विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.46.0-wmf.26 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk विष्णुपुराणम्/प्रथमांशः/अध्यायः १ 0 7062 415791 203230 2026-05-03T11:05:17Z ~2026-26708-86 10448 415791 wikitext text/x-wiki {{श्रीविष्णुपुराणम्-प्रथमांशः}} <poem> '''श्रीसूत उवाच ॐ पराशरं मुनिवरं कृतपौर्वाह्णिकक्रियम् ।
मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥१॥ त्वत्तो हि वेदाध्ययनमधीतमखिलं गुरो ।
धर्मशास्त्राणि सर्वाणि तथांगनि यथाक्रमम् ॥२॥ त्वत्प्रसादान्मुनिश्रेष्ठ मानन्ये नाकृतश्रमम् ।
वक्ष्यन्ति सर्वशास्त्रेषु प्रायशो येऽपि विद्विषः ॥३॥ सोऽहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् ।
बभूव भूयश्च​ यथा महाभाग भविष्यति ॥४॥ यन्मयं च जगद्बह्मन्यतश्चैतच्चराचरम् ।
लीनमासीद्यथा यत्र लयमेष्यति यत्र च ॥५॥ यत्प्रमाणानि भूतानि देवादीनां च सम्भवम् ।
समुद्रपर्वतानां च संस्थानं च यथा भुवः ॥६॥ सूर्यादीनां च संस्थानं प्रमाणं मुनिसत्तम ।
देवादीनां तथा वंशान्मनून्मन्वन्तराणि च ॥७॥ कल्पान् कल्पविभागांश्च चातुर्युगविकल्पितान् ।
कल्पान्तस्य स्वरूपं च युगधर्माश्च कृत्स्नशः ॥८॥ देवर्षिपार्थिवानां च चरितं यन्महामुने ।
वेदशाखाप्रणयनं यथावद्व्‌यासकर्तृकम् ॥९॥ धर्माश्च ब्राह्मणादीनां तथा चाश्रमवासिनाम् ।
श्रोतुमिच्छाम्यहं सर्वं त्वृत्तो वासिष्ठनन्दन ॥१०॥ ब्रह्मन्प्रसादप्रवणं कुरुष्व मयि मानसम् ।
येनाहमेतज्जानीयां त्वत्प्रसादान्महामुने ॥११॥ '''श्रीपराशर उवाच साधु मैत्रेय धर्मज्ञ स्मारितोऽस्मि पुरातनम् ।
पितुः पिता मे भगवान् वसिष्ठो यदुवाच ह ॥१२॥ विश्वामित्रप्रयुक्तेन रक्षसा भक्षितः पुरा ।
श्रुतस्तातस्ततः क्रोधो मैत्रेयाभून्ममातुलः ॥१३॥ ततोऽहं रक्षसां सत्रं विनाशाय समारभम् ।
भस्मीभूताश्च शतशस्तस्मिन्सत्रे निशाचराः ॥१४॥ ततः सड्‌क्षीयमाणेषु तेषु रक्षस्स्वशेषतः ।
मामुवाच महाभागो वसिष्ठो मत्पितामहः ॥१५॥ अलमत्यन्तकोपेन तात मन्युमिमं जहि ।
राक्षसा नापराध्यन्ति पितुस्ते विहितं हि तत् ॥१६॥ मूढानामेव भवति क्रोधो ज्ञानवतां कृतः ।
हन्यते तात कः केन यतः स्वकृतभुक्पुमान् ॥१७॥ सत्र्चितस्यापि महता वत्स क्लेशेन मानवैः ।
यशसस्तपसश्र्चैव क्रोधो नाशकरः परः ॥१८॥ स्वर्गापवर्गव्यासेधकारणं परमर्षयः ।
वर्जयन्ति सदा क्रोधं तात मा तद्वशो भव ॥१९॥ अलं निशाचरैर्दग्धैदीनैरनपकारिभिः ।
सत्रं ते विरमत्वेतत्क्षमासारा हि साधवः ॥२०॥ एवं तातेन तेनाहमनुनीतो महात्मना ।
उपसंहृतवान्सत्रं सद्यस्तद्वाक्यगौरवात् ॥२१॥ ततः प्रीतः स भगवान्वसिष्ठो मुनिसत्तमः ।
सम्प्राप्तश्च तदा तत्र पुलस्त्यो ब्रह्मणः सुतः ॥२२॥ पितामहेन दत्तार्घ्यः कृतासनपरिग्रहः ।
मामुवाच महाभागो मैत्रेय पुलहाग्रजः ॥२३॥ वैरे महति यद्दाक्याद्‌गुरोरद्याश्रिता क्षमा ।
त्वया तस्मात्समस्तानि भवात्र्च्छास्त्राणि वेत्स्यति ॥२४॥ सन्ततेर्न ममोच्छेदः क्रुद्धेनापि यतः कृतः ।
त्वया तस्मान्महाभाग ददाम्यन्यं महावरम् ॥२५॥ पुराणसंहिताकर्ता भवान्वत्स भविष्यति ।
देवतापारमार्थ्यं च यथावद्वेत्स्यते भवान् ॥२६॥ प्रवृत्ते च निवृत्ते च कर्मण्यस्तमला मतिः ।
मत्प्रसादादसन्दिग्धा तव वत्स भविष्यति ॥२७॥ ततश्च प्राह भगवान्वसिष्ठो मे पितामहः ।
पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति ॥२८॥ इति पूर्वं वसिष्ठेन पुलस्त्येन च धीमता ।
यदुक्तं तत्स्मृतिं याति त्वत्प्रश्नादखिलं मम ॥२९॥ सोऽहं वदाम्यशेषं ते मैत्रेय परिपृच्छते ।
पुराणसंहितां सम्यक् तां निबोध यथातथम् ॥३०॥ विष्णोः सकाशादुद्भूतं जगत्तत्रैव च स्थितम् ।
स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च सः ॥३१॥ </poem> [[वर्गः:श्रीविष्णुपुराणम्-प्रथमांशः]] 1z9h6wynhal2g2ac1fzswnl7j59pog7 415792 415791 2026-05-03T11:09:08Z ~2026-26708-86 10448 415792 wikitext text/x-wiki {{श्रीविष्णुपुराणम्-प्रथमांशः}} <poem> '''श्रीसूत उवाच ॐ पराशरं मुनिवरं कृतपौर्वाह्णिकक्रियम् ।
मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥१॥ त्वत्तो हि वेदाध्ययनमधीतमखिलं गुरो ।
धर्मशास्त्राणि सर्वाणि तथांगनि यथाक्रमम् ॥२॥ त्वत्प्रसादान्मुनिश्रेष्ठ मानन्ये नाकृतश्रमम् ।
वक्ष्यन्ति सर्वशास्त्रेषु प्रायशो येऽपि विद्विषः ॥३॥ सोऽहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् ।
बभूव भूयश्च​ यथा महाभाग भविष्यति ॥४॥ यन्मयं च जगद्ब्रह्मन्यतश्चैतच्चराचरम् ।
लीनमासीद्यथा यत्र लयमेष्यति यत्र च ॥५॥ यत्प्रमाणानि भूतानि देवादीनां च सम्भवम् ।
समुद्रपर्वतानां च संस्थानं च यथा भुवः ॥६॥ सूर्यादीनां च संस्थानं प्रमाणं मुनिसत्तम ।
देवादीनां तथा वंशान्मनून्मन्वन्तराणि च ॥७॥ कल्पान् कल्पविभागांश्च चातुर्युगविकल्पितान् ।
कल्पान्तस्य स्वरूपं च युगधर्माश्च कृत्स्नशः ॥८॥ देवर्षिपार्थिवानां च चरितं यन्महामुने ।
वेदशाखाप्रणयनं यथावद्व्‌यासकर्तृकम् ॥९॥ धर्माश्च ब्राह्मणादीनां तथा चाश्रमवासिनाम् ।
श्रोतुमिच्छाम्यहं सर्वं त्वृत्तो वासिष्ठनन्दन ॥१०॥ ब्रह्मन्प्रसादप्रवणं कुरुष्व मयि मानसम् ।
येनाहमेतज्जानीयां त्वत्प्रसादान्महामुने ॥११॥ '''श्रीपराशर उवाच साधु मैत्रेय धर्मज्ञ स्मारितोऽस्मि पुरातनम् ।
पितुः पिता मे भगवान् वसिष्ठो यदुवाच ह ॥१२॥ विश्वामित्रप्रयुक्तेन रक्षसा भक्षितः पुरा ।
श्रुतस्तातस्ततः क्रोधो मैत्रेयाभून्ममातुलः ॥१३॥ ततोऽहं रक्षसां सत्रं विनाशाय समारभम् ।
भस्मीभूताश्च शतशस्तस्मिन्सत्रे निशाचराः ॥१४॥ ततः सड्‌क्षीयमाणेषु तेषु रक्षस्स्वशेषतः ।
मामुवाच महाभागो वसिष्ठो मत्पितामहः ॥१५॥ अलमत्यन्तकोपेन तात मन्युमिमं जहि ।
राक्षसा नापराध्यन्ति पितुस्ते विहितं हि तत् ॥१६॥ मूढानामेव भवति क्रोधो ज्ञानवतां कृतः ।
हन्यते तात कः केन यतः स्वकृतभुक्पुमान् ॥१७॥ सत्र्चितस्यापि महता वत्स क्लेशेन मानवैः ।
यशसस्तपसश्र्चैव क्रोधो नाशकरः परः ॥१८॥ स्वर्गापवर्गव्यासेधकारणं परमर्षयः ।
वर्जयन्ति सदा क्रोधं तात मा तद्वशो भव ॥१९॥ अलं निशाचरैर्दग्धैदीनैरनपकारिभिः ।
सत्रं ते विरमत्वेतत्क्षमासारा हि साधवः ॥२०॥ एवं तातेन तेनाहमनुनीतो महात्मना ।
उपसंहृतवान्सत्रं सद्यस्तद्वाक्यगौरवात् ॥२१॥ ततः प्रीतः स भगवान्वसिष्ठो मुनिसत्तमः ।
सम्प्राप्तश्च तदा तत्र पुलस्त्यो ब्रह्मणः सुतः ॥२२॥ पितामहेन दत्तार्घ्यः कृतासनपरिग्रहः ।
मामुवाच महाभागो मैत्रेय पुलहाग्रजः ॥२३॥ वैरे महति यद्दाक्याद्‌गुरोरद्याश्रिता क्षमा ।
त्वया तस्मात्समस्तानि भवात्र्च्छास्त्राणि वेत्स्यति ॥२४॥ सन्ततेर्न ममोच्छेदः क्रुद्धेनापि यतः कृतः ।
त्वया तस्मान्महाभाग ददाम्यन्यं महावरम् ॥२५॥ पुराणसंहिताकर्ता भवान्वत्स भविष्यति ।
देवतापारमार्थ्यं च यथावद्वेत्स्यते भवान् ॥२६॥ प्रवृत्ते च निवृत्ते च कर्मण्यस्तमला मतिः ।
मत्प्रसादादसन्दिग्धा तव वत्स भविष्यति ॥२७॥ ततश्च प्राह भगवान्वसिष्ठो मे पितामहः ।
पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति ॥२८॥ इति पूर्वं वसिष्ठेन पुलस्त्येन च धीमता ।
यदुक्तं तत्स्मृतिं याति त्वत्प्रश्नादखिलं मम ॥२९॥ सोऽहं वदाम्यशेषं ते मैत्रेय परिपृच्छते ।
पुराणसंहितां सम्यक् तां निबोध यथातथम् ॥३०॥ विष्णोः सकाशादुद्भूतं जगत्तत्रैव च स्थितम् ।
स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च सः ॥३१॥ </poem> [[वर्गः:श्रीविष्णुपुराणम्-प्रथमांशः]] 65k3r6o86ma1xlx8ia9wppil783ir7l विष्णुपुराणम्/प्रथमांशः/अध्यायः २ 0 7063 415790 330658 2026-05-03T10:56:34Z ~2026-26708-86 10448 415790 wikitext text/x-wiki {{श्रीविष्णुपुराणम्-प्रथमांशः}} <poem>'''श्रीपराशर उवाच अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥१॥ नमो हिरण्यगर्भाय हरये शंकराय च । वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे ॥२॥ एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे ॥३॥ सर्गस्थितिविनाशानां जगतो यो जगन्मयः । मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥४॥ आधारभूतं विश्वस्याप्यणीयांसमयीयसाम् । प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥५॥ ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥६॥ विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् । प्रणम्य जगतामीशमजमक्षयमव्ययम् ॥७॥ कथयामि यथापूर्व दक्षाद्यैर्मुनिसत्तमैः । पृष्ट प्रोवाच भगवानब्जयोनिः पितामहः ॥८॥ तैश्चौक्तं पुरुकुत्साय भूभुजे निर्मदातटे । सारस्वताय तेनापि मह्मं सारस्वतेन च ॥९॥ परः पराणां परमः परमात्मात्मसंस्थितः । रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥१०॥ अपक्षयविनाशाभ्यां परिणामर्धिजन्मभिः । वर्जितः शक्यते वक्तुंयः सदास्तीति केवलम् ॥११॥ सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥१२॥ तद्‌ब्रह्म परंमं नित्यमजमक्षयमव्ययम् । एकस्वरूपं तु सदा हेयाभावाच्च निर्मलम् ॥१३॥ तदेव सर्वमेवैतद्‌व्यक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥१४॥ परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज । व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम् ॥१५॥ प्रधानपुरुषव्यक्तकालानां परमं हि यत् । पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम् ॥१६॥ प्रधानपुरुषव्यक्तकालास्तु प्रविभागशः । रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः ॥१७॥ व्यक्तं विष्णुस्तथाव्यक्तं पुरुषः काल<ref>[http://puranastudy.freeoda.com/pur_index6/kaala.htm कालोपरि टिप्पणी]</ref> एव च । क्रीडतो बालकस्येव चेष्टां तस्य निशामय ॥१८॥ अव्यक्तं कारणं यत्तत्प्रधानमृषिसत्तमैः । प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सदसदात्मकम् ॥१९॥ अक्षय्यं नान्यदाधारममेयमजरं ध्रुवम् । शब्दस्पर्शविहीनं तद्रूपादिभिरसंहितम् ॥२०॥ त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् । तेनाग्रे सर्वमेवासीद्व्‌यांत्पं वै प्रलयादनु ॥२१॥ वेदवादविदो विद्दन्नियता ब्रह्मवादिनः । पठन्ति चैतमेवार्थ प्रधानप्रतिपादकम् ॥२२॥ नाहो न रात्रिर्न नभो न भूमि- र्नासीत्ममोज्योतिरभूच्च नान्यत् । श्रोत्रादिबुद्धयानुपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् ॥२३॥ विष्णोः स्वरूपात्प​रतो हि ते द्वे रूपे प्रधानं पुरुषश्च विप्र । तस्यैव तेऽन्येन धूते वियुक्ते रूपांन्तरं तद्‌द्विज कालसंज्ञम् ॥२४॥ प्रकृतौ संस्थितं व्यक्तमतीतप्रलये तु यत् । तस्मात्प्राकृतसंज्ञोऽयमुच्यते प्रतिसत्र्चरः ॥२५॥ अनादिर्भगवान्कालो नान्तोऽस्य द्विज विद्यते । अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥२६॥ गुणसाम्ये ततस्तस्मिन्पृथक्पूंसि व्यवस्थिते । कालस्वरूपं तद्विष्णोर्मैत्रेय परिवर्त्तते ॥२७॥ ततस्तु तप्तरं ब्रह्मं परमात्मा जगन्मयः । सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः ॥२८॥ प्रधानपुरुषौ चापि प्रविश्यात्मेच्छया हरिः । क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ ॥२९॥ यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वात्तथाऽसौ परमेश्वरः ॥३०॥ स एव क्षोभको ब्रह्मन् क्षोभ्यश्र्च पुरुषोत्तमः । स संकोचविकासाभ्यां प्रधानत्वेऽपिच स्थितः ॥३१॥ विकासाणुस्वरूपैश्च ब्रह्मरूपादिभिस्तथा । व्यक्तस्वरूपश्च तथा विष्णुः सर्वेश्वरेश्वरः ॥३२॥ गुणसाम्यात्ततस्तस्मात्क्षेत्रज्ञाधिष्ठितान्मुने । गुणव्यत्र्जनसम्भूतिः सर्गकाले द्विजोत्तम ॥३३॥ प्रधानतत्त्वमुद्भतं महान्तं तत्समावृणोत् । सात्विको राजसश्चैव तामसश्च त्रिधा महान् ॥३४॥ प्रधानतत्वेन समं त्वचा बीजमिवावृतम् । वैकारिकस्तैजसश्च भूतादिश्चैव तामस्वः ॥३५॥ त्रिविधोऽयमहंकारो महत्तत्त्वादजायत । भूतेन्द्रियाणां हेतुस्स त्रिगुणत्वान्महामुने । यथा प्रधानेन महान्महता स तथावृतः ॥३६॥ भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः । ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥३७॥ शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् । आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ॥३८॥ बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः । आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ॥३९॥ ततो वायुर्विकुर्णाणो रूपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥४०॥ स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् । ज्योतिश्चापि विकृर्वाणं रसमात्रं ससर्ज ह ॥४१॥ सम्भवन्ति ततोऽम्भांसि रसाधाराणि तानि च र। रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत् ॥४२॥ विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे । संघातो जायते तस्मात्तस्य गन्धो गुणो मतः ॥४३॥ तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता ॥४४॥ तन्मात्राण्यविशेषाणि अविशेषास्ततो हि ते ॥४५॥ न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः । भूततन्मात्रसर्गोऽयमहकांरात्तु तामसात् ॥४६॥ तैजसानीन्द्रीयाण्याहूर्देवा वैकारिका दश । एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥४७॥ त्वक् चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पत्र्चमम् । शब्दादीनामवाप्त्यर्थं बुद्धीयुक्तानि वै द्विज ॥४८॥ पायूपस्थौ करौ पादौ वाक् च मैत्रेय पत्र्चमी । विसर्गशिल्पगत्युक्ति कर्म तेषां च कथ्यते ॥४९॥ आकाशवायुतेजांसि सलिलं पृथिवी तथा । शब्दादिभिर्गुणैर्ब्रह्मन्संयुक्तान्युत्तरोत्तरैः ॥५०॥ शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ॥५१॥ नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्रुवन्प्रजाः स्त्रष्टुमसमागम्य कृत्स्त्रशः ॥५२॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । एकसंघातलक्ष्याश्च सम्प्राप्यैक्यमशेषतः ॥५३॥ पुरुषाधिष्ठितताच्च प्रधानानुग्रहेण च महदाद्या विशेषान्ता ह्माण्डमुत्पादयन्ति ते ॥५४॥ तत्क्रमेण विवृद्धं सज्जलबुदबुदवत्समम् । भूतेभ्योऽण्डं महाबुद्धें महत्तदुदकेशयम् । प्राकृतं ब्रह्मरूपयस्य विष्णोः स्थानमनुत्तमम् ॥५५॥ तत्राव्यक्तस्वरूपोऽसौ व्यक्तरूपो जगत्पतिः । विष्णुर्ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः ॥५६॥ मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः । गर्भोदकं समुद्राश्च तस्यासन्सुमहात्मनः ॥५७॥ साद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसंग्रहः । तस्मिन्नण्डेऽभवद्विप्र सदेवासुरमानुषः ॥५८॥ वारिवह्‌न्यनिलाकाशैस्ततो भूतादिना बहिः । वृतं दशगुणैरण्डं भूतादिर्महता तथा ॥५९॥ अव्यक्तेनावृतो ब्रह्मांस्तैः सर्वोः सहितो महान् । एभिरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् । नारिकेलफलस्यान्तर्बीजं बाह्मदलैरिव ॥६०॥ जुषन रजो गुणं तत्र स्वयं विश्वेश्वरो हरिः । ब्रह्मा भूत्वास्य जगतो विसृष्टौ सम्प्रवर्त्तते ॥६१॥ सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना । सत्त्वभृद्भगवान्विष्णुरप्रमेयपराक्रमः ॥६२॥ तमोद्रेकी चा कल्पान्ते रुद्ररूपी जनार्दनः । मैत्रेयाखिलभूतानि भक्षयत्यतिदारुणः ॥६३॥ भक्षयित्वा च भूतानि जगत्येकार्णवीकृते । नागपर्यंकशयने शेते च परमेश्वरः ॥६४॥ प्रबुद्धश्च पुनः सृष्टिं करोति ब्रह्मरूपधृक् ॥६५॥ सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । स संज्ञां याति भगवानेक एव जनार्दनः ॥६६॥ स्त्रष्टा सृजाति चात्मानं विष्णुः पाल्यंच पाति च । उपसंह्रियते चान्ते संहर्ता च स्वयं प्रभुः ॥६७॥ पृथिव्यापस्तथा तेजो वायुराकाश एव च ।. सर्वोन्द्रियान्तः करणं पुरुषाख्यं हि यज्जगत् ॥६८॥ स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः । सर्गादिकं तु तस्यैव भूतस्थमुपकारकम् ॥६९॥ स एव सृज्यः स च सर्गकर्ता स एव पात्यत्ति च पाल्यते च । ब्रह्माद्यवस्थाभिरशेषमूर्ति र्विष्णुर्वरिष्ठो वरदो वरेण्यः ॥७०॥ </poem> [[वर्गः:श्रीविष्णुपुराणम्-प्रथमांशः]] bnhomr0ro5ut87kb429dmns3wl6clj7 415793 415790 2026-05-03T11:31:26Z ~2026-26708-86 10448 415793 wikitext text/x-wiki {{श्रीविष्णुपुराणम्-प्रथमांशः}} <poem>'''श्रीपराशर उवाच अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥१॥ नमो हिरण्यगर्भाय हरये शंकराय च । वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे ॥२॥ एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे ॥३॥ सर्गस्थितिविनाशानां जगतो यो जगन्मयः । मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥४॥ आधारभूतं विश्वस्याप्यणीयांसमयीयसाम् । प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥५॥ ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥६॥ विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् । प्रणम्य जगतामीशमजमक्षयमव्ययम् ॥७॥ कथयामि यथापूर्व दक्षाद्यैर्मुनिसत्तमैः । पृष्ट प्रोवाच भगवानब्जयोनिः पितामहः ॥८॥ तैश्चौक्तं पुरुकुत्साय भूभुजे निर्मदातटे । सारस्वताय तेनापि मह्मं सारस्वतेन च ॥९॥ परः पराणां परमः परमात्मात्मसंस्थितः । रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥१०॥ अपक्षयविनाशाभ्यां परिणामर्धिजन्मभिः । वर्जितः शक्यते वक्तुंयः सदास्तीति केवलम् ॥११॥ सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥१२॥ तद्‌ब्रह्म परंमं नित्यमजमक्षयमव्ययम् । एकस्वरूपं तु सदा हेयाभावाच्च निर्मलम् ॥१३॥ तदेव सर्वमेवैतद्‌व्यक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥१४॥ परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज । व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम् ॥१५॥ प्रधानपुरुषव्यक्तकालानां परमं हि यत् । पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम् ॥१६॥ प्रधानपुरुषव्यक्तकालास्तु प्रविभागशः । रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः ॥१७॥ व्यक्तं विष्णुस्तथाव्यक्तं पुरुषः काल<ref>[http://puranastudy.freeoda.com/pur_index6/kaala.htm कालोपरि टिप्पणी]</ref> एव च । क्रीडतो बालकस्येव चेष्टां तस्य निशामय ॥१८॥ अव्यक्तं कारणं यत्तत्प्रधानमृषिसत्तमैः । प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सदसदात्मकम् ॥१९॥ अक्षय्यं नान्यदाधारममेयमजरं ध्रुवम् । शब्दस्पर्शविहीनं तद्रूपादिभिरसंहितम् ॥२०॥ त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् । तेनाग्रे सर्वमेवासीद्व्‌यांत्पं वै प्रलयादनु ॥२१॥ वेदवादविदो विद्दन्नियता ब्रह्मवादिनः । पठन्ति चैतमेवार्थ प्रधानप्रतिपादकम् ॥२२॥ नाहो न रात्रिर्न नभो न भूमि- र्नासीत्ममोज्योतिरभूच्च नान्यत् । श्रोत्रादिबुद्धयानुपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् ॥२३॥ विष्णोः स्वरूपात्प​रतो हि ते द्वे रूपे प्रधानं पुरुषश्च विप्र । तस्यैव तेऽन्येन धूते वियुक्ते रूपांन्तरं तद्‌द्विज कालसंज्ञम् ॥२४॥ प्रकृतौ संस्थितं व्यक्तमतीतप्रलये तु यत् । तस्मात्प्राकृतसंज्ञोऽयमुच्यते प्रतिसत्र्चरः ॥२५॥ अनादिर्भगवान्कालो नान्तोऽस्य द्विज विद्यते । अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥२६॥ गुणसाम्ये ततस्तस्मिन्पृथक्पूंसि व्यवस्थिते । कालस्वरूपं तद्विष्णोर्मैत्रेय परिवर्त्तते ॥२७॥ ततस्तु तप्तरं ब्रह्मं परमात्मा जगन्मयः । सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः ॥२८॥ प्रधानपुरुषौ चापि प्रविश्यात्मेच्छया हरिः । क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ ॥२९॥ यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वात्तथाऽसौ परमेश्वरः ॥३०॥ स एव क्षोभको ब्रह्मन् क्षोभ्यश्र्च पुरुषोत्तमः । स संकोचविकासाभ्यां प्रधानत्वेऽपिच स्थितः ॥३१॥ विकासाणुस्वरूपैश्च ब्रह्मरूपादिभिस्तथा । व्यक्तस्वरूपश्च तथा विष्णुः सर्वेश्वरेश्वरः ॥३२॥ गुणसाम्यात्ततस्तस्मात्क्षेत्रज्ञाधिष्ठितान्मुने । गुणव्यत्र्जनसम्भूतिः सर्गकाले द्विजोत्तम ॥३३॥ प्रधानतत्त्वमुद्भतं महान्तं तत्समावृणोत् । सात्विको राजसश्चैव तामसश्च त्रिधा महान् ॥३४॥ प्रधानतत्वेन समं त्वचा बीजमिवावृतम् । वैकारिकस्तैजसश्च भूतादिश्चैव तामस्वः ॥३५॥ त्रिविधोऽयमहंकारो महत्तत्त्वादजायत । भूतेन्द्रियाणां हेतुस्स त्रिगुणत्वान्महामुने । यथा प्रधानेन महान्महता स तथावृतः ॥३६॥ भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः । ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥३७॥ शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् । आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ॥३८॥ बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः । आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ॥३९॥ ततो वायुर्विकुर्णाणो रूपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥४०॥ स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् । ज्योतिश्चापि विकृर्वाणं रसमात्रं ससर्ज ह ॥४१॥ सम्भवन्ति ततोऽम्भांसि रसाधाराणि तानि च र। रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत् ॥४२॥ विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे । संघातो जायते तस्मात्तस्य गन्धो गुणो मतः ॥४३॥ तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता ॥४४॥ तन्मात्राण्यविशेषाणि अविशेषास्ततो हि ते ॥४५॥ न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः । भूततन्मात्रसर्गोऽयमहकांरात्तु तामसात् ॥४६॥ तैजसानीन्द्रीयाण्याहूर्देवा वैकारिका दश । एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥४७॥ त्वक् चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पत्र्चमम् । शब्दादीनामवाप्त्यर्थं बुद्धीयुक्तानि वै द्विज ॥४८॥ पायूपस्थौ करौ पादौ वाक् च मैत्रेय पत्र्चमी । विसर्गशिल्पगत्युक्ति कर्म तेषां च कथ्यते ॥४९॥ आकाशवायुतेजांसि सलिलं पृथिवी तथा । शब्दादिभिर्गुणैर्ब्रह्मन्संयुक्तान्युत्तरोत्तरैः ॥५०॥ शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ॥५१॥ नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्रुवन्प्रजाः स्त्रष्टुमसमागम्य कृत्स्त्रशः ॥५२॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । एकसंघातलक्ष्याश्च सम्प्राप्यैक्यमशेषतः ॥५३॥ पुरुषाधिष्ठितताच्च प्रधानानुग्रहेण च महदाद्या विशेषान्ता ह्माण्डमुत्पादयन्ति ते ॥५४॥ तत्क्रमेण विवृद्धं सज्जलबुदबुदवत्समम् । भूतेभ्योऽण्डं महाबुद्धें महत्तदुदकेशयम् । प्राकृतं ब्रह्मरूपयस्य विष्णोः स्थानमनुत्तमम् ॥५५॥ तत्राव्यक्तस्वरूपोऽसौ व्यक्तरूपो जगत्पतिः । विष्णुर्ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः ॥५६॥ मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः । गर्भोदकं समुद्राश्च तस्यासन्सुमहात्मनः ॥५७॥ साद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसंग्रहः । तस्मिन्नण्डेऽभवद्विप्र सदेवासुरमानुषः ॥५८॥ वारिवह्‌न्यनिलाकाशैस्ततो भूतादिना बहिः । वृतं दशगुणैरण्डं भूतादिर्महता तथा ॥५९॥ अव्यक्तेनावृतो ब्रह्मांस्तैः सर्वोः सहितो महान् । एभिरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् । नारिकेलफलस्यान्तर्बीजं बाह्मदलैरिव ॥६०॥ जुषन रजो गुणं तत्र स्वयं विश्वेश्वरो हरिः । ब्रह्मा भूत्वास्य जगतो विसृष्टौ सम्प्रवर्त्तते ॥६१॥ सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना । सत्त्वभृद्भगवान्विष्णुरप्रमेयपराक्रमः ॥६२॥ तमोद्रेकी चा कल्पान्ते रुद्ररूपी जनार्दनः । मैत्रेयाखिलभूतानि भक्षयत्यतिदारुणः ॥६३॥ भक्षयित्वा च भूतानि जगत्येकार्णवीकृते । नागपर्यंकशयने शेते च परमेश्वरः ॥६४॥ प्रबुद्धश्च पुनः सृष्टिं करोति ब्रह्मरूपधृक् ॥६५॥ सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । स संज्ञां याति भगवानेक एव जनार्दनः ॥६६॥ स्त्रष्टा सृजति चात्मानं विष्णुः पाल्यंच पाति च । उपसंह्रियते चान्ते संहर्ता च स्वयं प्रभुः ॥६७॥ पृथिव्यापस्तथा तेजो वायुराकाश एव च ।. सर्वोन्द्रियान्तः करणं पुरुषाख्यं हि यज्जगत् ॥६८॥ स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः । सर्गादिकं तु तस्यैव भूतस्थमुपकारकम् ॥६९॥ स एव सृज्यः स च सर्गकर्ता स एव पात्यत्ति च पाल्यते च । ब्रह्माद्यवस्थाभिरशेषमूर्ति र्विष्णुर्वरिष्ठो वरदो वरेण्यः ॥७०॥ </poem> [[वर्गः:श्रीविष्णुपुराणम्-प्रथमांशः]] 9ou3jl85ylys3q1j2dhp5hzb0cmeaa4 विष्णुपुराणम्/षष्टांशः/अध्यायः ४ 0 7169 415794 203449 2026-05-03T11:43:55Z ~2026-26708-86 10448 415794 wikitext text/x-wiki {{श्रीविष्णुपुराणम्-षष्टांशः}} <poem> सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि महामुने! एकाणवं भवत्येव त्रैलोक्यमखिलं ततः ।। ६-४-१ ।। मुखनिः श्वासजो विष्णोर्वायुस्तान् जलदांस्ततः । नाशयित्वा तु मैत्रेय!वर्षाणामधिकं शतम् ।। ६-४-२ ।। सर्व्वभूतमयोऽचिन्त्यो भगवान् बूतभावनः । अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः ।। ६-४-३ ।। एकार्णावे ततस्तस्मिन् शेषशय्यास्थितः प्रभुः । ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः ।। ६-४-४ ।। जनलोकगतैः सिद्धेः सनकाद्यरैभिष्टुतः । ब्रह्मलोकगतैश्चैव चिन्त्यमानो मुमुक्षुबिः ।। ६-४-५ ।। आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः । आत्मानं वासुदेवाख्यं चिन्तयन् परमेश्वरः ।। ६-४-६ ।। एष नैमित्तिको नाम मैत्रेय!प्रतिसञ्चरः । निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः ।। ६-४-७ ।। यदा जागर्त्ति विश्वात्मा स तदा चेष्टते जगत् । निमीलत्येतदखिलं योगशय्याशयेऽच्युते ।। ६-४-८ ।। पद्मयोनेर्दिनं यत्तु चतुर्युगसहस्त्रवत् । एकार्णावाप्लुते लोके तावती रात्रिष्यते ।। ६-४-९ ।। ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिं करोत्यजः । ब्रह्मस्वरूप धृग् विष्णुर्यथा ते कथितं पुरा ।। ६-४-१० ।। इत्येष कल्पसंहारश्वान्तरः प्रलयो द्रिज! नैमित्तिकस्ते कथितः प्राकृतः श्वृण्वतः परम् ।। ६-४-११ ।। अनावृष्ट्याग्रिसम्पर्कात् कृतै संक्षालने मुने! समस्तेष्वेव लोकेषु पातालेष्वखिलेषु च ।। ६-४-१२ ।। महदादेर्विकारस्य विशेषान्तस्य संक्षये । कृष्णेच्छाकारिते तस्मिन् प्रवृत्ते प्रतिसञ्चरे ।। ६-४-१३ ।। आपो ग्रसन्ति वै पूर्व्वं भूमेर्गन्धात्मकं गुणाम् । आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ।। ६-४-१४ ।। प्रनष्टे गन्धतन्मात्रेऽभवत् पृथ्वी जलात्मिका । रसाज्जल समुद्भूतं तस्माज्जातं रसात्मकम् ।। ६-४-१५ ।। आपस्तदा प्रवृद्धास्तु वेगवत्यो महास्वनाः । सर्व्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च । सलिलेनैवोर्म्मिमता लोका व्याप्ताः समन्ततः ।। ६-४-१६ ।। अपामपि गुणो यस्तु ज्योतिषा पीयते तु सः । नश्यन्त्यापस्ततस्ताश्व रसतन्मात्रसंक्षयात् ।। ६-४-१७ ।। ततश्वापो ह्टतरसा ज्योतिष्ट्वं प्राप्नुवन्ति वै । अग्न्यवस्थे तु सलिले तेजसा सर्व्वतो वृते ।। ६-४-१८ ।। स चाग्रिः सर्व्वतो व्याप्य आदत्ते तज्जल तदा । सर्व्वमापूर्य्य तेजोभिस्तदा जगदिदं शनैः ।। ६-४-१९ ।। अर्ज्जिर्भिः संवृ-ते तस्मिन् तिर्य्यगूर्द्ध मधस्तथा । ज्योतिषोऽपि परं रूपं वायुरत्ति प्रभाकरम् ।। ६-४-२० ।। प्रलीने च ततस्तस्मिन् वायुभूतेऽखिलात्मनि । प्रनष्टे रूपतन्मात्रे ह्टतरूपो विभावसुः ।। ६-४-२१ ।। प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान् । निरालोके तदा लोके वाय्वस्थे च तेजसि ।। ६-४-२२ ।। ततस्तु मूलमासाद्य वायुः सम्भवमात्मनः । ऊर्द्ध्वञ्चाधश्व तिर्य्यक् च दोधवीति दिशो दश ।। ६-४-२३ ।। वायारपिं गुणां स्पर्शमाकाशो ग्रसते पुनः । प्रशाम्यति ततो वायुः स्वन्तु तिष्ठत्यनावृतम् ।। ६-४-२४ ।। अरूपमरसस्पर्शमगन्धं न च मूर्त्तिमत् । सर्व्वमापूरयच्चैनत् सुमहत् सम्प्रकाशते ।। ६-४-२५ ।। परिमण्डल तच्छुषिरमाकाशं शब्दलक्षणम् । शब्दमात्रं तदाकाशं सर्व्वमावृत्य तिष्ठति ।। ६-४-२६ ।। ततः शब्दं गुणां तस्य भूतादिर्ग्रसते पुनः । भूतेन्द्रियेषु युगपद् भूतादौ संस्तितेषु वै ।। ६-४-२७ ।। अभिमानात्मको ह्येष बूतादिस्तामसः स्मृतः । भूतादिं ग्रसते चापि महान् वै वुद्धिलक्षणः ।। ६-४-२८ ।। उर्व्वी महांश्व जगतः प्रान्तेऽन्वर्बाह्यतस्तथा ।। ६-४-२९ ।। एवं स्पत महाबद्ध! क्रमात् प्रकृतयस्तु वै । प्रत्याहारे तु ताः सर्व्वाः प्रविशन्ति परस्परम् ।। ६-४-३० ।। येनेदमावृतं सर्व्वमण्डमप्सु प्रलीयते । सप्तद्रीपसमुद्रान्तं सप्तलोकं सपर्ट्वतम् ।। ६-४-३१ ।। उदकावरणं यत्तु ज्योतिषा पीयते तु तत् । ज्योतिर्वायौ ल्यं याति यात्याकाशे समीरणः ।। ६-४-३२ ।। आकाशञ्चैव भूतादिर्ग्रसते तं तदा महान् । महान्तमेबिः सहितं प्रकृतिर्ग्रसते द्रिज ।। ६-४-३३ ।। गुणसाम्यमनुद्रिक्तमन्यूनञ्च महामुने! प्रोच्यते प्रकृतिर्हेतुः प्रधानं काराण परम् ।। ६-४-३४ ।। इत्येषा प्रकृतिः सर्व्वा व्यक्ताव्यक्तस्वरूपिणी । व्यक्तस्वरूपमव्यक्ते तस्मिन् मैत्रेय!लीयते ।। ६-४-३५ ।। एकः शुद्धोऽक्षरो नित्यः सर्वव्यापी तथा पुमान् । सोऽप्यंशः सर्वभूतस्य मैत्रेय!परमात्मनः ।। ६-४-३६ ।। न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः । सत्तामात्रात्मके ज्ञये ज्ञानात्मन्यात्मनः परे ।। ६-४-३७ ।। स ब्रह्म तत् परं धाम परमात्मा स चेश्वरः । स विष्णुः सर्वमेवेदं यतो नावर्त्तते यतिः ।। ६-४-३८ ।। प्रकृतिर्या मया ख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्वाप्युभावेतौ लीयेते परमात्मनि ।। ६-४-३९ ।। परमात्मा च सर्वेषामाधारः परमेश्वरः । विष्णुर्नाम्रा स वेदेषु वेदान्तेषु च गीयते ।। ६-४-४० ।। प्रवृत्तञ्च निवृत्तञ्च द्रिविधं कर्म्म वैदिकम् । ताभ्यामुभाभ्यां पुरुषैः सर्वमूर्त्तिः स इज्यते ।। ६-४-४१ ।। ऋगू-यजुः-सामबिर्मार्गैः प्रवृत्तैरिज्यते ह्यसौ । यज्ञेश्वरो यज्ञपुमान् पुरुषैः पुरुषोत्तमः ।। ६-४-४२ ।। ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्त्तिः स चेज्यते । निवृत्ते योगिभिर्मुर्गेविष्णुर्मुक्तिफलप्रदः ।। ६-४-४३ ।। ह्टस्व-दीर्घ-प्लुतैर्यत्तु किञ्चिदूस्त्वभियुज्यते । यच्च वाचामविषये तत्सर्वं विष्णुख्ययः ।। ६-४-४४ ।। व्यक्तं स एव चाव्यक्तं स एव पुरुषोऽव्ययः । परमात्मा स विश्वात्मा विश्वरूपधरो हरिः ।। ६-४-४५ ।। व्यक्ताव्यक्तात्मिका तस्मिन् प्रकृतिः सम्प्रलीयते । पुरुषश्वापि मैत्रेय!व्यापिन्यव्याहतात्मनि ।। ६-४-४६ ।। द्रिपरार्द्धात्मकः कालः कथितो यो मया तव । तदहस्तस्य मैत्रेय!विष्णोरीशस्य कथ्यते ।। ६-४-४७ ।। व्यक्ते च प्रकृतौ लीने प्रकृत्यां पुरुषे तथा । तत्र स्थिते निशा चान्या ततूप्रमाणा महामुने ।। ६-४-४८ ।। नैवाहस्तस्य न निशा नित्यस्य परमात्मनः । उपचारस्तथाप्येष तस्येशस्य द्रिजोच्यते ।। ६-४-४९ ।। इत्येष तव मैत्रेय!कथितः प्राकृतो लयः । आत्यन्तिकमितो ब्रह्मन्निबोध प्रतिसञ्चरम् ।। ६-४-५० ।। </poem> [[वर्गः:श्रीविष्णुपुराणम्-षष्टांशः]] 0lepatwfwfzkj5zo8nbr13bulkpemh5 415797 415794 2026-05-03T11:50:51Z ~2026-26708-86 10448 415797 wikitext text/x-wiki {{श्रीविष्णुपुराणम्-षष्टांशः}} <poem> सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि महामुने! एकाणवं भवत्येव त्रैलोक्यमखिलं ततः ।। ६-४-१ ।। मुखनिः श्वासजो विष्णोर्वायुस्तान् जलदांस्ततः । नाशयित्वा तु मैत्रेय!वर्षाणामधिकं शतम् ।। ६-४-२ ।। सर्व्वभूतमयोऽचिन्त्यो भगवान् बूतभावनः । अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः ।। ६-४-३ ।। एकार्णावे ततस्तस्मिन् शेषशय्यास्थितः प्रभुः । ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः ।। ६-४-४ ।। जनलोकगतैः सिद्धेः सनकाद्यरैभिष्टुतः । ब्रह्मलोकगतैश्चैव चिन्त्यमानो मुमुक्षुबिः ।। ६-४-५ ।। आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः । आत्मानं वासुदेवाख्यं चिन्तयन् परमेश्वरः ।। ६-४-६ ।। एष नैमित्तिको नाम मैत्रेय!प्रतिसञ्चरः । निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः ।। ६-४-७ ।। यदा जागर्त्ति विश्वात्मा स तदा चेष्टते जगत् । निमीलत्येतदखिलं योगशय्याशयेऽच्युते ।। ६-४-८ ।। पद्मयोनेर्दिनं यत्तु चतुर्युगसहस्त्रवत् । एकार्णावाप्लुते लोके तावती रात्रिष्यते ।। ६-४-९ ।। ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिं करोत्यजः । ब्रह्मस्वरूप धृग् विष्णुर्यथा ते कथितं पुरा ।। ६-४-१० ।। इत्येष कल्पसंहारश्वान्तरः प्रलयो द्रिज! नैमित्तिकस्ते कथितः प्राकृतः श्वृण्वतः परम् ।। ६-४-११ ।। अनावृष्ट्याग्रिसम्पर्कात् कृतै संक्षालने मुने! समस्तेष्वेव लोकेषु पातालेष्वखिलेषु च ।। ६-४-१२ ।। महदादेर्विकारस्य विशेषान्तस्य संक्षये । कृष्णेच्छाकारिते तस्मिन् प्रवृत्ते प्रतिसञ्चरे ।। ६-४-१३ ।। आपो ग्रसन्ति वै पूर्व्वं भूमेर्गन्धात्मकं गुणाम् । आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ।। ६-४-१४ ।। प्रनष्टे गन्धतन्मात्रेऽभवत् पृथ्वी जलात्मिका । रसाज्जल समुद्भूतं तस्माज्जातं रसात्मकम् ।। ६-४-१५ ।। आपस्तदा प्रवृद्धास्तु वेगवत्यो महास्वनाः । सर्व्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च । सलिलेनैवोर्म्मिमता लोका व्याप्ताः समन्ततः ।। ६-४-१६ ।। अपामपि गुणो यस्तु ज्योतिषा पीयते तु सः । नश्यन्त्यापस्ततस्ताश्व रसतन्मात्रसंक्षयात् ।। ६-४-१७ ।। ततश्वापो ह्टतरसा ज्योतिष्ट्वं प्राप्नुवन्ति वै । अग्न्यवस्थे तु सलिले तेजसा सर्व्वतो वृते ।। ६-४-१८ ।। स चाग्रिः सर्व्वतो व्याप्य आदत्ते तज्जल तदा । सर्व्वमापूर्य्य तेजोभिस्तदा जगदिदं शनैः ।। ६-४-१९ ।। अर्ज्जिर्भिः संवृ-ते तस्मिन् तिर्य्यगूर्द्ध मधस्तथा । ज्योतिषोऽपि परं रूपं वायुरत्ति प्रभाकरम् ।। ६-४-२० ।। प्रलीने च ततस्तस्मिन् वायुभूतेऽखिलात्मनि । प्रनष्टे रूपतन्मात्रे ह्टतरूपो विभावसुः ।। ६-४-२१ ।। प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान् । निरालोके तदा लोके वाय्वस्थे च तेजसि ।। ६-४-२२ ।। ततस्तु मूलमासाद्य वायुः सम्भवमात्मनः । ऊर्द्ध्वञ्चाधश्व तिर्य्यक् च दोधवीति दिशो दश ।। ६-४-२३ ।। वायारपिं गुणां स्पर्शमाकाशो ग्रसते पुनः । प्रशाम्यति ततो वायुः स्वन्तु तिष्ठत्यनावृतम् ।। ६-४-२४ ।। अरूपमरसस्पर्शमगन्धं न च मूर्त्तिमत् । सर्व्वमापूरयच्चैनत् सुमहत् सम्प्रकाशते ।। ६-४-२५ ।। परिमण्डल तच्छुषिरमाकाशं शब्दलक्षणम् । शब्दमात्रं तदाकाशं सर्व्वमावृत्य तिष्ठति ।। ६-४-२६ ।। ततः शब्दं गुणां तस्य भूतादिर्ग्रसते पुनः । भूतेन्द्रियेषु युगपद् भूतादौ संस्तितेषु वै ।। ६-४-२७ ।। अभिमानात्मको ह्येष बूतादिस्तामसः स्मृतः । भूतादिं ग्रसते चापि महान् वै वुद्धिलक्षणः ।। ६-४-२८ ।। उर्व्वी महांश्व जगतः प्रान्तेऽन्वर्बाह्यतस्तथा ।। ६-४-२९ ।। एवं स्पत महाबद्ध! क्रमात् प्रकृतयस्तु वै । प्रत्याहारे तु ताः सर्व्वाः प्रविशन्ति परस्परम् ।। ६-४-३० ।। येनेदमावृतं सर्व्वमण्डमप्सु प्रलीयते । सप्तद्रीपसमुद्रान्तं सप्तलोकं सपर्ट्वतम् ।। ६-४-३१ ।। उदकावरणं यत्तु ज्योतिषा पीयते तु तत् । ज्योतिर्वायौ ल्यं याति यात्याकाशे समीरणः ।। ६-४-३२ ।। आकाशञ्चैव भूतादिर्ग्रसते तं तदा महान् । महान्तमेबिः सहितं प्रकृतिर्ग्रसते द्रिज ।। ६-४-३३ ।। गुणसाम्यमनुद्रिक्तमन्यूनञ्च महामुने! प्रोच्यते प्रकृतिर्हेतुः प्रधानं काराण परम् ।। ६-४-३४ ।। इत्येषा प्रकृतिः सर्व्वा व्यक्ताव्यक्तस्वरूपिणी । व्यक्तस्वरूपमव्यक्ते तस्मिन् मैत्रेय!लीयते ।। ६-४-३५ ।। एकः शुद्धोऽक्षरो नित्यः सर्वव्यापी तथा पुमान् । सोऽप्यंशः सर्वभूतस्य मैत्रेय!परमात्मनः ।। ६-४-३६ ।। न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः । सत्तामात्रात्मके ज्ञये ज्ञानात्मन्यात्मनः परे ।। ६-४-३७ ।। स ब्रह्म तत् परं धाम परमात्मा स चेश्वरः । स विष्णुः सर्वमेवेदं यतो नावर्त्तते यतिः ।। ६-४-३८ ।। प्रकृतिर्या मया ख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि ।। ६-४-३९ ।। परमात्मा च सर्वेषामाधारः परमेश्वरः । विष्णुर्नाम्रा स वेदेषु वेदान्तेषु च गीयते ।। ६-४-४० ।। प्रवृत्तञ्च निवृत्तञ्च द्रिविधं कर्म्म वैदिकम् । ताभ्यामुभाभ्यां पुरुषैः सर्वमूर्त्तिः स इज्यते ।। ६-४-४१ ।। ऋगू-यजुः-सामबिर्मार्गैः प्रवृत्तैरिज्यते ह्यसौ । यज्ञेश्वरो यज्ञपुमान् पुरुषैः पुरुषोत्तमः ।। ६-४-४२ ।। ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्त्तिः स चेज्यते । निवृत्ते योगिभिर्मुर्गेविष्णुर्मुक्तिफलप्रदः ।। ६-४-४३ ।। ह्टस्व-दीर्घ-प्लुतैर्यत्तु किञ्चिदूस्त्वभियुज्यते । यच्च वाचामविषये तत्सर्वं विष्णुख्ययः ।। ६-४-४४ ।। व्यक्तं स एव चाव्यक्तं स एव पुरुषोऽव्ययः । परमात्मा स विश्वात्मा विश्वरूपधरो हरिः ।। ६-४-४५ ।। व्यक्ताव्यक्तात्मिका तस्मिन् प्रकृतिः सम्प्रलीयते । पुरुषश्वापि मैत्रेय!व्यापिन्यव्याहतात्मनि ।। ६-४-४६ ।। द्रिपरार्द्धात्मकः कालः कथितो यो मया तव । तदहस्तस्य मैत्रेय!विष्णोरीशस्य कथ्यते ।। ६-४-४७ ।। व्यक्ते च प्रकृतौ लीने प्रकृत्यां पुरुषे तथा । तत्र स्थिते निशा चान्या ततूप्रमाणा महामुने ।। ६-४-४८ ।। नैवाहस्तस्य न निशा नित्यस्य परमात्मनः । उपचारस्तथाप्येष तस्येशस्य द्रिजोच्यते ।। ६-४-४९ ।। इत्येष तव मैत्रेय!कथितः प्राकृतो लयः । आत्यन्तिकमितो ब्रह्मन्निबोध प्रतिसञ्चरम् ।। ६-४-५० ।। </poem> [[वर्गः:श्रीविष्णुपुराणम्-षष्टांशः]] 0watt9f9lclu5t9znjiciszctotbmdz विष्णुपुराणम्/तृतीयांशः/अध्यायः २ 0 7181 415795 322200 2026-05-03T11:46:04Z ~2026-26708-86 10448 415795 wikitext text/x-wiki {{श्रीविष्णुपुराणम्-तृतीयांशः}} <poem> मैत्रेय उवाच प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै । भविष्याण्यपि विप्रर्ष ममाख्यातुं त्वमर्हसि ॥ ३,२.१ ॥ श्रीपराशर उवाच सूर्यस्य पत्नी संज्ञाभूत्तनया विश्वकर्मणः । मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥ ३,२.२ ॥ असहन्ती तु सा भर्तुस्तेजश्छायां युयोज वै । भर्तृशुश्रूषणेऽरण्यंस्वयं च तपसे ययौ ॥ ३,२.३ ॥ संज्ञेयमित्यथार्कश्च छायायामात्मजत्रयम् । शनैश्चरं मनुं चान्यं तपतीं चाप्यजाजनत् ॥ ३,२.४ ॥ छायासंज्ञा ददौ शापं यमाय कुपिता यदा । तदान्येयमसौ बुद्धिरित्यासीद्यमसूर्ययोः ॥ ३,२.५ ॥ ततो विवस्वानाख्यातां तयैवारण्यसंस्थिताम् । समाधिदृष्ट्याददृशे तामश्वां तपसि स्थिताम् ॥ ३,२.६ ॥ वाजिरूपधरः सोथ तस्यां देवावथाश्विनौ । जनयामास रेवन्तं रेतसोंते च भास्करः ॥ ३,२.७ ॥ आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान् रविः । तेजसः शमनं चास्य विश्वकर्मा चकार ह ॥ ३,२.८ ॥ भ्रममारोप्य सूर्यं तु तस्य तेजोनिशातनम् । कृतवानष्टमं भागं स व्यशातयदव्ययम् ॥ ३,२.९ ॥ यत्तस्माद्वैष्णवं तेजस्शातितं विश्वकर्मणा । जाज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम ॥ ३,२.१० ॥ त्वष्टैव तेजसा तेन विष्णोश्चक्रमकल्पयत् । त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च ॥ ३,२.११ ॥ शक्तिं गुहस्य देवानामन्येषां च यदायुधम् । तत्सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत् ॥ ३,२.१२ ॥ छायासंज्ञासुतो योसौ द्वितीयः कथितो मनुः । पूर्वजस्यासवर्णोसौ सावर्णिस्तेन कथ्यते ॥ ३,२.१३ ॥ तस्य मन्वन्तरं ह्योतत्सावर्णिकमथाष्टमम् । तच्छृणुष्व महाभाग भविष्यत्कथयामि ते ॥ ३,२.१४ ॥ सावर्णिस्तु मनुर्योसौ मैत्रेय भविता ततः । सुतपाश्चामिताभाश्च मुख्याश्चापि तथा सुराः ॥ ३,२.१५ ॥ तेषां गणाश्च देवानामेकैको विंशकः स्मृतः । सप्तर्षिनपि वक्ष्यामि भविष्यान्मुनिसत्तम ॥ ३,२.१६ ॥ दीप्तिमान् गालवो रामः कृपो द्रोणिस्तथा परः । मत्पुत्रश्च तथा व्यास ऋष्यशृङ्गश्च सप्तमः ॥ ३,२.१७ ॥ विष्णु प्रसादादनघः पातालान्तरगोचरः । विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥ ३,२.१८ ॥ विरजाश्चोर्वरीवांश्च निर्मोकाद्यास्तथापरे । सावर्णेस्तु मनोः पुत्रा भविष्यन्ति नरेश्वराः ॥ ३,२.१९ ॥ नवमो दक्षसावर्णिर्भविष्यति मुने मनुः ॥ ३,२.२० ॥ पारा मरीचिगर्भाश्च सुधर्माणस्तथा त्रिधा । भविष्यन्ति तथा देवा ह्योकैको द्वादशो गणः ॥ ३,२.२१ ॥ तेषामिद्रो महावीर्यो भविष्यत्यद्भुतो द्विज ॥ ३,२.२२ ॥ सवनो द्युतिमान् भव्यो वसुर्मेधातिथिस्तथा । ज्योतिष्मान् सप्तमः सत्यस्तत्रैते च महर्षयः ॥ ३,२.२३ ॥ धृतकेतुर्दीप्तिकेतुः पञ्चहस्तनिरामयौ । पृथुश्रवाद्याश्च तथा दक्षमावर्णिकात्मजाः ॥ ३,२.२४ ॥ दसमो ब्रह्मसावर्मिर्भविष्यति मुने मनुः । सूधामानो विशुद्धाश्च शतसंख्यास्तथा सुराः ॥ ३,२.२५ ॥ तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः । सप्तर्षयो भविष्यन्ति ये तथा ताञ्छृणुष्व ह ॥ ३,२.२६ ॥ हविष्मान्सुकृतःसत्यस्तपोमूर्तिस्तथापरः । नाभागोऽप्रतिमौजाश्चसत्यकेतुस्तथैव च ॥ ३,२.२७ ॥ सुक्षेत्रश्चोत्तमौजाश्चभूरिषेणादयो दश । ब्रह्मसावर्णिपुत्रास्तु रक्षिष्यन्ति वसुंधराम् ॥ ३,२.२८ ॥ एकादशश्च भविता धर्मसावर्णिको मनुः ॥ ३,२.२९ ॥ विहङ्गमाः कामागमा निर्वाणा ऋषयस्तथा । गणास्त्वेते तदा मुख्या देवानां च भविष्यताम् । ऐकैकस्त्रिंशकस्तेषां गणश्चेन्द्रश्च वै पृषा ॥ ३,२.३० ॥ निः स्वरश्चाग्नितेजाश्च वपुष्मान्घणिरारुणिः । हविष्माननघश्चैव भाव्याः सप्तर्षयस्तथा ॥ ३,२.३१ ॥ सर्वत्रगस्शुधर्मा च देवानीकादयस्तथा । भविष्यन्ति मनोस्तस्य तनयाः पृतिविश्वराः ॥ ३,२.३२ ॥ रुद्रपुत्रस्तु सावर्णिर्भविता द्वादशो मनुः । ऋतुधामा च तत्रेन्द्रो भविता शृणु मे सुरान् ॥ ३,२.३३ ॥ हरिता रोहिता देवास्तथा सुमनसो द्विज । सुकर्माणः सुरापाश्च दशकाः पञ्च वै गणाः ॥ ३,२.३४ ॥ तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः । तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः । सप्तर्षयस्त्विमे तस्य पुत्रानपि निबोध मे ॥ ३,२.३५ ॥ देववानुपदेवश्च देवश्रेष्ठादयस्तथा । मनोस्तस्य महावीर्या भविष्यन्ति महानृपाः ॥ ३,२.३६ ॥ त्रयोदशो रुचिर्नामा भविष्यति मुने मनुः ॥ ३,२.३७ ॥ सुत्रामाणः सुकर्माणः सुधर्माणस्तथामराः । त्रयस्त्रिंशद्विभेदास्त देवानां यत्र वै गणाः ॥ ३,२.३८ ॥ दिवस्पतिर्महावीर्यस्तेषामिन्द्रोभिविष्यति ॥ ३,२.३९ ॥ निर्मोहस्तत्त्वदर्शि च निष्प्रकंप्यो निरुत्सुकः । धृतिमानव्ययश्चान्यःसप्तमःसुतपा मुनिः । सप्तर्षयस्त्वमी तस्य पुत्रानपि निबोधे मे ॥ ३,२.४० ॥ चित्रसेनविचित्राद्या भविष्यन्ति महीक्षिकः ॥ ३,२.४१ ॥ भौमश्चतुर्दशश्चात्र मैत्रेय भविता मनः । शुचिरिन्द्रः सुरगणस्तत्र पञ्च शृणुष्व तान् ॥ ३,२.४२ ॥ चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजिकास्तथा । वाचवृद्धश्च वै देवाःसप्तर्षीनपि मे शृणु ॥ ३,२.४३ ॥ अग्निबाहुः शुचिः शुक्रो मागधोग्नीध्र एव च । युक्तस्तथा जितश्चान्यो मनुपुत्रानतः शृणु ॥ ३,२.४४ ॥ ऊरुगंभीरबुद्ध्याद्या मनोस्तस्य सुता नृपाः । कथिता मुनिशार्दुल पालयिष्यन्ति ये महीम् ॥ ३,२.४५ ॥ चतुर्युगान्ते वेदानां जायते किल विप्लवः । प्रवर्तयन्ति तानेत्य भुवं सप्तर्षयो दिवः ॥ ३,२.४६ ॥ कृतेकृते स्मृतेर्विप्र प्रणेता जायते मनुः । देवा यज्ञभुजस्ते तु यावन्मन्वन्तरं तु तत् ॥ ३,२.४७ ॥ भवन्ति ये मनोः पुत्रा यावन्मन्वंरतं तु तैः । तदन्वयोद्भवैश्चैव तावद्भूः परीपाल्यते ॥ ३,२.४८ ॥ मनुःसप्तर्षयो देवा भूपालाश्च मनोः सुताः । मन्वन्तरे भवन्त्येते शक्रश्चैवाधिकारिमः ॥ ३,२.४९ ॥ चतुर्दशभिरेतैस्तु गतैर्मन्वन्तरैर्द्विज । सहस्रयुगपर्यतः कल्पो निःशेष उच्यते ॥ ३,२.५० ॥ तावत्प्रमाणा च निशा ततो भवति सत्तम । ब्रह्मरूपधरः शेते शेषाहावंबुसंप्लवे ॥ ३,२.५१ ॥ त्रैलोक्यमखिलं ग्रस्त्वा भगवानादिकृद्विभुः । स्वमायासंस्तितो विप्र सर्वभूतो जनार्दनः ॥ ३,२.५२ ॥ ततः प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः । सृष्टिं करोत्यव्ययात्मा कल्पेकल्पे रजोगुणः ॥ ३,२.५३ ॥ मनवो भूभुजःसेंद्रा देवाःसप्तर्षयस्तथा । सात्त्विकोंशः स्थितिकरो जगतो द्विजसत्तम ॥ ३,२.५४ ॥ चदुर्युगोप्यसौ विष्णुः स्थितिव्यापारलक्षमः । युगव्यवस्थां कुरुते तथा मैत्रेय तच्छृणु ॥ ३,२.५५ ॥ कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् । ददाति सर्वभूतात्मा सर्वभूतहिते रतः ॥ ३,२.५६ ॥ चक्रवर्तिस्वरूपेण त्रेतायामपि स प्रभूः । दुष्टानां निग्रह कुर्वन्परिपाति जगत्त्रयम् ॥ ३,२.५७ ॥ वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः । करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥ ३,२.५८ ॥ वेदांस्तु द्वापरे व्यस्य कलेरन्ते पुनर्हरिः । कल्किस्वरूपी दुर्वृत्तन्मार्गे स्थापयति प्रभुः ॥ ३,२.५९ ॥ एवमेतज्जगत्सर्वं शश्वत्पाति करोति च । हन्ति चान्तेष्वनन्तात्मा नास्त्यस्मव्द्यतिरेकि यत् ॥ ३,२.६० ॥ भूतं भव्यं भविष्यं च सर्वभूतान्महात्मनः । तदत्रान्यत्र वा विप्र सद्भावः कथितस्तव ॥ ३,२.६१ ॥ मन्वन्तराण्यशेषाणि कथितानि मया तवा । मन्वन्तराधिपांश्चैव किमन्यत्कथयामि ते ॥ ३,२.६२ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे द्वितीयोऽध्यायः (२) </poem> [[वर्गः:श्रीविष्णुपुराणम्-तृतीयांशः]] ov626j3s4gyoyhcez4mq3givt6pn162 415796 415795 2026-05-03T11:48:15Z ~2026-26708-86 10448 415796 wikitext text/x-wiki {{श्रीविष्णुपुराणम्-तृतीयांशः}} <poem> मैत्रेय उवाच प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै । भविष्याण्यपि विप्रर्ष ममाख्यातुं त्वमर्हसि ॥ ३,२.१ ॥ श्रीपराशर उवाच सूर्यस्य पत्नी संज्ञाभूत्तनया विश्वकर्मणः । मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥ ३,२.२ ॥ असहन्ती तु सा भर्तुस्तेजश्छायां युयोज वै । भर्तृशुश्रूषणेऽरण्यंस्वयं च तपसे ययौ ॥ ३,२.३ ॥ संज्ञेयमित्यथार्कश्च छायायामात्मजत्रयम् । शनैश्चरं मनुं चान्यं तपतीं चाप्यजाजनत् ॥ ३,२.४ ॥ छायासंज्ञा ददौ शापं यमाय कुपिता यदा । तदान्येयमसौ बुद्धिरित्यासीद्यमसूर्ययोः ॥ ३,२.५ ॥ ततो विवस्वानाख्यातां तयैवारण्यसंस्थिताम् । समाधिदृष्ट्याददृशे तामश्वां तपसि स्थिताम् ॥ ३,२.६ ॥ वाजिरूपधरः सोथ तस्यां देवावथाश्विनौ । जनयामास रेवन्तं रेतसोंते च भास्करः ॥ ३,२.७ ॥ आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान् रविः । तेजसः शमनं चास्य विश्वकर्मा चकार ह ॥ ३,२.८ ॥ भ्रममारोप्य सूर्यं तु तस्य तेजोनिशातनम् । कृतवानष्टमं भागं स व्यशातयदव्ययम् ॥ ३,२.९ ॥ यत्तस्माद्वैष्णवं तेजस्शातितं विश्वकर्मणा । जाज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम ॥ ३,२.१० ॥ त्वष्टैव तेजसा तेन विष्णोश्चक्रमकल्पयत् । त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च ॥ ३,२.११ ॥ शक्तिं गुहस्य देवानामन्येषां च यदायुधम् । तत्सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत् ॥ ३,२.१२ ॥ छायासंज्ञासुतो योसौ द्वितीयः कथितो मनुः । पूर्वजस्यासवर्णोसौ सावर्णिस्तेन कथ्यते ॥ ३,२.१३ ॥ तस्य मन्वन्तरं ह्योतत्सावर्णिकमथाष्टमम् । तच्छृणुष्व महाभाग भविष्यत्कथयामि ते ॥ ३,२.१४ ॥ सावर्णिस्तु मनुर्योसौ मैत्रेय भविता ततः । सुतपाश्चामिताभाश्च मुख्याश्चापि तथा सुराः ॥ ३,२.१५ ॥ तेषां गणाश्च देवानामेकैको विंशकः स्मृतः । सप्तर्षिनपि वक्ष्यामि भविष्यान्मुनिसत्तम ॥ ३,२.१६ ॥ दीप्तिमान् गालवो रामः कृपो द्रोणिस्तथा परः । मत्पुत्रश्च तथा व्यास ऋष्यशृङ्गश्च सप्तमः ॥ ३,२.१७ ॥ विष्णु प्रसादादनघः पातालान्तरगोचरः । विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥ ३,२.१८ ॥ विरजाश्चोर्वरीवांश्च निर्मोकाद्यास्तथापरे । सावर्णेस्तु मनोः पुत्रा भविष्यन्ति नरेश्वराः ॥ ३,२.१९ ॥ नवमो दक्षसावर्णिर्भविष्यति मुने मनुः ॥ ३,२.२० ॥ पारा मरीचिगर्भाश्च सुधर्माणस्तथा त्रिधा । भविष्यन्ति तथा देवा ह्योकैको द्वादशो गणः ॥ ३,२.२१ ॥ तेषामिद्रो महावीर्यो भविष्यत्यद्भुतो द्विज ॥ ३,२.२२ ॥ सवनो द्युतिमान् भव्यो वसुर्मेधातिथिस्तथा । ज्योतिष्मान् सप्तमः सत्यस्तत्रैते च महर्षयः ॥ ३,२.२३ ॥ धृतकेतुर्दीप्तिकेतुः पञ्चहस्तनिरामयौ । पृथुश्रवाद्याश्च तथा दक्षमावर्णिकात्मजाः ॥ ३,२.२४ ॥ दसमो ब्रह्मसावर्मिर्भविष्यति मुने मनुः । सूधामानो विशुद्धाश्च शतसंख्यास्तथा सुराः ॥ ३,२.२५ ॥ तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः । सप्तर्षयो भविष्यन्ति ये तथा ताञ्छृणुष्व ह ॥ ३,२.२६ ॥ हविष्मान्सुकृतःसत्यस्तपोमूर्तिस्तथापरः । नाभागोऽप्रतिमौजाश्चसत्यकेतुस्तथैव च ॥ ३,२.२७ ॥ सुक्षेत्रश्चोत्तमौजाश्चभूरिषेणादयो दश । ब्रह्मसावर्णिपुत्रास्तु रक्षिष्यन्ति वसुंधराम् ॥ ३,२.२८ ॥ एकादशश्च भविता धर्मसावर्णिको मनुः ॥ ३,२.२९ ॥ विहङ्गमाः कामागमा निर्वाणा ऋषयस्तथा । गणास्त्वेते तदा मुख्या देवानां च भविष्यताम् । ऐकैकस्त्रिंशकस्तेषां गणश्चेन्द्रश्च वै पृषा ॥ ३,२.३० ॥ निः स्वरश्चाग्नितेजाश्च वपुष्मान्घणिरारुणिः । हविष्माननघश्चैव भाव्याः सप्तर्षयस्तथा ॥ ३,२.३१ ॥ सर्वत्रगस्शुधर्मा च देवानीकादयस्तथा । भविष्यन्ति मनोस्तस्य तनयाः पृतिविश्वराः ॥ ३,२.३२ ॥ रुद्रपुत्रस्तु सावर्णिर्भविता द्वादशो मनुः । ऋतुधामा च तत्रेन्द्रो भविता शृणु मे सुरान् ॥ ३,२.३३ ॥ हरिता रोहिता देवास्तथा सुमनसो द्विज । सुकर्माणः सुरापाश्च दशकाः पञ्च वै गणाः ॥ ३,२.३४ ॥ तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः । तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः । सप्तर्षयस्त्विमे तस्य पुत्रानपि निबोध मे ॥ ३,२.३५ ॥ देववानुपदेवश्च देवश्रेष्ठादयस्तथा । मनोस्तस्य महावीर्या भविष्यन्ति महानृपाः ॥ ३,२.३६ ॥ त्रयोदशो रुचिर्नामा भविष्यति मुने मनुः ॥ ३,२.३७ ॥ सुत्रामाणः सुकर्माणः सुधर्माणस्तथामराः । त्रयस्त्रिंशद्विभेदास्त देवानां यत्र वै गणाः ॥ ३,२.३८ ॥ दिवस्पतिर्महावीर्यस्तेषामिन्द्रोभिविष्यति ॥ ३,२.३९ ॥ निर्मोहस्तत्त्वदर्शि च निष्प्रकंप्यो निरुत्सुकः । धृतिमानव्ययश्चान्यःसप्तमःसुतपा मुनिः । सप्तर्षयस्त्वमी तस्य पुत्रानपि निबोधे मे ॥ ३,२.४० ॥ चित्रसेनविचित्राद्या भविष्यन्ति महीक्षिकः ॥ ३,२.४१ ॥ भौमश्चतुर्दशश्चात्र मैत्रेय भविता मनः । शुचिरिन्द्रः सुरगणस्तत्र पञ्च शृणुष्व तान् ॥ ३,२.४२ ॥ चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजिकास्तथा । वाचवृद्धश्च वै देवाःसप्तर्षीनपि मे शृणु ॥ ३,२.४३ ॥ अग्निबाहुः शुचिः शुक्रो मागधोग्नीध्र एव च । युक्तस्तथा जितश्चान्यो मनुपुत्रानतः शृणु ॥ ३,२.४४ ॥ ऊरुगंभीरबुद्ध्याद्या मनोस्तस्य सुता नृपाः । कथिता मुनिशार्दुल पालयिष्यन्ति ये महीम् ॥ ३,२.४५ ॥ चतुर्युगान्ते वेदानां जायते किल विप्लवः । प्रवर्तयन्ति तानेत्य भुवं सप्तर्षयो दिवः ॥ ३,२.४६ ॥ कृतेकृते स्मृतेर्विप्र प्रणेता जायते मनुः । देवा यज्ञभुजस्ते तु यावन्मन्वन्तरं तु तत् ॥ ३,२.४७ ॥ भवन्ति ये मनोः पुत्रा यावन्मन्वंरतं तु तैः । तदन्वयोद्भवैश्चैव तावद्भूः परीपाल्यते ॥ ३,२.४८ ॥ मनुःसप्तर्षयो देवा भूपालाश्च मनोः सुताः । मन्वन्तरे भवन्त्येते शक्रश्चैवाधिकारिमः ॥ ३,२.४९ ॥ चतुर्दशभिरेतैस्तु गतैर्मन्वन्तरैर्द्विज । सहस्रयुगपर्यतः कल्पो निःशेष उच्यते ॥ ३,२.५० ॥ तावत्प्रमाणा च निशा ततो भवति सत्तम । ब्रह्मरूपधरः शेते शेषाहावंबुसंप्लवे ॥ ३,२.५१ ॥ त्रैलोक्यमखिलं ग्रस्त्वा भगवानादिकृद्विभुः । स्वमायासंस्थितो विप्र सर्वभूतो जनार्दनः ॥ ३,२.५२ ॥ ततः प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः । सृष्टिं करोत्यव्ययात्मा कल्पेकल्पे रजोगुणः ॥ ३,२.५३ ॥ मनवो भूभुजःसेंद्रा देवाःसप्तर्षयस्तथा । सात्त्विकोंशः स्थितिकरो जगतो द्विजसत्तम ॥ ३,२.५४ ॥ चदुर्युगोप्यसौ विष्णुः स्थितिव्यापारलक्षमः । युगव्यवस्थां कुरुते तथा मैत्रेय तच्छृणु ॥ ३,२.५५ ॥ कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् । ददाति सर्वभूतात्मा सर्वभूतहिते रतः ॥ ३,२.५६ ॥ चक्रवर्तिस्वरूपेण त्रेतायामपि स प्रभूः । दुष्टानां निग्रह कुर्वन्परिपाति जगत्त्रयम् ॥ ३,२.५७ ॥ वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः । करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥ ३,२.५८ ॥ वेदांस्तु द्वापरे व्यस्य कलेरन्ते पुनर्हरिः । कल्किस्वरूपी दुर्वृत्तन्मार्गे स्थापयति प्रभुः ॥ ३,२.५९ ॥ एवमेतज्जगत्सर्वं शश्वत्पाति करोति च । हन्ति चान्तेष्वनन्तात्मा नास्त्यस्मव्द्यतिरेकि यत् ॥ ३,२.६० ॥ भूतं भव्यं भविष्यं च सर्वभूतान्महात्मनः । तदत्रान्यत्र वा विप्र सद्भावः कथितस्तव ॥ ३,२.६१ ॥ मन्वन्तराण्यशेषाणि कथितानि मया तवा । मन्वन्तराधिपांश्चैव किमन्यत्कथयामि ते ॥ ३,२.६२ ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे द्वितीयोऽध्यायः (२) </poem> [[वर्गः:श्रीविष्णुपुराणम्-तृतीयांशः]] mq2v2pik743l691f1j4t77qmp2543tn