विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.46.0-wmf.24 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०१ 104 104751 415727 267764 2026-04-26T13:40:38Z Geeta g hegde 6704 415727 proofread-page text/x-wiki <noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|left=अध्यायः ७]|center=मन्वथमुक्तावलासवालता ।|right=२६७}}</noinclude> {{gap}}सहेत्यादि । कोशक्षयप्रकृतिकोगामित्रस्य व्यसनादिकाः सर्वा आपदो युगपद- तिशयेनोत्पन्ना ज्ञात्वा न मोहमुपेयात् । अपितु व्यस्तान्समस्तान्वा सामादीनु- पायान्शास्त्रज्ञः संप्रयुञ्जीत ॥ २१४ ॥ {{Block center|{{bold|<poem>उपेनारमुपेयं च सर्वोपायांश्च कृत्स्मशः। एतत्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥ २१५ ॥</poem>}}}} {{gap}}उपेतारमिति ॥ उपेतारमात्मानं, उपेयं प्राप्तव्यं, उपायाः सामादयः सर्वे ते व परिपूर्णा एतत्रयमवलम्ब्य यथासामर्थ्य प्रयोजनसिद्धये यत्नं कुर्यात् ॥ २१५॥ {{Block center|{{bold|<poem>एवं सर्वमिदं राजा सह संमत्र्य मत्रिभिः । व्यायम्याप्लुत्य मध्याह्न भोक्तुमन्तःपुरं विशेत् ॥ २१६ ॥</poem>}}}} {{gap}}एवमिति ॥ एवमुक्तप्रकारेण सर्वराजवृत्तं मत्रिभिः सह विचार्य अनन्तरमा- युधाभ्यासादिना व्यायामं कृत्वा मध्याह्ने स्नानादिकं माध्याहिकं कृत्यं निर्वाह्य भोक्तुमन्तःपुरं विशेत् ॥ २१६ ॥ {{Block center|{{bold|<poem>तत्रात्मभूतैः कालज्ञैरहार्यः परिचारकैः । सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहः ॥ २१७ ॥</poem>}}}} {{gap}}तत्रेति ॥ तत्रान्तःपुर आत्मतुल्यैर्भोजनकालवेदिभिरभेद्यैः सूपकारादिभिः कृतं सुष्टु च परीक्षितं चकोरादिदर्शनेन । सविपमन्नं दृष्ट्वा चकोराक्षिणी रक्ते भवतः । विषापहेमन्त्रैर्जपितमन्नमद्यात् ॥ २१७ ॥ {{Block center|{{bold|<poem>विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् । विषघ्नानि च रत्नानि नियतो धारयेत्सदा ॥ २१८ ॥</poem>}}}} {{gap}}विपनैरिति ॥ विपनाशिभिरौषधैः सर्वाणि भोज्यद्रव्याणि योजयेत् । विपहर- णानि च रत्नानि यत्नवान्सर्वदा धारयेत् ॥ २१८ ॥ {{Block center|{{bold|<poem>परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः। वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥ २१९ ॥</poem>}}}} {{gap}}परीक्षिता इति ॥ स्त्रियश्च गूढचारद्वारेण कृतपरीक्षा गुप्तायुधग्रहणविषलिप्ता- . भरणधारणशङ्कया निरूपितवेषाभरणा अनन्यमनसः चामरस्नानपानाधुदकधूप- नरेनं राजानं परिचरेयुः ॥ २१९ ॥ {{Block center|{{bold|<poem>एवं प्रयत्नं कुर्वीत यानशय्यासनाशने । स्नाने प्रसाधने चैव सर्वालंकारकेषु च ॥ २२० ॥</poem>}}}} {{gap}}एवमिति ॥ एवंविधपरीक्षादिप्रयत्नं वाहनशय्यासनाशनम्नानानुलेपनेषु सर्वेषु चालंकरणार्थेषु कुर्यात् ॥ २२० ॥ {{Block center|{{bold|<poem>भुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ २२१॥</poem>}}}}<noinclude></noinclude> 5ia7zx3nhrw4lwqhhtf2ps3ilduis7p