद्गर्भीकारवशाविवादघटितसकलभूतभुवनभावादिप्रपञ्च-
प्रबोधैक्यचमत्कारसारा
परमेश्वरभैरवभट्टारकाविर्भावप्रथिततथाविधाद्भुतभूत-
परमार्थस्वरूपा स्वात्मविमल -
प्. ११३)
दर्पणनिर्भासितानन्तसृष्टिस्थितिसंहारैक्यमयमहासृष्टिशक्तिरादि-
क्षान्तरूपा अथाद्या इत्यादिना ग्रन्थेन निःशेषं भगवता निर्णीयते इति
स्थितम् | तदेवं [तत्रैव सर्वमस्तीति स्थिते |] स्थिते ग्रन्थार्थो निर्णीयते -
अकारादि - विसर्गान्तं शिवतत्त्वं कादिङान्तं धरादि-नभोऽन्तं
भूतपञ्चकं चादि-ञान्तं गन्धादि-शब्दान्तं तन्मात्रपञ्चकं
टादि-णान्तं पादादि-वागन्तं कर्माक्षपञ्चकं तादि-नान्तं
घ्राणादिश्रोत्रान्तं बुद्धिकरणपञ्चकं पादि-मान्तं मनोऽहंकार-
बुद्धि-प्रकृति-पुरुषाख्यं पञ्चकं वायवादिशब्दवाच्या यादयो
वकारान्ता रागविद्या- कलामायाख्यानि तत्त्वानि धारयन्ति-पृथग्भूततया
अभिमानयन्ति इति धारणानि द्वौ अत्र णिचौ प्रयोज्यप्रयोजकभावद्वैरूप्यात्
तथा हि - ध्रियन्ते [ध्रियन्ते - अवस्थितिं भजन्त इत्यर्थः |] स्वात्मनि एव सर्वे
भावाः प्रकाशात्मनि परमपरिपूर्णे पदे भैरवात्मनि -
प्. ११४)
सर्वात्मनि यथोक्तं शिवदृष्टौ
आत्मैव [आत्मा - स्वस्वभावः |] सर्वभावेषु स्फुरन्निर्वृतचिद्वपुः
[चिद्वपुरिति आत्मसात्कृतसमस्तवेद्यार्थः |] |
अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः ||
इति | यथोक्तं स्पन्दे
यत्र स्थितमिदं सर्वं * * * * * * * * |
इति | एवं स्वात्मन्येव प्रभास्वरे प्रकाशनेन ध्रियमाणान् भावान्
धारयति स्वयमप्रकाशीभावेन - जडतास्वभावेदं [स्वबावेदंभावेति -
यदुक्तं प्रत्यभिज्ञायाम्
इदंभावोपपञ्चानां वेद्यभूमिमुपेयुषाम् |
भावानां बोधसारत्वाद्यथावस्त्ववलोकनात् ||
इति |] भावास्पदताप्रापणेन प्रकाशयति परमेश्वर एव पुनरपि
अहंभावेनैव आच्छादयति | तदियं भगवत्सदाशिवेशदशा
शुद्धविद्यामयी एकेन णिचा ध्वनिता तत्रापि च यत् इदन्ताया अहन्तया
आच्छादनं तदाच्छादनीयेदन्तोपपत्तौ
प्. ११५)
उपपद्यते [विद्येश्वरादिरूपायामिदन्तायां सख्यामुपपद्यते नान्यधेति |]
न च शुद्धपरमेश्वरचिन्मयरूपापेक्षं भिन्नप्रथात्मकमिदन्ताख्यं
रूपमुपपद्यते - इति आच्छादनीयानुपपत्तौ तद्वशेन तदाच्छादकतापि
अहंभावस्य नोपपन्ना इति तथाविधेश्वरबोधानुपपत्तिः तदनुपपत्तौ च
न किंचित् भासेत - कारणाभावात् इत्युक्तमसकृत् भासते च इदं
तद्भासाव्यतिरेकरहितमपि परमेश्वरशक्तित एव बहिः प्रथते -
कारणान्तरासंभवात् स्वसंविदि च संविद एव सर्वमयत्वप्रथनात् |
तदेवं स्वात्मरूपं जगत् भेदेन भासमानं प्रकाशात्मन्येव
अहमात्मनि भासते सामानाधिकरण्येन इति इयता एतावत् अवश्यमेवाक्षिप्तं
- यथा ईश्वर एव कस्यापि वेदितुर्भिन्नान् वेद्यान् अहन्तया पश्यति यश्चासौ
कोऽपि वेदयिता सोऽपि भासनात् स्वात्ममय एव - इति स्वात्मनि तथाविधाः
शक्तीरधिशेते
प्. ११६)
याभिरसौ तदैव भिन्नवेद्यवेदकीभावमुपाश्नुवीत रागादिभिरेव च
तथाविधत्वमस्येति रागादय एव आध्रियमानान् भावान् उक्तन्यायेन
धारयन्तमीश्वरं प्रति प्रयोजकतां गच्छन्ति अतस्तस्यैव
पुंस्त्वव्यपदेशकारणैकभूता द्वितीये णिचि उत्पन्ने
धारणशब्दवाच्याः णिजुत्पत्तावपि सर्वत्रैव प्रकृत्यर्थान्वयानपायो
ध्रियमाणतया प्रकाशमानस्यैव हि धार्यमाणता प्रकाशनासंज्ञा
उपपद्यते यतः यथोक्तं मयैव शिवदृष्ट्यालोचने
प्रेषोऽपि स भवेद्यस्य शक्तता नाम विद्यते |
इति | भर्तृहरिरपि
अप्रवृत्तस्य हि प्रैषे प्रच्छादेर्लोड्विधीयते |
प्रवृत्तस्य यदा प्रैषस्तदा स विषयो णिचः ||
इति | तदेवं धारणशब्देनापरशास्त्रेषु कञ्चुक -
प्. ११७)
नामधेयप्रसिद्धान्येव तत्त्वानि इह निरूपितानि यदुक्तं श्रीतन्त्रसारे
धारयन्ति पशोः पाशान्भावान्स्वात्ममयांस्तथा |
विद्यामायानियत्याद्याः शोध्यास्तेन प्रयत्नतः ||
इति | यत्तु श्रीसोमानन्दपादैः धारणशब्देन अङ्गानि निरूपितानि
पक्षान्तराश्रयणेन [अन्यार्थकथनेनेत्यर्थः |] तत्र
परपक्षसर्वदृश्यत्वप्रथनमात्मनि अभिप्रायः तेषां हि ईदृशी शैली
[शीले भवा शैली समाधानपूर्विका प्रवृत्तिरिति कययटः रचनेन्ये शैली
स्वमतमित्यन्ये |]
स्वपक्षान्परपक्षांश्च निःशेषेण न वेद यः |
स्वयं स संशयाम्भोधौ निमज्जंस्तारयेत्कथम् ||
इति | शादि-क्षान्तं महामाया विद्येश्वरसदाशिवशक्त्याख्यं
तत्त्वपञ्चकं तथाहि - मायातत्त्वस्य उपरि विद्यातत्त्वाधश्च अवश्यं
तत्त्वान्तरेण भवितव्यम् - यत्र विज्ञानाकलानां
[इत्थमत्रेश्वरप्रत्यभिज्ञोक्तः क्रमः -
स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता |
द्विधाणवं मलमिदं स्वस्वरूपापहानितः ||
शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता |
निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् ||
एते च विज्ञानकेवलाः
शून्याद्यबोधरूपास्तु कर्तारः प्रलयाकलाः
इति |] स्थितिः यथोक्तम्
प्. ११८)
मायोर्ध्वे शुद्धविद्याधः सन्ति विज्ञानकेवलाः ||
इति | तथाहि महामायाभावे मायापदे प्रलयकेवलानामवस्थितिः विद्यापदे
च विद्येश्वरादीनाम् - इति किमिव तत् विज्ञानकेवलास्पदं स्यात् अत एव
विद्यापदप्रच्युतानामपि एषां
भेदमयभावराशिगतभिन्नवेद्यप्रथानुदयात्
मायीयाभिधानमलानुल्लासे तत्र विज्ञानकेवलो मलैकयुक्त इति
अज्ञानात्मकाणवमलावलम्बित्वं श्रीपूर्वशास्त्रे कथितम् त एव
शुद्धविद्यापदानुग्रहात्
प्. ११९)
बोधिता मन्त्रतदीशादिभावभागिनो [उक्तं हि अन्यत्र
मन्त्रत्वमेति संबोधादनन्तेशेन कल्पितात् |
इति |] भवन्ति इति तत्रैवोक्तं
विज्ञानकेवलानष्टौ बोधयामास पुद्गलान् |
इत्यादिना
मन्त्रमहेश्वरेशत्वे संनियोज्य * * * * * * * |
इत्यादिना च | केषुचित्तु शास्त्रेषु सा महामाया भेदमलाभावोपचारात्
विद्यातत्त्वशेषतयैव निर्णीयते क्वचित् पुनरज्ञानमलसद्भावोपरोधात्
मायातत्त्वपुच्छतया यथा केषुचित् शास्त्रेषु रागतत्त्वं पुंस्येव लग्नम् इति
न पृथक् परामृष्टम् यथा वा इहैव श्रीत्रिकागमेषु नियतिकालौ न पृथक्
निरूपितौ अत्र मते विद्याद्यनाश्रितशिवान्तं ब्रह्मपञ्चकं निर्णेष्यते च
एतत् एषां च तत्त्वानां बृहत्त्वं बृंहकत्वं च प्रायो भेदसमुत्तीर्णत्वात्
संसारसूतिकर्तृत्वात् च एवमेतानि
प्. १२०)
चतुस्त्रिंशत्तत्त्वानि प्रक्रियात्मना स्थितानि अकारमेव आदिरूपतया भजन्ते |
तत्र इदं विचार्यते - प्रथमतः शिवतत्त्वम् अ वर्गे ततो भूतानि इत्यादि
यावदन्ते शक्तितत्त्वम् - इति कोऽयं
सृष्टिसंहारज्ञप्तिस्थित्यवतारक्रमाणां मध्यात् क्रमः सर्वत्र च
श्रीमालिनीविजयोत्तरसिद्धातन्त्र-स्वच्छन्दादिशास्त्रेषु क्षकारात् [क्षकारात्
प्रभृतीति इत्थमत्र क्रमः - पृथिव्यां क्षकारमेकमेव
पदमन्त्रवर्णरूपं अवाद्यव्यक्तान्तेषु तत्त्वेषु
हादि-टान्तास्त्रयोविंशतिवर्णाः चतुरक्षरे द्वे पदमन्त्रे पञ्चाक्षराणि
त्रीणि पुमादिमायान्तेषु धादि-नान्ताः सप्त वर्णाः पदमन्त्रे द्वे
पञ्चाक्षरमेकं द्व्यक्षरं द्वितीयमिति शुद्धविद्येश्वरसदाशिवेषु च ग-
ख-का वर्णास्त्रयः पदं मन्त्रं च त्र्यक्षरमेव शिवतत्त्वे पुनः
स्वरषोडशात्मकमेकमेव वर्णपदमन्त्रतत्त्वमिति तच्च
शक्तित्वप्राधान्यादेकमेव शक्तिर्हि न शक्तिमतो भिन्ना भवितुमर्हतीति
भावः | क्षित्यादितत्त्वचतुस्त्रिंशतः क्षकारात्प्रभृति चैकमेकं योजयित्वा
पूर्वे व्यापकतयाभिमते सशक्तिके षट्त्रिंशे तत्त्वे संहारक्रमस्य
अध्वशुद्धावुचितत्वात् विसर्गादारभ्य आनुलोम्येन
अकारपर्यन्तस्वरषोडशकत्वम् | उक्तं चान्यत्र
तत एकैकवर्णत्वं तत्त्वे तत्त्वे क्षमादितः |
कृत्वा शैवे परे प्रोक्तः षोडशार्णो विसर्गतः ||
इति |] प्रभृति -
प्. १२१)
अवर्गान्तं पार्थिवादीनां शिवान्तानां तत्त्वानां निवेशः उक्तः -
आद्यधारिकया [धारिकेति -
मतं चैतन्महेशस्य श्रीपूर्वे यदभाषत |
धारिकाप्यापिनी बोद्ध्री पवित्री चावकाशदा ||
इति |] व्याप्तं तत्रैकं तत्त्वमिष्यते |
एकमेकं पृथक् क्षार्णं पदार्णमनुषु स्मरेत् ||
इत्यादिना तत्रैव च पुनर्भिन्नयोनिमालिनीभट्टारिकानुसारेण [मालिनीति |
यदुक्तं श्रीमज्जयद्रथराजानकैः
* * * * * * * * भिन्नयोनिस्तु मालिनी |
इत्यस्या व्याख्यानावसरे भिन्ना स्वरैर्भेदिता योनिः कादिलक्षणा यस्याः |
तत्र शक्तिवाचको मालिनीमन्त्रः शक्तिमद्वाचकस्तु मातृकामन्त्रः | तत्र
मातृका प्रसिद्धैव | मालिनी यथा न ऋ ॠ ऌ ॡ थ च ध ई ण उ ऊ ब क ख ग
घ ङ इ अ ब भ य ड ढ ठ झ ञ ज र ट प छ ल आ स अः ह य क्ष म श
अं त ए ऐ ओ औ द फ इति | त्रिकहृदयेऽपि
नादिनी तु शिखाग्रस्था नकराक्षरसंज्ञिता |
इति | तदुक्तं मालिनी हि भगवती मुख्यं शाक्तं रूपं
बीजयोनिसंघट्टेन समस्तकामदुघम् अन्वर्थं चैतन्नाम
रुद्रशक्तिमालाभिर्युक्ता फलेषु पुष्पिता
संसारशिशिरसंहारनादभ्रमरी सिद्धिमोक्षधारिणी
दानादानशक्तियुक्ता इति रलयोरेकत्वस्मृतेः अत एव भ्रष्टविधिरपि मन्त्र
एतन्न्यासात्पूर्णो भवति साञ्जनोऽपि गारुडवैष्णवादिर्निरञ्जनतामेत्य
मोक्षप्रदो भवतीति |]
फकारादीनामभिन्नयोनिमातृकानिवेशावाप्ततत्त्वान्तरस्थितीनामपि -
प्. १२२)
फे धरातत्त्वमुद्दिष्टं चादि-ञान्तेऽनुपूर्वशः |
त्रयोविंशत्यवादीनि * * * * * * * * * |
इत्यादिना पार्थिवादितत्त्वयोजना निरूपिता | पुनरपि च तत्रैव
श्रीविद्यात्रयानुसारेण [विद्यात्रयेति -
या सा शक्तिर्जगद्धातुः कथिता समवायिनी |
इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते ||
इति प्रथमोच्छलत्तात्मकत्वेन बहिरुल्लिलसिपास्वभावा
प्रमातृविश्रान्तिधामभूता परा इत्युक्ता ततोऽपि
एवमेतदिदं वस्तु नान्यथेति सुनिश्चितम् |
ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते ||
इत्यन्तरासूत्रितेच्छाक्रियामयी
यत्र यत्र मिलिता मरीचय-
स्तत्र तत्र विभुरेव जृम्भते |
इत्येवंरूपा परापरेत्युक्ता | ततोऽपि
एवं भूतमिदं वस्तु भवत्विति यदा पुनः |
जाता तदैव तद्वस्तु कुर्वन्त्यत्र क्रियोच्यते ||
इति तत्तत्प्रमातृप्रमेयादिवैचित्र्यमयी च अपरेत्युक्ता |
यथोक्तमाचार्याभिनवगुप्तपादैः
ययेदं शिवादिधरण्यन्तमविकल्पसंविन्मात्ररूपतया बिभर्ति च पश्यति
च भासयति च परमेश्वरः सास्य पराशक्तिः यया दर्पणहस्त्यादिवत्
भेदाभेदाभ्यां सा परापरा शक्तिः यया परस्परविविक्ततात्मना
भेदेनैव सा अपरा शक्तिः |
इति विद्यात्रयनिरूपणं पारमेश्वरशास्त्रेषु] -
प्. १२३)
निष्कले पदमेकार्णं त्र्यर्णैकार्णद्वयं द्वये |
इति परापराभट्टारिकानुसारेण [श्रीमन्मालिनीविजये
मायां तु मार्गसंशुद्धौ दीक्षाकर्मणि सर्वतः |
क्रियास्वनुक्तमन्त्रासु योजयेदपरां बुधः ||
विद्यादिसकलान्तं च तद्वदेव परापराम् |
योजयेन्नेश्वरादूर्ध्वं नियत्यादिकमष्टकम् ||
न चापि सकलादूर्ध्वमङ्गपट्कं विचक्षणः |
निष्कले परया कार्यं यत्किंचिद्विधिचोदितम् ||
इति | अत्र सूक्ष्मतरबोधवतां मूलार्थः सुबोध एवेति न निर्णीतः अन्येषां
तु युक्तिकथनमपि पिष्टपेषणतुल्यमकिंचित्करमित्यर्थः |] ओंकारं
शिवतत्त्वम् अघोरे इत्यत्र शक्तितत्त्वम् इत्यादिक्रमेण पार्थिवादितत्त्वनिरूपणा
योजिता | पुनरपि च तत्रैव श्री-विद्यातत्त्वानुसारेण
फकारादीनामभिन्नयोनिमातृकानिवेशावाप्ततत्त्वान्तरस्थिती -
प्. १२४)
नामपि -
फे धरातत्त्वमुद्दिष्टं चादि ञान्तेऽनुपूर्वशः |
त्रयोविंशत्यवादीनि * * * * * * * * ||
इत्यादिना तत्त्वयोजना | श्रीमदपराभट्टारिकाभिप्रायेण च -
सार्धेनाण्डद्वयं व्याप्तमेकैकेन पृथग्द्वयम् |
अपरायाः समाख्याता व्याप्तिरेषा विलोमतः [अत्र पिण्डार्थः - इच्छाशक्ति-
ज्ञानशक्ति-क्रियाशक्तित्रितयं वैपरीत्येन बोद्धव्यमित्यर्थः |] ||
इत्यादिना फट्कारे पार्थिवप्राकृताण्डद्वयम् हुंकारे मायीयं ह्रींकारे
शाक्तमण्डं च इति तत्त्वनिवेशः | श्रीपराभट्टारिकाव्याप्तिनिरूपणे च -
सार्णेन त्रितयं व्याप्तं त्रिशूलेन चतुर्थकम् |
सर्वातीतं विसर्गेण परा व्याप्तिरुदाहृता [एतत्कथने पुनरयमभिप्रायः -
एकेन वपुषा शुद्धौ तत्रैवान्यप्रकारताम् |
अन्तर्भाव्याचरेच्छुद्धिमनुसन्धानवान् गुरुः ||
अशक्तौ क्रमान्तरोऽप्यस्तीत्याह
अनन्तर्भावशक्तौ तु सूक्ष्मे सूक्ष्मं विशोधितम् |
तद्धि शुद्धं बीजभावात्सूते नोत्तरसन्ततिम् ||
इति | एतच्च सर्वं त्रिकसारे प्रसिद्धम् |] ||
प्. १२५)
इति अन्यथैव प्रक्रियायोजनं निरूपितम् | पुनरपि
मातृकासद्भावरतिशेखरकुलेश्वरादिमन्त्रभट्टारकाद्यभिप्रायेण
अन्यथा अन्यथा च अपरतन्त्रेष्वपि एवमेव विपर्यस्तप्रायं बहु बहुशो
निरूपितम् तत् पुनरिह सर्वमेवान्यथा इति परिदृश्यते - इति महान्
अयमागमविदः स्वकटकक्षोभ इव सर्वविनाशकः समुद्भूतः | न च
सांकेतिकमिदं - येन पुरुषेच्छावशोपकल्पितेन रूपेण च अन्यथा अन्यथा
निरूप्यमाणमिह संगतं भवेत् यथा - दाक्षिणात्याः चौरशब्देन
ओदनं व्यपदिशन्ति सैन्धवास्तु तेनैव दस्युम् ओदनं तु क्रूरश्रूत्या तया
तु काश्मीरिका वितुषितयवगोधूमतण्डुलान् इति - सांकेतिकत्वे हि
अनवस्थितत्वात् अपारमार्थिकत्वात् च शोध्यशोधकभावाद्यनुपयोगात्
अनिरूपणीयत्वमेव स्यात् संकेतस्यापि परमार्थसत्तैव नहि संकेतो नाम
अन्यः कश्चित् - ऋते परमेश्वरेच्छातः प्रसिद्धो हि न संकेतो
भगवदिच्छाप्रकल्पितः -
प्. १२६)
तन्नामाक्षरलिप्यादिगताप्यायनादिकर्मविधिजनिततच्छान्तिकादिफल-
संपत्तेः इति चेत् - तर्हि एकेनैव संकेतेन सर्ववस्तुसंपत्तौ किं
संकेतान्तराश्रयेण तदाश्रयणे वा
स्वशास्त्रितशास्त्रान्तरीयलौकिकपार्षददैशिकघनकृतप्रतिपुरुष-
नियताद्यनन्तसंकेतनिवेसनपूर्वकं तदपि निरूप्यमेव न
तावद्भिरूपयोगः एतावतैव कार्यसिद्धिः - इत्यपि निरक्षरकुक्षुकुहरैः
उच्यमानं श्रूयमाणं च शोभत एव | अविकला भगवदिच्छा न
विचारपदवीमधिशेते? इति चेत् - अलं
ग्रन्थधारणवाचनव्याख्यानविचारणादिमिथ्यायासेन परित्याज्य एवायं
गुरुभारः तूष्णींभावशरणैरेव स्थेयम्
भगवदिच्छैवोत्तारणीयमुत्तारयेत् तदिच्छैव अनुग्रहात्मा एवं
विचारणायां पर्यवसाययति न
प्. १२७)
खलु पादप्रसारिकयैव सुखं शयानैः भुञ्जानैश्च स्वयम्
अविमृशद्भिः
स्वापेक्षतीव्रतरादिपरमेश्वरानुग्रहोत्पन्नाधिकाधिकसूक्ष्मतम-
विमर्शकुशलधिषणापरिशीलनपराङ्मुखैः वा स्थातव्यमिति | तत् सर्वदा
विमृश्यमिदं वर्तते - इति एतावत् न जहीमः तत् अत्र अवधार्य स्थीयतां यावत्
परिहरामः सर्वमिदं किंचित् न वस्तुतः चोद्यजातं परमेश्वर्यां
परावाग्भुवि अनुत्तरदुर्घटकारितात्मकनिरपेक्षस्वातन्त्र्यसारायां
पारतन्त्र्यांशलेशमात्रपरमाणुनापि अनुपरक्तायाम् - इति प्रायः प्रागेव
प्रतिसमाहितमदः तथापि विस्तरतः परिह्रीयते - यत् तावदुक्तं शिवतत्त्वं
ततः पृथिवी इत्यादिकोऽयं क्रमः इति तन्न कश्चित् क्रमः - इति ब्रूमः अक्रमं
यत् एतत् परं पारमेश्वरं विचित्रं गर्भीकृतानन्तवैचित्र्यं स्वातन्त्र्यं
त्रिकार्थरूपं तदेव एतत् तथाहि - येयमपरा परापरा पराभट्टारिका
पारमेश्वरी भैरवीया सत्ता सा सदाशिवतत्त्वानाश्रितशक्तितत्त्वस्यापि
उपरिवृत्तिः
प्. १२८)
तदन्तस्यापि आसनपक्षीकृतत्वात् [दिव्यतनुसंजीवनार्थं ह्ययं क्रमः
यथान्यत्र
महाप्रेतं न्यसेत्पश्चात्प्रहसन्तमचेतनम् |
रक्तवर्णं सुतेजस्कं नेत्रत्रयविभूषितम् ||
तद्यथा - आधारशक्तिमूले मूलं कन्द आसारमूलकम् लम्बिकान्ते
कलातत्त्वान्तो दण्डः मायात्मको ग्रन्थिः चतुष्किकात्मा
शुद्धविद्यापद्मं तत्रैव सदाशिवभट्टारकः स एव महाप्रेतः
प्रकर्षेण लीनत्वात् बोधात्प्राधान्येन
वेद्यात्मकदेहक्षयाम्नादामर्शात्मकत्वाश्चेति तत्राभ्युत्थितं
तन्मूर्धरन्ध्रव?यनिर्गतं
नादान्तवर्तिशक्तिव्यापिनीसमनारूपपरात्रयं द्विषट्कान्तं तदुपरि
शुद्धपद्मत्रयमौन्मनसम् एतस्मिन् विश्वमये भेदे आसनीकृते
अधिष्ठातृतया व्यापकभावेन आधेयभूतां यथाभिमतां देवतां
कल्पयित्वा पूजयेदिति | अत्रान्तरश्लोकाः
द्वादशान्तमिदं ग्राग्रं त्रीशूलं मूलतः स्फुरत् |
देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत् ||
मूलाधाराद्द्विषट्कान्तव्योमाग्रापूरणात्मिका |
खेचरीयं स्वसंचारस्थितिभ्यां स्वामृताशनात् ||
इति | इत्यन्तर्यागः |] | तथाहि -
ईश्वरं च महाप्रेतं प्रहसन्तमचेतनम् |
इत्यनेन सदाशिवान्तमासनं नादान्तपक्षनिविष्टं
श्रीपूर्वशास्त्रोपसंहृतम् -
इत्येतत्सर्वमासनम्
इत्युक्त्वा
प्. १२९)
तस्य नाभ्युत्थितं शक्तिशूलशृङ्गत्रयं स्मरेत्
इति शक्तिप्रख्यव्यापिनीसमनात्मकशृङ्गत्रयमुक्तं तत्रापि
उन्मनसोर्ध्वकुण्डलिकापदपरमधामसितकमलत्रयरूपतया निरूपितम्
इत्येतत् परमासनं - परापर्यन्तत्वात् इति तदुपरि च देवीनां स्थितिः इति
तदेतत्परं पश्यन्त्याख्यं ज्ञानशक्तेरेव पर्यन्तधाम
नादाख्यरूपमतिक्रमणीयत्वेनैव स्थितं यथोक्तं शिवदृष्टौ
अथास्माकं ज्ञानशक्तिर्या सदाशिवरूपता |
वैयाकरणसाधूनां सा पश्यन्ती परा स्थितिः ||
इति |
प्रत्यगात्मनि हि बुद्धिः पश्यन्ती रुद्रदेवता |
परं सदाशिवज्ञानशक्तावेव अनाश्रितशिवशक्त्यात्मनि विश्राम्यति
मनोऽहंकारयोः ब्रह्मविष्णुदेवतयोः [ईश्वरप्रत्यभिज्ञायां
तत्रैतन्मातृतामात्रस्थितौ रुद्रोऽधिदैवतम् |
भिन्नप्रमेयप्रसरे ब्रह्मविष्णू उदाहृतौ ||
इति | अत्र विवेकेच्छुभिस्तन्त्रालोक एवावधार्यम् |]
प्. १३०)
वैखरीमध्यमापदे पत्योरीशसदाशिवक्रियाशक्तिपदमेव
[ईश्वरतत्त्वस्यैव सदाशिवे |] परा प्रतिष्ठाभूः इति तावत् आगमसिद्धं
स्वसंवेदनवृंहितं च तत् पश्यन्त्युपरि पराभूमिः भगवती - यत्र
सर्वमभेदेनैव भाति च [सूक्ष्मबुद्धिविवेच्योऽग्र क्रमः |] विमृश्यते च |
यद्यपि हि विद्यापदे मायापदेऽपि अभेदेन भासना स्थितापि तत्र
विमर्शोऽन्यथा विद्यापदे हि इदमिति [ईश्वरभट्टारके |]
प्रमातृप्रमेयजातमेकतोऽहमात्मनि [सदाशिवभट्टारके |] संक्रामेत्
तदाच्छादितं विमृश्यते - अहमिदम् इति तत् एतत् समाने चिदात्मनि अधिकरणे
[ज्ञानशक्तिशिवे |] उभयं प्रतिबिम्बितमभेदेनैव अवभासमानं
सामानाधिकरण्यमुक्तम् अत एव ईश्वरावस्थायां
[ज्ञानरूपशिवावस्थायाम् |] परा-
प्. १३१)
परात्मिकां दशां भावा भजन्ते यथैव मायाध्वनि
[शुद्धविद्यारूपं महामायां च त्यक्त्वा सैव - ईश्वरावस्थैव |]
अपरां न तु सैव परापराशक्तिः अपरावेति यत् [परत्वसंभवे कारणमाह
यदिति यस्मादीश्वरतत्त्वे परापरत्वं तत्र दर्शितं
तेनायातमीश्वरावस्थायां परत्वम् |] ईश्वरतत्वं प्रति अभिहितं
[अभिहितमिति - परापररूपत्वेन चेति योज्यम् |] श्रीमदुत्पलदेवपादैः
[यथोक्तम्
अत्रापरत्वं भावानामनात्मत्वेन भासनात् |
परताहन्तयाच्छादात्परापरदशा हि सा ||
इति | परत्वं पूर्णत्वमनभ्यापेक्षाहमिति
अपरत्वमपूर्णतान्यापेक्षतेदमिति | तथैव ईश्वरप्रत्यभिज्ञायामपि
सामान्याधिकरण्यं च सद्विद्याहमिदंधियोः |
प्रकाशस्य यदात्ममात्रविश्रमणेऽनन्योन्मुखः
स्वात्मप्रकाशताविश्रान्तिलक्षणो विमर्शः सोऽहमित्युच्यते यस्त्वन्योन्मुखः
स इदमिति स च स्वप्रकाशनमात्रे पुनरनन्योन्मुखे रूपे विश्राम्यति
परमार्थतः | तत्राद्ये विमर्शे शिवतत्त्वं द्वितीये विद्येश्वरता मध्यमे तु
रूपेऽहमिदमिति समधृततुलापुटन्यायेन यो विमर्शः स सदाशिवनाथे
ईश्वरभट्टारके च इदंभावस्य तु ध्यामलाध्यामलताकृतो विशेषः - ये
एते अहमिति इदमिति धियौ तयोर्मायाप्रमातरि पृथगधिकरणत्वम् अहमिति
ग्राहके इदमिति च ग्राह्ये तन्निरासेन चैकस्मिन्नेवाधिकरणे यत्संगमनं
संबन्धरूपं तत् सती शुद्धा विद्या अशुद्धविद्यातो
मायाप्रमातृगताया अन्यैव | तत्र यदाहमित्यस्य यदधिकरणं
चिन्मात्ररूपं तत्रैवेदमंशमुल्लासयति तदस्यास्फुटत्वात् सदाशिवता
अहमिदमिति इदमहमिति तु इदमंशे स्फुटीभूतेऽधिकरणे
यदाहमंशविमर्शं निषिञ्चति तदेश्वरतेति विभागः |] तत्
प्रदर्शितागमविपर्यासशङ्कायुक्तम् -
प्. १३२)
इति न मन्तव्यम् मन्त्रमहेशादिषु [शुद्धविद्यामहामायायां
विमर्शस्वरूपमाह उत्पलदेवमहोदयः मन्त्रेति |] तु रूपं
बोधैकपरमार्थमपि अपरबोधैकपरमार्थात् अन्यदहम् इदं पुनरिदमेव
[पुनरिति उपरिवर्त्यहन्ताया भिन्नमेवेदमंशप्राधान्यं
यस्मान्महामायेति संज्ञा परैः कृता यदुक्तं तत्रैव भेदधीरेवेति |] इति
संवित् विज्ञानाकलानां तु बोधैकपरमार्थेनापि रूपेण अहं नेदम् इति
संवित् अप्रबोधात् अहमित्येव तत्र अप्रबुद्धम् प्रलयकेवलिनाम् इदमहम्
इत्यप्रबुद्धमेव अत्र [अत्र - प्रलयाकले मायापदे - सकले च |] मायापदे च
तन्निर्विकल्पकताभासेन यद्यपि अस्ति तथाविध एव प्राणभूतो विमर्शः
तथापि तद्रूपव्यवहारकस्य
प्. १३६)
तत्प्रसादासादितसत्ताकस्यापि तदव्यतिरिक्तस्यापि वा पश्चात्तनस्य विमर्शस्य
इदं शरीरादि अहमहं योऽसौ ज्ञाता इदं घटादिकम् इदं यत्तत् ज्ञेयम्
इति भेदेनैव विमर्शरूपतया व्यवहारो विकल्पात्मैव तत्र तु तथाविधत्वे
कारणान्तरासंवेदनात्कल्प्यमानेऽपि च कारणे पुनरपि
तथाविधबोधाविनिर्भागमात्रपर्यवसानात् तस्यैव अविकल्पसंविदात्मनः
तथा सामर्थ्यं तथा सामर्थ्ययोगादेव च तदनन्तवैचित्र्यात्मकत्वम् - इति
ऐश्वर्यमनपायि सिद्ध्येत् अस्यां च सत्तायामैश्वर्यमनपेतं - यतो
वैखर्यात्मनि एवं मायीये विद्येऽपि वा मध्यमामये धाम्नि
भासनातिरेक्यपि संभाव्य एवं विमर्शः | अत्र तु परसंविदि यथैव
भासा तथैव व्यवहारमयोऽपि विमर्शः तेन - जल इव जलं ज्वालायामिव
ज्वाला सर्वथा अभेदमया एव भावा भासन्ते न तु प्रतिबिम्बकल्पेनापि
केवलं यावत् एषापि परमेश्वरी उपदेशाय निरूप्यतेतावत् अधरसत्ताकॢप्ता
तथा भवति |
प्. १३४)
एवं च भासात्मकं भैरवरूपं स्वतः सिद्धम् अनादि प्रथमं सर्वतः
चरमं च सर्वतश्च वर्तमानमिति किमपरं तत्र उच्यताम् |
तत्त्वभावविकासात्ममयमात्मैक्येनैव स्वप्रकाशं प्रकाशयति तथैव च
विमृशति अनपेततथाचमत्कारत्वेऽपि यच्च तत् तथाविमर्शनं तत्
भाविमायीयानन्तसृष्टिसंहारलक्षकोट्यर्बुदपरार्धसाक्षात्कारिणि
भासने भवेत् तथारूपमेव भवति तथा भवच्च तत् यदि सृष्टौ
प्राथमिकं माध्यमिकं वा पदं भासनात् विमृशेत् तत् पूर्वस्य
तदुत्तरव्यभिचारणाशंकासंभावनानपगमात्
अपरिपूर्णमप्रथितेतरभावराशिखण्डिताभेदं
कथमनिर्व्यूढपरभैरवमहाधाम[परिपूर्णम्
|]समाश्रिताधस्तनपश्यन्त्यादिनिष्ठभेदासूत्रणकलङ्कं
तथाविधवस्त्वपोषणवशनाममात्री -
प्. १३५)
भूतपराभट्टारिकारूपं तत् किमपि रूपं भवेत्
एतादृशधारारोहणाभावे च न किंचित् इदं विंजृम्भमाणं भासेत
विजृम्भेत इति न व्रजतु अपूर्णता मा प्रतिष्ठभावराशिरभेदकथा
खण्ड्यताम् मा निर्वाक्षीद्भैरवाश्रयता भेदकलङ्कमुद्ववहतु
नामधेयमात्रेण परत्वम् - इति वक्तुं युक्तम् तत् एतदेव भवति संगच्छते च
यदि प्रथमतरं सर्वचरमे एवमाभासा पतन्ती तत्रैव विमर्शेनापि पदं
बन्धयेत् स हि चरमो भागः तथा तावत् स्वात्मरूपं बिभ्रत्
तत्स्वात्मरूपनान्तरीयकतास्वीकृततदनन्तनिजपूर्वपूर्वतरादिभागान्तरो
भासमानो विमृश्यमानश्च पूर्ण एव तत्पूर्वोऽपि भागः
तदुत्तरभागपृष्ठपातिवृत्तपूर्वपरिपूर्णभासासारविमर्शतादात्म्यात्
तदूत्तररूपपरीपूर्णतामजहत् स्वयं च
स्वरूपनान्तरीयकताहठकृष्टस्वपूर्वपूर्वतरादिभागान्तराभोगो
भासमानो विमृश्यमानश्च तथैवाखण्डितः - इत्येवं
तत्पूर्वपूर्वगताभासा तत्तद्द्वित्रादिनिजनिजोत्तरभागभासाविभागे
प्. १३६)
लब्धभैरवभावस्वभावाव्यभिचारनुरोधबलस्वीकृतस्वस्वपूर्वभाग-
चमत्कार एकैकमपि परं पूर्णा भवति यावत्
स्वप्रंकाशनिजभिरवाभिमतनिकटतरवर्ति रूपं तदेव
स्वेछाविश्रान्तिधाम वा भैरवाख्यं वपुः स्वयमेव तद्विमर्शकुशला
भवत प्रसंख्यानपराः हृदगिरि-तरुप्रभृत्युपाधिसंकोचेन रहिते
तद्वत्यपि वा अरण्यानीप्रदेशे दूरादखण्डिता दृष्टिरेवमेव
अखण्डिततामुपाश्नुवाना भैरवबोधानुप्रवेशं प्रति
संप्रदायतामासादयेत्
निर्वृक्षगिरिभित्त्यादौ देशे दृष्टि विनिक्षिपेत् |
इत्यादि अन्यथा भागशः पाते प्रथमभागात् आरभ्य यदि वा निरवयवमेव
एतत् तत्क इव अपरसंवेदनेभ्योऽपूर्णाभिमतेभ्यो विशेषः विशेषस्तु
गर्भीकृतानन्तवैचित्र्यचमत्कारकृत इव अपूर्णसंविदन्तरेभ्यः
पूर्णाभिमतसंवेदनस्य इति स्वयमेव जानन्तु सोपदेशाः पारमेश्वराः |
परमेशशक्तिपातकिरणाविकसिते तु पशुजन -
प्. १३७)
हृदयकुशेशये न अस्मदीयैर्वचनशतैरपि अति तीक्ष्णाभिधेयसूचिभिरपि
संभेदोऽथ विकासोऽथ वितरीतुं शक्यः घटेऽपि एवमेव परिपूर्णो
दृष्टिपातः तत्रापि हि अविकल्पा संवित् झगिति चरमभागे एव निपतति ततस्तु
क्रमात् विकल्पसंविद आयान्त्य आ चरमनिकटभागात् अन्तस्तरामन्तस्तमां
च अनुप्रविशन्ति इति किमन्येन | तदेवमेव इहापि शिवतत्त्वं सदा अविकल्पमेव
विकल्पसूति स्वातन्त्र्यसरसमनादि सर्वादिभूतं सिद्धम् अत्र तावत् न विमतिः
तत्तु परिपूर्णं तथा भवति यदि सर्वचरमां पार्थिवीमेव भुवमधिशेते
धरासंवित् हि तथा धरां विषयतयापि अभेदेनाभासयेत् विमृशेत् च यदि
तत्स्वरूपसर्वस्वावभासविमर्शयोः व्याप्रियेत स्वरूपसतत्त्वं च अस्याः
परिपूर्णप्रसरतत्स्वातन्त्र्यकॢप्ताप्ररूढाभेदतत्पूर्वकैकरसभेदा-
वभासतद्वशोदितसंकुचच्चित्स्वातन्त्र्यसत्तामयमायाग्राहकतद्बाह्य-
चक्राविभेदात्मकप्रधानतद्विकारधीत -
प्. १३८)
त्त्वतत्परिणामात्मकाहंकारतन्मूलकारणपूर्वकतन्मात्रवर्गप्रसृत-
खादिजलान्तभूतवर्गाधरवृत्तितया अवस्थानं धरायाः सा हि
यावदाक्षेपेणैव वर्तमाना तावत् स्वरूपसतत्त्वैव यावदेव
पञ्चगुणत्वात् तन्मात्राणि आक्षिपेत् तावत् तानि आक्षिप्यमाणानि
निजस्वरूपोपकॢप्तये
समाक्षिप्तप्राक्तनप्रातिष्ठिकमूलान्तरपरम्परानुबन्धिस्वकपूर्वक-
मूलान्येव नहि उपादानाभिमतकारणस्वरूपानन्वयः कार्यसत्तायां
स्यात् इति न्याययम् निमित्तकारणादीनि कथंचित् न अन्वीयुरिति उच्येतापि कदाचित्
एतच्च प्रकृतविघातकमन्यत्र तदभिधानप्रवणे शास्त्रे निष्कुष्य
निष्कुषितमस्माभिरेव - इति न इह विततम् | तदेवं प्रथमं तावत् धरा
ततोऽपि जलं तथैव स्वरूपसाकल्येन भासमानं विमृश्यमानं च
तद्भासा विमर्शचमत्कारमन्त्रःकृत्य
तथाविधधरणितत्त्वसंस्कारसत्ताकं पूरयेदेव इति यावत् अन्ते सैव
पूर्णसंविद्भगवती शिवात्मैव तत् अनेनैव
प्. १३९)
उपदेशयुक्तिनयेन प्रदेशमात्रमपि ब्राह्मणः सर्वरूपम् एकैकत्रापि च
तत्त्वे षट्त्रिंशत्तत्त्वमयत्वं शास्त्रेषु निरूपितम् | एवं च
श्रीस्पन्दशास्त्रोपदेशो
दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते |
तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ||
इत्ययं हृदयंगमीकर्तव्यः चरमेण पादेन तदेवात्र सूचितमिति किमन्यत्
यच्च येन विना न भवति तत् तावत् स्वरूपं यथा शिंशपात्वं वृक्षस्य
स्वरूपं [अत्र शिंशपात्वं वृक्सादन्यत्र क्वचित् न हि वर्तते यथा यत्र यत्र
शिंशपात्वं तत्र तत्र वृक्षत्वमिति शिंशपात्वं वृक्षत्वं स्वरूपम् अत्र
यतः शिंशपात्वं वृक्षेण विना न संभवति इति स्वरूपम् |
ननु च कथमन्यदन्यस्य स्वरूपं भवेत् नियतिविरोधात्? इत्यत आह
परमेशस्यातक्ष्येति यत्तु यावत्स्वरूपं न भवति इति तथाहि अत्र न हि यत्र
यत्र वृक्षत्वं तत्र शिंशपात्वं वानीरादिवृक्षे तदभावादिति वृक्षत्वं
शिंशपात्वस्वरूपं न भवतीति |]
पारमेशस्वातन्त्र्यतिरोधितनियतिविजृम्भायां यत्तु यावत् स्वरूपं न भवति
तत्
प्. १४०)
तेन विना भवत्येव यथा वृक्षत्वमृते शिंशपात्वापवादो न भवन्ति च
धरादीनि उत्तरोत्तरतत्त्वानि जलादिपूर्वपूर्वं विना - इति तावत्स्वरूपाण्येव
धरा हि न जलं विना भवेत् - धृतेरेव काठिन्यदर्शनात् इत्येवं क्रमेण
भूतानि तन्मात्रैर्विना कथं तान्यपि इन्द्रियजृम्भया विना इन्द्रियाण्यपि
तत्तथाविधाध्यवसायेन विना सर्वाणि
चैतदाद्याविभक्तान्वितसूक्ष्मरूपमूलकारणविनाकृतानि न भवन्ति
मूलप्रकृतिरपि भोग्या भोक्तारं विना तद्भोग्यविभ्हागभागित्वादेव
संकुचितं संकोचवशादेव च स्वात्मारोहितकालकलादि पाशजालं
संविदात्मकं चान्तरेण कथं संविदश्चाखण्डरूपायाः कथं
संकोचकारणस्वातन्त्र्यं मायापरपर्यायं विना संकुचितत्वं
स्वातन्त्र्यं च संकोचे संकुचिततासारतत्संकोचिततारतम्यापेक्षि
भवदीषदसंकुचितासंकुचितेषद्विकासिविकस्वररूपं विरहयय
प्. १४१)
नैव भवेत् सर्वमेव चेदं प्रथमानं
स्वतन्त्रपरिपूर्णप्रथासारभैरवं विना किंचिदेव न - इति
स्वसंवित्सिद्धोऽयं तत्त्वक्रमः | श्रुतिरपि [श्रुतीति अयमर्थः - पृथ्वी
जलात्मिकाप्यस्तीति मन्तव्यं कुतः? इत्यत आह - काठिन्यं विनेति अयं भावः
- यदि पृथिवी जलात्मिका न स्यात् तत् स्थितिमेव जह्यादिति काठिन्यं हि
जलकृतमेवेति काठिन्यं परस्परसंश्लेषः |] जलात्मिका काठिन्यं विना क्व
- इंतिधरापि पूर्विका सलिलेऽस्तु इति कथ्यमानम् अपि किं न छेदयेत् प्रत्युत
परिपूर्णसर्वात्मकभैरवभट्टारकात्मकपरासंवित्परिपोषणायैव स्यात्
सर्वश्चायं
परापराभट्टारिकादिरूपपश्यन्त्यादिसत्तासमयोद्भविष्यदीषत्स्फुट-
स्फुटतरादितत्त्वभेदानुसारेण [अहन्तायां हि भेदोऽस्फुट एव इदन्तायां
तु स्फुटतरः तत्त्वभेदः यदुक्तमीश्वरप्रत्यभिज्ञायाम् -
अत्रापरत्वं भावानामनात्मत्वेन भासनात् |
परताहन्तयाच्छादात्परापरदशा हि सा ||
इति |] पराभट्टारिकामहसि तदुचितेनैव [तेजसि परोचितेन |] वपुषा विराजते
प्. १४२)
तत्र हि निःस्वस्येव हस्ते द्रविणमसन्न क्वचिदपि स्यात् भविष्यदपि [ननु च
परापरादिभेदः परादशायां कथमन्तर्भवेत् यदा हि भेद उद्भवति
तदा पश्यन्त्यादिव्यपदेशः अनुद्भवे पुनः कथं तत्र तद्व्यपदेश इत्यत
आह भविष्यदपीत्यादि प्रथममिति भविष्यत्ताभावेऽपीत्यर्थः |] वस्तु
चरममपि प्रथमप्रकाशे भासेतैव
केवलमेकरसतद्भेदसारस्फुटरूपापेक्षया भविष्यत्ता तथाहि - भविष्यति
कर्की हनिष्यत्यधर्मपरान् - इत्यादि यदि न प्रकाशितं तत् कथं पुराणेषु
निबद्धम् क्वचन सर्गे बभूव कर्की तथैव व्यधित - इति चेत् किं स
एवासावन्य [असाविति भविष्यन् |] एव वा अन्यश्चेदप्रकाशोऽसौ
[अन्यश्चेदित्यस्मन्मतं - स्ववचनेन प्राप्तोऽसीत्यभिप्रायः |] स एव चेत्
कथं कालभेदः अकालकलितश्चेत् कथमिव? चित्त्वाद्विश्वरूपत्वात् - इति चेत् तर्हि
अकालकलिते संविदात्मनि सततविश्वशक्त्यवियुक्ते
स्वातन्त्र्यवशसंकोचविकारावभासितसंहृतिसृष्टिमताविरूद्धैकरूप-
तदात्मकवपुषि पर -
प्. १४३)
मेश्वरेऽस्मज्जिह्वाग्रहृदयानपायिनिभैरवभट्टारके सर्वमस्ति -
इत्यस्माभिरूपन्यस्यमानमेव मुक्तमन्दाक्षं कथं नाद्रियते
विवृततरकण्ठमेव वा स्वयमेव न निर्णीय निरूप्यते तस्मात्
शिवतत्त्वमिदमनाद्यन्तं स्वयं प्रथमानं
पूर्णतात्मकनिरपेक्षतामात्रसतत्त्वस्वातन्त्र्यसारमन्तः
क्रोडीकृत्यात्मतैकपरमार्थं तत्त्वजातं परसंविदि सततोदितत्वात्
सर्वाविरोधित्वात् निखिलानुग्राहकत्वाच्च अवस्थाशब्दव्यपदेशासहिष्णौ
यावदकालकलितमासीनं भैरवरूपमवतिष्ठते
तावदेतच्छास्त्रसमुचितेनैव महासृष्ट्यादिरूपेण न तु
मितसृष्ट्यादिक्रमेण - इति सिद्धम् स एष एव संपुटेयोगे अस्मद्गुरूणां
संप्रदायः - शुद्धपरसत्तया सर्वस्यैव एकैकतत्त्वस्य निखिलस्य च
तत्त्वौघस्य संपुटीकरणात् वक्ष्यते चाप्येतत् पश्यन्तीदशायाश्चारभ्य
भेदासूत्रणात्मांशांशोल्लासः इति [हेताविति शब्दः |] ततः प्रभृत्येव
शोध्यशोधकभाव
प्. १४४)
इति तावद्व्यवस्थानपह्नवनीया यथोक्तम्
यत्सदाशिवपर्यन्तं पार्थिवाद्यं [अत्र शोध्यशोधकभावतयारोहक्रम
इत्यतः पार्थिवाद्यं सदाशिवपर्यन्तमित्युक्तम् |] च सुव्रते |
तत्सर्वं प्राकृतं ज्ञेयं विनाशोत्पत्तिसंयुतम् ||
इत्यादि पश्यन्ती च परापराभत्टारिकासतत्त्वा परशक्तेरेव
स्वात्मशक्तिर्दर्पणकल्पा यत्र तत्पराभट्टारिकास्वरूपमेव चकास्ति -
प्रतिबिम्बवत् यच्च [ननु च पराभट्टारिकायामपि भेदाभेदन्यायेन
प्रतिबिम्बकल्पनमस्त्येव तदपि प्रतिबिम्बोक्त्यैव कथनीयमिति किं
परापरायामेवोक्तिरीतिरित्यत आह - यच्चेति तत्र हि बिम्बप्रतिबिम्बे एकमेव
रूपमित्याशयः |] रूपं सदा बिम्बे प्रतिबिम्बे चैकतापरमार्थं
मुखपरामशमात्रमिव न तत्प्रतिबिम्बितमुच्यते [यथोक्तमनेनैवान्यत्र
इदं हि प्रतिबिम्बस्य लक्षणं यद्भेदेन
भासितुमशक्तमन्यव्यामिश्रत्वेनैव भाति तत्प्रबिम्बमिति |] -
तन्मात्रसतत्त्वादेव यत्तु तत्रान्यथा तथा च भाति मुखाकार इव
पूरापरवामदक्षिणतादिवि -
प्. १४५)
पर्ययात् एतदेवापि तदेवापि तदेव [तदेवेति परतत्त्वं परापरशक्तावित्यर्थः
|
स्वरूपानपहानेन पररूपसदृक्षताम् |
प्रतिबिम्बात्मतामाहुः खड्गादर्शतलादिवत् ||
इति |
अन्यव्यामिश्रणायोगात् तद्भेदाशक्यभासनम् |
प्रतिबिम्बमिति प्राहुर्दर्पणे वदनं यथा ||
इति प्रतिबिम्बसतत्त्वमयत्र | न देशो नो रूपमित्यादिनयोऽत्र बोद्धव्यः |]
प्रतिबिम्बितमुच्यते तच्च तत्समानधर्मैव भवति न तु विजातीयम् एवं च
पश्यन्तीसतत्त्वपरापराविमलमुकुरिकायां
तत्तत्तथाविधोक्तक्रममपूर्णपृथिव्यादितत्त्वसामग्रीनिर्भरम्
[कार्यकारणविवेकेनैकैकत्र षट्रिंशत्त्वमिति क्रमेण |]
अन्तस्तथाविधसहजाकृत्रिमपारमार्थिकानपायिकादिपरामर्शक्रोडी-
कारेणैव वर्तमानमपि श्रीपराभट्टारिकावपुः प्रतिबिम्बमर्पयत्
स्वरूपान्यथात्वसहिष्णुकादिपरामर्शानन्यथाभावेनैव तत्परैकरूपं
परामृश्यं धरण्यम्भःप्रभृति तथोल्लसद्भेदसूत्रणतया
सजातीयायां विमलायां च यावत्प्रतिबिम्बयति तावद्धरादितत्त्वानां
प्. १४६)
विपर्यास [स्वस्वरूपस्येति योज्यम् |] एवोपजायते यत् परसंविदि शक्तितत्त्वं
तदेव परापरात्मनि पृथिवीतत्त्वं यत्तु धरातत्त्वं तच्छक्तितत्त्वम् इति
क्षकारात् प्रभृति धरादीनां स्थितिः | भगवद्भैरवभट्टारकस्तु [ननु च
यथा तन्त्रभेदेन क्षकारादौ द्वितत्त्वव्याप्तिर्न्यायसिद्धा तथा अवर्गेऽपि
व्याप्तमित्यत आह भगवदित्यादि |] सदापूर्णोऽनन्तस्वतन्त्र एव न विपर्यस्यते
जातुचिदपि [तत्र हेतुः चिद्रूपातिरेकाद्यभावादित्यादि |] -
चिद्रूपातिरेकाद्यभावात् इति उक्तं बहुशः | परात्मनि परामर्शे
परामर्शैकतत्त्वान्येव तत्त्वानि परामर्शश्च
कादिक्षान्तशाक्तरूपपरमार्थ इति तत्र अभेद एव परापरायां तु
भेदाभेदात्मकता प्रतिबिम्बन्यायेन सा च परापरामर्शमयी कादि-
क्षान्तवर्णमालाशरीरा
यावत्स्वोर्ध्वव्यवस्थितपराभट्टारिकानिविष्टतत्त्वप्रतिबिम्बानि धारयति
तावत् तेष्वेवामायीयाश्रौतकादि-क्षान्तपरमार्थपरामर्शेषु
ऊर्ध्वाधरविपर्यासेन तत्त्वानि संपद्यन्ते ऊर्ध्वबि -
प्. १४७)
म्बाधरप्रतिबिम्बधामस्वभावमहिम्ना - इति तात्पर्यम् ततः पृथिवी
क्षकार इत्यादिशोध्यरूपापेक्षया न किंचिद्विरुद्धम् तत्रापि
परदशानपायात् एष एव कादिवर्णसंतानः तत्रैव च स्वांशोद्रेकात्
स्वांशान्तर्वर्तिमध्यमापदोल्लासात्
स्वरूपवर्तमानवैखरीरूपप्रावण्याच्च [प्रावण्यादिति लग्नत्वात् |] वर्ण-
मन्त्रपदरूपता शोध्यांशवृत्तिः - इत्यास्ताम् अप्रकृतमेतत् निर्णीतं च
मयैव श्रीपूर्वप्रभृतिपञ्चिकासु यद्यप्युक्तं
श्रीमालिनीभट्टारिकानुसारेण अन्यथा चान्यथा स्थितिः इति तदपि निर्णीय
निरूप्यमाणं विमृशन्तु त्रिकोपदेशविशीर्णाज्ञानग्रन्थयः
पारमेश्वराः अनाश्रितशक्त्यात्मकपश्यन्तीपरमकोटिमतिक्रम्य
[अनाश्रितस्य शक्तिस्वरूपा यासौ पश्यन्ती सैव परमकोटिः
सर्वभावारम्भावस्था |] पारमेश्वर्यां परसंविदि देवतास्तिस्र इति
यदुक्तं तत् तावन्न प्रस्मर्तुमर्हन्ति तत्रभवन्तः एवं च
परसंविदन्तर्वर्तिनि
प्. १४८)
मध्यमापदे परापराभट्टारिकाविजृम्भास्पदे स्थितिर्विमृश्यते मध्यमा
तावत्स्वाधिकारपदे क्रियाशक्त्यात्मनि ऐश्वरे पदे
स्फुटवेद्यप्रच्छादकवेदनरूपा वाच्ये वाचकं तत्रापि वाच्यमध्यस्यते
विश्वत्र वाच्ये विश्वात्मनि वाचकमपि यदि विश्वात्मैव तदेवं
परम्पराच्छादनमिश्रीभावात्मनि निर्वहेत् अध्यासः न त्वन्यथा नहि
त्रिचतुरङ्गुलन्यूनतामात्रेऽपि पटः पटान्तराच्छादकः स्यात्
विश्वात्मकत्वं च परस्परस्वरूपव्यामिश्रतया स्यात् बीजात्मनां
स्वराणां वाचकत्वं योनिरूपाणां च व्यञ्जनानां वाच्यत्वं -
क्रमेण शिवशक्त्यात्मकत्वात् -
बीजमत्र शिवः शक्तिर्योनिरित्यभिधीयते |
इति | तथा
बीजयोन्यात्मकाद्भेदाद्द्विधा बीजं स्वरा मताः |
कादिभिश्च स्मृता योनिः * * * * * * * * * ||
इति श्रीपूर्वशास्त्रनिरूपणात् शिव एव हि प्रमातृभावमत्यजन्
प्. १४९)
वाचकः स्यात् प्रमेयांशावगाहिनी च शक्तिरेव वाच्या भेदेऽपि हि वाचकः
प्रतिपाद्यप्रतिपादकोभयरूपप्रमातृस्वरूपाविच्छिन्न एव प्रथते
शिवात्मकस्वरबीजरूपा श्यानतैव शाक्तव्यञ्जनयोनिभावो - बीजादेव
योनेः प्रसरणात् इति - समनन्तरमेव निर्णेष्यामः अत एव
स्वरात्मकबीजव्यामिश्रीभावश्चेद्योनेः तत्समस्तफलप्रसवो हन्त निर्यत्नः
- इत्यपवर्गभोगावकृष्टपच्यावेव भवतः बीजवर्णोऽपि स्वात्मनि
योनिवर्णोऽपि तथैव - इति किं कस्य भेदकम् - इति कथ्यमानं
नास्मानाकुलयेत् ये वयमेकां तावदनन्तचित्रतागर्भिणीं तां
संविदात्मिकां गिरं संगिरामहे [यथोक्तम् -
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते |
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते ||
तथा
वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती |
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ||
इति |] मायीयेऽपि व्यवहारपदे
प्. १५०)
लौकिकक्रमिकवर्णपदस्फुटतामयी एकपरामर्शस्वभावैव
प्रत्यवमर्शकारिणी प्रकाशरूपावाक् अन्यैश्च एतत्प्रयत्नसाधितम् इह च
एतावदुपदेशधाराधिशयनशालिनामप्रयत्नत एव सिद्ध्यति इति
नास्माभिरत्र वृथा
वैयाकरणगुरुगृहगमनपूतशरीरताविष्क्रियामात्रफले निर्बन्धो विहितः
एवमेव नवात्मपिण्डप्रभृतिष्वपि मालामन्त्रेष्वपि च
क्रमाक्रमपूर्वापरादिभेदचोद्यप्रतिविधानं सिद्धमेव एवं भगवती
मालिन्येव [ह्रीं न फ ह्रीं इति शक्तिमन्त्रः ह्रीं अ-क्ष-ह्रीमिति
शक्तिमद्वाचकः न फ कोटिसमावेशभरिताखिलसृष्टये ||
इति बहुरूपगर्भे |
न शिखा ऋ ॠ ऌ ॡ च शिरोमालाथ मस्तकम् |
नेत्राणि चोर्ध्वेऽधोऽन्ये ई घ्राणं मुद्रे णु णू श्रुती ||
ब कवर्ग इ आ वक्त्रदन्तजिह्वासु वाचि च |
व-भ-याः कण्ठदक्षादिस्कन्धयोर्भुजयोर्ढ-ढौ ||
ठो हस्तयोर्झ ञौ शाखा ज्र-टौ शूलकपालके ||
प हृत् छ-लौ स्तनौ क्षीरमास जीवो विसर्गयुक् ||
तत्परः कथितः प्राणः ष-क्षावुदरनाभिगौ |
म-श-ताः कटिगुह्योरुयुग्मगा जानुनी तथा ||
ए-ऐकारौ तथा जङ्घे तत्परौ चरणौ द-फौ ||
इति न्यासः | कर्णयोरूर्ध्वे णौ मुद्रे कर्णपाली संविवेशस्तत्र उ ऊ इति |]
प्. १५१)
मुख्यपारमार्थिकमध्यमाधामशक्तिसतत्त्वम् अत एवोक्तं
श्रीपूर्वशास्त्रे
यथेष्टफलसंसिद्ध्यै मन्त्रतन्त्रानुवर्तिनाम् |
न्यसेच्छाक्तशरीरार्थं भिन्नयोनिं तु मालिनीम् ||
इति भिन्नयोनित्वं च निर्णीतम् अन्यत्रापि
न पुंसि न परे तत्त्वे शक्तौ [शाक्तं यथा
देहगध्वसमुन्मेषे समावेशस्तु यः स्फुटः |
अहन्ताच्छादितोन्मेषि भावीदंभावयुक् स च ||
व्यक्ताव्यक्तमिदं लिङ्गं मन्त्रवीर्यं परापरम् |
नरशक्तिसमुन्मेषि शिवरूपाद्विभेदितम् ||
यथोक्तमन्यत्र
पुंस्तत्त्वे जडतामेति परतत्त्वे तु निष्फलः |
शक्तौ मन्त्रो नियुक्तस्तु सर्वकर्मफलप्रदः ||
इति | अत्र विशेषोऽन्यत्र
व्यक्तात् सिद्धिप्रसवो व्यक्ताव्यक्ताहूयं विमोक्षश्च |
अव्यक्ताद्वलमाद्यं परस्य नानुत्तरे त्वियं चर्चा ||
इति |] मन्त्रं निवेशयेत् |
जडत्वान्निष्क्रियत्वाच्च न ते भोगापवर्गदाः ||
इति | एवं च स्थिते सर्वसर्वात्मकत्वात् यदेव न ऋ ॠ ऌ ॡ थ च ध ई ण उ ऊ ब
क ख ग इत्यभिहिता इहत्यपरसंविदमपेक्ष्य क्रमेण
प्. १५२)
श्रोत्रं नादात्मकभावरूपं योन्यात्मामृताप्यायकारिणि [आत्मन्येव च
विश्रान्त्या तत्प्रोक्तममृतात्मकम् | इति चोक्तमन्यत्र |]
बीजचतुष्काप्यायभूमौ पतितं वृंहितत्वमवाप्य झटिति
ग्रहणात्मकरससतत्त्वरसनामयत्वं प्रतिपद्य
धरण्याकारगन्धविशेषीभूय तत्रैव स्पर्शकरणतां श्रित्वा एतावच्च
शाक्तं यौनं धाम ईशानबीजेनाधिष्ठाय वागात्मनि करणशक्तौ
प्रतिफलितं ततोऽपि करणशक्तेरुन्मेषोर्ध्वाश्रयणबीजरूपतया
बुद्धिरूपां शाक्तयोनिमधिशयय पृथिव्यप्तेजोयोनिसमाविष्टं
पश्यन्तीरूपानुमूर्त्या तु ग्रहणात्मकपाणिरूपायां तत्रैव बीजेषु
प्रसृत्य चाक्षुष्यां भुवि तत्सामान्या शुद्धविद्या करणे
तत्सर्वान्त्यकरणे च घ्राणे स्थित्वा ईशानबीजेनाक्रम्य
श्रोत्रशक्तिमालम्ब्योन्मेषोर्ध्वबीजयोगेन आनन्देन्द्रिययोनिगं
सदाशिवेश्वरशुद्धविद्यामयं भवति इति
सर्वाग्रमध्यान्तगामित्वेनापरिच्छिन्नमनन्तशक्तिं शिवतत्त्वम् अत्रोक्तं
भवति
प्. १५३)
मालिन्यामिहत्यापरसंविदनुसृत्या पश्यन्त्यात्मकसत्तानुसृत्या च क्रमेण
वायुर्माया चेति प-घ सादाख्ये नभः ख-ला-च-ङ ईश्वरः इच्छैव
शक्तिमयी शुद्धविद्या अनुत्तर एव स्वतन्त्रोऽहंभावः अ शिवाख्यो माया
भ शुद्धविद्या रागः स्पर्शश्च यः कालः पायुरहंकृच्च ड नियतिः हस्तौ
मनश्च ढकारः आनन्देन्द्रियं बुद्धिश्च ठः पुमांश्च ञः
धीरूपं नियतिश्च जः अहंकृतं नियतिरूपं च रः मनः पादेन्द्रियं
प्रकृतिश्च टः श्रोत्रं मनोहस्तश्च प त्वग्रसः कालश्च ध-ल रसना
आनन्दशक्तिः शैवी आ घ्राणं विद्यातेजश्च स वाग्विसर्गशक्तिश्च अः करौ
ईशो जलं च ह पायुर्माया वायुश्च ष आनन्देन्द्रियं सादाख्यं पृथिवी
च क्ष पादौ पुमान् शब्दश्च स शब्दः कला नभश्च श स्पर्शः बैन्धवी
शिवशक्तिः अं रूपं नासिका त्वक् च त रसः शिवशक्तिः सात्त्वी ए गन्धः -
प्. १५४)
सैव दीर्घः ऐ नभः तथैव वायुतेजसी ओ नेत्रे रसश्च औ आपः अहंकृत्
पायुश्च द पृथिवी फ अत्रैव च यथोक्तम् शरीरनिवेशः - इत्येवं
सर्वसर्वात्मकत्वं निर्व्यूढं भवेत् पराभट्टारिकैव हि प्रोक्तनयेन
पश्यन्त्यां प्रतिबिम्बं स्वकमर्पयमाणा तत्समकालमेव [पश्यन्त्यां
प्रतिबिम्बार्पणकाल एव |] स्वात्मतादात्म्यव्यवस्थितमध्यमधाम्नि
भिन्नयोनितामश्नुवाना तत्तद्योनिबीजपरस्परसंभेदवैचित्र्यस्य
आनन्त्यादसंख्येनैव प्रकारेण
तत्तत्कुलपुरुषादिभेदेनापरिगणनभेदभागिनी मालिन्येव यथोक्तम्
अनन्तैः कुलदेहैस्तु कुलशक्तिभिरेव च |
मालिनीं तु यजेद्देवीं परिवारितविग्रहाम् ||
इत्यनेनैव च क्रमेण बहिर्भुवनेषु तत्त्वेषु शारीरेषु च चक्रेषु अभ्यासपरो
योगी तत्तत्सिद्धिभाक्
प्. १५५)
यत्रैव देहे प्राणे वा भवति यथा [ननु च यद्येवं तर्हि स्वेच्छातन्त्रत्वात्
सर्वमेव सर्वसिद्धिप्रदं भवेदिति किं नियमो निबद्ध इत्यत आह यथेत्यादि |]
काश्चिदेवौषध्यः समुद्भूय किंचिदेव कार्यं विदधते तथा काचिदेव
समुद्भूय भावना मन्त्रन्यासहोमादिगतिर्वा कांचिदेव सिद्धिं वितरेत्
अत्रापि यावन्नियतिव्यापारानतिक्रमात् तथाहि प्रतिशास्त्रमन्यथा चान्यथा
च वर्णनिवेशपुरःसरं
निजनिजविज्ञानसमुचिततत्तद्वर्णभट्टारकप्राधान्येन
तत्तद्वर्णप्राथम्यानुसारायातनियतपरिपाटीपिण्डितवर्णसमूहरूपः
प्रस्तारो निरूपितः तत एव च मन्त्रोद्धारो निरूपितः तामेव मातृकारूपां
तथाविधवीर्यदानोपबृंहितमन्त्रस्फुरत्तादायिनीं दर्शयितुं यथा
श्रीनित्यातन्त्रेषु
एकारात्मकमोहनबीजप्राधान्यहेतुपरनादात्मनिवेशप्राधान्यात्
[हेतुपरनादात्मेत्यपि पाठः सद्भिः स्वीकृतः उत्तमार्थाभिप्रायेण न तु
प्रस्तावापेक्षयेति |] तदनुसारापतितश्रीमन्त्रादिफान्तक्रमेणैव निवेशः
अत्र कुलपुरुषाणां कुलशक्तीनां च एष एव
प्. १५६)
निवेशे अभिप्रायः न च वर्णमन्त्रादिगुप्तिमात्रमेव फलं तथा -
श्रीवाजसनेयतन्त्रे वर्णान् यथोचितं निवेश्योक्तम्
इत्येतन्मातृकाचक्रं दिव्यं विष्णुपदास्पदम् |
ज्ञातं गुरुमुखात्सम्यक् पशोः पाशान्निकृन्तति ||
इति | तथा श्रीत्रिकहृदयेऽपि -
चक्रशूलाम्बुजादीनां प्राणिनां सरितां नृणाम् |
आयुधानां च शक्तीनामन्यस्यापि च कस्यचित् ||
यो निवेशस्तु वर्णानां तद्वीर्यं तत्र मन्त्रगम् |
तेन गुप्तेन ते गुप्ताः शेषा वर्णास्तु केवलाः ||
इति | तथाहि - मन्त्राणामक्षरमात्रान्यथाभावेऽपि तेषामेव
[समानानामेव |] शास्त्रेष्वाणवशाक्तशाम्भवादिविभागेनान्यथात्वम्
यथा मायाबीजस्य प्रणवस्य सर्वस्यामृतबीजस्य वैष्णव-शैव-
वामादिशास्त्रेषु यथा वा चतुष्कलभट्टारकस्य कौलोत्तरादौ
श्रीमदुच्छुष्मशास्त्रे च अत्र च
कुलपुरुषबहुभेदप्रकटनायामभियुक्तानामुपायो लिख्यते
प्. १५७)
पूर्वे परेषामपरे परे पृष्ठवदेव च |
पूर्वेपि च यथापूर्वं मातृकाया विधिर्मतः ||
एतेनैवानुसारेण भिन्नयोनिस्वरूपतः ||
शाक्ताद्यसंख्या देवीयं परैवोत्तरमालिनी ||
इति |
ऊर्ध्वाधो विनिविष्टेषु भेदसंख्येषु धामसु |
एकं बिन्दुरथापि प्रागन्येषु प्राक्तनान्त्यगाम् ||
स्वपृष्ठगां च तां संख्यां विनिवेश्यैकतः क्षिपेत् |
अस्मादन्यैर्भवेत्संख्या स्पृष्टैरिष्टैः पुनः क्रमः ||
यथोक्तं कुलशक्तीनां विधिरानन्त्यवेदने |
तदेतेन विधिना ये कुलपुरुषशक्तियोगिनो निरधिकारीभूताः यथोक्तम् -
ब्रह्मादिस्तम्बपर्यन्ते जातमात्रे जगत्यलम् ||
मन्त्राणां कोटयस्तिस्रः सार्धाः शिवनियोजिताः |
अनुगृह्याणुसंघातं याताः पदमनामयम् ||
इति मन्त्रमहेश्वराः न तु मन्त्राः - तेषां स्वलयावसरे
अनामयपदपर्यन्तताभावः तेभ्यो नैव मन्त्रोद्धारः - तस्य निष्फलत्वात्
तत एव
प्. १५८)
अभिन्नयोनिमध्ये तु नादिफान्तं कलौ युगे |
इति तदेवं भगवती पराभट्टारिका पदभेदशालिनी मध्यमया मुख्यया
वृत्त्या भगवन्मालिनीरूपैव अनन्ता
परिगणनप्रदर्शितवैश्वरूप्यस्वस्वरूपापीति तत्रापि च तथैव स्वात्मनि
सर्वात्मकत्वेनांशत्रयोद्रेकात् वर्ण-पद-मन्त्रात्मकत्वम् एतच्च
शोधनकरणभावेन इति मन्तव्यम् पश्यन्त्यंशोल्लसन्तो हि पाशाः
सूक्ष्मा एव शोध्या भवन्ति - अन्तर्लीनत्व एव पाशत्वात्
उदितोदितविजृम्भामयशाक्तप्रसरे तु मध्यमापदे शोधनकरणतैव
अन्तर्लीनपटमलापसरणे बाह्यस्थूलमलस्येव तत्
पराभट्टारिकासंविदन्तर्गतं तु वैखरीपदं विमृश्यते न हि तत्रैव
वैखर्या असंभवः तथाहि - बाला द्वित्रैर्वर्षैः यद्यपि
स्फुटीभूतस्थानकरणाः भवन्ति तथापि एषां
मासानुमासदिनानुदिनमेव वा हि उत्पत्तिरधिकाधिकरूपतामेति - इति तावत्
स्थितम् तत्र यदि मध्यमापदे तथाविधवैखरीप्रसरस्फुटीभविष्य -
प्. १५९)
त्स्थानकरणाविभागवर्णांशस्फुरणं न स्यात् तदहर्जातस्य बालकस्य
मासजातस्य संवत्सरजातस्य वा व्युत्पत्तौ न विशेषः स्यात् मध्यमैव सा
व्युत्पत्त्या विशिष्यते? इति चेत् कथमिति चर्च्यतां तावत् - शृण्वन्नेव
ताञ्शब्दान् पश्यंश्चार्थान् व्युत्पद्यते वर्णांश्च श्रूयमाणानेव
परामृशेत् श्रूयन्ते च वैखरीमयाः तेषु च असौ रूपी एव जात्यन्धवत्
तस्मात् अन्तर्मध्यमानिविष्टस्थानकरणादिमयी अस्त्येव वैखरी मुकेऽपि
एवमेव सर्वात्मकत्वं च संविदो भगवत्या एवोक्तम् एवं च
वैखरीपदमेव मध्यमाधामलब्धविजृम्भं स्वांशे
परस्परवैचित्र्यप्रथात्मनि स्फुटवाच्यवाचकभावोल्लासे जाते
तत्त्वजालमन्तः कृत्य यावदास्ते तावदपराभट्टारिका
तदन्तर्वर्तिमध्यमापदोल्लासे परापरा पश्यन्त्युल्लासे च स्वरूपतो भगवती
देवी च इति शोधकभावेन स्थितिः त्रैधमेवावतिष्ठते शोधको हि विश्वात्मा
विततरूपो वैतत्यं चैवमेव भवतीत्युक्तम् शोधनं
प्. १६०)
प्रति तु करणत्वं कर्तुरेव स्वस्वातन्त्र्यगृहीतसंकोचस्य
शाक्तमहिमविश्रान्तस्य भगवतः शोध्यता तु संकोचैकरूपस्य
सप्तत्रिंशातिक्रान्तत्रिकैकरूपभैरवभट्टारकाविनिर्भक्तपरा-
भट्टारिकातुल्यकक्ष्यपरापरादेवताक्षोभात्मकसदाशिवज्ञानशक्ति-
विस्फारितपशुशक्तिरूपपश्यन्तीधामप्रथमासूत्रितभेदात्मनो [अयमत्र
तात्पर्यार्थः
स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता |
द्विधाणवं मलमिदं स्वस्वरूपापहानितः ||
भिन्नवेद्यप्रथाग्रैव मायाख्यं जन्मभोगदम् |
कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्रयम् ||
इति पाशसमूहः स्थूलः ऊर्ध्वमपि पाशजालं सूक्ष्मरूपेणास्तीति
प्रथमासूत्रितेत्युक्तम् |] नरात्मनः पाशजालस्य इति निर्णयः | यथोक्तं
श्रीसोमानन्दपादैः शिवदृष्टौ
अस्मद्रूपसमाविष्टः स्वात्मनात्मनिवारणे |
शिवः करोतु परया नमः शक्त्या ततात्मने ||
इति सर्वक्रियाकलापे एवंरूपतासूचकं शिवदृष्टौ -
प्. १६१)
तत्रापि च उत्तरोत्तरं शोध्यशोधकानामपि विगलनम्
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज |
उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज ||
इति | तदियमेतावती धारा यच्छोधकमपि शोधनमपि शोध्यमेव - इति
श्रीषडर्धशास्त्रे एवोक्तम् एकोत्कर्षः तिसृणामपि चासां युगपत्
स्थितिर्भवत्येव वक्ति ह्यन्यत् विकल्पयंश्च अन्यत् जल्पत्यविकल्पमेव अन्यत्पश्यति
अत्र तु परिपूर्ण एव तावति भगवान् भैरव एव -
इत्याद्यनुभवसंप्रदायोपदेशपरिशीलनेन - अस्यार्थस्य
स्वसंविन्मयस्यान्पलापनीयत्वात् न तत् युगपत् अपि तु तथा-
सौक्ष्म्यादलक्षणम् इति यौगपद्याभिमानः
शिरीषकुसुमपल्लवशतव्यतिभेद इव इति चेत् केयं खलु भाषा - युगपत् इति
समानकालम् - इति चेत् अन्तर्मुखे संविदात्मनि प्रोक्तनयेन कः कालः तस्य
ज्ञेयरूपप्राणगमागमादिमयाभासतदभावप्राणत्वात्
ज्ञेयोपाधिगतोऽपि
प्. १६२)
ज्ञानमवस्कन्देत् सः इति चेत् - ज्ञेयस्य स्वात्मनि भासामयेऽन्यथा वा
कोऽस्य विशेषो ज्ञानमुखेनोक्तः इतरेतराश्रयसंप्लवः सतो भेदात्
इत्याद्यपि सर्वमुच्यमानं ज्ञानमुखमेवापतेत् तथा च स एव दोषो
बहुतरकुसुमपल्लवशतव्यतिभेदोऽपि चानेक इत्युच्यमाने सर्वत्र सूक्ष्मः -
परमाण्वन्तावयवयोगात् नास्ति कर्म - इत्यापतेत् न च अनुसंधानं
ज्ञानाभावेन सह स्यात् - अनुसंधायाः स्मृतिभेदे तस्याश्च
अनुभवोपजीवित्वेऽनुभवाभावात् | वितत्य च विचारितं मयैतत्
पदार्थप्रवेशनिर्णयटीकायाम् - इति किमिह वृथावाग्जालेन
प्रकृतोपदेशविघ्नपर्यवसायिना | एवं भगवत्यपरा शोधकभावेन
स्थिता परापरापि च यत्र भगवतीनामघोरादीनां शक्तीनां स्थितिः -
यद्योगात् विज्ञानाकलसाधकयोगिनो मन्त्रमहेशादिरूपेणाघोराद्याः
संपन्नाः ब्राह्म्यादिशक्त्यनुग्रहेणैव
प्. १६३)
साधकाणवो ब्रह्मविष्ण्वादयः परमेश्वरो हि भैरवभट्टारकः
समग्रशक्तिपुञ्जपरिपूर्णनिर्भरवपुर्निजशक्तिनिवेशनया ब्राह्म्यादीन्
स्वातन्त्र्यात् करोति इति किमन्यत् | एवं शोधकस्यापि शोध्यत्वमित्यन्य उत्कर्षः -
* * * * * * * * कुलात्परतरं त्रिकम् |
इति स्थित्या ततश्च शोध्यशोधनशोधकानां सर्वत्रैव त्र्यात्मकत्वात्
त्रिकमनपायि यथोक्तं मयैव स्तोत्रे
* * * * यत्र त्रिकाणां त्रितयं समस्ति |
इति | न चैवमनवस्था - सर्वस्यास्य भगवत्परसंविदेकमयत्वात् -
* * * * * * * * येन त्यजसि तत्त्यज |
इत्येवमेव मन्तव्यं शोधनमपि अन्ततः शोधकोऽपि वा
भेदांशोच्छलत्तायां पाशात्मकत्वात शोध्य एव शोधनं च
परमार्थतः सर्वमलप्लोषचतुरभैरवसंविदभेदि हुतवह एव
सर्वस्यानुप्रवेशे परिपूर्णतैव यद्वक्ष्यति
प्. १६४)
एवं यो वेत्ति तत्त्वेन
इत्यादि | तत् परसंविदेकमयपरापरादिदेवतानां सर्वात्मकत्वात्
परापराङ्गसंभूता योगिन्योऽष्टौ महाबलाः |
इत्यादिवचनात् लौकिकशास्त्रान्तरीयादिवाच्यवाचकानन्त्यमपि संगृहीतम् | तत्
एवं कृतकरिष्यमाणाद्यनन्तसंकेतगर्भीकारेणैव अयं
शोध्यशोधकभावो न चानवस्था नातिप्रसङ्गो नातिव्याप्तिर्न
संकेतितस्यापारमार्थिकता - इति स्थितम् एवं स्थिते प्रकृतमनुसरामः -
अकाराद्या एव कालयोगेन सोमसूर्यौ यौ तौ तदन्तः प्रकीर्तिताविति
संबन्धः तच्छब्देन प्राक्तनश्लोकोक्तमकुलं भैरवात्म परामृश्यते
तेनाकुलमेवान्तर्गृहीतकलनाकं - कुलशक्तेरत्रैव [अत्रेत्यकुले |
शुद्धबोधैकरूपो योऽवस्थाता सैव तुर्यता |
इति | यथा च विज्ञानमानन्दं ब्रह्मेति विज्ञानाकलावस्था हि तुर्यता यदि
तत्र कलनात्मिका शक्तिर्न स्यात् तदा तुर्यातदतीतयोः को विशेषः स्यादित्यर्थः
| तथैव स्पन्दशास्त्रे
तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे |
सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ||
इति | तथा
शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भं परं महः |
इत्यभिप्रायः |] निवेशात् कलनात्मिका हि विमर्शशक्तिः तामन्त -
प्. १६५)
रेणाकुलमपि तुर्यातीतं नाम न किंचित् - सौषुप्तपदाविष्टत्वात्
तुर्यानन्तरताया अपि समानत्वात् विमर्शशक्तिश्च परा परमेश्वरी
[यदुक्तं राजनकमङ्गेन स्तुतौ
एकस्त्वं त्रिनयन दृश्यसेऽधिकर्तुं
ज्ञातुं वा त्रिभुवनमीश्वरः प्रकाशः |
तादात्म्यं विवृतवती विमर्शशक्ति-
र्भेदेऽपि प्रथयति तेन भेददोषम् ||
इति |] भैरवभट्टारकस्य निरतिशयस्वातंत्र्यात्मिका
पूर्णकृशतदुभयात्मतदुभयरहितत्वेनावतिष्ठते [सर्वस्य स्वात्मान्तः
क्रोडीकृत्य वर्तमानत्वात् पूर्णा स्वस्वरूपव्यतिरिक्तस्य भारीभूतस्य
कस्यचिदपि सत्ताभावात् कृशपूर्णत्वं व्यतिरिक्तेणोपपद्यते कृशत्वं
चेत्यतस्तदुभयात्मकत्वं तदुभयराहित्यं च |] तत्र यद्यपि -
प्. १६६)
न कश्चिदत्र क्रमयौगपद्योदयकलङ्कः [क्रमयौगपद्योदयो हि
सृष्ट्याद्यधीनः सृष्ट्यादयश्च स्वस्वभावविमर्शं एवेति तात्पर्यम् |
एतावत्या इति पूर्णकृशेत्यादिपरिमाणायाः | स्वातन्त्र्यं चास्यैतदेव -
यत्सृष्ट्यादिभेदाभासेऽपि ऐतदात्म्यमिति तत्र हेतुः - परिपूर्ण इति भेदस्यापि
प्रकाशानन्यत्वादिति भावः |] प्रोक्तोपदेशनयेन एतावत्याः
पराभट्टारिकासंविदोऽनन्तागामिप्रलयोदयात्मकस्वस्वभावविमर्शैकघ्
अनत्वादिति
स्वतन्त्रः परिपूर्णोऽयं भगवान्भैरवो विभुः |
तन्नास्ति यन्न विमले भासयेत्स्वात्मदर्पणे ||
इति नीत्या क्रमयौगपद्यासहिष्णुस्वात्मरूपमध्य [न चैतन्मन्तव्यं -
क्रमे हि स्वातन्त्र्यखण्डना यौगपद्यं कथं न स्यात् इति क्रमापेक्षतयैव
यौगपद्यमित्यदोषः |] एव यावत् क्रमाक्रमावभासः तावत्
तदनुसारेणायं क्रमो विचारणीयः अक्रमस्य [यदि च क्रमो विचारणीयः
तर्हि अक्रमोऽप्येवं विचारणीय इत्यतोऽक्रमेत्यादि |] तु तत्पूर्वकेण संविद्येव
भावात्प्रतिपादनाय [कथं तर्हि क्रमाक्रम इत्यन्नाक्रमोच्चारणमित्युच्यते
- प्रतिपादनेत्यादि |] अस्तु -
प्. १६७)
सर्वथैव सक्रमत्वात् तथा च सर्व एवायं वाग्रूपः परामर्शः क्रमिक
एव अन्तःसंवित्मयस्त्वक्रम एव - इति सदैवेयमेवंविधैव एवमेव विचित्रा
पारमेश्वरी पराभट्टारिका ततस्तत्क्रमानुसारेण अत् इत्यादिव्यपदेशः
एवं परमेश्वरस्य स्वात्मनि इच्छात्मिका
स्वातन्त्र्यशक्तिरनुन्मीलितभावविकासा
तथाविधान्तर्घनसंवित्स्वभावविमर्शसार अ इत्युच्यते | सा चावस्थानेन
इच्छेति व्यपदेश्या इष्यमाणानुद्रेका तत एवानुत्तरसत्तापरामर्शात्मिकैव
[यदुक्तं महार्थमञ्जर्याम्
सन्निति हृदयप्रकाशो भवनक्रियाया भवति कर्ता |
सैव क्रियाविमर्शः * * * * * * * * * * * * * ||
इति |] एषा परमेश्वरः सततं स्वस्वरूपामर्शकोऽकुलशक्तिपदात्मकमपि
रूपमामृशन् यद्यपि कुलशक्तीरनुयातु तथापि कुलपरामर्शतोऽस्य
स्यादेव विशेषः - इति भैरवशक्तिमद्विमर्शसत्तेयं
प्. १६८)
तादृश्येव [तादृश्येवेति परस्परौन्मुख्यात्मिका स्पन्दरूपा
स्वात्मोच्छलत्तेत्यर्थः |
यदा तु तस्य चिद्धर्मप्रभवामोदजृम्भया |
विचित्ररचना नानाकार्यसृष्टिप्रवर्तने ||
भवत्युन्मुखिता चित्ता सेच्छायाः प्रथमा तुटिः |
इति स्पन्दात्मिका बहिरौन्मुख्यमात्ररूपिणी
स्रष्टव्यानारूपितेच्छामात्ररूपा वा स्यात् तत्तदीशनीयविषयारूपणया
प्रक्षोभात्मप्रयत्नरूपतां श्रयन्ती वह्नीरूपतयैश्वर्यं भजमाना
वेत्यस्या द्वैधम् | यदुक्तं मध्यायां सा केवलमिच्छामात्ररूपा
स्रष्टव्यस्य विप्रकृष्टा काचित् पुनः प्रयत्नतामापन्ना सन्निकृष्टेति
तत्रेशानरूपत्वमस्याः |] पुनः प्रसरन्ती आनन्दशक्तिः आ इति प्रसृता |
परिपूर्णेच्छा इ इति | इच्छैव भाविज्ञानशक्त्यात्मकस्वातन्त्र्येण जिघृक्षन्ती
ईशनरूपा ई इति | उन्मिषन्ती तु ज्ञानशक्तिरिष्यमाणसकलभावोन्मेषमयी उ
इति | उन्मिषत्तैव उन्मिमिषतामपि अन्तःप्राणसर्वस्वरूपोन्मेषोत्तरैकरूपैरपि
अन्तःकरणवेद्यदिशीयास्फुटप्रायभेदांशभासमानभावराशिभिः
संकोचवशेन ऊनीभूतानुत्तरसंवित्सर्वभावगर्भीकारेण
अनङ्गधैनवीरूपपरदेवताया
प्. १६९)
ऊधोरूपा ऊढसकलभावराशिः सुस्फुटा प्रसृता ज्ञानशक्तिः ऊ इति |
तदेवमेते परमेश्वस्य भैरवस्य द्वे शक्ती प्रथमा
स्वरूपपरिपूरणारूपत्वात् पूर्णा चान्द्रमसीशक्त्यव्यतिरेकाच्च सहोमया
वर्तत इति सोमरूपा स्वानन्दविश्रान्तिभावा इच्छाख्या कलना
महासृष्टिव्यपदेश्या यद्वक्ष्यते तत्र सृष्टिं यजेदिति (२८) | द्वितीया तु
तत्स्वरूपभावराशिरेचनानुप्रवेशोद्रिक्ता तद्रेचनादेव कृशा
भावमण्डलप्रकाशनप्रसारणव्यापारा सूर्यरूपा स्वरूपभूता
कुलसंवित्संजिहीर्षात्मिका महासंहारशक्तिर्ज्ञनाख्या तत्रापि च
प्रसरत्प्राक्तनरूपपर्यालोचनावशात् स्वात्मनि यथाक्रमं
सोमसूर्यरूपतायुगलकभावेन स्वसंविदात्मकं भावाख्यं च
रूपमवेक्ष्य विपर्ययोऽपि सोमसूर्यात्मकसृष्टिसंहृतिकलनयोः न च
अत्रानवस्था - ज्ञानेच्छयोरपि
प्. १७०)
प्रसराप्रसरान्तरादिरूपत्वं तयोरपि
प्रसराप्रसरयोरिच्छाज्ञानप्रसराप्रसरान्तरादिपरिकल्पनाप्रसङ्गात् इति
वाच्यम् उपसंहरत बाह्यबिभ्रमभ्रमभ्रमणं तावत् अनुप्रविशत
सूक्ष्मां विमर्शपदवीम् यावद्धि घटादावपि विज्ञानं जायते तावदेव
ज्ञेयघटाद्यंशकर्बुरीकृतस्वयंप्रथंज्ञानं प्रथत एव तत्रापि च
तद्रूपकर्बूरीभावघटादिप्रथमसूक्ष्मोल्लासोऽपि संवेद्यः -
एकभावोद्गमस्य अन्यतः कुतश्चिदभावस्य प्रथमानत्वात् संविद एव
स्वातन्त्र्यं भावोज्जिगमिषात्मकमीशनं स्वसंवित्प्रमाणलब्धमेव
तद्भावानुचयरूपा संविद्धना परिपूर्णा स्वातन्त्र्यसत्तापि संवेद्या
स्वात्मन्यानन्दघनो भवंस्तथा स्वतन्त्रः स्यात् - इत्यानन्दोऽपि
नापह्नवनीयः अनुत्तरश्च शक्तिमानव्यपदेश्यपरचमत्कारसारो
भैरवभट्टारकः सर्वत्र कर्तृत्वेन भासत एव तत्रापि
त्वनुत्तरानन्देच्छेशनोन्मेषणे न त्वनिमेषाणां स्वरूपविमर्शे
प्. १७१)
तेषां विच्छेदविचारणेन ज्ञानभुमिमधिशयानानां ता एव भगवत्यः
संविच्छक्तयः समापतन्त्यनन्या एव स्वयं संविदः -
परीपूर्णत्वेनाभेदात् संवेद्योपाधेश्चं भेदकत्वात् - तस्य
देहसंवेद्यमात्रतयैव भावात् अत एव श्रीतन्त्रसारे
निजोत्तमाङ्गच्छायातत्त्वम् इत्युक्तम्
स्वपदा स्वशिरश्छायां यद्वल्लङ्घितुमीहते |
पादोद्देशे शिरो न स्यात्तथेयं वैन्दवी कला [अयमर्थः - स्वशिरश्छाया
यथोत्तरोत्तरगामित्वात् स्वपादाक्रमणं न सहते तथा ज्ञानशक्तिः इयमपि
नोत्तरोत्तरगामित्वात् ज्ञेयाद्यपेक्षां सहते | यो हि इत्थं मन्यते
ज्ञेयादिसापेक्षं ज्ञानशक्तिस्वरूपमिति तदत्र स्वप्रकाशत्वादस्याः
कथमीदृशी विडम्बनेति स्वानुभवशून्यानामनवसरेऽपि महती खलु
भ्रान्तिः | यदुक्तं
भ्रान्तेर्महती शक्तिर्न विवेक्तुं शक्यते नाम |
इति ज्ञेयादिसत्तायां स्थूलदृश्वनां स्फुटं ज्ञानशक्तेराविर्भावः
ज्ञेयाद्यभावेऽपि सूक्ष्मदर्शिनामस्त्येव स्वप्रकाशत्वेन
ज्ञानादिशक्त्याविर्भाव इति तात्पर्यम् |] ||
इति | तदेवं षट्कं प्रवृत्तं ज्ञानशक्त्यन्तम् | क्रियाशक्तिस्तु प्रसरन्ती
विचार्यते - इच्छाज्ञाने एव
प्. १७२)
परस्परस्वरूपसांकर्यवैचित्र्यचमत्कारमयपूर्वापरीभूतस्वरूप-
परिग्रहे संरम्भसारा क्रिया [पूर्वापरीभूतावयवरूपा हि क्रिया | उक्तं
च हरिणा
यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते |
आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ||
इति | तथा
गुणभूतैरवयवैः समूहः क्रमजन्मनाम् |
बुद्ध्या प्रकल्पितो भेदः क्रियेति व्यपदिश्यते ||
इत्यत्र च पूर्वापरत्वं परस्परसांकर्येणैवेति |] तत्र
यद्यदन्यव्यामिश्रितसांकर्यमन्यसंबन्धादेति
तत्तदनामर्शनीयशून्यप्रायस्वरूपाक्रमणपुरःसरीकारेण तथा भवति
- प्लवानामिव भेकादिः तत्रानुतरानन्दात्मकं वपुर्न व्यपसरति -
अव्यपदेशरूपत्वात् सर्वज्ञानेषु [असर्वज्ञानत्वं चेत्थम्
परं ब्रह्म क्षुद्रं तव नियतमानन्दकणिका |
इति | तथा
परं ज्ञानं कथं देव
इति प्रश्ने
शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भं परं महः |
इत्युत्तरं दत्तम् | गीतायामपि
अस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः |
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ||
इति |] सर्वाधारवृत्तित्वेन पर्यवस्यति -
प्. १७३)
पर्यन्तभित्तिरूपत्वात् अपि तु क्रमसहिष्णुत्वात् संरम्भेच्छैवेशनान्ता
स्वात्मनि अनुत्तरानन्दपदे च प्रसरणक्षमा ततः सैव शून्यात्मकं स्वं
वपुरवगाहमाना भास्वरं रूपं तेजोमयमिव प्रथमं गाहते ऋ ॠ
इत्यत्रहि इ ई इत्यनुगमो भास्वररूप रेफश्रुत्यनुगमश्च कथमपह्नूयताम्
यथाह भगवान्पुष्पदन्तः
रश्रुतिसामान्याद्वा सिद्धम्
इति | शून्ये [एतदेव योगिनिदर्शनेन स्फुटयति शून्ये हीत्यादि |] हि निश्चले रूपे
अनुप्रविविक्षायां भास्वररूपसंवित्तिसोपानाक्रमणं स्थितमेव ततो
निश्चलरूपानुप्रवेशात् पार्थिवरूपसतत्त्वनिश्चलतात्मक-
लकार-श्रुत्यनुगमे ऌ ॡ इति तथा च पर्यन्ते ईशनरूपतैव
समग्रभावात्मस्वरूपोल्लङ्घनेन दीर्घतरं प्लुत्वा निश्चलां शून्यां
सत्तामेतिति -
प्. १७४)
प्लुतत्वमेति ऌवर्णस्य दीर्घा न सन्ति इति न्यायात् अवर्णादीनां तु दीर्घस्यैव
दीर्घतरता प्लुतत्वं तच्च प्राङ्नीत्या [आनन्दो ब्रह्मणो
रूपमित्यादिनीत्येत्यर्थः |] दीर्घत्वमेव पृथगपर्येषणीयम् इत्यास्तां
तावत् एतच्चतुष्कं शून्यरूपतानुप्रवेशात् दग्धबीजमिव षण्ठरूपं
भण्यते न तु सर्वथा बीजरूपत्वाभावात्
बीजयोन्यात्मकशिवशक्त्युभयातिरेकिणः [यदि हि बीजत्वं न स्यात् एषां तदा
तृतीयस्य कस्यचिद्व्यपदेशः स्यात् | क्षुभ्यति क्षोभयत्यपीति बीजत्वं
तत्रैष्वपि क्षोभोऽस्त्येव क्षोभणा तु नास्तीति सर्वथा बीजत्वाभाव इत्यर्थः |]
कस्यचिदप्यभावात् श्रीपूर्वादिशास्त्रेषु [तदभावश्च कथमित्यत आह
पूर्वादीति |] चानभिधानात् लौकिकसुखादिषु चैवंविधैव
विश्रान्तिरानन्दरूपेति तदेवामृतबीजचतुष्कमित्युक्तम् तदेवमिच्छेशनं
चानन्दवपुषि अनुत्तरपरधामनि च प्राग्भाविनि स्वरूपादप्रच्याविनि
अनुप्रविश्य अ आ इ ई इति च न तु विपर्यये यथोक्तम् अवर्ण इवर्णे ए इति अनुप्रवेशे
चानुत्तरपदानुप्रवेशे
प्. १७५)
स्यादपि कश्चिद्विशेषः आनन्दपदानुप्रवेशे हि स्फुटता
अनुत्तरधामसंभेदे तु सूक्ष्मता तदपेक्षया तथाहि भगवान्
भुजगविभुरादिशत्
छन्दोगानां सात्यमुग्रिराणायनीया
अर्धमेकारमर्धमोकारं चाधीयते |
इति | लोकेऽपि प्राकृतदेशभाषादौ स्फुट एव प्रचुरो निवेशः
पारमेश्वरेष्वपि एकारौकारयोरैकारौकारापेक्षया यत्
ह्रस्वत्वमङ्गवक्त्रादिविनियोगे दृश्यते तदेवमेव मन्तव्यम् - अय एकार अव
ओकाराभिप्रायेणैवम् - ए ओ इति बीजं स्थितम् एतदपि तथा शवलीभूतं
संविद्वपुः तथैव च तदेव रूपमनवसत् अ आ ए इति ऐ एवमुन्मेषेऽपि वाच्यम्
- अ आ उ ऊ इति ओ अ आ ओ इति औ केवलमुन्मेषो ज्ञानशक्त्यात्मा प्रसरन् यद्यपि
शून्यतावगाहनं कुर्यात् तथापि अस्येशनेच्छात्मकोभयरूपप्रवेश एव
शून्यता इच्छेशनयोस्तु स्वपरिवृत्तिरूपं नास्ति -
प्. १७६)
इत्युक्तनयेनैव स्थितिः एवमिच्छाज्ञाने अनुत्तरस्वरूपानुप्रवेशेन
प्राप्तोपचये पश्चात् परित्यज्य
तथाविधोपाधिपरिस्पन्दसत्तामभेदसत्तरोहणचिन्मयपुरुषतत्त्वसतत्त्ववेद
नारूपबिन्दुमात्रावशेषेण वपुषा तथानुत्तरपदलीने अमिति तथाहि औकारे
एव क्रियाशक्तिपरिस्पन्दः परिसमाप्यते इति - इच्छाज्ञानयोरत्रैवान्तर्भावात्
त्रिशूलरूपत्वमस्य षडर्धशास्त्रे निरूपितम्
* * * * * * * * * त्रिशूलेन चतुर्थकम् |
इत्यद्युद्देशेषु बिन्दुः [अत्रार्थोऽयम्
अत्र प्राकाशमात्रं यत् स्थिते धामत्रये सति |
उक्तं बिन्दुतया शास्त्रे शिवबिन्दुरसौ मतः ||
इति न्यायात् स्वभावाविशिष्टमपि यदा विश्वं स्वस्मात्
स्वस्मिन्नेवैक्यगमनाय विसृजति तदा शक्तिमद्रूपप्राधान्यं
पूर्णतावेशलक्षणं शांभवं तत्त्वमित्युक्तम् |]
पुनर्वेदनामात्रशेषतैव सर्वस्य वेदनामात्राविशेषमपि विश्वं यदा
स्वात्मन्येकगमनाय विसृजति स्वात्मनश्च सकाशात् तन्निर्माणेन
प्. १७७)
विसृजति स एव परमेश्वरः प्रथमं शक्तिमद्रूपप्रधानतया इदानीं तु
शाक्तविसर्गप्रधानतया अः इति औकारपर्यन्ते हि निर्भरीभूते
क्रियाशक्तिप्रसरे एतावदनुप्रविष्टमनुत्तरपदस्य भैरवभट्टारकस्य
स्वरूपसतत्त्वस्य इच्छा
[इच्छाज्ञानक्रियाशक्तिनामकं त्रितयं खलु |
परमेश्वरस्वातन्त्र्यस्व्यापकं कथितं परे ||
इच्छाशक्ताविध्यमाणं विश्वं जातं यदैव हि |
ज्ञानशक्रिरभिव्यक्तिकारणं तस्य ब्रूमहे ||
क्रियाशक्तिर्बाह्यरूपपरिस्फुरणकारणम् |
एकमेव हि स्वातन्त्र्यमादिमध्यान्तभेदभाक् ||
तेन नैषां पृथङ्नाम कदाचिदपि लभ्यते |
तत्र स्फुटप्रतीत्यर्थं यथा मूल एव उल्लिलसिवेत्यादि |] -ज्ञान-
क्रियात्मकशक्तिपरिस्पन्दादिमध्यान्तभागाः उल्लिलसिषा-उल्लसत्ता-
उल्लसिततास्वभावाः
सूक्ष्मतमप्रसंख्यानगृहीततावद्भूमिकाधिरूढयोगिजनस्फुट-
लक्षणीयाः [प्रसंख्यानं समाधिः |] श्रीस्वच्छन्दादिप्रक्रियाशास्त्रेषु
प्रबुद्धप्रसरणावरणादिरूपत्वेनोक्ताः [प्रबुद्धेति इच्छा प्रसरणेति
ज्ञानं आवरणेति क्रिया |] अत एव शिवदृष्टिशास्त्रे सप्तमाह्निके
प्. १७८)
सुनिर्भरतराह्लादभरिताकाररूपिणि |
निलीनशक्तित्रितये परात्मन्यनुभावनात् ||
इत्यादि
तस्यापि शक्तिर्मृत्पिण्डघटवद्विश्वरूपताम् |
गता * * * * * * * * * * * * * * ||
इत्यन्तं निरूप्य
एकमेव हि तत्तत्त्वं न संख्यातोऽतिरिक्तता |
इति यच्छिवतत्त्वमेव
अनन्तविचित्रस्वातन्त्र्यस्फारस्फुरणशक्तिचमत्कारभरिततोपात्तभैरव-
भावं निर्णीतमृ तत्रायमेवोक्तक्रमः संप्रदायप्रथमाह्निकेऽपि
स यदास्ते [शिवैक्याख्यातिरूपभ्रान्तिमयसंसारावस्था यावन्नोन्मिषति
तावदपि तावदस्त्येवोक्तरूपशिवता तथा च शक्तिपञ्चकमपि
तदानीमेकरूपमपि व्यवहारापेक्षया कार्यवशादस्त्येव तथाहि
परापरावस्थायां योऽहमिति सहजप्रत्यवमर्शात्मा प्रकाशः स एव
परानपेक्षत्वादानन्दरूपो निर्वृतचिन्मयः स्थित एव तदुक्तं चिदाह्लादेति
पूर्णचिदानन्दमात्रेऽनुभवः प्रकाशनं न तु बाह्ये तत एव तत्रैव लयो
यस्य स तथा अनेन निर्वृतचित्कथिता इच्छाज्ञानक्रियास्तु
भिन्नविषयाद्यपेक्षया स्फुटीभवन्ति परावस्थायां पुनः
पूर्णोऽहमित्येव प्रकाशते - तावत्प्रकाशत्वात् तदेव ज्ञानं
संरम्भरूपत्वात् सैव क्रिया तत्स्वभावेन तदभ्युपगमादिच्छापि
स्थितैवेत्याह तदिच्छा तावतीति तावच्च स्वरूपं क्रियेति योज्यम् |
भिन्नविषयाद्यभावेऽपि अभ्युपगमप्रकाशसंरम्भाणां सर्वदा
प्रकाशमयत्वेनाविचलनात् इच्छादिव्यवहारयोग्यतैवेत्युक्तं सुसूक्ष्मेति
सुसूक्ष्मत्वमेषितव्याद्यविभागेन विभागापरिकल्पनात् अत एव
शक्तिसामरस्यं पूर्णचिन्मात्रप्रकाशतात्मत्वात् चिद्रूपाह्लादपरत्वं
चोक्तमिति
चिदभेदाख्यातिवैचित्र्यभिन्नघटदेवदत्तात्मकवेद्यवेदकावभासनं
नामरूपं पूर्वापरीभूतावयवा क्रियेत्यर्थः |]
चिदाह्लादमात्रानुभवतल्लयः |
तदिच्छा तावती तावज्ज्ञानं तावत्क्रिया हि सा ||
प्. १७९)
सुसूक्ष्मशक्तित्रितयसामरस्येन वर्तते |
चिद्रूपाह्लादपरमो निर्विभागः परः सदा ||
इति | तथा घटम्
घटादिग्रहकालेऽपि घटं जानाति यावसा |
जानाति ज्ञानमत्रैव [अत्रैवेति क्रियायां |] निरिच्छोर्वेदनक्षतिः ||
औन्मुख्याभावतस्तस्य [इच्छापूर्वभाग औन्मुख्यम् |] निवृत्तिर्निर्वृतिं विना
[विनेति - संविन्निष्ठत्वाद्विषयव्यवस्थितीनामिति |] |
द्वेष्ये प्रवर्तते नैव न च वेत्ति विना चितिम् ||
इति | तथा
प्. १८०)
यत इच्छति तज्ज्ञातुं कर्तुं वा सेच्छया क्रिया |
तस्याः पूर्वापरौ भागौ कल्पनीयौ पुरा हि या ||
तत्कर्मनिर्वृतिप्राप्तिरौन्मुख्यं तद्विकासिता |
न चौन्मुख्यप्रसङ्गेन [अत्र स्फुटीकरणार्थं निदर्शनेन
शिवदृष्टावौन्मुख्यं साधितम् | यथा
गच्छतो निस्तरङ्गस्य जलस्यातितरङ्गिताम् |
आरम्भे दृष्टिमापात्य तदौन्मुख्यं हि गम्यते ||
व्रजतो मुष्टितां पाणेः पूर्वः कम्पस्तदेक्ष्यते |
बोधस्य स्वात्मनिष्ठस्य रचनां प्रति निर्वृतिः ||
तदास्था प्रविकासो यस्तदौन्मुख्यं प्रचक्षते |
किंचिदुच्छूनता सैव महद्भिः कैश्चिदिष्यते ||
तस्येच्छा कार्यतां याता यया सेच्छः प्रजायते |
औन्मुख्यस्य य आभोगः स्थूलः सेच्छा व्यवस्थिता ||
इति |] शिवः स्थूलत्वभाक् क्वचित् |
इत्यादि एतदागमसर्वस्वप्राणतयैव युक्तियुक्ततया हृदयंगमीकृतं स एष
[स एषेति शक्तिविसर्गयुक्तो विश्वं निर्मिणोतीति यथोक्तम्
अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा |
सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् ||
इति | तथा
कला सप्तदशी तस्मादमृताकाररूपिणी |
परापरस्वस्वरूपबिन्दुगत्या विसर्पिता ||
प्रकाशः सर्ववस्तूनां विसर्गरहिता तु सा |
शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा |
विसर्गप्रान्तदेशे तु परा कुण्डलिनीति च ||
इति |] परमेश्वरो विसृजति
प्. १८१)
विश्वं तच्च धरादिशक्त्यन्तं कादि-क्षान्तरूपम् - इति एतावती
विसर्गशक्तिः षोडशी कला इति गीयते
पुरुषे षोडशकले तामाहुरमृतां [षोडशानामपि
कलानामाप्यायकारित्वात् नित्योदितत्वेन चानन्तमितत्वादमृतामिति |] कलाम् |
इत्येषा हि न सांख्येया नापि वैदान्तिकी दृक् अपि तु शैव्येव [शैव्येवेति
स्वात्मनः स्वात्मनि स्वात्मक्षेपे वैसर्गिकी स्थितिः |
इति |] विसर्गशक्तिरेव च पारमेश्वरी परमानन्दभूमिबीजम् [यदुक्तं
सिद्धयोगीश्वरे मते
सान्न कुण्डलिनी बीजं प्राणभूता चिदात्मिका |
तज्जं ध्रुवेच्छोन्मेषाख्यं त्रिकं वर्णास्ततः पुनः ||
इति |] एवं हि अकारादिरूपं
प्. १८२)
घनतापत्त्या योनिरूपतां गृहीत्वा स्वरूपाप्रच्युतं तदेव स्वस्वरूपं
एव योनिरूपे संक्रामद्विसर्गपदमित्युच्यते यथोक्तम्
स विसर्गो महादेवि यत्र विश्रान्तिमृच्छति |
गुरुवक्त्रं तदेवोक्तं शक्तिचक्रं तदुच्यते ||
इत्यादि अकारस्यैव घनता कवर्गः कण्ठ्यत्वात् [यदुक्तम्
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा |
जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ||
इति | तद्यथा अकुहविसर्गाः कण्ठ्याः | इचुयशास्तालव्याः | ऋटुरधा
मूर्धन्याः | ऌतुलसा दन्त्याः | उपूपध्मानीया ओष्ठ्याः |
ञमनणङानासिक्याः | एदैतौ कण्ठतालब्यौ | ओदौतौ कण्ठौष्ठ्यौ |
जिह्वामूलीयमेव जिह्वामूल्यम् | अनुसारो नासिक्यः इति |] इकारस्य चवर्गः -
तालव्यत्वात् उकारस्य पवर्गः - औष्ठ्यत्वात् ऋकारस्य टवर्गो - मूर्धन्यत्वात्
ऌकारस्य तवर्गो - दन्त्यत्वात् यशौ चवर्गस्यान्तः रशौ टवर्गस्य लसौ
तवर्गस्य वकारोऽपि तपवर्गयोः
प्. १८३)
घनता अबोधस्यामूर्तस्यापि [अबोधत्वं स्वातन्त्र्यराहित्येन यदुक्तम्
मायोपरिमहामाया तत्र च विज्ञानकेवलिनां स्थितिः ते च निरुक्त्या
विज्ञानं बोधात्मकं केवलं स्वातन्त्र्यविरहितं रूपं यथा च
प्रत्यभिज्ञायाम्
शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता |
निर्मिता स्वात्मनो भिन्ना भत्रा ते कर्तृतात्ययात् ||
इति |] चिन्मात्रस्यापि क्रियाशक्तिरूपतैव सा चोक्तनीत्या
शक्तिषट्कक्रमेणैवोपजायते - तेन पञ्च प्रसृताः षड्गुणिताः त्रिंशत्
षद्भिः सह षट्त्रिंशत् भवन्तीति तदेवं शिवबीजमेव स्वातन्त्र्यात्
घनीभूततया क्वचिद्वपुषि शाक्तरूपे कुसुमतया तिष्ठत् योनिरित्यभिधीयते
तदेव हि पुष्पं पूर्वोक्तनयेन ग्राह्यग्रहणग्राहककोणत्रयमयं
वस्तुतः प्रसूतिपदं बीजसंमिश्रतयैव भवति - तदैव पुष्परूपत्वात्
अन्यदा [अन्यदेति इदंप्रथायाम् |] तु योग्यतयैव तथाव्यपदेशः [तथेति
योनितया |] तथा च तत् कुसुममेव त्रिकोणतया योनिरूपं
प्. १८४)
तत्स्फुटीभूतविभक्तग्राह्यादिरूपसोमसूर्याग्निसृष्टिस्थितिसंहृति
इडापिङ्गलासुषुम्नाधर्माधर्मशवलादिकोणत्रितया पारमेश्वरी भैरवी
भट्टारिका मुद्रा तद्रूपयोन्याधारतया योनिरिति निर्दिष्टा तथा च
श्रीकुब्जिकामते खण्डचक्रविचारे अमुमेवार्थं
प्रधानतयाधिकृत्यादिष्टम्
मायोपरिमहामाया त्रिकोणानन्दरूपिणी |
इत्यादि अत एव तथाविधबीजकुसुमैकघनभावशिवशक्तिसंघट्टः स्वयं
स्वात्मनैव पूज्य इत्युपदिष्टम् श्रीत्रिकतन्त्रसारे
शिवशक्तिसमापत्त्या शिवशक्तिघनात्मकः |
शिवशक्तिसमापत्तित्रिकं संपूजयेत्परम् ||
इति | एवं च घनीभावोऽपि वैखरीरूपे यद्यपि स्फुटीभवति तथापि
सर्वसर्वात्मनि परावाग्वपुषि मुख्यतयावतिष्ठते तत्र परं
कण्ठोष्ठस्थानकरणान्यपि सर्वसर्वात्मकमेव इति विशेषः तथाहि अन्तरपि
संजल्पेत् पश्येदिति स्फुट
प्. १८५)
एवानुभवः [न हि दृष्टे नामानुपपत्तिरित्यर्थः |] भेदश्च स्थानादिकृत एव
- श्रूत्येकप्राणत्वात् वर्णानां किं बहुना बालोऽपि व्युत्पाद्यमानोऽन्तः
तथारूपतया [तथेति संजल्परूपतया |] विमृशति भावजातं विपर्ययेण
[मिथ्याज्ञानं विपर्ययः एकस्मिन् धर्मिणि विरुद्धनानावमर्शः
संशयः |] संशयेनापि वा विमृशत्यवच्छेदं तावत्संवेदयत एव स च
वाग्विमर्शकृत एव अत एव संवारविवाराल्पप्राणमहाप्रा [स एव प्राणो
नाम वायुरूर्ध्वमाक्रामन् मूर्ध्नि प्रतिहतो निवृत्तो यदा कोष्ठमभिहन्ति
कोष्ठेऽभिहन्यमाने मनाक् गलबिलस्य संवृतत्वात् संवारो वर्णधर्म
उपजायते विवृतत्वाद्विवारः संवृतो गलबिले नादः अव्यक्तश्च नादः
विवृतश्वासे उपरिवर्ती तौ श्वासनादावनुप्रदानमित्याचक्षते -
वर्णनिष्पत्तेरनु पश्चात् प्रदीयते इति अनुप्रदानम् | अन्ये तु ब्रुवते
अनुप्रदानमनुस्वानो घण्टानिनादवत् यथा
घण्टानिनादोऽनुस्वानमनुभवति तथा तत्र स्थानाभिघातजे ध्वनौ
नादोऽनुप्रदीयते तदा नादध्वनिसंसर्गात् घोषो जायते यदा
श्वासोऽनुप्रदीयते तदा श्वासध्वनिसंसर्गादघोषः | महति वायौ
महाप्राणः | अल्पे वायौ त्वल्पप्राणः | सिद्धान्तकौमुद्यां वर्णानां
बाह्यत्वं साधितं यथा - बाह्यप्रयत्ना अष्टौ इति महाभाष्ये तद्यथा -
विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण इति | तत्र
विभागो यथा - ख फ छ ठ थ च ट त क प श प सा विवाराः श्वासा
अघोषाश्च | ह य व र ल ञ म ङ ण न झ भ घ द ध ज ब ग ड दाः
संवारा नादा घोषाश्च | वर्गाणां प्रथमतृतीयपञ्चमा यरलवाश्च
अल्पप्राणाः वर्गाणां द्वितीयचतुर्थौ ऽस ष स हाश्च महाप्राणा इत्यर्थः
|] -
प्. १८६)
णताश्वासनादानुप्रदानादियोगोऽपि च अन्तस्तथा समुचितस्वभावः स्यादेव
अन्यथा सस्थानेषु भेदायोगात् अन्तर्हितकरणशक्तयोऽपि स्युरेव -
शृणोम्यश्रौषं पश्याम्यद्राक्षं संकल्पयामि समकल्पयमित्यादेरपि
संकल्पस्यान्यथावैचित्र्यायोगात् तदनया युक्त्या [अनुभवानुसारी तर्को
युक्तिः |] निभालितयान्तरधिकमधिकमनुप्रविश्य परिशीलयतां संविदं
यत्र सर्वसर्वात्मकबोधैकघनकण्ठौष्ठादिधाम्नि
तथाविधबोधैकघनविमर्शात्मकस्वातन्त्र्यसारमहामन्त्ररूप-
वर्णभट्टारकनिवेशः [यदुक्तं विरूपाक्षपञ्चाशिकायाम्
प्रत्यवमर्शात्मासौ चितिः परावाक्स्वरसवाहिनी या |
आद्यन्तप्रत्याहृतवर्णगणा सत्यहन्ता सा ||
इति | तथेश्वरप्रत्यभिज्ञायाम्
अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः |
नासौ विकल्पः * * * * * * * * * * * ||
इत्युक्तम् | अत्र व्याप्तिः बोधैकघनताभूमिः स्थानकरणवर्णाभावमयी
बोधैकरूपत्वात् निर्विकल्पावस्थावत् या हि स्थानकरणवर्णमयी न सा
बोधैकघनापि यथा विकल्पभूः अस्ति चेयं बोधैकघना तस्मात्
स्थानकरणवर्णमयी न भवतीति पञ्चावयवास्तर्केऽभ्युपगताः -
साहचर्यनियमो व्याप्तिः साध्यवत्तया पक्षवचनं प्रतिज्ञा
लिङ्गप्रतिपादकत्वं हेतुतं स्फुटप्रतीत्यै दृष्टान्तकथनमुदाहरणम्
पक्षे साधनोपसंहारो निगमनं पक्षे साध्योपसंहार उपनय इति |]
बोधैकघनतानिर्विशेषतायाम्
प्. १८७)
इदं स्थानम् इदं करणम् अयं वर्ण इति कथंकारं विभागः? इति चेत् -
यदेवं स्वातन्त्र्यं तथाविधे स्वात्मनि घटोऽयं सुखमिदं
ज्ञानमिदं ज्ञाताहम् इत्यवभासयति [अत्र सूक्ष्मबुद्धिवेवेच्योऽयं
भावः | तत्र प्रश्नोत्तरे इत्थम् -
नन्वनुत्तरतानन्दौ स्वात्मना भेदवर्जितौ |
कथमेतावतीमेतां वैचित्रीं स्वात्मनि श्रितौ ||
शृणु तावदयं संविन्नाथोऽपरिमितात्मकः |
अनन्तशक्तिवैचित्र्यलयोदयकलेश्वरः ||
अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः |
महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद् घटादिवत् ||
परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् |
जडाद्विलक्षणो बोधो यतो न परिमीयते ||
इति | ज्ञातेति
ज्ञेयाद्युपायसंघातनिरपेक्षैव संविदः |
स्थितिर्माताहमस्मीति ज्ञाता शास्त्रार्थविद्यया ||
इति |]
प्. १८८)
तस्यैवंविधचित्रतररूपावभासेन को वा कियान् वा प्रयासः अत एव सर्वे
पाषाणतरुतिर्यङ्मनुष्यदेव रुद्रकेवलिमन्त्र तदीशतन्महेशादिका एकैव
पराभट्टारिकाभूमिः सर्वसर्वात्मनैव परमेश्वररूपेणास्ते इति
तद्विचित्रस्थानादिसार्वात्म्यनिर्विशिष्टस्फुटास्फुटव्यक्ताव्यक्तादिरूप-शब्द्
अशरीरा मन्त्रवीर्यम् इति गीयते तथाहि वीणाविपञ्चीकच्छपिकामुरुजादिषु स
एव स्वनोऽन्यतोऽन्यतो देशादप्युद्भवन्नेकस्थान इति कथ्यते एवं
तारमध्यमन्द्रेष्वपि [यदुक्तं वर्णशिक्षायाम्
स प्राण उत्थितो नाभेरुरःकण्ठशिरोधृतः |
मृदुमध्योत्तमैर्याति मन्द्रादिध्वनिनादताम् ||
मन्द्रमध्यमतारैर्हि ध्वनिभिः सवनत्रये |
शंसन्ति शास्त्रे गायत्रं त्रैष्टुभं जागतं क्रमात् ||
इति |] तत्स्थायिस्वरैकात्म्येऽपि [यथा तारमध्यमन्द्रादिभेदेऽपि स्वर एक एव
स्थायिरूपः |] वाच्यम् अत एव [सर्वस्य सर्वात्मकत्वात् |] च स एव वर्णः
प्. १८९)
क्वचित्प्राणिनि स्थानान्तरसमुल्लास्यपि भवति यथा ध्वांक्षेषु
ककारटकाररेफा उच्चरन्तः सर्व एवोदरपायुकण्ठतालुनिर्वर्त्या
उपलभ्यन्ते अव्यक्तत्वेऽपि [ननु च ते हि ककाराद्या अव्यक्तत्वान्न
कण्ठादिस्थानोच्चार्यकादितुल्या इत्यत आहाव्यक्तत्वेऽपीति] त एव तावन्तः
शब्दत्वात् शब्दस्य च मातृकातिरेकिणोऽभावात् मातृकातिरेक्यपि अव्यक्तः
शब्दोऽनुपयोगान्न संगृहीतः इत्यप्ययुक्तम् [अथ चोपयोगे सति सर्वं
सुस्थं मातृकया च सर्वथोपयोग इत्युक्त्या ध्वांक्षादिषु हि ककाराद्या
विजातीयाः सन्तोऽपि अनुपयोगान्नोक्ता इति मातृकातिरेकी
शब्दोऽवश्यमभ्युपगन्तव्य इति कथं त एवेति कथनमित्यत आह
इत्यप्ययुक्तमिति |] अव्यक्तवर्णरूपस्यापि [दण्डापूपन्यायोऽत्र बोध्यः |]
मौरुजसामुद्रादिध्वनितस्य ह्लादपरितापकारित्वमपि अस्त्येव - इति
कोऽन्योऽभिमत उपयोगः पारमेश्वरेऽपि अव्यक्तध्वनेर्मुख्यतयैव
प्रायशो मन्त्रत्वं निरूपितम् - अर्धचन्द्रादीनामेव
मन्त्रव्याप्तिसारत्वेनाभिधानात् तत्र च
प्. १९०)
निरोधिनीमनुप्राप्तः शब्दः शुभशुभायते |
इत्याद्युक्तम् - घण्टाकांस्यादिध्वनीनां श्रोत्रघट्टनादीनां च
नादोपदेशे निरूपणात्
हयो हेषति यद्वच्च दान्त उद्रवतीव च |
सिंहो गर्जति यद्वच्च उष्ट्रः सीत्कुरुते यथा ||
तथोदीर्य पशोः प्राणानाकर्षन्ति बलाधिकाः |
महामन्त्रप्रयोगोऽयमसाध्याकृष्टिकर्मणि ||
इत्युक्तं गुह्ययोगिनीतन्त्रे तत्रोपायमात्रमेतत् | वस्तुतस्तु आन्तर एवासौ
नादात्मा मन्त्र इति तु कथ्यमानं भवद्भिरपि अस्माभिरपि
व्यक्तवर्णमालादिमन्त्रेष्वपि न न संचारयितुं शक्यते तस्मात् अव्यक्तो
वर्णात्मैव शब्दो यथा विदूरगतोऽपि घटो घट एव इति स्थितं स [स चेति
वर्णात्मा शब्दः] च प्राणभीर्यादिभेदेन स्थानान्तरमपि अनुसरन् स
एवेत्यपि स्थितम् अत एवेदानीं सर्वभूतरुतज्ञानं यच्छेषमुनिना
भगवतोपदिष्टं तद्धृदयंगमीभूतम् अन्यथा शब्दार्थप्रत्ययानां
य इतरेतराध्यासो
प्. १९१)
यच्च ध्यानधारणासमाधिसंयमेन [तन्त्रयमेकत्र संयम इति
संयमलक्षणम् |] तत्प्रविभागपर्यन्तपरलाभः स
कथमस्फुटवर्णरूपत्वातिरेकिविहगादिकूजितज्ञानाय पर्यवस्येत् यदा तु त
एव वर्णा वर्णानामेव परमार्थतोऽर्थतादात्म्यलक्षणं वाचकत्वं
तदा युक्त्या त एव विहगादिरुतज्ञानं भीर्यादिशब्दा अपि हि अर्थवन्त एव -
जयाजयसूचकतयोपदेशात् विहगादिरुतवत् तदभिप्रायेणैव
शिक्षासूत्रकरसूत्राणि हविसर्जनीयावुरस्यावेकेषां [यदुक्तम्
हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् |
उरस्यं तं विजानीयात् कण्ठ्यमाहुरसंयुतम् ||
इत्यादि | तथा
कण्ठोक्तहविसर्गाणां स्वैर्भागैः स्थानमिष्यते |
हविसर्गापुरःस्थौ हि कण्ठाधोभागजौ मतौ ||
इति |] रदनमूलमेकेषाम् इत्यादीनि वाचकीभवन्ति न तु अपरथा कथं चिदपि
अत एव किंचिद्वैचित्र्यमालम्ब्यान्यत्वम् अन्यत्वं चाशङ्कमानैः
विसर्जनीयाज्जिह्वा -
प्. १९२)
मूलीयोपध्मानीयौ अनुनासिकेभ्यः पञ्चयमान् [ङुं ञुं णुं नुं
मुमित्येवंरूपान् |] डकारढकारयरलवक्षकारेभ्यः तानेव
लघुप्रयत्नतरान् [यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं
जायते स लघु प्रयत्नतरः इति |] भेदेनाभिमन्य चतुःषष्टिर्वर्णा उक्ताः
अन्यत्वं [यदुक्तं साम्बपञ्चाशिकायां
या सा मित्रावरुणसदनादुच्चरन्ती त्रिषष्टिं
वर्णानत्र प्रकटकरणैः प्राणसङ्गप्रसूतान् |
तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां
वाचं वक्त्रे करणविशदां वैखरीं च प्रपद्ये ||
इति |] चात्र स्वरव्यञ्जनयोरिव ऋवर्ण-रशब्दयोः श्रीत्रिकरत्नकुलेऽपि उक्तम् -
अष्टाष्टकविभेदेन मातृका या निरूपिता |
तदेव कुलचक्रं तु तेन व्याप्तमिदं जगत् ||
इति मातृकाज्ञानभेदे विस्तरतो निरूपितमेतत् [तदुक्तम्
इच्छा कामो विषं ज्ञानं क्रिया देवी निरञ्जनम् |
एतत्रयसमावेशः शिवो भैरव उच्यते ||
कामस्य पूर्णता तत्त्वं संघटे प्रविभाष्यते |
विषस्य चामृतं तत्त्वं छाद्यत्वेऽणोश्च्युते सति ||
इति अमृतमिति विकासदशामयमित्यर्थः |]
प्. १९३)
इह तु तत्प्रक्रियानभिनिवेशः - पूर्णतैकसारत्वात् तदेवं
सर्वत्रायमीदृशः संविदनुप्रवेशक्रमः पदार्थः संकल्प्यमानः
साक्षात् क्रियमाणो वा
मायीयासांकेतिकस्वरूपभूतशुद्धविमर्शात्मपरवाङ्मन्त्रमहा-
महसि तावत् प्रतिष्ठां भजते यत्र सर्ववादिभिरविकल्पा दशा गीयते ततश्च
परमन्त्रमहापृथिव्यादौ
शुद्धव्यामिश्रादिपारमार्थिकबीजपिण्डरूपकादिवर्णात्मकमेव अन्यथा
मेरुबदरजलज्वलनभावाभावघटसुखनिर्विकल्पज्ञानानि - इत्येकमेव
सर्वं स्यात् विकल्पोऽपि तत्प्रमादोत्थः तामेव सरणिमनुसरेत् न तु प्रत्युत
तत्स्वरूपं भिन्द्यात् तथा च यदेव तदसांकेतिकं मन्त्रवपुः तदेव
अन्योन्यविचित्ररूपं पश्यद्भिः सर्वज्ञैः संकेतोपायमुपास्यतया
उपदिश्यते [ यथा - ईश्वर उवाच
कथयामि वरारोहे यन्मया जप्यते सदा |
अकारादिक्षकारान्ता मातृका वर्णरूपिणी ||
चतुर्दशस्वरोपेता बिन्दुत्रयविभूषिता |
कलामण्डलमास्थाय शक्तिरूपं महेश्वरि ||
ककारादिक्षकारान्ता वर्णास्तु शक्तिरूपिणः |
व्यञ्जनत्वात्सदानन्दोच्चारणं सहते यतः ||
उच्चारे स्वरसंभिन्नास्ततो देवि न संशयः |
पञ्चाशद्वर्णभेदेन शब्दाख्यं वस्तु सुव्रते ||
अकारः प्रथमं देवि क्षकारोऽन्त्यस्ततः परम् |
अक्षमालेति विख्याता मातृकावर्णरूपिणी ||
शब्दब्रह्मस्वरूपेयं शब्दातीतं तु जप्यते |
शब्दातीतं परं धाम गणनारहितं सदा ||
आत्मस्वरूपं जानीहि ईशस्तु परमेश्वरः |
इति |] -
प्. १९४)
तत्रैव चासांकेतिके वाङ्महसि तथा खलु मायीयाः संकेताः पतन्ति यथा
त एवामायीयासंकेतितमन्त्रतादात्म्यं प्रतिपद्यन्ते तथा
स्वरूपप्रतिपत्तिरेव हि तेषां वाचकताभावो नान्यः कश्चित् [अन्यथा हि
वाच्येभ्यः को वाचकस्य विशेष इति तात्पर्यम्] अत्र
स्फुटमभिज्ञानमभ्यासवशात् असांकेतिकतामापन्ने
चिरतरपूर्ववृत्तगोशब्दपरामर्शः तथैव संकेतकाले गोपरामर्शोऽपि
अन्यामायीयासांकेतिकपरामर्शधामन्येव निपतति
प्. १९५)
यावत् बालस्यापि जन्मान्तरानुसरणेऽपि चित्स्वभावस्यादौ स्थितैवासांकेतिकी
सत्ता - अन्यथानवस्थानात् एवमेव खलु संकेतग्रहणोपपत्तिः नान्यथा
इतीश्वरप्रत्यभिज्ञाटीकायामपि श्रीमदुत्पलदेवपादैर्निर्णीतम् अत्र
चानुप्रवेशयुक्तिः
पश्यत्यन्यच्छृणोत्यन्यत्करोत्यन्यच्च जल्पति |
चिन्तयत्यन्यदा भुङ्क्ते तत्र सांकेतिकी स्थितिः ||
इति भट्टारकश्रीश्रीकण्ठापादाः
मनोऽप्यन्यत्र निक्षिप्तं वक्षुरन्यत्र पातितम्
इत्याद्यप्यवोचन् तदप्यसांकेतिकमन्त्रवपुः [तदिति सांकेतिकमपि संकेतस्य
हि पारमार्थिकतयाऽसंकेतिकमेवोत्पत्तिस्थानम् इति |]
स्वबीजमनुधावदनुत्तरपदपर्यवसायि भवति तदप्यनुत्तरपदं
सत्तथाविधानन्तसमुदायवैचित्र्यसंरम्भसारं विसर्गदृष्ट्या
प्रसरदेव विसर्गस्यैव हकलापर्यन्ततया प्रसरात् तस्या अपि हकारा-
प्. १९६)
ख्यशक्तिकुण्डलिन्याः [यथोक्तं देवीस्तुतौ श्रीपञ्चस्तव्यां प्रथमे स्तवे
या मात्रा त्रपुसीलतातनुलसत्तन्तूत्थितिस्पर्धिनी |
वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् |
शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमा
ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नराः ||
इति | अयमत्र भावः - मात्रेत्यनुस्वानरूपा कुण्डलिन्यपि
विसतन्त्वाभाध्येयेति तथैव चानवधानतायां विश्वजननेति
शक्तिपातानुविद्धेन तु ज्ञातस्वरूपा मोक्षदेत्याह ज्ञात्वेत्थमिति तथा
मात्रा सूक्ष्मतमानुत्तररूपा कौलिकीशक्तियोगात् प्रसरन्ती हकाराख्येति
अथ वा तामधिष्ठाय शक्तिः कुण्डलिनी विश्वजननव्यापारबद्धोद्यमेति
मन्महे |] स्वरूपाभेदात्मकबिन्दुस्वरूपधारणा - अनुत्तरपद एव
संक्रमात् स्वरूप एव विश्राम्यति एकाक्षरसंवित् [एका चासावक्षरा चासौ
संविदित्येकाक्षरसंवित् कर्मधारय इति पुंवद्भावः किलेत्यविप्रतिपत्तौ
व्यक्तिप्रतिषेधे जात्यनुगम इति न्यायेन देशकालकलनापि तन्मययेवेति एका
सर्वव्याप्त्रीत्यर्थः |] किल स्वरूपत एव
देशकालकलनोपादानादिनैरपेक्ष्येणैव प्रागुक्तपूर्णतत्त्वतानयेन
[यदुक्तं पूर्णतत्त्वेति पूर्णत्वं हि एतदेव - यद्देशकालादियोगित्वम् |
यदुक्तं
न तैर्ज्ञातं तत्स्वरूपं ये त्वेवं मन्वते बुधाः |
देशकालाद्यवछेदरहितं परमं पदम् |
इति | तथा च हरिणा
दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये |
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ||
इति | विसर्गभूमाविति शांभवविसर्गे |] झगिति विसर्गभूमौ धावति
प्. १९७)
विसर्गभूमिश्लेष एव
आनन्देच्छेशनोन्मेषतत्प्रसृतितद्वैचित्र्यक्रियाशक्तिमयानाम् आकारादीनां
स्थितिः स [स एवेति - शक्तिविसर्गः |] एव विसर्गः स्वसत्तानान्तरीयकतयैव
तथैवातिभरितया सत्तया प्रसरन् द्रागित्येव हकलामयः [यदुक्तम्
विसर्ग एवमुत्कृष्ट आश्यानत्वमुपागतः |
हंसः प्राणो व्यञ्जनं च स्पर्शश्च परिभाष्यते ||
इति |] संपद्यते हकलामयतासंपत्तिरेव वस्तुतः
कादिसत्तानन्ततत्त्वजालस्थितिः हकलैव च पुनरपि
बिन्दावनुप्रविशन्त्यनुत्तरपद एव पर्यवस्यति - इत्येकैवाद्वयपरिपूर्णरूपा
संवेदनसत्ताभट्टारिकेयं परा भगवती परमेश्वरी न त्वत्र
क्रमादियोगः कश्चित् [यदुक्तं तन्त्रालोके
पाकादिस्तु क्रिया कालपरिच्छेदात्क्रमोचिता |
मतान्त्यक्षणबन्ध्यापि न पाकत्वं प्रपद्यते |
इति | ईश्वरप्रत्यभिज्ञायाम्
सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः |
घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव ||
इति |] तदे
प्. १९८)
तदुच्यते अहमिति विपर्यये तु संहृतौ अह् अं इति द्वैधमपि च इयमेकैव वस्तुतः
संवित् एवमेष स सर्वत्र घटसुखादिप्रकाशेऽपि
स्वात्मविश्रान्तिसर्वस्वभूतोऽहंभावः यथोक्तं
प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः |
इति | स च वस्तुतः सर्वात्मकः - समनन्तरनिर्णीतनीत्या इति
पराभट्टारिकानुविद्धो भैरवात्मक एव यथोक्तं मयैव स्तोत्रे
विश्वत्र भावपटले परिजृम्भमाण-
विच्छेदशून्यपरमार्थचमत्कृतिर्या |
तां पूर्णवृत्त्यहमिति प्रथनस्वभावां
स्वात्मस्थितिं स्वरसतः प्रणमामि देवीम् ||
इति | एष एव श्रीवामनविरचिते अद्वयसंपत्तिवार्तिके उपदेशनयो बोद्धव्यः
तेन स्थितमेतत् - अकार एव सर्वाढ्यो यत्रापि हर्षघटनीलादौ
प्. १९९)
हकाराद्या अपि वर्णाः तत्रापि तथाविधानन्तनिजपूर्वापरवर्णसमाक्षेप
एव अन्यथा तस्यैव हादेः समुदायायोगान्ते
परमाक्षिप्यमाणत्वादेवान्तर्निलीना विकल्पगोचरत्वमप्राप्ताः अत एव
सर्वत्र विज्ञाने सर्वा एव देवताः सममेव समुदायं दधत्यश्चित्रां
संवित्तिवृत्तिं वर्तयन्ति तदनेनैवाशयेन कालाधिकारादावेकस्मिन्नेव
प्राणे प्राणषोडशांशेऽपि वा षष्टितद्द्विगुणाद्यब्दोदयपूर्वकं
मातृरुद्रलोकपालग्रहनागादीनामुदयप्रलयाश्चित्रा निरूपिताः तत्
चित्रानन्तोदयप्रलयसमय एव द्वितीयेऽपि प्राणचारादित्यकालकलितत्वमेव
तत्त्वं - वस्तुतः परमार्थः यदि परमेतावन्मात्रं
मायीयाध्यवसायानध्यवसेयमिति नास्तिताभिमानकारि परसंविदि तु
तत्कालं भासते एव अत एवैकस्यामेव ज्ञानकलनायां
पश्यत्यन्यद्विकल्पयत्यन्त्यत् इत्याद्युपदेशेन यदुक्तं
देवतात्रयाधिष्ठानं तत्सर्वत्रैवानपायि
प्. २००)
सर्वाण्येव च संवेदनानि वस्तुतोऽहमितिपरमार्थानि विमर्शमयान्येव
तदेवं स्थितम् - एतद्विश्वमन्तःस्थितमानन्दशक्तिभरितो वमन् ग्रसमानश्च
विसर्ग एव परमेश्वरो घनीभूय हकारात्मतां
प्रतिपद्यानन्तसंयोगवैचित्र्येण क्षरूपतामप्येति [क्षरूपतामिति - ककार-
सकार-अकार-विसर्गात्मकताम् |] स एवैष
दूत्यात्मकशाक्तयोनिसघट्टसंमुचितवर्णात्मकक्षोभरूपानाहतनादद्
अशाश्रयणेन [दूतीति
योक्ता संवत्सरात्सिद्धिरिह पुंसां भयात्मनाम् |
सा सिद्धिस्तत्त्वनिष्ठानां स्त्रीणां द्वादशभिर्दिनैः ||
अतः सरूपां सुभगां सुरूपां भाविताशयाम् |
आदाय योषितं कुर्याद्यजनं पूजनं हुतम् ||
स्त्रीमुखाद्भाहयेदादौ स्त्रीमुखे निक्षिपेत्पुनः |
इति कुलप्रक्रियायाम् |] मध्यमसौषुम्नपदोच्छलत्तत्तदनन्तभावपटलात्मा
विसर्गो विश्लिष्यन् ध्रुवधाम्नि अनुत्तरपद एव प्रविशति इति प्रागपि उक्तमेतत् |
अमी चाकाराद्याः स्थितिमन्तः प्राणे तुटिषोडशकादिस्थित्या एकां तुटिं
संधीकृत्यार्धार्धभागेन
प्. २०१)
प्रलयोदययोर्बहिरपि पञ्चदशदिनात्मककालरूपतां तन्वते इति - तिथयः
कलाश्चोक्ताः षोडश्येव च कला विसर्गात्मा विश्लिष्यन्ती सप्तदशी कला
श्रीलाद्यादिशास्त्रेषु निरूपिता
सा तु सप्तदशी देवी हकारार्धार्धरूपिणी |
इति | विसर्गस्य हकारार्धत्वात् ततोऽपि विश्लेषस्यार्धत्वादिति
निरवयवस्यैकवर्णस्य कथमेषा विकल्पना? इति चेत् - अस्मत्पक्षे
सर्वमेवानवयवं चिन्मयैकावभासनानतिरेकात् तथापि च स्वातन्त्र्यादेव
अवयवावभासेऽपि अनवयवतैवानपायिनी तथा इहाषि अस्तु को विरोधः
एवमेव वर्णोपपत्तिः अपरथा दन्त्योष्ठ्यकण्ठ्यतालव्यादिवर्णेषु
क्रमप्रसारी पवन आघ्रातकः कथं कण्ठं हत्वा ताल्वाहन्ति - इति
युगपदापूरकत्वेऽपि समानकालता स्यात् यत्र कण्ठघातोत्थं रूपं तत्
तु ताल्वाहतिजं सर्वत्र संभवति श्वासनादयोश्च
पश्चात्प्रतीयमानतयानुप्रदानत्वमुच्यते
प्. २०२)
द्विमात्रत्रिमात्रेषु च द्विकादियोगो गर्भीकृत एकद्वयादिरेव तथैव
मात्रकेऽपि अर्धमात्रादियोगः संवेद्यः यथोक्तं भट्टनारायणेन
प्रणवोर्ध्वार्धमात्रातोऽप्यणवे महते नमः |
इति | इह तु पञ्चाशद्वर्णा विश्वमपि वा अक्रममेकमेव क्वचित्तु
मतादिशास्त्रेषु विसर्गविश्लेषस्यैव अनुत्तरपदसत्तालम्बनेनाष्टादशी कला
इत्यभ्युपगमः | तदेवमेताः कला एव ह्लादनामात्रचित्तवृत्त्यनुभावकाः
स्वरा इत्युक्ताः स्वरयन्ति [स्यू-शब्दोपतापनयोरिति धातोः |] शब्दयन्ति
सूचयन्ति चित्तं स्वं च [स्व-शब्दः आत्मात्मीयवचनः इति |] स्वरूपात्मानं
रान्ति एवम् इति परप्रमातरि संक्रामयन्तो ददति स्वं च आत्मीयं
कादिंयोनिरूपं रान्तिबहिः [रा-दाने इत्यस्य धातो रूपम् |] प्रकाशयन्तो
ददति इति स्वराः एत एव हि चित्तवृत्तिसूचका नादात्मकाः
करुणाशृङ्गारशान्तादिकां चित्तवृत्तिमाक्रन्दनचाटुकस्तुत्यादौ -
प्. २०३)
केवला वा योनिवर्णनिविष्टा वा तिर्यक्तत्तदहर्जातादिष्वपि प्रथमत
एवापतन्तः संकेतविघ्नादिनैरपेक्ष्येणैव संविदासन्नवर्तित्वात्
स्वरकाक्वादिरूपतामश्नुवानाः प्रकाशयन्ति इत्यर्थधर्मा उदात्तादयं
[उदात्तानुदात्तस्वरिताः इति | तत्र यदा सर्वाङ्गानुसारी प्रयत्नस्तीव्रो भवति
तदा गात्रस्य निग्रहः कण्ठविवरस्य चाणुत्वं स्वरस्य च
वायोस्तीव्रगतित्वाद्रौक्ष्यं भवति तमुदात्तमाचक्षते यदा तु मन्दप्रयत्नो
भवति तदा गात्रस्य स्रंसनं कण्ठविवरस्य महत्त्वं स्वरस्य च
वायोर्मन्दगतित्वात् स्निग्धता भवति तमनुदात्तमाचक्षते
उदात्तानुदात्तस्वरितसंनिकर्षात् स्वर इत्येवं लक्षणा बाह्याः प्रयत्नाः |
स्रंसनमिति शैथिल्यं स्निग्धता मृदुता कण्ठरन्ध्रस्य महत्त्वादेव
श्रीघ्रं वायुर्निष्कामन् जलावयवान्न शोधयति च अतः स्वरस्य स्निग्धता
भवति | कण्ठरन्ध्रस्याणुत्वादेव वायुः शनैर्निष्क्रामन् जलावयवान्
शोषयतीति रूक्षता - अस्निग्धता भवति महाभाष्ये
आयासो दारुण्यमणुता स्वस्येत्युक्षैः? करणानि शब्दस्य
आयासो गात्राणां दारुण्यं दारुणता स्वरस्य रूक्षता स्वस्य
कण्ठविवरस्य संवृतता |
अथ नीचैः करणानि शब्दस्य अन्ववसर्गो मार्दवमुरुता स्वस्येति
अन्वयसर्गो गात्राणां शिथिलता स्वरस्य मार्दवं महत्ता कण्ठविवरस्येति
अभ्याससमधिगम्यश्चासौ स्वरविशेषः षड्वादिवदिति श्रीकथ्यटः |
पाणिनिस्तु उचैरुदात्तः नीचैरनुदात्तः समाहारः स्वरित इत्याह |] उपदिष्टाः
तेषामेव चित्तवृत्त्यनुभावकषड्जादिस्वरूपत्वात्
प्. २०४)
एवं सर्वत्र संवेदने सर्वा एवैता वैचित्र्यचर्याचारचतुराः शक्तय
आदिक्षान्ताः समापतन्त्योऽहमहमिकया [यदुक्तम्
अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः ||
इति कोशे |] अक्रममेव भासमानाः कलनामयतयैव
ज्ञानक्रमसंक्रमणमेव दिश्यमानं देशमुत्थापयन्ति अन्यथा
मेरुपरमाण्वोरविशेषात् इति न्यायेन
गर्भीकृतदेशात्मकवैचित्र्यक्रियावैचित्र्यात्मकं क्रमरूपं [यदाहुः -
क्रमेणाक्रमेण भावानां परिच्छित्तिः कालः न चैतन्मन्तव्यं -
संविल्लग्ना एव भावा अवभासन्ते तत् कथं तदनुषक्तस्य भावजातस्य
कालयोग इति परमेश्वरे एव क्रमाक्रमस्यापि अन्तर्भाव इति | ननु यद्येवं
तर्हि परमेश्वरे कालयोगः स्यात्? न - इति मन्महे कुतः तन्नासनं च देवस्य
काली नाम शक्तिः यदुक्तं संविदेव प्रमेयेभ्यो विभक्तं रूपं गृह्णाति
अवच्छेदयोगाद्वेद्यतां यान्ती नभः ततः स्वातन्त्र्यात् मेये
स्वीकारौत्सुक्येन निपतन्ती क्रियाशक्तिः तत्र प्राच्यभागे कालाध्वा उत्तरे तु
देशाध्वेति | यदुक्तमीश्वरप्रत्यभिज्ञायाम्
मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ |
क्रियावैचित्र्यनिर्भासात् कालक्रममपीश्वरः ||
इति |] कालं बहिर्योजनयोल्लासयन्त्यः स्वात्मनि
प्. २०५)
युञ्जानत्वेन ग्रसमानाः प्रोल्लाससमयेऽपि [प्रोल्लाससमय इति आदौ हि
निस्तरङ्गजलधिप्रख्येऽनुत्तरात्मनि परस्मिन् विसर्गे प्रकाशैकघने
प्रथममुल्लसनशिलो व्यतिरिक्तविमृश्याभावात् चिद्विमर्शपरः
स्वात्ममात्रपरामर्शनतत्पराहंपरामर्शः स्फुरति स एव प्रोल्लाससमय
इत्युच्यते येनास्य सर्वत्रैव स्वातन्त्र्यमुदियात् | अयं भावः -
स्वस्वातन्त्र्यमाहात्म्यादेव हि अनुत्तरप्रकाशात्मा परमेश्वरः स्वं
स्वरूपं गोपयित्वा प्रमाणादिदशामधिशयानः
पृथग्भावजातमाभासयेत् तद्यथा स एव परः प्रकाशः
संकुचितप्रमातृभूमिकावभासनपुरःसरमुद्योगादिकलाचतुष्क-
मुत्थापयति तद्यथा उद्योगोऽर्थावविभासयिषा तत्र सक्तेन सदैव
बहिर्मुखेन द्वादशशण्ठवर्जमकारादिविसर्गान्ताः कलास्तत्स्वभावतया
प्राप्तपरिपूर्णस्वरूपेण प्रमाणात्मना सूर्येण एकैकं
भावमीषत्संकुचितेन नीलसुखादिना रूपेण भासयेत् बहिः सृजेत् पूरयेत्
तथात्वेनैव कंचित्कालं स्थापयेत् चर्चयेत् स्वात्मसात्कारेण
संहरेदित्यर्थः | यः कश्चनार्थक्रियार्थी हि प्रमाता
प्रमाणोपारूढमेवार्थजातं प्रथममालोचयेत् अनन्तरमिदमित्थम् इति
विकल्पयेत् तदनु ज्ञातोऽयं मयार्थः इति संतोषाभिमानात्
बहीरूपताविलापनेन स्वात्मन्येव विश्रामयेदित्यनुभवसाक्षिकोऽयमर्थः
| एवमाभासनादिरूपतामापन्नस्य भावजातस्य प्रभोपारोहानन्तरं
स्वेन रूपेणावभासमनस्य षोडशारबुद्धिन्द्रियादिकलाभिः
प्राप्तपूर्णनिजरूपत्योच्छूनरूपतापत्त्या तद्रूपतिरस्कारात्मना
विसर्गग्रासेन मन्थरस्य देहादिरूपमेयेन्दोः परिमिते प्रमातरि
संजीविन्यमृतकला विसर्जनतत्तत्प्रमातृप्रमेयाद्यात्मना स्थूलेन रूपेण
समुल्लास इतीदमुक्तं भवति | यत्किंचिद्भावजातं
तत्तदीयत्तासमासादनपुरःसरमिन्द्रियद्वारोपारोहेण ज्ञेयता मासाद्य
तत्तदर्थक्रियाकारितया स्वात्ममात्रविश्रान्त्युपजनेन संविदः
पूर्णतामावहतीति | यदुक्तं श्रीमदुत्पलदेवप्रभुपादैः
सर्वभावमयभावमण्डलं
विश्वशक्तिमयशक्तिबर्हिषि |
जुह्वतो मम समोऽस्ति कोऽपरो
विश्वमेधमययज्ञयाजिनः ||
इति |] रिक्तरूपतया उद्योगावभाससंक्रामविलापनरूपेण
प्. २०६)
द्वादशात्मिकां कृशरूपतामाश्रयन्त्यः
तद्गृहीतप्रमदादिगतोद्योगादिकलाचतुष्टयपरिपूर्णतयापि अङ्कुरीभूय
सालसं षोडशात्मकभरितपूर्णरूपतया प्रविशन्त्योऽन्तर्बहिश्च
तदमृतानन्दविश्रान्तिरूपं चमत्कारसत्तासारकलाचतुष्कं विसृजन्त्य
एवंविधामेव पूर्णकृशात्मकदोलालीलां निर्विशमानाः
सोमसूर्यकलाजालग्रसनवमनचतुरा [यदुक्तं महार्थमञ्जर्याम्
सप्तदश भालनेत्रे द्वादश षोडश चान्यनेत्रयोः |
इति | तत्र भालनेत्रं स्वातन्त्र्यशक्तिः दक्षिणनेत्रं प्रमाणशक्तिः
वामनेत्रं प्रमेयशक्तिः अत्र पुनरयमर्थः - द्वादशमरीचिविषयः सौरो
धामक्रमः षण्ठर्णरहिता द्वादश स्वरा वर्णक्रमः ता एव
मरीचयोऽत्र प्रथमोदितनिरावरणधामसु द्वादशसु शून्यमार्गेषु
पतिताः संवित्क्रमः - इति प्रकाशचक्रव्याप्तिः | आनन्दचक्रे
बैन्धवामृतप्रसरेण धामक्रमः षण्ठस्वरैः सह षोडशकव्याप्त्या
वर्णक्रमः बुद्धिकर्माक्षमनःसु षोडशसु संवित्क्रम इति
चानन्दचक्रव्याप्तिः | मूर्तिचक्रे स्वातन्त्र्यघननिरावरणधामसु
सप्तदशसु तथा धामक्रमः आदिवर्णाधिष्ठिताकाराद्यक्षरपर्यन्तं
सप्तदशधा प्रसृतो वर्णक्रमः | चान्द्र्य एव भूमिका बाह्यात्
पराङ्मुखीभूता अन्तर्विमिमर्शयिषयोऽपि अमया सहानुभूयमानाः
सप्तदशैव संवित्क्रमः इति |] अकारमेवादितया मध्ये च कादियोनिजातम -
प्. २०७)
वसाने च बिन्दुं ददती अहम् इत्येषैव भगवती सृष्टिः तदुक्तं
श्रीसोमानन्दपादैर्निजविवृतौ अं अ इत्येषैव विकृताविकृतरूपा मातृका
इत्यादि ते तु अ इत्येतदनुत्तरमाकाराद्याश्च तिथयः यद्वा बिन्दुरंकारः
अकाराद्यास्तिथयस्तदन्तो विसर्ग इत्यपि व्याचक्षते तदेव संवित्सतत्त्वं स्पन्द
इत्युपदिशन्ति स्पन्दनं च किंचिच्चलनं स्वरूपाच्च यदि
वस्त्वन्तराक्रमणं तच्चलनमेव न किंचित्त्वं नो चेत् चलनमेव न किंचित्
तस्मात् स्वरूप एव क्रमादिपरिहारेण चमत्कारात्मिका - उच्छलत्ता ऊर्मिरिति
मत्स्योदरीति - प्रभृतिशब्दैरागमेषु निदर्शितः स्पन्द
प्. २०८)
इत्युच्यते - किंचिच्चलनात्मकत्वात् स च शिवशक्तिरूपः सामान्यविशेषात्मा
तद्व्याख्यातम् आद्यास्तिथयः बिन्द्ववसानगाः कालयोगेन सोमसूर्यौ
तस्यैवं कुलस्यान्तः पृथिव्यादीनि च यावत् ब्रह्मपञ्चकं तावत्तेषां
स्वराणामन्तः कथं क्रमात् | अथ च क्रमस्यादनं भक्षणं
कालग्रासः तथा कृत्वेति क्रियाविशेषणं च शोभने व्रते भोगे रिक्तत्वे
भोगनिवृत्तौ च पूर्णत्वे सुव्रते आमन्त्रणमपि एतत् एवं व्याख्येयम्
एवममूला - अकारमूला अविद्यमानमूला च अनादित्वात् स क्रमो यस्याः
प्रश्लेषेणातद्रूपोऽन्यथारूपोऽपि क्रमो यस्याः तथाप्यमूला अमूलस्य
यदातननमातत् ततस्तदेव च क्रमो यस्याः एषा चाज्ञेया ज्ञातृरूपा एषैव
च ज्ञेया - अन्यस्याभावात् अविद्यमानं क्षान्तं तूष्णीमासनमविरतं
सृष्ट्यादिरूपत्वेन अस्याम् आक्षाणामैन्द्रियिकाणामन्ते समीपे
प्रागपर्यवसाना या
प्. २०९)
भवेदित्युपचारादाक्षान्ता सृष्टिरपूर्वमाहरणं
स्वात्मानुप्रवेशात्मस्वरूपं संहाररूपं यस्याम् एषैव च
शिवात्मकबीजप्रसररूपाणां मननत्राणधर्माणां सर्वेषामेव
वाच्यवाचकादिरूपवर्णभट्टारकात्मनां मन्त्राणां
शक्त्यात्मकयोनिस्पन्दानां सर्वासां तद्बीजोद्भूतानां
वेदनारूपाणां विद्यानाम् इयं समा सर्वत्रानूनाधिका सर्वेषु तन्त्रेषु
तन्त्रणासु च सर्वासु क्रियासु सर्वकालं च सर्वं ददती सिद्धिसंघम्
आख्याता प्रकटाख्यातिरूपतां मायीयामुद्दिश्य भेदो वर्णानां
तथाहि - त एव शुद्धमन्त्ररूपा वर्णाः प्रथमं
पञ्चविधविपर्ययशक्त्यादिरूपप्रत्ययात्मकभावसृष्टितामेत्य [द्विधा हि
सृष्टिः - भावसृष्टिर्भूतसृष्टिश्चेति तत्र प्रत्ययरूपा भावसृष्टिः
तन्मात्ररूपा भूतसृष्टिः | तत्रेत्थं भावः
एव प्रत्यवसर्गो विपर्ययाशक्तितुष्टिसिद्धाख्यः |
गुणवैषम्यविमर्दात्तस्य च भेदास्तु पञ्चाशत् ||
इति भावषृष्टिः | भूतसृष्टिर्यथा
अष्टविकल्पो दैवस्तैर्यग्योनिश्च पञ्चधा भवति |
मानुष्यश्चैकविधः स्मासतो भौतिकः सर्गः ||
तत्र गुणविभागः
ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः |
मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ||
इति ब्राह्मप्राजापत्यैन्द्रपित्र्यगान्धर्वयाक्षराक्षसपैशाचा इत्यष्टधा
दैवसर्गः | पशुमृगपक्षिसरीसृपस्थावराः पञ्चधा तिर्यग्योनिः |
संस्थानस्य चतुर्ध्वपि अविशेषादेक एव मानुष्य इति |] स्वरूपमावृण्वते
प्. २१०)
पञ्च [अविद्यास्मितारागद्वेषाभिनिवेशास्तमोमोहमहामोहतामिस्रान्धता-
मिस्रसंज्ञकाः पञ्चेति एकादशेन्द्रियवधाः सप्तदश बुद्धिवधा
इत्यष्टाविंशतिः आध्यात्मिकाश्चतस्रो बाह्याः पञ्चेति तुष्टयो नव
ऊहशब्दाध्ययनत्रिविधदुःखविधातसुहृत्प्राप्तिदानान्यष्टौ सिद्धयः |
तत्राशक्तयः
बाधिर्यं कुष्ठतान्धत्वं जडताजिघ्रता तथा |
मूकता कौण्यपङ्गुत्वक्लैव्योदावर्तमत्तताः ||
इत्येकादश एताबद्धेतुका बुद्धेरशक्तिः | स्वरूपतो बुद्धेरशक्तिविपर्ययात्
तुष्टिसिद्धीनामित्युक्ता तुष्टिर्यथा प्रकृत्युपादानकालभाग्या
आध्यात्मिकाः शब्दादयः पञ्चेत्युपरमा अपि पञ्च भवन्ति उपरमश्च
सेवादयो हि धनार्जनोपायाः सेवकादीन् दुःखाकुर्वन्तीति मत्वा
दुःखावहकर्मणो निवर्तनम् |] विपर्ययभेदा भवन्त्यशक्तिश्च
करणवैकल्यात् |
अष्टाविंशतिभेदा तुष्टिर्नवधाष्टधा सिद्धिः ||
इति हि एत एव प्रत्ययाः पाशवसृष्टिरूपाः पाशा मुख्यतया यथोक्तम्
स्वरूपावरणे चास्य शक्तयः सततोत्थिताः |
यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ||
प्. २११)
इति | तथा
परामृतरसापायस्तस्य यः प्रत्ययोद्भवः |
इत्यादि एवं प्रत्ययसृष्टित्वान्तरालीकरणेन
स्फुटश्रूयमाणश्रुत्यात्मकक्रमाभासमानमायीयवर्णसृष्टिराद्य-
पारमार्थिकशुद्धरूपालिङ्गिता तत्तत्कार्यफलप्रसवदायिनी निरूपिता
श्रीपूर्वशास्त्रे
सर्वशास्त्रार्थगर्भिण्यै * * * * * * * * |
इत्येवं - विधया
अनया संप्रबुद्धः सन्योनिं विक्षोभ्य शक्तितः |
तत्समानश्रुतीन्वर्णांस्तत्संख्यानसृजत्प्रभुः ||
इत्यादि
तैस्तैरालिङ्गिताः सन्तः सर्वकामफलप्रदाः |
इत्याद्येवमाख्याता अप्रकटा मायान्धानां सर्वदैव ख्याता प्रकाशा
शुद्धवेदनात्मिका यस्याः सर्वत्र स्वस्वभावात्मकप्रभावप्रख्या
प्रसरानिरोधो यस्या इत्यामन्त्रणम् शोभनव्रते - इति | तदयमत्र
संक्षेपार्थः
प्. २१२)
स्वातन्त्र्यैकरसावेशचमत्कारैकलक्षणा |
परा भगवती नित्यं भासते भैरवी स्वयम् ||
तस्याः स्वभावयोगो यः सोऽनिरुद्धः सदोदितः |
सदाशिवधरातिर्यङ्नीलपीतसुखादिभिः ||
भासमानैः स्वस्वभावैः स्वयंप्रथनशालिभिः |
प्रथते संविदाकारः स्वसंवेदनसारकः ||
स्वस्वसंवेदनं [स्वस्मिन्नेव स्वेनैव संवेदनं नाम प्रकाशप्रकाशं
तादृक्प्रकाशसत्तेत्यर्थः तेनात्र प्रमाणापेक्षा नापि काचिदित्यर्थः नहि
स्वसंविद्रक्षितेर्थे प्रमाणापेक्षेति भावः |] नाम प्रमाणमिति वर्ण्यते |
बालतिर्यक्सर्वविदां [बालेति किंचिज्ज्ञः | तिर्यगिति मूढः |] यत्साम्येनैव
भासते ||
इन्द्रियाणि त्रिरूपं च लिङ्गं परवचःक्रमः |
सारूप्यमन्यथायोगः प्रतीत्यनुदयो यमः ||
इत्यादिको यस्य सर्वं द्वारमात्रे निरूप्यते |
तत्स्वसंवेदनं प्रोक्तमविच्छेदप्रथामयम् ||
येषां नाक्षत्रिरूपादिनाममात्रेऽप्यभिज्ञता |
तेषामपि तिरश्चां हि समा संवित्प्रकाशते ||
प्. २१३)
एवं भासा स्वभावेन स्वरूपामर्शनात्मिका |
स्वरूपामर्शनं यच्च तदेव परवाग्वपुः ||
तद्विचित्रस्वभावत्वाद्विचित्रप्रथनामयम् |
प्रथने पारतन्त्र्यं हि न जातु भजते क्वचित् ||
अपारतन्त्र्यात्संकेतप्रत्यूहादेः कथं स्थितिः [स च प्रकाशो न परतन्त्रः
प्रकाश्यतैव हि पारतन्त्र्यं प्रकाश्यता च प्रकाशान्तरापेक्षतैव न च
प्रकाशान्तरं किंचिदत्रास्ति इति स्वतन्त्र एक एव प्रकाशः इति न तत्र विमर्शो
विकल्प्यरूपोऽसांकेतिकत्वात् |] |
अतः संकेतरहितं [उत्तमवृद्धादिना कल्पित इदमस्याभिधेयमित्येवं
समयः संकेतः |] स्वस्वरूपविमर्शनम् ||
देशकालकलामायास्थानघातक्रियोत्तरम् |
परिपूर्णं स्वतः सर्वं सर्वाकारविलक्षणम् [स्वातन्त्र्यादेव च
देशकालावच्छेदविरहात् व्यापको नित्यः सर्वाकारनिराकारस्वभाव
इत्यन्यत्र |] ||
स्वाभाविकमहासंवित्सत्संस्कारैकलक्षणम् [वस्तुनः सतो
गुणान्तराधानं संस्कार इति भाष्ये |] |
शुद्धविद्यात्मकं रूपमहमित्युभयात्मकम् [अहन्तथैवेदन्ताक्षेपादिति
भावः |] ||
तदेव मातृकारूपं धरादीनां निजं वपुः |
तत्पारमार्थिकाकारं श्रुत्याश्यानस्वरूपतः |
बीजयोन्यात्मकं प्रोक्तं शिवशक्तिस्वरूपकम् |
शिवशक्त्योस्तु संघट्टाद्वन्योन्योच्छलितत्वतः ||
प्. २१४)
परस्परसमापत्तिर्जगदानन्ददायिनी |
अन्तःस्थविश्वपर्यन्तपारमार्थिकसद्वपुः ||
यद्वीर्यमिति निर्णीतं तद्विश्लेषणयोजना |
विसर्ग इति तत्प्रोक्तं ध्रुवधाम तदुच्यते [यदुक्तं देवीभावनायां
पञ्चस्तवीस्तोत्रे
मूलालवालकुहरादुदिता भवानि
निर्भिद्य षट् सरसिजानि तडिल्लतेव |
भूयोऽपि तत्र विशसि ध्रुवमण्डलेन्दु-
निःष्यन्दमानपरमामृततोयरूपा ||
इति |] |
अनुत्तरपदावाप्तौ स एष सुघटो विधिः |
अस्मादेव तु मायीयाद्वर्णपुञ्जान्निरूपिता ||
मायामालम्ब्य भिन्नैव श्रीपूर्वे सृष्टिराक्षरी |
पञ्चाशद्भेदसंभिन्नप्रत्ययप्रसवात्मिका [यथा स्पन्दे
परामृतरसापायस्तस्य यः प्रत्ययोद्भवः |
तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः ||
इति प्रत्ययसर्गः |] ||
बन्धरूपा स्वभावेन स्वरूपावरणात्मिका |
अत्रैवान्तर्गतास्तास्ताः [अत्रेति अमायीये वर्णपुञ्जे |] खेचर्यो [द्विधा हि
खेचर्यादिशक्तयः ताश्च खेचरीगोचरीदिक्चरीभूचरीरूपाः द्विधात्वं च
आसां परशक्तिपातपवित्रितानां चिदानन्दप्रसरोद्वमनशीलतया
अकालकलितत्वादभेदसर्वकर्तृत्वपूर्णत्वव्यापकत्वस्वरूपोन्मीलन-
परमार्थतयेति मायामोहितानां तु नानन्दप्रदतयाः
शून्यप्रमातृभूमिचारितयाः कालकलाशुद्धविद्यारागनियतिमयतया
बन्धयितृतयेतिः | गौर्वाक् तदुपलक्षितासु संजल्पमयीषु
बुद्ध्यहंकारमनोभूमिषु चरन्ति गोचर्यः शक्तिपातवतां तु
शुद्धाध्यवसायाभिमानसंकल्पप्ररोहिण्यः परेषां तु विपर्यासिन्यः |
दिक्षु बाह्येन्द्रियेषु दशसु चरन्तीति दिक्चर्यः
अनुगृहीतानामद्वयप्रथनसाराः परेषां तु द्वयप्रतीतिपातिन्यः |
भूरूपादिपञ्चकं मेयपदं तत्र चरन्तीति तदाभोगमयाश्यानीभावेन
तन्मयत्तामापन्ना भूचर्यः प्रबुद्धानां चित्प्रकाशशरीरतया
स्फुरन्त्य इतरेषां सर्वतो व्यवच्छेदतां दर्शयन्त्य इति द्विधा स्थितिः | अत्र
पुनर्बन्धाभिप्रायेणैव स्थितिः यतो विषयात्मिका इत्युक्तं विञ् बन्धवे इति
धात्वनुसारात् |] विषयात्मिकाः |
तन्वते संसृतिं चित्रां कर्ममायाणुतामयीम् ||
प्. २१५)
अस्याः साम्यं स्वभावेन शुद्धभैरवतामयम् ||
प्रोक्तं प्रागेव जीवत्वं मुक्तत्वं पारमार्थिकम् |
भिन्नाया वर्णसृष्टेश्च तदभिन्नं वपुः परम् ||
वीर्यमित्युक्तमत्रैव यदुक्त्या मन्त्रगुप्तता |
तदेतदहमित्येव विसर्गानुत्तरात्मकम् ||
स्वस्वभावं परं जानञ्जीवन्मुक्तः सकृद्भुधः |
सिद्ध्यादिप्रेप्सवस्तेन कॢप्तसंकोचसूत्रितम् ||
नाभिकुण्डलहृद्व्योम्नो योगिनोऽहमुपासते |
तदेतत्किल निर्णीतं यथागुर्वागमं मनाक् ||
एनां संविदमालम्ब्य यत्स्यात्तत्पृच्छ्यतां स्ववित् |
नैतावतैव तुलितं मार्गांशस्तु प्रदर्शितः ||
प्. २१६)
इयतीति व्यवच्छिन्द्याद्भैरवीं संविदं हि कः |
एतावाञ्छक्तिपातोऽयमस्मासु प्रविजृम्भितः ||
येनाधिकारितैरेतदस्माभिः प्रकटीकृतम् |
अस्माकमन्यमातॄणामद्य कालान्तरेऽपि वा ||
भवत्यभूत्वा भविता तर्कः सूक्ष्मतमोऽप्यतः |
यः सर्वयोगावयवप्रकाशेषु गभस्तिमान् ||
श्रीपूर्वशास्त्रे निर्णीतो येन मुक्तश्च मोचकः |
एतत्तु सर्वथा ग्राह्यं विमृश्यं च परेप्सुभिः ||
क्षणं मर्त्यत्वसुलभां हित्वासूयां विचक्षणैः |
आलोचनक्षणादूर्ध्वं यद्भवेदात्मनि स्थितिः ||
चिदर्काभ्रलवास्तेन संशाम्यन्ते स्वतो रसात् |
परसंवे-अणाभासम-ऊ-इणा-ऊर-अरमहसो-आ-इम-ऊ-इणस-इभास-इम
अलाहि शरणि-अपसरहु परिसरिसन जतुहसो पश्च-अपहिलु-अवर्ण परिगाहरु इर
वसत्तिपलमहस्म ओहुभितुर कदसुख विसरिपि असिद्धि धरा-इम उस अल विपरिसि
अभास-इ वाहिरविहरिणी एहि विसर्गाभूमि अनार्दहुक्त-इ लर्थ ईण पवि मिणं
दहु-अमलाहं विहरिणी कु-इलित्थत अणुत्तर परप-इ जश्चि अभवि अतत तचमप्प-इ
भस्म-इवि बिन्दुविसरि
प्. २१७)
सुता-ए हुप आसत्त त-अह सत्तमल हिंपुविसि विभेत विहंसः तमालि निमा-इ आह
सुततस्मह भो-अमभण अ-इलं मरु निभुं-ऊ अपारहमरल पदुद्यो प्रन्तीप
सार-इमात द्वय भासि विगम-इ विला-अनु सोश्रि-अं असि तमर्थ अहिंसा अ-
इपविमन्ती अलस-इरसा मच्छे-अरि परिदेवितरंगणि प्रफ-ऊ असुह सारंगिणि
रितत्तस्म कीलालसा तुहि मत्तिदिविरह एणि हानुण पिज्जति जतस्मा-इ लालणमहो
संम-अलालसा |
एवमुत्तरस्याप्यनुत्तरमिति यदुक्तम् तन्मयोऽसावुत्तरस्य इत्यंशेनोपात्तः
कुलात्मा शाक्तः सृष्टिप्रसरः स विस्तरतो निर्णीतः तच्चोत्तरमपि
यथानुत्तरं तथा निरूपितम् इदानीं त्वनुत्तरमेव स्वरूपेण विस्तरतो
विचारपदवीमपेक्षते एवं विध्यनुवादौ निर्वहतो यदि अनूद्यमानो
विधीयमानश्चांशः स्वरूपतो लक्षितौ च स्यातां यथा यदेव
शिवनामस्मरणमेतदेव समस्तसौख्योच्छलनमिति द्वावप्यंशौ लक्ष्यौ
प्. २१८)
इह तु यद्यपि अनुत्तरं नाम अन्यद्वस्तु किंचिन्नास्ति - अन्यत्वे तस्याप्युत्तरत्वे
एवाभिपातात् तथापि स्वातन्त्र्यकॢप्तोपदेश्योपदेशकभावाभिप्रायेणेयं
व्यवस्था इत्युक्तं प्राक् ततश्च विस्तरतोऽनुत्तरस्वरूपनिरूपणाय
ग्रन्थान्तरावतारः - तन्निरूपयति
चतुर्दशयुतं भद्रे
तिथीशान्तसमन्वितम् || ९ ||
तृतीयं ब्रह्म सुश्रोणि
हृदयं भैरवात्मनः |
एतन्नायोगिनीजातो
नारुद्रो लभते स्फुटम् || १० ||
हृदयं देवदेवस्य
सद्यो योगविमुक्तिदम् |
अस्योच्चारे कृते सम्यङ्-
मन्त्रमुद्रागणो महान् || ११ ||
प्. २१९)
सद्यस्तन्मुखतामेति
स्वदेहावेशलक्षणम् |
मुहूर्तं स्मरते यस्तु
चुम्बकेनाभिमुद्रितः || १२ ||
स बध्नाति तदा सर्वं
मन्त्रमुद्रागणं नरः |
अतीतानागतानर्थान्
पृष्टोऽसौ कथयत्यपि || १३ ||
प्रहराद्यदभिप्रेतं
देवतारूपमुच्चरन् |
साक्षात्पश्यत्यसंदिग्ध-
माकृष्टं रुद्रशक्तिभिः || १४ ||
प्रहरद्वयमात्रेण
व्योमस्थो जायते स्मरन् |
त्रयेण मातरः सर्वा
योगीश्वर्यो महाबलाः || १५ ||
प्. २२०)
वीरा वीरेश्वराः सिद्धा
बलवाञ्छाकिनीगणः |
आगत्य समयं दत्त्वा
भैरवेण प्रचोदिताः || १६ ||
यच्छन्ति परमां सिद्धिं
फलं यद्वा समीहितम् |
अनेन सिद्धाः सेत्स्यन्ति
साधयन्ति च मन्त्रिणः || १७ ||
यत्किंचिद्भैरवे तन्त्रे
सर्वमस्मात्प्रसिद्ध्यति |
अदृष्टमण्डलोऽप्येवं
* * * * * * * * || १८ ||
भैरवरूपस्य विश्वस्य
प्रदर्शितयुक्त्यागमनिरूपितनररूपापराभट्टारिकास्वभावः शाक्तः
तस्य हृदयं सारं शिवरूपं परमेश्वर्या श्रीमत्पराभट्टारिकया
समालिङ्गितं भैरवशब्देन विश्वस्य
प्. २२१)
सर्वसर्वात्मकतावपुः शक्तिरूपं तत्सहितस्यात्मनः प्रति एकस्य भेदस्य
नररूपस्य एतावच्छिवात्मकं हृदयं परेणाभेदेन सर्वात्मकताया एव
तेन तया च विनास्य भेदस्यैवायोगात् इत्युक्तं प्राक् | सुश्रोणि इत्यामन्त्रणम्
अशोभनमायात्मकतायामपि अनपेतं शुद्धचिन्मयं यदेतत् श्रोण्यां
हृदयं योनिरूपमुक्तं तन्नोऽन्तःकृतसकलमन्त्रमहेशादिभिः यत्
स्थावरान्तप्रमातृजालस्याहमात्मनोऽस्माकमिति समुचितापतितव्यपदेशस्य
भैरवात्म पूर्णतामयम्
अन्तर्गतविश्ववीर्यसमुच्छलत्तात्मकविसर्गविश्लेषानन्दशक्त्यैकघनं
ब्रह्म बृहत् व्यापकं बृंहितं च न तु
वेदान्तपाठकाङ्गीकृतकेवलशून्यवादाविदूरवर्तिब्रह्मदर्शने इव एतच्च
तृतीयं नराद्यपेक्षया शिवपरैकरूपम् अत एवामीषु शास्त्रेषु अत्र च
मुख्यतया तदेव हृदयं पूज्यतयोपदिष्टम्
अननुप्रविष्टतथावीर्यव्याप्तिसारहृदया अपि
तावन्मात्रबाह्याचारपरिशीलनेनैव क्रमव -
प्. २२२)
शशिथिलीभवच्छिथिलितविदलद्विदलितपाशवनियमबन्धना
एतद्धृदयव्याप्तिं स्वयमेव समधिशेरते तर्हि एतद्धृदयानुप्रवेश एव
एतद्धृदयेऽनुप्रविष्टोऽस्मि इयं देवी परा इत्येतच्छाब्दविकल्पकल्प्याः अस्य
च प्रत्युत हृद्यान्तरमार्गणादित्युक्तं विस्तरतः अपि तु
संकोचयन्ति हृदयं नहि शास्त्रपाशा
नो संविदं कलुषयेद्यदयं च लोकः |
सम्यक्स्वभावपदवीपरिपूर्णरूपा
सैवोल्लसल्लयभरा भरिता स्थितिः स्यात् ||
यदुक्तं मयैव स्तोत्रे
भवद्भक्त्यावेशाद्विशदतरसंजातमनसां
क्षणेनैषावस्थास्फुटमधिवसत्येव हृदयम् |
इति | अत एव कोणेषु पूज्यास्तिस्रो मध्ये देवी परानन्दभैरवनिर्मथनरूपा
नित्यानन्दरसप्रसरेणैव क्षोभात्मकविसर्गेण - इति देवतानां संप्रदायो
यामलयोगे वीराणामपि
आनन्देन्द्रियनित्यानन्दक्षोभात्मकदूतीसंघट्टजेन - इति एक -
प्. २२३)
वीरतायामपि स्वरूपानन्दविश्रान्तियोगेन पुंसोऽपि
आनन्देन्द्रियनिःसरणधामत्रिकोणकन्दाधोविनिविष्टाचित्तनिवेशात्
आनन्दक्षोभप्रसवं करोति तदिन्द्रियमूलतत्पर्यन्तसंघट्टघनतायाम्
अत्रोक्तम्
वह्नेर्विषस्य मध्ये तु * * * * * * * |
इति एवमानन्दयोग एव हृदयपूजा यथोक्तं त्रिकतन्त्रसारे
आनन्दप्रसरः पूजा तां त्रिकोणे प्रकल्पयेत् |
पुष्पधूपादिगन्धैस्तु स्वहृत्संतोषकारिणीम् ||
इति सर्वं हि मुद्राद्वयानुविद्धं - ज्ञानक्रियाशक्तिसारत्वात् केवलं
देवतासु ज्ञानमुद्रा अन्तरुद्रिक्ता क्रियामुद्रा बहिः वीरेषु विपर्ययः
अनुप्रवेशस्तु समतया विपर्ययाच्च अनेनैवाभिप्रायेण ज्ञानशक्त्यात्मके
लिङ्गे क्रियाशक्तिसमर्पणमुक्तम् एवमेतत् चतुर्दशसु युतं संश्लिष्टं
पञ्चदशात्मकंअ तिथीशान्तेन विसर्गेण षोडशेनान्वितम्
प्. २२४)
यद्वा चतुर्दशसहितं युतं युग्मं षोडशतिथीनां पञ्चदशानामीशो
विसर्गः तस्यान्तः सप्तदश्यनुत्तरकला तदन्वितं हृदयं - सर्वाणि
घटसुखादीनि वस्तूनि तामेव बीजसत्तां
परमार्थरूपेणाक्रामन्तीत्युक्तं विस्तरतः अत एव तत् हृदयम् एवं
षोडशधा हृदयमेतत् तत्रानुत्तरानुसारेण यदेतत् ब्रह्मसामरस्यं
वेद्यवेदकयोश्चतसृणां दशानामुद्योगादीनां
समाहारोऽविभागभूः प्राथमिकी तया युतमविभागि य एते तिथीनामीशा
ऊकारान्ताः तत्प्रभवत्वादन्यस्येति [स्वराणां षट्कमेवेह मूलं
स्याद्वर्णसंततौ | इत्युक्त्या |] हि उक्तम् तेषां तिथीशानामन्ता अमृतवर्णाः
चत्वारः तैः सम्यगन्वितम् तच्च तृतीयं - नराद्यपेक्षया शिवरूपं परं
वेदकश्चतसृभिर्दशाभिरुल्लसन् वेद्यमेव ताभिराप्यायकौतुकात्मना ता
एवामृतकलाः स्वात्मनि एकीकुर्वन् वेद्यवेदकक्षोभसमापत्त्या
ऐकात्म्यलक्षण -
प्. २२५)
प्रसंख्यानेनाभ्यासेन वा गम्यं भैरवात्मना विश्वहृदयमनुत्तरं
प्रविशेत् | यथोक्तम्
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि |
इति | इच्छोल्लसत्तात्मनि आनन्दशक्तौ यदेतत् संहृत्य अनुसृत्या
क्रियाशक्तिमपेक्ष्य तृतीयं रूपमिच्छात्म तदेव
प्राक्कोटाविष्यमाणाद्यकलुषं [प्राक्कोटौ हीष्यमाणादिना कलुषम् इति
कथं ब्रह्म? इत्यतः प्राच्यभागेऽकलुषमिति तात्पर्यम् |] ब्रह्म चतुर्ये दश
चत्वारिंशत् भैरवभेदापेक्षया परभैरवपरशक्तित्रयसहितानि तत्त्वानि
यथोक्तम्
षट्त्रिंशच्छोधनीयानि शोधको भैरवः परः |
परं [परं त्रिकमिति यथादौ निबद्धम्
विमलकलाश्रयाभिनवसृष्टिमहा जननी
भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः |
तदुभययामलस्फुरितभावनिसर्गमयं
हृदयमनुत्तरामृतकुलं मम संस्फुरतात् ||
इति | करणं शोधनोपायः |] त्रिकं तु करणं दीक्षेयं पारमार्थिकी ||
प्. २२६)
इत्यादि तैर्युतम् आनन्दशक्तिर्हि प्रागपररूपा पूर्णा कथं तिथीशैर्बीजैः
तदन्तैश्च योनिरूपधरादिभिः समन्वितम् - इति क्रियाविशेषणम् तदेव
हृदयं सर्वत्रात्र सकृद्विभातं प्रसंख्यानगम्यं रूपं मुख्यतः
तत्र योग्यानां तु परशक्तिपातपवित्रितानां
वृथैन्द्रजालिककलनालालसानां वा योगाभ्यास इति मन्तव्यम् |
इच्छाभिप्रायेण तृतीयमिच्छा तच्च वृंहितमिष्यमाणेनाभिन्नेन पूर्णं
ब्रह्म चतुर्दश चत्वारिंशद्युतानि निर्विभागभाञ्जि यतोऽन्तरं युतशब्दो
विभक्तवाच्यपि युतसिद्धत्वादित्यादौ [अयुतसिद्धयोः संबन्धः समवाय
इत्यत्र युतसिद्धघोरपृथक्सिद्धयोरित्यर्थः
यथामुमेवाभिप्रायमन्तःकृत्य यु-मिश्रणेऽमिश्रणे चेति
सिद्धान्तकुअमुद्यां पठितम् |] तिथीश्वरस्य कुलमयानुत्तरकलात्मनोऽन्तः
आनन्दः तस्यानु - पश्चात् सम्यगितं बोधमयम् |
ईशानापेक्षया तृतीयमिच्छारूपं
प्रसरवशाद्बृहद्भूतमीशानतापन्नं चतुर्दशानां चत्वारिंशत
प्. २२७)
उक्ताया युतं परस्परव्यामिश्रता यत्र तिथीश्वरस्याकुलमयानुत्तरा
कलनान्तः संहृतिः - कुलशक्तिप्रथमस्पन्दस्तेनान्वितम् |
उन्मेषात्मकज्ञानशक्तियोगेन तृतीयं ब्रह्मेशानमेव यदा
[ईशानस्यैवं तृतीयब्रह्मतामुपपादयति यदेत्यादिं |] चतुर्दशानां
तस्या एव तत्त्वचत्वारिंशतो युतं प्रथमविभागो यत्र तथाविधं भवति
तथा तिथीशान्तेन कुलशक्तिप्रथमस्पन्देन सम्यक् प्ररुरुक्षुतया अन्वितम्
संशब्दोऽत्र भरणापेक्षः |
तज्ज्ञानशक्तिक्रियाशक्तिमध्यकोटिरूपप्राङ्निर्णीत-
ऊकारकलालम्बितोढतारूढ्या यदेतत् ब्रह्म यत्किंचिच्चराचरं
तदशुद्धशुद्धाशुद्धसृष्ट्यपेक्षया तृतीयं शुद्धसृष्ट्यात्मकं यत्
अत एव तिथीश्वरैः हृदय भूततया तदन्तैश्च कादिक्षान्तैः समन्वितम् |
अथ शून्यचतुष्कानुसृत्या चतुर्णां धरादीनां दशा विनाशात्मिका
विद्यते यत्र तद्व्योम तेन
प्. २२८)
युतं तृतीयं ब्रह्मेच्छाख्यं तिथीश्वरस्यार्कस्य अन्तेन बाह्येन
तेजसान्वितम् |
व्याख्यातक्रमेण तृतीयं ब्रह्मेशनम् एतदपि एवमेव |
तृतीयं ब्रह्मेच्छाख्यं चतुर्णां नभःप्रभृतीनामन्तर्दशा यत्र
साधारतया समन्वितं तिथीशान्तस्य वह्नेः तेजसो यदनुसरद्रूपं तेन
सहितं व्योमात्म |
तथैव तृतीयं ब्रह्म चतुर्दशयुतं तिथीशान्तसमन्वितं
परिपूर्णशून्यरूपप्लुत्या भैरवात्म |
इच्छा खलु निजस्वभावभूतेशनसहिता वेद्यभूमेर्व्योमसत्तां
यदाक्रामति तदा किंचित्प्रकाशभुवि विश्रम्य झटिति अपर्यन्तां
काष्ठपाषणप्रायां निश्चलां व्योमभूमिमनुप्रविशति
यत्रापवेद्यसुषुप्तमहाव्योमानुप्रविष्टान् योगिनः प्रत्युच्यते
भेरीकांस्यनिनादोऽपि व्युत्थानाय न कल्पते |
इत्यादि |
प्. २२९)
अधुनोक्तव्याप्ति यदेतत्परस्पररूपसांकर्यवैचित्र्यं शक्तीनां
तदुद्देशेन एवमिच्छा यदानुत्तरपदप्रवेशशालिनी भवति तदा
शक्तिक्षोभस्य रसनादेरनन्तरं तत्रोच्यते - विलम्बितमध्यद्रूतानां
चिद्विशेषस्पन्दानां सत्त्वादियोगजुषां चतुःशब्दोपलक्षिता चतुर्थी दशा
यत्रास्ति सामान्यस्पन्दरूपा तदकुलं तेनाकुलेन अनुत्तरेण युतं तृतीयं
ब्रह्मेच्छात्म ईशनसहितं तिथीशस्याकारस्यान्तेनानन्दशक्त्यात्मना
अन्वितम् |
तदपि तथैव पुनरपि परां सत्तामनुप्रविशति यदा तदा भैरवात्म
परीपूर्णं दीर्घीभूतं नः - अस्माकमिति पूर्ववत् अत एवैतदेव
बीजयुग्मम् एवंविधबीजवैचित्र्यानुप्रवेशात् आच्छादप्रसवसमर्थम् - इति
कामवाक्तत्त्वोपयोगेनोच्यते |
कामेन कामयेत्कामान्कामं कामेषु योजयेत् |
इत्यादि
प्. २३०)
ए ओकारगतं बीजं वाग्विधानाय केवलम् |
इत्यादि पञ्चमषष्ठवर्णद्वयेन यदुक्तं चतुर्दशयुतं तृतीयं ब्रह्म
तिथीशान्तसमन्वितं तदेव भैरवात्मानुत्तरपदानुप्रविष्टम् एतत् ब्रह्म
चत्वारिंशद्युतमुक्तनीत्या तिथीशान्तसमन्वितं भैरवात्मवेदनरूपतया
बिन्द्वात्मकं हृदयम् सकलमिदं तत्त्वजालं भैरवात्मतयोछलत् अत एव
बहिर्विसृज्यमानं वृंहितं ब्रह्म विसर्गात्मकं बहिःस्थितं च
भैरवात्मतयैकीभूतं भेदात्मकव्यवच्छेददारिद्र्यापसारणेन
सर्वसर्वात्मकपदप्राप्त्या वृंहितम् - इति विसर्गपदं निर्णीतं
चैतदवधानेन |
एवं षोडशात्मिका बीजव्याप्तिरुक्ता | योनिव्याप्तिस्तु प्रतिवर्णं प्रागेवोक्ता
वर्गीकरणाभिप्रायेण तु निरूपणीया
बाल्ययौवनस्थाविरदेहान्तरग्रहणरूपदशाचतुष्टयसमाहारमयं
पाञ्चभौतिकमन्तः तिथीशान्तेन प्रवेशनिर्गमनात्मना
प्राणापानरूपेण युतं तृतीयं च पुर्यष्टकात्म ब्रह्म बृहत्त्वाच्च
शून्यम् अत्र च यत् हृदयं शक्त्यात्म त एते सर्व एव
शरीरप्राणपुर्यष्टकशून्यतुर्यशक्तिरूपा
बोधात्मकशिवबीजसातिशयघनताक्रमप्राप्तक्रमिकतथाभावा
बाह्यात्मभूतात्मातिवाअहिकात्मान्तरात्मपरमात्मव्यपदेश्याः
प्रमातारः एतद्भैरवात्म हृदयम् प्रवेशोपायोऽत्र - सर्वाः [सर्वाः
प्रमातृभूमीरिति यदुक्तम्
सर्वाः शक्तीर्दर्शनस्पर्शनाद्याः
स्वे स्वे वेद्ये धौगपद्येन सम्यक् |
क्षिप्त्वा मध्ये स्फाटिकस्तम्भभूत-
स्तितिष्ठन्विश्वाधार एकोऽवमासि ||
इति | तथा
बहिष्करणबुद्ध्यहंकृतिमनःसुषुम्नाश्रया -
चतुर्दशसु चण्डिके पथिषु येन येन व्रजेत् |
कला शिवनिकेतनं जननि तत्र सा तादृक्षी
दशौदधति दुर्लभा जगति वा सुरैरप्यहो ||
इति |] प्रमातृभूमीरनवच्छेदेनाक्रामेत् अन्तर्बहिष्करणत्रयोदशकं
प्रकृत्या सह च चतुर्दश चत्वारिंशद्युतं द्विगुणितमशीतिः तिथयः
पञ्चदश ईशा -
प्. २३२)
रुद्रा एकादश युक्ताः कालास्त्रयः एवं -
द्वादशोत्तरशतमर्मगतस्थूलसूक्ष्मपरशाक्तस्पन्दरूपमन्त्र-
वीर्यविकासस्फुरीकृतविसर्गविश्लेषणसंघट्टक्षोभात्मिकां
शरीरसत्तामेव भैरवरूपां परिशीलयेत् युगपन्निवेशसंप्रदाययुक्त्या
चतस्रो मधुरकषायतिक्ताम्लदशा यस्य मद्यसुरासवादेः [यदुक्तम्
धीकर्माक्षगता देवीर्निषिद्धैरेव चाचरेत् |
निषिद्धं लोकविद्विष्टं * * * * * * ||
इति | तथा
नित्योदिता परा शक्तिर्यद्यप्येषा तथापि च |
बाह्यचर्याविहीनस्य दुर्लभा कौलिकी स्थितिः ||
इत्युक्तमन्यत्र |
लौकिकालौकिकं सर्वं तेनात्र विनियोजयेत् |
निष्कम्पत्वे सकम्पस्तु कम्पं निर्हासयेद्वलात् ||
न चैतदन्न अवश्यं कार्यमिति मन्तव्यम्
क्व मांसं क्व शिवे भक्तिः क्व मद्यं क्व शिवार्चनम् |
मद्यादिपूजानिरतैः सुदुष्प्रायो हि शंकरः ||
इत्यादिविरोधात् किं तर्ह्यत्र प्रतिपत्तव्यं - प्रत्यभिज्ञातस्वरूपाणां न
विक्षिकित्सामलोऽवधेय? इति |
शङ्काशून्योऽपि तत्त्वज्ञो मुमुक्षोः प्रक्रियां प्रति |
न त्यजेच्छास्त्रमर्यादां चेत्याज्ञा पारमेश्वरी ||
इति स्फुटं सुरादिप्रतिषेधनात् तस्मादत्र सर्वथा महार्थमञ्जर्येव
प्रमाणम् यथा यत्र रुचिः इत्यादि |] तत् तिथीशान्तम्
प्. २३३)
उभयविसर्गात्मद्रव्यसमन्वितं तदिन्द्रियद्वयान्तर्वर्ति कुसुमशब्दवाच्यं
मलं तृतीयं ब्रह्म जगदिन्धनदाहशेषं भस्म भैरवात्म
भरिताकारमाप्यायकमम्बु हृदयं च
सर्वेन्द्रियान्तर्वर्तिरसाश्यानोभयरूपं तदेतानि द्रव्याणि यथालाभं
भेदमलविलापकानि [यदुक्तम्
यथा येनाभ्युपायेन क्रमादक्रमतोऽपि वा |
विचिकित्सा गलत्यन्तस्तत्रासौ यत्रवान्भवेत् ||
इति |] तथाहि दृश्यते एवायं क्रमः - यदियं संकोचात्मिका शङ्कैव
समुल्लसन्ती रूढा फलपर्यन्ता संसारबीजतरोः प्रथमाङ्कुरसूतिः
[यदुक्तमत्रैव पूर्वम्
मायीयकार्ममलमूलमुशन्ति सन्तः
संकोचनाम मलमाणवमेव भद्राः |
प्. २३४)
मूलं तदेव भवजीर्णतरोः * * * |
* * * * * * * * * * * * * * ||
इति | अत्रायं संक्षेपः - यथोक्तमनेनैव नात्र
भक्ष्याभक्ष्यशुद्ध्यशुद्धिविवेचनया वस्तुधर्मोज्झितया स्वात्मा
खेदनीय इति | नहि शुद्ध्यशुद्धी वस्तुनो रूपं परमार्थतः तयोः
परस्परव्यभिचारदर्शनात् |
धीरैरेकत्र या शुद्धिस्तत्राशुद्धिः परैः स्मृता |
विहितत्वेऽपि दानस्य दीक्षितत्वे यथा पुनः ||
कल्पनामात्रमेवैतत्तस्मात्सद्भिरुपेयताम् |
न कल्पना सत्यतो वै मिथ्येयमिति निश्चयः ||
तस्मादत्रोत्तरत्वं हि चोदनाप्रविचारणे |
एतत्खलु ह्यसंदिग्धं वादिनः प्रतिवादिनः ||
इति | तत्रेत्थं विचारणा - चोदना ह्यबाध्येति मीमांसकवाक्येन
कथमशुद्धमिति चेत् न शिवचोदनाया एव बाधितत्वं युक्तिसिद्धं यथा
संकोचतारतम्येन पाशवं ज्ञानमीरितम् |
विकासतारतम्येन परिज्ञानं तु बाधकम् ||
इति | तथा शिवोपनिषदि
किंचिज्ज्ञैर्या स्मृता शुद्धिः सा शुद्धिः शंभुदर्शने |
न शुद्धिः * * * * * * * * * * * * ||
इति | उक्तं च
यो निश्चयः पशुजनस्य जडोऽस्मि कर्म-
संपाशितोऽस्मि मलिनोऽस्मि परेरितोऽस्मि |
इत्येतदन्यदृढनिश्चयलाभसिद्ध्या
सद्यः पतिर्भवति विश्ववपुश्चिदात्मा ||
इति |] सा चाप्रबुद्धान् प्रति स्थितिर्भवेत्
प्. २३५)
- इति प्रबुद्धैः कल्पिता बालान् प्रति च कल्प्यमानापि च तेषां रूढा
वैचित्र्येणैव फलति अत एव वैचित्र्यकल्पनादेव सा
बहुविधधर्मादिशब्दनिर्देश्या प्रतिशास्त्रं प्रतिदेशं चान्यान्यरूपा
यथोक्तम् -
ग्लानिर्विलुण्ठिका [यथा स्पन्दे
ग्लानिर्विलुण्ठिका देहे तस्याश्चाज्ञानतः सृतिः |
तदुन्मेषविलुप्तं चेत्कुतः सा स्यादहेतुका ||
इति |] देह * * * * * * * * |
इति | सेयं यदा झटिति विगलिता भवति तदा निरस्तपाशवयन्त्रणाकलङ्को
भैरवहृदयानुप्रविष्टो भवति - इति सर्वथा एतदभ्यासे यतितव्यम्
श्रीतिलकशास्त्रेऽयं भावः | श्रीभर्गशिखायामपि उक्तम्
वीरव्रतं चाभिनन्देद्यथायोगं तथाभ्यसेत् |
इत्यादि | श्रीसर्वाचारेऽपि
अज्ञानाच्छङ्कते मूढस्ततः सृष्टिश्च संहृतिः |
मन्त्रा वर्णात्मकाः सर्वे वर्णाः सर्वे शिवात्मकाः ||
प्. २३६)
पेयापेयं स्मृता आपो भक्ष्याभक्ष्यं तु पार्थिवम् |
सुरूपं च विरूपं च तत्सर्वं तेज उच्यते ||
स्पृश्यास्पृश्यौ स्मृतो वायुश्छिद्रमाकाश उच्यते |
नैवेद्यं च निवेदी च नैवेद्यं गृह्यते च यत् ||
सर्वं पञ्चात्मकं देवि न तेन रहितं क्वचित् |
इच्छामुत्पादयेदात्मा कथं शङ्का विधीयते ||
इति | श्रीवीरावलिशास्त्रेऽपि अयमेवाभिप्रायः उक्तं च क्रमस्तोत्रे
सर्वार्थसंकर्षणसंयमस्य
यमस्य यन्तुर्जगतो यमाय |
वपुर्महाग्रासविलाससक्तं
संकर्षयन्तीं प्रणमामि कालीम् ||
इति | व्याख्यातं चैतन्मया तट्टीकायामेव क्रमकेलौ विस्तरतः अत एव
षडर्धशास्त्रेष्वेषैव क्रिया प्रायो नियन्त्रणारहितत्वेन पूजा
तत्परिपूरणायैव सर्वद्रव्यालाभात् संवत्सरमध्ये चतुस्त्रिर्द्विःसकृद्वा
पवित्रकविधिरुक्तः |
क्रियायाः पूरणार्थाय यागाज्ञापूरणाय च |
चतुः सकृद्वा यः कुर्यान्न पवित्रं स निष्फलः ||
प्. २३७)
इति विज्ञानक्रमो विस्तरत उक्तः | जातीनां च ब्राह्मणादीनां नास्ति स्थितिः -
कल्पितत्वात् उपदेशव्यङ्गतेति तु दुर्बुद्धीन् पशून् प्रत्याययेत् - इति च भगवता
मुकुटसःइतायां विस्तरतो निर्णीतम् इह तु अयत्नसिद्धमेव | गुणा इच्छाद्या
निर्णीताश्चतुर्दश स्वरेभ्य ओकार औकारमध्यगः तिथीशान्तो विसर्गः
तृतीयं ब्रह्म ष-हमध्यगम् एतद्बीजं वस्तुतो विश्वस्य तथाहि - यत्किंचित्
सत् पार्थिवप्राकृतमायीयरूपं भासते तत् इच्छायां ज्ञाने वा क्रियायां
वा पतितमपि सर्वात्मकत्वात् त्रिकरूपं परत्र शिवपदे विसृज्यते सर्वं च
शिवपदात् विसृज्यते - इत्यविरतमेष एव प्रबन्धो निर्विकल्पकः विकल्पोऽपि
प्रमदारातिप्रभृतिरेवंकार्यभूत् अत एवंकारी भवति एवंकारी
भविष्यतीति वर्तमानकालत्रयानुसंधितो भेदपरमार्थतयैव विसर्गः
प्. २३८)
इति प्रत्युत मोक्षमयशिवभूमिरेव सदैव दैवदग्धानां
संसारभयमरुमहाटवी संपन्ना |
जलात्स्फूर्जज्ज्वालाजटिलवडवावह्निनिवहः
सुधाधाम्नः पूर्णाद्भयसदनदम्भोलिदलना [दशम्याः
पूर्णिमान्तं चन्द्रस्य पूर्णत्वं ततश्चाशन्युद्गमः इति शास्त्रम् |] |
विकल्पादैश्वर्यप्रसरसरणेः संसृतिदरः
कियच्चित्रं चित्रं हतविधिविकासात्प्रसरति ||
ईश्वरप्रत्यभिज्ञायामप्युक्तम्
सर्वो ममायं विभव इत्येवं परिजानतः |
विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता [नहि प्रत्यगात्मा नाम
पशुरन्यः कश्चित् अन्योऽपि अहम् अपि तु परिगृहीतग्राह्यग्राहकप्रकाशघनो
यः स एवाहं सचाहमेव न त्वन्यः कश्चित् अतो विकल्पसृष्टिरपि मम
स्वातन्त्र्यलक्षणो विभव इत्येवं विमर्शे दृढीभूते
सत्यपरिक्षीणविकल्पोऽपि जीवन्नेव मुक्तः | यथोक्तम्
शङ्कापि नो विशङ्क्येत निःशङ्कत्वमिदं स्फुटम् ||
इति |] ||
इति | यथा चाकृतिमध्य एव चतुर्भुजत्रिनयनपूर्णकृशाद्या आकृतयो
द्रव्यमध्ये च सुरासवाद्या
प्. २३९)
बलादेव तां सत्तां समधिशाययन्तीव लिप्यक्षराणीव सती अवर्णभूमिः
- इत्युत्कर्षभागित्वमेषाम् [एषामिति चतुर्भुजादीनां लिप्यक्षराणां चेति |]
एवं सर्ववर्णमध्येऽपि अयं वर्णः [वर्ण इति - अयमुत्कर्षभागी इति शेषः
|] तथाहि - सकारस्तावत् परमानन्दामृतस्वभाव [स्वभाव इति यदुक्तम्
कामस्य पूर्णता तत्त्वं संघट्टे प्रविभाव्यते |
विषयस्यामृतं तत्त्वं च्छाद्यत्वेऽणोश्च्युते सति ||
इति |] उल्लसन् एव समस्तं वर्णजालमाक्षिप्य उल्लसति
यद्यत्सत्यसुखसंपत्सत्तादीनां पारमार्थिकं वपुः
सीत्कारसमुल्लासशेपकम्पवराङ्गसंकोचविकासोपलक्ष्यम् तदेव हि
सत्यादीनाममायीयं वस्तुतो रूपं तथाहि परहृदयग्रहणेङ्गितनिपुणा
गगनगवयगवाद्यनन्तपदप्राङ्मध्यान्तभाविनोऽपि
गकारादिमात्रादेवाभीष्टं चिन्वते - तावति
प्. २४०)
सत्यपदेऽनुप्रवेशात् एवमेकैकस्यैव वर्णस्य वास्तवं वाचकत्वम्
यथोक्तम्
शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरः
तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् [तेषां
शब्दार्थप्रत्ययानां यः प्रविभागः तत्र संयमात् त्रयमेकत्रसंयम
इति पारिभाषिकसंज्ञा संयमस्य |] | (यो० सू० ३-१७)
इति अत एव प्रायशोऽमी अकार-चकाराद्या एकवर्णात्मानो निपातविभक्त्यादयो
[यथात्र निपतन्ति परनिष्ठेष्वर्थेषु इति निपाताः
लिङ्गसंख्याकारककृतविशेषाभावात् असत्त्वं
यदुक्तमीश्वरप्रत्यभिज्ञायाम्
नाहन्तादिपरामर्शभेदादस्यान्यतात्मनः |
अहं मृश्यतयैवास्य सृष्टेस्तिङ्वाच्यकर्मवत् ||
इति | अत्र प्रकृतोपयोगार्थमुपमानोपमेययोः वैपरीत्यं कल्पनीयं यथा
प्रत्ययविकल्पसमुच्चयादिरूपनिपातासत्त्वभूतशक्तिभिः
निषिध्यमानसमुधीयमानव्यतिरिक्तोऽर्थो नाभिधीयते यथा
अहन्तेश्वरात्मादिभिरहंमृश्यतयैव सृष्टेरभ्यरिक्तोऽर्थोऽभिधीयते
नेश्वर आत्मेत्यादि |] मायापदेऽपि पारमार्थिकमिव
प्रमातृपदलीनमिदन्तापराङ्मुखमसत्त्वभूतं
तत्तन्निषिध्यमानसमुच्चीयमानाभिन्नरूपनिषेधसमुच्चयादिकमर्थ-
मभिदधति एष एव भावस्तत्रभवतो भर्तृहरेः यदाह
प्. २४१)
पदमाद्यं पृथक्सर्वं पदं साकाङ्क्षमित्यपि [साकांक्षम् -
इतरेतराध्यासात् |] |
इति वाक्यविचारे | तथा च वेदव्याकरणे पारमेश्वरेषु शास्त्रेषु
मन्त्रदीक्षादिशब्देषु अक्षरवर्णसाम्यात् निर्वचनमुपपन्नं तत्तु [ननु च
यद्येवं तत् सर्वत्राक्षरवर्णमूलत्वात् सर्वस्य
सर्वत्रैवाक्षरवर्णसाम्येनैव निर्वचनं प्राप्तं तन्मूलत्वात्
पदवाक्ययोः मूलं परित्यज्य शाखां गृह्णतो हि महाननर्थः स्यादित्यत
आह तत्तु इत्यादि कुत इति हेतुमाह नियतिवशादिति परमेश्वरेण हि सर्वं
नियतिशक्त्या स्थापितं ततश्च वह्नक्षरसंहत्यास्य पदस्यायमेवार्थं इति
नियम इत्यर्थः |] न रूढं - नियतिवशादिति न लोकपर्यन्तं तदेवं सकार
ईदृशः औकारविसर्गावपि व्याख्यातौ तदुक्तं श्रीपूर्वशास्त्रे
सार्णेन त्रितयं व्याप्तं त्रिशूलेन चतुर्थकम् |
सर्वातीतं विसर्गेण परा व्याप्तिरुदाहृता [त्रयोऽवयवा अस्याः संख्याया
इति त्रितयं त्रिसंख्याकमण्डं तच्च पार्थिवप्राकृतमायीयाभिधानं
तच्च सकारवर्णेन व्याप्तं तत्पर्यन्तं सकारस्य व्याप्तिरित्यर्थः त्रिशूलेन
चतुर्थकमिति चतुर्थकं शाक्तमण्डं तच्च त्रिशूलेन औ-बीजेन पूर्ववत्
षट्त्रिंशदुक्त्या तदतीतमाह सर्वेति स्पष्टम् इयं परा दीक्षेति भावः |] ||
इति तथा
प्. २४२)
शिष्येणापि तदा ग्राह्या यदा संतोषितो गुरुः |
शरीरद्रव्यविज्ञानजातिकर्मगुणादिभिः [अन्यशास्त्रशिक्षया |] ||
भेदिता तु यदा तेन गुरुणा हृष्टचेतसा |
तदा सिद्धिप्रदा ज्ञेया नान्यथा वीरवन्दिते ||
इति | अन्यत्रापि
एकं सृष्टिमयं बीजम् [यदुक्तम्
एकं सृष्टिमयं बीजमेका मुद्रा च खेचरी |
द्वावेतौ यस्य जायेते सोऽतिशान्तपदे स्थितः ||
इति |] * * * * * * * * * |
इति | अत एवालेख्यं पुस्तके इति नियमः श्रीपूर्वशास्त्रेऽपि
वामजङ्घान्वितो जीवः पारम्पर्यक्रमागतः |
इति | इहापि वक्ष्यते
यथा न्यग्रोधबीजस्थः * * * * * * |
इति | तदेतत् भैरवात्मनो हृदयं - मालिन्यपेक्षया नकारत्वात् वस्तुतस्तु
अकाराद्योगिन्याश्च -
प्. २४३)
विसर्गशक्तेः जातः प्रादुर्भूतप्रमातृभावो रुद्रो रोधको द्रावकश्च
पाशानां स एव ना - पुरुषः एतत् स्फुटं लभते न तु अरुद्रो नापि
अयोगिनीगर्भसंभवः सद्योयोगो भैरवैकात्म्यं स एव मोक्षो [यथोक्तम्
मोक्षश्च नाम नैवान्यः स्वरूपप्रथनं हि सः |
स्वरूपं चात्मनः संवित् * * * * * * ||
इति |] निर्णीतः तं ददातीति यो लभते स एवंविधो नान्यः यश्चैवंविधः
[एवंविधो योगिनीजो रुद्रश्चेत्यर्थसिद्धम् |] स स्फुटं लभते एवं
हृदयमेव लभते - सद्योयोगविमोक्षदमेवेति सर्वतो नियमः मन्त्रा
वर्णभट्टारका लौकिकपारमेश्वरादिरूपा मननत्राणरूपाः [मनु
अवबोधने त्रैङ् पालने इति धातुभ्याम् |] विकल्पसंविन्मयाः मुद्राश्च
सकलकरचरणादिकरणव्यापारमययः क्रियाशक्तिरूपाः तत्कृतो गणः
समूहात्मपरशक्त्येकरूपः स्वस्यात्मनः प्राणपुर्यष्टकशू -
प्. २४४)
न्यादेः [यथेश्वरप्रत्यभिज्ञायाम्
कलोद्वलितमेतच्च चित्तत्त्वं कर्तृतामयम् |
अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् ||
मुख्यत्वं कर्तृतायाश्च बोधस्य च चिदात्मनः |
शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ||
इति अत्रायं भावः - मलेन संविद्भागस्य निमज्जनात् कर्तृतामयं
चिद्रूपस्य तत्त्वं स्वातन्त्र्याख्यं कलाख्येन तत्त्वेनोपोद्वलितं मलेन
न्यक्कृतं सदुद्वलितमिदन्तापन्नदेहादिशून्यान्तप्रमेयभागनिमग्नं
यदापि
परामृष्टतथाभूतवैभवनित्यत्वैश्वर्यादिधर्मसंभेदेनैवाहं-
भावेन शून्यादि देहान्त विध्यते तदा तुर्यतेति |] देहस्य य आवेशः - झटिति
परस्वरूपानुप्रवेशेन पारतन्त्र्यात्मकजडतातिरोधानेन
स्वतन्त्रकर्तृतानुविद्धप्रमातृतोदयः तथा स्वं स्वभावं पदार्थस्य
ददातीति स्वदा ईहा इच्छाद्या क्रियान्ता तया अवेशः तदेव लक्षणं यत्र
तथा कृत्वा य उदेति सोऽस्य बीजस्योच्चारे ऊर्ध्वचरणे स्थितौ सत्याम् अस्य
अकारस्य यथैतत् तथा निर्णीतं बहुशः सद्य इत्यनेन स् अत् इत्यनुप्रवेशः
सूच्यते तन्मुखतां तत्पररूपप्राधान्यमेति न तु पशूनामिव तद्रूपं
प्रत्युत तिरोधत्ते
प्. २४५)
अत एव मुहूर्तम् - अकालकलितत्वेऽपि परकलनापेक्षया उन्मेषमात्रं यः
स्मरति - अनुसंधत्ते स एव व्याख्यातं मन्त्रमुद्रागणं
संबध्नातिस्वात्मन्येकीकरोति अद्वयतः कथं? - चुम्बकेन [चुवि
वक्रसंयोगे इति धात्वनुसारात् |] विश्वस्पर्शकेन शाक्तेन रूपेणाभितः
सर्वतो मुद्रितं मुद्रणं कृत्वा तुरवधारणे य एव शाक्तस्पन्दमुद्रित
एवंविधतत्त्वमयशिवरूपानुसंधायकः स एवैवं करोति न तु
नरैकरूपः पाषाणादिः यदतीतं यच्चानागतं यदनर्थरूपं
प्रागन्याभावात् इतरदपि स एव कथयति - कथापर्यन्ततां नयति
असंकल्पनात् कथं?
पृष्टः प्रश्ने ज्ञीप्सा
पृष्टं तद्यस्यास्ति स तथा |
यदेव किल ज्ञीप्सति
तत्तदेवान्तर्गतं बहिष्कुरुते ||
यथोक्तम्
यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान्हृदि स्थितान् |
सोमसूर्योदयं कृत्वा संपादयति देहिनः ||
प्. २४६)
इत्यादि | एको हि असौ स्मरणोत्प्रेक्षणादावपि तावानेव वर्तमानो न स्तो
भूतभविष्यती यथोक्तं
कालोभयापरिच्छिन्नम् * * * * * * * * * |
इत्यादि | प्राग्भवत एवानधिकरूपस्य पुनरिदं जानाति करोति
इत्यादिसंकोचासहिष्णोः सकृद्विभातत्वम् अत एवोक्तं भूताद्यपेक्षया
वर्तमानकालस्य तदभावे वस्तुतोऽप्रसक्तेः अकालकलितत्वमेव वस्तुतत्त्वम् इति
हि उक्तमसकृत् स एव तु कालशक्तिमवभासयति चित्राम् |
किं च जाग्रति कस्मिंश्चिद्घटिकाभिमतापि या |
तस्यामेव प्रमातारः स्वप्नगाश्चित्रताजुषः |
दिनप्रहरवर्षादिवैचित्र्यमपि चिन्वते ||
इति नीत्या प्रकृष्टो हरः संहारोऽकुलाख्यः ततोऽनन्तरमभिप्रेतं
प्रेतशब्दवाच्यसदाशिवतत्त्व-
प्. २४७)
निविष्टज्ञानशक्त्याभिमुख्येन देवताया इच्छाया रूपं रूपाणां
कलनम् साक्षस्य सेन्द्रियस्य रूपस्यादनं भक्षणमतनं [अद भक्षणे
अत सातत्यगमने इति धात् |] च सातत्यगमनं कृत्वा
रोधनद्रावणरूपशक्तिभिराकृष्टः पश्यति असंदिग्धं कृत्वा एतदुक्तं
भवति - यदिदं दर्शनं नाम
तत्सर्वतरङ्गप्रत्यस्तमयाख्याकुलसत्ताधिरूढस्य
अनन्तमहिमस्वातन्त्र्ययोगात् इच्छाशक्तिमतः सैवेच्छा स्वान्तर्गता
इष्यमाणवस्तुन ईषदस्फुटभेदावभासनरूपज्ञानशक्त्यात्मकतामेति
तज्ज्ञानशक्तिविशेषस्पन्दनरूपसमस्तेन्द्रियाणां बहीरोधनम् एतदेव
सातत्यगमनम् तच्च द्रावणं तदेव भक्षणम् एते एव वमनभक्षणे
दर्शनस्य सर्वप्रथैकमयत्वात् प्रथायाश्च तथाविधवैचित्र्ययोगात्
अनिश्चितोभयालम्बनत्वमपि स्थाणुपुरुषादावपि असंदिग्धमेव एवं
दृष्कृतमयी
प्. २४८)
परमेशशक्तिः एवं तु असौ परापररूपस्मृतिशक्तिमान् भैरव इत्याह
प्रहरद्वयेत्यादि एवं तु स्मरन् जायते व्योम विद्यते यत्र पुर्यष्टके शून्ये च
तत्प्रमातृरूपतामादधानः प्रहरोपलक्षितं दर्शनाख्यं रूपं यदा
पुनः पुनः परामृशति स्मरत्यपि च प्राग्वत्
साक्षात्पश्यत्यसंदिग्धमाकृष्टो रुद्रशक्तिभिः इति संबन्धः | तावद्धि
तदपि दर्शनमेव इत्युक्तम् | एवं तु अपरात्मकविकल्पशक्तियुक्त इत्युच्यते
त्रयेणेति - पश्यन् स्मरंश्च व्योमस्थो यदा पुनरपि पश्यति तदनेन
प्रहरोपलक्षितदर्शनत्रयेण मातरोऽन्तःप्रमातृमययः परमेशशक्तयः
ताश्च प्रमातृत्वादेव सिद्धाः प्रमात्रन्तरविषयसिद्ध्यनपेक्षाः
तद्रूपैकात्म्यलक्षणेन योगेनैश्वर्यं तथा गृहीतस्वातन्त्र्यांशाः महत्
- बाह्येन्द्रियवृत्त्यपेक्षया सर्वत्राप्रतिहतप्रसरत्वं बलं यासां ता
अन्तःकरणदीधितयः ता अपि सिद्धा एव - विश्वत्र
पाशवशासनयन्त्रणानिरपेक्षतयैव सरभसप्रवृत्तिरूपत्वात्
प्. २४९)
वीरा - बुद्धिक्रियेन्द्रियाख्याः तेऽपि सिद्धा एव तेषामपि चेश्वराः
कादिवर्णात्मानः तेऽपि सिद्धाः तत् कादिवर्णोद्धारोदितश्च
ब्राह्म्यादिदेवतात्मा तत्तद्द्वेषरागादिचित्तवृत्तिरसमयः शक्तिसमूहः
सोऽपि सिद्ध एव अत एव बलवान् एते सर्वे संभूय पराज्ञया - परस्य मां
मानमयीम् असौ पर इति विकल्पात्मिकां सिद्धिम् यद्वा समीहितं फलमेव
अहं ददति प्रयच्छन्ति अज्ञातार्थक्रिये ज्ञातार्थक्रिये च एष क्रमेण
विकल्पयोगः किं बहुना ये मन्त्रिणोऽपरकुलान्तमन्त्रसिद्धा अपि
साधयन्त्यपि च तेऽपि अनेन हृदयेन सेत्स्यन्ति जीवन्मुक्ताः - एतेन विना
पारमार्थिकी सिद्धिर्न भवतीति भावः | यत्किंचिद्भैरवेत्यादि तथा ये
सिद्धाः साधयन्ति च ये च सेत्स्यन्ति अणिमादियोगात् तेऽपि अनेनैव योगेन नहि
एतद्धृदयानुप्रवेशं
प्. २५०)
विना व्यावहारिक्यपि सिद्धिः यतो - भैरवे विश्वात्मनि तन्त्रे क्रियाकलापे यत्
किंचित् सिद्धिजातं तदत एव एवमेष परमेश्वर एव हृदयात्मा
एवंरूपतया
शक्तित्रितयवृंहितसततोदयमानसंह्रियमाणानन्तसंविदैक्यशाली
परिकल्पितः सन् अदृष्टसंदर्शनमेवमख्यातिरूपमण्डं मायामलम्
अण्डं च भावानां भेदाख्यं सारं लुम्पति एवमदृष्टम्
एतद्धृदयमण्डलोऽपि चत्वार्यण्डान्येव लोपः संकोचः तद्योगि एवमेष
विद्यामायोभयात्मा परमेश्वर एक एव चिद्धनः यथोक्तम्
दर्शनं तु परा देवी स्मरणं च परापरा |
विकल्पस्त्वपरा देवी त्रिकशक्तिमयः प्रभुः ||
मायाविद्ये उभे तस्य माया तु चतुरण्डिका |
विद्या स्वरूपसंवित्तिरनुग्रहमयी शिवा ||
इति | यदि तु योगप्राधान्यं तदा श्रीपूर्वादिशास्त्रनिरूपितं पूर्वमेव
व्रतादि कृत्वा अस्योच्चारे कृते इत्यादि स्पष्टमेव व्याख्येयं यतो
प्. २५१)
दृष्टकार्येषु नियतिपरतन्त्री क्रियाकलापं नियतमेवाक्षिपति योगिनामपि हि
नाडीचक्रकरणभावनासंवेदनयुक्त्या नियम एव || १७ ||
अस्येदानीं त्रिकार्थस्य यदुक्तं कुलात्परतरं त्रिकम् इति
सर्वोत्तरमनुत्तरत्वं तन्निरूपयति
अदृष्टमण्डलोऽप्येवं
यः कश्चिद्वेत्ति तत्त्वतः |
स सिद्धिभाग्भवेन्नित्यं
स योगी स च दीक्षितः || १८ ||
मण्डलं - देवताचक्रम् अपश्यन्नपि - अप्राप्तमेलकोऽपि [अत्रायमभिप्रायः -
एकैका वाहदेवी अक्लेशेन स्वारस्येनैकैकस्मिन् निजनिजविषये
आदिदेव्यधिष्ठानेन मेलापमापादयतीति चेन्द्रियदेवतानां
द्वादशानां मेलाप इति |] चर्यानिशाटनहठादिना मण्डलानि
शरीरनाडीचक्रानुचक्ररूपाणि योगाभ्यासेनासाक्षात्कुर्वन्नपि
त्रिशूलाब्जादिमण्डलमदृष्ट्वापि -
प्. २५२)
नात्र मण्डलादिदीक्षोपयोगः एवमेव कश्चित् परशक्तिपातानुगृहीतो वेत्ति यः
एतज्ज्ञानमेव हि दीक्षा कान्यात्र दीक्षा अत एव एवं जानन् विभुना
भैरवभट्टारकेण दीक्षितोऽत एव स्वयं [यदुक्तम्
स्वयंगृहीतमन्त्राश्च क्लिश्यन्ते चाल्पबुद्धयः |
लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सोऽत्र कल्पितः ||
संकेतबलतो नास्य पुस्तकात्प्रथते महः |
इति | तथा
पुस्तकाधीतविद्या ये दीक्षासमयवर्जिताः |
तापसाः परहिंसादिवश्या इह चरन्त्यलम् |
न च तत्त्वं विदुस्तेन दोषभाज इति स्फुटम् |
इति |] गृहीतमन्त्रश्च - इत्येतद्धृदयातिरिक्तमन्त्रविषयम् नहि अयं मन्त्रो -
हृदयमयत्वात् मन्त्रमहेशतन्महेशरूपोत्तीर्णत्वात् अस्य
पुस्तकेष्वलेख्यमेवेदं हृदयमिति परशक्तिपातानुग्रहादेव
एतल्लाभस्तत्त्वत इति निर्णीतम् | तथा यः कश्चिदिति -
जातिव्रतचर्यादिनैरपेक्ष्यमत्र वेदनमेव
प्. २५३)
हि प्रधानम् स सिद्धिभाक् योगी - योगमेकत्वमिच्छन्ति इति यतो
ज्ञानदानमायाक्षपणलक्षणा च तस्यैव दीक्षा [यथोक्तम्
ददाति ज्ञानसद्भावं क्षिपयत्यखिलं मलम् |
दानक्षपणधर्मत्वाद्दिक्षेति हि प्रकीर्तिता ||
इति |] चकारोऽवधारणे ततश्च सर्वतो मन्तव्यः तदाह - स एव सिद्धिभाग्योगी
स एव दीक्षितः नित्यमिति || १८ ||
अनेन ज्ञातमात्रेण
ज्ञायते सर्वशक्तिभिः |
सर्वाभिः देवताभिः सर्वशक्तिभिश्च सर्वज्ञैरसौ ज्ञायते एतज्जानन्नेव
तैरपि यत्किंचित् ज्ञायते तदनेन ज्ञातमात्रेण ज्ञायते इति प्राग्वत् |
सर्वाभिः शक्तिभिरिति करणे तृतीया ||
प्. २५४)
तथा
शाकिनीकुलसामान्यो
भवेद्योगं विनापि हि || १९ ||
अनेन ज्ञातमात्रेण योगमाभ्यासिकं मायीयदेहपातावाप्ततदैक्यरूपं
च विनापि शाकिनीकुलस्य - विशेषस्पन्दात्मनः
सामान्यस्पन्दरूपोऽकुलरूपः शक्तिचक्रेश्वरो भवेदिति || १९ ||
किं च
अविधिज्ञो विधानज्ञो
जायते यजनं प्रति || २० ||
विधिः - क्रिया ज्ञानं तद्यस्य द्वयं नास्ति स पशुः यथोक्तं किरणायाम्
पशुर्नित्यो ह्यमूर्तोऽज्ञो निष्क्रियो निर्गुणः प्रभुः |
व्यापी मायोदरान्तःस्थो भोगोपायविचिन्तकः ||
इति स पशुरपि अनेन ज्ञातमात्रेण विधानं ज्ञा च यस्य स - कर्ता ज्ञाता च
विषयसंगतकरणं
प्. २५५)
प्रति जायते यजनं च अस्यापूर्णमपि पूर्णं भवतीति - सर्वमयत्वात्
हृदयस्य || २० ||
तथाहि
कालाग्निमादितः कृत्वा
मायान्तं ब्रह्मदेहगम् |
शिवो विश्वाद्यनन्तान्तः
परंशक्तित्रयं मतम् || २१ ||
कालाग्नेर्धरातत्त्वादिभुवनात् मायातत्त्वं यावत् ब्रह्मणः सकारस्य देहे
विश्वभुवनात् विद्यातत्त्वादेरारभ्य यावत् शिवोऽनाश्रितशक्तिरूपः
अनन्तस्य - अकारस्य अन्तः परं विसर्गात्मकं शक्तित्रयं तच्च परम् उक्तं
च सार्णेन इत्यादि || २१ ||
तदन्तर्वर्ति यत्किंचित् -
शुद्धमार्गे व्यवस्थितम् |
प्. २५६)
अणुर्विशुद्धमचिरा -
दैश्वरं ज्ञानमश्नुते || २२ ||
यत् किंचिद्वस्तु व्यवस्थितं [विचित्रावस्था संजातास्येति व्यवस्थितं
तारकादित्वादितच् |] विचित्रावस्थं तत् हृदयबीजान्तर्वर्ति शुद्धं भवेत् तदेव
चैश्वरं ज्ञानम् अणुः - अण्यते प्राणिति अणति नदति परिमितोच्चारात्
मूर्धन्यो भगवत्प्रभावादचिरादेव प्राप्नोति [नदनरूपतया मूर्धन्यो
भवन् ऐश्वरं ज्ञानमचिरात् प्राप्नोति न तु
शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता |
निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् ||
इत्यादिनीत्या विशुद्धबोधात्मकत्वमेव यथा च श्रीस्पन्दसूत्रेषु
तदा तस्मिन्महाव्योन्नि प्रलीनशशिभास्करे |
सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ||
इति | अयमेव च ब्रह्मज्ञानशिवज्ञानयोरन्योन्यं भेदः तथाहि -
मायोत्तीर्णतायां हि तत्रैकत्र ब्रह्माप्तिरपरत्र च विज्ञानाकलावस्येति
सूक्ष्मबोधवतां विवेच्योऽत्रेदृशः क्रमः अपराबोधेऽपि न कश्चिद्दोष इति
|] || २२ ||
प्. २५७)
कथम्
तच्चोदकः [अयमत्राभिप्रायः - तस्यैश्वर्यस्य चोदको गुरुरेव शिवो ज्ञेयः
विशुद्धस्वरूपतायां लब्धायां स्वातन्त्र्यलक्षणमैश्वर्यं यद्यपि
अयत्नसिद्धमेव तथापि तत्र द्वयी गतिः - नियतिरागतः यथोक्तम्
वैष्णवाद्याः समस्तास्ते विद्यारागेण रञ्जिताः |
न विदन्ति परं तत्त्वम् * * * * * * * * ||
इति तदर्थमेव चोक्तं तच्चोदक इति तथोक्तम्
मन्त्रत्वमेति संबोधादनन्तेशेन कल्पितात् |
इति तदर्थमेव चात्र तच्चोदक इति तेन न केवलं ज्ञानमेव
स्वविमर्शलक्षणं स्वभावहेतुरित्युक्तेर्भावनाप्राधान्यं
शैवशास्त्रेषु कथ्यते तत एव चोक्तं स्वतः शास्त्रतो गुरुत इति सम्यक् ज्ञानम्
इति |] शिवो ज्ञेयः
सर्वज्ञः परमेश्वरः |
सर्वगो निर्मलः स्वच्छ -
स्तृप्तः स्वायतनः शुचिः || २३ ||
यः - तच्चोदको गुरुः स शिव एव ज्ञेयः शिव एव तच्चोदकः स चाज्ञेयो
ज्ञातैव स्वायतनः स्वान् अयान् विज्ञानरूपान् भावांस्तनोतीति | सर्वं
चैतद्विस्तरतो निर्णीतमेव || २३ ||
प्. २५८)
एवं विस्तरशोऽभिधाय तात्पर्येण निगमयति [निगमयतीति -
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि परप्रतिपत्तये पञ्चावयवास्तर्कस्य
इति तत्रावयवचतुष्कसिद्धार्थगर्भीकारेण साध्योपसंहरणं निगमनं
तेन - सिद्धमर्थं साधयति निगमयतीत्यर्थः |]
यथा न्यग्रोधबीजस्थः
शक्तिरूपो महाद्रुमः |
तथा हृदयबीजस्थं
जगदेतच्चराचरम् || २४ ||
एवं यो वेत्ति तत्त्वेन
तस्य निर्वाणगामिनी |
दीक्षा भवत्यसंदिग्धा
तिलाज्याहुतिवर्जिता || २५ ||
इह असत् [यथा शिवदृष्टौ
शशशृङ्गादिकेनापि विभोरस्ति समन्वयः |
इति | तथा
अस्यातिर्यदि न ख्याति ख्यातिरेवावशिष्यते |
स्यातिश्चेत्स्यातिरूपत्वात्स्यातिरेवावशिष्यते ||
तथा
कः सद्भावविशेषः कुसुमाद्भवति गगनकुसुमस्य |
यत्स्फुरणानुप्राणो लोकः स्फुरणं च सर्वसामान्यम् ||
इति | तथा
विश्वोन्मेषदशायां दैशिकनाथस्य यावान्प्रसरः |
कलिलावस्थायां विश्वनिमेषेऽपि तावान्भवति ||
इति मयूराण्डरसन्यायोऽत्र स्फुटं सिद्ध इति बोध्यम् |] तावन्न किंचित्
-इत्युक्तं विश्वं
प्. २५९)
च विश्वात्मकमिति ततश्च यथा वटबीजे तत्समुचितेनैव वपुषा
अङ्कुरविटपपत्रफलानि तिष्ठन्ति एवं विश्वमिदं हृदयान्तः एवं
परिज्ञानमेव असंदिग्धा निर्वाणदीक्षा यथोक्तम्
इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः |
इयं निर्वाणदीक्षा च शिवसद्भावदायिनी ||
इति | अन्या अपि दीक्षा भोगान् वितरेयुरपि एतत्परिज्ञानमेव तु तत्त्वतो दीक्षेति तत
एवात्र सर्वोत्तरत्वं - कुलशास्त्रेभ्योऽपि आधिक्यात् यथाहि तुलाङ्केषु
ऊर्ध्वमूर्ध्वं परिमितेऽपि उन्नत्यवनतियोगेऽनन्तमन्तरं परिमाणस्य
भवति
प्. २६०)
एवमूर्ध्वोर्ध्वतत्त्वेषु देशकालभोगसंवेदनानाम् अनन्तमेवान्तरमिति
एवमेवाधिकीभवेत् षट्त्रिंशतोऽपि अधिकं भवेदिति यतश्च संवेदनमेव
दीक्षा तत एव उक्तमेतत्संविदनुप्रविष्टो वीरो वा योगिनी वा
निजपरसत्तासततोदिता
मायीयबाह्यान्तःकरणरश्मिदेवताद्वादशकचक्रेश्वरपरभैरव-
भट्टारकात्मकनिर्णीततत्त्वाहंरूपानुगृहीतेन कृतदीक्षादाविति
एवमनुत्तरपदमुत्तररूपापरित्यागेनैव यथा भवति तथा
व्याससमासाभ्यां भूयसा निर्णीतम् अधुना तु इदं वक्तव्यमुच्यते
तावत्सर्वशास्त्रेषु
मनुष्यदेहमास्थाय च्छन्नास्ते परमेश्वराः |
निर्वीर्यमपि ये हार्दं त्रिकार्थं समुपासते ||
इति तत्कथमस्योपासा तथापि चानुत्तरसत्तयात्रापि भाव्यम् अनुत्तरत्त्वादेव सा
च कथम्? इत्याकाङ्क्षां निर्णिनीषुर्ग्रन्थान्तरमवतारयति
मूर्ध्नि वक्त्रे च हृदये
गुह्ये मूर्तौ तथैव च |
प्. २६१)
न्यासं कृत्वा शिखां बद्ध्वा
सप्तविंशतिमन्त्रिताम् || २६ ||
एकैकं तु दिशां बन्धं
दशानामपि योजयेत् |
तालत्रयं पुरा दत्त्वा
सशब्दं विघ्नशान्तये || २७ ||
शिखासंख्याभिजप्तेन
तोयेनाभ्युक्षयेत्ततः |
पुष्पादिकं क्रमात्सर्वं
लिङ्गे वा स्थण्डिलेऽथ वा || २८ ||
चतुर्दशाभिजप्तेन
पुष्पेणासनकल्पना |
तत्र सृष्टिं यजेद्वीरः
पुनरेवासनं ततः || २९ ||
सृष्टिं तु संपुटीकृत्य
पश्चाद्यजनमारभेत् |
प्. २६२)
सर्वतत्त्वसुसंपूर्णां
सर्वाभरणभूषिताम् || ३० ||
यजेद्देवीं महेशानीं
सप्तविंशतिमन्त्रिताम् |
ततः सुगन्धिपुष्पैस्तु
यथाशक्त्या समर्चयेत् || ३१ ||
पूजयेत्परया भक्त्या
आत्मनां च निवेदयेत् |
एवं यजनमाख्यात-
मग्निकार्येऽप्ययं विधिः || ३२ ||
मूर्धादीनि बाह्यतयोचितरूपाणि वस्तुतः
परंब्रह्मरूपाभिहितपञ्चात्मकव्योमादिधरण्यन्तसतत्त्वेशानादि-
सारचिदुन्मेषेच्छाज्ञानक्रियारूपाण्येव - मन्त्रलिङ्गात् यथा मन्त्राः
१. ईशानमूर्ध्ने
२. तत्पुरुषवक्त्राय
३. अघोरहृदयाय
४. वामदेवगुह्याय
५. सद्योजातमूर्तये
प्. २६३)
इति तत्रैतत्पञ्चकाविभागात्मकमुपक्रमोपसंहारयोः रूपमिति द्वे मध्ये
च प्रोल्लसति विभागत्वे पञ्चानामेकैकशः पञ्चात्मकता - इति
पञ्चविंशतिः | अत्रैव मालिन्यादिमन्त्राणामनुप्रवेशः | तिस्रश्च देव्यः
प्रत्येकमिच्छादित्रययोगात् नवात्मतां प्राप्ताः पुनरपि
सृष्टिस्थितिसंहृतिवशात् त्रैधमापन्ना इति सप्तविंशतिसंस्मृतहृद्बीजेन
शिखाया - एवंरूपधरण्यन्तपरिकल्पनस्वातन्त्र्यरूपायाः
परचिद्बुद्धिस्पर्शप्राणब्रह्मरन्ध्रवाहरूपैरुपचर्यमाणायाः
बन्धनं - सर्वाविभागसारं तादात्म्यम् मूर्धादिषु केवलेष्वपि
प्रत्येकं सर्वाणि वक्त्रादीनि परस्परं विशेषणानि तच्च निर्णीतमेव
सर्वसर्वात्मकत्वनिर्णयेनैव दिश्यमाना घटाद्या एव दिशः ताश्च
स्वापेक्षया दशैव भवन्ति तत्रापि एतदेव बन्धनम् -
आत्मसाक्षात्कारात्मकम् एतच्च तालत्रयेण ताला प्रतिष्ठाविश्रान्तिः तत्र
सकारादि हृदयमेव तच्च
प्. २६४)
सशब्दं मध्यमान्तं शब्दनं हि शब्दः तच्च मध्यमैव - वैखर्याः
तच्छेषात्मकत्वात् - इत्युक्तं बहुशः | एषा च विघ्नानाम् - अभेदात्मनि
अखण्डिते परमात्मनि खण्डनात्मकसंकोचसारभेदकल्लोलकलङ्कानां
शान्तिः - अभेदभैरवार्णवतादात्म्यमेव यदाहुः श्रीसोमानन्दपादाः
अस्मद्रूपसमाविष्टः स्वात्मनात्मनिवारणे |
शिवः करोतु परया नमः शक्त्या ततात्मने ||
इति | एवमेव सप्तविंशतिजप्तं तोयमित्यर्घपात्रविधिः तोयमत्र सर्वमेव
हृदयद्रवात्म - अनियन्त्रितत्वात् असंकोचदानाच्च पुष्पं व्याख्यातम्
लिङ्गं च
* * * * * * * * यत्र लीनं चराचरम् |
इत्येतदपि निर्णीतमेव विश्वात्मनि तत्त्वे आसि-क्रियायामधिकरणस्य कर्तुश्च
आसनस्य स्वातन्त्र्यात् कल्प्यमानस्य स्वातन्त्र्येण कल्प्यमानत्वं
प्. २६५)
चतुर्दशेन औकारेण - तस्यैव त्रिशूलरूपत्वात् इत्युक्तमेव | सृष्टिः -
आदिक्षान्ततादात्म्यमयं हृदयं शक्तिर्गुह्यमिति वीरत्वम् अत एव आसनमपि
सर्वं तत्रैव - आधाराधेययोः परस्परैकरूपत्वात् यथोक्तम्
सर्वभूतस्थमात्मानम् * * * * * * * * |
इत्यादि - संपुटीकरणसृष्टेरादिक्षान्तायाः प्रत्येकं सर्वशश्च
हृदयबीजेन परतत्त्व एवोल्लासात् संहाराच्च न चानवस्थेत्युक्तमेव
सृष्टेश्च संपूटीकरणमुभयसंघट्टक्षोभानन्दरूपं
तदुत्थद्रव्योपयोगोऽपि क्त्वा अत्र शब्दप्रतीतिपौर्वापर्यमात्रे सर्वतत्त्वैः
सुष्ठु अभेदेन सम्यगनपायितया पूर्णत्वं सर्वत्र च परमाणावपि यदा
समन्तात् भरणं - सर्वात्मीकरणं सर्वैर्वा
घटसुखतिर्यङ्नरविरिञ्चिविष्णुरुद्रमन्त्रसदाशिवादिप्रमातृरूपैः
अवयवमानैरहमेकरससावयवित्वं निर्णीतमेव अत एव
विशिष्टाकृत्यायुधादिध्यानमत्र नोक्तम् - तस्य निर्मेयत्वात्
आरुरुक्षुरेतावन्त्रिकार्थाभिलाषुकश्च
प्. २६६)
कथमारोहतु? इति चेत् - कस्यायमर्थिभावो मा तर्हि आरुक्षत्
सिद्धातन्त्रादिविधिमेव तदाशयेनैव
निरूपिततद्ध्यानादिसंकोचमालम्बताम् असंकोचितानुत्तरपदे हि अनधिकृत
एव एष एव सदोदितो योगः गन्धपुष्पादि निर्णीतम् यथा - शब्दः सहार्थे
तृतीया च तत्रैवोक्ता परयैव हृदयरूपया पूजयेत् कथं? भक्त्या -
तादात्म्यानुप्रवेशप्रह्वतात्मना भक्त्या स्वयं कॢप्तेन
पूज्यपूजकविभागेन पूज्यो हि स्वयं सृज्यते स परं
स्वतन्त्रचिन्मयतापरमार्थ एव - अनुत्तरस्वातन्त्र्यबलात् न घटादिरिव जड इति
विशेषोऽत्र तदुक्तं श्रीप्रत्यभिज्ञायाम्
स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः |
प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् ||
इति | भक्त्या च लक्षणया पूजनेन परं तत्त्वं लक्ष्यते -
सर्वक्रियास्वेवंरूपताप्रत्यभिज्ञानमुपायत्वात् लिप्यक्षरस्येव
मायीयवर्णव्युत्पत्तौ तस्यापि च वर्णवीर्यानुप्रवेश इवात्मानं निवेदयेत्
प्. २६७)
अन्यस्य निवेद्यस्याभावात् एवं च आत्मानमेव निःशेषेण निरुत्तरपदं
वेदयेत् अनुत्तरसत्तानुसारेण अत्र संभावनायां लिङ् -
सततमेवंमयत्वेनैवावस्थितेः इति हि उक्तम् उपासानुसारेण तु नियोगादावपि |
एवम् आ समन्तात् सर्वत्र सदा यत् ख्यातं
पारमार्थिकशुद्धशिवस्वरूपप्रथात्मिका ख्यातिः तदेव यजनं
परभैरवसंविद्देवतायाः पूजनात् तया च
तादात्म्यसम्यग्गमनरूपताकरणात् सर्वत्र च
परिमितात्मीयात्मरूपस्वत्वनिवृत्त्या
परिपूर्णचिद्धनशिवशक्त्यात्मकात्मीयरूपपरस्वत्वापादनात्मकात्
दानाच्च एतदेव अग्निकार्यं - सर्ववासनाबीजानां
सर्वपदार्थेन्धनग्रासलाम्पट्यजाज्वल्यमाने
शिवसंघट्टक्षोभक्षुभितपरशक्त्यरणिसततसमुदितपरभैरव-
महामहसि सर्वाभिष्वङ्गरूपम्हास्नेहाज्यप्राज्यप्रतापे हवनात्
अन्तर्दाहात् अयमेव अग्निकार्ये विधिर्दीक्षापर्यन्तोऽपि नान्यः पृथक् कश्चित् - इति
तात्पर्यम् |
प्. २६८)
स्वस्वरूपपरिज्ञानं मन्त्रोऽयं पारमार्थिकः |
दीक्षेयमेष योगश्च क्रियायामप्यनुत्तरः ||
अत एव प्रागेवोक्तम् [उत्तरस्याप्यनुत्तरमित्यस्य व्याख्याने प्रागेवोक्तमेतत् |]
यथान्यत्र मन्त्रोपासादिक्रियोत्तरेण ज्ञानग्रन्थेनोत्तीर्यते नैवमिहेति
यदुक्तम् उत्तरस्याप्यनुत्तरम् इति सूत्रे तदेवैतदन्तेन ग्रन्थेन निर्व्यूढं -
हृदयस्यैव यागदीक्षाक्रियारूपत्वात् [द्वन्द्वान्ते श्रूयमाणः शब्दः
प्रत्येकमभिसंबध्यते इति रूपत्वशब्दस्य प्रत्येकमत्र संबन्धः |] तस्य
चानुत्तरत्वात् | श्रीसोमानन्दपादैस्तु स्रुक्स्रुवसंस्कारादि [शिवशक्तिरूपौ हि
स्रुक्स्रुवौ परस्परौन्मुख्येन स्थापनीयाविति बाह्येऽपि क्रमः |]
सर्वंसहत्वप्रतिपादनेनापि अखण्डितत्वाभिप्रायेण निरूपितम् एवमादौ
अङ्गहृद्भेदधूलिभेदाद्यपि [चूर्णिकादिभेदो न्यासरूपः |] तद्रूपं
युज्यते न किंचिदत्र नाप्युपपद्यते नाप्यस्ति नाप्यधरशास्त्रपातित्वेन
तदुपजीवकत्वम् इति निर्णीतप्रायमेव ||
प्. २६९)
किमेवमुपासायां भवति? इत्यवतरति
कृतपूजाविधिः सम्यक्-
स्मरन्बीजं प्रसिद्ध्यति |
एवमनवरतं व्यवहारेष्वपि बीजं स्मरन्नेव स्मरणादेव कृतपूजाविधिः
प्रकर्षेणान्यकुलशास्त्रादिशैववैष्णवान्तशास्त्रातिरेकेणैव
भगवद्भैरवभट्टारकरूपसमाविष्टः
निजपरसंविच्चमत्कारवशनिर्मितभावक्रीडाडम्बरो जीवन्मुक्त एव
प्रथमोक्तनयेन भवति इत्यनुभव एवायमावर्तते न त्वन्यत् किंचिदिति
स्मरणम् उक्तम् | श्रीमतशास्त्रेष्वेवमेव
उपासकस्त्वननुप्रविष्टवीर्यसत्तासारहृदयोऽपि क्रमपूजामाहात्म्यात्
बीजं सम्यक् स्मरन् प्राप्तहृदयाख्यतत्त्वमन्त्रवीर्यः प्रकर्षेण सिद्ध्यति -
क्रमपूजामाहात्म्यादेव तारतम्यातिशयात् स्वयं वा
प्रसन्नगुरुभट्टारकवदन -
प्. २७०)
कमलाद्वा मन्त्रवीर्यं हृदयात्मकमासादयति जीवन्मुक्तश्च भवतीति
यावत् | अत्र द्वारपरिवारगुरुपूजनं गुणं खण्डनां [अत्र
देहलीदीपन्यायेन नशब्दो योजनीयस्तेन न गुणमावहति न वा
खण्डनामावहतीत्यर्थः |] वा न वहति तत एव भट्टपादैः न्यरूपि | अत्र तु
कुलपर्वाणि [पूरणाद्विधेः पर्वं तच्च षोढा - सामान्यं
सामान्यसामान्यं सामान्यविशेषो विशेषसामान्यं विशेषो
विशेषविशेष इति एतच्चान्यत्र विस्तरतो निरूपितम् | तद्विधिः
यथादृष्टमण्डलोऽपि पर्वदिनानि पूजयन् वर्षादेव पुत्रकोक्तं फलमेति
विना संध्यानुष्ठानादिभिरिति तथा पवित्रकविधिः विधिपूर्वकः
परमेश्वराज्ञापूरकश्च यथोक्तम् विना पवित्रकेण सर्वं निष्फलमिति तत्र
कालपरिच्छेदोऽन्यत्रान्वेष्यः तद्विधिर्यथा सुवर्णमुक्तारत्रविरचितात्
प्रभृति पट्टसूत्रकार्पासकुशान्तमपि कुर्यात् तच्च तत्त्वसंख्याग्रन्थिकं
सति विभवे मासि मासि पवित्रकम् अथवा चतुर्षु मासेषु सकृद्वा तदकरणे
प्रायश्चित्तं जपेत् ज्ञान्यपि संभवद्वित्तोऽप्यकरणे प्रत्यवैति
ज्ञाननिन्दापत्तिश्च |] पवित्रं चेति सम्यक्त्वं पूजाविधेः
यत्रान्तरखिलं भाति यच्च सर्वत्र भासते |
स्फुरत्तैव हि सा ह्येका हृदयं परमं बुधाः ||
प्. २७१)
रासभी वडवा वापि स्वं जगज्जन्मधाम यत् |
समकालं विकास्यैव संकोच्य [संकोच्यान्तर्मुखीकृत्य विकास्य
बहिर्मुखीकृत्य हृष्यति स्वात्मन्यानन्दातिशयमनुभवति तथैवोभयस्य
भैरवस्य भैरव्याश्च महानन्दं विसर्गभुवमित्यर्थः | एतदेव हि
नामास्य परस्य प्रकाशस्यानन्यसाधारणं रूपं तत् सदैव
सृष्टिसंहारकारित्वमिति अन्यथा हि अस्य जडेभ्यो वैलक्षण्यं न स्यादिति |]
हृदि हृष्यति ||
तथोभयमहानन्दसौषुम्नहृदयान्तरे |
स्पन्दमानमुपासीत हृदयं सृष्टिलक्षणम् ||
ध्यायन्स्मरन्प्रविमृशन्कुर्वन्वा यत्र कुत्रचित् |
विश्रान्तिमेति यस्मांच्च प्रोल्लसेद्धृदयं तु तत् [उक्तं च
एकीकृतमहामूलशूलन्नैसर्गिके हृदि |
परस्मिन्नेति विश्रान्तिं सर्वापूरणयोगतः ||
अथ तत्पूर्णवृत्त्यैव विश्वावेशमयं स्थितम् |
प्रकाशस्यात्मविऽस्रान्तावहमित्येव दृश्यताम् ||
अनुत्तरविमर्शे प्राग्व्यापारादिविवर्जिते |
चिद्विमर्शः पराहंकृत् प्रथमोल्लासिनि स्फुरेत् ||
इति |] ||
तदेकमेव यत्रैतज्ज्ञानं वैकल्पिकं परम् |
तत्त्वानि भुवनाभोगाः शिवादिपशुमातरः ||
स्वं स्वं विचित्रं विन्दन्तः स्वरूपं पारमार्थिकम् |
चित्रीकुर्वन्त्येव यान्ति तां चित्रां संविदं पराम् ||
प्. २७२)
दशाद्रव्यक्रियास्थानज्ञानादिष्वपि सर्वशः |
अशङ्कयैव संक्रामः पूजास्य सततोदिता ||
क्रमपूजनमात्रं च कुलपर्वपवित्रकैः |
सहात्र पूजने प्रोक्तं सम्यक्त्वं त्रिकशासने ||
यथोक्तम्
द्रवाणामिव शारीरं [वीर्यलक्षणम् |] वर्णानां सृष्टिबीजकम् |
शासनानां त्रिकं शास्त्रं मोक्षाणां भैरवी स्थितिः ||
उपासायाः समापत्तिर्व्रतानां वीरवृत्तिता |
तथैव पर्वमध्ये तु कुलपर्वाणि शासने ||
सर्वेषां चापि यागानां पूरणाय पवित्रकम् |
पवित्रकं न कुर्वन्ति चतुस्त्रिद्विःसकृत्तु ये ||
कुलपर्व न जानन्ति तेषां वीर्य न रोहति |
फुर-इ फुरणम अलह का-अव्यह पर दे-उ सोहि अ-उस मगाह सव्य काल
नीसंकस-ऊ सहजा जाणु पूजस पज्ज इ इ उ उ ह ||
एवमनुत्तरस्वरूपं विस्तरतो निर्णीतं - यत्र भावनाद्यनवकाशः
प्रसंख्यानमात्रमेव दृढचमत्कार -
प्. २७३)
लक्षणहृदयङ्गमतात्मकप्रतिपत्तिदार्ढ्यपर्यन्तं
यत्रोपायधौरेयधाराधराणि धत्ते सिद्धिप्रेप्सुषु तु योगो वक्तव्यः -
स्वातन्त्र्यानीयमानास्वपि दृष्टयोगसिद्धिषु लौकिकप्रसिद्धिनियत्युत्तरत्वेऽपि
पारमेशव्यवस्थारूपनियत्यनतिक्रमात् यदुक्तं शिवदृष्टौ
तथापि चित्रकर्मार्थमुपायो वाच्य आदरात् |
इति तत्रापि चानुत्तररूपस्य नास्ति खण्डना काचित् - दृष्टसिद्धिप्सायत्नस्येव
तदाप्तितत्फलविश्रान्त्यादेरपि परैकमयत्वात् किन्तु जीवन्मुक्तापेक्षया
मन्दशक्तिपातोऽसावुच्येत अपूर्णप्रायत्वात् ||
तं योगमार्गं निरूपयितुं ग्रन्थशेषोऽवतरति
आद्यन्तरहितं बीजं
विकसत्तिथिमध्यगम् |
हृत्पद्मान्तर्गतं ध्यायेत् -
सोमांशं नित्यमभ्यस्येत् || ३३ ||
प्. २७४)
एतदेव हृदयबीजं दीपकाभावात् गमागमशून्यत्वात् सततोदितत्वाच्च
अनाद्यन्तं तदेव विकसत् परिपूर्णत्वं यातं तिथीनां मध्यगं
हृदयत्वात् तदेव संकोचविकासधर्मोपचरितपद्मभावे कन्दे गुह्ये हृदैव
ध्यायेत् किं च अस्य ध्यानमाह सोमांशं षोडशकलात्मकं सोमरूपम्
अभितः समन्तादस्येत् क्षिपेत् - परीपूर्णचन्द्रस्यास्य हृत्कर्णिकानिवेशिकलया
स्वस्वद्वादशान्तगपुष्पाद्युदयस्थानात् आहृतामृतस्पर्शः
प्रोद्यन्नादानुसारचुम्बिकालक्षणकाकचञ्चुपुटमुद्रामुद्रितः
पुनस्तदपसृतशिशिरामृतरसास्वादविकस्वरहार्दसोमप्रसरन्नाद-
निर्मथितसुधापानपूरितचन्द्रमाः पुनः
सूर्यकलोदयमयानच्कसकारमात्रविश्रान्तो
रोमाञ्चस्तोभोत्पतनवाष्पकम्पस्तम्भाद्यनुगृहीतदेहोऽभ्यासं कुर्यादिति
भट्टधनेश्वरशर्मा | आद्यन्तरहितं सकारमात्रं
षोडशाकारादितिथिसहितं कलाग्रासक्रमेण हृदयेऽन्तर्निक्षिपेत्
नालिकाजलाकर्षणवत् चलनक-
प्. २७५)
म्पनस्पन्दनसमाविष्टमूलाधारत्रिकोणभद्रकन्दहृन्मुखमुद्रासु
युगपदेव
विलंबितमध्यद्रुततरतदतिशयादिधाराप्राप्तिवशगलितसूर्यसोम-
कलाजालग्रासे आद्यन्तरहितं कृत्वा आद्यन्ताभ्यामेतद्बीजमातृकापेक्षया
औकारसकाराभ्यां रहितं विश्लेषणयुक्तिलब्धवीर्यपरिचयं ध्रुवं
विसर्गात्मकं विकसतां पञ्चदशानां तिथीनां यन्मध्यं
तिथिरहितमेव ग्रस्तकालं षोडशं ततोऽपि गच्छति यत् सप्तदशी कला इत्युक्तम्
सोमस्य षोडशात्मकम् आमृतमंशं हृत्कमले ध्यायेत् तदेव
नित्यमभ्यस्येदित्यस्मद्गुरवः तथाहि - सहोमया भगवत्या
संघट्टात्मकसमापत्तिक्षोभेण तत्त्वनिर्मथनात्मना वर्तते इति सोमो
भट्टारकः तस्य समग्रभावावयविनः परिपूर्णाहमात्मनोंऽशो
नीलसुखादिः तदेवमभ्यस्यति
स्वस्वरूपावर्तनसृष्टिसंहारावर्तचक्राक्षमालिकया पुनः
पुनरावर्तयतीति यत् सत्यं भाव्यते स एव एष सततोदितो हृदयजपः
संभावनायां लिङ् |
प्. २७६)
अन्ये तु हृत्स्थानात् द्वादशान्तं यश्चारः षट्त्रिंशदङ्गुलः तत्र
सूर्यरूपतयोल्लास्य बहिरर्धतुटिमात्रं विश्रम्य
अविनाश्यमृताख्यविसर्गरूपसोमकलोदये सपादाङ्गुलद्वितयमात्रायां
तुटौ तुटौ प्रत्येकं चन्द्रकलापरिपूरणे पञ्चदश्यां तुटौ पूर्णायां
हृत्पद्मे पूर्णश्च भवति अर्धतुटिमात्रं च तत्रापि विश्रान्तिः एवं
षोडशतुट्यात्मा षट्त्रिंशदङ्गुलश्चारो भवति
इत्यवस्थायामाद्यन्तरहितम् अनस्तमितत्वात विकसत्सु द्वितीयादिषु अन्तर्गतं
सोमांशं विसर्गरूपं हृत्पद्ममध्ये विश्लिष्य सप्तदशात्मकं
परिशीलनेन ध्यायन् कलाग्रासाभ्यासं कुर्यात् इत्यादि समादिशन् सर्वं
चैतत् युक्तमेव मन्तव्यम् | अत्र चावृत्त्यानन्तं व्याख्यानं
सूत्रत्वादुपपन्नमेव यत उक्तम् अनन्तार्थसूत्रणात्सूत्रम् इति त्रिंशिका
चानुत्तरसूत्रम् इति गुरवः | एवं पूर्वेष्वपि श्लोकसूत्रेषु || ३३ ||
प्. २७७)
किम् इत्थमभ्यासे सति भवति? इत्याह
यान्यान्कामयते कामां-
स्तांस्ताञ्छीघ्रमवाप्नुयात् |
अस्मात्प्रत्यक्षतामेति
सर्वज्ञत्वं न संशयः || ३४ ||
एवमभ्यासात् यद्यत्कामयते तत्तदचिरादेव
तथाविधसर्वमयहृदयवीर्यसमुच्छलितेच्छाप्रसरावष्टम्भविशेष-
बलोद्योगसंरम्भसोत्साहः पुनः पुनः तत्स्थितिरूढीरूपाभ्यासात्
प्राप्नोति किं बहुना सर्वज्ञत्वं - परभैरवात्मकत्वमनेनैव देहेन इति
सर्वमुक्त्वोपसंह्रियते पर्यन्ते हि प्रसरस्योपसंहारे
विश्रान्तिरूपाकुलसत्तासादने भैरवता-इत्युक्तमसकृत् || ३४ ||
सोऽयमुपसंहारग्रन्थः
एवं मन्त्रफलावाप्ति-
रित्येतद्रुद्रयामलम् |
प्. २७८)
एतदभ्यासतः सिद्धिः
सर्वज्ञत्वमवाप्यते || ३५ ||
मन्त्राणां शास्त्रान्तरीयाणां वर्णानां च फलमेवमवाप्यते
नान्यथेति समाप्तौ रुद्रस्य रुद्रांयाश्च यद्यामलं - संघट्टः
निर्विभागप्रश्नोत्तररूपस्वरूपामर्शनप्रसरात् आरभ्य
यावद्बहिरनन्तापरिगणनीयसृष्टिसंहारशतभासनं यत्रान्तः
तदेतदकुलोपसंहृतमेव - इति प्रसंख्याननिगमनम् |
एतदभ्यासात्सर्वज्ञत्वम् इति योगफलनिगमनम् | सततोदितं हि एतत्सर्वस्य इति
शिवम् ||
इत्थं प्रपन्नजनतोद्धरणप्रवृत्त-
श्रीमन्महेश्वरपदाम्बुजचञ्चुरीकः |
वृत्तिं व्यधात्त्रिकरहस्यविमर्शगर्भां
काश्मीरिकाच्चुखलकादधिगम्य जन्म || १ ||
एतावदेतदिति कस्तुलयेत्प्रसह्य
श्रीशांभवं गतमनर्गलिताश्च वाचः |
प्. २७९)
एतत्तु तावदखिलात्मनि भाति यन्मे
भातं ततोऽत्र सुधियो न पराङ्मुखाः स्युः || २ ||
अज्ञस्य संशयविपर्ययभागिनो वा
ज्ञानं प्रकम्परहितं प्रकरोति सम्यक् |
रूढस्य निश्चयवतो हृदयप्रतिष्ठां
संवादिनीं प्रकुरुते कृतिरीदृशीयम् || ३ ||
एतावदर्थरससंकलनाधिरूढ-
धाराधिरूढहृदयो विमृशेदतोऽपि |
यद्युत्तरं तदपि नैव सहेत नेदं
सोपानमेतदमलं पदमारुरुक्षोः || ४ ||
कश्मीरेषु यशस्करस्य नृपतेरासीदमात्याग्रणीः
श्रीमान्वल्लभ इत्युदाहृततनुर्यः प्रग्र्यजन्मा द्विजः |
तस्य स्वाङ्गभवः प्रसिद्धिपदवीपात्रं समग्रैर्गुणैः
श्रीशौरिः शिशुचन्द्रचूडचरणध्यानैकरत्नाकरः || ५ ||
शीलस्यायतनं परस्य यशसो जृम्भास्पदं नर्मभू-
र्वात्सल्यस्य समग्रलोककरुणाधर्मस्य जन्मस्थितिः |
श्रीमद्वत्सलिकाभिधा सहचरी तस्यैव भक्त्युल्लसत्-
प्रोद्रिक्तान्तरवृत्ति शंकरनुतौ यस्या मनो जृम्भते || ६ ||
तस्यैवात्मभवो विभावितजगत्सर्गस्थितिः शंकर-
ध्यानार्चापरिचिन्तनैकरसिकः कर्णाभिधानो द्विजः |
प्. २८०)
यो बाल्येऽप्यथ यौवनेऽपि विषयासक्तिं विहाय स्थिरा-
मेनामाश्रयते विमर्शपदवीं संसारनिर्मूलिनीम् || ७ ||
भ्राता ममैव शिवशासनरूढचित्तः
प्रेप्सुः परात्मनि मनोरथगुप्तनामा |
यः शास्त्रतन्त्रमखिलं प्रविवेक्तुकामः
प्राप्तुं परं शिवपदं भवभेदनाय || ८ ||
शिवशास्त्रैकरसिकः पदवाक्यप्रमाणवित् [पदमिति व्याकरणम् | वाक्यं
मीमांसा | प्रमाणं तर्कः |] |
रामदेवाभिधानश्च भूषितोत्तमजन्मकः || ९ ||
एतत्प्रियहितकरण-
प्ररूढहृदयेन यन्मया रचितम् |
मार्गप्रदर्शनं तत्
सर्वस्य शिवाप्तये भूयात् || १० ||
अन्तर्वेद्यामत्रिगुप्ताभिधानः
प्राप्योत्पत्तिं प्राविशत्प्राग्र्यजन्मा |
श्रीकाश्मीरांश्चन्द्रचूडावतारै-
र्निःसंख्याकैः पावितोपान्तभागान् || ११ ||
तस्यान्वधाये महति प्रसूता-
द्वराहगुप्तात्प्रतिलब्धजन्मा |
संसारवृत्तान्तपराङ्मुखो यः
शिवैकचित्तश्चु?खलाभिधानः || १२ ||
प्. २८१)
तस्माद्विवेचितसमस्तपदार्थजाता-
ल्लब्ध्वापि देहपदवीं परमेशपूताम् |
प्राप्ताभयोऽभिनवगुप्तपदाभिधानः
प्रावेशयत्त्रिकसतत्त्वमिदं निगूढम् || १३ ||
ये तावत्प्रविवेकवन्ध्यहृदयास्तेभ्यः प्रणामो वरः
केऽप्यन्ये प्रविविञ्चते न च गताः पारं घिगेताञ्जडान् |
यस्त्वन्यः प्रविमर्शसारपदवीसंभावनासुस्थितो
लक्षैकोऽपि स कश्चिदेव सफलीकुर्वीत यत्नं मम || १४ ||
स्वात्मानं प्रविवेक्तुमप्यलसतां ये विभ्रति प्रार्थना
तान्प्रत्यात्मकदर्थनान्न परतः किंचित्फलं सोष्यते |
विश्वस्यास्य विविक्तये स्थिरधियो ये संरभन्ते पुनः
तानभ्यर्थयितुं मयैव विहितो मूर्ध्ना प्रणामादरः || १५ ||
भ्राम्यन्तो भ्रमयन्ति मन्दघिषणास्ते जन्तुचक्रं जडं
स्वात्मीकृत्य गुणाभिधानवशतो बद्ध्वा दृढं बन्धनैः |
दृष्ट्वेत्थं गुरुभारवाहविधये यातानुयातान्पशून्
तत्पाशप्रविकर्तनाय घटितं ज्ञानत्रिशूलं मया || १६ ||
बहुभिरपि सोऽहमेव
भ्रमितस्तत्त्वोपदेशकंमन्यैः |
तत्त्वमिति वर्णयुगमपि
येषां रसना न पस्पर्श || १७ ||
परमेश्वरः प्रपन्न-
प्रोद्धरणकृपाप्रयुक्तगुरुहृदयः |
प्. २८२)
श्रीमान्देवः शंभु-
र्मामियति नियुक्तवांस्तत्त्वे || १८ ||
तत्तत्त्वनिर्मलस्थिति-
विभागिहृदये स्वयं प्रविष्टमिव |
श्रीसोमानन्दमतं
विमृश्य मया निबद्धमिदम् || १९ ||
हंहो हृच्चक्रचारप्रविरचनलसन्निर्भरानन्दपूर्णा
देव्योऽस्मत्पाशकोटिप्रविघटनपटुज्ञानशूलोर्ध्वधाराः |
चेतोवाक्कायमेतद्विगतभवभयोत्पत्ति युष्मासु सम्यक्
प्रोतं यत्तेन मह्यं व्रजतकिल हृदि द्राक्प्रसादं प्रसह्य || २० ||
व्याख्यादिकर्मपरिपाटिपदे नियुक्तो
युष्माभिरस्मि गुरुभावमनुप्रविश्य |
वाक्चित्तचापलमिदं मम तेन देव्य-
स्तच्चक्रचारुचतुरस्थितयः क्षमध्वम् || २१ ||
समाप्तमिदं परात्रिंशिकातत्त्वविवरणम् ||
शतैरेकोनविंशत्या त्रिंशिकेयं विवेचिता |
सर्वेषु त्रिकशास्त्रेषु ग्रन्थीर्निर्दलयिष्यति ||
इति श्रीपरात्रिंशिका समाप्ता
वृवितिश्चात्र
तत्र भवत् - श्रीमन्महामाहेश्वराचार्यवर्य-
श्रीमदभिनवगुप्ताचार्यविरचिता
प्. २८३)
सद्विद्यानां संश्रये ग्रन्थविद्वद्-
व्यूहे ह्रासं कालवृत्त्योपयाते |
तत्तत्सद्धर्मोद्दिघीर्षैकतान-
सत्प्रेक्षौजःशालिना कर्मवृत्त्यै || १ ||
श्रीमत्कश्मीराधिराजेन मुख्यै-
र्धर्मोद्युक्तैर्मत्त्रिभिः स्वैर्विवेच्य |
प्रत्यष्ठापि ज्ञानविज्ञानगर्भ-
ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः || २ ||
तत्राजीवं निर्विशद्भिर्मुकुन्द-
रामाध्यक्षत्वाश्रितैः सद्भिरेषः |
पूर्त्या शुद्ध्या व्याख्यया संस्कृतः स्तात्
पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् || ३ ||
(तिलकम्)
श्रीमत्स्वात्मशिवार्पणं वोभवीतु |
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
4m5i8w9a00wuuutm2ug1w8cr2t24y8p