विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.46.0-wmf.26
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
विष्णुपुराणम्/चतुर्थांशः/अध्यायः १५
0
7116
415798
407358
2026-05-04T09:25:48Z
~2026-26708-86
10448
415798
wikitext
text/x-wiki
{{श्रीविष्णुपुराणम्-चतुर्थांशः}}
<poem><span style="font-size: 14pt; line-height: 200%">मैत्रेय उवाच
हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना ।
अवाप निहतो भोगानप्राप्यानमरैरपि ॥ ४,१५.१ ॥
न लयं तत्र तेनैव निहतः स कथं पुनः ।
संप्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥ ४,१५.२ ॥
एतदिच्छाम्यहं श्रोतुं सर्वधर्मभृत्तां वर ।
कौतूहलपरेणैतत्पृष्टो मे वक्तुमर्हसि ॥ ४,१५.३ ॥
श्रीपराशर उवाच
दैत्येश्वरस्य वधायाशिललोकोत्पत्तिस्थितिविनाशकारिणा पूर्वं तनुग्रहणं कुर्वता नृसिंह रूपमाविष्कृतम् ॥ ४,१५.४ ॥
तत्र च हिरण्यकशिपोर्विष्णुरयमित्येतन्न मनस्यभूत् ॥ ४,१५.५ ॥
निरतिशयपुण्यसमुद्भूतमेतत्सत्त्वाजातमिति ॥ ४,१५.६ ॥
रजोद्रेकप्रेरितैकाग्रमतिस्तद्भावनायोगात्ततोवाप्तवधहैतुकीं निरतिशयामेवाखिलत्रैलोक्यकारीणीं दशाननत्वे भोगसंपदमवाप ॥ ४,१५.७ ॥
न तु स तस्मिन्ननादिनिधने परब्रह्मभूते भगवत्यनालंबिनि कृते मनसस्तल्लयमवाप ॥ ४,१५.८ ॥
एवं दशाननत्वेप्यनङ्गपराधीनतया जानकीसमासक्तचेतसा भगवता दाशरथि रूपधारिणा हतस्य तद्रूपदर्शनमेवासीत्नायमच्युत इत्यासक्तिर्विपद्यतोन्तःकरणे मानुषबुद्धिरेव केवलमस्याभूत् ॥ ४,१५.९ ॥
पुनरप्यच्युतविनिपातमात्रफलमखिलभूमण्डलश्लाघ्यचेदिराजकुले जन्म अव्याहतैश्वर्यं शिशुपालत्वेप्यवाप ॥ ४,१५.१० ॥
तत्र त्वखिलानामेव स भगवन्नाम्नां त्वङ्कारकारणमभवत् ॥ ४,१५.११ ॥
ततश्च तत्कालकृतानां तेषामशेषणामेवाच्युतनाम्नामनवरतमनेकजन्मसु वर्धितविद्वेषानुबन्धिचित्तो विनिन्दनसंतर्जनादिषूच्चारणमकरोत् ॥ ४,१५.१२ ॥
तच्च रूपमुत्फुल्लपद्मदलामलाक्षिमत्युज्ज्वलपीतवस्त्रधार्यमलकिरिटकेयूरहारकटकादिशोभितमुदारचतुर्बाहुशङ्खचक्रगदाधरमतिप्ररूढवैरानुभावादटनभोजनस्नानासनशयनादिष्वशेषावस्थान्तरेषु नान्यत्रोपययावस्य चेतसः ॥ ४,१५.१३ ॥
ततस्तमेवाक्रोशेषूच्चारयंस्तमेव हृदयेन धारयन्नात्मवधाय यावद्भगवद्धस्तचक्रांशुमालोज्ज्वालमक्षयतेजःस्वरूपं ब्रह्मभूतमपगतद्वेषादिदोषं भगवन्तमद्राक्षीत् ॥ ४,१५.१४ ॥
तावच्च भगवच्चक्रेणाशु व्यापादितस्तत्स्मरणदग्धाखिलाघसंचयो भगवतान्तमुपनीतस्ततस्मिन्नेव लयमुपययौ ॥ ४,१५.१५ ॥
एतत्तवाखिलंमयाभिहितम् ॥ ४,१५.१६ ॥
अयं हि भगवान् कीर्तितश्च संस्मृतश्च द्वेषानुबन्धेनापि अखिलमुरासुरादिर्दुल्लभं फलं प्रयच्छति किमुत सम्यग्भक्तिमत्मिति ॥ ४,१५.१७ ॥
वसुदेवस्य त्वानकदुन्दुभेः पौरवीरोहिणीमदिराभद्रादेवकीप्रमुखा बह्व्यः पत्न्योऽभवन् ॥ ४,१५.१८ ॥
बलभद्रशठसारणदुर्मदादीन्पुत्रार्त्नोहिण्यानकदुन्दुभिरुत्पादयामास ॥ ४,१५.१९ ॥
बलदेवोपि रेवत्यां विशठोल्मुकौ पुत्रावजनयत् ॥ ४,१५.२० ॥
सार्ष्टिमार्ष्टिशिशुसत्यसत्यधृतिप्रमुखाः सारणात्मजाः ॥ ४,१५.२१ ॥
भद्राश्वभद्रबाहुदुर्दमभूताद्याः रोहिण्याः कुलजाः ॥ ४,१५.२२ ॥
नन्दोपनन्दकृतकाद्य मदिरायास्तनयाः ॥ ४,१५.२३ ॥
भद्रायाश्चोपनिधिगदाद्याः ॥ ४,१५.२४ ॥
वैशाल्यां च कौशिकमेकमेवाजनयत् ॥ ४,१५.२५ ॥
आनकदुन्दुभेर्देवक्यामपि कीर्तिमत्सुषेणोदायुभद्रसेनऋजुदासभद्रदेवाख्याः षट्पुत्रा जज्ञिरे ॥ ४,१५.२६ ॥
तांश्च सर्वानेव कंसोघातितवान् ॥ ४,१५.२७ ॥
अनन्तरं च सप्तमं गर्भमर्धरात्रे भगवत्प्रहितायोगनिद्रा रोहिण्या जठरमाकृष्य नीतवती ॥ ४,१५.२८ ॥
कर्षणाच्चासावपि संकर्षणाख्यामगमत् ॥ ४,१५.२९ ॥
ततश्च सकलजगन्महातरुमूलभूतोभूतभविष्यदादिसकलसुरासुरमुनिजनमनसामप्यगोचरोऽब्जभवप्रमुखैरनलमुखैः प्रणम्यावनिभारहरणाय प्रसादितो भगवाननादिमध्यनिधनोदेवकीगर्भमवततार वासुदेवः ॥ ४,१५.३० ॥
तत्प्रसादविवद्धमानोरुमहिमा च योगनिद्रा नन्दगोपपत्न्या यशोदाया गर्भमधितिष्ठितवती ॥ ४,१५.३१ ॥
सुप्रसन्नादित्यचन्द्रादिग्रहमव्यालादिभयं स्वस्थमानसमखिलमेवैतज्जगदपास्ताधर्ममभवत्त्स्मिश्च पुण्डरीकनयने जायमाने ॥ ४,१५.३२ ॥
जातेन च तेनाखिलमेवैतत्सन्मार्गवर्ति जगदक्रियत ॥ ४,१५.३३ ॥
भगवतोप्यत्र मर्त्यलोकेऽवतीर्णस्य षोडशसहस्राण्येकोत्तरशताधिकानि भार्याणाम भवन् ॥ ४,१५.३४ ॥
तासां च रुक्मिणी सत्यभामा जांबवती चारुहासिनीप्रमुखा ह्यष्टौ पत्न्यः प्रधाना बभूचवुः ॥ ४,१५.३५ ॥
तासु चाष्टावयुतानिलक्षं च पुत्राणां भगवानखिलमूर्तिरनादिमानजनयत् ॥ ४,१५.३६ ॥
तेषां च प्रद्युम्नचारुदेष्ण्यसांबादयः त्रयोदश प्रधानाः ॥ ४,१५.३७ ॥
प्रद्युम्नोपि रुक्मिणस्तनयां रुक्मवतीं नामोपयेमे ॥ ४,१५.३८ ॥
तस्यामनिरुद्धो जज्ञे ॥ ४,१५.३९ ॥
अनिरुद्धोऽपि रुक्मिणा एव पौत्रीं सुभद्रां नामो पयेमे ॥ ४,१५.४० ॥
तस्यामस्य वज्रो जज्ञे ॥ ४,१५.४१ ॥
वज्रस्य प्रतिबाहुः तस्यापि सुचारुः ॥ ४,१५.४२ ॥
एवमनेकशतसहस्६ उषसंख्यस्य यदुकुलस्य पुत्रसंख्या वर्षशतैरपि वक्तुं न शक्यते ॥ ४,१५.४३ ॥
यतो हि श्लोकाविमावत्र चरितार्थौ ॥ ४,१५.४४ ॥
तिस्त्रः कोट्यःसहस्राणामष्टाशीति शतानि च ।
कुमाराणां कृहाचार्याश्चापयोगेषु ये रताः ॥ ४,१५.४५ ॥
संख्यानं यादवानां कः करिष्यति महात्मनाम् ।
यत्रायुतानामयुतलक्षेणास्ते सदाहुकः ॥ ४,१५.४६ ॥
देवासुरे हता ये तु दैतेयास्सुमहाबला:।
उत्पन्नास्ते मनुष्येषु जनोपद्रवकारिण:।।४,१५,४७।
तेषामुत्सादनार्थाय भुविदेवा यदो:कुले।
अवतीर्णा:कुलशतं यत्रैकाभ्यधिकं द्विज:॥ ४,१५,४८।
उत्पन्नास्ते मनुष्येषु प्रमाणे च प्रभुत्वे च व्यवस्थितः।
निदेशस्थायिनस्तस्य ववृधुः सर्वयादवाः ॥ ४,१५.४९ ॥
इति प्रसूतिं वृष्णीनां यश्र्शृणोति नरः सदा ।
स सर्वैः पातकैर्मुक्तो विष्णुलोकं प्रपद्यते ॥ ४,१५.५० ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे पञ्चदशोऽध्यायः (१५)
</span></poem>
[[वर्गः:श्रीविष्णुपुराणम्-चतुर्थांशः]]
9w5s79sxxmrw57b6m5keioqkx8i4mvm
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०६
104
104755
415799
267768
2026-05-04T11:28:21Z
Geeta g hegde
6704
415799
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|२७२|मनुस्मृतिः।|[ अध्यायः ७}}</noinclude>
{{Block center|{{bold|<poem>पादो धर्मस्य कर्तारं पादः साक्षिणमृच्छति ।
पादः सभासदः सर्वान्पादो राजानमृच्छति ॥ १८ ॥</poem>}}}}
{{gap}}पाद इत्यादि ॥ दुर्व्यवहारदर्शनादधर्मसंबन्धी चतुर्थभागोऽर्थिनमधर्मकर्तारं
प्रत्यार्थिनं वा गच्छति । परश्चतुर्थभागः साक्षिणमसत्यवादिनम् । अन्यपादः सभा-
सदः सर्वानधर्मप्रवृत्त्यनिवारकान्व्याप्नोति । पादश्च राजानं ब्रजति । सर्वेषां पाप-
संबन्धो भवतीत्यत्र विवक्षितम् ॥ १८ ॥
{{Block center|{{bold|<poem>राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं निन्दा) यत्र निन्द्यते ॥ १९ ॥</poem>}}}}
{{gap}}राजेत्यादि ॥ यस्यां पुनः सभायामसत्यवादी निन्दा)ऽर्थी प्रत्यर्थो वा सम्यक
न्यायदर्शनेन निन्द्यते तत्र राजा निष्पापो भवति । सभासदश्च पापेन न संबध्यन्ते ।
अर्थ्यादिकमेव कर्तारमुपैति ॥ १९ ॥
{{Block center|{{bold|<poem>जातिमात्रोपजीवी वा कामं स्याद्राह्मणब्रुवः ।
धर्मप्रवक्ता नृपतेन तु शूद्रः कथंचन ॥ २० ॥</poem>}}}}
{{gap}}जातिमात्रेति ॥ ब्राह्मणजातिमात्रं यस्य विद्यते नतु ब्राह्मणकर्मानुष्ठानं वणिगा-
दिवत्साक्ष्यादिद्वारेण स्फुटन्यायान्यायनिरूपणक्षमो ब्राह्माणजातिरपि वा यस्य
संदिग्धार्थानां ब्राह्मणं ब्रवीति स वरम् । उक्तयोग्यब्राह्मणाभावे च क्वचित्कार्यद-
र्शने नृपतेर्भवेन्न तु धार्मिकोऽपि व्यवहारज्ञोऽपि शूद्रः । ब्राह्मणो धर्मप्रवक्तेति
विधानादेव शूद्रनिवृत्तिः सिद्धा पुनर्न तु शूद्र इति शूद्रनिषेधो योग्यब्राह्मणाभावे
क्षत्रियवैश्ययोरभ्यनुज्ञानार्थः । अतएव कात्यायन.-'यत्र विप्रो न विद्वान्स्यात्क्ष-
त्रियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञ शूद्रं यत्नेन वर्जयेत् ॥ २० ॥
{{Block center|{{bold|<poem>यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् ।
तस्य सीदति तद्राष्ट्र पङ्के गौरिख पश्यतः ॥२१॥</poem>}}}}
{{gap}}यस्मात् यस्येत्यादि ॥ यस्य राज्ञो धर्मविवेचनं शूद्रः करते तस्य पश्यत एव पड़े
गौरिव तद्राष्ट्रमवसन्नं भवति ॥ २१ ॥
{{Block center|{{bold|<poem>यद्राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम् ।
विनश्यत्याशु तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥ २२ ॥</poem>}}}}
{{gap}}यदित्यादि ॥ यद्राष्ट्र शूद्दबहुलं बहुलपरलोकाभाववाद्याक्रान्तं द्विजशून्यं तत्सर्व
दुर्भिक्षरोगपीडितं सच्छीघ्र विनश्यति । 'अग्नौ प्रास्ताहुतिः सम्यक्' इत्यस्याभावेन
वृष्टिविरहादुपजातदुर्भिक्षरोगाधुपसर्गशान्त्यर्थकाभावाच ॥ २२ ॥
{{Block center|{{bold|<poem>धर्मासनमधिष्ठाय संवीताङ्गः समाहितः ।
प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥ २३ ॥</poem>}}}}<noinclude></noinclude>
imxc34vei0wabfseb5vf9tzq2j9ahhh
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०७
104
104756
415800
267769
2026-05-04T11:33:29Z
Geeta g hegde
6704
415800
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|left=अध्यायः ७]|center=मन्वथमुक्तावलासवालता ।|right=२७३}}</noinclude>:
{{gap}}धर्मासनमिति ॥ धर्मदर्शनार्थमासन उपविश्य आच्छादितदेहोऽनन्यमना लोक-
पालेभ्यः प्रणामं कृत्वा कार्यदर्शनमनुतिष्ठेत् ॥ २३ ॥
{{Block center|{{bold|<poem>अर्थानर्थावुभौ बुद्धा धर्माधर्मी च केवलौ ।
वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम् ॥ २४ ॥</poem>}}}}
{{gap}}अर्थानिति ॥ प्रजारक्षणोच्छेदाद्यात्मकावहिकावर्थानौँ बुवा परलोकाथै धर्मा-
धौं केवलावनुरुध्य यथा विरोधो न भवति तथा कार्यार्थिनां कार्याणि पश्येत् ।
बहुवर्णमेलके ब्राह्मणादिक्रमण पश्येत् ॥ २४ ॥
{{Block center|{{bold|<poem>बायैर्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम् ।
स्वरवर्णङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ २५ ॥</poem>}}}}
{{gap}}बाह्येरिति ॥ बाझैः स्वरादिलि रित्यभिधानादेवावधारितव्यापारः अर्थिप्रत्यर्थि-
नामन्तर्गतमभिप्रायं निरूपयेत् । स्वरो गद्दादिः, वर्ण. स्वाभाविकवर्णादन्यादृशो
मुखकालिमादि., इङ्गितमधोनिरीक्षणादि:, आकारो देहभवस्वेदरोमाञ्चादिः, चेष्टा
हस्तास्फालनादिः ॥ २५ ॥
{{Block center|{{bold|<poem>आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।
नेत्रवविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ २६ ॥</poem>}}}}
{{gap}}यस्मात् आकारैरिति ॥ आकारादिभिः पूर्वोक्तैः गत्या स्खलत्पादादिकया
अन्तर्गतमनोबुद्धिरूपेण परिणतमवधार्यते ॥ २६ ॥
{{Block center|{{bold|<poem>बालदायादिकं रिक्थं तावदाजानुपालयेत् ।
यावत्स स्यात्समावृत्तो यावच्चातीतशैशवः ॥ २७ ॥</poem>}}}}
{{gap}}बालदायेति ॥ अनाथबालस्वामिकं पितृव्यादिभिरन्यायेन गृह्यमाणं तावदाजा
रक्षेत् । यावदसौ पत्रिंशदब्दादिकं ब्रह्मचर्यमित्याद्युक्तेन प्रकारेण गुरुकुला-
समावृत्तो न भवति तादृशस्यावश्यकबाल्यविगमात् । यस्त्वशक्त्यादिना
बाल एव समावर्तते सोऽपि यावदतीतबाल्यो भवति तावत्तस्य धनं रक्षेत् ।
बाल्यं च षोडशवर्षपर्यन्तम् । 'बाल आषोडशाद्वर्षात्' इति नारदवचनात् ॥२७॥
{{Block center|{{bold|<poem>वशाऽपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च ।
पतिव्रतासु च स्त्रीषु विधवाखातुरासु च ॥ २८ ॥</poem>}}}}
{{gap}}वशेत्यादि ॥ वशासु वन्ध्यासु कृतदारान्तरपरिग्रहः स्वामी निर्वाहार्थोपकल्पि-
तधनोपायासु निरपेक्षः । अपुत्रासु च स्त्रीषु प्रोषितभर्तृकासु, निप्कुलासु सपिण्ड-
रहितासु, साध्वीषु च स्त्रीषु, विधवासु, रोगिणीषु च यद्धनं तस्यापि बालधनस्येव
राज्ञा रक्षणं कर्तव्यम् । अत्र चानेकशब्दोपादाने गोबलीवर्दन्यायेन पुनरुक्ति-
परिहारः ॥२८॥<noinclude></noinclude>
llazz7r3wljyf8gtd0788zqoctpn1ic