विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.46.0-wmf.26
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०२
104
104752
415764
267765
2026-04-29T11:59:06Z
Geeta g hegde
6704
415764
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|२६८|मनुस्मृतिः।|[ अध्यायः ७}}</noinclude>
{{gap}}भुक्तवानिति ॥ कृतभोजनश्च तत्रैवान्तःपुरे भार्याभिः सह क्रीडेत् । काला-
नतिक्रमेण च सप्तमे दिवसस्य भागे तत्र विहृत्याष्टमे भागे पुनः कार्याणि
चिन्तयेत् ॥ २२५ ॥
{{Block center|{{bold|<poem>अलंकृतश्च संपश्येदायुधीयं पुनर्जनम् ।
वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥ २२२ ॥</poem>}}}}
{{gap}}अलंकृत इति ॥ कृतालंकारः सन्नायुधजीविनं, वाहनानि हस्त्यश्वादीनि,
सर्वाणि च शस्त्राणि खगादीनि, अलंकाररचनादीनि च पश्येत् ॥ २२२ ॥
{{Block center|{{bold|<poem>संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् ।
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ २२३ ॥
गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् ।
प्रविशेद्भोजनार्थ च स्त्रीवृतोऽन्तःपुरं पुनः ॥ २२४ ॥</poem>}}}}
{{gap}}संध्यति ॥ गत्वेति ॥ ततः संध्योपासनं कृत्वा तस्मात्प्रदेशात्कशान्तरं
विविक्तप्रकोष्टावकाशमन्यद्गत्वा गृहाभ्यन्तरे तशस्त्रो रहस्याभिधायिनां चराणां
स्वव्यापारं शृणुयात् । ततस्तं चरं संप्रेष्य परिचारिकास्त्रीवृतः पुनर्भोक्तमन्तःपुरं
विशेत् ॥ २२३ ॥ २२४ ॥
{{Block center|{{bold|<poem>तत्र भुक्त्वा पुनः किंचित्तूर्यघोषैः प्रहर्षितः ।
संविशेत्तु यथाकालमुत्तिष्ठेच गतक्लमः ॥ २२५ ॥</poem>}}}}
{{gap}}तत्रेत्यादि । तत्रान्तःपुरे वादिनशब्दैः श्रुतिसुखैः प्रहर्षितः पुनः किंचिद्भुक्त्वा
नातितृप्तः कालानतिक्रमेण गतार्धप्रहरायां रात्रौ स्वप्यात् । ततो रात्रेः पश्चिम-
यामे च विश्रान्तः सन्नुत्तिष्ठेत् ॥ २२५ ॥
{{Block center|{{bold|<poem>एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः ।
अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत् ॥ २२६ ॥</poem>}}}}
{{Block center|{{bold|<poem>इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां सप्तमोऽध्यायः ॥ ७ ॥</poem>}}}}
{{gap}}एतदिति ॥ एतद्यथोक्तप्रकारप्रजारक्षणादिकं नीरोगो राजा स्वयमनुतिष्ठेत् ।
अस्वस्थः पुनः सर्वमेतद्योग्यश्रेष्ठामात्येषु समर्पयेत् ॥ २२६ ॥
{{Block center|{{bold|<poem>इति श्रीकुल्लूकभट्टविरचितायां मन्वर्थमुक्तावल्या सप्तमोऽध्यायः ॥ ७ ॥</poem>}}}}
{{Block center|{{bold|<poem>अथाष्टमोऽध्यायः।</poem>}}}}
{{Block center|{{bold|<poem>व्यवहारान्दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः ।
मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम् ॥ १॥</poem>}}}}<noinclude></noinclude>
adcivui88n2cfgcbumxmqs3zyy1n22u
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०३
104
104753
415765
267766
2026-04-29T12:04:49Z
Geeta g hegde
6704
415765
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|left=अध्यायः ७]|center=मन्वथमुक्तावलासवालता ।|right=२६९}}</noinclude>
{{gap}}व्यवहारानिति ॥ एवंविधविपक्षमहीक्षिङ्ग्यः प्रजानां रक्षणादवाप्तवृत्तिन्नासा-
मेवेतरेतरविवादजपीडापरिहारार्थ, ऋणादानाद्यष्टादशविवाढ़े विरुद्धार्थाथिप्रत्य-
र्थिवाक्यजनितसंदेहहारी विचार एव व्यवहारः । तदाह कात्यायनः-'वि ना-
नार्थेऽव संदेहे हरणं हार उच्यते । नानासंदेहहरणाझ्यवहार इति स्मृतः' । ता-
न्व्यवहारान्द्रष्टुमिच्छन्पृथिवीपनिर्वक्ष्यमाणलक्षणलक्षितैाह्मणैरमात्यैश्च सप्तमा-
ध्यायोक्तपञ्चाङ्गमन्नैः सह विनीतो वाक्पाणिपादचापलविरहादनुद्धतः । अविनीते
हि नृपे वादिप्रतिवादिनां प्रतिभाक्षयादसम्यगभिधाने तत्त्वनिर्णयो न स्यात् ।
तादृशो वक्ष्यमाणां सभां प्रविशेत् । व्यवहारदर्शनं चेदं प्रजानामितरेतरपीडायां
तत्त्वनिर्णयेन रक्षणार्थं वक्ष्यमाणदृष्टादृष्टार्थककरणफलेनैव फलवत् ॥ ५ ॥
{{Block center|{{bold|<poem>तत्रासीनः स्थितो वापि पाणिमुद्यम्य दक्षिणम् ।
विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम् ॥२॥</poem>}}}}
{{gap}}तत्रेत्यादि ॥ तस्यां च सभायां कार्यगौरवापेक्षायामुपविष्टो, लघुनि कार्य
उत्थितोऽपि वा । पाणिशब्दो बाहुपरः दक्षिणपाणिमुद्यम्यानुद्धतवेषालंकारः
पूर्वत्रश्लोक इन्द्रियानौद्धत्ययुक्तं तादृशः कार्याणि विचारयेत् ॥ २ ॥
{{Block center|{{bold|<poem>प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः ।
अष्टादशसु मार्गेषु निबद्धवानि पृथक्पृथक् ॥३॥</poem>}}}}
{{gap}}प्रत्यहमित्यादि । तानि च ऋणादानादीनि कार्याण्यष्टादशसु व्यवहारमार्गेषु
विपयेषु पठितानि देशजातिकुलव्यवहारगतैः शास्त्रावगतैः साक्षिद्रव्यादिभिर्हे-
तुभिः पृथक्पृथक् प्रत्यहं विचारयेत् ॥ ३ ॥
{{gap}}तान्येवाष्टादश गणयति-
{{Block center|{{bold|<poem>तेषामायणादानं निक्षेपोऽस्वामिविक्रयः।
संभूय च समुत्थानं दत्तस्यानपकर्म च ॥४॥
वेतनस्यैव चादानं संविदश्च व्यतिक्रमः ।
क्रयविक्रयानुशयो विवादः स्वामिपालयोः॥५॥
सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके ।
स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ ६ ॥
स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च ।
पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥७॥</poem>}}}}
{{gap}}तेषामिति ॥ वेतनस्यैव चेति ॥ सीमेति ॥ स्त्रीपुमिति ॥ तेषामष्टादशानां
मध्ये आदाविह ऋणादानं विचार्यते । तस्य स्वरूपमुक्तं नारदेन-'ऋणं देयम-
देयं च येन यत्र यथाच यत् । दानग्रहणधर्माश्च तदृणादानमुच्यते । ततश्च स्वध-
नस्यान्यस्मिन्नर्पणरूपो निक्षेपः । अस्वामिना च कृतो विक्रयः। संभूय वणिगा-<noinclude></noinclude>
6javggo0cj8csrcvrz7ezqly2mqn5yk
सदस्यः:James500
2
136833
415768
363826
2026-04-30T07:50:45Z
James500
8105
/* */ Remove template
415768
wikitext
text/x-wiki
{{Babel|en}}
[[en:User:James500]]
b167mzfa599c51y3hjzn4f18lk01tb1
परशम्भुमहिम्नस्तवः
0
164225
415769
415730
2026-04-30T10:50:58Z
Shubha
190
415769
wikitext
text/x-wiki
{{header
| title = परशम्भुमहिम्नस्तवः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00358
Uniform title: paraśambhumahimnastava
Author : durvāsa
Author : alias krodhabhaṭṭāraka
Description:
Notes:
Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski.
Revision 0: June 26, 2016
Publisher : N. Rajam & Co.
Publication year : 1946
Publication city : Madras
Publication country : India
----
शिवाभ्यां नमः
परशंभुमहिम्नस्तवः
प्रथमं प्रकरणम्
अनेकशक्तिसंघट्टप्रकाशलहरीतनुः ।
शुद्धसंविच्छिवः पायाद्विभुः श्रीपरमेश्वरः ।।
श्रीशंभो ते महिम्नः स्तुतिपथरचिताः साङ्गवेदाः सशास्त्राः सिद्धान्ताः
साङ्गविद्याः सचकितमतयो नैव पश्यन्ति पारम् । साद्यन्तास्त्वामनन्तं
परमशिवगुरुं ते कथं वर्णयेयु-
स्तस्मात्प्रज्ञानुसारादहमपि भवतः स्तौमि किंचिच्चरित्रम् ।। १ ।।
क्वानन्दात्मप्रकाशस्तव परमहिमापारपीयूषसिन्धु-
स्त्वद्भक्त्यामोदमग्नाः क्व च कविमधुपा ब्रह्मविष्णुप्रमुख्याः ।
श्रीशंभो मोहजृम्भो न जनयति परां स्वात्मवत्तां किमेत-
च्चित्रं तद्वन्मयापि स्वमतिविभवतः स्तूयसे त्वं न दोषः ।। २ ।।
श्रीमद्भिर्दृश्यभावैरहमहमिदमित्यात्मजृम्भाधिरूढै-
र्नानारूपैः पदार्थैरनवधिविभवैराशुदेदीप्यमानः ।
सर्वातीतस्त्वमेकः परशिवचरण स्वप्रकाशात्मशंभो
नान्यस्त्वत्तः परोऽस्तीत्यहमिह गुरुणा त्वां स्वभावैरवैमि ।। ३ ।।
प्. २)
आत्मैवैष स्वकीयो निरतिशयचिदानन्दसद्ब्रह्मपूर्णो
जिह्मः संसारभावैरतिदुरधिगमैरात्तमायाविलासैः ।
सर्वात्मत्वादनन्तस्तव शिवमहसः श्रीगुरोः सत्यवाक्यैः
निस्तर्कोपाधिभेदैः परमपुरुष ते तत्त्वमद्वैतमेति ।। ४ ।।
दीक्षां यः शांभवीयां शिवगुरुविहितां दिव्यबीजागमोक्तां
प्राप्य श्रीशंमुतादात्म्यवितरणचणां जन्ममृत्युप्रभेत्रीम् ।
भित्वा भेद्यं पशुत्वं परशिवचरणध्यानयोगेन पूर्णः
स्वाघोरब्रह्मविद्याविदितपरपदं ब्रह्म स प्रैति विद्वान् ।। ५ ।।
ब्रह्माण्डं पिण्डमेतत्पितरमिव सुतस्तत्समं नैकधर्मं
विज्ञायाज्ञानमुक्तः शिवगुरुवचनैरात्मविज्ञानशान्तः ।
सर्वात्मैकप्रभोस्ते परशिवचरणाराधनासक्तचित्तो
यः कोऽप्येकः स योगी जयति जनिमृती भो महामृत्युमृत्यो ।। ६ ।।
पिण्डे षाट्कोशिकेऽस्मिन्नवविवरपुरे पञ्चभूतेन्द्रियाढ्ये
पुंस्के स्त्रैणे च षाण्डे शिवगुरुवचनैरत्र विज्ञायसे चेत् ।
केनाप्यन्नासुचित्तप्रमितिनिरुपमानन्दकोशात्तराशि-
स्त्वं षोधा भिन्नमूर्तिः परशिव स बुधो विश्वरूपत्वमीयात् ।। ७ ।।
सर्वेश श्रीपुरेश त्रिभुवनभवनव्यक्तयः शक्तयस्ते-
ऽनन्ताद्याः श्रीपराद्या निरवधिविभवा मातृकान्ताः क्षकान्ताः ।
विज्ञाताः स्युः स्वरूपे यदि शिवगुरुणा विश्वदृश्यप्रपञ्च-
स्वात्मज्योतिर्विलीनान्विदधति विदुषो योगिनः सैव मुक्तिः ।। ८ ।।
प्. ३)
षोढा? पञ्चधा च प्रकटितविभवा श्रीपरा देव शंभो
सैव श्रीसुन्दरीति श्रुतिभिरभिनुता चक्रराजासनस्था ।
सर्वत्रानेककोटिप्रकटितगणनायोगिनीर्यश्नुवाना
त्वत्तेजोऽन्तर्निरूढा रचयति जगतामादिमध्यान्तकालान् ।। ९ ।।
या शक्तिः पञ्चवाहप्रवहणलहरीव्यक्तनैजात्मतेजः
संवर्ताग्निप्रपीतत्रिभुवनजलधिः कालसंकर्षणी ते ।
दिक्कालातीतमूर्ते परशिव महतां भक्तिभाजामविद्यां
मृत्युं विज्ञानदानात्प्रहरति विदुषां तन्महत्वं त्वमेव ।। १० ।।
सर्वज्ञो नित्यतृप्तः सदसदुभयगोऽनादिबोधः स्वतन्त्रो
नित्या लुप्तात्मशक्तिर्निरुपमचरितोऽनन्त इत्यङ्गषट्कैः ।
षट्च्छक्तिव्यक्तभावस्त्वमिह यदि शिव ज्ञायसे देशिकोक्त्या
येन स्वात्मन्यनादौ सकलविलसितं ते परायाः स भेदः ।। ११ ।।
गायत्री वेदधात्री शतमखफलदा वेदशास्त्रैकवेद्या
चिच्छक्तिं ब्रह्मविद्या परमशिव तव श्रीपरां व्याकरोति ।
शब्दब्रह्मैक्यवाच्यामखिलमतमिति व्यक्ततत्त्वामवाच्यां
सप्तस्रोतोविभूतिं त्रिभुवनमयतां तत्त्वतः सर्वतुर्याम् ।। १२ ।।
संसारासारभावप्रवहणचतुरामादिशक्तिं परां तां
स्वात्माभिन्नां विदित्वा वपुरनुमतिभिर्नावृताहंकृतिस्थः ।
त्रैलोक्यं ब्रह्मविश्वप्रसरमनवधिस्वप्रकाशप्रपूर्णं
ज्ञात्वा मुक्तः स योगी भवति गतभवस्त्वत्प्रसादान्महेश ।। १३ ।।
प्. ४)
विश्वेश स्वप्रकाशप्रसरमिह विना नान्यदस्तीति तत्त्वं
मीमांसारूपमेतत्तव परमगुरो श्रीमुखाम्नायजालम् ।
स्वप्रत्यक्षं विहाय स्वरहितमिति चेदस्ति चान्यत्र तत्त्वं
ये धीरास्तर्कयेयुस्त इह जनिमृतीराप्नुवन्त्यङ्गभारैः ।। १४ ।।
न ब्रह्मा विष्णुरुद्रौ सुरपतिरमरा नासुरा नैव पृथ्वी
नापोऽग्निर्नैव वायुर्न च गगनतलं नो दिशो नैव कालः ।
नो वेदा नैव यज्ञा न च रविशशिनौ नो वियन्नो विकल्पः
स्वज्योतिः सत्यमेकं जयति तव पदं सच्चिदानन्दमूर्ते ।। १५ ।।
शंभो सैद्धान्तिका ये स्वमतिविभवतोऽखर्वगर्वाः प्रमाणैः
मीमांसन्ते भवन्तं बहुमतजनकैरावृता शुद्धविद्यैः ।
अन्योन्यस्पर्धिनस्ते कथमिह भवतस्तत्त्वमीयुः स्वतेजः
सर्वातीतं विकल्पग्रहरहितमजं मानतर्काद्यगम्यम् ।। १६ ।।
धीराः केचिन्महान्तो गुरुवचनरतास्त्यक्तसंसारभावा
निःशङ्काघोरविद्या परिणतमतयः सर्वसंकल्पमुक्ताः ।
त्वत्कारुण्याक्षिलक्ष्याः परमशिव भवत्साधकाः पुण्यपापैः
कृत्याकृत्यर्विहीनाः परपदविभवं त्वां प्रपश्यन्ति विश्वम् ।। १७ ।।
सिद्धान्तः शांभवोऽयं शिवगुरुवचनाघोरविद्याक्षरोक्तः
स्तोत्रव्याजेन निर्वाह्यत इति भवतः श्रीविभो चापलं मे ।
अत्र न्यूनातिरेकोक्तिजनितमसकृत्क्षम्यतां दासबुद्ध्या
मच्चित्तस्थः प्रमेयं समुपदिश परं मातृकावर्णराशिम् ।। १८ ।।
इति श्रीदूर्वासकृतपरशंभुमहिम्नस्तवे उपोद्घातप्रकरणं प्रथमम् ।। १
।।
द्वितीयं प्रकरणम्
श्रीमद्रश्मिप्रभावं त्रिभुवनभवनव्यञ्जकैस्वात्मदीपं
को वा वक्तुं निरुक्त्या प्रभवति यतधीरात्तसम्यग्विमर्शः ।
यत्र ब्रह्मादिविद्वन्मतिरपि विगतिर्याति भीत्या विनाशं
श्रुत्या सार्धं स केन प्रविततमतिना वर्ण्यते ते महेश ।। १ ।।
षण्णामप्यन्वयानां क्षितिजलदहनस्पर्शनाकाशचेतः -
पीठस्थानां पराद्याः परशिव भवतः शक्तयो मातृकान्ताः ।
ब्रह्मादिप्रेतसिंहासनगतविभवैस्तावकीयैः षडङ्गैः
द्वात्रिंशद्रश्मिमुख्याः स्वकिरणकरणव्याप्तविश्वैर्विभान्ति ।। २ ।।
बुद्धेः सम्यग्विमर्शप्रकटितसरणेरर्थवद्वोक्प्रवृत्तेः
यत्र स्थाने तुरीये नवकलितमहावाक्यतत्त्वे विनाशः ।
तत्किं ज्योतिस्तमो वा सदसदुभयगं किंन्वमूर्तं नु मूर्तं
निर्धारश्चेद्विनाशा न हि मतिवचसां देव तस्मात्परस्त्वम् ।। ३ ।।
ज्ञानं योगः प्रकाशो विधिरुभयमतिर्देहधीः प्राणशून्या-
हंकारश्चाधिकामः स्वविषयमनर्थं चाश्रयन्नन्तरास्ते ।
इत्यात्माकाशमत्ता तव परिविदिता सम्यगेतत्प्रमेया-
धारेष्वन्तर्घृतं यत्पयसि तिलचये तैलवद्भासि हीश ।। ४ ।।
प्. ६)
षट्त्रिंशत्तत्त्वपुष्पस्तवकपरिमलस्तावकीयः स तेजः-
कल्पद्रुश्चेत्प्रबुद्धः शिवगुरुवचसा सर्वतः स्वानुभूतः ।
अद्वैतब्रह्मबुद्धिं जनयति विदुषामेष एवास्मदादि-
ब्रह्मान्तात्मप्रपञ्चे विलसति न परोऽस्तीति चेत्पारिजातः ।। ५ ।।
स्वप्रत्यक्षेऽपि तत्त्वे करतलफलवद्वेत्ति नासौ स्वरूपं
नानासिद्धान्तजालप्रलपितजनिताज्ञानमोहान्धकारैः ।
आक्रान्तः पुण्यपापैरधिगतनिधनैरात्मकर्मण्यनादौ
हेयोपादेयबुद्ध्या भव इति विहितस्ते महामाययेश ।। ६ ।।
एकोऽसौ लक्षणैश्चेदखिलतनुगतैरिन्द्रियार्थैरनेकैः
भिन्नः स्वात्मप्रकृत्या विधिजनिमृतिभिः संनिबद्धः किमेतत् ।
देवत्वं मानुषत्वं वपुषि भुजगतां सर्वजीवात्मकत्वं
धत्से शैलूषवत्ते स्मरति न तु पदं श्रीमहादेवमूर्ते ।। ७ ।।
इति श्रीदूर्वासकृतपरशंभुमहिम्नस्तवे पराशक्तिस्कन्धरश्मिप्रकरणं
द्वितीयम् ।। २ ।।
प्. ७)
तृतीयं प्रकरणम्
सत्त्वं चित्त्वं महत्त्वं तव परमगुरोरात्मशक्तेः परायाः
पिण्डीकृत्य प्रकृत्या प्रथमरतिपतिव्याजकालान्तवह्निः ।
भूत्वा संसारसृष्टिस्थितिलयनिलयाद्याति तोयार्णवान्तं
तन्वानो निर्ममेच्छस्त्वमिह विजयसे विष्णुमायाविभूते ।। १ ।।
मायायामन्तरस्थः कुसुमशररसस्तावकीयः स्वकाले
ज्ञानज्ञेयप्रमातृप्रकटितमहिमा स्वप्ररोहप्रसारैः ।
उत्पाद्याद्यं विरिञ्चं तदनु भुवनतामात्मना व्यश्नुवानो
बीजाकारः स्वयंभूरिति कथयति ते नाम विश्वात्मसृष्टेः ।। २ ।।
आदिक्षान्तार्णसृष्टिं त्रिभुवनभवनाभासभूमिं शिवादि-
क्षित्यन्तात्मीयतत्त्वावलिविकृतगतिं वैधसाण्डान्तभूमिम् ।
आत्मीयानुत्तरेच्छागुणपरवशतां प्राप्य संव्यश्नुवानः
श्रीशंभो विश्वसृष्टिर्भवसि निजमलत्रययुपप्रोषितात्मा ।। ३ ।।
चत्वारः कालतत्त्वे तव युगपतयस्ते च धातुश्च पुत्राः
व्याख्याता द्वादशैते स्थितिकृतिविदिताः सावताराः सदाराः ।
श्रीकण्ठाद्याश्च नाथा धृतयुगविधयस्त्वन्नियत्युत्थितान्ता-
श्चैतन्या एव तस्मात्स्थितिरिति विदितस्त्वं सहस्रार्कदीप्ते ।। ४ ।।
प्. ८)
आत्मीयानादिरश्मीनिह भवजनितानेकसिद्धान्तजाल-
व्यामोहाद्यद्विकल्पानृतनिजविषयान्पुण्यपापादिभेदैः ।
दुर्ज्ञेयान्देशिकोक्त्या प्रविमलवपुषि स्वप्रकाशैकवह्नौ
स्वात्मत्वेन प्रबुद्धाञ्झडिति विजयते यस्त्वदात्माविरोधः ।।
जाग्रत्स्वप्नप्रसुप्तिप्रकटितविभवैरात्ममायागुणैः स्वे-
र्ज्ञानेच्छाक्रोधरूपैर्विधिहरिहरकैरावृते मोक्षमार्गे ।
पान्थाः केचित्सुधीराः शिवगुरुवचनज्ञानशास्त्राग्निदीप्ता-
स्त्वत्कारुण्यैकरक्षापरिविहितमियस्त्वां प्रयान्त्यादिमूर्ते ।।
त्वं मायाकामदेवप्रयममसि ततः स्वस्य सृष्टौ विधाता
रक्षायां विष्णुरन्ते प्रबलतरमहारुद्रमूर्तिः स्वमूर्तौ ।
सत्योऽनन्तः प्रमाता शिवगुरुरिति च स्वात्ममूर्तिप्रभावैः
स्वेच्छावस्यागुणाढ्योऽप्यगुण इति विभो वस्तुतः स्तूयसे त्वन् ।। ७ ।।
इच्छाशक्त्या ययैतत्कवलितमखिलं ते जगज्जालरूपं
सृष्टिस्थित्यन्तवृत्या सरसि जलधरासारतुल्यात्मगत्या ।
सैवानन्तान्तरङ्गप्रसरबहुविधानेकसंकल्पभावै-
राविर्भूत्वा त्वदङ्गप्रकटनकृतये बोधसिन्दुस्त्वमेव ।। ८ ।।
इति श्रीदूर्वासकृतपरशंभुमहिम्नस्तवे
इच्छाशक्तिस्कन्धरश्मिप्रकरणं तृतीयम् ।। ३ ।।
चतुर्थम् प्रकरणम्
संवेद्यं तत्त्वजालं परशिवधरणीमूलपारं विचित्रं
कर्मानन्तप्रपञ्चं निरुपममहिमानादिमध्यावसानः ।
ब्रह्मानन्दामृताब्धिः समरसविधुना जृम्भितस्वात्मभासो
हेतुत्वेन प्रबोधज्वलन तव महाज्ञानशक्तिं व्यनक्ति ।। १ ।।
गोजं क्षीरं यथैकं द्युतिविविधगुणस्वेन्द्रियार्थप्रकाशोऽ-
प्येकस्तद्वर्णनानारुचिरधिकरणस्यैकता कारणेन ।
नीलाद्याभासबुद्ध्या नभसि परिवृतो धूमभासैरिवाग्निः
प्राचुर्येण प्रदीप्तः परमशिव ततः सत्यविश्वात्मकस्त्वम् ।। २ ।।
नित्याखण्डप्रकाशादमलतरविभो त्वत्सकाशात्कदाचि-
न्माया संजायमाना त्रिगुणमुखगणव्यक्तशक्तिस्वभावा ।
सिद्धान्तैर्भिन्नमानप्रमितिभिरसुखैर्भेदबुद्धिप्रधानैः
संसारित्वं प्रसार्य दृढयति भवतः सत्यतां वेदविद्या ।। ३ ।।
अन्यः पक्षोऽथवात्र प्रविमलकलनानन्तशक्तिप्रकाशः
सत्याख्यः सोऽपि यत्र प्रविलयमयते शून्यगर्ते तदात्मा ।
यौष्माकः सत्यभावः स च निजमहसां कामरूपात्ममाया-
मुत्पाद्यैतत्प्रपञ्चं घटयति तदिदं व्यश्नुषे स्वात्मयोने ।। ४ ।।
प्. १०)
ऐक्याच्छिच्छक्तयोश्चेदिदमहमिति च द्वंद्वभावस्य जीव-
ब्रह्मादिद्वैतबुद्ध्योर्दिनकरशशिनोरण्डविध्यण्डयोश्च ।
प्राणापानाख्यवायवोः सुकृतदुरितयोः स्याद्यदा सामरस्य-
प्रादुर्भावस्तदा त्वं भवसि सदसदानन्दनाथः परोऽग्र ।। ५ ।।
सेयं विज्ञानशक्तिस्तव शिवगुरुणा दर्शिता नित्यशुद्धा
निर्द्वंद्वब्रह्मतत्त्वं गमयति सुधियां सच्चिदानन्दपूर्णम् ।
लोके मेयप्रमातृप्रमितिभिरिति चेदर्थिता भिन्नमार्गाः
मुद्रा नानास्वरूपाः प्रकटयति मुदाहंकृतिस्थाः परेश ।। ६ ।।
इति श्रीदूर्वासकृतपरशंभुमहिम्नस्तवे
ज्ञानशक्तिस्कन्धरश्मिप्रकरणं चतुर्थम् ।। ४ ।।
पञ्चमं प्रकरणम्
बुद्धिज्ञानेन्द्रियाणां निजनिजविषयास्वादभोगप्रबोध-
क्षीराब्धिः प्रोद्यदिच्छामृतकरणरुचा वाङ्मुखक्षालितैश्च ।
संक्रान्तश्चालितार्थप्रसरबहुपथः स्वात्ममायोरुपूर-
त्रुट्यद्ब्रह्माण्डबिन्दून्विकिरति तव चेत्त्वं शिवातः क्रियात्मा ।। १ ।।
सृष्टिस्थित्यन्तलीलावकलितसरणिर्यत्प्रयत्नो यदीयं
धैर्यं विख्यातवीर्यं सकलमिति गता यस्य बुद्धिः समृद्धा ।
यत्सामर्थ्यं प्रभूतं निरवधिगणनाजाण्डरुद्राण्डभाण्डा-
गारं यद्ब्रह्मसत्ता जयति तव मनोरूपविश्वात्मकत्वम् ।। २ ।।
संवेशं दूरदेशं कलयति सकलं कर्मकृत्यं च तत्त्वं
स्वं यद्बाह्येन्द्रियाणां चलनमपि विना स्वान्तमन्तःप्रकाशम् ।
तत्ते वीर स्वतन्त्रप्रकृतिनिगमनं निर्गतोपाधितर्कं
बाह्याख्यादर्शनार्थं विमलशिव ततस्त्वं हृषीकाश्रयात्मा ।। ३ ।।
यद्वन्न्यग्रोधबीजं पृथुतरविटपानोकहत्वेन रूढं
सामर्थ्यं दर्शयेस्त्वं परमशिव सदा सत्यविज्ञानबीजम् ।
इच्छाक्षेत्रे सुबुद्धिन्द्रियकुलकलितं सर्वतः स्वक्रियाभिः
स्वात्मानं विश्वरूपं प्रकटयसि यदा त्वं तदा गोचरः स्याः ।। ४ ।।
प्. १२)
स्वात्माशेषाक्षवृत्तेः पृथगयनतया क्वापि भूतानि पञ्च
क्वापि प्रेक्षाप्रपञ्चः क्व च निनदमुखाः क्वापि वाक्यादयश्च ।
एतैरेव प्रवृत्तो निजविषयतया सर्वविश्वात्मजृम्भ-
स्तस्मात्त्वं लोकमुख्योऽद्वयमिति रहितः स्वप्रकाशप्रमेयः ।। ५ ।।
कालावस्थाश्च तिस्रो गिरिश दश दिशः सप्तधा भूमिरापो
नाना तेजः समीरा दश वियदखिलव्यापि चैकादशाक्षाः ।
भिन्नार्थानन्तबोधप्रकटितमहिमा बीजभेदास्त्वनन्ता-
स्त्वत्सक्ता बीजजाताः स्वगुणमनुसरन्त्येव ते देव सत्त्वात् ।। ६ ।।
पञ्चाशद्वर्णमाला बहुविधनिनदोच्चारणात्तत्त्वजाल-
व्यक्तिव्यापारसक्ता गिरिश गुरुमुखाम्नायविद्यास्वरूपा ।
धात्राद्युत्पत्तिपूर्वं श्रुतिमुखविविधानेकसिद्धान्तविद्या
नानाभाषाक्रियाभिः प्रकटयति ततः सैव ते साङ्गवेदान् ।। ७ ।।
वर्णेभ्यो धातवः स्युर्विविधपदचयस्तद्भवस्तेन वाक्यं
तस्माज्जातं प्रमाणं विविधनिगमनं तेन सिद्धान्तजालम् ।
तस्मान्नानात्मतत्त्वप्रकटनमिति यत्तत्त्वविद्या त्वदीया
त्वं चेदेकोऽद्वितीयः क्रमरहितमहासंविदात्मा महेशः ।। ८ ।।
यज्ञस्थानं श्मशानं सकलमिति गृहं भास्वदोङ्कारपीठं
प्रादुर्भूतप्रयाणस्थलमिति विपुलं कल्पवृक्षाधिरूढैः ।
संवीतैर्भैरवैश्चोरगपतिगणपैस्तत्र दिव्यार्घ्यपात्रं
वह्निब्रध्नेन्दुकॢप्तं परशिव सकलं व्यश्नुषे स्वात्मना त्वम् ।। ९ ।।
प्. १३)
चित्पूजा दृक्क्रियात्मा गुरुकथितमहारुद्रमूर्तिः समन्ता-
दात्मीयैरङ्गदेवैरधिगतविषयाज्याहुतिर्निर्विकल्पः ।
निष्कामैरात्मकामैरुपचितयजनश्चित्स्वतन्त्रैरतन्द्रै-
रात्माग्नौ ब्रह्मविद्यापरिणतमतिभिः श्रीविभो हूयसे त्वम् ।। १० ।।
द्वैतं यत्रानघेध्मं पशुरधिपिशितो मृत्युरक्षाणि जिह्वा-
हव्यं चाथ प्रबोधः प्रकटहुतवहो निर्मलात्मैव होता ।
अधर्युः स्वच्छचेतो गुरुमुखविदिता मातृकोद्गातृवर्गः
स्वाचार्यो देशिकेन्द्रः परमखमुगसि त्वं परः शंभुरीशः ।। ११ ।।
यागाश्चान्ये सकामैः पशुभिरिह कृताः सर्वसिद्धान्तकृत्याः
नानायज्ञक्रियाश्च त्रिभुवनभवने चित्रकर्मप्रसाराः ।
विश्वोत्पत्तिप्रतिष्ठाप्रहरणविधयः स्वक्रियाशक्तिबीजाः
संजाताः सर्वतस्त्वं प्रभवसि मनसा चित्रनिर्माणमूर्ते ।। १२ ।।
इति श्रीदूर्वासकृतपरशंभुमहिम्नस्तवे
क्रियाशक्तिस्कन्धरश्मिप्रकरणं पञ्चमम् ।। ५ ।।
षष्ठं प्रकरणम्
नित्यालुप्तात्मशक्तिः सकलतिथिफणापञ्चदश्या प्रदीप्त-
स्त्रुट्यादीन्कालवायून्ग्रसदुरुरसनश्चक्रवल्मीकवर्ती ।
सम्यक् चैतन्यगुम्फैरवगतकिरणो विश्वजृम्भैकभर्ता
कृष्णाध्वार्केन्दुयोनिर्भुजगपतितनुस्त्वं ततः कुण्डलीशः ।। १ ।।
दीपान्तर्वह्निवेधैरविततगतिभिर्बोधिताधारशक्तिम् ।
तत्तच्चक्रप्रभेदोद्भवविविधमहाशब्दरूपामनन्त-
ब्रह्मानन्दप्रवाहामनुभवसि परामादिसौषुम्णमूर्ते ।। २ ।।
यस्मात्प्राणः प्ररोहत्युपरिगतिरधः संप्रधावत्यपान-
स्तस्मादेवाविरोधात्तदुभयजनिकृद्वायुसंरोधमात्रात् ।
विद्याविद्यादियुग्मप्रसरसमरसाम्भोधिजृम्भैरदम्भैः
सार्धं हंसः परस्मिन्महसि खलु लयं प्रैति ते प्राणसूत्रः ।। ३ ।।
सर्वेषामिन्द्रियाणां निजनिजविषयोद्योतनं यत्प्रसूतं
साराः सर्वेषु कर्मस्वनुपमविषयाः साध्वसानन्दकोपाः ।
यज्जाताः सर्वनाडीपथचलदनिलव्याप्तयः सर्वभावाः
नानारूपाश्च सर्वायनपथिकमहास्पन्दकः स त्वमेव ।। ४ ।।
प्. १५)
बुद्ध्वा सद्देशिकोक्त्या सुविदितविभवां खेचरीं दिव्यमुद्रा-
मर्थानन्तप्रपञ्चान्वितनिजकरणान्यात्मचित्ते निरुध्य ।
तच्चित्तं ज्योतिरङ्गं निरवधिकरणं चिन्तयेद्यः स योगी
निर्वाणः कृष्णवर्त्मा भवति तव महास्पन्दतामेत्य शंभो ।। ५ ।।
प्राणाख्या कुण्डलिन्या जगदिदमखिलं प्राणितं ते ययेश
ज्ञात्वा यां योगिनस्ते परतरमभयं यान्ति शान्तं पदं तत् ।
यामज्ञात्वा भवाब्धौ जननमरणकृत्क्रूरकर्मप्रबद्धा
मज्जन्त्याद्यन्तहीना यदि कृपयति सा मोचयेन्मृत्युबन्धात् ।। ६ ।।
इति श्रीदूर्वासकृतपरशंभुमहिम्नस्तवे
कुण्डलिनीशक्तिस्कन्धरश्मिप्रकरणं षष्ठम् ।। ६ ।।
सप्तमं प्रकरणम्
अज्ञातं ब्रह्मतत्त्वं निजहृदयदरीलीनमात्मप्रकाशं
व्यक्तीकर्तुं स्वनित्याक्षरविदितमहामातृकात्वं प्रपन्नः ।
त्वं दिव्याम्नायविद्या सुविदितमहिमानन्तशक्तिप्रकाशा-
स्तत्तद्वर्णात्मभेदैरुपदिशसि पदं श्रीगुरो स्वस्वरूपम् ।। १ ।।
श्रीशब्दब्रह्ममूर्ते सकलरवमयानाहतध्वानभेदा-
नात्मीयानक्षरस्थान्बहुविधनिनदैर्भूरिवाद्यप्रभेदैः ।
भेरीनिःसाणघण्टादरमुरजमहाशृङ्गनालोरुतालै-
र्वंशैर्यन्त्रैश्च गात्रैर्जलधरपटलैस्त्वं ब्रवीषि ध्वनिज्ञः ।। २ ।।
तत्त्वानां व्यक्तिहेतुः सकलतिथिगतः सप्तपुर्यष्टकाङ्ग-
स्त्रीपुंसद्वंद्वरूपो द्युमणिशशिमहावह्निपादः षडात्मा ।
सर्वाभिप्रायसंवित्प्रकटितविभवस्त्वं महाम्नायविद्या-
सारस्फारस्वरूपः पुरुष इति ततः सोऽक्षरात्मादिवर्णः ।। ३ ।।
रम्योदात्तानुदात्तस्वरितविकृतिगः प्रोच्चनीचोभयस्थो
भेदादष्टादशात्मा महितनिजमहास्फूर्तिरेकोऽक्षरादिः ।
षड्जादिग्रामजातश्रुतिविततलसद्गीतसप्तस्वरोद्य-
न्नानारागान्प्रबन्धानधिवसति भवानादिनित्यस्वरात्मन् ।। ४ ।।
प्. १७)
सर्वास्यस्थानवर्णः प्रथमविगणितस्त्वं स्तुतः षोडशीति
स्वेच्छाशक्त्या निरूढद्रढिमनिजमहाप्रौढिमाढौकमानः ।
कालव्यक्तस्त्रिलिङ्गिन्निजगतिविलयान्ह्रस्वदीर्घप्लुतादीन्
विद्याविद्योभयात्मा जनयसि परितः श्रीमहावर्णजात्मन् ।। ५ ।।
पक्षद्वंद्वैककर्तावनिजलहुतभुङ्मारुताकाशमूर्ते
श्रोत्राद्यक्षाणि सर्वाण्यधिगतचरणः स्वप्रकृत्या निबद्धः ।
अन्तस्थो विश्वरूपः पुरुष इति यतो ज्ञायसे स्वक्रमेण
ज्ञाता वर्गाक्षराणां परमशिव जनैस्त्वं ततो वर्गजोऽसि ।। ६ ।।
सर्वातीतात्मधामानलनिलयपदज्ञापिका मन्त्रविद्याः
सत्याभिप्रायबुद्ध्या शिवगुरुवदनाम्भोरुहाद्भासमानाः ।
नानार्था धातवश्च प्रकटितविभवाश्चित्रवाग्ब्रह्मवेदाः
सर्वं नश्यद्विना त्वां परशिव सहजं वर्णसंयोगरूपम् ।। ७ ।।
ओंकारं स्वात्मवासं श्रुतिभिरभिनुतं वाग्भवं शक्तिबीजं
माबीजं स्मारबीजं परतरविभवं मातृकाबीजयुग्मम् ।
शैवान्त्य चापि गत्वा षडयनविलसत्कूटषट्कं च भित्वा
हंसः सोऽहं तथा त्वं विरमसि मनसामन्तरे मन्त्रमूर्ते ।। ८ ।।
बिन्द्वेन्दोरूर्ध्वनादैरवकलितकलाव्याप्तिभिः साधिदेवै-
र्नानानन्ताधिदेवैः परिणतिसुलभैः श्रीगुरूक्तागमस्थैः ।
न्यासैर्विद्याविशेषैः श्रुतिमुखविविधानेकसिद्धान्तमन्त्रैः
विष्वक्प्रोतप्रतीको दहसि भवमघं दुष्प्रभामन्त्रवह्नौ ।। ९ ।।
वर्णास्ते मन्त्रविद्या दशविकरणगा धातवो नित्यशब्दाः
वाक्यान्याम्नायभेदा बहुविधमतजाः साङ्गवेदाश्च भाषाः ।
नानाच्छन्दांसि तालाः स्वरविकृतिगुणाः सर्वतो वाङ्मयस्थाः?
नानारूपाः पराग्नेः समजनिषत ते मातृकाशक्तिबीजात् ।। १० ।।
इति श्रीदूर्वासकृतपरशंभुमहिम्नस्तवे
मातृकाशक्तिस्कन्धरश्मिप्रकरणं सप्तमम् ।। ७ ।।
अष्टमं प्रकरणम्
एवं रात्रिंदिवस्थाः परशिवघटिका एव ते रश्मिभूताः
स्त्रीपुंसद्वंद्वरूपा रविशशिचरणाक्रान्तयो रक्तशुक्लाः ।
षट्छक्त्यंशप्रभेदा दहरपुरयुगे कोणषट्कान्तरस्थाः
कालावस्थाश्चतुर्भिः प्रविदधति युगैर्विश्वभूतैर्निदानैः ।। १ ।।
षट्त्रिंशत्तत्त्वमालामवनिमुखशिवान्तामुपेतात्मवृत्तिं
खे वायौ सप्तविंशत्युडुगणविकृतीर्जीवमाया शिवांशात् ।
तेजस्थाः स्वान्तरात्मान्तरतनुविकृतीरस्थिमांसप्रमुख्याः
क्षोण्यां त्वं जीवमायागुणगणमभितो भासयस्यंशुमालिन् ।। २ ।।
यावन्तस्ते मयुखाः क्षितिजलदहनस्पर्शनाकाशचेतः-
पीठस्थाः षट्प्रमाणाः परमधिप्ततयो भैरवा एव सर्वे ।
तेषां मध्ये त्वमेकः परतरमहिमोज्जृम्भमाणः प्रचण्डो
मार्तण्डो रश्मिमध्यस्थित इव परितो भासि चिद्भैरवाग्ने ।। ३ ।।
भैरव्यो रश्मिदेव्यस्तव शिव करुणापूरिताक्षाः प्रसन्ना-
स्त्वत्सत्ताकाशवाहोदितनिजगतयश्चर्वितात्मार्थकृत्याः ।
तद्धामन्येव शान्ताः सुरमुनिपितृभिः पुण्यपापश्च बद्धान्
भक्तांश्चानेकबाधाञ्झटिति विघटयन्त्यात्मबोधाग्निजृम्भैः ।। ४ ।।
प्. २०)
श्रीनाथ श्रीपरेशेश्वर परशिव ते दिव्यदिव्या मरीची-
र्ब्रह्मादीनां मनोवागनवगतमहाचित्रनानार्थरूढाः ।
गूढप्रौढप्रकाशाः सुरमुनिवचनैरप्यबुद्धाः कथं वा
स्तोतुं ज्ञातुं समर्थो भवति कविजनः कोऽत्र मन्दो नृमात्रः ।। ५ ।।
इति श्रीदूर्वासकृतपरशंभुमहिम्नस्तवे साधारण्येन
षडन्वयरश्मिविवेकस्कन्धप्रकरणमष्टमम् ।। ८ ।।
नवमं प्रकरणम्
गङ्गा भूमिः शताङ्गः शतधृतिरपि तत्सारथिः सप्तयस्ते
वेदा ब्रह्मैकवेद्याः पृथुतरचरणौ पुष्पवन्तौ तदक्षः ।
* * *?कीलबन्धः कमठपतिरिभास्तत्पृथुस्तम्भपङ्क्तिः
शेषस्तद्रज्जुबन्धस्तदुपरि पितृभूस्तत्र चिन्त्यो रथी त्वम् ।। १ ।।
कल्पान्तानन्तसूर्यद्युतिमति विकटानेकदंष्ट्रं षडास्यं
वह्नीन्द्वर्काम्बुकाष्ठादशयुतमभितः प्रज्वलन्तं मयूखैः ।
शूलासीषूग्रशक्त्यङ्कुशवरनृशिरः श्रीफलेष्वासनारि-
द्योतत्पाशाभयाङ्कैर्निजभुजपरिधैस्त्वां गुरुं शंभुमीडे ।। २ ।।
नागास्थीन्दुप्रसूतैः श्रवणगतमहाभूषणैः कुण्डलीन्द्रै-
राक्रोशन्मुण्डमालापरिवृतवपुषा दिक्षु जा *? ल्यमानम् ।
मत्तेभेन्द्रोरुकृत्त्यन्तरघटितकटीमण्डलं साट्टहासं
तं भास्वद्व्योभगभोंदरविधृतकराङ्गुष्ठमात्रं प्रपद्ये ।। ३ ।।
नागेन्द्रैः कल्पवृक्षैरधिगतविहगैर्भैरवैर्देवदैत्यैः
भूतैः प्रेतैः पिशाचैः परिवृतमभितो योगिनीभिः श्मशाने ।
सर्वप्रज्ञैकवासं त्रिभुवननिलयं स्वात्मनाध्यात्मदीप्तं
सर्वोत्तीर्णात्मतत्त्वेश्वरमनलमुखं त्वां गुरुं शंभुमीडे ।। ४ ।।
प्. २२)
नानाध्यानात्मयोगप्रकटितशिवतासिद्धरूपप्रसादः
स्वेच्छाज्ञानक्रियात्मत्रिशिखविदलितत्रययुदीर्णप्रमोहः ।
सत्यज्ञानासिभिन्नप्रमितिजनिरिपुः स्वात्मयोगेषु धारा-
च्छिन्नाविद्यासु लक्ष्येः परमशिव विभो तेन मृत्युंजयस्त्वम् ।। ५ ।।
देव ब्रह्माण्डसृष्टिस्थितिलयसमयध्वंसिनी ते त्रिशक्ति-
र्मायाशक्तिप्रचण्डोद्धतघनकरिणी वारिणी सा सृणिस्ते ।
धर्मार्थात्मेष्टमुक्तिप्रवितरणचणस्ते वरस्तेऽप्यमीति-
र्विश्वग्रासोग्रमृत्युप्रतिभयदलिनी तद्भवान् मृत्युमृत्युः ।। ६ ।।
पाशस्ते विश्ववश्यः पितृपतिकृतभिर्हस्तिनी सिंहवृत्ति-
श्चक्रः संसाररात्रिद्युमणिसमुदयस्तावकस्ते पिनाकः ।
आक्रान्ताशेषमोहप्रकृतिविकृतिमहामातृकाचित्परात्मा
प्राणास्ते तत्कपालं हतविधिमुखसत्प्रेतचिद्रूपमीश ।। ७ ।।
एवं ते दिव्यदिव्यायुधपरमहिमा गीयते वेदशास्त्रैः
प्रागुक्तस्ते शताङ्गोऽप्यपि च पितृगणप्रतशीर्षाच्चरङ्गे ।
उच्चण्डं ताण्डवं ते त्रिभुवनभयकृद्वज्रपाताट्टहासो
भीषास्मात्त्वत्सकाशादपर इव परो नास्ति तेनोग्रवीरः ।। ८ ।।
चित्ताकाशानिलाग्न्यम्ब्ववनितलपतिप्रेतसिंहासनस्थः
षट्च्छक्तिव्यक्तमूर्तिः षडयनपथिकः सोमसूर्याग्निपादः ।
ब्रह्माग्निः सप्तजिह्वाकबलितविषयीभूतविश्वप्रपञ्च-
स्थूलोऽपि ध्यानदृष्टेस्त्वमधिकतमसां ज्योतिषामप्यगम्यः ।। ९ ।।
प्. २३)
इत्युक्तध्यानचिन्त्योऽप्यनवगतमनोवाक्प्रवृत्तिस्वभावः
स्वच्छन्दात्मीयसत्ता चिदुचितविभवः पावकः शंभुरूपः ।
सर्वातीतस्वभावोऽप्युपनिषदुदितज्ञानमीमांस्यमानः
सत्वं यस्यान्तरङ्गे निवसति स शिवस्त्वन्मयः स्यान्महेश ।। १० ।।
श्रीमानप्यादिभिक्षुस्त्रिभुवनजनकोऽप्यात्मभूरागमोक्ति-
व्याख्यावेद्योऽप्यवाचः प्रकृतिसुविमलोऽप्यात्ममायाविलासः ।
तत्त्वादेकोऽप्यनेकः परयुवतिरतोऽप्यात्मवित्सेव्यमानः
तस्मात्स्वच्छन्दलीलस्त्वमिह विजयसे मानसीं भाववृत्तिम् ।। ११ ।।
इति श्रीदूर्वासकृतपरशंभुमहिम्नस्तवे पावकध्यानयोगप्रकरणं
नवमम् ।। ९ ।।
दशमं प्रकरणम्
द्रष्टव्यस्त्वं जगद्भिर्बहुविधविधिभिः सर्वसिद्धान्तवाक्यैः
श्रोतव्यो निर्विकल्पः शिवगुरुवदनाम्भोरुहेण प्रबुद्धः ।
मन्तव्यः सर्वतत्त्वावकलितचरणस्तन्निदध्यासितव्यः
सत्तामात्रावलम्बीत्यमरनुतपदो नास्ति देवस्त्वदन्यः ।। १ ।।
उग्रं शान्तं च वीरं सकलमयमहाविष्णुमग्निं ज्वलन्तं
सर्वत्रानन्तवक्त्रं नरमृगवपुषं भीषणं सर्वभद्रम् ।
सर्वज्ञं मृत्युमृत्युं बहुविधनुतिभिर्वन्दितं सर्वलोकैः
विश्वाहंकारजृम्भं परमशिव गुरुं त्वां भजे मन्त्रराजम् ।। २ ।।
शंभो त्वां भूर्भुवःस्वर्महरुदिततनुं त्वन्तरिक्षद्युसूर्या-
रज्ञाचार्येन्दुशुक्रार्किभिरपि निगमब्रह्मभिः प्रोतशक्तिम् ।
प्राणापानादिभेदैः कलयति सकलं मानसं ध्यानयोगं
येषां तेषां सपर्या भवति सुरकृतब्रह्मता योगिता च ।। ३ ।।
सर्वोत्कृष्टं परं तत्सवितुरनुपमं ते वरेण्यं शरण्यं
भर्गो देवस्य धीमह्यभिदधति धियो यो न इत्यौर्वतेजः ।
तुर्यं सर्वाणिभूतान्यधिगतममलं सर्वतो दृक्क्रमाद्यं
ध्यायामि ध्येयमन्तःकरणसुनियतैर्योगिभिः श्रीमहेश ।। ४ ।।
प्. २५)
कालोऽनन्तो युगात्मा शिव दिवसनिशापक्षमासास्तथाब्दाः
तद्भेदाः षडृतुस्थास्तदनुगतजगत्सर्ववृत्तान्तभेदाः ।
नानायज्ञक्रियाश्च त्रिदशदितिसुता मानुषाः सर्वनागाः
योगीन्द्रा जीवसंघास्तव चरणबिल यान्ति जन्मान्तमध्यात् ।। ५ ।।
भूतं भव्यं भविष्यत्त्रिभुवनभवने षण्महाशक्तिभिस्त्वं
तत्सर्वं व्यश्नुवानो विचरसि कलितः सृष्टिगत्यन्तकामैः ।
देवैर्दैत्यैर्मनुष्यैरुरगपतिकुलैः सर्वजीवप्रसारै-
रात्मीयैश्चित्रिताङ्गः शिव भवतमसः सूर्यभास्त्वं परस्तात् ।। ६ ।।
श्रोता स्पर्शी निजरसरसिकः सर्वगन्धान्तरज्ञो
वक्ता कर्ता च गन्ता त्रिभुवन भवतो विश्वसर्गः प्रमोदी ।
कामी मीमांसकश्च प्रथितशुचिशिखासप्तकव्याप्तविश्वो
बोद्धा स्वार्थाननन्तानधिगतचरणः सर्वतस्त्वं शिवोऽसि ।। ७ ।।
सर्वार्थी सर्वनामा सकलकुलपतिः सर्वलोकाङ्गनेशः
शृङ्गारी सर्वभोगी नवरसरसिकः प्राज्यसाम्राज्यभोक्ता ।
त्रैलोक्ये वाक्प्रपञ्चे प्रवचनपठितः सोमयाजी च यज्ञः
संसारी कामचारीत्यनुवदति जनो यः स धन्यः शिव त्वाम् ।। ८ ।।
क्षेत्रं क्षेत्रप्रमाता शिवगुरुवदनाघोरविद्याधिदेवो
मन्त्रो मन्त्राधिदेवो मखविधिरनघो योगयोग्यः पदार्थः ।
त्वं दर्शः पूर्णमासः परिधिरपि मखाचार्यवर्यश्च होतो-
द्गाताध्वर्युश्च हव्यं त्रिविधहुतवहस्त्वां विना नास्ति शंभो ।। ९ ।।
प्. २६)
क्षेत्रज्ञाः सर्वदेवाः सुरनरभुजगाः सर्वजीवाश्च तच्च
क्षेत्रं ब्रह्माण्डरूपं त्रिभुवनभवनव्यापकं चित्ररूपम् ।
एतावद्व्याप्य तत्र स्थितमखिलजगद्भक्तभोक्तारमग्निं
ज्ञात्वा षट्च्छक्तिभिस्त्वां परमशिव महामृत्युमत्येति विद्वान् ।। १० ।।
उक्तक्षेत्राधिदेवे परतरपुरुषे त्वययनन्तस्वरूपे
दिव्याम्नाया गुरूक्ता निजनिजनियतिस्फूर्तयह् सर्ववेदाः ।
साङ्गोपाङ्गाश्च शास्त्राण्यधिगतमहिमान्योन्यसिद्धान्तविद्या
भाषा स्वार्थैर्विभान्ति त्रिणयन भवतो विश्वमूर्तेः परः कः ।। ११ ।।
मूलं व्योमैव वायुज्वलनजलधरा मध्यमं यस्य शाखा
देवाः पर्णानि दैत्याः किसलयनिचयाः मानुषाश्च प्रतानाः ।
नागाः पुष्पाणि जीवा बहुविधतनवो पक्वसस्यप्रबोधो
विश्वन्यग्रोधकद्रोः परमशिव भवान् बीजभूतो विभाति ।। १२ ।।
मायारूपेण कालो जननमरणकृत्सर्वजीवाङ्गवृत्ते-
र्विद्यारूपेण कालान्तक इति विनुतः स त्वमेवापरो न ।
देहाहंकार एवान्तक इति गुरुणा यः प्रविज्ञाय मायां
जागर्त्यात्मप्रबोधे शिव तव कृपया सोऽत्र मृत्युंजयः स्यात् ।। १३ ।।
त्वं नाथस्त्वं गुरुस्त्वं परपदजनिताम्नायविद्यार्थकोश-
स्त्वं शंभुस्त्वं परेशः परतरमहिमा त्वं परा त्वं पराग्निः ।
त्वं भानुस्त्वं सुधांशुस्त्वमपि च जननी त्वं पिता त्वं सुमित्र-
स्त्वं भ्राता बान्धवस्त्वं त्वमसि धननिधिस्त्वां विना नास्ति मेऽन्यः ।।
प्. २७)
शब्दार्थाधारभूतं त्रिभुवनजनकं सर्वतो दिक्सतत्त्वं
त्रैलोक्यस्थायि लिङ्गत्रयविदितपदं सर्वतत्त्वैकवेद्यम् ।
सर्वानिर्वाच्यसत्तागतपरविभवज्योतिरुज्जृम्भमाणं
व्यक्तीकृत्यात्मवर्णैः प्रकटयसि परं तत्त्वमात्मीयमग्रे ।। १५ ।।
त्वं विश्वं विश्वहेतुर्विरहितकरणे विऽस्वकार्यैककर्ता
विश्वातीतश्च विश्वेश्वर इति बहुधा निश्चितश्चाक्स्ऽरज्ञैः ।
अद्वैतात्मप्रबोधानलबहुलशिखाचर्वितात्मीयहव्यः
श्रीशंभो विश्वसत्ता परतरवियति पैषि निर्वाणपूजाम् ।। १६ ।।
एवं यः स्तौति भूतिं त्रिभुवनमहतीं विष्वगाश्चर्यचर्या-
मन्तर्बाह्यागमोक्तिप्रविनुतविभवामादिमध्वान्तहीनाम् ।
सौम्योग्राकारदेवासुरनरभुजगानेकजीवप्रभेदो-
त्पत्तिस्थित्यन्तभूमिः स भवति जगदाश्चर्यवानेव शंभो ।। १७ ।।
इति श्रीदूर्वासकृतपरशंभुमहिम्नस्तवे महाविभूतिप्रकरणं दशमम्
।। १० ।।
एकादशं प्रकरणम्
का पूजा पूजकः कः शिवगुरुरिति कः को विधिः कश्च मन्त्रः
किं पीठं किं प्रसूनं किममलसलिलं केऽत्र सर्वोपचाराः ।
निर्द्वंद्वस्यात्मनस्ते द्वयमिति रचितं सर्वमेतत्कथं स्या-
त्संतोषार्थे महेश त्रिकरणविमलज्ञानपूजाप्रसन्नाः ।। १ ।।
त्रैकाल्यं सर्वतस्ते सकलजगदिदं व्यश्नुवानात्मसत्त-
विस्फूर्तेरष्टमूर्तेरखिलजनमनःप्रोच्चसिंहासनस्य ।
कस्मादावाहनं स्याद्बहिरिह चरितं क्वासनं चन्द्रमौले-
र्माया संसारभावो रचयति नितरामात्मभोगाय भेदम् ।। २ ।।
आधारोऽग्निः सुपात्रं रविरमृतकलानायकः पूर्णमद्यं
शक्तीशस्त्वं प्रपूज्यः षडवयवयुतस्तत्र पात्रप्रवर्गे ।
पाद्यं ते तर्पणं च प्रभवति समुदे बाह्ययागार्घ्यपात्रैः
संतुष्टः स्याः कथं त्वं परशिव विमलज्ञानदुग्धाब्धिशायिन् ।। ३ ।।
भास्वच्चन्द्राग्निबिम्बोदितविमलशिवज्ञाननित्यप्रमोद-
ज्ञानानन्दप्रवाहास्त्रिगुणितसरितो मुख्यनाडीत्रयस्थाः ।
कालिन्दीजह्नुकन्यान्तरसरिदभिधास्ते तनुस्नानकृत्ये
सृष्टा हृल्लिङ्गमूर्तेः कथमितरजलैः स्यात्तव स्नानमत्र ।। ४ ।।
लज्जारागादिमायातिमिरदिनकरी * * * * * * *?
-
ज्योतिःपुञ्जप्रवृत्तैर्गनभवतमसौ दिक्पटालांकृतस्य ।
प्रज्ञायज्ञौपवीतैरुपचितवपुषह् प्रैतमप्याङ्गराग-
स्यन्ये मिथ्यौपच्चारास्तव वसनमहासूत्रवन्धानुलेषाः ।। ५ ।।
सर्वाहिंसन्द्रियाश्चद्रुतगतिशमनं सर्वभूतानुकम्पा-
शान्तिः सत्यं प्रबोधो गुरुकथिततयो निश्चलव्यानदृष्टिः ।
श्रद्धाभक्तिश्च नित्यं निजविषयपरित्यागिता निःस्पृहत्वं
संवित्पूज्येति पुष्पाण्यमल शिव भवत्पूजनाय क्रियन्ते ।। ६ ।।
ब्राह्म्याद्या मातरोऽष्टौ स्वविषयकुसुमैरात्ममात्रप्रसूनैः
योगिन्यः शक्तयस्ते निजनिजमहिमस्फूर्तिमन्मञ्जरीभिः ।
त्वद्भावं भावयद्भिस्तव किरणमहाभैरवैरात्तमङ्गा-
स्त्वां श्रीचिद्भैरवेशं परमशिवगुरुं पूजयन्ति स्मरन्त्यः ।। ७ ।।
सद्विद्याङ्गारमध्यार्पितसततमहावासनाभ्यासधूपैः
श्रीमद्वक्त्रारविन्दोदितसकलकुलाम्नायबोधप्रदीपैः ।
सर्वाक्षार्थान्नभेदैरुपचितमहादिव्यनैवेद्यपानै-
राराध्यो योगिभिस्त्वं कथमितरकृतैस्तोष्यसे श्रीपरेश ।। ८ ।।
इति श्रीदूर्वासकृतपरशंभुमहिम्नस्तवे
अन्तर्यागोपाचारपरामर्शप्रकरणमेकादशम् ।। ११ ।।
द्वादशं प्रकरणम्
विद्या नानाविभूषा मृगमदघनसारादिसौरभ्यवस्तु-
प्रोतश्रीचन्दनानि प्रविकचकुसुमान्यद्भुतान्यम्बराणि ।
नानामोदाश्च धूपाः क्रमुकशकलवद्वीटिकाः पानभेदाः
नानापात्राणि भूम्याः परशिव भवतः पूजनाय क्रियन्ते ।। १ ।।
सप्तैते मण्डलस्थाश्चरुजलनिधयो दिव्यनैवेद्यराशी-
न्नानापक्वान्नभेदान्विविधपिशितवच्छाकनानोपदंशान् ।
भक्ष्यं भोज्यं च चोष्यं विविधशशिसुधास्वादवद्वस्तुलेह्यं
हालादध्याज्यदुग्धान्यपि विदधति ते सूपहाराय शंभो ।। २ ।।
मन्त्राकारैः प्रदीपैर्दहनरविकलानाथनक्षत्रमाला-
विद्युन्माणिक्यमुक्तारजतकनकधात्वादिनानाप्रकाशैः ।
युष्मन्नीराजनायै विरचितरचनः स्वप्रकाशादिमूर्ति
सर्वानन्दात्मरूपं परमशिवगुरुं भासयत्यौर्वतेजाः ।। ३ ।।
मुद्रा नानार्थपोषानतिपथेचलितानष्टयोगांश्च नाट्यं
तीर्थाक्रान्तिं प्रणामं निजकरणगति सर्वसिद्धान्तवाचः ।
कर्माज्ञानप्रवाहान्व्यजनमपि महाचामराण्यातपत्रं
हस्त्यश्वादीन्रथांस्ते परशिवचरणाध्यास्य दास्यं विधत्ते ।। ४ ।।
प्. ३१)
आकाशः शब्दभेदैः प्रलयजलधरामन्ददम्भोलिजृम्भै-
र्भेरीनिःसाणवाद्यैर्दरनिकररवैर्भूरिघण्टानिनादैः ।
तालैर्नादैर्मृदङ्गैर्मुरजडमरुकैर्गीतसद्वल्लकीभिः
सर्वैर्वाद्यप्रभेदध्वनिभिरिह विभो नाथ पूजां करोति ।। ५ ।।
शांभव्यो रश्मिदेव्यः समरसमुदिता मातृकावर्णरूपा
भास्वन्तो भैरवाष्टा अपि सरसकलापानमत्तः क्रमस्थाः ।
वेदान्तैरागमान्तैरभिदधति परं शांभवं वैभवं ते
सर्वानिर्वाच्यसत्तावियदुदितपदं श्रीविभो विश्वमूर्ते ।। ६ ।।
योगिन्यः क्षेत्रपालाः सरसमधुमदावेदशास्त्रार्थतत्त्व-
व्याख्यानध्यानवक्त्राः पितृवनदशदिग्वृक्षगा भैरवाश्च ।
सौधास्वादप्रमत्ताः प्रकटितविकटाटोपसिंहाट्टहासाः
स्वस्वव्यापारपुष्पैः परमशिवगुरुं त्वां विभो पूजयन्ति ।। ७ ।।
भूताः प्रेताः पिशाचाः स्वविकृतिविभवैः प्राप्तबीभत्सवेषा
योगिन्यस्ते श्मशानावरणगतमहादेवता भासयन्ति ।
देवास्ते पूर्वदेवा मधुरसमुदिता विस्मयाविष्टचित्ताः
शान्ता ध्यायन्ति गायन्त्यपि परमशिव त्वां मुदोपासते च ।। ८ ।।
ब्रह्मा वेदोक्तिगानैर्हरिरपि कमलैस्ताण्डवैश्चण्डरुद्रा-
स्तौर्यत्रयया महेन्द्रो निजनिजविषयैरन्यदिक्पालदेवाः ।
सिद्धाः सर्वे मुनीन्द्रा स्तुतिनुतिवचनैः सर्वदुर्गागणेशा
नृत्तैर्वाद्यप्रभेदैर्विदधति सुमुदं ते महादेव शंभो ।। ९ ।।
प्. ३२)
संतप्तः प्रेतसिंहासनविहितमहाभैरवः शांभवाग्निः
पञ्चाशद्विस्फुलिङ्गाक्षरविदितपराघोरविद्योग्रतेजाः ।
सत्यान्तर्यज्ञदेवस्त्रिभुवनहविषा तोषितात्मीयरश्मि-
र्वागर्थव्यक्तभावात्सकलमिह तनुं व्यश्नुवानो विभाति ।। १० ।।
सर्वज्ञानैकभूमिस्त्रिभुवनकरवीराख्यशून्यश्मशान-
ज्ञानाकूपारपूरश्रुतमुखबहुविच्छास्त्रबोधोदवाहान् ।
प्रज्ञां गाम्भीर्यगर्वात्ग्रसति रविरिव स्वप्रकाशात्प्रकाशा-
नन्यानिन्दूडुमुख्यान्निबिडतररुचिर्ध्वान्तपूरांस्तवाग्निः ।। ११ ।।
श्रीशंभो विश्वमूर्ते परमशिव गुरो नाथ विश्वेश्वरात्म-
न्नेषाशेषार्थवद्वाक्प्रसवविरचिता स्रग्धरावृत्तपूजा ।
त्वययेव ज्ञानवह्नौ हुतवहरसने संहता मुक्तये मे
भूयादागः क्षमस्व प्रवचनपठितः श्रीविभो मे प्रसीद ।। १२ ।।
इति श्रीदूर्वासकृतपरशंभुमहिम्नस्तवे विशेषोपचारपरामर्शे
शान्तिप्रकरणं द्वादशम् ।। १२ ।।
त्रयोदशं प्रकरणम्
इति तव कृपादोग्ध्री पूजा सुभक्तिस्रुतामृता
जननमरणप्रादुर्भावप्रभेदपटीयसी ।
जनयति मुदं ब्रह्मानन्दप्रवाहतरङ्गिणीं
दहति विपदः पुण्यं पापं दुरन्तभवाटवीम् ।। १ ।।
परशिव मम जन्म धन्यमेत-
त्तव महिमस्तुतिमोचितो यतोऽहम् ।
कुलमिदमखिलं द्विधा विभिन्नं
परमपदं गतमेव ते प्रसादात् ।। २ ।।
हतो मायामृत्युर्गुरुवचनखड्गेन मनसः
प्रभिन्नं मालिन्यं व्यपहतमहंकारतिमिरम् ।
हता मे कामाद्याः प्रबलरिपवः स्वात्मविषयाः
महेश त्वत्सेवाविदितसुविवेकाग्निमहसा ।। ३ ।।
जातिर्लज्जा निजकुलमदः सर्वसंशीतिराधि-
र्देहाहन्तासुकृतदुरितद्वंद्वपाशोऽभिमानः ।
सर्व ह्येते मम विनिहतास्त्वन्महावाक्यसूर्य-
ज्योतिःपुञ्जैः किमपरमहं देव भद्रं समीहे ।। ४ ।।
प्. ३४)
मद्विद्याभ्यसनमभूदिहैव सार्थं सांनिध्यात्तव च तदुक्तिगोचरस्य ।
अद्य त्वं त्रिभुवनवाङ्मनस्यलभ्यो निर्बाधः सकलपथैकगम्यमूर्ते ।। ५ ।।
श्रुतिस्मृतिमिथःपथे प्रचलितोऽहमेकान्ततः
प्रभोः शिवगुरोः तव त्रिजगदुन्नताज्ञां गतः ।
भजामि परपावकं त्रिजगदात्महव्याशिनं
भवन्तमधिदैवतं भववने ज्वलन्तं स्वतः ।। ६ ।।
ब्रह्मत्वं सुरनायकत्वमखिलं क्षोणीपतित्वं लस-
द्ब्राह्मण्यं सुरयक्षनागपितृता गन्धर्वता सिद्धता ।
एतत्सर्वमनित्यमेव गणितं नाहं समीहे सुखं
किं तु त्वत्पदपद्मनिश्चलतरध्यानं समीहे विभो ।। ७ ।।
संप्राप्ता कृतकृत्यता सफलता वाचां तव स्तोत्रता
मृत्योरप्रमितैश्च मृत्युरभवद्वश्यं गत त्वत्पदम् ।
संसारानवधिप्रचण्डजलधिस्तीर्णः प्रमोहो हतः
पुण्यं पापमगाद्विनाशमिह मे प्राप्तः प्रबोधो विभो ।। ८ ।।
इति परशिवशंभोऽनन्तकान्ते महिम्न-
स्तवविरचितमेतत्स्तोत्रमात्मोक्तिशक्त्या ।
प्रभवतु सुमुदे ते त्वं मम स्वान्तवर्ती
भव भवगतदुःखं छिन्धि चागः क्षमस्व ।। ९ ।।
यावांस्ते जीवलोकः परशिवचौराशीतिलक्षैकसंख्य-
स्तत्तत्कर्मप्रभेदोपगतजनिमृती घोरसंसारचक्रे ।
सृष्टिस्थित्यन्तवृत्तिं भजति निरवधित्वत्पदध्यानहीनो
दृष्ट्वैनं भीतभीतं शरणमुपगतं त्राहि मां देव मृत्योः ।। १० ।।
दुर्वासाः सत्यवासाः कनकगिरिरहं कंदरे मे हृदाख्ये
श्लोकाश्चैते मृगेन्द्राः पदनखदशनाः शांभवास्त्रैकवीर्याः ।
मायाध्वान्तेभयूथप्रदलनपटवो ब्रह्मविद्याटवीस्थाः
वक्तॄञ्श्रोतॄन्प्रमातॄन्निजहृदयगुहाब्रह्मसत्तं नयन्ति ।। ११ ।।
भूष्यं वैदुष्यमुद्यद्दिनकरकिरणाकारमाकारतेजः
प्रज्ञानं भूरिमानं निजकरकलितं दुर्गमं योगमर्गम् ।
आयुष्यं ब्रह्मपोष्यं हरगिरिविशदां कीर्तिमभ्येत्य भूमौ
देहान्ते ब्रह्मपारं परशिवचरणाकारमभ्येत्य विद्वान् ।। १२ ।।
ये श्रीशांभवशासने कृतधियः श्रीशासने कर्मठाः
श्रौतस्मार्तविधिष्वमन्दमतयः सत्यव्रता ब्राह्मणाः ।
विद्वांसः सकलागमेषु च कलाविद्यासु ते शांभव-
ब्रह्मप्राप्तिमवाप्नुवन्ति पठनाच्छंभोर्महिम्नस्तुतेः ।। १३ ।।
स्तोत्रं चैतत्पठेद्यः शिवगुरुवदनाघोरविद्यात्तदीक्षः
सत्यज्ञानप्रकाशात्प्रबलभवरिपुं पुण्यपापाद्यविद्याम् ।
भित्वा मुक्तो विकल्पस्त्रिजगति महितं सौख्यमात्मप्रबोधं
तेजः कीर्तिं च लक्ष्मीमभिलषितपदं व्यश्नुते स्तोत्रवीरः ।। १४ ।।
महिम्नस्तोत्रस्य त्रिभुवनगुरोर्यो जपरतः
पराशक्तेस्तत्त्वं परशिवपदं वेत्ति स बुधः ।
प्. ३६)
अगाधं गाम्भीर्यं स्तुतिगतमनन्तप्रमितिजं
समस्ताः सिद्धिरप्यनुभवति गच्छेत्परपदम् ।। १५ ।।
श्रीक्रोधभट्टारकदिव्यनाम्ना दुर्वाससा सूक्तमहामहिम्नः ।
स्तोत्रं पठेद्यो भुवनाधिपत्यं नित्यं गुरुत्वं शिवतामुपैति ।। १६ ।।
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ।। १७ ।।
सदसदनुग्रहनिग्रहगृहीतमुनिविग्रहो भगवान् ।
सर्वासामुपनिषदां दुर्वासा जयति देशिकः प्रथमः ।। १८ ।।
श्रीगुरुकरुणालक्ष्यो यः कोऽप्यात्मविदनुगृहीतिपरः ।
परशंभुस्तुतिबोधो जगदाधारो भवेत्सदा धीरम् ।। १९ ।।
परशंभोस्तव पद्यं रविप्रकरणं पठंस्त्रिकालेऽपि ।
रविरिव जगत्प्रकाशम्तिचातुर्याज्जगद्गुरुर्भवति ।। २० ।।
तस्मात्स्मृतिमतिबुद्धिप्रज्ञावानात्मविन्महादेवः ।
परशंभोस्तवहृदयं सत्पात्रेषु प्रकाशयेत्सदयम् ।। २१ ।।
इति श्रीदूर्वासकृतपरशंभुमहिम्नस्तवे उपसंहारप्रकरणं त्रयोदशम्
।। १३ ।।
इति श्रीक्रोधभट्टारकापरनाम्ना महामहिम्ना दुर्वाससा मुनीश्वरेण
विरचितपरशंभुमहिम्नस्तवः संपूर्णः ।।
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
gsqt616mkzdzikmoe0se2r9dd9cuqb1
पश्चिमाम्नायसमयदीक्षाविधिः
0
164229
415766
2026-04-30T05:28:04Z
Shubha
190
{{header | title = पश्चिमाम्नायसमयदीक्षाविधिः | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ---- MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00560 Uniform title: paścimāmnāyasamayadīk... नवीन पृष्ठं निर्मीत अस्ती
415766
wikitext
text/x-wiki
{{header
| title = पश्चिमाम्नायसमयदीक्षाविधिः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00560
Uniform title: paścimāmnāyasamayadīkṣāvidhi
Manuscript : NGMCP 4/204 Reel no: A 243/11
Description:
Ritual manual
Notes:
Manuscript selected by Dr. Mark S.G. Dyczkowski .
Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash.
Revision 0: Sept. 26, 2021
Internet publisher : Muktabodha Indological Research Institute
Publication year :
Publication city :
Publication country : United States
----
प्. १अ) श्री गणेशाय नम ||
वश्याकर्षन कर्म्मानि वसंते योजयेत् प्रीय |
ग्रीष्मे विद्वेखनं कार्ययं प्रावृषि स्तंभनं तथा || १ ||
शिशिरे मारनं चैव सांतिकं सरदि स्मृतं ||
हेमन्ते पौष्टिक कुर्ययात् ऋतुकर्म विसारदः || २ ||
वशंते चैव पूर्वाह्ने ग्रीष्मो मध्याह्न उच्यते |
वर्षाणी? या पराह्ने तु प्रदोखे सिसिर स्मृत || ३ ||
अर्द्धरात्रौ सरत्काल उखाहे मन्त उच्यते ||
रितवं यत्कथि हेते सर्व्वो ये तत्क्रमेन च || ४ ||
प्. १ब्) तत्वत् हीना न कुर्व्वंति प्रयत्नेनापि कुर्वतः ||
अनन्य करनात्यहि? ध्रुवद्ध्यन्ति नान्यथा || ५ ||
इति ऋतु निर्णय ||
अथ तिथि निर्णय ||
वशिकरण कर्म्मानि सप्तम्यां कारये बुध ||
त्रीतियायां त्रयोदश्यां तथा कर्षण कर्म्म वै || ६ ||
उचाटनं दुतियायांष्ट्यां चैव प्रसोधयेत् ||
स्तंभनं च चतुदश्यां चतुर्थ्यां प्रतिपद्यपि || ७ ||
मोहनंस्तु नवम्यां च तथाष्टम्म्यां प्रयोजयेत् ||
द्वादश्यां मारणं सस्तं एकादश्यां तथैव च || ८ ||
पन्चम्यां पूणीमायां च योजयेत् द्वांतिकादिकं ||
प्. २अ) सर्व्वविद्या प्रसिद्ध्यर्थं तिथय कथिता क्रमात् || ९ ||
ईति ||
अथ नक्षत्रनिर्णय ||
स्तंभनं मोहनं चैव वशीकरणमुत्तमं ||
माहेन्द्र वारुणि चैव कर्तव्यमिह सिद्धिदं || १० ||
विद्वेषेच्चाटनं वह्नि वायुयोगेन कारयेत् |
ज्येष्ठा चैवोत्तराषाढा अनुराराधा च रोहिणी || ११ ||
माहेन्द्र मण्डलष्टा च प्रोक्ता कर्मप्रसिद्धिदा |
स्यादुत्तर भाद्रपदा मूला शतभिषा तथा || १२ ||
पूर्व्वभाद्रपदाश्लेषा ज्ञेया वारूमध्यगा |
प्. २ब्) पूर्व्वाषाढा च तत् कर्म्म सिद्धिदा संभूना स्मृता || १३ ||
स्वाति हस्ता मृगशिला चित्रा चोत्तर फाल्गुणि |
पुष्पा पुनर्वसु वह्नि मण्डलस्था प्रकिर्तिता || १४ ||
असुनिभरुचित्राधनिष्टाश्रमणा मघा ||
विशाषा कृतिका पूर्व्व फाल्गुणी रेवति तथा || १५ ||
वारुणमण्डलमध्यस्था तदृत कर्म्म प्रसि * दा ||
ईति ||
अथ अगुष्टादि निणय ||
शान्तिके पौष्टीके चैव अभिचारक कर्म्मणि || १६ ||
प्. ३अ) तर्ज्जन्यादि समारूढं कुर्यया यथा क्रमं सुधि ||
तथागुष्ठसमारूढं सर्व्वकर्म्म सुभेतरे || १७ ||
ईति ||
अथ वौषधनिर्णय ||
विधिमंत्रसमायुक्तं औषढं सफलं भवेत् ||
विधिमंत्र विहिनं तु काष्टवत् भेखजं भवेत् || १८ ||
यकान्ते तु शुभाररयो तिष्टते च जदौषधं ||
कार्ययसिद्धि भवे तस्य विर्जमस्ति च तत्र वै || १९ ||
वाल्मिक कुप तरू तनर ईति
प्. ३ब्) अथ औषधग्रहणविधि ||
आदौ गत्वा वृक्षमूलं संयोज्य चाभिमंत्रितं || २० ||
गुगुलि औषधलियजुल ओगुलि सिमाकोसव ङा वसिमाया हाथियावथोमंत्र
पडलपे || मंत्र ||
ओं वेतालाश्च पिशाचा राक्षसाश्च सरिश्रीपा
अपसर्प्यंतु ते सर्व्व वृक्षोदश्या छिवा गेया ||
थोते मंत्र वोङाव हाथ जोजल पाव नमस्कार याङावताथे ||
प्. ४अ) अथ लियसपडलपे मत्र ||
ओं नमोन्ते मृत संभूते बलविर्यय विवर्धनि
बलमायुश्च मे देहि पापान् मा हि दुरत जेन त्वां खनते ब्रह्मां जेन
त्वां खनते भृगु जेन इन्द्रोथ वरुण तेन त्वां उपचक्रमे तेन त्वां
खनयिख्यामि मंत्र पुतेन पानिना उशपातिते मा च तेजो नेथा भवेत् | अत्रैव
तिष्ठ कल्पानि मम कार्जकरि भव मम कार्ज कृशे सिधे तत सोर्ग्गं गमिषेसि
||
प्. ४ब्) अथ लिययात मंत्र ||
ओं ह्रीं चण्ड हूं फट् स्वाहा || थोमंत्रन आदित्यवार अथवा पुष्पनक्षत्र
अथवा पुष्पं आदित्यवारथो खुनुलिये ||
अथ हाधेन मंत्र ||
ओं ह्रीं फट् स्वाहा || अथ वन्दकाय मंत्र ||
ओं बलदंड महादंड स्वाहा खत्रीयाल मालिनी स्वाहा || प्रत्येकं
सप्तधा जपेत् ||
प्. ५अ) ओं अं रें तों वं तिं रें रों दं इं कां गं यों गों डं तं यों चां पां पं सिं चिं रिं
गां डैं पं सिं फों रिं गां डं इश्वर महादेव किवाचा गौरी पार्व्वती किवाचा
छों दं वं हिं रां छों दं २ हूं फट् स्वाहा ||
अथ करूण मत्र || ओं करूण फते १० अवरुत्ररले फट् स्वाहा || ईति ||
ओं देवी सुरि गुरु आज्ञाभिमसेनया आज्ञा || थोमंत्रनप्याखन सेनकलसा
थोमंत्र वोनेसेन कुह्म फेकतुये मफस्यंदङावचोनि च ||
ओं इन्द्रजाल सुथामंत्र मुरु महावरी देवी
ओं चोरवा वारण व्याघ्र प्यजान्या सिद्धि गुरु आज्ञा ||
धारत्या
प्. ५ब्) फिमंत्रया ङा वप्यदिगसंशयद वुलिस ||
ओं अकासयोगिणी ओं हुं महा आज्ञा हुं फट् || धार १०८ मासमंत्रया ङा
वह्वलेद वुलिशखिं प्वालखने ||
ओं सत्ये सा छिग्व कुलध्या पाधोछार पाधोछारसि उति आयोपरतिगयो र्हुं
गुरु ओं लेलेवेतपाथि स्वाहा || धार ५ थो मंत्र नमेवनप्याषन सेनकसाथो
मंत्र चेक तव हाकल वकायावथ च पालाहाति स केतका च मुस्याल
प्. ६अ) श्रीगणेशाय नमः || अथाभ्रबीजं || अभ्रबीजं च जीमूत मंबु
वृदव लंघनं || वं बीजानि च पंचैव मनृतान्यपराणि तु || वीं || १ || अथा
| फ्रो बीजं || आब्द्धिबीजं तथा सिंध्र साववंसागरस्तथा ||
रूं बीजानि च चत्वारि कृत्तिमान्य पराणि च || रूं || २ ||
अथ कल्पबीजं ||
कल्पबीजं च संवर्त्तं प्रलयं क्षय बीजकं ||
क्षामकं क्षुरकं क्षौद्रं तथा कल्पांत बीजकं ||
ध्वं बीजान्ये च मुष्णौ च कृत्तिमान्य परानि च || ध्रुं ||
प्. ७अ) ओं क्षिं क्षौं मोहय || अथ मंत्रत्रयवार जापां मोहमाक्षोति वैजना ||
???
प्. ८अ) सन हूं फट् स्वाहा || इति षडंगानि || करद्वयांगुष्ठ्य
कनिष्ठातांगुली मंत्र वर्णान् विन्यस्य | पादकटि हृदयवक्त्र मूर्धसु च
पंचपंचवर्णान् विन्यस्येत् || ध्यानं ||
प्. ९अ) श्रीगणेशाय नमः || ततो मंत्रप्रयोगमाह ||
ध्रुवंथांतं बिन्दुयुक्तं दक्षकर्णं विभूषितं |
अस्त्रमंत्रं समुधृत्य मंत्रं पंचाक्षरि स्मृतं ||
जयाग्रे स तु जापेन जयो भवति नान्यथा |
जय नाम हृदि न्यस्य चक्षुखातंनि एव च ||
हृदये स्पर्श जापेन तत्क्षणात् प्रजयेद्दरिन् ||
प्रकाश ||
ओं दं उं फट् ||१||
प्. ९ब्) क्रोधीशं वह्निसंयुक्तं ओंर शिरसंयुतं |
पवनं वह्नि संयुक्तं ओंकार शिरसंयुतं ||
बीजद्वयमिदं मंत्रं त्रैलोक्ये च सुदुर्ल्लभं |
निरामिषान्न भोक्ता च जप्तव्यो मंत्रमुत्तमं ||
असाध्योयोपि राजा च पुत्रमित्रानि बांधवा |
जन्मगोत्र समूहेन यस्य यस्यानि सर्व्वतः ||
ते सर्वे वस्यतां याति सह श्रार्द्धस्य जापतः |
प्. १०अ) प्रकाश || क्रों प्रों || ५००१ || २ ||
ततो व्याघ्र स्तंभनं ||
मायायुग्मं ततो लक्ष्मी ज्योतिर्बीजं तदंतके |
हिं एहिश्च पदं ब्रूयात् मंत्रोयं सप्तदक्षरी ||
मितिमंत्रेन रोष्ठं च मंत्रयित्वा चतु दिशे |
निक्षिपेत् भवति स्तंभं व्याघ्रानां च न शंसयः || ३ ||
अस्य प्रकाश || ह्रीं ह्रीं श्रीं हिं एहि ||
प्. १०ब्) ततो मंत्रानां कीलकोद्धारविधि ||
पद्मकाष्ट प्रंचांगुल प्रमातेन कीलकं गृहित्वा शोधनं कर्त्तव्यं ||
मंत्रं यथा ||
ऐं ह्रीं श्रीं ह्फ्रें ह्सौं हंस ऐं क्लीं सौं हूं सैं सं हैं यं रं लं सं ख्ह्फ्रुं यं
रं लं वं अं कं चं टं तं पं यं सं तत्र स्थल पूर्व्वकृत कीलकं नाशय २ मम
कृतस्य कीलकस्य सिद्धिं देहि २ मंत्रसिद्धिं प्रयच्छ २ सर्व्वदोषं नाशय
२ मनोरथान् पूरय २ श्रीपूर्णेश्वरी रे श्रीविश्वेश्वरि
प्. ११अ) श्रीगणेशाय नमः || ततो जिह्वाशोधनमंत्र ||
प्. १२अ) श्रीगणेशाय नमः || ततो शुदर्शनमंत्र ||
सदशश तर्पयाया च शब्दयुक्त वर्मास्त्रांतः प्रणवादिकश्च भवति ||
सुदर्शन मंत्रस्याहिर्बुध्न्य ऋषिः अनुष्टुप्छन्दः सुदर्शनरूपी
विष्णुर्देवता सां बीजं हूं शक्तिः || आचक्राय स्वाहा || विचक्राय स्वाहा ||
सुचक्राय स्वाहा || धीचक्राय स्वाहा || संचक्राय स्वाहा || ज्वालाचक्राय
स्वाहा || इति षदंगमंत्रं || गुणत्रयावष्टध्व सूर्य
प्. १२ब्) सोमात्मक भावनया प्रणवं शिरसि विन्यस्य भ्रुमध्य वदन
हृदय गुह्यजानुपादेषु षद्वर्णान् सकारादीन् अग्निवर्ण भावनया विन्यसेत् ||
दिग्बन्धनमित्थं ||
ऐं ह्रीं चक्रेण वध्नानि नमश्चक्राय स्वाहा ||
एवमाग्नेयीं याम्यां नै-ऋत्य वारुणीं वायवीं कौबेरीं || मैशानीं ||
मूर्द्धामधरां इति पादान्मुच्चार्य दिशं चक्रेन वध्नामि ||
नमश्चक्राय स्वाहेति दशदिग्बन्धं कृत्वा
प्. १३अ) त्रैलोक्यं रक्ष २ हूं फट् स्वाहेति मंत्रेण स्वस्य परितोग्निमयं
प्राकारं परिकल्प्य मूलेन पावन्निरोध प्राणायाम त्रयं कृत्वा
भगवन्मूर्त्तिं ध्यायेत् || अव्याद्भास्कर
सप्रभाभिरखिलाभाभिर्द्दिशोभा सयन्भीमाक्ष स्फुरदट्टहास
विकसद्दष्ट्रा प्रदीप्ताननः ||
दोर्भिश्चक्रदरौ गदाब्ज मुशलत्रासांश्वपाशांकुशौ
विभ्रत्पिंगशिरोरुहोथ भवतश्चक्रा धानो हरिः ||
प्. १३ब्) एवं संचित्यांतराराधनं कृत्वा बाह्यपीठेप्यावरणोपेतं
पूजयेत् || तत्रांगैः प्रथमावरणं ||
चक्र शंख गदा पद्म मुशल प्रासं पाशांकुशै द्वितीया ||
लक्ष्मी सरस्वती रति प्रीति कीर्त्ति कांति तुष्टि
पुष्टिभिर्ज्वालावर्णाभिपद्मद्वयांजलिकराभिः तृतीयं ||
इन्द्रादिभिश्चतुर्थं || अत्र पूजायां भगवत्सानिध्यार्थं
शुदर्शनगात्र्या चक्रमुद्रां प्रदर्शयेत् ||
शुदर्शनाय
प्. १४अ) विद्महे महाज्वालाय धीमहि तन्नश्चक्र प्रचोदयात् ||
इति शुदर्शन गायत्री || जप होमादि कर्म प्रारंभ समयेषु सर्वरक्षार्थ
शुदर्शन माला मंत्रं जपेत् ||
ओं नमो भगवते महाशुदर्शनाय महाचक्राय महाज्वालाय दीप्तरूपाय
सर्वतो रक्ष २ मां महाबलाय स्वाहा हुं फत् ||
अस्य मालामंत्रस्य सुदर्शन षोडशाक्षरस्यापि षदक्षर
प्. १४ब्) शुदर्शनमंत्रवत् || मंत्रन्यास ध्यान पूजादिकं ज्ञातव्यं ||
श्रीगणेशाय नमः ||
ततो गरुडपंचाक्षरीमंत्र ||
स च तृतीय स्वर युक्तक्षकारादिपेत्यक्षरः प्रणवोग्नि जायांतः ||
अस्य मंत्रस्य अनन्तो रुद्रो वाक् ऋषिः पङ्तिच्छन्दः पक्षीन्द्रो देवता प्रणवो
बीजं स्वाहा शक्तिः
ओं ज्वल ज्वल महागति स्वाहा || गरुडाय नमः स्वाहा || गरुडाय शिरस्य
स्वाहा || गरुडप्रभंजन २ प्रभेदन २ विन्नासय २ विमर्द्दय २ स्वाहा ||
उग्ररूपधर सर्वविषहर भीषय २ सर्वं दह २ भस्मी कुरु २ स्वाहा ||
अप्रतिहत बलाप्रतिहत शा
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
qbl384i0h686j5asu39ebrc2hhhaw6s
415767
415766
2026-04-30T05:28:25Z
Shubha
190
415767
wikitext
text/x-wiki
{{header
| title = पश्चिमाम्नायसमयदीक्षाविधिः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00560
Uniform title: paścimāmnāyasamayadīkṣāvidhi
Manuscript : NGMCP 4/204 Reel no: A 243/11
Description:
Ritual manual
Notes:
Manuscript selected by Dr. Mark S.G. Dyczkowski .
Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash.
Revision 0: Sept. 26, 2021
Internet publisher : Muktabodha Indological Research Institute
Publication year :
Publication city :
Publication country : United States
----
प्. १अ) श्री गणेशाय नम ।।
वश्याकर्षन कर्म्मानि वसंते योजयेत् प्रीय ।
ग्रीष्मे विद्वेखनं कार्ययं प्रावृषि स्तंभनं तथा ।। १ ।।
शिशिरे मारनं चैव सांतिकं सरदि स्मृतं ।।
हेमन्ते पौष्टिक कुर्ययात् ऋतुकर्म विसारदः ।। २ ।।
वशंते चैव पूर्वाह्ने ग्रीष्मो मध्याह्न उच्यते ।
वर्षाणी? या पराह्ने तु प्रदोखे सिसिर स्मृत ।। ३ ।।
अर्द्धरात्रौ सरत्काल उखाहे मन्त उच्यते ।।
रितवं यत्कथि हेते सर्व्वो ये तत्क्रमेन च ।। ४ ।।
प्. १ब्) तत्वत् हीना न कुर्व्वंति प्रयत्नेनापि कुर्वतः ।।
अनन्य करनात्यहि? ध्रुवद्ध्यन्ति नान्यथा ।। ५ ।।
इति ऋतु निर्णय ।।
अथ तिथि निर्णय ।।
वशिकरण कर्म्मानि सप्तम्यां कारये बुध ।।
त्रीतियायां त्रयोदश्यां तथा कर्षण कर्म्म वै ।। ६ ।।
उचाटनं दुतियायांष्ट्यां चैव प्रसोधयेत् ।।
स्तंभनं च चतुदश्यां चतुर्थ्यां प्रतिपद्यपि ।। ७ ।।
मोहनंस्तु नवम्यां च तथाष्टम्म्यां प्रयोजयेत् ।।
द्वादश्यां मारणं सस्तं एकादश्यां तथैव च ।। ८ ।।
पन्चम्यां पूणीमायां च योजयेत् द्वांतिकादिकं ।।
प्. २अ) सर्व्वविद्या प्रसिद्ध्यर्थं तिथय कथिता क्रमात् ।। ९ ।।
ईति ।।
अथ नक्षत्रनिर्णय ।।
स्तंभनं मोहनं चैव वशीकरणमुत्तमं ।।
माहेन्द्र वारुणि चैव कर्तव्यमिह सिद्धिदं ।। १० ।।
विद्वेषेच्चाटनं वह्नि वायुयोगेन कारयेत् ।
ज्येष्ठा चैवोत्तराषाढा अनुराराधा च रोहिणी ।। ११ ।।
माहेन्द्र मण्डलष्टा च प्रोक्ता कर्मप्रसिद्धिदा ।
स्यादुत्तर भाद्रपदा मूला शतभिषा तथा ।। १२ ।।
पूर्व्वभाद्रपदाश्लेषा ज्ञेया वारूमध्यगा ।
प्. २ब्) पूर्व्वाषाढा च तत् कर्म्म सिद्धिदा संभूना स्मृता ।। १३ ।।
स्वाति हस्ता मृगशिला चित्रा चोत्तर फाल्गुणि ।
पुष्पा पुनर्वसु वह्नि मण्डलस्था प्रकिर्तिता ।। १४ ।।
असुनिभरुचित्राधनिष्टाश्रमणा मघा ।।
विशाषा कृतिका पूर्व्व फाल्गुणी रेवति तथा ।। १५ ।।
वारुणमण्डलमध्यस्था तदृत कर्म्म प्रसि * दा ।।
ईति ।।
अथ अगुष्टादि निणय ।।
शान्तिके पौष्टीके चैव अभिचारक कर्म्मणि ।। १६ ।।
प्. ३अ) तर्ज्जन्यादि समारूढं कुर्यया यथा क्रमं सुधि ।।
तथागुष्ठसमारूढं सर्व्वकर्म्म सुभेतरे ।। १७ ।।
ईति ।।
अथ वौषधनिर्णय ।।
विधिमंत्रसमायुक्तं औषढं सफलं भवेत् ।।
विधिमंत्र विहिनं तु काष्टवत् भेखजं भवेत् ।। १८ ।।
यकान्ते तु शुभाररयो तिष्टते च जदौषधं ।।
कार्ययसिद्धि भवे तस्य विर्जमस्ति च तत्र वै ।। १९ ।।
वाल्मिक कुप तरू तनर ईति
प्. ३ब्) अथ औषधग्रहणविधि ।।
आदौ गत्वा वृक्षमूलं संयोज्य चाभिमंत्रितं ।। २० ।।
गुगुलि औषधलियजुल ओगुलि सिमाकोसव ङा वसिमाया हाथियावथोमंत्र
पडलपे ।। मंत्र ।।
ओं वेतालाश्च पिशाचा राक्षसाश्च सरिश्रीपा
अपसर्प्यंतु ते सर्व्व वृक्षोदश्या छिवा गेया ।।
थोते मंत्र वोङाव हाथ जोजल पाव नमस्कार याङावताथे ।।
प्. ४अ) अथ लियसपडलपे मत्र ।।
ओं नमोन्ते मृत संभूते बलविर्यय विवर्धनि
बलमायुश्च मे देहि पापान् मा हि दुरत जेन त्वां खनते ब्रह्मां जेन
त्वां खनते भृगु जेन इन्द्रोथ वरुण तेन त्वां उपचक्रमे तेन त्वां
खनयिख्यामि मंत्र पुतेन पानिना उशपातिते मा च तेजो नेथा भवेत् । अत्रैव
तिष्ठ कल्पानि मम कार्जकरि भव मम कार्ज कृशे सिधे तत सोर्ग्गं गमिषेसि
।।
प्. ४ब्) अथ लिययात मंत्र ।।
ओं ह्रीं चण्ड हूं फट् स्वाहा ।। थोमंत्रन आदित्यवार अथवा पुष्पनक्षत्र
अथवा पुष्पं आदित्यवारथो खुनुलिये ।।
अथ हाधेन मंत्र ।।
ओं ह्रीं फट् स्वाहा ।। अथ वन्दकाय मंत्र ।।
ओं बलदंड महादंड स्वाहा खत्रीयाल मालिनी स्वाहा ।। प्रत्येकं
सप्तधा जपेत् ।।
प्. ५अ) ओं अं रें तों वं तिं रें रों दं इं कां गं यों गों डं तं यों चां पां पं सिं चिं रिं
गां डैं पं सिं फों रिं गां डं इश्वर महादेव किवाचा गौरी पार्व्वती किवाचा
छों दं वं हिं रां छों दं २ हूं फट् स्वाहा ।।
अथ करूण मत्र ।। ओं करूण फते १० अवरुत्ररले फट् स्वाहा ।। ईति ।।
ओं देवी सुरि गुरु आज्ञाभिमसेनया आज्ञा ।। थोमंत्रनप्याखन सेनकलसा
थोमंत्र वोनेसेन कुह्म फेकतुये मफस्यंदङावचोनि च ।।
ओं इन्द्रजाल सुथामंत्र मुरु महावरी देवी
ओं चोरवा वारण व्याघ्र प्यजान्या सिद्धि गुरु आज्ञा ।।
धारत्या
प्. ५ब्) फिमंत्रया ङा वप्यदिगसंशयद वुलिस ।।
ओं अकासयोगिणी ओं हुं महा आज्ञा हुं फट् ।। धार १०८ मासमंत्रया ङा
वह्वलेद वुलिशखिं प्वालखने ।।
ओं सत्ये सा छिग्व कुलध्या पाधोछार पाधोछारसि उति आयोपरतिगयो र्हुं
गुरु ओं लेलेवेतपाथि स्वाहा ।। धार ५ थो मंत्र नमेवनप्याषन सेनकसाथो
मंत्र चेक तव हाकल वकायावथ च पालाहाति स केतका च मुस्याल
प्. ६अ) श्रीगणेशाय नमः ।। अथाभ्रबीजं ।। अभ्रबीजं च जीमूत मंबु
वृदव लंघनं ।। वं बीजानि च पंचैव मनृतान्यपराणि तु ।। वीं ।। १ ।। अथा
। फ्रो बीजं ।। आब्द्धिबीजं तथा सिंध्र साववंसागरस्तथा ।।
रूं बीजानि च चत्वारि कृत्तिमान्य पराणि च ।। रूं ।। २ ।।
अथ कल्पबीजं ।।
कल्पबीजं च संवर्त्तं प्रलयं क्षय बीजकं ।।
क्षामकं क्षुरकं क्षौद्रं तथा कल्पांत बीजकं ।।
ध्वं बीजान्ये च मुष्णौ च कृत्तिमान्य परानि च ।। ध्रुं ।।
प्. ७अ) ओं क्षिं क्षौं मोहय ।। अथ मंत्रत्रयवार जापां मोहमाक्षोति वैजना ।।
???
प्. ८अ) सन हूं फट् स्वाहा ।। इति षडंगानि ।। करद्वयांगुष्ठ्य
कनिष्ठातांगुली मंत्र वर्णान् विन्यस्य । पादकटि हृदयवक्त्र मूर्धसु च
पंचपंचवर्णान् विन्यस्येत् ।। ध्यानं ।।
प्. ९अ) श्रीगणेशाय नमः ।। ततो मंत्रप्रयोगमाह ।।
ध्रुवंथांतं बिन्दुयुक्तं दक्षकर्णं विभूषितं ।
अस्त्रमंत्रं समुधृत्य मंत्रं पंचाक्षरि स्मृतं ।।
जयाग्रे स तु जापेन जयो भवति नान्यथा ।
जय नाम हृदि न्यस्य चक्षुखातंनि एव च ।।
हृदये स्पर्श जापेन तत्क्षणात् प्रजयेद्दरिन् ।।
प्रकाश ।।
ओं दं उं फट् ।।१।।
प्. ९ब्) क्रोधीशं वह्निसंयुक्तं ओंर शिरसंयुतं ।
पवनं वह्नि संयुक्तं ओंकार शिरसंयुतं ।।
बीजद्वयमिदं मंत्रं त्रैलोक्ये च सुदुर्ल्लभं ।
निरामिषान्न भोक्ता च जप्तव्यो मंत्रमुत्तमं ।।
असाध्योयोपि राजा च पुत्रमित्रानि बांधवा ।
जन्मगोत्र समूहेन यस्य यस्यानि सर्व्वतः ।।
ते सर्वे वस्यतां याति सह श्रार्द्धस्य जापतः ।
प्. १०अ) प्रकाश ।। क्रों प्रों ।। ५००१ ।। २ ।।
ततो व्याघ्र स्तंभनं ।।
मायायुग्मं ततो लक्ष्मी ज्योतिर्बीजं तदंतके ।
हिं एहिश्च पदं ब्रूयात् मंत्रोयं सप्तदक्षरी ।।
मितिमंत्रेन रोष्ठं च मंत्रयित्वा चतु दिशे ।
निक्षिपेत् भवति स्तंभं व्याघ्रानां च न शंसयः ।। ३ ।।
अस्य प्रकाश ।। ह्रीं ह्रीं श्रीं हिं एहि ।।
प्. १०ब्) ततो मंत्रानां कीलकोद्धारविधि ।।
पद्मकाष्ट प्रंचांगुल प्रमातेन कीलकं गृहित्वा शोधनं कर्त्तव्यं ।।
मंत्रं यथा ।।
ऐं ह्रीं श्रीं ह्फ्रें ह्सौं हंस ऐं क्लीं सौं हूं सैं सं हैं यं रं लं सं ख्ह्फ्रुं यं
रं लं वं अं कं चं टं तं पं यं सं तत्र स्थल पूर्व्वकृत कीलकं नाशय २ मम
कृतस्य कीलकस्य सिद्धिं देहि २ मंत्रसिद्धिं प्रयच्छ २ सर्व्वदोषं नाशय
२ मनोरथान् पूरय २ श्रीपूर्णेश्वरी रे श्रीविश्वेश्वरि
प्. ११अ) श्रीगणेशाय नमः ।। ततो जिह्वाशोधनमंत्र ।।
प्. १२अ) श्रीगणेशाय नमः ।। ततो शुदर्शनमंत्र ।।
सदशश तर्पयाया च शब्दयुक्त वर्मास्त्रांतः प्रणवादिकश्च भवति ।।
सुदर्शन मंत्रस्याहिर्बुध्न्य ऋषिः अनुष्टुप्छन्दः सुदर्शनरूपी
विष्णुर्देवता सां बीजं हूं शक्तिः ।। आचक्राय स्वाहा ।। विचक्राय स्वाहा ।।
सुचक्राय स्वाहा ।। धीचक्राय स्वाहा ।। संचक्राय स्वाहा ।। ज्वालाचक्राय
स्वाहा ।। इति षदंगमंत्रं ।। गुणत्रयावष्टध्व सूर्य
प्. १२ब्) सोमात्मक भावनया प्रणवं शिरसि विन्यस्य भ्रुमध्य वदन
हृदय गुह्यजानुपादेषु षद्वर्णान् सकारादीन् अग्निवर्ण भावनया विन्यसेत् ।।
दिग्बन्धनमित्थं ।।
ऐं ह्रीं चक्रेण वध्नानि नमश्चक्राय स्वाहा ।।
एवमाग्नेयीं याम्यां नै-ऋत्य वारुणीं वायवीं कौबेरीं ।। मैशानीं ।।
मूर्द्धामधरां इति पादान्मुच्चार्य दिशं चक्रेन वध्नामि ।।
नमश्चक्राय स्वाहेति दशदिग्बन्धं कृत्वा
प्. १३अ) त्रैलोक्यं रक्ष २ हूं फट् स्वाहेति मंत्रेण स्वस्य परितोग्निमयं
प्राकारं परिकल्प्य मूलेन पावन्निरोध प्राणायाम त्रयं कृत्वा
भगवन्मूर्त्तिं ध्यायेत् ।। अव्याद्भास्कर
सप्रभाभिरखिलाभाभिर्द्दिशोभा सयन्भीमाक्ष स्फुरदट्टहास
विकसद्दष्ट्रा प्रदीप्ताननः ।।
दोर्भिश्चक्रदरौ गदाब्ज मुशलत्रासांश्वपाशांकुशौ
विभ्रत्पिंगशिरोरुहोथ भवतश्चक्रा धानो हरिः ।।
प्. १३ब्) एवं संचित्यांतराराधनं कृत्वा बाह्यपीठेप्यावरणोपेतं
पूजयेत् ।। तत्रांगैः प्रथमावरणं ।।
चक्र शंख गदा पद्म मुशल प्रासं पाशांकुशै द्वितीया ।।
लक्ष्मी सरस्वती रति प्रीति कीर्त्ति कांति तुष्टि
पुष्टिभिर्ज्वालावर्णाभिपद्मद्वयांजलिकराभिः तृतीयं ।।
इन्द्रादिभिश्चतुर्थं ।। अत्र पूजायां भगवत्सानिध्यार्थं
शुदर्शनगात्र्या चक्रमुद्रां प्रदर्शयेत् ।।
शुदर्शनाय
प्. १४अ) विद्महे महाज्वालाय धीमहि तन्नश्चक्र प्रचोदयात् ।।
इति शुदर्शन गायत्री ।। जप होमादि कर्म प्रारंभ समयेषु सर्वरक्षार्थ
शुदर्शन माला मंत्रं जपेत् ।।
ओं नमो भगवते महाशुदर्शनाय महाचक्राय महाज्वालाय दीप्तरूपाय
सर्वतो रक्ष २ मां महाबलाय स्वाहा हुं फत् ।।
अस्य मालामंत्रस्य सुदर्शन षोडशाक्षरस्यापि षदक्षर
प्. १४ब्) शुदर्शनमंत्रवत् ।। मंत्रन्यास ध्यान पूजादिकं ज्ञातव्यं ।।
श्रीगणेशाय नमः ।।
ततो गरुडपंचाक्षरीमंत्र ।।
स च तृतीय स्वर युक्तक्षकारादिपेत्यक्षरः प्रणवोग्नि जायांतः ।।
अस्य मंत्रस्य अनन्तो रुद्रो वाक् ऋषिः पङ्तिच्छन्दः पक्षीन्द्रो देवता प्रणवो
बीजं स्वाहा शक्तिः
ओं ज्वल ज्वल महागति स्वाहा ।। गरुडाय नमः स्वाहा ।। गरुडाय शिरस्य
स्वाहा ।। गरुडप्रभंजन २ प्रभेदन २ विन्नासय २ विमर्द्दय २ स्वाहा ।।
उग्ररूपधर सर्वविषहर भीषय २ सर्वं दह २ भस्मी कुरु २ स्वाहा ।।
अप्रतिहत बलाप्रतिहत शा
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
h6qtk4sew9xy529f1a95c2tuomnv24u