विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.47.0-wmf.2
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
Event
Event talk
पिङ्गलामतम्
0
164233
415850
415846
2026-05-12T13:46:57Z
Shubha
190
415850
wikitext
text/x-wiki
{{header
| title = पिङ्गलामतम्
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00305
Uniform title: piṅgalāmata
Secondary title: jayadrathādhikara
Manuscript : NGMCP 3-376/vi <zaivatantra> 113
Description:
The Piṅgalāmata is a Pratiṣṭhātantra. In this context the term
pratiṣṭhā denotes the rites of consecration and installation of a
representation of a deity, temple or shrine and matters associated
with it such as iconometry, iconography, and the structure and layout
of temples, monastries, royal palaces and towns. Practically all the
early surviving Pratiṣṭhātantras are Saiddhāntika. The
Piṅgalāmata is an exception as it affiliates itself to the
predominantly śākta brahmayāmala (Picumata). Moreover, as its other
name – Jayadrathādhikara – indicates, it is also associated with the
Kālī-centred Jayadrathayāmala. The Piṅgalāmata itself also
affirms this. Thus, although the procedures it teaches are mostly
Saiddhāntika, in addition to them it also teaches ritual procedures
and supplies details of the iconography of the Vāma, Yāmala and
Trika traditions.
Notes:
Data entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski.
Revision 0: March 1, 2014
Internet publisher : Muktabodha Indological Research InstituteInternet Publisher: Muktabodha Indological Research Institut
Publication year : 2014
Publication city :
Publication country : United States
----
ओं नमः शिवाय ।।
पिङ्गलोवाच ।।
सर्वेषां लक्षणं देव आगमात् प्रतिपद्यते ।
आगमो लक्षणो पेतो नेत?धा वद मे प्रभो ।।
आगमस्यास्य देवेश सम्बन्धः कथमुच्यते ।
साधक व्य?क्ति हेत्वर्थं व्याख्याध्ययनकं वद ।।
श्रीभैरव उवाच ।।
साधु साधु महाप्राज्ञे युक्तं चोद्यम् विकल्पितम् ।
कथयामि न सन्देहो लक्षणं चाग्रमस्य तु ।।
आज्ञावस्तु समन्ताच्च गम्यते त्यागमागतः ।
शाश्यते भ्रायते यस्मात् तस्माच्छास्त्रमुदाहृतम् ।।
ज्ञायते नयते येन ज्ञानन्ते नाभिधीयते ।
तनु ते भ्रायते नित्यं तत् तु मित्थम्विदुर्बुधाः ।।
शब्दार्त्थैस्तु पितो(?) वापि बुधैरागमकल्पितः ।
शिववक्त्राम्वुजा यातं पारंपर्यक्रमेण तु ।।
च्छन्दालक्षणससिद्धमागमेत्यभिधीयते ।
श्रोतृवक्तृत्व न्यायेन स च ज्ञेयस्तु पण्डितैः ।।
वक्त्राचार्यस्तु मुख्येन साधकोवात् कश्चिद् भवेत् ।
समया पुत्रकौ नैव शिवशास्त्रार्द्ध पारगौ ।।
यद्यप्यर्थविदौतौ तु न श्रोतव्यं फलार्थिभिः ।
श्रोता रोह्यागमस्यैव समयि सुतसाधकाः ।।
देशिकाश्वेश्वरास्सर्वे शिवभक्तादृढव्रताः ।
मन्त्रामन्त्राभिशिक्तस्तु तन्त्राचारविधौरतः ।।
तस्मादागमः श्रोतव्याख्यै?यस्तस्य सुव्रते ।
भैरवाख्यागमस्यैव नियमोयमुदाहृतः ।।
सुप्रसन्ने समे शुद्धे मण्डपे यागपूर्वके ।
सुधालिप्तेथ भूभागे व्याख्यानन्तत्र कारयेत् ।।
प्राङ्मुखोदङ्मुखो वापि शुचिस्तद्गतमानसः ।
तालाशब्दत्रयं कृत्वा दिशामस्त्रेण रक्षयेत् ।।
स्वानुष्ठानात्मकं न्यस्त्वा सवाह्याभ्यन्तरेण तु ।
ध्यात्वा सर्वज्ञतावृत्तिं स्वयमेव शिवो यथा ।।
सर्व कारुणिकोधीरः सर्वसत्वानुकम्पकः ।
सर्वानुग्रहहेत्वर्थं ज्ञानमुख्यः समुद्यमी ।।
१ब्)
निवेदयेद् वा गुरो पूर्वं ज्येष्ठे भ्रातरि पैतृकैः ।
समानविद्ययाविद्यां स्नेहाद् वा यदि संमतः ।।
श्रोतृभि विधिपूर्वन्तु श्रोतव्यञ्च यथा शृणु ।
व्याख्या पट्टः प्रकर्त्तव्यः योगपीठार्थ हेतुकं ।।
स च श्रीपर्ण्णिकाद्यैस्तु निर्वणं शुभलक्षणः ।
द्विकरं सागुलोदीर्घः करसार्द्धञ्च विस्तृतं ।।
यदा चार्यस्तु मुख्येन श्रोता चैव सुरेश्वरि ।
चत्वारिंशाङ्गुलैर्युक्तं योगपीठन्तदन्ततः ।।
दीर्घेन विस्तृते नैव नवसंख्यांगुलं भवेत् ।
पादौ द्वौ करमायातौ पूर्ववद्विस्तृतौ प्रिये ।।
गजपादेवपादौ च सनखौमध्यवक्रकौ ।
तत्संद्वौ शंखयुग्मं तु संमुखं तं प्रकल्पेत् ।।
पत्रवल्लीविचित्रैस्तु पीठमध्ये तु चित्रयेत् ।
तदुर्द्धं मध्यपद्मञ्च किञ्चित् पुष्पितवल्लिखेत् ।।
तद्वत् पक्षौ प्रकर्तव्यौ पङ्कजौ शुभलक्षणौ ।
तयोरन्ते खण्डपत्रमञ्जर्या चावलम्बिता ।।
गुरो ह्येवं प्रकर्त्तव्यं गुरुणाश्रवणार्थिना ।
षड्भिस्त्रिंशाङ्गुलैर्युक्तं दैर्घ्यषत्त्विस्तरेणे तु ।।
साधकेन प्रकर्त्तव्यं योगपीठं यथा पुरा ।
यदा मुख्यस्तु श्रोता वै पुत्रको वरवर्णिनि ।।
तदा त्रिदशैरङ्गुलै योगपीठञ्च दीर्घतः ।
विस्तृतं तत् समाख्यातं चतुरङ्गुलमानतः ।।
पूर्ववच्छेषरूपन्तु कर्त्तव्यं शुभलक्षणम् ।
तत् पूर्वस्तु यदा मुख्यं लिङ्गिनः सेश्वरोपि वा ।।
चतुर्विंशांगुलैर्युक्तं योगपीठं च पूर्ववत् ।
द्यंगुलं विस्तृतं तस्य लक्षणेन विलक्षितम् ।।
विंशाङ्गुलविकारस्तु सूर्यवच्चरणौ क्रमात् ।
अनेन क्रमयोगेन संयताः सु * * * * ? ।।
* * * * * * * *? गन्धपुष्पादिभिर्युताः ।
सरपत्त्रासनासीनं ज्ञानं चैव सुपूजितम् ।।
कटि *? सनसंयुक्ता करिणीखटिकान्विता ।
२अ)
योगपीठाग्रतस्थाप्य गुरुञ्चैव प्रसादयेत् ।।
त्वत् प्रसादा * * * * * * * * * * *
* ? ।
ततो हृष्टा गुरुः श्रीमान् व्याख्यानोद्यतमानसः ।।
मध्यपदो?च्य यो लिख्यो मूलं वाप्यथ प्रस्तुते ।
शैवाचार्यो यजेत् तत्र भैरवं वाथ शक्तयः ।।
गुरुपंक्ति यजेद्वामे कमले पूर्वकल्पिते ।
खटिका ज्ञानसूत्रञ्च दक्षिणे कमलेर्च येत् ।।
गन्धपुष्पादिभिः पूज्य विशेषं चेद्विशेषकैः ।
शिवं वागीश्वरीं स्तुत्वा विघ्नराजन्तथैव च ।।
गुरुं ज्ञान गुरुंस्तु सम्वन्धा दौ प्रकाशयेत् ।
स च साधारणौ ह्येकस्त्वन्यो साधारणो भवेत् ।।
सर्वे तत् तु प्रसिद्धस्तु साधारण स उच्यते ।
अस्य * * *? यः सिद्धस्तदा साधारणं विदुः ।।
इदानी संप्रवक्ष्यामि सम्वन्धा त्रैव यद् भवेत् ।
अभिधान निमित्तञ्च कर्तारम्परिमानकम् ।।
प्रयोजनं कथित्वादौ पश्चाद्वक्त्रानुवर्णयेत् ।
अस्य तत् तस्य का संज्ञा पिङ्गलामतसंज्ञा । प्रतिष्ठा कल्पं यज
यथाधिकारं ब्रह्मयामलस्यान्तर्यातीति च । पिङ्गला भट्टारिका यो निमित्तं ।
कः कर्ता भगवान् श्रीकण्ठनाथः कर्ता । कियन्तः परिमाणा । अप्युष्ट
सहस्रमिति । स च द्विविधं कामरूप्योडयोनीं ।
अयञ्च कामरूपी । किं प्रयोजनम् । व्यक्ताव्यक्तलिङ्गप्रतिष्ठा लक्षणं ।
परिज्ञयनार्थप्रयोजनमिति । व्यक्ताव्यक्तमपि तु लिङ्गरूपमात्राव्यक्तमिति ।
व्यक्त सर्वावयवलक्षणो युक्तौ व्यक्तमिति ।
व्यक्ताव्यक्तमुभयरूपोलक्षणमिति । स चोभयरूपो हृदोद्वमुखमात्राद्##-
प्रग्निधाय पश्चाद्वक्त्रानुवर्णयेत् । अनु कथयेदिति वचनात् ।
२ब्)
प्रागे वाभिसम्वन्धो वक्तव्यः । स च त्रिविधः ।
अवतार्यावतारकलक्षणसम्वन्धः । व्यंग्य व्यञ्जकलक्षणः सम्वन्धः
प्रकाश्यप्रकाशकलक्षणं सम्वन्धश्चेति । तत्रावतार्यावतारकलक्षणः ।
सम्वन्ध उच्यते । आचार्यस्य च शास्त्रस्य वतार्यशास्त्रस्याचार्योवतारकमिति ।
व्यंग्यव्यञ्जकलक्षणसम्वन्ध उच्यते । लक्षणस्य लक्ष्यव्यंग्यं । लक्षस्य
लक्षणं व्यञ्जकमिति । प्रकाश्य प्रकाशलक्षणः सम्वन्ध उच्यते ।
शब्दस्यार्थः प्रकास्यार्थस्य शब्दप्रकासकमिति । इदानी ब्रह्मयामलस्यान्तः
प्रातीत्याताशंकादौर्वास्यं पैचिकं चैव सारश्वतमतं तथा ।
जयद्रथञ्च फेत्कारं पञ्चमम्परिकीर्त्तितम् ।।
रक्ताद्यं लंपटाद्यञ्च सप्तधा ब्रह्मयामलम् ।
एतेषां सप्तविधब्रह्मयामलानां मध्ये किमिति । जयद्रथमेतत् जयद्रथमपि
सप्तविधसूत्रम् ।
सूत्रमुत्तर सूत्रञ्च शक्तिसूत्रं क्रिया ह्वयं ।।
विमलज्ञनसंज्ञा च सर्वसन्दोहसप्तमम् ।
एतेषां सप्तविधसूत्रजातीनां मध्ये किमिति । क्रियासूत्रमेतत् । क्रियासूत्रमपि
पञ्चविधः ।
विनागार्व? न? रक्ष च स तु ध्यानसमन्विता ।।
कल्पार्थसन्नियुक्ताअ च पञ्चपात्रक्रियामता ।
एतेषां पञ्चविधक्रियासूत्राणामध्ये किमिति । कल्पार्थ सन्नियुक्तसूत्रमेतत् ।
कल्पार्थमिति किम् । कल्पसार्थः कल्पार्थः कल्पार्थेन सम्यक् युक्तः ।
कल्पार्थसन्नियुक्तः । अथवा । अथवा मत्त दीक्षा विशुद्धस्तु
स्वाधिकारपदान्वितः । कुर्याल्लिङ्गाश्रयमन्त्राज्ञात्वा लिङ्गं सलक्षणम् ।
मन्त्रमपिलिङ्गं यतो लिङ्गाश्रयात् प्राप्तं देवत्वम् विस्तयैरपि ।
अतः सिद्ध्यर्थकम् तस्माल्लिङ्गमेव समाश्रयेत् ।।
३अ)
सम्वन्धे च कृते पूर्वं पश्चाद् व्याख्या पदादिभिः ।
* * *(?) षड्विधं(?) वापि(##?
यथा वा बुध्यते श्रोता तथा व्याख्या समारभेत् ।
वर्त्तनैः खटिकाद्यैश्च रेखोभिः कथनेन वा ।।
शिष्योपि सन्मुखो भूत्वा पूज्यदेवागमं गुरुं ।
जानुभ्यामवनीं गत्वा प्रणम्य च पुनः पुनः ।।
पश्चाच्छिवैक चित्तस्तु श्रोतव्यश्चानु पूर्वसः ।
प्रष्टव्यं संशये जाते यत्र वुध्यति वाचयेत् ।।
प्रतिवन्धं न कर्त्तव्यं चाद्यं वा बुद्धिकल्पितम् ।
कर्त्तव्यं देवदेवेशि यदा चार्यस्य संमतम् ।।
असंसते महादोषो यद्यप्यधिक बुद्धयः ।
तत्समाप्तौ पुनः पूज्यं पूर्ववच्चानु पूर्वशः ।।
विसर्ज्ययागपीठञ्च निर्माल्या धनयादिकम् ।
कृत्वाचार्यं सुविश्राम्यमूर्द्धादि चरणावधि ।।
वन्दनं पूजनं कृत्वा गुरुं चैव क्षमापयेत् ।
भैरवाख्यामृताद्यैस्तु आरम्भञ्च विसर्जनम् ।।
तत्प्रास्य चरुकाद्यैस्तु यदि सः सम्भृतो भवेत् ।
तत्काले भक्ष्यमायातं पक्वं वास्नि?र्न्नमेव वा ।।
ताम्वूलाद्यञ्च कर्पूरं तत्सर्वं श्रोतृभिर्ददेत् ।
वस्त्राद्यं हेमरत्नाद्यं व्याख्याकाले यदागतम् ।।
तत्सर्वं गुरवे प्राप्तं सर्वं वा यदि सम्मतम् ।
उत्थायौस्तुञ्च संचिन्त्य मध्याह्ने ह्निकयोत्तरे ।।
शृणु या द्वाथवो द्वा?तु यदि वा वसरो गुरोः ।
चिन्ता पयेत् स्वशक्त्या वा पठेद्वामन्दवुद्धयः ।।
ज्ञात्वात्मीयामसौ प्रज्ञामेषामेकतमारभेत् ।
श्रोतव्या गममेवञ्च समाप्तिर्यावदेव हि ।।
यदारर्थप्रमादी स्यात् प्रायश्चित्ती तदा भवेत् ।
अनाध्यायं प्रकर्त्तव्यं तच्छृणुस्व वरानने ।।
सामान्येन विशिषेण श्रवणाध्ययन चिन्तने ।
प्रतिपत्सु चतुर्थी च अष्टम्या नवमी तथा ।।
३ब्)
शिवाहेष्ठथपूर्णाया शुक्लव्याख्यादिकं न हि ।
तद्वत् कृष्णे प्रकर्त्तव्यं रिक्तान्तं षड् दिनं प्रिये ।।
दिनानवनवं शेषं पक्षयोध्ययनादिकम् ।
सामान्यमेतदाख्यातं विशेषञ्च निवोधमे ।।
विषुवे द्वे व्यतीपाते दक्षिणे चोत्तरायणे ।
ज्ञेयं विष्णुपदं चैव षडसीतिमुखेष्वथ ।।
त्रिदशाहमिदं ख्यातं वत्सरास्त तु भाविनि ।
अनध्याये सु? कर्त्तव्य दिनैकेक यथाक्रमम् ।।
अष्टके त्रिदिनञ्चैव तेषु संख्या त्रयं भवेत् ।
चन्द्रार्कग्रहणे पञ्च दिनं चैव तु कारयेत् ।।
शक्रोच्छवे दिनं पञ्च पतिते च दिनत्रयं ।
पवित्रारोहणे पञ्च कार्तिक्याञ्च तथा भवेत् ।।
महानवमी संज्ञे तु वेधमज्ञा दिनत्रयम् ।
पवित्रारोहणसंज्ञे अनाध्यायञ्च कारयेत् ।।
मृते मुनिजने सिद्धे प्रत्यक्षे च परोक्षक ।
दृष्ट्वा श्रूत्वा अनाध्यायं कृत्वाध्यान जपादिकम् ।।
कर्त्तव्यं पतिसंघैस्तु चुम्वकेन समन्वितम् ।
तत्कालिकं पुनव्रुमि यथावतत् तथा शृणु ।।
सत्यागजित निर्घाते मृते महतिराजनि ।
तारकोत्थानिपाते च वह्निदाघदिशामथ ।।
नीहारे च महावाते धूमकेतु प्रदर्शने ।
अकालवर्षने चैव तत्कालिकमुदाहृतम् ।।
तावत् कालिकमन्यच्च कथयामितवाधुना ।
तपस्वि द्विजसम्मर्देवि ग्रहे राजचक्रके ।।
मृतभूग्रसनं श्रुत्वा समीपस्त्री प्ररोदने ।
अभ्यागतागते दृष्टे गौ प्रस्वत्युच्छवेषु च ।।
वन्दिनाद्यागते गीते च्छर्दिशुद्धौतथोत्तरे ।
खनिका ह्येता व वाहे तावत् कालीति पर्ययात् ।।
सुदूरादागते त्वष्टे भ्रातृवर्गेथ पैतृके ।
तेषां समा * *? कृत्वा ? सज्ञाव्याख्यान(?)
मारभेत् ।।
असमापिनोऽगुतश्चैव न कुर्यात् तत्र श्रावणम् ।
अ आ न न ध्याया न वक्ष्ये यथा चैवान्तरात् ।।
????????????
४अ)
भवेत् ।
आखमाजारगोधा वा माण्डुका हिक्य कालसः ।
नकुलोजिनगोधा च श्वानामानुषजातयः ।।
श्रोतान्त दिनेकञ्च गुरोचान्तरतस्त्रयम् ।
अष्टोत्तरशतं जाप्यं विद्याश्रोतान्तरेण तु ।।
चुम्बकन्तर *? मययं(?) यत् पूर्वन्विगुणं प्रिये ।
श्रोतान्तरेथ स ये च सहस्रं त्रिदिनं जपेत् ।।
चुम्वकान्तर्गते मध्ये योगपीठगतेथवा ।
पञ्चरात्रञ्च दानाद्यं जपं चैवायुतं भवेत् ।।
अनध्यायाखिलानेया श्रवणाध्ययन चिन्तने ।
तेषां नैव प्रकर्त्तव्यं जपपूजादिकं महत् ।।
गुरोर्वा प्रेषणाद्य?न्तु नेयाः स्वार्थार्जनादिभिः ।
लिखेद् वा लिखापयेद् वा पूर्णा रिक्ता च वर्जिताः ।।
पौराणां धर्मशास्त्रम्वा शांत्यार्योयं पठेदथ ।
शिल्पम्वाथाभ्यन्नित्यं रेखा या वर्त्तनं शुभम् ।।
इति पिङ्गलामते जयद्रथाधिकारे व्याख्याप्रकरणं समाप्तम् ।।
महामायोदरं तस्थं महायोगं समावृतं ।
महाविनोदगं भावं महामातृभिः संयुतम् ।।
वेतालैस्तालजंघैस्तु ताडि जंघैस्तु वामनः ।
नायकैः सिद्धयोगीभिस्तथान्यैर्भृङ्गिदारकैः ।।
नृत्यवाय स वाद्यैश्च गद्यपद्यैरनेकशः ।
संस्तुतो देव देवेशो भैरवो मत्तनायकः ।।
तं दृष्ट्वा हर्षितं नाथं सर्वेप्यत्र समागताः ।
विधिपूर्व कृते नैव पिङ्गलावाक्यमव्रवीत् ।।
सिद्धिलिङ्गाश्रितानाञ्च पुरोक्तं साधकेश्वर ।
लक्ष्यलक्षणसंयुक्तं प्रमाणोन्मानरूपकम् ।।
त *? या देव न ज्ञातं किं लिङ्गं केन तत्स्मृतम् ।
को गुरुः शिल्पिनश्चैव सखा कर्त्तृः क्रियायथम् ।।
द्रव्याणां लक्षण चैव *? द्रव्यैः क्रियते स्फुटम् ।
कस्मिं स्थाने तु तद्ग्राह्यं नगाः केशरितस्तथा ।।
वनात्यु(?) पवनान्येवं(?) प्रस्थानं क्रियते कथम्
।
४ब्)
तत्काले शक्तनं दिव्यमदिव्यञ्च शुभाशुभम् ।।
तिथिनक्षत्रयोगाश्च ताराचन्द्रवलस्य च ।
करणं वारसंयुक्तं शुभाके कस्य वा शुभाः ।।
अत्रोचितन्तु यत् किञ्चित् तत् सर्वं सुरनायक ।
ब्रूहि लोक हितार्थाय प्रतिष्ठाकल्पमुत्तमम् ।।
भैरव उवाच ।।
प्रतिष्ठापञ्चकोपेतं कल्पं चैव सुरेश्वरि ।
यथोद्देश कृते नैव निर्देशं प्रकरोमिते ।।
लक्ष्यं वै हेतु संसिद्धं लक्षणं भावसंमतम् ।
शास्त्रोक्तं लक्षणं वापि प्रमाणं दीर्घमिष्यते ।।
उन्मिनोति पदोन्मानं विभागं लिङ्गरूपकम् ।
लीयते प्रलयान्ते च गाङ्गतौ सृजते पुनः ।।
लयनाङ्गसमनाच्चैव लिङ्गमित्यभिधीयते ।
लिङ्गम्वा चिह्नमित्याहुः चिह्नं वै मुद्रमेव च ।।
मुद्रा प्रत्यय कृल्लोके ह्यतो नुग्रह हेतुकम् ।
लिङ्गवाचकमेतद्विनान्यथा श्रयणं व्रतं ।।
तल्लिङ्गं द्विविधं प्रोक्तं चलाचलविमोक्षदम् ।
रु? भोगदं यद्भवेल्लोके शिवेनागमतः शृणु ।।
चलमाचार्यः शैवस्तु स्वधर्मप्रतिपालकः ।
स्वार्थसिद्ध्यै परार्थसाधकोप्या?न्मनोपि वा ।।
लक्षणन्तु तयोव्रूमि प्रमाणोन्मानरूपकम् ।
यस्मिन्यद्वर्णजैः प्राप्तौ भोगदौ मोक्षदौ तथा ।।
सामान्येन विशेषं वै कथ्यमानाधुना शृणु ।
चिन्त्योत्तर गते नैवमर्गधाच्चापरेण तु ।।
हिमाद्रे दक्षिणे भोगे पञ्चालात् पूर्वतःस्तथा ।
आर्यावर्त इति ख्यातस्तद्भवाचाग्रं साधकौ ।।
अग्रजन्मकुलोद्भूतो सर्वसाधारणो यतः ।
विशेषणञ्चोत्तदा व्रूमि अग्रणीशक्तिवाचकः ।।
शक्त्यन्तं जनितं जन्म जन्माग्रेत्यभिधीयते ।
कपूर्वाष्टविनिर्मुक्तो अन्यदेशोद्भवावपि ।।
कामरूअपज्ञ काश्मीरौ कालिङ्गौ कोङ्कणोद्भवा ।
काञ्चिकोशलकावेर्यो राष्ट्रजावपि वर्जयेत् ।।
६अ)
किमर्थं चेत् तत् सिद्ध्यर्थं मोक्षार्थं सर्वजौ शुभौ ।
शिवव्रतधराचार्या नाति दीर्घाति ह्रस्वकः ।।
प्रमाणेन न हीनाङ्गो न चापि अधिकांशकः ।
संपूर्णावयवै दिव्यैर्विक्षिप्तो न शठः क्वचित् ।।
न मनो भ्रान्त वै चित्तो रूपं वै गौरमुत्तमम् ।
लक्ष्यलक्षणसंयुक्तः प्रतिष्ठाध्वानवेदकः ।।
विद्यावास्तु विधानज्ञा लिङ्गसूत्रविधानवित् ।
ज्योतिषे च कृताभ्यासः योगाभ्यासरतः सदा ।।
सधको वा समानः स्याद् गृहस्थानेति वा शृणु ।
गृहस्थो गृहणी योगात् योगशीलो विधानवित् ।।
उद्यमी सत्व सम्पन्नः शिल्पज्ञो बुद्धिकौशलः ।
श्रेष्ठोसौसर्वकार्येषु अत्रांशे च विशेषतः ।।
शिवभक्तानुरक्तश्च गुरुसम्मतः शिल्पिराट् ।
न काणो वधिरोन्धश्च चोटकर्णोथ श्लीपति ।।
छिन्ननासांगुलिपादं क्रूरोनोनाधिकांगकः ।
न हीनपूर्णकायस्तु सितभुक् संयतेन्द्रियः ।।
सोपि स्याल्लक्षणाभिज्ञः प्रमाणोन्मानमादितः ।
वास्तुसूत्रविधौ प्राज्ञः स्थिरहस्तो ऋजुर्दृशः ।।
प्रारर्थकार्यनिष्पत्तिं प्राणैःकण्ठगतैरपि ।
कुरुते शिल्पिनः शूराः सहाया पौरुषान्विताः ।।
रुद्रभक्तिपराः सर्वे साहसान्वि * * * *? ।
आत्मैव सर्वभावेन प्राप्तार्थे धर्मतत्पराः ।।
अतः कर्तुः प्रवक्ष्यामि यथा वै ब्राह्मणादितः ।
अश्रातः शक्तिसम्पन्नः शिवैकागतमानसः ।।
धर्मार्थीं जीवितं यस्य तस्यार्थक्रियमारभेत् ।
कर्त्तव्येति क्रिया नित्यं यतोमोक्षपदानुगम् ।।
शैलं तरुमृदं चैव सौवर्णं ताम्ररौप्यकम् ।
चैत्यं कांसं त्रापुसं च कासीसोपसजान्यपि ।।
अण्डजवोण्डजं चैव रत्नजं मणिसम्भवम् ।
तद्वेतु स्थानकम्वक्ष्ये यथावर्त्तत्तथा शृणु ।।
६ब्)
मेरुमन्दरकैलासा गन्धो विपुलनीलकौ ।
निसधोहेमकूटश्च सु?पार्शो * * * * *? ।।
श्वेतको भूधरा ह्येते महाक्षेत्रेश्वराः स्मृताः ।
ऋषयः सिद्धगन्धर्वा योगसिद्धाप्सरा अपि ।।
शिवार्चनरताः सर्वे सर्वज्ञ त्वात् प्रभावितम् ।
समिद्धानां प्रवक्ष्यामि ये यथा सम्भवानि हि ।।
हिमाद्रिमलायोविन्ध्यः सह्याख्यः पारिपात्रकः ।
महेन्द्रो नन्दिसंज्ञश्च श्रीशैलो ऋक्षपर्वतः ।।
उर्जयन्ताहरिश्चन्द्रः शुक्तिमान्कुलपर्वताः ।
नद्योयास्तद्विनिष्क्रान्ता नगाये एवनानि तु ।।
नद्युभयतटे रम्ये उपपूर्वनवानि वै ।
एतेषां वाह्यतः स्थानं योजनानिदशैव च ।।
प्रवेशं संप्रवक्ष्यामि शैलार्थे त्वधुना शृणु ।
स्वानुकुलं परञ्चापि प्रस्थानञ्च यथा भवेत् ।।
प्रतिपत्सु द्वितीया च तृतीया पञ्चमी तथा ।
सप्तम्याञ्च दशम्याञ्च एकादशी त्रयोदशी ।।
शुक्लपक्षे शुभा ह्येताः शुभार्थेप्य शुभान् शृणु ।
चतुर्थी चैव षष्ठी च अष्टमी नवमीति च ।।
द्वादशीपूर्णमीवाथ चतुर्दश्यां विशेषतः ।
अशुभार्थे शुभावापि नन्दादि कृष्णतोपि वा ।।
पूर्णान्तारिक्तविरहा वारंरविबुधो गुरुः ।
सोमः शुभकराह्येते अशुभे शुक्रभौमकः ।।
शनैश्च मृगरैवत्या अश्विनी च पुनर्वशु ।
पुष्याहस्तस्तथा चित्रा स्वाती ज्येष्ठः शुभोदयाः ।।
गमागमनहेत्वर्थं तिर्यङ्मुखाः यतस्त्विमाः ।
कृत्तिकामघाद्विशाख्याभरंण्याश्लेषमूलकाः ।।
त्रयः पूर्वाऽशुभार्थे च यतोधोमुख कीर्त्तिताः ।
आयुष्मान् प्रीतिसौभाग्यं शोभनशुक्ल एव च ।।
धृतिर्वृद्धिध्रुवश्चैव वदीयान्हर्षणः(?) शिवः ।
सिद्धः सिद्धिसुकर्मेन्द्र शुभो ब्रह्मा च वैधृतिः ।।
७अ)
शुभहेतु करायोगा अशुभे शूलवज्रकौ ।
गण्डातिगण्डविष्कम्भ व्याघातः परिघास्तथा ।।
साध्याश्चैव व्यतीपातो भद्रं करणमाशुभे ।
शुभार्थ तद्विनिर्मुक्ता स्थिरास्तुर्यविवर्जिताः ।।
तारासम्पत् तथा क्षेमो मित्रो परममित्रकः ।
शुभान्येनैधनोजन्म विपत्प्रत्यरसाधनं ।।
सामान्ये तद्विशेषाच्च सिद्धियोगाद्व्रवीमिते ।
मूलेर्क श्रवणे सोम कृत्तिके बुध एव च ।।
भूसुतोत्तरभद्रश्च शुक्र वै पूर्वफल्गुनः ।
गुरुपुनर्वसु चैव गमनार्थे प्रशस्यते ।।
यात्राकाले तु सक्तनान दिव्यादिव्यान्निवोधमे ।
अदिव्यां सिद्धिपात्रेति(?) क्षमः कल्याणवाचकः ।।
कौमार्याः खेलनं वृन्दं श्रीसंघं मृद्घटोद्वृतम् ।
पूर्णं पाशुपतं शैवं महाव्रतधरं शुभम् ।।
ब्राह्मणं स्वस्तिवाक्येन वेदध्वनि युतेन च ।
शंखं भेरीनिनादञ्च मुरजंवेणुझल्लरी ।।
देवाग्रे नर्तनारम्भं शब्दंजपजपेति च ।
शुभान्ये रोदनं भिक्षुमत्तोन्मत्तं विवस्त्रकम् ।।
किं शब्दक्वगन्तव्यो घटारिक्तस्तैलमज्जितः ।
दृष्ट्वा श्रुत्वा न सिद्ध्येत सिद्ध्यते वै क्रियान्यथा ।।
जम्बूवामगते सिद्धिरेणोदक्षिणस्तथा ।
वायसंक्षीरवृक्षस्थं गजवाजिस्थगोस्थितम् ।।
भाषते वामगो वापि हेरुण्डो दक्षिणेन तु ।
एवं चाषशिवारावः खरोष्ट्रोलूकशूकरः ।।
छिक्कटिट्टिसुरासोमं सिद्ध्यतेत्रविशेषतः ।
पथिसर्पगते नैव सिद्ध्यते चान्यथा ध्रूवम् ।।
दिव्यं वै पुरतो वक्ष्ये रासौचन्द्रवलस्य च ।
गत्वाधिवासनं कार्यं यथावदनुपूर्वशः ।।
इति ब्रह्मयामले जयद्रथाधिकारे पिङ्गलामते प्रश्नप्रकरणो नाम
प्रथमः ।।
भैरव उवाच ।।
वामपादाग्रतः कुर्याद् वामनाडी वहेन तु ।
पथ शुद्धौ स्मरेद् रूपं भैरवं भयनाशनम् ।।
७ब्)
स्वयंभुवनं गत्वा शिलालक्षणं लक्षयेत् ।
स्वेतेन्द्रगोपपीताद्विजादिशुभवर्णकम् ।।
मिश्रं वा पद्मकायोतमुद्गपारापतायसः ।
भृङ्गाभोमाषमाञ्जिष्ठ हरिताः काम्यार्थसाधकाः ।।
वालायुवाश्च वृद्धाश्च स्त्रीपुंश्चैवान्तरालकः ।
मृद्धीमृद्वच्च दुर्गन्धाघातान्ते वधिरध्वनिः ।।
वहुवर्णाथ वा लघ्वी वर्णहीनापरित्यजेत् ।
यथा वालो निरर्थो वै तथा सापि विनाफलम् ।।
कठिनाशीतलास्निग्धा गम्भीरासुध्वनिर्दृढा ।
तेजोढ्या च तथा गुर्वी मनोढ्याश्रेष्ठ साशिला ।।
सिद्धिदा सर्वकार्येषु यतोरूह्य?रिवर्जिता ।
रूक्षोष्णातिकठिना या दुःखघाता ध्वनिम्विना ।।
भेकमीना हि खण्डा या तेजहीनालघूद्वहा ।
सर्वकार्यविनाशी सा वृद्धवत्परित्यजेत् ।।
रम्भादलाकृतिर्या च स्त्रीणां सा सिद्धिदामता ।
वणश्वत्थपला सार्क आकृतिर्पत्रदृश्यते ।।
सापुमां पुरुषाणां च सिद्धिदा तु न संशयः ।
उभयोर्यत्र चिह्नं सा षण्टं षण्टस्य सिद्धिदा ।।
कांसा या सकनकाभैस्ताम्राभैर्विमलैर्युता ।
तद्वर्णविन्दुरेखाभिर्हारकैश्चाशुभामता ।।
तद्राष्ट्रेजनयेद्वानिं साधकैः सहशिल्पिभिः ।
निहन्तिविमलैह्यक्ता यतो वश्यं परित्यजेत् ।।
हीनारेखोत्तमातद्वद्वीनारेखोत्तमोत्तमा ।
तस्मात् शुभापरिक्ष्यादौ भूशुद्धिं तु समाचरेत् ।।
तत् समीपे समं कृत्वा पूर्वापरदक्षगोचरे ।
नोत्तरे यजनं भद्रे शिक्त्वलिप्त्वा उदक्प्लवे ।।
देवानु रूपतो वुध्वा तत्स्थाने तु यजेद्वरम् ।
शिला द्वे यजनं कृत्वा होमं कृत्वा यथाविधि ।।
दिक्पतिभ्यो वलिन्दद्यात् पूज्यशस्त्रञ्च शिल्पिनम् ।
अस्त्रेण भैरवेणैव सहायां रुद्रसंज्ञकैः ।।
मन्त्रैर्मन्त्र्यवरारोहे स्वयमेव शिवस्मरेत् ।
८अ)
तत्स्थाने स्थानिनः सर्वान् संश्राव्यनगरूपिणः ।।
ओं नमो चले ध्रूवे नगाधिपतये स्वाहा ।।
अनेनमन्त्रेण पुष्पगन्धधूपवल्यर्घं निवेदयेत् । चलितो भवति ।
चरुकं भक्षयेत् प्राज्ञः सामान्यं वा विशेषजम् ।
समानैः सहसामान्यमितरं चेतरैः सह ।।
द्विजकाष्ठादि शौचं च क्षीरवृक्षसमुद्भवम् ।
दशैकांगुलविप्रादौ सूद्रस्याष्टांतह्रासतः ।।
द्वादशांगुलमानेन साधकाचार्ययोरपि ।
चतुरस्रं मण्डलं कृत्वा गोमयेन मृदापि वा ।।
पूर्वाश्यस्तु स्थितः प्राज्ञः भक्षयेदेकचिन्तकः ।
विपरीते न्यथा वापि मुखान्यंविधिमाचरेत् ।।
मण्डले प्रणवं न्यत्वां हृदावापातलक्षयेत् ।
कौवेर्याप्येशपूर्वे तु ऊर्द्धं वै शुभमादिशेत् ।।
यमाग्नीति च वायष्ठे विलोमार्थैशुभोदयम् ।
शयनं कल्प्यविधिवच्छ्राव्यो देवोम्विकापतिः ।।
ओं नमः शंभोत्रिनेत्राय पिङ्गलाय महात्मने ।
वामाय विश्वरूपाय नमोभैरवरूपिने ।
स्वप्नं कथय मे शम्भो सर्वकार्ये सुरेश्वर ।।
श्रावणविद्या
ओं हुं हिलि २ सदेश्वरशूलपाणये दुस्वप्नं हन २ शुभं दलय २
स्वाहा ।।
माणवकं जपित्वादौ मन्त्रन्यासात्मनोपि वा ।
परम्वा चार्थसंसिद्धौ स्वपेत्कार्यं स्वकं स्मरन् ।।
अ चक्ष्णदेवदेवेश प्रपन्नोस्मितवान्तिकम् ।
प्रभाते तु शुचिर्भूत्वा गुरौः स्वप्नान् निवेदयेत् ।।
दृष्ट्वा चार्यं द्विजान् गाश्च नरेन्द्रं स्वेतवाशसम् ।
हस्ताश्च रथमारूढं भुक्त्वा दधिविणमिषम् ।।
सार्द्रमासं च पानञ्च योगिनीवृन्दमध्यतः ।
आकाशे चोत्पतंतं च नागारूढं ह्रमे तथा ।।
षट्काङ्गसूकरं पोतं समुद्रतरणं तथा ।
ज्ञानलांभन्तु शास्त्रञ्च छत्राक्षसूत्रकंबुकम् ।।
एवमाद्याः शुभाः प्रोक्ताः शुभार्थे सिद्धिमादिशेत् ।
८ब्)
खरोष्ट्रारोहणं यस्तु यानालम्वाविशेन्नरः ।।
तैलाभ्यङ्गञ्च निर्ग्रथंभिक्षुभगवमेव च ।
स्विनमांसपयः पानमेवाद्याऽशुभसिद्धिदा ।।
सिद्धाचार्यः शुभं दृष्ट्वा शिवे वा गुरुपुस्तके ।
निवेद्यानुज्ञन्तु प्रार्थ्य इतरेन क्वचित् कथेत् ।।
शुभस्वप्नं कथेत्प्राज्ञ यतोत्कर्षावधारणा ।
दुःस्वप्नं वा प्रकाश्यं तु होमार्थञ्च स्वके कथेत् ।।
तेनाष्टोत्तरशतं हुत्वा क्रियाः कर्त्तं समाचरेत् ।
पूर्वोत्तरे शशिरशं पादाद्यां च शिलाम्बुधः ।।
अधोभागे मुखं चोर्द्धं पृष्ठेशेषं तदङ्गकाम् ।
सामान्ये तन्मया प्रोक्तं भुक्तिमुक्तिकरं ध्रुवम् ।।
वायवग्नि यमे पैत्रे च शिरसंकाम्यहेतुतः ।
मुखादिविपरीतं स्यात् अ ज्ञात्वा वाशयहेतुतः ।।
यच्छुभोक्तं यदिनो वा यथा लब्धानयेद्वुधः ।
क्रियाहीने न तत्रस्थः कर्मशाले क्रिया कुरु ।।
पूर्ववन्निखनित्वा तु सौम्ये सौम्यदिशादितः ।
विदिशे वाययसौम्ये तु दिशापादस्तदुच्यते ।।
चिह्नैः सुचिह्नितं कृत्वा सामान्यं प्रणवेण तु ।
विशेषञ्च हृदा कुर्यात् त्रिधाकोट्यनगात्मजे ।।
आयामपरिणाहे यथालब्धो नयेद्बुधः । (नशिलागृह्यसुयत्नतः)
खटिकासूर्पसंयोगैः स्थापकः स्वयमेव हि ।।
सुसूत्रयेच्छिवं तत्र शिवतंतु विधानत् * ।
तत्वाख्या तु पराशक्तिः सूत्रत्वेन व्यवस्थिता ।।
सानन्तानन्तपर्यन्त व्यापिनी सर्वतोमुखी ।
विभु व्याप्तितयाप्राप्तं यतोनुग्रहवर्त्तिनी ।।
अविनाभावसंसिद्धा कृष्णकम्वलवद्यथा ।
लोके तथा च संसिद्धिः शिवसुत्रावियोगतः ।।
तद्धर्मधर्मिनीं ध्यात्वा सूत्र्यंनान्येन तन्तुना ।
प्राकृतं प्राकृतैः सूत्रैः शिलासूत्रेणमाचरेत् ।।
तारात्वग्निकरैर्देवि त्रिधाद्यलिङ्गमिष्यते ।
उत्तमं मध्यमं चैव कन्यसं च विधीयते ।।
९अ)
ताराधो ऋषयो तन्तु त्रिधाभूयोविकल्पना ।
तारासंख्याकरैर्युक्तं ज्जेष्ठज्येष्ठं तदुच्यते ।।
ज्येष्ठमध्यममन्यच्च वसुसंख्यं विदुर्वुधाः ।
ऋषयोज्येष्ठकन्यञ्च मध्यमानामतोच्यते ।।
ऋत्वाधस्तु तुरीयान्तं मध्यज्येष्ठं ऋतुर्वुधः ।
भूतं मध्यममध्यञ्च तुर्यं मध्यमकन्यसं ।।
अग्निकन्यसज्येष्ठं वै पक्षौ कन्यसमध्यमम् ।
शशीकन्यसकन्यं च नवान्ते तु त्रिधा पुनः ।।
एकैकं कल्पयेत् प्राज्ञः तत्संध्यन्तरितं भवेत् ।
संख्यैवहि चतुर्लिङ्गहस्ताधस्तात्त्रयं भवेत् ।।
चतुरङ्गुलहान्या तु यावद्वै द्वादशाङ्गुलम् ।
ततोत्पानैवकर्त्तव्यं न बोद्धं नैव नैव च ।।
रौद्रञ्च तत् त्रयलिङ्गं पिण्डं षट्त्रिंशसंख्यया ।
प्रासादोवायदापूर्वं लिगं पश्चात् प्रकल्पयेत् ।।
कन्यसादौ समारभ्य ज्येष्ठान्तगर्भमानतः ।
गर्भार्द्धे कन्यसंज्येष्ठं पञ्चभिर्नवभेदतः ।।
मध्यमोत्तममाख्यातं भूताग्निर्ज्येष्ठज्येष्ठकम् ।
ज्येष्ठकन्यान्तरे ये च द्वे द्वे लिङ्गविकल्पना ।।
तद्भागसमामानेन कन्याधो द्वयमादिशेत् ।
तदन्तरं यथापूर्वं त्रिधैकैकं प्रकल्पयेत् ।।
अत्रापि संख्यया चैव लिङ्गं षट्त्रिंशतिर्भवेत् ।
मानमेतत् समाख्यातं प्रमाणमधुनोच्यते ।।
मानार्द्धम्वसुवत् कृत्वा विष्कम्भो ऋतु संख्यया ।
अग्राह्येति समाख्यातं लिगं सुरवरार्चिते ।।
अर्द्धम्वै वस्तुवत् कृत्वा वेदाश्रभूतसंख्यया ।
अनाद्यं तद्विनिर्दिष्टं सर्वसामान्यलक्षणम् ।।
तृतीयं संप्रवक्ष्यामि नाम्नासुरगणार्चितम् ।
नाहं कलाविभक्ते तु वेदास्रं तुर्यसंख्यया ।।
अन्यत्सर्वसमन्देवि धनधान्यसुखप्रदम् ।
सामान्यं सर्वसत्वानां नाहार्द्धवस्तुवत्कुरु ।।
अधस्तात् षष्ठमं यच्च त्रिधातं विभजेत् पुनः ।
एकभागयुताः पञ्च विष्कम्भो भवति स्फुटम् ।।
प्रमाणमेतन्निर्दिष्टं मुन्मानं कथयामिते ।
९ब्)
भागत्रयसमं कृत्वा विष्कम्भा ब्रह्मसंज्ञके ।।
अष्टास्रंविष्णुभागाख्यं मुनिभागकृते भवेत् ।
त्रिभागमध्यसंस्थेन ह्रासोस्याश्विनिसंख्यया ।।
रुद्रभागे पुनस्तद्वत् कृतषोडशमश्रकम् ।
द्वात्रिंशदधकर्त्तव्यमश्रिलिंगं द्विधा भवेत् ।।
समं वा वृत्तलिङ्गस्य पूजाभागं प्रकल्पयेत् ।
अथान्यमष्टधाभाज्यसूत्रसणं तुर्यमध्यत् ।।
कृत्वाह्रासं चतुर्भिश्च सिद्धोष्टास्रस्तथोपरि ।
शिरोवर्त्तनमन्यच्च च्छत्रसंख्यावदामिते ।।
मूर्द्धाष्टधा विभज्यदौ द्वान्तौ तुर्याख्यवर्त्तितौ ।
अर्द्धार्द्धञ्च त्यजेच्छत्रं प्रथमं शुभलक्षणम् ।।
अर्द्धत्यागात् द्वितीयं वै तृतीयं तृभिवर्जनात् ।
चतुर्थं च्छत्रमाख्यातं चतुर्थात्पा * *(?)र्तितम् ।।
उदय तु विभक्ते तु द्व्यर्द्धद्व्यर्द्धम्विवर्जयेत् ।
त्रपुषः नामचाख्यातं कुकु?टाण्डेमथोच्यते ।।
चतुर्भागोदयं कृत्वा द्वौ स्थाप्य द्वौ विवर्जयेत् ।
गुणभाग कृते मूर्द्ध्नि वालेन्दु द्वय वर्जयेत् ।।
च्छेदने तक्षणे चैव यदि दृश्येतमण्डलम् ।
सगर्भमिति तत्र लिङ्गं तच्चाख्याभिर्यथा शृणु ।।
मांजिष्ठे भेक इत्युक्तं कपिले खुं विनिर्दिशेत् ।
कृकलाशं रक्तके देवि कृष्णसर्पम्विनिर्दिशेत् ।।
खड्गभेचापमित्याहुः गुडवर्णोपलम्विदुः ।
कापोते गौधिकागर्भं भस्ममालुकमादिशेत् ।।
चित्राभे वृश्चिकं विंद्यात् पीते गोधानपंसपः ।
भृङ्गाभे च विषं देवि श्यामे मानुषमादिशेत् ।।
नीले च गोणसं तत्र श्याने(?) नीले नृगोनसम् ।
चाषाभे पक्षिणं पक्षिणं गर्भे श्याम चाषे(?) नृपक्षिणम्
।।
पीतभृङ्गोभके वर्णे गोधासर्पविनिर्दिशेत् ।
कापोतचित्रवर्णे च गोधिकालिकमादिशेत् ।।
भस्मोसि मण्डले दृष्टे सिक्ताभञ्च विदुर्बुधाः ।
माञ्जिष्ठकपिले वर्णे भेकोखस्तत्र(?) तिष्ठति ।।
१०अ)
द्विवर्णे तु द्विधागर्भमेकवर्णैकमादिशेत् ।
खरसानादिमं घृषा(?) मण्डलान्युपलक्षयेत् ।।
यदिनो दृष्टं किं तत्र भ्रान्तिस्तत्र नियोजिता ।
भ्रान्तेस्तत् त्यजतिनो वा परीक्षा तत्र भेषजैः ।।
देशिकेन तु कर्त्तव्या ब्राह्मणं ऋद्धि वृद्धि च ।
सौराष्ट्रोलकमस्वघ्नं काञ्जिकेन तु पीषयेत् ।।
तत्र लिङ्गं लेपयित्वा तु निवाते स्थापयेन्निशि ।
वास्ये(?) मीनं विजानीयात् क्लेदे सर्प विनिर्दिशेत् ।।
च्छिस्मिकादि विनिर्दिष्टं कृत्स्नं प्रत्येकं लक्षयेत् ।
वंद्यापचारतस्तस्य त्यजेत् तन्महदंभसि ।।
भीतिका स्वप्नां पथ्या च वज्रीवक्राङ्कलाञ्छिता ।
जटारुद्रादि नामानो ब्राह्मणं नैव तत्र तु ।।
पीषये दधिदुग्धेन लिप्त्वस्मि चित्रमण्डलम् ।
रक्तं माञ्जिष्ठकपिलं कृष्णं भृङ्गाभसन्निभम् ।।
श्यामादिमण्डलं दृष्ट्वा तद्रूपं गर्भमादिशेत् ।
यथापूर्वं द्विरूपंस्येदेकरूपमथापि वा ।।
सम्यक् ज्ञात्वा त्यजेत् तद्वद्वंदित्वाचोपचारतः ।
पारीक्षिते यदाशुद्धं क्षल्यीतच्छीतवारिणा ।।
तलशाणादिसंघृस्य लिङ्गे चिह्नं विलक्षयेत् ।
मातृकाक्षरमादौ च केशुभाः कस्य चाशुभाः ।।
वर्गान्ते पञ्चकन्देविजरशयास्तथैव च ।
कूटषण्व समोपेता शुभार्थताम्विवर्जयेत् ।।
शेषाः शुभास्तु संग्राह्या शंखस्वस्तिकयोरपि ।
श्रग्दामपद्मरूपं वादयंणोन्ये(?) मणिर्यथा ।।
नन्दिकावर्त्तः करकीघटोहारा तप एकम् ।
कन्याश्च गजहंसाश्च गरुर्माशिखितापसौ ।।
लिङ्गे वा लिङ्गरूपन्तु दृष्ट्वासिध्यतिनान्यथा ।
लिङ्गमिष्टं यथोद्दिष्टं संक्षेपात् सुरसुन्दरि ।।
भोग्यमोक्षप्रसिद्ध्यर्थं साधनाख्यमथोच्यते ।
इति ब्रह्मयामले जयद्रथाधिकारे पिङ्गलामते सामान्यलिङ्गप्रकरणो नाम
द्वितीयः ।।
१०ब्)
पिङ्गलोवाच ।।
आप शून्यं त्वया देव प्रोक्तं लिङ्गेभ्यलक्षणं ।
व्ययमाने तदा यवशुद्धाशुद्धञ्च कीदृशं ।।
मुखलिङ्गञ्च देवेश नोक्तं लक्षण तद्यवा(?) ।
शाधनाख्यं तथा ब्रूहि दिशा शाधन कर्मणि ।।
भैरव उवाच ।।
एकहस्तात् समारभ्य यावत् स्यान्नव हस्तकं ।
ज्ञात्वावय क्षिपेदायमेक हस्तकमण्डलं(?) ।।
द्वि त्रिहस्ते च लिंगे च त्रयसंख्यागुलंक्षिपेत् ।
तुर्यभूते क्षिपेत् पञ्च पद्म *? सप्तचाङ्गु *? ।।
ऊन्च्लेअर्
११अ)
लिंगेद्रांश वहिः कृत्वा त्रिमुखं कल्पयेद्बुधः ।
हरिभागानुसारेण शेषं लिङ्गे मतोर्द्धतः ।।
ताराभागविभक्तार्चा गुणत्यागादधोमुखं ।
चक्रनासा ललाटञ्च शिरो भागचतुष्टयं ।।
भुजोभागे तथा ग्रीवा ह्रासांगुलचतुष्टयं ।
तुर्याङ्गुल प्रमाणेन भुजयोर्निगमं कुरु ।।
नाहहीनं शिरः कुर्याच्छेषं लिङ्गा कृतिर्भवेत् ।
विकारां शाधिकं कृत्वा लिंगस्य वरवर्णिनि ।।
चतुर्मुखं चतुर्दिक्षु रूपं तेषां पृथक् पृथक् ।
ललाटे नयनं कुर्याद् भ्रूहीनं सुकपालकं ।।
तुङ्गनासंस्मितवक्तुं जटामकुटभूषितं ।
चन्द्ररेखासमायुक्तं प्राङ्मुखं परिकीर्तितं ।।
दंष्ट्रालं दक्षिणं भीमं वृन्नाक्षं त्रितयम्भवेत् ।
विवृतास्यं महाशाश्यं सिंघाभं लेलिहाहसं ।।
सर्पाभरणसर्वाङ्गं कपालशिरमण्डितं ।
ज्वालाकारं जटाजूटं व्यालैवद्धोर्द्धभासुरं ।।
पश्चिमं पीनचक्रञ्च इषत्प्रहसिताननं ।
सनासंसुप्रसन्नञ्च सुललाटं त्रिनेत्रकं ।।
जटामकुटसंयुक्तं चन्द्रार्द्धकृतशेखरं ।
हस्तौमुकुलिताकारौ स्थित ध्याननिरूपिणं ।।
पुनरन्यं प्रवक्ष्यामि सौम्यकांतावपुष्मतं ।
कैसैः कुटिलभृङ्गाभैः कुण्डलाभ्यामलंकृतं ।।
कण्वाभरणसंयुक्तं दर्पणामुक्तचेतसं ।
अलकारतससंयुक्तं ललाटे तिलकं भवेत् ।।
प्राग्विना पश्चिमान्ये तु त्रिमुखं कारयेद्बुधः ।
प्रागास्यं चाप्यरहितं त्रिमुखम्बा भवेदिह ।।
पूर्वं वा पश्चिमम्वापि मुखञ्चैक विकल्पयेत् ।
व्यक्ताव्यक्तं द्विरूपं स्यात् स्थिरमेतत् सदा भवेत् ।।
भोगमोक्ष प्रसिद्धर्थं सर्वसमान्यलक्षणं ।
काम्येन वा तदा भ्रूर्द्धं क्रूरखङ्जादिकं भवेत् ।।
लोकपालार्चितं लिङ्गं कथयामि प्रति प्रति ।
११ब्)
ऐंद्र चाग्नेयं याम्यञ्च नै-ऋत्यवारुं तथा ।।
वायव्यञ्च तथा सौम्यं ऐशान्यं वैष्णवेति च ।
ब्रह्माञ्चैव सुरेशानि यथा लक्षणतः शृणु ।।
दीर्घार्द्धं ऋतुवत् कृत्वा विष्कम्भस्तुर्य भागजं ।
अष्टाश्रं पूर्ववत् कृत्वा विकाराश्रं तथोपरि ।।
ऋणहान्या ऋतुंस्थाप्य प्रागीशाग्नि त्रयं भवेत् ।
अध्येति वा युगं देवि षडश्रं चैन्द्रसंज्ञितं ।।
सामान्यलक्षणैक्यकुंभोगमोक्षप्रसिद्धिदं ।
वज्रलक्षणसंयुक्तं वज्रलिङ्गन्तदुच्यते ।।
सैन्यस्तम्भादिक चैव तद्दिशाभागसंस्थितं ।
प्रभुत्वदायकञ्चैतद्यदि छत्रशिरो भवेत् ।।
अर्द्धं स्याद् रुद्रवत् कृत्वा भूतांशैश्चतुरस्रकं ।
उपरिष्टाद्वरिस्तद्वद्रुद्रं चैव तथा भवेत् ।।
सप्ताश्रिकल्पना चोर्द्धं(?) दिशासुविदिशा त्रयं ।
विनाग्ने यै चाग्नेयं सामान्य? लक्षणैर्युतं ।।
शक्तिं लक्षणशक्त्याङ्कं दहन्यादिं करोति तत् ।
रिपूणाञ्जायते नित्यं तद्दिशाभागसंस्थितं ।।
नाहार्द्धं ग्रहवत् कृत्वा त्रिभिपक्षी भवेदिह ।
पञ्चभिश्चोर पृष्ठञ्च विष्कम्भश्चिपिटो भवेत् ।।
षड्भागञ्च त्रिभिः स्लग्ने पञ्चस्थाने नवं कुरु ।
द्वौ द्वौ भाग हृतौ विष्णुः शिवं तद्वत् प्रकल्पयेत् ।।
षोडशाश्र युतं याम्यं समम्वा परिवर्जयेत् ।
दण्डलक्षणसंयुक्तं दंडाख्यं क्षय कर्मणि ।।
दण्डपिट्टापनञ्चैव शत्रूणां तत् प्रतिष्ठितं ।
दशैकार्द्धविभक्तञ्च पञ्चभि ह्यात्मभूर्भवेत् ।।
तथा च्युतोवस्वश्रकः(?) षोडषाश्राहरस्तथा ।
षष्टन्यादशसंस्थाप्य प्रागाशाग्नि द्विमध्यगः ।।
आप्येति वायुतन्मध्ये सामान्यं नैर्-ऋतं भवेत् ।
खड्गाङ्कं खड्गसंज्ञं तु रिपूणामारणादिकं ।।
तद्दिशाभागसंस्थाप्य तन्मेतुं गतचेतसः ।
अर्द्धंस्या दृषिवत् कृत्वा ब्रह्माशं वेदवद् भवेत् ।।
१२अ)
विष्णुस्तथा हरश्चोर्द्ध वृत्तं वारुणसंज्ञकं ।
सप्तभिः सार्द्धमासांशै विष्टम्भा वायुपूजिते ।।
ताराविष्णुर्विभक्ते तु ऋतु ह्रासात्त्रयः स्थिताः ।
शिवस्तद्वद् भवेद् वृत्तः कृशं दीर्घञ्च वायवं ।।
ध्वजलक्षणसंयुक्त ध्वजाख्योच्चाटनादिकं ।
आप्यवच्च स्मृतं सौम्यं धृतिपुष्टि धनप्रदं ।।
गदालक्षणसंयुक्तं तद्सदे(?)त्यभिधीयते ।
विभूत्यर्थं निवेशीत काम्ये वा नित्यमेव हि ।।
अर्द्धं स्याद्रुद्रवत् कृत्वा ऋतु भ्रा आ?त्मभूर्भवेत् ।
तद्वद्विष्णुर्विभक्ते तु भूतमध्यं ऋतुं त्यजेत् ।।
उपरिष्टाच्छिवंस्तद्वत् षोडशास्रं भवत्यथा ।
अस्रित्रयं प्रकर्तव्यं पूर्वयाम्योत्तरं तथा ।।
ज्ञानयोगप्रदं नित्यं कुक्कुट्टाण्डशिरो यतः ।
शूललक्षणसंयुक्तं तच्छुलेत्येव गम्यते ।।
नाहार्द्धकविभक्ते तु भूतांशैश्चतुरस्रकं ।
अष्टास्रं पूर्ववत् कृत्वा वृत्तोर्द्धम्वैष्णवं भवेत् ।।
चक्रलक्षणसंयुक्तं चक्राख्यं लिङ्गमुच्यते ।
पातालद्वारमाश्रित्य विवरद्वारमेव च ।।
खन्यवादप्रसिद्ध्यर्थं चक्राख्यं साधयेद्ध्रुवं ।
अर्द्धतारा विभक्ते तु वेदाभ्र पञ्चभागिकं ।।
तद्वद्मध्योर्द्ध भागस्तु वृत्तं ब्राह्म्य प्रकल्पयेत् ।
पद्मलक्षणसंयुक्तम्पद्माख्यं लिङ्गमुच्यते ।।
नशाग्रे तु प्रतिष्ठाप्य यक्षकन्यादि साधनं ।
वैष्णवम्वायु नै-ऋत्यं त्रपुषं छत्रकारयेत् ।।
ब्राह्म्या सौम्यञ्च छत्राभं याम्य चन्द्रसमं भवेत् ।
आग्नेयस्य शिरो देवि कुक्कुट्टाण्ड प्रकीर्तितं ।।
सामान्ये तन्मयो प्रोक्तं भोगमोक्ष प्रसिद्धिदं ।
विशेषं काम्य हेत्वर्थं वज्रादीनामिहोच्यते ।।
ऋतु भागोदयं कृत्वा त्रिभिः क्षीणाद्वयोर्यवा ।
वज्रकन्यामतच्छौत्रं वज्रलिङ्गस्य कीर्तितं ।।
रुद्रभागोदयं कृत्वा षट्त्याग उभयो भवेत् ।
शक्तिलिङ्गस्य शक्ताक्तं छत्र वै संप्रक्य?वितं ।।
१२ब्)
दिशाभागोदयं कृत्वा ऋतुत्यागो द्वयोर्यदा ।
दण्डाख्यं दण्डसंज्ञस्य तच्छत्रञ्च विनिर्दिशेत् ।।
मुनिभागोदयं देवि गुणत्यागो भवे द्वयोः ।
असिच्छत्रासिसंज्ञस्य यासाख्यं कथयामिते ।।
अष्टभागोदयं कृत्वा त्रिभिः क्षीणोर्द्धयोर्यदा ।
पासस्य च्छत्रमाख्यातं ध्वजाख्यंमधुनोच्यते ।।
वसुभागोदयं कृत्वा गुणत्यागो द्वयोर्भवेत् ।
ध्वजस्य छत्रमाख्यातं गदाख्यं शृणुसांप्रतं ।।
भूतभागोदयं कृत्वा पक्वत्यागो द्व यदा ।
गदस्य छत्रमाख्यातं शूलाख्यं सांप्रत शृणु ।।
ताराभागोदयं कृत्वा त्रिभिः क्षीणो द्वयोर्यदा ।
शूलस्य छत्रमाख्यातं त्रिषुस्थानोन्नतम्भवेत् ।।
अष्टभागोदयं कृत्वा नेत्रत्यागो द्वयोर्यदा ।
चक्राङ्कं चक्रसंज्ञस्य पद्माख्यमनुधुनोच्यते ।।
नवभागोदयं कृत्वा युग्मत्यागो द्वयोर्यदा ।
पद्म लिङ्गस्य देवेशि शिरो भवति नान्यथा ।।
सहस्राख्यस्य लिङ्गस्य शिरश्चेन्द्र समं भवेत् ।
एतेषां लिङ्गमध्ये तु यदिष्टन्तत्र गृह्यते ।।
रुद्रवद्रुद्र भागन्तु दीर्घम्वै संप्रकल्पयेत् ।
एकानवति भागं स्यात् पृथुकार्यो विपश्चिता ।।
भाग भागे प्रकर्तव्यं विषमैर्लिङ्गमालिकां ।
भाग हेतु प्रकर्तव्य यवाकारैस्तु लक्षणैः ।।
मोक्षार्थी तद्विनास्थाप्य भक्तिरेवात्र कारणं ।
ब्रह्माख्यं पूर्ववत् तस्य केशवाख्योपितद्विधः ।।
अष्टोत्तरं तथा भूतं वेदाश्रं रुद्रभाजितं ।
सप्ताविंशति भागस्तु नाहकार्यो विपश्चित ।।
रौद्राणां लक्षणं वक्ष्ये यथाशास्त्रविनिश्चयं ।
रुद्रभागैव कर्तव्यो वेदाष्टाम्रविवर्जनात् ।।
तेनेदं रौद्रमाख्यातं लक्षस्योपि तद्विधिं ।
पक्षसूत्रविहीनन्तु लम्बसूत्रात्मको यतः ।।
वाणलिङ्गन्तथा श्रेष्ठं सर्वसामान्यलक्षणं ।
दृष्टमात्रेण तत् स्थाप्यमथवा शास्त्र चोदितैः ।।
१३अ)
स्वेच्छालोहैः प्रकर्तव्यं व्यक्ताव्यक्तोथवांगिनं ।
अव्यक्तं वा प्रकर्तव्यं त्रिहस्तांतं न चोर्द्धतः ।।
काष्ठजं चैव कर्तव्यं व्यक्तातंत्रयमेव च ।
एकहस्तात् समारभ्य यावत् तत् षट्करं भवेत् ।।
ऊर्द्धं चैव न कर्तव्यं महाप्रति मयोविना ।
मृन्मयस्य च लिङ्गस्य शैलवद्विधिमाचरेत् ।।
शितं रक्तं तथा पीतं कृष्णं वै ब्राह्मणादितं ।
त्रिविधं तत्समाख्यातं पक्वापक्वन्तु सन्धितं ।।
मृदयामर्दितं कृत्वा सूक्ष्मवालुकया सह ।
लिङ्गं वै वर्तयित्वा तु त्रिधाभागविकल्पनैः ।।
पिण्डिका तु तथा कुर्यात् याचयेत् करिषाग्निना ।
पक्वमेतन्मया देवि स्थिरलिङ्गं प्रकीर्तितं ।।
अपक्वमृन्मयं शुद्धं विवाहं तं त्रिधा अपि ।
विनाहोमेन कर्तव्या प्रतिष्ठामत्त केवला ।।
दिने दिने प्रकर्तव्यं पूजान्ते तु विसर्जनं ।
संख्या युक्तं विना वापि भोगमोक्षप्रसिद्धिदं ।।
सन्धितं संप्रवक्ष्यामि लिङ्गं वै मृतमयात्मकं ।
वटाश्वस्थ पलासानां प्लक्षोदुम्बरकत्वचं ।।
गृह्यकल्कं प्रकर्तव्यं मृत्तिकान्तेन सन्धयेत् ।
चूर्णं तत्रापि संयोज्यमाषमुद्गयवातसं ।।
मसूरंगो धूमं चैव वालासर्जरसं तथा ।
अतसी तैलगोक्षीरं घृतं तत्रापि योजयेत् ।।
मदनं सन्धनं चैव पञ्चसप्तादिनानि वा ।
माषपक्षोषितं कृत्वा विधिनानेन सुव्रते ।।
व्यक्तं क्षेत्रै प्रकर्तव्यं चण्डिकादि यथाहितं ।
मुखलिङ्गं प्रकर्तव्यं लिङ्गं वापि विशेषतः ।।
जातपीठं प्रकर्तव्यं चतुरस्रादि भेदतः ।
प्रवालं स्याटिकंवाथ राजावर्त्य सटिट्टिभं ।।
सर्वरत्नमयं श्रेष्ठं मुक्तामणिषु मौक्तिकं ।
लिङ्गमुक्तं मया ह्येतत् सामान्यं सिद्धिलक्षणं ।।
काम्ये वा दीर्घवक्त्रञ्च सव्रणं कुक्षिलुञ्चितं ।
अधः क्षीणोन्नतं पृष्ठं तथान्यत गुरुमस्तकं ।।
विकरालमति ह्रस्वं पक्षहीनं विमध्यगः ।
१३ब्)
शुभावेन शुभं ह्येतदशुभार्थे प्रशस्यते ।
लिङ्गमुक्तमतोर्ध्वानालक्षणं प्रवदामिते ।।
इति ब्रह्मयामले जयद्रथाधिकारे पिङ्गलामते साधनलिङ्गाधिकारो नाम
प्रकरणं तृतीयं ।।
पिङ्गलोवाच ।।
वनान्यु पवनं देव काष्ठजार्थे तु सूचितं ।
तत् कथं विधिमाख्या हि वृक्षाणां लक्षणं यथा ।।
व्यक्तानां लक्षणं नोक्तं मानोन्मानप्रसाणकं ।
काम्ये कर्मणि सौम्ये च कथं भक्ति यते विभो ।।
भैरव उवाच ।।
वनान्यु पवनन्देवि प्रविशेत् प्राग्विधानतः ।
तत्रावलोकयेद् वृक्षान् ग्राह्याग्राह्यं तु पंडितः ।।
चन्दनं चन्दनं चैव सालं निम्बार्जुनं मतं ।
पनसं श्रीफलञ्चैव रक्तचन्दनसिंसपा ।।
तिन्दुसाकामखदिरापी या सालं तथैव च ।
सरलन्देवदारुञ्च ये चान्ये सारमध्यगाः ।।
निर्दोषाग्रन्थिहीनाश्च हीरकोटरवर्जिताः ।
ऊषरे वाल्मिके जाताचितेजाता घटाक्षिताः ।।
वर्ज्य ह्येते तथान्येपि चान्यदोषसमन्विताः ।
सुपरीक्ष्य ह्रसंचादौ सुदृढं व्याधिवर्जितं ।।
तस्याधस्तात् समं कृत्वा भूमि यत्नेन लेपयेत् ।
जपनं तत्र कुर्वीत यथायोग्याद्वरार्थिभिः ।।
द्रुमं वस्त्रेण संच्छाद्य होमं कुर्यात् तं शक्तितः ।
दिग्वलिञ्च ततो दद्यात् स्रावयेत् स्थान वासिनः ।।
ओं श्रीनिकेतनमस्तुभ्यं देवजुष्टवनस्पते ।
संक्रमान्यदितं स्थानात् गुणवष्ट?न्मनोरमं ।।
अनयाश्रावणविद्यया गन्धपुष्पधूपवलिं दद्यात् संक्रामितो भवति ।
चरु भुक् सम्यक् सन्नद्धः स्वपेद्वै प्राग्विधानतः ।।
ओं श्री ह्रीं हूं वौषट् । स्वप्न माणवकः ।
कथेत् स्वप्नां प्रभाते तु पूर्ववद् विधिना प्रिये ।
तीक्ष्णाय समयं गृह्य कुठारं चास्त्रमन्त्रितं ।।
घृताक्तं मृत्युजिन्मत्रैन् मुखं तस्य तु मन्त्रयेत् ।
१४अ)
आदौ सुचिह्नितं कृत्वा वक्त्राङ्गं शिरः पादकं ।
अधः शिरोर्द्ध पादं स्याद् यतः पादप उच्यते ।।
प्रासादस्य यथा द्वारं तथाचक्रं प्रकल्पयेत् ।
प्रागीशोत्तरतः पात्यः सौम्यकर्मफलार्थिभिः ।।
पातयेदन्ये दिग्भागे स्वकार्यविधिलक्षितः ।
पतने शयनं पूर्वं कृत्वा मन्त्रेण देशिकः ।।
ओं नमः शिवाय नमो नमः ।
सापाश्रयाय स्वाहा पतने शयने विद्या ।
शाखाच्छेदे कृते पश्चादस्त्रैर्भागविकल्पना ।।
कर्मशालां च आनीते आकारकरणं भवेत् ।
अव्यक्तं वा प्रकर्तव्यं व्यक्ताव्यक्तन्तथैव च ।।
पूर्ववच्च विधानेन स्थिरमेतत् प्रकीर्तितं ।
व्यक्तं वाथ प्रकर्तव्यं लक्षणं रुद्रपूर्वकं ।।
द्विविधं तत्समाख्यातं द्वारहस्त कृतात्मना ।
द्वारं मानैः प्रकर्तव्यं त्रिविधन्तत्र लक्षणं ।।
प्रासादस्याधमं द्वारं वसुभागकृतोच्छ्रयं ।
भागमेकं परित्यज्य पुनः शेषं त्रिधा कुरु ।।
एकं पीठ गतं कृत्वा द्विभागे प्रतिमा भवेत् ।
कन्यसैर्या? समाख्याता मध्यमा शृणुसांप्रतं ।।
वामाद्यैर्भाजितं द्वारं भागं त्यज्य पुनस्त्रिधा ।
भागैकेन भवेत् पीठं द्विभागात् प्रतिमोच्यते ।।
प्रासादस्योत्तमं द्वारं गुणवद्भाजयेत् समं ।
एकं पीठं गतं कृत्वा द्विभागे प्रतिमां भवेत् ।।
ज्येष्ठा चैव समाख्याता करमानमथोच्यते ।
मलान्तर गते सूर्ये ये दृष्टास्तु सरेणवः ।।
रेण्वष्टधाविनब्जे तु अणुरष्टविधीयते ।
केशाग्रन्तु तदष्टाभिः केशाग्रैस्तेस्तुलीक्षकं ।।
लीक्षाष्टौ तु भवेद् पूका पूकाष्टक यवं विदुः ।
यवाष्टौ चाङ्गुलं देवि तद्वयान्तु कलोष्वते ।।
षट्कलाभिर्वितस्तिं वै तद्वयात् करलक्षणं ।
तेन मानेन या संख्या करमानस्तदुच्यते ।।
१४ब्)
सामान्यै तद्विनिर्दिष्टं करमानमतोन्यथा ।
स्वैः स्वैः ज्येष्टाङ्गुलं देवि चतुर्विंशेन हस्तकं ।।
एक हस्तात् समारभ्य नवान्तं यावगोचरं ।
लिङ्गवन् मानमर्चानां तद्वत् संख्या प्रकीर्तिता ।।
महाप्रति समन्यच्च त्रिधा देवि यथा शृणु ।
त्रिपञ्च करसंख्यातं महाप्रति सकन्यसं ।।
त्रिदशानां करैर्देवि महाप्रतिसमध्यमं ।
नवपञ्चभि पिण्डेन महाज्येष्ठमुदाहृतं ।।
एकांगुलात् समारभ्य यावन्तद्वादशाङ्गुलं ।
गृह्ये तत्पूजयेद् भद्रे ऊर्द्धप्रासादगं भवेत् ।।
द्वारमाने तु यद्रूपं करमानान्यजोपि वा ।
तेषां यद्दिर्घमानं स्याद् विभज्य नवभागिकं ।।
तदेकमर्कवत् कृत्वा निर्दिष्टं तु स्वकांम्रलं ।
तद्द्वयाङ्गात्त?कं नेत्रं कला नामेति पर्यया ।।
तडिभागैर्भवेत् तारा ज्योतिस्तद्भूत भागिका ।
षर्णेत्रं(?) तु भवेत् तालं पर्यायं तस्य चोच्यते ।।
तालं मुखं वितस्तिं च प्रादेशार्द्ध करै वच ।
अङ्गुलादि वितस्त्यतैः प्रमाणाद्यमिहोच्यते ।।
नेत्र प्रक्षालमुकुटं किरीटिनञ्चैत्तद्विना ।
हस्तार्द्धम्वदनं भद्रे द्विनेत्रं गल उच्यते ।।
हृत्तालेन तथा नाभि मुस्कातन्नालनाभितः ।
कलान्वितं द्वितालं स्यादूरूजंघे मुख द्वये ।।
नेतहीने च कर्तव्ये जानुपाली द्विनेत्रके ।
गुल्फौ कला द्वये कुर्यात् पादौ स्यात् सप्तगोलकौ ।।
यवाधिकौ विनिर्दिष्टौ दीर्घमानं प्रकीर्तितं ।
स जूटं तद्विना तेन नवतालम् पादौ विना ।।
मुखन्त्रिभाजितं कल्प्य ललाटं घ्राणवक्त्रकं ।
द्वौ द्वौ गोलकमानेन दीर्घत्वेन तु सुन्दरि ।।
त्रिधा त्रिर्यक् ललाटं स्याच्चतुरंगुलमानतः ।
अपांगान्ते स्थितौ कर्णौ खण्वयाभ्रौ द्विगोलकौ ।।
१५अ)
दीर्घत्वेन तदर्द्धं स्यात् तिर्यग्मानं प्रकल्पयेत् ।
द्विजवंशम्कुलीनस्य तद्वद्वर्त्तिं प्रकल्पयेत् ।।
यवाष्टकौ चतुद्रकौ तस्यार्द्धं ककुभी भवेत् ।
पाशौ द्विगोलकाकारौ प्रकृतिस्था वदाद्भृतौ ।।
सालङ्कारौ तु पाशौ स्याद् यदृच्छातोनुरूपतः ।
ललाटे च भ्रूवोर्मानं तिर्यग्दैर्घान् तृरंगुलं ।।
तदनन्तरं कलार्द्धं स्यात् मूले स्थूले यव द्वयं ।
सार्द्धं यवयवार्द्धञ्च नयेदग्रं धनुर्यथा ।।
द्व्यंगुलोच्छ्रयनासाग्रं पाश्वौरस यवौ भवेत् ।
निष्याविदावद्वली वाह्ये पुटौ तारकविस्तृतौ ।।
प्रणन्ते द्वार्द्धदीर्घा च चापार्द्ध सदृशे शुभे ।
क्रमाद्विनाग्रवं सांभतनासामूलांतगोचरं ।।
तारकार्द्धर्द्धमानेन मूले तारं तु निम्नकं ।
तिर्यग्दैर्घ्यो क्षिणी कार्ये नेत्रवच्चार्द्धविस्तृते ।।
तारावत् तारकन्देवि ज्योतिवज्योतिरुच्यते ।
यवार्द्धार्द्धार्द्धगा रेखा तस्याप्यर्द्धाधगा भवेत् ।।
मीनोदरवन्ते कार्ये तदग्रे च यवाग्रवत् ।
यवमूले च मूलं स्याल्लक्षंतरलतारकं ।।
मण्डलं तु कपोलाभ्यां समन्ताच्चतुरंगुलं ।
गण्डोन्नतं प्रकर्तव्यं सयवं तारकमेव च ।।
हनूषडंगुलंदैदैर्घगोलकं चाग्रजं भवेत् ।
अंगुलेन स्मृतो गर्तो गोजी तत्रार्द्धमंगुले ।।
अधः संज्ञा च तस्यैव नेत्रार्द्धं चाधरं विदुः ।
रेखा तस्यैव कर्तव्या यवार्द्धेन तु सुन्दरि ।।
अर्द्धांगुलोत्तरौष्ठं तु यववत् तस्य रेखया ।
तदन्तरं द्वियवं भद्रे मृत्कर्णे च तथा यवं ।।
चतुरंगुलं तु विस्तारं तिर्यक् वक्तं प्रकीर्तितं ।
ऊर्द्धगो जीतुनासाधो द्वियवं चार्द्धविस्तृतं ।।
तुर्यसूत्रनिपातेन तिर्यमानेन वक्त्रकं ।
प्रथमं केशसूत्रन्तु द्वितीयं वंश उच्यते ।।
नासासूत्रं तृतीयन्तु चतुर्थं चिबुरुच्यते ।
१५ब्)
ऊर्द्धं तद्वत् प्रकर्तव्यं कर्णौ चायांगयोरपि ।।
भ्रूसन्धौ चिबुनासाग्रे पञ्चमं ब्रह्मसूत्रकं ।
केशिनं वा शिरोमानं कर्णातंतु कलाष्टकं ।।
केशसूत्रावदुर्यावन्नवनेत्रं विधीयते ।
मुखमेवं विधं सौम्यं शरीरा वयवं शृनु ।।
चिबु हृन्नाभि मुस्कातं सूत्रं कृत्वा तु मध्यतः ।
ककुनीस्तन कौसी च सूत्र द्वयं प्रसाधयेत् ।।
कक्षौ कटौ तथा द्वे च पञ्चसंख्योर्द्धगा स्थिता ।
शिखरौस्तनौ हृन्मध्ये नाभौ कटौ प्रसारयेत् ।।
तिर्यक्सूत्रं तथाभूतं कुर्परौ च कलाधिके ।
जानुगे च तथा गुल्फः पादाग्रे मूलस्तथा ।।
समसूत्रा समस्येदं प्रत्यो वयवमुच्यते ।
ग्रीवायार्द्ध करोनाहस्तस्यार्द्धं स्कन्धयोर्वहिः ।।
स्कन्ध कक्षांङ्कतरे नाहो वसुगोलकमानतः ।
अष्टनेत्रौ स्मृतौ वाहू षड्नेत्रं चाङ्गमूलतः ।।
रुद्रवदंगुलैर्मध्ये पंक्तिवद्रग्रतो भवेत् ।
उपवाहू स्मृतौ दीर्घौ न च नेत्र प्रमाणतः ।।
गोलकार्द्धं भवेत् संधिस्तदन्ते पञ्च चागुलः ।
यव सप्तसमायुक्तं विस्तरन्तत्र कीर्तितं ।।
कुर्परो वाह्यकस्तद्वङ्सूतांगुलयव त्रये ।
वक्त्रं वापि तदा तत्र वेष्टनं चाष्टगोलकं ।।
अर्द्धागुलं तदासंधिस्तिर्यग्मानविवर्जितः ।
तस्माच्चैवोप वाहुस्तु तिर्यक् पञ्चागुलो भवेत् ।।
मूले नेत्रान्तरं भूयो मुनि यवस्तुर्यांगुलः ।
गोलकैकान्तरं ह्येकं यवह्रासान्नयेत् क्रमात् ।।
अग्रवाहुस्तथा तिर्यक् चतुरंगुलको भवेत् ।
कलाप्येकाङ्गुलं सन्धि नाहस्त्रिंगुणसर्वतः ।।
हयवाहुः समाख्यातः करौ सम्यग् निवोधमे ।
मणिवन्धात् तालदैर्घं करंचागुलसप्तकं ।।
तिर्यग् मध्येगुलं पञ्च मूले भूत यवान्वितं ।
रसाङ्गुलोर्द्धतश्चैव विस्तरम्परिकल्पयेत् ।।
मध्यमायास्त्वंगुलं पञ्च दीर्घमानं प्रकीर्तितं ।
१६अ)
अनामातर्जनी चैव सार्द्धे चैव तुरंगुले ।।
कनिष्टांगुष्टके चैव सार्द्धांगुल त्रये समे ।
तर्जन्याधः स्मृतो गुष्ठो गोलकान्तर मानतः ।।
देशिनी पर्वगं यावदुच्छ्रितं तत्प्रकल्पयेत् ।
मध्यमायास्तु यन्मूल द्वियवं ग्रन्थिरुच्यते ।।
त्रियवोनं कलापर्व मध्ये ग्रन्थि यव द्वयं ।
तुर्यनूनं कलाभद्रे मध्यपर्वम् प्रकल्पयेत् ।।
यवासंचोर्द्धगं ग्रन्थि अंसोनं रुद्रचोर्द्धगं ।
तर्जन्य नामिके ग्रंथि मूले यवसमं भवेत् ।।
यवद्वादशकं पर्व मूले चैव प्रकल्पयेत् ।
यवसार्द्धे भवेद् ग्रंथिस्तस्योर्द्धे वरवर्णिनि ।।
यवैकादशकं सार्धं मध्यपर्वं विनिर्दिशेत् ।
यवार्द्धे चोर्द्धगो ग्रन्थि अंसूनं दर्शचोर्द्धगं ।।
कन्यसा योस्तु यो ग्रंथिर्यववन्मूलमध्यगः ।
यवार्द्धो चोर्द्धगो ग्रन्थि पर्वमूलं यवग्रहैः ।।
वसुवन् मध्यपर्वस्तु सार्धस्तस्योर्द्धगो भवेत् ।
अंगुष्ठस्य तु यो ग्रंथिर्मूले यव चतुष्टयं ।।
यवैकादशकं पर्व प्रथमो यत् प्रकीर्तितः ।
यवतुल्य प्रकर्तव्यो द्वितीयो ग्रन्थि चोर्द्धगं ।।
तस्योर्द्धगस्तु यः पर्वो यव द्वादशको भवेत् ।
मध्यमायास्तु यः पर्वा मूले त्रिगुणवेष्टन ।।
मध्ये पर्वोयबूनस्तु त्रिगुणं वेष्टनं भवेत् ।
द्वियबूनाग्निवत् कृत्वा चोर्द्धगोनाहकीर्तितं ।।
अनामा तर्जनी मूले त्रिगुणोनाहः पूर्ववत् ।
मध्ये तद्वद्भवेन्नाहः किंतु स्याद् पूकवर्जितं ।।
द्वियबूनो भवेन् नाहः त्रिगुणश्चोर्द्धपर्वगः ।
कन्या मूले तु नाहः स्यात् पूर्ववत् त्रिगुणो भवेत् ।।
द्विलीक्षूणो भवेन्नाहस्त्रिगुणो मध्य पर्वगः ।
चतुलीक्षूणोर्द्धगो पर्वस्त्रिगुणवेष्टनं ।।
अंगुष्ठस्य तु यन्मूले त्रिकलावेष्टनम्भवेत् ।
द्विकलामध्य * *? तु ततोर्द्ध द्विय वाधेकं ।।
१६ब्)
यबूनं द्वियबूनचक्रमोर्द्धवेष्टनं भवेत् ।
हुर्द्धपर्वार्द्धगान् देवि नखां सर्वत्र कल्पयेत् ।।
मूलनिम्ना नखाः सर्वे मध्योन्नतारुण प्रभाः ।
अग्रे तीक्ष्णासिता सर्व लक्ष्यं वै शोभनं यथा ।।
एकेनादि सिद्धेन द्वितीयो वाहु सिध्यति ।
कठं कूपादधस्तान्तु चूब्रकौरि तु गोलकौ ।।
किञ्चिन्तिर्यग् गतौ तौ च वामदक्षिणयोरपि ।
तदूर्धे त्रिकलौ कक्षौ किञ्चित् तिर्यग् गतौ समौ ।।
उर्द्धं तालसमन्देवि मध्यसूत्राग्नि गोलकं ।
दियवौ मण्डलौतौ तु यवमात्रौ मध्य चूचकौ ।।
हृत्सूत्राच्चूचुकौर्द्धं तु द्विकलार्द्धां तु द्विकलार्द्धांगुलं भवेत् ।।
स्तनाधस्ताद्गुलं भवेद्रेतिर्यग्घृन्मूलगोचर(?) ।
कक्षसूत्रावधिर्यावत् पाश्वैत्ति त्रिकलौ भवेत् ।।
हृदिनाभ्यंतरे सूत्रं कृत्वामानं प्रकल्पयेत् ।
तस्योर्द्धं त्रिकलं विद्यादधस्तात् त्रिकलं कुरु ।।
मध्याद्भूतांगुलं तिर्यक् स्तनसूत्रांत गोचरे ।
तस्मात् कक्षान्तरं तद्वदुभयोः पार्श्वोरपि ।।
नाभौ तिर्यग् मध्याख्यातं सार्द्धं भूतांगुलं प्रिये ।
पुनस्तद्वद् भवेत् पक्षौ कक्षरेखा वसानतः ।।
तस्योर्द्धे द्विकलंमान मध्यसूत्रावधिर्भवेत् ।
हृत्सूत्रादधस्तद्वदुभयोः संप्रकल्पयेत् ।।
निम्नमध्यं यथालक्ष्यं नान्यथा चतभूदरः ।
नाभिसुस्कातरे सूत्रं कृत्वा तिर्यक् प्रकल्पयेत् ।।
त्रिकलं त्रिकलं मानं द्वौ पक्षौ कटिविस्तरौ ।
नाभिः प्रदक्षिणावर्ता यवं सार्द्धं भ्रमात् भवेत् ।।
नितम्बस्थौ तु वृषणौ द्व्यगुलं दीर्घमिष्यते ।
वेष्टनं द्विकलान्तस्य लिंगदीघ द्विगोलकं ।।
त्रिकलं वेष्टनं तस्य मध्ये अग्रे द्विगोलकं ।
तालमानं भवेदूरु मूलदेशे तु विस्तरं ।।
तस्याधोरविवद्भज्य यावज्जान्वन्तगोचरं ।
मूलादर्द्धंगुलं त्याज्य भागे भागे प्रकल्पयेत् ।।
तावद्यावद् भवेदग्रे गोलक त्रयमेव हि ।
१७अ)
सर्वत्र त्रिगुणो नाहस्तिर्यग् शक्त्याली द्विगोलिका ।।
सन्धिरेकाङ्गुला तत्र वेष्टन रुद्रगोलकैः ।
तस्याधस्तात् कलापक्तिनाहोजंघा प्रकीर्तितः ।।
मध्ये सूर्यकलानाहस्तस्याधो दशभाजितं ।
एकैकमङ्गुलं त्यक्ता नाह * *? श्चात्र परस्परं ।।
तावद्यावन्नयेदग्रं यावत् स्यात् सप्तगोलकं ।
पादमध्ये भवे तिर्यक् सांगुलं द्विकलं पुनः ।।
त्रिकलं चाग्रपादे तु पाष्णिका द्विकालं बुधः ।
पाष्णिगुल्फान्तरा चैव द्विकलं तद्वदेव हि ।।
सेय वस्त्रांगुलोङ्गुष्टस्तद्विना देशिनी भवेत् ।
रसयवकलामध्या निर्नामो विंशतिर्यवैः ।।
यवाष्टादशकै कन्या दीर्घमानमुदाहृतं ।
पश्चाङ्गुलैर्भवेन्नाहो मूलाङ्गुष्टे ततोर्द्धतः ।।
षडङ्गुलं पुनः पञ्च लक्ष्यं सपाशिरोयथा ।
देशिनी त्र्यङ्गुलो नाहो मूलमध्ये यथाकला ।।
पुनश्चोर्द्ध त्र्यङ्गुलोनार्हः शेषान्य शृणुसांप्रतं ।
तर्जन्यष्टांश हीनस्तु मध्यमानाह कीर्तितः ।।
मध्यादष्टांश हीनश्च निर्नासोनाह उच्यते ।
अनामाष्टांशा हीनस्तु कन्यानाहं प्रकल्पयेत् ।।
मूलनिम्नानखाः सर्वे मध्योन्नतारुणप्रभाः ।
मुखोन्नतशिताकार्या लक्षशोभा यथा भवेत् ।।
शिरोनाहो भवेत् तस्य नेत्राष्टादशकेन तु ।
पञ्चविंशतिभिर्नेत्रैः उरः संवेष्टनं भवेत् ।।
एकविंशति भिर्नेत्रैस्तदधो वेष्टनञ्च यत् ।
त्रयोविंशकलानाभो तस्याधश्चतुर्विंशकः ।।
पश्चासदङ्गुलैनाहः कटिस्याच्छोभनं यथा ।
सूत्रैः सूत्रसमां कृत्वा यथास्थानसमीपगाः ।।
कविरौ तु पुटौ तुल्यौ ज्योतीसृत्कणिरेव च ।
ककुनीचूचुकौ तद्वत् समसूत्रमुदाहृतौ ।।
प्रतिमाया प्रसन्नाया लक्षणतदुदाहृतं ।
१७ब्)
विषमायान्यथा देवं विषमं सूत्रकल्पना ।।
स्थानकेन विनिर्दिष्टा सायुधा धनुमादितः ।
आसस्था च पद्माद्याडंदण्डान्ता सप्त त्रिर्यगाः ।।
विकृताक्रूरवेताला कुब्जाविभ्रान्तविभ्रमा ।
नाद्यारम्भस्थिता चान्या यथासर्प हेतुतः ।।
एवमाद्यास्त्वन्येकाश्च दीर्घह्रस्वा कृसातुरा ।
विषमास्ताविनिर्दिष्टा यास्त्वन्याद्वसमासमाः ।।
स्त्रिया रूपं प्रवक्ष्यामि लक्ष्यलक्षणयोरपि ।
तद्घादैर्घ्यात् कला गृह्य दुर्वादैर्घ्यान्तथैव च ।।
कटिस्थं कल्पयेन्नाहं जघने विस्तरे यतः ।
मध्यदीर्घात् कलां गृह्य तिर्यगेकांगुलं यथा ।।
स्तनौ द्वौ कल्पयेद्वृन्तौ समन्ताच्चतुरङ्गुलौ ।
कण्ठकूपाधो यन्मानं तयो गृह्यांगुलांगुलं ।।
इषुयवौ मण्डलौ तौ त्रियवौ मध्य चूचुकौ ।
हनुभ्यां मूलदेशे तु पृथुत्वा गृह्यचांगुलं ।।
तद्विधा भाज्यन्यस्तव्यं ललाटे वक्र दीर्घता ।
नासोन्नताद्यवं चैकं गृह्यस्त?र्युग्मयोर्न्यसेत् ।।
मूले स्थौल्योर्थकन्देवि परतः पूर्ववद्यथा ।
गण्डोन्नताच्च ऋत्वशं गृह्यतं नेत्रयोर्न्यसेत् ।।
दैर्घ्योत्तदर्द्धं विस्तारं कर्णौलचांशगोलकौ ।
तत् पृथुत्वाच्च संगृह्य स्वभावस्थोदितो मया ।।
भूषणोज्ञान तन्मानं तद्योग्याल्लम्बनो नवा ।
ललाटं तुर्य भाज्यतिर्यक्कर्णान्त गोचरे ।।
कचसूत्रायतं कार्यं तत्प्रमाणान्नसंशयः ।
स्कन्धौ हीनौ प्रकर्तव्यौ गोलकार्द्धेन नान्यथा ।।
वाहो दैर्घ्यात् कलां गृह्य स्फिचौ वृत्तस्य कारणं ।
ग्रीवार्द्ध गोलकाद्वीना पृथुत्वादूर्द्धतो न्यसेत् ।।
प्रवाहुकात् तथा गृह्य दैर्घ्यं गोलकमानतः ।
ऊर्धोरर्द्धागुलं न्यस्य जानुनी च तथैव च ।।
पृथुत्वाच्च मिदं न्यस्य पौडीलं चार्द्धमंगुलं ।
पादौवोच्चै प्रकर्तव्यौ अङ्गुलार्द्धेन सुन्दरि ।।
तलपादौ समौकार्यौ पाष्णी गुल्फौ तथैव च ।
१८अ)
अंगुलीनां स्वनाहान्तु गृह्याष्टांसं च सुन्दरि ।।
दीर्घत्वेन न्यसेत् प्राज्ञः करयोस्तद्वदेव हि ।
शेषमन्यं यथोद्दिष्टं लक्षणं प्राक्प्रचोदितं ।।
लक्ष्यञ्च संप्रवक्ष्यामि स्त्रीमान च यथा भवेत् ।
किञ्चिन्नतो भवेत् स्कन्धौ सुमध्या च कृशोदरी ।।
सुकपोलासुनासा च सुप्रसन्ना सुद्धत्व(?) च ।
अलकावतंसे संयुक्ता विम्वाष्टादधरा सुभा ।।
किञ्चिदारक्ततरला विशालानेत्र य *? ला ।
नितम्बे किंकिनी भारलालना ललनालसा ।।
रूपं भैरव नाथस्य यथा चैव तथोच्यते ।
जूटो नवकला तस्य सर्वैर्वद्वस्तु मध्यतः ।।
ऊर्द्धांशे चन्द्रसंयुक्तो दैर्घ्यं द्विकलमानतः ।
कलाविस्तरमध्ये अग्रेर्द्धांगुलवद्यथा ।।
द्वितीयेन्द्रममाकरः कर्णौ लम्बौ त्रिगोलकौ ।
सार्द्धं वसु कलावक्त्रं ललाटं त्रिकलोच्यते ।।
नासाभूताङ्गुलादीर्घा सार्द्धगोलकमुच्छ्रिता ।
षडंगुलं वक्त्रभागं द्व्यगुलं यसृतं भवेत् ।।
दंष्ट्रे गोलकवद्वावह्ये तीक्ष्णाग्रे चन्द्रसंप्रभे ।
पञ्चाङ्गुला भवेद्ग्रीवेष्टनेन्दु कलामता ।।
स्कन्धौ सप्तांगुलदीर्घौ भुजौ सप्तदशांगुलौ ।
प्रवाहू दिक्कलाअदिर्घौ करौराष्टाङ्गुलौ समौ ।।
सार्द्धभूतांगुला मध्या द्वे न्ये पञ्चाङ्गुले समे ।
अर्द्धागुलं विनाकन्या तद्वज्जेष्टं प्रकल्पयेत् ।।
नखादीर्घांगुलोर्द्धा च वेष्टनं चानुपूर्वशः ।
ज्ञात्वा ज्ञात्वा प्रकर्तव्य भुजौ त्रिगुणनाहतः ।।
वक्षस्तु द्विकलोद्रेकं हृद्दैर्घ्यं चांगुलम्भवेत् ।
तद्वन्नाभिस्तथा सुष्क उरुञ्चैन्द्र कला भवेत् ।।
त्रयोदश कलाजंघे जातू पञ्चांगुलौ मतौ ।
अत्रापि त्रिगुणो नाहः पादौ पञ्चदशांगुलौ ।।
तिर्यगाग्राङ्गुलः सप्तमाध्यवैषट्प्रकीर्तितः ।
कूर्मपृठोन्नतौ पादौ तलावलक्तसप्रभौ ।।
१८ब्)
पूर्वादष्टांशदैर्घ्यत्वं पादागुलीः प्रकल्पयेत् ।
वेष्टनं चानुरूपेण यथाशोभा भवेत् यथ ।।
नवविंशकलानाहौ वक्षस्थानेषु सुन्दरि ।
सप्ताविंशाधतोनाहो विंशाष्टौ नाभिरुच्यते ।।
नाह एषः समाख्यातः कटि स्यात् त्रिंशगोलिका ।
लिङ्गोर्द्धं त्रिकल तस्य नाहः कलाचतुष्टयं ।।
वृषणौ द्विकलौ लम्बौ वेष्टनं द्विसमंगुलं ।
लक्षणं तन्मया प्रोक्तं प्रधानं लक्षमुच्यते ।।
नेत्रे वृत्तसमाकार्ये भ्रुवोक्तं चितसंनिभौ ।
ललाटे तृतीयं नेत्रं भ्रू?हीनं परिवर्तुलं ।।
कपालमालाशिरसि स्रग्दामत्वेन लम्बितं ।
जान्वं तं द्वादशकरं षोडषाष्टादशोथवा ।।
शूलैर्भिन्नान्वकोद्धृत्य द्वौ भुजौ परिकल्पयेत् ।
खड्गखेटौ धेनुवाणौ घण्टाडमरुकायोरपि ।।
कर्तृमुण्डौ करौ द्वौ तु पाशांकुशस्तथैव च ।
कपालखट्वाङ्गधरं द्विभुजं गजचर्मधृक् ।।
वरदाभय हस्तौ च व्याघ्रचर्मकटिस्थितं ।
नागैर्यज्ञपवीतं तु कोशैर्वा तत्प्रकीर्तितं ।।
पञ्चमुद्रासमायुक्तं भूतमातृसमावृतं ।
एकास्य पञ्चवक्त्रं वा तदा द्वे वामतो भवेत् ।।
दक्षिणे चैव द्वे कार्ये वक्त्रं मध्यं तु पञ्चमं ।
तद्रूपणैव सर्वम्वै विवृतास्य दंष्ट्राननं ।।
लेलिहारं सनासवारक्ष?पूर्णे भासुराः ।
भैरवोयं पृथक् कार्यो मातृमध्ये थवा भवेत् ।।
तासारूपं प्रवक्ष्यामि स्थिता चानुक्रमे यथा ।
विघ्नेशं पश्चिमं वक्त्रं गजवक्त्रं वृहोदरं ।।
पञ्चतालस्मृतो नाहः व्यालवद्धोदरं शुभं ।
मालंलकृतसङ्ग्रीवो भुजास्तुर्याक्यसूत्रधृक् ।।
कुठारकरसंयुक्तः सर्वयज्ञोपवीतिवान् ।
दन्तलड्डुकहस्तस्तु त्रिनेत्रो वामनाकृतिः ।।
पद्मासनश्च तत्रस्थो वीरासनमथापि वा ।
कृष्णमूषकसंस्था वा पद्माधस्ताथवा लिखेत् ।।
१९अ)
ब्रह्माणी चादितः कृत्वा पक्तिस्थाश्चोत्तरानना ।
नगरे ग्रामखेटे च पुरे वै प्रासादादिषु ।।
यतोदक्षिनदिग्भागे कर्तव्यास्तु शुभोदयाः ।
चतुर्वक्त्राविशालाक्षी पिङ्गाभामुकुटोन्नता ।।
साखक्षसूत्र करासौम्या कमण्डलुधराशुभा ।
वरदाभय हस्ता च कार्या चैव चतुर्भुजा ।।
मृगाजिनोत्तरीयो च द्विनेत्रा तु कज्जासना ।
पञ्चतालार्द्धतालेन नाहोजठरमण्डले ।।
ब्रह्मरूपधरां देवीं हंसस्थां वा प्रकल्पयेत् ।
त्रिनेत्रा चतुर्हस्ता च सौम्य वक्त्रासुरूपिणी ।।
शूलोद्यतकरादेवी वरदाभयपाणिनी ।
घण्टाडमरुकं चान्यं पुष्करं परिकल्पयेत् ।।
व्याघ्रचर्मांवरा चैव व्याघ्रचर्मोत्तरीयका ।
दुर्मुखस्था कजस्था वा रुद्ररूपेण चात्मना ।।
कन्यारूपधरा देवी षड्वक्त्राशिखिवाहना ।
द्विषट्करा तथाकार्या द्विभुजैकाननाथवा ।।
प्रसादाभवयतर्जन्या पद्मस्थाम्वा प्रकल्पयेत् ।
कार्तिके यस्य यद्रूपन्तद्रूपेणैव कारयेत् ।।
द्विरष्टवर्षाकारा रूपाढ्या वैष्णवी भवेत् ।
चतुर्भुजा सौम्यवक्त्रा सर्वालकारभूषिता ।।
शंखचक्रगदाहस्ता हलहस्तायशोभना ।
पक्षिराजस्थिता वाथ पद्मासनामथापि वा ।।
विष्णुरूपेण साकार्या सर्वासुरविमर्दनी ।
वाराही घोणवक्त्राभा याम्या वा चान्नकानना ।।
याम्यादशभूजाभीमा दंष्ट्रालाविकृतानना ।
खड्गखेटधनुर्वाणपाशांकुश सुदण्डधृक् ।।
कुठारकरपत्रञ्च मुषलञ्च तथैव च ।
यमरूपेण तन्वंगी वाराही वा वृहोदरा ।।
द्विभुजा च तथा कार्या खड्गदण्डसमन्विता ।
किन्तु सा मेघवर्णा च यमरूपं द्विधायतः ।।
वाराही महिषस्था च याम्याघोणासना भवेत् ।
पद्मस्था वा प्रकर्तव्या कृष्णा * * * * * *? ।।
१९ब्)
* * * * * * * *? सर्वाङ्गैः
सूक्ष्मनेत्रिका ।
लाच्छनं कारयेत् तस्या सुरूपा यौवनान्विता ।।
तिलकालकसंयुक्तावज्रहस्ता वरप्रदा ।
द्विभुजैकमुखा देवी एन्द्ररूपधरा शुभा ।।
पद्मस्था वा प्रकर्तव्यः तथा हस्त्यधतोलिखेत् ।
चामुण्डा यास्तु यद्रूपं तत्प्रवक्ष्याम्य शेषतः ।।
लक्ष्यमात्रेण देवेशे लक्षणं तस्यनो भवेत् ।
केषाञ्चिल्लक्षणं प्रोक्तं केषाञ्चिल्लक्षमात्रकं ।।
केषाञ्चिदुभयं देवि नेत्रकोषोद्भवायतः ।
चण्डरूपा तु चामुण्डा ज?रोफेतु समुत्थिता ।।
वृत्तानाकोटराक्षी च तृतीयं वृत्तमुन्नतं ।
ललाटे तत्प्रकर्तव्यं भ्रूहीनं भ्रासरूपिणं ।।
जटाज्वालाकृतिश्चोर्द्धा केशादावाग्नि वर्चसा ।
व्याडैर्वद्वललाटे च मुण्डमाला ततोपरि ।।
भग्ननासाहनुर्सुस्का गडौ कूपाकृती भवेत् ।
दीर्घग्रीवागिराला च त्रिकला तालनाहतः ।।
वेवांगुलाविवृतास्यादंष्ट्रालारक्तनिर्झरा ।
जिह्वांगुल द्वयं वाह्ये लेलिहारक्तसन्निभा ।।
चर्मास्थि सूत्रसंयुक्तौ भुजौ दीर्घौ करांगुलौ ।
नखादीर्घाग्रतस्तीक्ष्णास्तनौ लम्बौदशांगुलौ ।।
शिरालौ मांसहीनौ च उरः कङ्कालसन्निभं ।
नदी भ्रमणभग्नीभा निर्मासौदरनिम्नगा ।।
कटिः शुस्काति निर्मान्सा विवस्त्राघुर्घुरान्विता ।
निर्मासोरुस्तथाजानु जंघे दिर्घशिरान्विते ।।
अस्थिचर्मनिवद्धा च पादौ दीर्घांगुली तथा ।
गोणसै नूपुरौ तस्याः सपैर्वद्धा तु मेखला ।।
व्याघ्रचर्माम्वरा वापि गजचर्मोत्तरीयका ।
मुण्डमाला प्रलम्बांगी महाव्रतधरासुभा ।।
महाप्रेतासनस्था च महाचकसंयुता ।
रक्तपूर्ण पीबन्ती च खट्वाङ्गाङ्ग कृता शुभा ।।
मुण्डकर्तृकराभीमा करैकर्णविभूषणं ।
डिम्भैर्वापि प्रकर्तव्यं मघै(?)धाकुंडलं शुभं ।।
२०अ)
ग्रीवाकरौ तथा वाहू जानुकटिशिरोदरं ।
सर्पैर्वागोणसै वापि सर्वागं चाविभूषयेत् ।।
यथा भैरव रूपेण तथातां च प्रकल्पयेत् ।
चामुण्डा किन्तु निर्मांसास्त्रीरूपा च विशेषतः ।।
प्राङ्मुखो भैरवः कार्यो भृङ्गी वामांसवर्जितः ।
केशचर्म परिभ्रष्टः सुस्ककङ्काल सप्रभः ।।
त्रिनेत्रो योगयुक्तस्तु योगासनसुसयुतः ।
नाटेश्वरः प्रकर्तव्यः प्राक्सौम्ये व निर्मितः ।।
किंत्व सौताण्डवारम्भः भुजैर्वहु समाकुलः ।
अधोर्द्धदिग्मतास्ते तु दशादौ यावदिग्मता ।।
विशाखस्थानचरण अङ्गह्रासादिलास्य धृक् ।
प्रस्फुरद्वदनं शुभ्र मानग्रंमस्तकोन्नतः ।।
जटावन्धेन द्वौ कार्यौ भुजौ द्वौ चोर्द्ध चर्म धृक् ।
अन्यौ द्वौ तालिकाकार्यौ द्वौ चान्यौ शूलखड्ग धृक् ।।
खट्वाङ्गोद्यतपाणि च कपाले कृत हस्तकः ।
करणैर्द्रुतलयाद्यैश्चारुचारी गतादिशः ।।
एवं ज्ञात्वा प्रकर्तव्यं भुजसंख्यानुरूपतः ।
नन्दीदक्षिणतस्तद्वन् सुरङ्गवाद्य तत्परः ।।
वामतः कालसंनिख्य वंसवाद्य स नृत्यकः ।
वीणावाद्यदनगान्धर्वा सनृत्यागणनायकाः ।।
भृंग्याद्याराह्यातः सर्वे नृत्यगेयसमन्विताः ।
कारयेन्नाद्य रूपन्तु सर्वालङ्कारभूषितं ।।
मयूरासन षट्वक्त्रः कार्तिकेयः कुमारवत् ।
जवाकुसुमसंकाशः भुजैर्द्वादशमण्डितः ।।
द्वौ द्वौ पार्श्वयोर्वक्त्रं पृष्ठतश्चैव कल्पना ।
धनुवाणस्तथा शक्तिः पताकाकुक्कुटो परः ।।
घण्टाडमरुकं चाब्जं खड्गखेटस्तथैव च ।
वरदाभयहस्तञ्च द्वादशैवं प्रकल्पयेत् ।।
यदाचैकमुखं वालं द्विभुजं कारयेत् तदा ।
ललाटे चीरका वद्धः प्रसादाभय तर्जनी ।।
तालपत्र कृतौ कर्णौ ग्रीवा स कण्ठिका भवेत् ।
पादौ घुर्घुरमाला च कटौ स्यात् कटि मालिका ।।
२०ब्)
भिन्दि माला भुजाभ्यान्तु करौ कङ्कणभूषितौ ।
उभ्रम्वापि प्रकर्तव्य वीरासनमथापि वा ।।
पद्मस्थं शिखी चाधो वृहद्वक्षस्तनूदरः ।
सदा शिवस्य देवस्य विग्रहं चाधुना शृणु ।।
चतुर्गजापरिसंह चतुसंख्यासनौपरि ।
चतुःपादं कजार्द्धन्तु कर्णिकोपरि संस्थितं ।।
चतुर्वक्त्र चाष्टभुजं चन्द्रार्द्धकृतशेखरः ।
त्रिनेत्र ध्यानससम्पन्नपद्मासनसुसंस्थितः ।।
पार्श्वयो द्वौ मुखौ मध्ये द्रेश्यं त्रयं प्रकीर्तितं ।
चतुर्थ पृष्ठतो भाव्यं यतोद्रेश्य मुखं तु तत् ।।
विधिरयं समाख्यातो व्यक्तानां चतुराननां ।
षडष्टदशवक्त्राणां पृष्टतश्चैक कल्पना ।।
हस्तौ मुकुलिता कारौ हृत्स्थौ चैव प्रकल्पयेत् ।
नितम्वस्थोत्तानकौ द्वौ त्रिशूलं डमरुकं तथा ।।
रुद्राक्षमालासंयुक्तं पुस्तकं कर एव च ।
ना?मैकलीनदृक्कार्यो योगयुक्तः प्रसन्नधीः ।।
दक्षिणस्था श्रिया कार्या चामराद्यतहस्तिका ।
वामे सरस्वाती कार्या चामरोक्षपशोभना ।।
कर्तारं चाषसंलिख्य जानौ प्रणतसन्निभः ।
पुष्पैः पूर्णकरण्डैस्तु धूपहस्तप्रणामकृत् ।।
व्यक्ते विधिरयंख्यातो दातारानुकृतिर्भवेत् ।
सदाशिवत्वसंसिद्धं शिवं शुभमुदाहृतं ।।
सदाशिवकरं शान्तं सदाशिवस्तथओच्यते ।
उमामाहेश्वरौ कार्यौ यमलौ दिव्यरूपिणौ ।।
पृथग्भुतावामनस्थौ केकरान्योन्यवीक्षणौ ।
प्रसन्नावालासमं नेत्र वामोरुस्थाथवा उमा ।।
स्कन्धहस्ता स्थितो देवी चिवु हस्तो महेश्वरः ।
अधोवालोकयेद्रुद्रो देवी चोर्द्धावलोकना ।।
एकविम्बे द्वयं रूपं चार्द्धनारीश्वराथवा ।
वामाङ्गवस्त्रिया रूपं दक्षिणे हर एव च ।।
स्त्र्याभि नयनलक्षण कुचभार युतेन च ।
कृशोदर्ये द्वे सद्वस्त्रा अर्द्धोन्नतविवस्तकः ।।
२१अ)
पुंभावेन स्मृतो लक्षः जटामकुटशोभितः ।
हरिरुद्रौ तथा भूतौ वामदक्षिणकल्पनात् ।।
निम्नांगोहरिभूजौ द्वौ शंखचक्रविभूषितौ ।
रुद्रोन्नतः तथा भूतं शूलाक्षसूत्र धृक् करौ ।।
अर्द्धं जटालंमूर्द्ध्नस्तु किरीट्यर्द्धसमुज्वलं ।
व्यालयज्ञोपवीत्यर्द्धमालार्द्धेन विभूषितं ।।
अर्द्धनारीश्वररूपं हरिशङ्करयोस्तथा ।
उभ्रं रूपं प्रकर्तव्यं चासनस्थापि नैव च ।।
दुर्गारूपप्रवक्ष्यामि यथाशास्त्रस्य निश्चयः ।
एकवक्त्रा त्रिनेत्रा च भुजैविंशैस्तु संयुता ।।
सायुधासौम्यसंक्रुद्धा कृशोदर्याभिरूपिणी ।
खड्गखेटोधनुवाणौपविदण्डो तथैव च ।।
पाशांकुश गदा चैव ध्वजघण्टा च दर्पणं ।
क्रकचं शक्तिशूलञ्च कुठारामुद्गरस्तथा ।।
डमरुं चाभयं चैव महिषासुरमर्दनी ।
शिरच्छेदान्नराकारः खड्गहस्तः मुदारुणः ।।
उत्थितः तच्छिरो ग्राह्यं देव्या हस्तेन दर्शयेत् ।
असृग्वाराम्रवन्ती च भिःयतनाहिषमस्तकः ।।
शूलैभेद्यं तु तत्पृष्टं त्रिकटौ यह्नि नाहतं ।
सिंहासनोपरि कार्या पद्मे वाडभ्रसंस्थिता ।।
अम्बिकारूपसंपन्ना कौमारी सदृशा भवेत् ।
गन्धकपरिकौर्द्धाधस्तनौस्तस्यां प्रकल्पयेत् ।।
द्विभुजा च त्रिनेत्रा च वक्त्रैकाचन्द्रमसप्रभा ।
पद्मासना च तत्रस्था हस्तोत्तनातपश्विनी ।।
यतः पञ्चाग्निसंयुक्ता मोक्षसूत्राकृशोदरी ।
पञ्चाग्निसंप्रवक्ष्यामि यथाशास्त्रे विनिर्णयः ।।
मात्रापित्रादिकस्त्यागाः प्रथमस्त्वग्निरुच्यते ।
द्वितीयोग्रीस्मकालस्तु तृतीयो भास्करः स्मृतः ।।
चतुर्थस्तु निराहारः षष्टकालस्तु वा भवेत् ।
पञ्चमश्चाग्नि कुण्डे तु नित्यं होमरता भवेत् ।।
पञ्चाग्नि ग्रहमाख्यातं तन्तुकुण्डाग्नि पञ्चकं ।
श्रियो रूपमती वक्ष्ये श्रियार्थं कुरुते यथा ।।
पद्मासनस्था पद्मस्था पद्महस्तविभूषिता ।
२१ब्)
नितम्बो द्वौत्तानकौ द्वौ न्यत्कासौस्यानना शुभा ।।
पार्श्वयो करिणौ कार्यौ घटोद्यतकरोपरि ।
साभिषेकारविन्देन श्रियैवं श्रीप्रदा लिखेत् ।।
द्वारस्योर्द्धे गृहे वापि वृक्षैकेथ चतुष्पथे ।
महादेवं प्रवक्ष्यामि रुद्राष्टशतवौ वृतः ।।
स्वमतं चोच्छ्रयायामं द्विदशैर्भागभाजितं ।
सूर्यैकविस्तर कार्यो दीर्घोथ चतुरस्रकः ।।
षष्टियुग द्विशतं भद्रे पदं तत्र प्रसिद्ध्यध्यति ।
चतुःपञ्चाशकैर्वाह्ये शोभार्थं परिकोच्छ्रयः ।।
पद्ममालाविचित्रं वा सद्दारुघटमालिका ।
अधोर्द्धं त्रिपदं त्यज्य तद्वयोः पार्श्वयोरपि ।।
चत्वारिंशत् पदैर्मध्ये कारयेत् मूलरूपकं ।
षट्पदेन भवेत् पद्मं सिंहासिंनमथापि वा ।।
तृपञ्चपदकै देवं शेषशोभान्तर भवेत् ।
अधः पक्ष्या तु देवेशे मध्यादुभय षट्पदं ।।
धूपाधारञ्च नैवेद्यं पूर्णं पदद्वयं भवेत् ।
अन्यौ तु द्विपदौ यौ तु समखः कर्त्रस्तत्र वै ।।
प्राञ्जलि प्रणतौ तौ तु जाभ्यांमवनी गतौ ।
शेषाष्टोत्तर पदं यत् तत्र रुद्रान् प्रकल्पयेत् ।।
त्रिनेत्रा द्विभुजाः सर्वे नीलकण्ठैक वक्त्रकाः ।
त्रिशूलव्यग्रहस्तास्ते ज्ञानहस्तास्तदेक्षणाः ।।
वीरासन स्थिताः सर्वे योगासना अथापि वा ।
पद्मासनो भवेद् देव नीलकण्ठस्त्रिलोचनः ।।
करौ द्वौ कारेत् तस्य व्याख्यानोद्यतलीन दृक् ।
सर्वाभरणसंयुक्तो भुजङ्गैर्भुजभूषितः ।।
सहटा भासुराकारश्चन्द्रार्द्धकृतशेखरः ।
सौम्यरूपप्रसन्नश्च स्फुट त्यङ्कजसन्निभः ।।
उर्द्धं ये चतुरो भागा ह्र?सैकैकं तु कारयेत् ।
विंशभाग हृतो यस्तु तत् क्षेपञ्च यथा शृणु ।।
शोभातिर्यग्ददेद्भगं कौवद्भागेन कल्पना ।
चतुर्भागैः पुनस्तद्वच्चतुष्कौवत् प्रकल्पयेत् ।।
२२अ)
त्रिभागोर्द्धं तथा भूतं द्विभागात् पद्मकुड्मलं ।
त्रिभागैश्चाधतो देवि कीलकं परिकल्पयेत् ।।
विचित्रचित्र देव्यैरत्नमालादिकैः शिरः ।
मध्ये न च पदैर्देवि अहं तत्र समालिखेत् ।।
तद्रूपेण वरारोहे किं त्वहञ्च चतुभुजः ।
पदद्वादशकम्वक्ष्ये त्वमादि गणभृंगिकः ।।
कुमार ब्रह्मविष्णुञ्च रुद्रां षट्टत्ववासिनः ।
शेषे विद्याधराकार्या मालाहस्तास्तु तिर्यगाः ।।
उरसाधो शिरः पादौ सोपानाश्चाभ्रमध्यगाः ।
रुद्राणां संप्रवक्ष्यामि नाम तेषां पृथक् पृथक् ।।
वामदेवो महातेजा हलाहल तथैव च ।
त्वत् पृष्टा हि स्थिता ह्येते कुमारात् परतः शृणु ।।
पटरुद्रञ्च ज्येष्टञ्च गहनीसं तथैव च ।
अधश्चाष्टोत्तराणाञ्च कथयामि प्रति प्रति ।।
ऐशान्यादि स्थितास्ते तु गोमुत्री क्रमयोगतः ।
अमरेशं महाकालं गोकर्णं चाष्टहासकं ।।
संकुकर्णञ्च प्राजेशं क्रोधेशं भैरवं तथा ।
शंभुर्विभुग्गणाध्यक्षः त्र्यक्षस्त्रिदशवंदितः ।।
सम्बाहश्च विवाहश्च नतो लिप्स विचक्षणः ।
विद्येशो ज्ञानवान् मित्रज्ञानज्ञो वेदपारगः ।।
मातृपिंगलभूपाल वलि विद्याधिपः सुधीः ।
दुःखकृतरत्नधारी च जटामुकुटधारिणः ।।
निधीशो रूपवान् धन्यः सौम्यदेह प्रसाद कृत् ।
प्राकाशो लक्ष्मि वां कामः सूक्ष्मा तीक्ष्णः क्षपान्तकः ।।
शीघ्रोलघुवायुवेगः कपदीमेघवाहनः ।
पञ्चान्तकः पञ्चशिखः पाश हस्ता महावलः ।।
वलो हृति वलश्चैव दीर्घवाहु जलान्तकः ।
श्वेतश्च जयभद्रश्च वडवास्यः सुभीमकः ।।
निर्-ऋतो मारणो हन्ता क्रूरदृष्टिर्भयानकः ।
ऊर्द्धगेहे विरूपाक्षो धूमालोहितदंष्ट्रिवान् ।।
याम्यो मृत्युहरोधाता विधाता कर्तृरेव च ।
२२ब्)
कालोधर्मपतिर्योक्ता वियोक्ता च यम प्रियः ।।
अग्निरुद्रो हुताशी च पिङ्गलः खादकोहरः ।
ज्वलनो दहनो वक्त्रः भस्मान्तक क्षयान्तकौ ।।
कपालीशो अजो बुद्धो वज्रदेहः प्रमदकः ।
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।।
सुधैर्या ग्रसनः शर्वः पातालीशो वृषो वृषः ।
पालको वीर्यानंतश्च शुभ्रोलोहितको परः ।।
एते रुद्राः समाख्याताः पिंड्यद्दाविंशकं शतं ।
सैलैकः खण्डमाख्यातं चित्रहीनं तु कारयेत् ।।
काष्ठजे वातदाचित्रं त्रिखण्डं सन्धितं समं ।
किन्तु स्वजातिभि कार्यं तच्छल्यान्तरसन्धनं ।।
पत्रिकां वाद्यतः क्षील्य लोहकंटैर्विसन्धितः ।
पयोनिगमनन्तु भ्रकीलकान्नैकारयेत् ।।
काष्टजानां मयं न्यायो मूलं मुत्थासंधनं ।
अनन्तीशस्य यद्रूपं तत्प्रवक्ष्याम्यनुक्रमं ।।
आयामस्य त्रिभागूनं विस्तरञ्च भवेदिह ।
आयामचन्द्रवत् कृत्वा विस्तरं सूर्यवद् भवेत् ।।
चत्वारिंशति विभागैर्दारुं चैव गुणोर्द्धतः ।
भागैकं तलपट्टेन दैर्घात्सान्तयोः पुनः ।।
षट्त्रिंशतिभिर्भागैस्तु मध्येनन्तं प्रकल्पयेत् ।
भागष्टकेन पद्मं स्यात् सार्द्धभागैः प्रचोर्द्धतः ।।
भागाष्टादशकानन्तो यद्वसुद्विगुणं कुरु ।
अधोर्द्धं पट्टवत् कृत्वा द्विस्थाप्यकस्तथा भवेत् ।।
वामदक्षिणयोगेन सूक्ष्मश्चैव शिवोत्तमः ।
एकनेत्रैकरुद्रस्तु महाद्युतिस्त्रिमूर्तिकः ।।
श्रीकण्ठश्च शिखण्डी च वामाविन्धी? तथैव च ।
दातारौ चाधतो लिख्य शोभस्थाने तु सुन्दरि ।।
पद्माधोनालवद्भागः शेषशोभा च पट्टवत् ।
शिरोर्द्धं पूर्ववत् कृत्वा मध्येश्वरञ्च कारयेत् ।।
योगासनञ्च योगीन्द्रं योगाभ्यासरतः सुधीः ।
२३अ)
शेषं शोभा यथा यथा कार्या हंसो वाचाघ्मरा वृतः ।।
रुद्रास्त्रिनेत्रकाः सर्वे शूलपुस्तक हस्तकाः ।
जटामुकुटसंयुक्ताश्चन्द्रार्द्धकृतलांच्छनः ।।
पद्मासनस्थो भगवान् व्याख्यानोद्यत पाणिनः ।
शूलाक्षसूत्रसंयुक्तः त्रिनेत्रः सौम्यवक्त्रकः ।।
प्रतिमा भैरवस्यवतां प्रवक्ष्याम्यनुक्रमं ।
आयामं पक्षवत् कृत्वा दशभिर्विस्तरम् भवेत् ।।
त्रिपञ्च तिर्यकं भाज्य ऊर्द्धञ्चैव तथा भवेत् ।
त्रिभागं चोर्द्धतः स्थाप्य सद्वारुञ्च शतार्द्धकं ।।
तदन्तैकं कृतं पट्टं पुनस्तद्वद्युगान्तरं ।
पदपञ्चाशकैर्मध्ये भैरवं तत्र कारयेत् ।।
प्रभामण्डलकचोर्द्धं द्विभागैः परिकल्पयेत् ।
पद्मच्छेदं समाकारं वृत्तं वापि स उच्यते ।।
पञ्चविङ्सतिभिः काष्ठैः रूपं तत्र प्रकल्पयेत् ।
दशभिस्तु भवेत् पद्मं तुर्याधतलपट्टकं ।।
भागैकं नालवत् कुर्यात् मध्ये तद्वृत्तकं भवेत् ।
चत्वारिंशत् पदैर्यौ द्वौ पक्षौ तौ द्विगुणं कुरु ।।
षडन्तरं द्विभिन्नन्तु तत्र कुर्याद् विमातृणां ।
अधोर्द्धं पट्टवत् कृत्वा सर्वान्तरस्तथैव च ।।
वामदक्षिणयोगेन चामुण्डा च विनायकः ।
ऐन्द्राणी चैव वाराही वैष्णवी च कुमारिका ।।
माहेश्वरी च ब्रह्माणी दातारौ चाधतो मतो ।
तिर्यग् भाग द्वयं लोययमूर्द्धं चैव विनाशयेत् ।।
पूर्ववत् कारयेत् मूर्द्ध्नि चतुर्भागाधकीलकं ।
भागमात्रं भवेत् तिर्यक् शिरसो द्वै शिवो भवेत् ।।
शान्तपद्मासनासीनो योगयुक् ज्ञानरूपकः ।
चामुण्डा वा यदा मध्ये तत्स्थानै भृंगिनं कुरु ।।
शिवद्भैरवं कुर्यात् पूर्ववच्छेषसंस्थितिः ।
गणभृङ्गिनौ पदानो ऐशान्याग्नेयी वा भवेत् ।।
मेर्वाधि पेश्वरस्यैव रूपं वक्ष्यामि तत्वतः ।
आयामस्य त्रिभागूनं विस्तरं क्षेत्रमुच्यते ।।
कलासमंविभक्ते तु वहिः स्याद् दारुवर्त्तना ।
२३ब्)
चतुःपञ्चाशकैः कोष्टैः रूपं गुणशिरो भवेत् ।।
दार्वं नैकेन पट्टः स्याद् युगान्ते तद्वदेवहिः ।
षष्ट्यान्ते चेश्वरं कुर्यात् पद्मं द्वादश भागिनं ।।
प्रभो द्वे च तथा भूता षट्त्रिंशद्भिः शिवात्मकं ।
शिरो द्वे पूर्ववत् कृत्वा तन्मध्ये तु सदाशिवं ।।
भागैकादशिकौ यौ द्वौ द्विगुणौ तौ प्रकल्पयेत् ।
अधोर्द्धं पट्टवत कृत्वा पाला तत्राष्टभागिका ।।
ब्रह्मा चैव तथैशानः कुवेरो वायुरेव च ।
वरुणो निर्-ऋतिश्चैव यमश्चाग्निस्तथैव च ।।
इन्द्राविष्णुस्तथा भूतः वामदक्षिणयोगतः ।
मध्ये चैवेश्वरं कुर्यात् त्रिनेत्रं शूलपाणिनः ।।
सर्पयज्ञोपवीतीनं सर्पैर्वाहु विभूषितं ।
जटामकुटसंयुक्तं चन्दार्द्धकृतशेखरं ।।
नीलकंण्ठोर्द्ध लिङ्गं तु व्याघ्रचर्मपरिच्छदं ।
चतुर्भुजैकवक्त्रञ्च दानाभय करन्तथा ।।
अक्षसूत्रकरं चैव पद्मासनसुसंस्थितं ।
चतुर्मुखा भवेद् ब्रह्मा लम्बकूर्चः सुमेखली ।।
मृगाजिनोत्तरीयस्तु जटावद्धोर्द्धजूटकः ।
अग्निवर्णे नासौ कार्यो वृहत् कुक्षिश्चतुर्भुजः ।।
दण्डकाष्ठाक्षसूत्रञ्च कमण्डलु करोद्यतः ।
पञ्चताल स्मृतो नाहः उदरे तस्य पार्वति ।।
हंसासनसमारूढः सौम्यानन शुभेक्षणः ।
ईशरूप यथापूर्वं किन्वानत्वे व्यस्थितः ।।
सोमो विमानमारूढः बृहज्जठरमण्डलः ।
सप्ततालार्द्ध तालेन युक्तं नाहं प्रकल्पयेत् ।।
गदाहस्तो महाकायः सर्वालङ्कारभूषितः ।
निधानं चाधतो लिख्य त्रिपञ्चसप्तमेव च ।।
मृगासनांकुशीवायुः कुञ्चित भ्रूकृशोदरः ।
ध्वजहस्तोति तन्वङ्गा रूक्षञ्च लम्बभावकः ।।
नक्रस्थो वरुणः कार्यो दिव्यालंकारभूषितः ।
सौम्यवक्त्रोति संपूर्णः पाशहस्तोति शोभनः ।।
२४अ)
शवस्कन्ध समारूढो रक्षोराजा प्रकीर्तितः ।
राक्षसाकृति मूर्तिश्च खड्गहस्तोति दारुणः ।।
महिषस्थोग्र रूपस्तु दण्डहस्तोति भासुरः ।
संक्रूर्द्धकुटिले मत्रे वक्त्रं चातीव कर्कसं ।।
छागासनसमारूढः शक्तिहस्तो हुतासनः ।
ज्वालाकारप्रभौर्द्धस्तुस्तीक्ष्णरूपोति दारुणः ।।
ऐरावतसमारूढो वज्रहस्तोत्पराधिपः ।
नेत्राणां च सहस्रेणसर्वांगेषु लांच्छितः ।।
सर्वालंकारसंयुक्तो मूर्द्ध्निमकुटभूषितः ।
च्छत्रोपरिशितं दिव्यं हेमदण्डसमन्वितं ।।
द्विजराजे स्थितो विष्णुः सर्वरत्नविभूषितः ।
चतुर्भुजः सुरूपी च शंखचक्रगदाधरः ।।
हलोद्यतकरश्चैव करीकरसमप्रभः ।
तन्वङ्गन्तु वृहद्वक्षः दातारौ दारुके तथा ।।
उपरिष्टाद्यथा शोभा सिद्धविद्याधराकुलाः ।
विकारात्म तथाक्षेत्रं तद् भगैर्साधचोत्ततः ।।
तथारूपेण कर्तव्यं उभ्रो वा गरुडासनः ।
दशावतारं तत्पार्श्वे संज्ञानुक्रम उच्यते ।।
लक्ष्यलक्षणयोर्देवि दशाना शृणुसांप्रतं ।
ऊर्द्धाधक्रमयोगेन वामदक्षिणयोस्तथा ।।
मत्स्यं कूर्मोवराहश्च नारसिंहोथ वामनः ।
रामोरामश्च रामश्च वुद्धः कल्की च ते दशः ।।
स्वक्षेत्रं सप्तधा भाज्य भागैके वक्त्रनिर्गमः ।
भागद्वये तथा पुच्छनिर्गमं कारयेद् बुधः ।।
द्विभागान्तकरं कृत्वा भ्रामयेत् पञ्चभागिकं ।
खण्डचन्द्रविधानेन पक्षमेकं प्रसिद्ध्यति ।।
द्वितीयञ्च तथाभूतं पुच्छध्वजाग्रसंन्निभं ।
तस्माद्भागद्वयं त्यज्य चरणं तत्समं भवेत् ।।
मूलेग्रतः कृमञ्चैव अवक्त्रं समुखं कुरु ।
वक्त्राकारं तथा भूतं चाक्षिणी द्वियवो भ्रमः ।।
अर्द्धचंद्रसमाकारैः कोष्ठकैः स्वाङ्गकल्पना ।
त्वच भूतं स्फुटं मीनं शालरूपं प्रकीर्तितः ।।
२४ब्)
चक्राङ्कित शिरो द्वेशे तेन विप्रै न भक्ष्यते ।
कच्छपस्य तथैवेह रूपकं प्रवदामिते ।।
स्वक्षेत्रं वेदवत् कृत्वा कर्णसूत्रं वहिर्नयेत् ।
गुणवत् तद् विभक्ते तु त्यजैकं भ्रामयेत् समं ।।
द्विभागं चन्द्रवत् कृत्वा प्रवेशं वक्ररूपिणं ।
तत्रिभागात् ततो भ्राम्य चक्राकारान्त स्वस्तिकं ।।
तस्मात् करांघ्रयः सन्धौ चक्रातं निर्गमं मनात् ।
भागमात्रं भवेद् ग्रीवा क्षेत्रा द्वेदांशतो वहिः ।।
नेत्राद्विकं शिरो वृत्तं नेत्रे यवऽत्रयन्तथा ।
नेत्रान्ते श्रवणो कल्प्य द्वियवं चन्द्ररूपिणं ।।
मुखाकारं समं कृत्वा हृदं पृष्टोन्नतं शुभं ।
वराहस्य तु यद् रूपं वक्त्रमानञ्च कथ्यते ।।
अष्टनेत्रं स्मृतं वक्त्रं दीर्घत्वेन च सुन्दरि ।
सप्तांगुलंहन्तदैर्ग्यं सृक् वणी च द्विरंगुले ।।
सप्तांगुलं भवेद् वक्त्रं द्विजौ श्वेतांगुल द्वये ।
दीर्घ तु नाह मूले तु चतुरंगुलमानतः ।।
वक्त्रौ तौ अग्रतस्तीक्ष्णै नासारन्ध्रन्तु गोलके ।
वृत्तं तदग्रे मध्ये च अर्द्धर्द्धं शोभनं यथा ।।
सौवर्ण कुसुमाभासं नासाग्रं प्रस्फुरच्चलं ।
सार्द्धांगुले चाक्षिणी द्वे वक्त्रे तेग्रे मनाम् भवेत् ।।
कर्णौ द्विगोलका यामौ चोच्चौतौ परिकल्पयेत् ।
तयोरन्तरमूर्द्ध्निस्याच्चतुगोलकविस्तृतं ।।
द्विगोलकोन्नतं मूर्द्ध्नि ग्रीवा चाष्टाङ्गुला भवेत् ।
दक्षहस्ते श्रियो रूपं वामे वा च गूहितं ।।
वक्षस्थं धार्यमाणं तु मुखं चोर्द्धं मनाद् भवेत् ।
पृथिवीपादलग्ना तु शंखचक्रे करद्वये ।।
शेषांगं वैष्णवं तस्य किन्तु ह्रसांगकोभ्रकः ।
नारसिंहस्य वक्त्रं तु तिर्यक् चाष्टकला भवेत् ।।
षट्कलं दीर्घमाख्यातं मुखं त्रिकलविस्तरं ।
द्विकलं वितृतं तस्य द्विजौ द्वौ वक्तनिसृतौ ।।
कुन्दस्य कलिवच्छेषा केशरोर्द्ध श्रुतिस्तथा ।
उत्फुल्लमाननं शुभ्रं नेत्रे वृत्तंगुलं भ्रमात् ।।
२५अ)
भ्रूभङ्ग कुटिलार्द्धस्तु स्कन्धौ बहिश्चतुः कलौ ।
ग्रीवांगुल विहीना च वेष्टनं तु कलाधिकं ।।
सर्वाङ्गो भैरवाकारं पुष्टत्वेन प्रकल्पयेत् ।
करौ तत्किन्तु वृत्ताभौ गदाचक्रधरौ तथा ।।
हिरण्यकशिपोर्वक्षे द्वयोर्नखविदारितौ ।
रक्तधारास्रवंत्यीधः प्रलम्बभुजपंजरौ ।।
छुरिकाहस्तलम्बेन पादलम्बशिरस्तथा ।
जानुके मृतवद्दैत्या नारसिंहस्ततोच्यते ।।
एकपादोभ्रकं शुभ्रं चान्यैनांगुष्ठको भुवि ।
वामनस्य तु यद्वक्त्रं कलासप्तायतं भवेत् ।।
कर्णयोरन्तरन्तस्य दशनेत्रं प्रकीर्तितं ।
भ्रूसूत्रादवदुर्या च द्विकलञ्चाधिकं भवेत् ।।
चतुर्विंश कलानाहः शिरोवृत्तं घटाकृतिः ।
ग्रीवात्रिरङ्गुलान्तस्य वेष्टनं पञ्चविंशकैः ।।
अंसंद्विगोलकं विद्धि यन्त्रत्रं वाहुरुच्यते ।
सप्तनेत्राय वाहुस्तु करवै गोलक त्रयं ।।
अंगुलीनान्तु सर्वाशां चतुर्थासन हीनता ।
दैर्घ्यादुत्कृत्यनाहोत्र पर्वपर्वैषु कल्पना ।।
वाहूयवाङ्को यो नाहः पूर्ववद्गुणसंख्यया ।
हृत्नालाङ्गालकं हृत्य पृथुत्वं तत्र कल्पयेत् ।।
हृन्नाभ्येकन्तथा गृह्यनाभौ तिर्यक् प्रकल्पयेत् ।
नाभिस्रष्टान्तरे नेत्रं गृह्यन्तत् कटि विस्तरं ।।
ऊरुनेत्र द्वयं गृह्य पृथुत्वं तत्र कल्पयेत् ।
दैर्घ्याज्जंघे तथा गृह्य स्थौल्येन तु प्रकल्पयेत् ।।
पादो दैर्घ्यात् कलाहीनौ कृत्वा तिर्यक् प्रकल्पयेत् ।
अंगुलीनां षडंशं तु गृह्यस्थौल्येन कल्पयेत् ।।
स्फिचौ वृत्त सुपीनौ तु जठरं चाति वर्तुलं ।
कर्णौ सर्पफणा?कारौ पासौ चात्रि प्रांलंबकौ ।।
कपदेवस्मृतादन्तां मुखरोतीवचञ्चला ।
कमण्डलु करश्चैव दण्डकाष्ठकरस्तथा ।।
सोत्तरीय द्विजाकारो वलिवन्धन तत्परः ।
अग्रतो वलिराजन्तु षट्टभागात्मके लिखेत् ।।
२५ब्)
वामनस्य ददेद् दानं करकीकरसंयुतः ।
लक्ष्यं चैव प्रवक्ष्यामि वलिवामनयोरपि ।।
कपटवदुसुचाटुर्वामनः स्वल्परूपी ।
स्वरमधुरनिनादी सोमवेदाङ्गिरं तं ।।
प्रविशतिसभमध्ये भ्रेपदं प्रार्थयन्तो ।
विघटति वलियज्ञं विप्ररूपीवविष्णुः ।।
तदात्रिविक्रमोरामः संजातस्तु सुरूपिनः ।
चतुर्भुजस्तथा भूत आयुधं च तथैव च ।।
एकपादस्थितो भूमौ द्वितीये नाम्बरासृतः ।
पृथव्या कलन हेत्वर्थं वलिवन्धन तत्परः ।।
गाण्डीवीरामस्तुनश्च जटावक्लधारकः ।
द्विभुजोयति रूपस्तु धनुःसरकरस्तथा ।।
अन्यपरशु रामश्च यतो तत्करलांगली ।
उभ्रो वाचासनासीनः कर्तव्यस्तु सुरूपकः ।।
बुद्धः पद्मासनः कार्या हस्तोत्तानसमाधिना ।
प्रलम्बश्रवणः सौम्यः कक्षावासस्तु चीवरः ।।
मणियुग्घृदयं तस्य नासालीनस्तु चक्षुषा ।
हस्तौ पादौ च पद्माङ्कै किञ्चित् प्रहसिताननः ।।
स्वरूपश्चित् स्वभावस्तु करुणैक गतोमनः ।
मुखं चाति च रम्यं तु सद्यकमलसंनिभं ।।
कल्की च कर्कशो भावो यथाम्लेच्छ वपु स्थितः ।
तूणी च पृष्ठतो युक्तः करे वै ससरं धनुः ।।
ब्राह्मणीकुलसंभूतो विप्ररूपी च माधवः ।
शिरार्द्ध च परो विष्णुः शान्तरूपं प्रकल्पयेत् ।।
अधस्ताद् दारुके दाता पूर्ववत् परिकल्पयेत् ।
पिङ्गलोवाच ।।
किमर्थं दशधा विष्णुः परापरः कथम्वद ।।
भैरव उवाच ।।
ब्रह्माविष्णुश्च रुद्रश्च त्रयो देवस्त्रियः प्रभुः ।
मेरुमासृत्यवर्तन्ते ब्रह्माण्डान्तं गतेषु च ।।
द्वयोरपीश्वरः कर्ता ब्रह्मा वै भुवनेश्वरः ।
युगसंस्थापनर्थाय विष्णुभुवनपालकः ।।
आसीदे कार्णवे घोरे सर्वतः संप्लुतोदके ।
२६अ)
मत्स्यरूपं समासाद्य क्रीडार्थं समुपागतः ।।
तस्मिन्यतित मार्कण्ड सुजीवी मुनिरूत्तमः ।
तरंगलीलालीलन्तः न किञ्चि तत्र संश्रयः ।।
तयोस्तु दशनं यात ज्ञानं चैव परस्परं ।
मार्कण्डे न ततो व्रातं पृथिव्यार्थं महासुरः ।।
विष्णुनापि ततो बुध्वा कुर्मरूपमुपागतं ।
त्वरिताधो गतः कुर्मो यत्रासौ पृथिवी स्वयं ।।
तत्वरूपं परित्यज्यस्त्रीरूपैण श्रियो सह ।
कूष्मांडाधि पतिर्यत्र इज्यादि करणै स्थिता ।।
ते दृष्ट्वा च ततः कूर्मः स्थितो वाराह रूपधृक् ।
मुखमात्रेण देवेशे सर्वांगैर्विष्णुरूपिणं ।।
तं दृष्ट्वा च श्रिया देवी हृष्टा चोरसि संस्थिता ।
पृथिवी च ततो पादौ प्रणताशरणंगता ।।
पादे कृत्वा तु पृथिवीं कराभ्यां श्रियं धार्य च ।
तरसा चोत्थितो दृष्ट घोणरूपी जनार्दनः ।।
मार्कण्डस्य समीपे तु यावन्न प्रोच्यते तु सः ।
तावत् सा पृथिवी साक्षात् तत्वरूपा व्यवस्थिता ।।
सप्तद्विपाः समुद्राश्च स शैलवनकानना ।
मेरुं च ध्रुवकं कृत्वा लोकास्तव व्यवस्थिता ।।
देवगन्धर्वसिद्धाश्च नक्षत्राणि ग्रहास्तथा ।
ऋषयोर्विघ्नवेताला मानुषाद्यास्तथैव च ।।
कृतादौ युगसंहाश्च सनायकमहीतले ।
हिरण्यकसिपू राजा कृते चैव महासुरः ।।
तस्य चावध्यकं दृष्ट्वा सिंहरूपं च सृष्टवान् ।
तस्य पौत्रो वलिर्नाम त्यागी धर्म विसारदः ।।
तस्य बन्धन हेत्वर्थं विष्णुवामतांगतः ।
संध्याप्राप्ति कृतान्ते च वलिसंयनाय च ।।
रामरूपी ततो विष्णुः विक्रमत्वेन संस्थितः ।
संध्यान्ते युगस्त्रेता आसुरानेकसंकुला ।।
अनिवद्ध प्रभुं दृष्ट्वा रावणस्य च धाय च ।
गाण्डी वीरामसंजातः मायारूपी यतो हरिः ।।
त्रेतांते च पुनः संध्या कार्तवीर्यार्जुनः स्थितः ।
सहस्रभुजसंयुक्तो ब्रह्माण्डे नास्ति तत्समः ।।
२६ब्)
भुजानाकर्तनार्थाय रामपरशुधारकः ।
द्वापरे च ततः प्राप्तेः शंखचक्रगदाधरः ।।
चतुर्भुजः स्वयं विष्णुः पाण्डवानामति प्रियः ।
तेषामन्तेकलिर्नामः युगोधर्मविवर्जितः ।।
दैत्यादेर्निधनं दृष्ट्वा सुराश्चैव निकण्टकाः ।
स्वधर्मनियमार्थाय बुद्धकारुणिको मतः ।।
तस्याप्यन्ते महादेवि युगं चाण्डालविश्रुतं ।
द्विजादिव्यवहारं तु वर्णावर्णं न विद्यते ।।
भक्षाभक्षं न तत्रैव धर्माधर्मस्तथैव च ।
युगानां चोपसंहारः पुनः स्थापनाय च ।।
ब्रह्माणः कल्किको नाम स्वयं विष्णुरूपागतः ।
अनेन च विधानेन यावदिंद्रा चतुर्दशः ।।
क्रीडार्थं दशधा रूपं केशवो जगति स्थितः ।
यावद्ब्रह्माविलीयेत ब्रह्माण्डैः सह पार्वति ।।
तावत् स विरमो भूत्वा शान्तरूपी परन्ततः ।
शिवस्योर्द्धशरीरं वा परत्वन्तेन चोच्यते ।।
पृथग्रूपो यदा ब्रह्मा क्षेत्रं सूर्यात्मकं भवेत् ।
सट्वारुशिरसा चैव पूर्ववत् परिकल्पयेत् ।।
भागभागान्तरे यद्वत् पक्षौ यद्वा विकल्पनाः ।
चतुर्भागात्मको ब्रह्मा सार्द्धभागेन पंकजं ।।
अधोर्द्धपट्टवत् कुर्याच्चोर्द्ध भागे प्रभा भवेत् ।
सप्तभागौ च यो पक्षा वधोर्द्ध पट्टवद् भवेत् ।।
द्वयांतरं पुनस्तुर्यं तत्र कुर्याद्विजद्वयं ।
गायत्री चैव सावित्री ब्रह्मा मध्ये च पूर्ववत् ।।
पद्मारूढः स्थितञ्चैव हंसासनमथापि वा ।
उपरिष्टात् परो ब्रह्मा सान्तरूपं प्रकल्पयेत् ।।
इन्द्रो वा राजलीलस्तु पूर्ववन् मध्य संस्थितः ।
रम्भातिलोत्तमा चैव श्रिया चैव सरस्वती ।।
पार्श्वे चावहृता ह्येता गन्धर्व वा द्वयं भवेत् ।
अग्निर्वापि यदा मध्ये पूर्ववद्रूप कल्पितं ।।
तदा पक्षौ प्रकर्तव्यौ तेजिनी ज्वालिनीति च ।
दहनी शोषणी चैव तद्रूपेण प्रकीर्तिताः ।।
२७अ)
यमं वा पूर्ववन्मध्ये काल पासौ तु पक्षयोः ।
दीनंदुतो तथा भूतौ प्रकर्तव्यौ वरानने ।।
पितरं वायदा पूर्वं मध्ये चैव प्रकल्पयेत् ।
राक्षसो वृतपक्षस्तु तद्रूपं च चतुष्टयं ।।
क्रूरोभीमश्च उग्रश्च दुर्निरीक्षस्तथैव च ।
वरुणं वा यदा मध्ये पूर्वरूपेण कारयेत् ।।
चत्वार सागरांतस्थं तद्रूपेण प्रकल्पयेत् ।
वायुर्मध्ये यदा पूर्वं पक्षौ तत्परिचारकौ ।।
व्यूहनीकम्पनी चैव तस्य शक्ति द्वयं लिखेत् ।
तद्रूपेण द्वयं चान्य तिर्यगो वहनस्तथा ।।
मध्ये चापि तथा सोम यक्षिणी द्वय यक्षयोः ।
यक्ष द्वयं तथा भूतं नामतत्वधुना शृणु ।।
जंभलोधृत राष्ट्रश्च धनिनी सोमिनी तथा ।
इशानो यदा मध्ये पक्षौ स्कन्दवो विनायकौ ।।
गङ्गा चैव तथा दुर्गा कर्तव्ये तु वरानने ।
एवं संस्थानिकैः सर्वैः क्वचिद् रूपैक लक्षणं ।।
आदित्यस्य यथारूपं ग्रहचक्रे व्यवस्थितं ।
तद्भागभाजिते क्षेत्रे यत्सू पृ?द्विगुणं कुरुः ।।
अधश्चैकं विनाशे तदूर्ध द्वयन्तथैव च ।
द्वयान्तरन्तथा भूतं तत्र कुर्यात् ग्रहाष्टकं ।।
वामदक्षिणयोगेन सोमाद्याकेतुरावधिः ।
रूपन्तेषां प्रवक्ष्यामि सूर्यादीनां यथा भवेत् ।।
माया न चरणः सूर्यः कवचांगी स कुण्डली ।
करौ पद्म वृतौ कार्यौ त्रिनेत्रं तु भवेच्छुभः ।।
उभ्रो वा वासनासीनः कर्तव्यस्तु सुरूपकः ।
शान्तरूपी तथा सोम अर्द्धचन्द्रासने स्थितः ।।
कर्कसः पीतरूपस्तु भौमो वा * * * *? तः ।
वालाकारो वृहद्वक्षो बुधश्चैवासने तथा ।।
पद्मासन स्थितश्चैव शान्तरूपो वृहस्पतिः ।
एकनेत्रस्तथा शुक्रश्चासने च व्यवस्थितः ।।
अधो दृष्टिस्तथा क्रूरः शनिथी रासने स्थितः ।
अर्द्धाकाय? स्मृतो राहुदष्ट्रालोविताननः ।।
२७ब्)
???????
(योगिण्यासिन्यग् दृग्धा अधोदृष्टिस्तथा भवेत् । चतुर्वक्त्रास्तथो देव्यः
संपूर्णा वयवः शुभाः द्विरष्टवर्धाकाराः स्वागमे च यथोदिताः ।
किन्नराविविधाकाराः यदाव्याघ्रा ननास्तथा ।
गवाशुख्वा(?) न वक्त्राण्ड काकोलूक मृगाननाः । कपिरूपा
वृ)
????????
स्थूलभ्रूचिबुनासश्च नेत्र चैवाधरस्तथा ।
कैतुश्चैवोग्र रूपस्तु सपूर्णो वयवस्थितः ।
वद्धाञ्जलि स केशस्तु राहुचंश्चक्र समुद्गरः ।।
सर्वविमानमारूढास्सर्वालङ्कारभूषिताः ।
सोमाद्याशनिश्चरान्ताश्च कमण्डलु करास्तथा ।।
सोपदेशी तथाचान्यस्त्वक्षमालाविभूषितः ।
रथस्थो वा यदा सूर्यस्तदाधोश्चो मुनिर्भवेत् ।।
क्रमरूपाः प्रकर्तव्याः सारथिचानुरूपरि ।
साखालिक कृतो मूर्ध्नि संयम्याश्चात्ररथाग्रतः ।।
श्वप्रतीहारसंयुक्तो रेवन्तस्तुरगामृतः ।
प्रलम्ब भुजपादश्च करोरूच सुकर्कशः ।।
नागानां रूपकं वक्षे ततूर्द्धे दिव्यरूपिणः ।
अनन्ताद्याः स्मृता नागाः कुलाष्टक स्फटोद्वहाः ।।
एकस्त्रिणि तथा पञ्च सप्तांता युग्मके स्थिताः ।
द्विचतुर्थस्तथा षष्ठः युग्मं चैव न कारयेत् ।।
मणियुक्तं स्मृतं भोगं कट्यधः पुच्छरूपिणः ।
रत्नाभरणसंयुक्ता नागिन्यश्च वराननाः ।।
कट्यधः पुच्छकं तासां कृशमध्याकुचोन्नताः ।
यक्षिण्यौ दीर्घवक्त्राश्च अप्सरी चन्द्र सप्रभा ।।
विद्याधराः प्रकर्तव्यो मालाहस्ताभ्रके स्थिताः ।
उरः पादशिरसस्तु खेटी पादास्तथैव च ।।
खड्गहस्तास्तु गन्धर्वा क्रमरूपेण संस्थिताः ।
किन्नरावीण हस्तास्तु गणाश्चैव सुरूपिणः ।।
नराकृतिधरः यक्षी ज्ञेयाः किं पुरुषास्तथा ।
किंकराः कुटिलकेशा वर्वराकारसंनिभाः ।।
सदंष्ट्राक्षेत्रपालास्तु वृहत्कुक्षि प्रलम्बकाः ।
काद्यखट्वाङ्गसंयुक्ता भूताद्याश्च सराक्षसाः ।।
दीनवक्त्रास्मृता भूता दीर्घवक्त्रा पिशाचकाः ।
राक्षसाघोररूपास्तु नखादीर्घा सदंष्त्रकाः ।।
कुब्जरूपं प्रवक्ष्यामि खञ्जीरूपं तथैव च ।
२८अ)
नाभिसुष्कान्तरे नेत्रं गृह्य हृद्द्विकलं तथा ।।
वक्षस्थलोन्नतं कल्प्य पृष्ठभग्नास्ततोर्द्धतः ।
चिपिटाश्च वृहद्वक्षास्तिर्यक् पादाश्च खंजकाः ।।
जानु भग्नाभुजा कौल मुखाश्चातीवभासुराः ।
कर्माशय फलं वुध्वा वक्त्रहीना विमध्यगाः ।।
शिरोद्या?तिर्यका क्रूरा च्छिन्ननासांगपादकाः ।
करांगुलि विहीनाश्च कुक्षिच्छिद्रा कृशोदराः ।।
एवमाद्यानि रूपाणि कर्तव्यानि हिताहितैः ।।
इति ब्रह्मजामले जयद्रथाधिकारे पिङ्गलामते प्रतिमाधिकारो नाम
प्रथमप्रकरणश्चतुर्थः ।।
पिङ्गल उवाच ।।
पटलक्षणकं देव फलके वा तथैव च ।
वर्णकानाम्विभागन्तु प्रतिमा चित्रणे तथा ।।
देवतानावर्णकं ब्रूहि शिवादिव्यकुरूपिणां ।
भैरव उवाच ।।
भोगमोक्षप्रसिद्ध्यर्थं पटं कार्पासिकं वरं ।।
कोशजाद्यान्यथा देवि विपरीतादि साधने ।
प्रेतवस्त्रादिकं श्लक्ष्णं सदसंद्विस्त्रिक्षालितं ।।
खलितं पिट्टितं मृद्यं शंखाद्येन सुशोभने ।
तिन्तटीवीजं संगृह्य सुश्चिन्नं पिषयेद् बुधः ।।
तस्योर्द्धं खर्परं पिष्ट्वा चेकी कृत्वा तु मर्दयेत् ।
स्वच्छोदकेन चालोढ्य तेन वस्त्र प्रलेपयेत् ।।
वज्रलेपः स्मृतो ह्येष पुनः पुनः समाचरेत् ।
प्रतिमा ध्वजस्यैव फलके चान्यथा शृणु ।।
वाल्मीक मृत्तिकां गृह्य धान्यभक्तसमं पिबेत् ।
उदकेन पुनर्लोड्य कुंचिकेन तु लेपयेत् ।।
शुष्के शुष्के पुनर्लेप्यं फलके प्रतिमापिवा ।
मध्य च फलविल्वस्य रालबीजसमुद्भवं ।।
वर्णकं मर्दयेत् तेन पञ्चसप्तदिनानि च ।
कटिकाशुक्लवर्णे तु रक्तं दरदगेरिके ।।
??????????
सिन्दूरञ्च तथा पीतं तालं चैव
??????????
२८ब्)
?????
* * *? दंष्ट्राल्योवताननः ।।
?????
स्थूलभ्रूचिबुनासश्च नेत्रे चैवाधरस्तथा ।
केतुश्चैवोग्र रूपस्तु सपूर्णावयवस्थितः ।।
वद्धाञ्जलि स केशस्तु राहुश्चक्र समुद्गरः ।
सर्वे विमानमारूढान्सर्वालङ्कारभूषिताः ।।
सोमाद्याशनिश्चरान्नाश्च कमण्डलुकरास्तथा ।
सोपदेशी तथा चान्यस्त्वक्षमालाविभूषितः ।।
रथस्था वा यदा सूर्यस्तदाधोश्चो मुनिर्भवेत् ।
क्रमरूपाः प्रकर्तव्याः सारथि चात्रं रूपरि ।।
सखोलिक कृतो मूर्ध्नि संयम्याश्चात्ररथाग्रतः ।
श्वप्रतीहासंयुक्तो चतुन्तस्तु * *? सृतः ।।
प्रलम्बभुजपादश्च करोरूसुकर्कशः ।
नागानां रूपकं वक्षे तनूर्द्धे दिव्यरूपिणः ।।
अनन्ताद्याः स्मृता नागाः कुलाष्टक स्फटोद्वहाः ।
एकस्त्रीणि तथा पञ्च सप्तां तां युग्मके स्थिताः ।।
द्विचतुर्थस्तथा षष्ठः युग्मश्चैव न कारयेत् ।
मणियुक्तं स्मृतं भोगं कट्यधः(?) पुच्छरूपिणः ।।
रत्नाभरणसंयुक्तो नागिन्यश्च वराननाः ।
कट्यधः पुच्छकं तासां कृशमध्याकुचोन्नताः ।।
यक्षिण्यो दीर्घवक्त्राश्च अप्सरी चन्द्र सप्रभा ।
विद्याधराः प्रकर्तव्यो मालाहस्ताभ्रके स्थिताः ।।
उरः पादशिरसस्तु खेटीपादास्तथैव च ।
खड्गहस्तास्तु गन्धर्वा क्रमरूपेण संस्थिताः ।।
किन्नरावीणहस्तास्तु गणाश्चैव सुरूपिणः ।
नराकृतिधरः यक्षी ज्ञेयाः किं पुरु द्वास्तथा ।।
किंकराः कुटिलकेशा वर्वराकारसन्निभौः ।
योगिण्यस्तिर्यग्दृग्भागे अधोदृष्टिस्तथा भवेत् ।।
चतुर्वक्त्रास्तथा देव्यः संपूर्णा वयवः शुभाः ।
द्विरष्टवयाकाराः स्वागमे च यथोदिताः ।।
किन्नरा विविधाकाराः सिंघव्याघ्राननास्तथा ।
गवाश्च श्वानवक्त्राश्च काकालुक मृगाननाः ।।
कपिरूपा वृकाश्चैव वक्त्रवक्त्रा वृहोदराः ।
सदंष्ट्राक्षेत्रपालास्तु वृहत्कुक्षिप्रलंबकाः ।।
२९अ)
काट्यखट्वाङ्गसंयुक्ता भूताद्याश्च सराक्षसाः ।
दीनवक्रास्मृताभूता दीर्घदी वक्त्रापिशाचकाः ।।
राक्षसाघोररूपास्तु नखादीर्घा सदंष्ट्रकाः ।
कुब्जरूपं प्रवक्ष्यामि खञ्जरूपं तथैव च ।।
नाभिसुस्कान्तरे नेत्रं गृह्य हृद्विकलं तथा ।
वक्षस्थलोन्नतं कल्प्य पृष्ठभग्नास्ततोर्द्धर्धः ।।
चिपिटाश्च वृहद्वक्षास्तिर्यक् पादाश्च खंजकाः ।
जानुभग्ना भुजाकोल मुखाश्चाती च भासुराः ।।
कर्माशय फलं वुध्वा चक्रहीनाविमध्यगाः ।
शिरोद्यातिर्यकाक्रूरा च्छिन्ननासांगपादकाः ।।
करांगुलि विहीनाश्च कुक्षिच्छिद्रा कृशोदराः ।
एवमाद्यानि रूपाणि कर्तव्यानि हिताहितैः ।।
इति ब्रह्मजामले जयद्रथाधिकारे पिङ्गलामते प्रतिसाधिकारो नाम
प्रथमप्रकरणश्चतुर्थः ।।
पिङ्गल उवाच ।।
पटलक्षणकं देव फलके वा तथैव च ।
वर्णकानाम्विभागन्तु प्रतिमा चित्रणे तथा ।।
देवताना वर्णकं ब्रूहि शिवादिव्यकुरूपिणां ।
भैरव उवाच ।।
भोगमोक्षप्रसिद्ध्यर्थं पटकार्पासिकंवरं ।।
कोशजाद्यान्यथा देवि विपरीतादि साधने ।
प्रेतवस्त्रादिकं श्लक्ष्मं सदसंद्विस्त्रिक्षालितं ।।
खलितं पिट्टितं मृद्यं शंखाद्येन सुशोभने ।
तिन्तटीवीजं स्वगृह्यमुश्चिन्नं पीषयेद् बुधः ।।
तस्यार्द्ध खपरं पिष्ट्वा चेकी कृत्वा तु मर्दयेत् ।
स्वच्छोदके चालोढ्यतेन वस्त्र प्रलेपयेत् ।।
वज्रलेपः स्मृतो द्वेष पुनः पुनः समाचरेत् ।
प्रतिमा ध्वजस्यैव फलके चान्यथा शृणु ।।
वाल्मीक मृतीकां गृह्य धान्यभक्त समं पिषेत् ।
उदकेन पुनलोड्य कुंचिकेन तु लेपयेत् ।।
शुष्के शुष्के पुनलेप्य फलके प्रतिमापिवा ।
मध्यं च फलविल्वस्य रालबीजसमुद्भवन् ।।
वर्णकं मर्दयत् तेन पञ्च सप्तदिनानि च ।
कटिकाशुक्लवर्णे तु रक्तं दरदगेरिके ।।
सिन्दूरञ्च तथा पीतं तालं चैव मनःशिला ।
२९ब्)
कं कुष्ठं च पुनः कृष्णं दीपशिखजमर्दितं ।।
नीलिजं नीलवर्णन्तु हरितं तालयुग् भवेत् ।
स्वेतयुग्रक्तं धूम्रं तु पीतरक्तं च कर्बुरं ।।
श्वेतनीलाब्जवर्णं तु मिस्रं ज्ञात्वा प्रयोजयेत् ।
लिखेल्लाक्षारसे नैव रेखानिपुनकल्पितैः ।।
गावच्छि कर्णजैर्वालैलेन्या च प्रकल्पितैः ।
ऋजुदृग्निपुणः शिल्पी नातिस्थुलैर्न तु कृशैः ।।
रेखांकैर्लिखेत् प्राज्ञाः शास्त्रदृष्टेन हेतुना ।
केतकी गन्धसंज्ञा तु तत्पादोद् भव कुञ्चिकैः ।।
रुक्मरौप्यन्तथा ताम्रै पित्तलं कांसलोहजं ।
करकं नालिकेरस्य मृन्मयस्य वचा भवेत् ।।
आधारं वर्णकानां तु कर्तव्यं तु सुशोभनं ।
सदाशिवो हृनन्तश्च चक्रवर्ति समन्वितः ।।
श्रीकण्ठश्च महादेव इश्वरो रुद्र एव च ।
भृंगीगणाधिपः शम्भुः भैरवः श्रीसरस्वती ।।
गङ्गासोमस्तथा शुभ्रः रौद्राणी चण्डिका तथा ।
षरारक्ता जया चैव स्वदुत्या सरहसुन्दरि ।।
सर्वे शुक्लः समाख्याता ये चान्ये शुभसम्भवाः ।
षट्मुखश्च हुताशश्च अग्निरुद्रादशस्तथा ।।
अदित्यो भूसुतश्चैव कौमारीनन्दिकेश्वरः ।
रक्तवर्णाः स्मृता ह्येते कराली विजया तथा ।।
अपरासहदूत्या च ये चान्ये तत्परिच्छदाः ।
धनदेन्द्र च ब्रह्मा च ऐन्द्री ब्राह्मी तथैव च ।।
इन्द्ररुद्राः कुबेराश्च ब्रह्मरुद्रास्तथैव च ।
वाचस्पतिस्तथा बुद्धो रामत्रयः सवामनः ।।
अजिता चैव चण्डाक्षी दुत्यासहवरानने ।
सर्वे पीताः समाख्याताः सुपरिग्रहसंयुताः ।।
साधवो हरिरुद्राश्च यमश्च यमरुद्रकाः ।
महाकालस्तथा दुर्गा वैष्णवी सूकरानना ।।
तद्रूपो माधवश्चैव राहुकेतुस्तथैव च ।
परापरा महोच्छुष्मा अजिता किंकरी युता ।।
कृष्णवर्णा स्मृता ह्येता याश्वान्यास्तत् समुद्भवा ।
नैर्-ऋत्या दशरुद्राश्च राक्षसाश्च पिशाचकाः ।।
३०अ)
नीलवर्णास्समाख्याताः परिवारैश्च संयुताः ।
तिर्यगावायुरुद्राश्च क्षेत्रपालाः स किंकराः ।।
धूम्रवर्णास्समाख्याताः तत्परिग्रहसंयुता ।
वरुणौजलरुद्राश्च इशरुद्रसमन्विताः ।।
शुक्लवर्णाः समाख्याता ये चान्ये तत्परिग्रहाः ।
स्वतन्त्रोक्त्या यथासिद्धं तथा सम्यग् लिखेद् बुधः ।।
नानावर्णास्तु गान्धर्वा किन्नराप्सर सा गणाः ।
धूम्रवर्णाः स्मृता भूता कृष्णश्यामोरगो भवेत् ।।
नाना रूपास्तु योगिन्य शाकिन्य निशादिवत् ।
श्यामा वै मीनकुर्मश्च कृष्णशामोथ काल्किकः ।।
आरक्तो नारसिंहस्तु पिङ्गश्यामो हिरण्यकः ।
वलिराजस्तथैवेह नागकन्यास्तथैव च ।।
हरिरुद्रार्द्धरूपञ्च कृष्णश्वेत विकल्पना ।
अर्द्धनारीश्वरश्वरं तद्वद्रूपं चैव प्रकल्पयेत् ।।
महायोगविधानेन पद्ममष्टदलं लिखेत् ।
रक्ताद्याः यत्रमालिख्य भैरवं कर्णिकोपरि ।।
भैरवं च पुरं कृत्वा पंक्तिस्थास्तास्तु देवताः ।
चतुष्कञ्च तथा षष्टं द्वादशात्मं च षोडशं ।।
चतुर्विंशं लिखेदेवं विधिनानेन सुव्रते ।
जयाद्याश्चक्रगास्तद्वत् पक्तिस्था वा लिखेत् क्रमात् ।।
नावारूढाश्च वा लिख्योस्तुम्बुरुः कण्डधारकः ।
पराद्याः शूलहस्तास्तु त्रिशिरस्तु त्रिपद्मके ।।
स्वशास्त्रोक्या षवा(?) लिख्य चक्रसंस्थाथ पंक्तिगाः ।
विम्बाद्याश्चक्र संस्थास्तु पंक्तिभूताविशेषतः ।।
वामदक्षिणयोगेन धुरमध्य कृतेन वा ।
चतुष्.कान्दि लिखेत् प्राहंः(?) पूर्ववत् पदकल्पितैः ।।
नृमुण्डेथ समुत्कीर्य कूर्मपृष्ठे तथैव च ।
तत्र चित्रं न कर्तव्यं यतोल्यादि प्लवं भवेत् ।।
सौवर्णादि तथैवेह शैलजं स्यापि तद्विधः ।
मृद्भवं लेपकं कृत्वा क्षेत्रे चित्रं समाचरेत् ।।
एकवीरा महालक्ष्मी भैरवाद्याथ चण्डिका ।
३०ब्)
भद्रकाली महाकाली क्षेत्रजां पीठजां तथा ।।
उपसंदोहजाश्चैव गृहेतां नैव कारयेत् ।
विचित्रचित्रकैः चित्रैर्नानावर्णै सुशोभनैः ।।
यत्र वल्यादिसंयुक्तैः पुष्पजाति समन्वितः ।
लिखेन्निपुणतः प्राज्ञनोद्विग्नमनसाकुलः ।।
चित्रकोमंत्रवादी च अभियुक्त पदे स्थितः ।
पूर्वलक्षणसंयुक्तः शास्त्रज्ञा भक्तिवत्सलः ।।
लेप्यजं काष्ठजं चैव वर्षा(?) द्वयं लिखेत् पुनः ।
मृत्कुट्या? वेष्टिते चैवं गृहे वा भित्तिषु लिखेत् ।।
वस्त्रैराच्छादयेन्नित्यं सर्वचित्रेषु यत्नतः ।
पूजाध्यानजपकाले उद्घाट्यविधिमाचरेत् ।।
एवं सरयेत्प्राज्ञ नात्मीयं दशयेत् क्वचित् ।
सामान्यदर्शयेन्नित्यं भक्तानां च प्रबोध कृत् ।।
अव्यक्तं व्यक्तरूपञ्च व्यक्ताव्यक्तं तथैव च ।
पीठस्थं पूजयेत् प्राज्ञ क्रिया रूढं यतः क्रिया ।।
इति चित्राधिकारो नामः पञ्चमः प्रकरणः ।।
पिङ्गलोवाच ।।
त्वयोक्तं पीठगं पूज्यं त्रिधालिङ्गं सुरेश्वर ।
पीठञ्च न मया ज्ञातं किं कस्य कीदृशं प्रभो ।।
सामान्यञ्च विशेषं वा संज्ञालक्षणकं वदः ।
भैरव उवाच ।।
लिङ्गाधिष्टानकम् वक्ष्ये प्रतिमानां द्विरूपिणां ।।
लोकपालार्चितानाञ्च क्रियाङ्कं पीठलक्षणं ।
पिण्डिकालक्षणं चैव यथावन्तन्तथा शृणु ।।
वसुभागकृते पर्ते तुर्यभागेन नीरधृक् ।
ताराभागकृते भूपः पञ्चभिर्मध्यमं भवेत् ।।
सरभागैर्गुणात्तस्थं ज्येष्ठं पीठमुदाहृतं ।
द्वे द्वे अन्ते च कर्तव्ये कन्याधश्च द्वयं भवेत् ।।
प्रासादमानलिङ्गानां तेषां तस्तु त्रिभिस्त्रिभिः ।
सप्ताविंशान्तरस्यापि पीठं षट्त्रिंशकम् भवेत् ।।
हस्तमानकृतानां तु तत्समम् पीठविस्तरं ।
उच्छ्रयेण द्विभागांतं पिण्डिका सह संयुतं ।।
३१अ)
उच्छ्रयं विस्तरं चैव मुखलिङ्गस्य तत्समं ।
प्रतिमानां द्विमानानां द्वारहस्तकृतात्मनां ।।
स्वप्रमाणं भवेद् दैर्घ्यं तदर्द्धं विस्तृतम् भवेत् ।
पीठमानं हिताशां वै विस्तरार्द्धेन चोच्छ्रितं ।।
तद्विधा तु प्रणालं स्यात् पीठस्थं पिण्डिकावहिः ।
सैलजस्य विधिख्यातं प्रणालं काष्ठजेन हि ।।
मृन्मयस्य तथा पीठं प्रणालरहितं भवेत् ।
महाप्रतिमविन्यासे पीठन् तेषां यथा शृणु ।।
दशहस्त भवेद् दैर्घ्यम् विस्तरं स्यात् तदर्द्धतः ।
तस्यार्द्धे नोच्छ्रयं कुर्यात् तृपञ्चस्य तु सुव्रते ।।
हस्तद्वादशकं नैव दैर्घ्यं तद्वत् प्रकल्पयेत् ।
पीठं स्यात् त्रिदशस्यैव विस्तारोच्छ्रय पूर्ववत् ।।
चतुर्दशकरेणैव उत्तमस्य तथा भवेत् ।
दैर्घ्यञ्च विस्तरं चैव उच्छ्रयञ्च तथा भवेत् ।।
इन्द्रधोदशक यावत् प्रतिमानाम्वरानने ।
नवहस्तं भवेत् पीठं विस्तरोच्छ्रयपूर्ववत् ।।
त्रिंशोन्त षोडशाद्यं च पीठं चैव दशैककं ।
त्रिंशोर्द्धं द्विमुनीनां च प्रतिमाणां सुरेश्वरि ।।
हस्तत्रयोदशे नैव पूर्ववत् पीठ कल्पयेत् ।
उक्तमानं समं कुर्यान्नाधिकं नोनमेव च ।।
दिशासाधनकर्मेषु क्रूरकर्मादि भेदतः ।
न्यूनाधिकं प्रकर्तव्यं पीठं चैव सुरेश्वरि ।।
सामान्यलक्षणं ह्येतत् विशेषञ्च निबोधम ।
वेदिकं पद्मकं चैव पयोधारामृतन् तथा ।।
पूर्णमण्डलसंवर्त्तं नन्दिकावर्तकं तथा ।
द्वासप्ततिस्तु लिङ्गानां गर्भहस्त कृतात्मनां ।।
भोगमोक्षप्रसिद्ध्यर्थं सामाम्येन प्रकीर्तितं ।
स्त्रीयोठे पिण्डिकास्तास्तु सप्तसंख्या प्रकीर्तिताः ।।
वेदि पद्मा पयोधारी चामृता पूर्णमण्डला ।
संवर्तानंदिकावर्ता विज्ञेया लक्षणेन तु ।।
लिङ्गवद्विस्तरं कृत्वा द्विभागोच्छ्रयतो भवेत् ।
विकारवत् कृतं चोर्द्धम् पक्षयोस्तु तथा भवेत् ।।
कंठान्तं पादमारभ्य एकैक ह्रासयेत् मुनिं ।
३१ब्)
कंठभागद्वये कृत्वा निर्गमं च तथा भवेत् ।।
भागेद्भागे प्रकर्तव्यं पिण्डिकासहसंयुतं ।
वेदिका नाम चाख्यातं नन्दिकावर्तलांच्छितं ।।
तदेव नन्दिकावर्तं सर्वकामार्थसाधकं ।
धनधान्यप्रदं नित्यं वेदिकं च सुखप्रदं ।।
त्रिपञ्चभाजितं चोर्द्धं पक्षयोस्तु तथा भवेत् ।
भागैकं भूसमं कृत्वा पत्राकारं त्रिभिर्भवेत् ।।
द्वाभ्यान्तद्वत् तथा चैकस्त्रिभिरुन्नतिकंथकं ।
निर्गमच्छदमेकेन द्वाभ्यां तद्वत् प्रकल्पयेत् ।।
भागे भागे तथा भूयः सजलैकेन पट्टकं ।
धर्मं नामसमाख्यातं पीठंसुरगणार्चितं ।।
राज्यदं भोगसम्पत्ति देवत्वञ्च समागमं ।
द्विरष्टकल्पितं पूर्वं भागैकं पृथिवीसमं ।।
चतुर्भागैर्भवेज्जंघा कुम्भं चैव त्रयं भवेत् ।
कर्णिकां पादवत् कृत्वा कुम्भवत् कण्ठमुच्छ्रयः ।।
निर्गमश्च तथैकेन कर्णिके वहि नान्यथा ।
उत्तरा चोत्तरा चैव पट्टिका चोत्तरोत्तरा ।।
जलाधारसमं ह्येतल्लक्षणेन प्रकीर्तितं ।
पयोधरं स्मृतं नाम्ना सर्वसामान्यलक्षणं ।।
सुखदं सर्वदा देवि दृष्टादृष्टफलोवहं ।
ताराभो कोङ्छ्रयं(?) कृत्वा पक्षयोश्च तथा भवेत् ।।
एकं पादं प्रकल्प्ये दौ द्विभागाज्जंघ उच्यते ।
सार्द्धभागस्ततश्चोर्द्धे भागार्द्धे न तु कर्णिका ।।
पुनः सार्द्ध भवेत् कण्ठं कर्णिके वहिर्निगमः ।
निर्गमश्च तथा कुर्याद् विभागात् पट्टिका द्वयं ।।
अमृतेति समाख्यातं सस्रिपुक्परिलक्षयेत्(?) ।
सर्वसिद्धि प्रदं नित्यं सुतपत्नी वहुप्रजाः ।।
भागद्वादशके चेद्वा(?) पक्षयोश्च तथा भवेत् ।
भागैको वृत्त पादं स्यात् त्रिभिर्द्वाभ्यां परिभ्रमात् ।।
पुनरेकं द्विभिः कण्ठं वृत्तभागैकनिर्गमः ।
भागे भागे पुनस्तद्वन्निर्गमो वृत्तपट्टिकाः ।।
पूर्णं मण्डलमाख्यातं पूर्णिमेन्दु समप्रभं ।
ज्ञानयोगप्रदं दिव्यं खेचरी सहसंगतं ।।
३२अ)
ऋतुवद्भाजितं चोर्द्धम् पक्षयोस्तु तथैव च ।
भागभागप्रवेशेन वृत्ताकार परिभ्रमात् ।।
कण्ठकावृत्तभागेन कण्ठश्चैव हि तत्समः ।
द्विभागे निर्गमं तद्वत् वृत्ताकारं प्रकल्पयेत् ।।
वृत्तसूत्र स्मृत ह्येतत् संवर्तं नामनामतः ।
वेद्यादौ नन्दिकान्तानां पृथग् भेद उदाहृतं ।।
विभिन्नान्योन्य रूपं तु तत्संख्यासिसुकं तथा ।
वेदिकं पद्मकं चैव पायोधारामृतं तथा ।।
नन्दिकावर्तसंज्ञन्तु चतुरस्रमुदाहृतं ।
पूर्णमण्डलसंवर्तं वृत्तपीठद्वयं भवेत् ।।
वेदीपद्मापयोधारी नंद्यावर्तामृतास्तथा ।
पिण्डिकापञ्चवाख्याताश्चतुरस्राः पीठरूषिकाः ।।
संवर्ता पूर्णवृत्ता च पीठवद् देववृत्तके ।
तासां रूपमतो वक्ष्ये वेदिकाद्या यथा मताः ।।
जलाधारस्य यो नाहः पीठतुल्यां तु विस्तरं ।
त्रिभागभाजितोन्तः स्याद् रंध्रं चैवै भागिकं ।।
क्षेत्रार्द्धञ्च स्रवत्(?) कृत्वा भागैके मेखला भवेत् ।
तत्त्रयं चाधवाहल्यं ख्यातं च मेखला समं ।।
अन्तादधस्त्रिभागाच्च निम्नं विस्तरतः समं ।
उपमेखला या त्रीणि स्वभ्रान्तोन्नति खातकं ।।
प्राणालं रुद्रभागे च निर्गतं कारयेद् बुधः ।
तत् क्षेत्राङ्गुला भागे न विस्तरो मूलदेशतः ।।
तदर्द्धेनाग्रतश्चैव विस्तरं परिकल्पयेत् ।
भूतांसमध्ये भागाभ्यां खातमादौ तद्यथान्तः ।।
तदर्द्धवाह्यतः कृत्वा ज्ञानम्रद्विगुणोच्छ्रयः ।
मेखला तु प्रमाणालस्य कल्पयेच्चतुर्गुणं ।।
वेद्येवञ्च समाख्याता मेखलात्रयसंयुता ।
नन्दिकावर्तमालाभिर्वेदिकालांच्छिता यदा ।।
तदैव नन्दिकावर्ता मेखला च तथा भवेत् ।
वेदिकाश्रय वेदी च नन्दिकाश्रयनन्दिका ।।
पद्मा चैव प्रकर्तव्यो मेखलैका सुशोभना ।
पद्मपत्राष्टकं मध्ये दिशासु विदिशासु च ।।
३२ब्)
कर्णिके च स्मृतं रन्ध्रं शेषमन्यच्च पूर्ववत् ।
वेदिके च पयोधारी मेखला चतुरं ततः ।।
पञ्चमेखलसंयुक्ता चामृता पूर्ववत् स्मृता ।
वेदास्रस्यार्द्ध कर्णेन वहि कृत्वाग्निवत् कुरु ।।
भागैक त्यागात् सुभ्राम्य सिध्यते पूर्णमण्डला ।
ऋतुवन्मेखलास्यापि सम्वर्ता वा तथा स्मृता ।।
मेखला च प्रणालं स्यात् पूर्ववच्छुभ्रकन्तथा ।
यत्फलं पीठगं ख्यातं तत्फलं चैव पिण्डिका ।।
पद्मे चया भवेत् पद्मा पयोधार्यधरापये ।
धरापूर्णे पूर्णासमायोज्य अमृते चामृता तथा ।।
संवर्ता संवर्ता योजनीयो प्रयत्नतः ।
पीठपिण्डिकयो भेदो नोक्रायस्मा क्रियात्मिका ।।
प्रदीर्घा च भवेद् वापी तस्यो लक्षणमुच्यते ।
सुरवद्भाजितं चोर्द्ध प्रदीर्घणो भयोस्तथा ।।
द्वाभ्यां पादं त्रिजंघा द्वाभ्यामेकेन कर्णिका ।
डिंभिः कंठं प्रकर्तव्यं वर्णिके वहिनिर्गमः ।।
द्विभिद्वाभ्यां तथा कुर्याद् वापि ह्येषा शुभोदया ।
प्रतिमानां चमर्धासां वेदिका वा सुशोभनाः ।।
लोकपालार्चितां वक्ष्ये पीठं चैव पृथक् पृथक् ।
ऐन्द्रं चाग्नेयकं याम्यं नैर्-ऋतं वारुणं तथा ।।
वायव्यं च तथा सौम्यमैशानं वैष्णवन्तथा ।
ब्राह्मै चैव सुरेशानि दशपीठमुदाहृतं ।।
वज्रशक्तिस्तथादण्डं खड्गपाशांकुशस्तथा ।
गदाचक्रञ्च शूलञ्च पद्मं चैव दशोदितं ।।
पीठं चैव तु लिङ्गानाम्पिण्डिकामधुनोच्यते ।
पृथ्वी चाग्नेयकीयाम्या नैर्-ऋती वारुणी तथा ।।
ऐरायाक्षी च रौद्री च वैष्णवी ब्राह्मिका तथा ।
द्विधारूपञ्च द्रष्टव्यं नित्यनैमित्तिके तथा ।।
आकारै नित्यमाख्याताश्चतुरस्रादि भेदतः ।
नैमित्तिकेस्तु संज्ञा यदास्तैलांच्छिता भवेत् ।।
वज्रिणी शक्तिदण्डाख्या खड्गिनी पाशिनी तथा ।
ध्वजिनी गदिनी चैव शूलिनी चक्रिणी तथा ।।
३३अ)
पद्मिनी च समाख्याता विभिन्नेच्छा प्रसाधिका ।
ऐन्द्रं नामं च यत् पीठं चतुरसं प्रकीर्तितं ।।
समकोष्टं यथाभित्तिः पृष्णी तस्योर्द्ध तत्समा ।
किं त्वं ते मेखला ह्येका मूलैः सह द्वितीयका ।।
प्रणालं स्वभ्रखातं च पूर्ववन्समलक्षणं ।
ऐन्द्रलिङ्गस्य तत्ख्यातं पूर्वदिक् संप्रतिष्ठयेत् ।।
स्वर्गे राज्यमवाप्नोति देवत्वं च सुराधिपः ।
किं कुर्वाण विधेयाश्च देवाद्याः किङ्कराः स्मृताः ।।
भोगांस्तात्कालिकां तु त्व?यात्यन्ते निष्कलं ततः ।
चतुरस्रं पुराक्षेत्रं ब्रह्मस्थानार्द्ध पक्षयोः ।।
कर्णार्द्धं वेदवत् कृत्वा त्यज्यैकं भ्रामयेद् द्वयोः ।
क्षेत्राद्भूतांसकं वाह्ये कृत्वा तत्समविस्तरं ।।
वृत्तात् तावन्नयेत् सूत्रं तद्वच्चान्य भगं भवेत् ।
षड्भाग उच्छ्रयं कृत्वा भगाकारं कृतं च यत् ।।
जंघाभागेन तद्रूपं कुम्भे चैव तथैव च ।
तत्समं ह्रासतः कृत्वा कर्णिका च * थिव च ।।
कर्णिके च स्मृतो कण्ठः ह्रासं तत्र न कारयेत् ।
भागैकं निर्गमं कृत्वा पुनश्चोर्द्धे तथा भवेत् ।।
एतदाग्नेयमाख्यातं तस्योर्द्ध पिण्डिकं शृणु ।
पीठवत् पिण्डिकां कृत्वा प्रणालो चैव निर्गतः ।।
भूतांशार्द्धाग्रतः कृत्वा तस्योर्द्धे मेखला वहिः ।
प्रणालस्य विधिः ख्यातः पूर्ववच्छेषलक्षणं ।।
मेखलान्ते स्मृता योनि तस्योर्द्धाधस्तु विस्तरं ।
द्विमेखला स्मृता चाग्नेयी लिङ्गाग्ने यस्य कीर्तिता ।।
तद्विशाभागसंस्थाप्य तत्परे राज्य भोगदं ।
तात्कालिकं फलं भुक्त्वा पश्चाच्छिव पुरं व्रजेत् ।।
विष्कम्भार्द्धक भक्ते तु त्यजेत् पूर्वापरे द्वयं ।
पूर्वयाम्योत्तरं भ्राम्य सिध्यते खण्डचन्द्रवत् ।।
उच्छ्रय तारवत् कृत्वा त्रयांघ्रि घटकर्णिका ।
त्रिभिः कण्ठं विजानीयात् पुनस्तद्वद्विनिर्गमं ।।
याम्यं नाम स्मृतं ह्येतत् पिण्डिका मधुनोच्यते ।
३३ब्)
पीठवत् पिण्डिकां वर्त्य प्रणालः सरवद्यथा ।।
धनुस्थं तद्वन्निष्काशं विस्तरं मेखला तथा ।
स्वभ्रखातं तथा भूतं किंतु सापि त्रिमेखला ।।
याम्यलिङ्गस्य सा प्रोक्ता तद्दिशाः भागसंस्थिता ।
तत्पुरे विविधान् भोगान् भुक्त्वा राज्यं समन्ततः ।।
यमकालान्ति यावत् पश्चात् पदमनामयं ।
वेदास्रात् षष्ठमांसं तु पक्षयोश्च वहिर्ददेत् ।।
पञ्चमीसंवहिर्नीत्वा पूर्वविस्तर तत्समं ।
तस्मात् सूत्र त्रयं कृत्वा सिध्यते च त्रिरस्रकं ।।
उच्छ्रयं वसुवत् कृत्वा ह्येकैकं ह्रासयेत् त्रयं ।
भागद्वयं ततः कण्ठं क्रमान्निर्गमणं त्रयं ।।
पीठं नैर्-ऋतमेतद्धि पिण्डिकां शृणुसांप्रतं ।
पिण्डिकां पीठवत् कृत्वा परिध्यग्रप्रणालकं ।।
पूर्ववत् मेखला हीनां स्वभ्रातं परिकल्पयेत् ।
मेखलात्रयसंयुक्ता पूर्ववच्च स्मृतोन्नता ।।
मेखला च प्रणालस्य विस्तरार्द्धम्बहिर्भवेत् ।
नैर्-ऋती नामचाख्याता नैर्-ऋतस्य च तद्दिशि ।।
स्थापितस्य स्मृतो भोगस्तत्पुरा राज्य तत्समं ।
तावत् कालान्तिकं भुक्त्वा पश्चाच्छिव पुरं व्रजेत् ।।
कर्णार्द्धं वेदवत् कृत्वा त्यजैकं भ्रामयेत् समं ।
वृत्तं भवति संपूर्णं पूर्णिमेंदु समप्रभं ।।
उच्छ्रयं रुद्रवत् कृत्वा भागैके पादकल्पना ।
द्विभागाज्जंघचाख्याता पादवत् कर्णिका भवेत् ।।
कंठं त्रिभागतो ज्ञेयं कर्णिके वहिनिर्गमः ।
जंघावत् पुनस्तस्माच्च पादवत् तस्य चोर्द्धतः ।।
कण्ठस्याधोर्द्धतश्चैव स्वभागैर्वर्तना समं ।
वृत्तसूत्रं स्मृतं ह्येतत् पीठं वारुणसंज्ञकं ।।
तत् समापिण्डिका चोर्द्धे वृत्ताकारा सुशोभना ।
प्रणालं मेखला तस्या स्वभ्रखातं च पूर्ववत् ।।
खातस्यान्ते प्रकर्तव्य मेखला त्रयमेव च ।
वारुणस्य च लिङ्गस्य तद्दिशायां प्रतिष्ठयेत् ।।
तत्पुराविविधान्भोगान् तत्तुल्यगुणशालिनः ।
३४अ)
भुक्त्वा तात्कालिकं राज्यं पश्चात् पदमनामयं ।।
ऋतुवद्भाजितं क्षेत्रं भागैकं पूर्वतो नयेत् ।
तद्वच्चाप्येनयेद्भागं तस्मादंर्द्धग्रहं भवेत् ।।
द्वयकाकपदं याम्ये चैव द्वयं भवेत् ।
दक्षिणोत्तर योगेन सूत्रद्वयनिपातनं ।।
आप्यादीशाग्निगं युग्मं प्रागीति वायुगं तथा ।
षट्कोणसिध्यते ह्येवं षट्संख्यासूत्रपातनात् ।।
भागत्रयदशं चोर्द्ध कृत्वा भागैन पादकं ।
त्रिभिद्वाभ्यां तथैकेन ज्ञेयांघ्रिघटकर्णिकां ।।
भाग द्वये एतः कंथं कर्णिके वहिर्निर्गमं ।
घटवच्चोर्द्ध पट्टस्तु पादवच्चोर्द्धपट्टिका ।।
जलाश्रयसमायुक्तं वायव्यं शुभलक्षणं ।
जलाश्रयं प्रवक्ष्यामि पिण्डिकायास्तदुर्द्धतः ।।
पीठवत् पिण्डिकां कृत्वा कोणषट्कविवर्जनात् ।
उपकोणे प्रणालं स्यात् पूर्ववत् समलक्षणं ।।
मेखलासूत्रखातञ्च यथापूर्वं तथा भवेत् ।
सरवत् मेखला चान्ते खातं चाधो विकल्पना ।।
वायव्यस्य लिङ्गस्य इराख्यातद्विशात्मिका ।
तत्पुरे वायुतुल्यस्तु वायुवीर्य पराक्रमः ।।
भुक्त्वा तु विविधान् भोगान् राज्यमान्समन्वितं ।
वायुकालान्तिकं यावत् पश्चान्मोक्षो भविष्यति ।।
वारुणे च यथावृत्तं तथा कृत्वा तु सौम्यकं ।
षट्भागो च्छ्रयतस्तस्मात् कृत्वा पत्राङ्कवर्तना ।।
षोडशद्वादशश्चैव संप्रवर्त्यैवं कृतेसति ।
द्वादशः षोडशश्चोर्द्ध पिण्डिका तद्वदूर्द्धत् ।।
पूर्ववत् सममानेन मेखलास्त्रयसंयुताः ।
यत्राष्टैश्चांकितो मध्ये कर्णिके वहिस्वभ्र?कं ।।
कौवेर्यस्य तु लिङ्गस्य याक्षीनामेति कीर्तिता ।
तत्पुरे तत्समोभोगः कर्तुः शाक्षाद्वनेश्वरः ।।
यक्षिणीभिरसंख्याभिः स्वयं पक्षश्च सेव्यते ।
पक्षकालांतिकं भुक्त्वा पश्चात् मोक्ष पदं भवेत् ।।
ब्रह्मस्थानाच्च यत्कर्णं सूर्यवद्भजयेत् समं ।
३४ब्)
समन्तात् त्यज्यभागैकं वेदास्रान्यति प्रसिद्ध्यति ।।
ब्रह्मस्थानाच्च यत्कर्णं गृहीत्वा दिग्विलक्षयेत् ।
तद्वत् सूत्र चतुष्कन्तु कृत्वाष्टास्रंप्रसिध्यति ।।
उच्छ्रयं रुद्रवत् कृत्वा भागैके पादकल्पना ।
द्विभागाच्च भवेज्जंघा कर्णिकाभागमात्रकं ।।
त्रिभिः कण्ठं विजानियात् कर्णिकासमनिर्गमं ।
जंघावच्च ततश्चोर्द्धं पादवच्चोर्द्ध पट्टिका ।।
ऐशां?नामस्मृतं ह्येतत् पिण्डिकाचोर्द्ध तत्समा ।
कोणाष्टकं विवर्तित्वाच्चोपकोणे प्रणालकं ।।
मेखलास्वभ्र खातञ्च पूर्ववत् समलक्षणं ।
त्रिमेखला भवेत् सोपि रौद्री नामा च विश्रुता ।।
ऐशान्यस्य च लिङ्गस्य ऐशान्यां संप्रतिष्ठयेत् ।
ज्ञानयोगसमायुक्तं इशलोके चिरम्वशेत् ।।
त्रिनेत्रशूलपाणिस्तु रुद्रतुल्य पराक्रमः ।
तत्पुरे विविधान् भोगान् भुक्त्वा शिव पुरं व्रजेत् ।।
भागाष्टादशकं क्षेत्रं कृत्वा चैव समन्ततः ।
त्यज्यकं चतुरस्रं तु सिध्यतेन्यद्विपश्चितै ।।
निर्गमस्त्यमात्रस्तु विस्तरं तत्त्रिभागतः ।
कोणं विनाशयित्वा तु प्राक् क्षेत्रस्य सुव्रते ।।
वैनतेयसमाकारं सिध्यते भद्रनिगमात् ।
दशभागकृतं चोर्द्ध भागैकं पृथिवी समं ।।
द्विभागाज्जघासंसिद्धि भागैके कर्णिकार्भवेत् ।
द्वाभ्यां कण्ठं विजानीयात् कर्णिके वहिनिग्गमः ।।
जंघावच्चोर्द्ध पट्टस्तु पादवच्चोर्द्ध पट्टिका ।
वैष्णवनामविख्यातं पीठञ्चैव सुरार्चितं ।।
पीठवत् पिण्डिकाचोर्द्धे कृत्वा चैव सुशोभनां ।
गरुडस्य च मध्ये तु प्रणालं पूर्ववद्यथा ।।
३५अ)
मेखलास्वभ्रखातं च पूर्वमानेन लक्षयेत् ।
द्विमेखला प्रकर्तव्या वैष्णवीनामनामतः ।।
वैष्णवस्य तु लिङ्गस्य नैर्-ऋत्यां संप्रतिष्ठयेत् ।
मध्ये वाथ पुरस्यैव ग्रामे वा खेटकेपि वा ।।
विष्णुलोके महाभूतिं विष्णुतुल्यपराक्रमः ।
चतुर्भुजस्तथा सोपि शंखचक्रगदाधरः ।।
तद्भागान् विविधान् भुक्त्वा यावद् विष्णुन्तिकं प्रिये ।
अन्ते शिवपदं दिव्यं प्राप्नुयान्नात्रसंशयः ।।
कौवेर्यै च स्मृतं ब्राह्मं पिण्डिका चापि तद्विधा ।
ब्राह्म्यलिङ्गस्य चाख्यातमैशान्यां सप्रतिष्ठयेत् ।।
मध्ये चैवाथ वा स्थाप्ये ब्रह्मलोकमवाप्नुयात् ।
भोगंतात्कालिकं भुक्त्वा यात्यन्ते नैष्कलं ततः ।।
लोकपालार्चितानान्तु समासात् कथिता मया ।
तत्प्रसादात् प्रसिद्धास्ते देवत्वं दिवि देवताः ।।
पिङ्गलोवाच ।।
वज्रादिलक्षणन्देव यद्युक्त पीठमुच्यते ।
दिशासाधनहेत्वर्थं यद्यस्य कर्मसाधनं ।।
सर्वमेतत् समासेन कथयस्व प्रसादतः ।
भैरव उवाच ।।
पंक्तिवद्भाजितं क्षेत्रं चतुरस्रं समन्ततः ।।
मध्य सूत्रान्ततो वाह्ये त्यक्त्वा भागत्रयं त्रयं ।
उभाभ्यामपि पार्श्वाभ्यां भ्रामयेत् खण्डचन्द्रवत् ।।
ग्राह एषसमाख्यातो द्विभागान्त पुनर्भसः ।
ग्राहाग्रान्तसमोमूले द्विभागाग्रे परित्यजेत् ।।
दैर्घ्यभाग चतुष्केण शृगाण्येवं चतुष्टयं ।
मध्यशृंगं चतुर्भागैर्विस्तराद्दैर्घ्य तत्समं ।।
एकैकं चान्तरं त्यज्य वज्राकारं विवर्तयेत् ।
ऋतुशृङ्गम्भवेद्वज्रं लक्षणेन विलक्षयेत् ।।
ऐन्द्रनाम च यत्पीठं तद्युक्तम्वज्रसंज्ञितं ।
चतुर्वज्रं चतुर्दिक्षु पिण्डिकायास्तथैव च ।।
वज्रिणी च समाख्याता वज्रलिङ्गस्य तद्दिशि ।
स्थापिते यद् भवेत् सिद्धिस्तां प्रवक्ष्याम्यशेषतः ।।
स्तम्भयेत् परसैन्यञ्च रोधयेत् कीलयेति च ।
३५ब्)
स्थितित्वमात्मन चैव राज्यं धैर्यजयं तथा ।
यावज्जिवं भवे तस्य सुसपन्नमकण्ठकं ।।
भुक्त्वा तु विविधान् भोगान् मर्त्यलोके तु ये स्थितान् ।
स्त्रीसहस्रसमायुक्ता वज्रकायः सुदुर्जयः ।।
देहान्ते गमनं तस्य शिवलोकेन संशयः ।
तद्द्रव्यभावसंयुक्तः तत्मंत्रगतचेतसः ।।
सिद्ध्यते नात्रसन्देहो यथाशास्त्रस्य निश्चयः ।
चतुर्भागकृतं क्षेत्रं पक्षभाग द्वयं त्यजेत् ।।
दैर्घ्यसमस्तकं यच्च तद्ददाप्यगं पुनः ।
विस्तरन्तु समाख्यातं दैर्घ्याद्द्विगुणमेव च ।।
चतुर्भागं द्विधा कृत्वा विस्तरं त्रिधा कुरु ।
दण्डाग्रे गण्डिकान्तस्य भागैकेन प्रकल्पयेत् ।।
गण्डिको द्वययो भाग सप्तमः परिकीर्तितः ।
पक्षौ चन्द्रार्धकौ तत्र ग्रहाकारं भवे ध्रुवं ।।
तस्माद् ब्रह्माग्र सुत्राच्च संगमं कारये द्वयोः ।
दण्डस्या भयतश्चैव द्वौ भागौ नाशयेत् प्रिये ।।
दण्डमूले तु संगृह्य भागभ्राम्यसमन्तयोः ।
ब्रह्मसूत्रे करं कृत्वा तत्राधो गण्डिका भवेत् ।।
श्रुवाकारमिदं ख्यातं वाह्यास्त्रं शक्तिसंज्ञिकं ।
तेन युक शक्तिपीठं अग्नेयञ्च प्रकीर्तितं ।।
पिण्डिका च तथा प्रोक्ता शक्तिनामेति विश्रुता ।
शक्तिलिङ्गस्य देवेशे तद्दिशायां प्रतिष्ठयेत् ।।
दहनं शोषणं चैव परशैन्य परा भवं ।
महाज्वराग्निसंतापं शत्रूणां कुरुते ध्रुवं ।।
कर्तुश्चैव भवेद् दीप्तिर्मत्तसिद्धिर्द्विषा क्षयः ।
विजयं शक्तिमत्वं तु तेजोग्र व्याधिनाशनं ।।
पृथिव्या विपुलं राज्यं भुक्त्वा भोगाभ्यशेषतः ।
देहान्तगमनन्तस्य यत्र देवो महेश्वरः ।।
तुर्यधाभाजितं क्षेत्रं पूर्ववन्नाशयेद् द्वयं ।
क्षेत्राद्विणतो वाह्यं नयेत् पूर्वदिशं समं ।।
विस्तरं च त्रिधा कृत्वा चतुर्भागं द्विधा कुरु ।
भागाधो धनुवत् कृत्वा दण्डमूले तु गण्डिका ।।
३८अ)
तदूर्द्धपूर्ववत् ग्राहं चन्द्रिकाकारवर्तनात् ।
तस्याप्यूर्द्धे तु यो भागो गण्डिकावृत्तपक्षयोः ।।
द्वौ भागौ नाशयेत् पक्षौ दण्डस्यैव वरानने ।
भागवच्चोर्द्धकं गृह्य ब्राह्मस्थानात् परिभ्रमः ।।
दण्डमूर्ध्नि स्मृतो ह्येष दण्डश्चैव त्रिसूत्रिकः ।
दण्डयुग्याम्यमाख्यातं पीठं दण्डांककम् प्रिये ।।
पिण्डिका च तथैवेह दण्डिनाम्ना च कीर्तिता ।
दण्डाख्यस्य च लिङ्गस्य तद्विषायां प्रतिष्ठयेत् ।।
तद् द्रव्य भावमन्त्रैश्च तत्कर्म करणेहितं ।
दण्डपिट्टविनं चैव परस्यैन्यविभेदनं ।।
रिपुमारीविवृद्धिश्च परराष्ट्र पराभवं ।
आत्मनः कालहानिश्च पौरुषं तेजवर्द्धनं ।।
यमेन हि हनेच्छत्रुं सकेनापि न वाप्यते ।
पृथिव्या विविधां भोगान् भुक्त्वाराज्यमकण्टकं ।।
पिण्डान्ते गमनन्तस्य यत्र देवाम्बिकापतिः ।
वेदवद्भाजितं क्षेत्रं पूर्ववत् द्वयवर्जनात् ।।
क्षेत्रद्वयं नयेत् सार्द्धं प्रागग्रं पूर्ववद्यथा ।
नवधाभाजितं दैर्घ्यं विस्तरं तुर्यधा भवेत् ।।
कालहानि अधो भाग द्वयं यच्च द्विगुणं तं प्रकल्पयेत् ।
भैगैकं चक्कलं चाधः खण्डचन्द्रविधानतः ।।
चक्कलाधस्तु यवकं यथाशोभं प्रकल्पयेत् ।
तदूर्द्धग्राहकं भद्रे यवाकारं द्विभागतः ।।
तस्योप्यूर्द्धञ्च भागैकं पण्डयोवृत्तगण्डिका ।
द्वौभागौ नाशयेत् पक्षौ मध्याद् गृह्यार्द्ध भागकं ।।
भ्रामयेदग्रमूध्नस्तु खण्डचन्द्रै च सुव्रते ।
किञ्चिच्छुलाग्रकं कृत्वा खड्गं चैव प्रसिध्यति ।।
नैर्-ऋत्यस्य तु यत् पीठं तद्युक्तं स खड्गसंज्ञितं ।
पिण्डिकै वहि द्रष्टव्या खड्गख्या चैव विश्रुता ।।
खड्गाख्यस्य लिङ्गस्य तद्विशायां प्रतिष्ठयेत् ।
तन्मत्त्र भाव्य द्रव्यैस्तु तत्कर्मफलभाग्भवेत् ।।
सैन्यविध्वन्सनोन्माद कीलभेदनमोहनं ।
अराति क्षय विद्वेषं रक्षोमाराप्रवर्तनं ।।
प्रमेहादि प्रवृत्तिश्च रिपूणां कुष्ठपीडनं ।
३८ब्)
आत्मनसौर्य सम्पत्तिस्तेजसातीवदुर्जयः ।।
पौरुषं राजसम्पन्नं पृथ्वीशाधिपतिर्भवेत् ।
रक्षोराजे च भोगन्वै भुक्त्वा शिव पदं व्रजेत् ।।
भानुभागकृतं क्षेत्रं चतुर्दिक्षुस्तथा त्यजेत् ।
क्षेत्रात् प्रसिद्ध्यते ह्यन्यत् तत् क्षेत्रं ऋतुवत् कुरु ।।
ब्रह्मभागैति यौर्देवि द्विधातौ परिकल्पयेत् ।
तन्मानाधोर्द्धतश्चैव ब्रह्मसूत्रस्य पक्षयोः ।।
तत्र सूत्रद्वयं यात्य क्षेत्रमानोर्द्धगं नयेत् ।
द्विगुणं चाधगंपुच्छं वक्त्रमानाद्वरानने ।।
भागसन्धि कृतं सूत्रं ब्रह्मस्थानात् परिभ्रमेत् ।
उपसंधिं पुनर्भ्राम्यसंधिं चैव तथैव च ।।
ते नैवानुक्रमेणैव भूयोर्द्धभ्रमणं कुरु ।
ब्रह्मस्थान कृतं सूत्रन् नयत् संध्यर्द्धचन्द्रवत् ।।
दक्षिणावर्तमेतद्धि पुनः भ्राम्य पुनर्भ्रमेत् ।
निर्गमस्य च यत् पक्षौ तन्मानं पक्षयो कुरुः ।।
खड्गचन्द्रविधानेन तयोः कुम्भद्वयं भवेत् ।
कुम्भमानमधः कृत्वा ब्रह्मसूत्रे तु भाविनि ।।
अश्वत्थदलवत्कार्यं कुम्भान्ते सूत्रपातनात् ।
पक्षसूत्रद्वयां तस्थं कर्तव्यं लोचन द्वयं ।।
अंगुलार्द्धार्द्धमानेन समन्ताद्वर्तुलं शुभं ।
कुम्भद्वयान्तसंयोगात् क्षेत्रान्तपक्षसूत्रके ।।
पुच्छाधस्तान्तु यो ह्रससुदंन्तं कारयेद् बुधः ।
क्रमेणैवाङ्गसंयोगः सम्याग्रस्याविलेखितः ।।
वक्त्रेणाधः कृतश्चाङ्गः स्वांगेनैव तु नलांगुलं ।
कृत्वैवं चागमंयोगं शेषां रेखां विनाशयेत् ।।
विजहं ब्रह्मसूत्रन्तु द्वयं स्थाप्य भुजंगमः ।
नेत्रार्द्धार्द्ध गमानेन रेखा वक्त्रास्तु तिर्यगा ।।
पाशयुगपाशपीठं तु पिण्डिका च तथैव च ।
पाशात्मकस्य लिङ्गस्य कर्तव्या स्वार्थ सिद्धये ।।
शन्निपुष्ट्यादिकं कर्म वारुण्यास्थापितै भवेत् ।
भोगान्भुक्त्वा करोजेव शिवलोकं स गच्छति ।।
३९अ)
चतुर्द्धाभाजितं क्षेत्रं समन्ताच्चतुरस्रकं ।
सौम्यान्तभागमानेन विस्तरेण तु निर्गमं ।।
तत्क्षेत्रं द्विगुणं दैर्घ्यं चापरेण तु सुन्दरि ।
इति कोणे करं कृत्वा मध्ये कोष्ठद्वयं भ्रमः ।।
खण्डचन्द्रविधानेन रेखात्रय विकल्पनात् ।
शेषं विनाशयित्वा तु दण्डांते सूत्रकं ददेत् ।।
भागमात्रा गतो दद्यान् मध्ये सूत्रात् परिभ्रमेत् ।
मूले चैव तथा कुर्यात् वृत्ताधोर्द्ध भवे ध्रुवं ।।
त्रिसूत्रं च भवेद् दण्डं चाक्तंशञ्च तथैव च ।
वायव्यं नामयत् पिठं तद्युक्तं चांकुशं भवेत् ।।
पिण्डिकैवद्रष्टव्या चांकुशी नामनामतः ।
ध्वजं वाथप्रवक्ष्यामि यथावत् तत् तथा शृणु ।।
चतुर्धाभाजितं क्षेत्रं पक्षौ भागद्वयं त्यजेत् ।
क्षेत्रमानं वहिः पूर्व दैर्घ्यं चैव विकल्पयेत् ।।
वेदवद्विस्तरं कृत्वा चोच्छ्रयैकेन पीठकं ।
पक्षौ द्वौ संप्रवेशेन दीर्घौ तौ संत्यजेद् बुधः ।।
द्वाभागौ स्तम्भमाख्यातौ सूत्रत्रयविकल्पनात् ।
स्तम्भवच्चोर्द्धतः कृत्वा ब्रह्मस्थानात् परिभ्रमेत् ।।
स्तम्भमूर्ध्नि भवेद् वृत्तं तन्मानाद्याम्यगं नयेत् ।
इषत् तिर्यग् गतं सूत्रं स्तम्भवद्विस्तरं भवेत् ।।
गच्छपुच्छे च कर्तव्ये पिच्छिकद्वय संयुतं ।
त्रिखण्डं पञ्चखण्डं वा युग्मरेखास्तु तिर्यगाः ।।
अंगुलांतरित कृत्वा ध्वजायं परिकीर्तितं ।
तद्युक्तं ध्वजमाख्यातं पीठं चैव तु यत्पुरा ।।
पिण्डिकै वहिद्रष्टव्या ध्वजिनी नाम विश्रुता ।
ध्वजाख्या ध्वजलिङ्गस्य अंकुशाख्यं स चांकुशा ।।
तन्मत्तं भावद्रव्यैस्तु तद्द्विशायां प्रतिष्ठयेत् ।
परसैन्योच्चाटनं चैव विभ्रमो द्वेग कम्पनं ।।
अन्योन्यं कलहं तत्र शत्रुचक्रे भवेद् ध्रुवं ।
जयं कर्तुरवाप्नोति त्वरितं शत्रुपक्षयोः ।।
वायुवीर्यसमो भूत्वा पृथिव्यां राज्यभोगभुक् ।
प्रलीने च वपुस्तस्य शिवलोके महीयते ।।
३९ब्)
वेदास्रं वेदवत् कृत्वा द्वौ भागौ पूर्ववत् त्यजेत् ।
तन्मानं पूर्वतो नीत्वा विस्तरं तुर्यधा कुरु ।।
क्षेत्राधोर्द्धं द्विधा कृत्वा भवेद् भागेन गण्डिका ।
धनुसंस्थैव तस्योर्द्ध भागिकं ग्राहवर्तना ।।
तस्याप्युर्द्धञ्च भागेन अधोगण्डिवद् भवेत् ।
ततोर्द्धपक्षयोश्चैव द्वौ भागौ नाशयेत् समौ ।।
भागद्वयक्षयोश्चोर्द्धं ब्रह्मस्थानात् परिभ्रमेत् ।
खण्डचन्द्रविधानेन शिरञ्चैव प्रसिद्ध्यति ।।
तदन्तौ गण्डिकान्तौ च सूत्रे कृत्वा तु ह्रसयेत् ।
गदेयं कथिता भद्रे मध्यसूत्रविवर्जनात् ।।
गर्दनाम भवेत् पीठं तद्युक्तं सौम्यपीठकं ।
पाक्षीयुक्ता गदाख्या च पिण्डिकानात्रसंशयः ।।
गदाख्यस्य च लिङ्गस्य सौम्यदिक् संप्रतिष्ठयेत् ।
सर्वरत्नसमोपेतं हस्त्यश्चादि समन्वितं ।।
कन्यास्वयं वरागच्छेत् परचक्रात् सुशोभना ।
नित्यं सन्धिमवाप्नोति प्रीतिं चात्यन्त सौष्ठवं ।।
न तस्य विद्यते शत्रू राज्यं चैव निकण्ठकं ।
धनं चादृष्टपर्यन्तं स्त्रीसहस्रसमन्वितं ।।
वरकन्यासमोपेतं धनदेन समो भवेत् ।
धरासंमस्तकां भुक्त्वा यात्यन्ते निष्कलन्ततः ।।
तुर्यास्रं वेदवत् कृत्वा द्वौ भागौ पक्षयोस्त्यजेत् ।
तत् त्रिधा निर्ग्मतस्वाधः क्षेत्रं वसुसमं भवेत् ।।
क्षेत्रार्द्धं तत्समं कृत्वा कौणोभागसमो भ्रमेत् ।
द्विभागन्तकरं कृत्वा खण्डचन्द्रविधानतः ।।
बाह्यतस्तु करं कृत्वा पुनश्चोर्द्धं तथा भ्रमेत् ।
द्विभागन्तु करं कृत्वा खण्डचन्द्रविधानतः ।।
वाह्यतस्तुकरं कृत्वा पुनाश्चोर्द्धन्तथा भ्रमेत् ।
ऊर्द्धार्द्धेए तु करं कृत्वा ब्रह्मसूत्रात्मकञ्च यत् ।।
वक्त्रान्त भ्रामयेत् पश्चात् द्विभागान्तोर्द्धगं यघा ।
द्वे शृङ्गे सिध्यते ह्येवं मध्यशृङ्गे मथोच्यते ।।
ब्रह्मसूत्रार्थ द्वौ भागौ मध्याद् गृह्य विपश्चिते ।
४०अ)
ब्रह्मसूत्रागतो योग मेधा चैवार्द्ध भागगं ।।
शेषारेखाविनाश्यन्ते दंडं वेदसमं पृथु ।
शृङ्गाधोर्द्धसमं कृत्वा चन्द्रार्द्धकृत लक्षणं ।।
तद्योगात् काञ्चिवच्चाधश्चतुरंगुलमानतः ।
द्विभागेनाधोदण्ड स्यात् द्वौ भागौ नाशयेत् समं ।।
त्र्यंगुले नाधकाञ्चीति कीलकाष्टांगुलो भवेत् ।
त्रिरेखस्तु स्मृतो दण्डस्त्रिशूलं परिकीर्तितं ।।
ऐशान्यं नामयत् पीठं तद्युक्तं शूलसंज्ञकं ।
रोद्री तेन समायुक्ता शूलिनीति च कीर्तिता ।।
शूलसंज्ञस्य लिङ्गस्य ऐशान्यासंप्रतिष्ठयेत् ।
प्रारब्धकार्यनिष्पती स्थिरराज्यमकण्ठकं ।।
किं कुर्वाणविधेयास्तु द्वीपद्विपाधि या नृपाः ।
स्वद्वीपवर्तिनाये च किं पुनर्वसगास्तुते ।।
भुक्त्वा तु विविधान् भोगान् ज्ञानयोगसन्धिताः ।
मर्त्यजाना वरारोहे शिवस्थानं पुनर्व्रजेत् ।।
वेदास्रादर्द्धकर्णन्तु वाहनीत्वाग्निवत् कुरु ।
भागमेक परित्यज्य द्विभागाच्च द्विधा भ्रमेत् ।।
त्रिभागान्त समं कृत्वा मध्यं भागात् परिभ्रमेत् ।
वाज्यनेसि समं कृत्वा पुनरन्ते परिभ्रमेत् ।।
न सिद्धयान्तरे चैव कलासंख्यारका स्मृताः ।
नाभौ तदर्द्धकञ्चैव द्विपं च नाभिमण्डलं ।।
विस्फाश्चक्रं समाख्यातं नाम्ना चैव सुदर्शनं ।
वैष्णवं नामयत् पीठं तद्युक्तं चक्रसंज्ञकं ।।
पिण्डिका च तथा ज्ञेया चक्रिणी नाम विश्रुता ।
चक्रार्द्धं पञ्चलिङ्गस्य कथितं पीठलक्षणं ।।
नैर्-ऋत्यां मध्यदेशे वा पूर्ववत् संप्रतिष्ठयेत् ।
रसरसायनं चैव पातालादि प्रसाधनं ।।
दैत्यकन्या प्रसिध्यर्त्र्हं नागकन्या प्रसाधकं ।
विलवे ताअलयं भ्राश्च मन्त्राश्चैवागमानि च ।।
मायाजालकुह्यकानि सिध्यन्ते ह्यविचारतः ।
तद्भाव द्रव्यमन्त्रैश्च क्रिया निष्ठस्य नित्यशः ।।
४०ब्)
पृथिव्यां विविधान् भोगान् भुक्त्वा राज्यमशेषकं ।
देहान्ते गमनं तस्य यत्र देवो महेश्वरः ।।
वेदास्रस्योर्द्ध कर्णेन सूत्रेणान्त त्रिभागिना ।
भागमेकं परित्यज्य भ्रामयेद् वृत्तमण्डलं ।।
वृत्तार्द्धं वेदवत् कृत्वा द्वाभ्यामन्ते परिभ्रमेत् ।
कर्णिकातं विकल्पित्वा द्वितीये केशरालिखेत् ।।
चतुर्विंशतिसंख्यातैरावक्रैस्तैस्त्रिभंगुरैः ।
द्विद्विभागान्ततः पत्रं वसुसंख्यं प्रकल्पयेत् ।।
बिन्दुषोडकं कृत्वा दिग्विदिक्षु विलक्षितं ।
दिग्विदिग्धान्तरेखास्तु यूग्मं युग्मं प्रकल्पेयेत् ।।
तीक्ष्णाग्रञ्च विभिन्नाग्रं सुपत्राष्टकशोभनं ।
कल्पिनस्तु भवेत् पद्मं खाण्ये चित्रे अयं विधिः ।।
नवसंख्या भवेद् बिन्दु कर्णिकस्थं विपश्चिते ।
ब्रह्माख्यं नामयत् पीठं तद्युक्तं पद्मसंज्ञितं ।।
जंघो पट्टांशके चैव कण्ठे चैव विशेषतः ।
चतुर्दिक्षु विभागेन पद्मान्तांस्त्राणि कल्पयेत् ।।
पिंडिका ब्रह्मसंज्ञा च तद्युक्ता पद्मिनी भवेत् ।
पद्मांकस्य च लिङ्गस्य मध्ये शैवा प्रतिष्ठयेत् ।।
पृथ्वी साधन हेत्वर्थं सप्तद्वीपसमन्वितं ।
जम्बूद्वीपसमन्ताच्च नवखण्डयुगानि च ।।
कुमारी द्वीपसंयुक्तं दीपाष्टकसमन्वितं ।
राजा भवति धर्मिष्ठश्चैकच्छत्र वसुन्धरः ।।
अथोत्तिष्ठप्रसिद्ध्यर्थं दण्डकाष्ठकमण्डलु ।
पद्मादीनां प्रसिद्ध्यर्थं पद्माख्यं लिङ्गसाधनं ।।
भुक्त्वा तु विविधान् भोगान् मर्त्यलोके समन्ततः ।
देहान्ते गमनन्तस्य यत्र देवो महेश्वरः ।।
समासेनसमाख्यातं पीठपिण्डिकलक्षणं ।
दृष्ट्वादृष्टफलं चैव सामान्यं परिकीर्तितं ।।
पीठपिण्डिकयोः प्रोक्तं समलिङ्गं समं भवेत् ।
अर्च्चायामसमन्ताच्च स्वभ्रा द्वै पिण्डका भवेत् ।।
पदा तु पिण्डिकामानं लिङ्गे वा क्रमते क्वचित् ।
तद्देशवासिनः सर्वे पिड्यन्ते व्याधिभिः सदा ।।
४१अ)
स्थापककर्तृशिल्पी च मूर्तिपैः सहसंयुतैः ।
वाध्यन्ते व्याधिभिः सर्वे क्षयकुष्ठ ज्वरादिभिः ।।
पिण्डिकायाश्च मानेन लिङ्गं चाक्रमते यदा ।
यदुक्त पूर्वजं दोषं तदा सर्वसमाप्नुयात् ।।
यथा कर्मानुरूपेण लिङ्गे योज्या शुभेन्यथा ।
मानहीनाद् भवेद्वानिः प्रोच्चाट्टाद्यं तथाधिकात् ।।
पिण्डिका लिङ्गपीठानां नित्यमेव भविष्यति ।
व्याधिको यो भवेन् नित्यं व्यंगमानं यदा भवेत् ।।
श्रीनाशं लक्षणैर्हीनं लिङ्गादीनानसंशयः ।
अज्ञात्वा लक्षणाद्यं च लिङ्गादीनां विशेषतः ।।
तस्य दोषं प्रवक्ष्यामि यथाराष्ट्रस्य पीडनं ।
भवति स्थापिते लिङ्गे पीठे वा कान्ति वर्जिते ।।
संपुटे सूत्रविट्कृच्छं सोदरेद् बुदराष्टकं ।
सक्षते क्षयराष्ट्रस्य कुक्षिच्छिद्रे विरेचनं ।।
पृष्ठहीने ह्यपस्मारं योनिच्छिद्रे भगन्दरं ।
कुष्ठाष्टादशकं लिङ्गै पीठे वा तेज वर्जिते ।।
सूत्रहीने तु पंगुत्वं शिरोत्तिश्च शिरोधिके ।
अंत्रवृधिरठम्फले पक्षहीने महाज्वरं ।।
सूक्ष्मयोनौ तु दौ भाग्यं वृहद्योनि प्रमेहकं ।
काशशोषम्तथा हिक्का सिध्यार्तिश्च विलुपिते ।।
लम्बसूत्रविहीने तु कर्णरोगश्च जायते ।
पक्षसूत्रविहीने च वक्षुहीन प्रजायते ।।
लिङ्गे वा पिण्डिकायाञ्च पीठे वा व्यक्तरूपके ।
मुखे लिङ्गाङ्गजे वापि चित्रे वा फलकेपि वा ।।
चललिंगेथ भूरेवा मृद्भवे शैलजादिके ।
यद्वीनं तत्रसौ व्याधिः प्रजानां प्रभवे ध्रुवं ।।
तस्माद्राजा सदाराष्ट्रे सन्निरूप्य यथाहितं ।
सर्वलक्षणसंयुक्तं लिङ्गं स्थापयेन् नृपः ।।
विरुद्धलक्षणं दृष्ट्वा तत्काले विघ्नमाचरेत् ।
न तस्य जायते दोषो धर्मज्ञो धर्मपालकः ।।
पृथ्वीपाल स्मृतो राजा शिष्टाचारप्रलापकः ।
अशिष्टनिग्रहख्यातो धर्मराजेवसंस्थितः ।।
४१ब्)
शुभाशुभपलयस्मात् चतुर्थांशं भृजेन् नृपः ।
मुखलिङ्गे च या पिण्डी कुर्याच्चैव द्विखण्डिकां ।।
अन्यथा जायते दोषो मुखनासादि भेदने ।
महाप्रतिमविन्यासे तत्रापि च द्विखण्डिका ।।
सन्धानस्तु दृढैः लोहैः कृष्णाद्यैः परिवर्जितैः ।
लोहारघोषसिमाद्या वर्जयेदशुभायतः ।।
रुक्मरौप्यं तथा ताम्रं कीलकादि समाचरेत् ।
मृदुचेन्नोधृतिस्तस्य काञ्चनोत्ताः शुभायसा ।।
हस्ताहधस्तु लिङ्गानां रौद्राणाञ्च वरानने ।
त्र्यंसूनाञ्च भवेत् पिण्डी स्वभ्रान्तन्तु समन्तयोः ।।
चललिङ्गे तथा कार्या पूजाभागसमं तयोः ।
रत्नजानां न तन्मानं कार्याशो यथा तथा ।।
यवगोधूममुद्गवल्लिसंरत्नमयं यतः ।
पर्वमात्र भवेत् तेषां पीठं नाधो मणेः क्वचित् ।।
सहस्राख्यस्य लिङ्गस्य पीठं वै चतुरस्रकं ।
पिण्डिका च तथा कार्या भगादीन् परिवर्जयेत् ।।
शैलजस्य तु लिङ्गस्य शैलजं पीठमुच्यते ।
तस्य मूलप्रदेशाधं पीण्डीपीठं क्रमा भवेत् ।।
ब्रह्मात्मिका शिलाचापि पीठस्याधो भवेद्ध्रुवं ।
ब्रह्मभागाधः खण्डैर्वा तत् षडंशा तु विस्तरं ।।
मेखले च स्मृतं तत्र तन्मानात् खातमुच्यते ।
ब्रह्मभागार्च्च त्र्यंशोनं वाहल्यं तत् प्रकीर्तितं ।।
चतुर्थांशेन वा कार्यं वृहल्लिङ्गस्य सुव्रते ।
किञ्चित् स्ववं(?) प्रकर्तव्यं मध्येन च विभागशः ।।
सुवर्णाद्यास्मजं चापि यथासम्भविकात्र तु ।
दारुजस्य तु लिङ्गस्य दारुजं पीठमुत्तमं ।।
धातुजे धातुजं कार्यं स्वजाति परिकल्पितं ।
रक्मरौस्मा?रताम्रैस्तु रत्नजे पीठकल्पना ।।
घोषादिकं न कर्तव्यं कर्तव्यं चान्यथाशये ।
चललिङ्गस्य यत् पीठं धातुजस्य वरानने ।।
लिङ्गायामद्विभागेन उच्छ्रयं परिकल्पयेत् ।
४२अ)
स्वयोनि स्फाटिकं श्रेष्टं नित्यमेव सुखावहं ।।
जम्बूनदादिकाम्वापि पूर्ववत् पीठकल्पना ।
प्रणालमेखला चैव पूर्ववत् स्वभ्रकल्पना ।।
भोगमोक्षप्रसिद्ध्यर्थं साध्यसाधन तत्परं ।
चललिङ्गं दारुजलौहं पार्थिवं मणिसम्भवं ।।
गन्धजं गुडजं वापि तिलान्नजमथापि वा ।
कूर्मजं शंखजं चैव विशेषेण नृशंखजं ।।
उत्तमाधममध्यञ्च सिद्धिदं तन्नसंशयः ।
स्रगप्लवं सदा किन्तु अभावाद् भावकल्पना ।।
अथान्यजं प्रकर्तव्यं स्वतन्त्रे विहितं यथा ।
शैलजं चललिङ्गं तु सिद्ध्यर्थी नैव कारयेत् ।।
कारयेद्वासमोक्षार्थी ह्येकपिण्डं मनस्मिवं ।
समयी पुत्रकस्यैव साधका चार्ययो न हि ।।
लिङ्गमात्रं यतः सोहि निष्क्रियो बोधमात्रकः ।
सर्वसिद्धिप्रसिद्ध्यर्थं वाणलिंगं प्रतिष्ठयेत् ।।
सर्वपीठाश्रयं तच्च सर्वप्रासादगंहितं ।
लोट्टनं वा तथैवेह वाणवत् परिकीर्तितं ।।
सर्वनद्याद् भवं तच्च सर्वाद्रीशसमुद्भवं ।
दृष्ट्वा लिङ्गा कृतिं मन्त्रैः स्थापितः सन्निधो भवेत् ।।
पीठप्रासादगं चैव विवक्षातस्यनो भवेत् ।
एतन्ते कथितं सर्वं पिण्डिकापीठलक्षणं ।।
सामानेन विशेषम्वा तच्च प्रासादगंहितं ।।
इति ब्रह्मयामले जयद्रथाधिकारे पिङ्गलामते पीठाधिकारो नाम प्रकरणः
पञ्चमः ।।
पिङ्गलोवाच ।।
तच्च प्रसादगं देव सूचितं न प्रकाशितं ।
भूपरि ग्रहपूर्वं च प्रासादानाञ्च लक्षणं ।।
कथयस्व प्रसादेन कालकामान्धकान्तक ।
भैरव उवाच ।।
मानोन्मानप्रमाणं च भूपरिग्रहपूर्वकं ।।
प्रासादलक्षणं वक्ष्ये शृणुष्वेकाग्रमानसः ।
तत्र भूमि विभागं तु सम्यगादौ विलक्षयेत् ।।
पुण्यक्षेत्रोपक्षेत्रञ्च संदोहं पीठमेव वा ।
४२ब्)
उपपीठोपसंदोहे नद्योभय तटेपि वा ।।
नगाग्रे त्वच्छिरे वा नगरे ग्रामखेटके ।
एकवृक्षे श्मशाने वा नदीनासङ्गमेषु च ।।
त्रिचतुःपञ्चशृंगाटे कुहरे गह्वरे तथा ।
कासिके वा स्वदिग्भागे तत्र भूमि परिक्षयेत् ।।
शितारक्ता तथा पीता कृष्णाभा ब्राह्मणादितः ।
स्वादैवा मधुराम्ला च कटुकातिक्तका तथा ।।
घृतासृक्सुत्रविष्टांता गन्धैः प्रत्येक लक्षिताः ।
ब्रह्माणी कुशरोहेण सररोहेण त्रिणी ।।
वैश्यादूर्वा प्ररोहेण कासरोहेण शूद्रिणी ।
सोषरां च सवल्मीकं जलाकीर्णां विवर्जयेत् ।।
ममकदंशकाकीर्णां क्रूरजंत्वस्थिमञ्चया ।
कृष्णामाङ्गारशिकताकीलकर्परवर्जिता ।।
शुभार्थे तु शुभाग्राह्या अशुभार्थे चाशुभामता ।
हस्तमात्रखनित्वा तु पांशुना पूरयेत् पुनः ।।
अधिकेनोत्तमाभूमिस्तत्समेन तु मध्यमा ।
न्यूनेन कन्यसा प्रोक्ता त्रिधा भूमिं विलक्षयेत् ।।
उत्तमे उत्तमे उमा सिद्धिः मध्यमे मध्यमा भवेत् ।
कन्यसे कन्यसा सिद्धिर्मारणोच्चाटनादिका ।।
फलेन तु सुलाङ्गल्य त्रिचतुःपञ्चधा प्रिये ।
उपरिष्टा द्वारयेद्वान्यांस्तिलान् व्रीहि यवादिकान् ।।
चणकांचणकीश्चैव मुद्ग?मासोडसी तथा ।
गोधूमाश्चैव नीवाराः सवाह्येकतमाथ वा ।।
दिवसत्रय रोहेण उत्तमासा प्रकीर्तिता ।
मध्यमा पञ्चरोहेण सप्तरोहेण कन्यसा ।।
तस्मादूर्द्धाऽशुभाज्ञेया यस्मात् सान प्ररोहणी ।
काटका वेष्टितं कृत्वा तत्स्थानन्तु निशामुखे ।।
आसकुम्भोपरिष्टान्तु घृतपूर्णासपत्रिकं ।
चतुर्दिक्षु चतुर्दीपं द्विजादिजातिवर्तितां ।।
पूर्वेण ब्राह्मणी वर्तिस्तां वक्त्रेणाभिमत्रयेत् ।
दक्षिणे क्षत्रिणी ज्ञेया घोरमन्त्राभिमन्त्रितां ।।
४३अ)
पश्चिमे शूद्रिणी प्रोक्ता सद्यमन्त्राभिमन्त्रितां ।
उत्तरे वैश्यणी ज्ञेया वामदेवाभिमन्त्रिता ।।
स्वतन्त्रवक्त्रमन्तैर्वा प्रणाथ वा प्रिये ।
सुगुप्ते सुनिर्वाने तु अस्त्रमन्त्राभिरक्षिते ।।
दिशावलोकनं कृत्वा कवचेनावगुंठयेत् ।
प्रज्वलन्ति यदि सर्वाः सर्वेषान्तु हितावहाः ।।
असंकीर्णस्मृतो वास्तु सर्वकामप्रसिद्धये ।
यो पशांत्ताशुभास्तस्य शुभान्यस्य विपर्यये ।।
सर्वशान्तान् शुभासौ पुनः प्रज्वालिता अपि ।
यावत् स्नेहं परीक्षयं तद्विना च न दोषभाक् ।।
एवं निशान्त मायातं भूपरिग्रहमाचरेत् ।
तत्काले सकुनं दिव्यं वेलेदय विलक्षणं ।।
रोहिण्यद्राधनिष्ठां च शतभिषोत्तरा त्रयः ।
श्रवणोमैत्रसंयुक्तो नक्षत्रोर्द्ध मुखाः स्मृताः ।।
स्थिरारम्भाः प्रशस्यन्ते प्रागुक्त तिथिवारयोः ।
योगस्तु करणं चैव तारा चैव विपश्चिते ।।
किन्तु चन्द्रप्रवक्ष्यामि यस्माच्चन्द्रवलंवलं ।
जन्मश्चन्द्रस्तृतीयस्तु षष्ठा वै सप्तमं तथा ।।
दशमेकादशाश्चैव सर्वकार्येषु सिद्धिदं ।
लग्नकन्या तुला चैव कुम्भश्चैव विशेषतः ।।
वृषश्चैव समाख्यातः सर्वकल्याणसंपदः ।
रविहस्ते भवेत् सिद्धिः मृगे चन्द्रस्तथैव च ।।
भौमः कृतिकसंयुक्तो बुधे चैवाभ्रराधकः ।
रेवती गुरुसंयुक्ता शुक्रवारे पुनर्वसुः ।।
शनिश्रवणयोगे तु सिद्धियोगाः प्रकीर्तिताः ।
आदित्याष्टमि योगे च दशमी चन्द्र योगतः ।।
एकादशी शुक्रयुक्ता बुधयुक्ता त्रयोदशी ।
एते सिद्धिकरायोगाः स्थिरारम्भाः प्रकीर्तिताः ।।
मेरुमध्ये प्रतिष्ठा सूर्यचन्द्रात्मकं लिखेत् ।
पूर्वापरगतारेखा दक्षिणोत्तरगास्तथा ।।
दिवाचक्रन्तु दक्षार्द्धं निशाचक्रोत्तरार्द्धकं ।
अहर्निशिविभागेन वाह्यात्मिकयोरपि ।।
४३ब्)
चक्रद्वयं प्रवक्ष्यामि यथावत् तत् तथा शृणु ।
धूमाङ्गारिणि ज्वाला च पूर्वार्द्ध प्रहरान्विता ।।
यत्र याम्यति साधुमा त्यक्ता चाङ्गारिणी मता ।
सविता यत्र स्मृता ज्वालामाऽशुभोदयमादिशेत् ।।
उदयं चाशुभं चैव धूमाङ्गारिणीका द्वयं ।
पूर्वदक्षान्तरे चैव रेखात्रय निपातनं ।।
दक्षापरे तथा चैवं रेखानाञ्च विकल्पना ।
उदयादिसमारभ्य यावदस्तङ्गतो रवि ।।
वाह्यचक्रविभागेन लक्ष्येदध्यात्मिकं प्रिये ।
ज्वालाद्वयविभागेन वाह्याध्यात्मिकयोरपि ।।
शकुनैस्तदुद् भवैर्विद्या ततद्दिशाभागलक्षितैः ।
प्रागुक्तैः शकुनै देवि वाह्यस्थैः खभुवात्मकैः ।।
एवं दिनविभागेन यच्छुभन्तत्पतिग्रहं ।
निशायां संप्रवक्ष्यामि शान्ताचक्रे यथास्थितां ।।
निर्माल्यं पुष्पितं चैव मुकुलं वापि लक्षयेत् ।
निशामुखादिमारभ्य यावत् प्रत्यूथगोचरं ।।
पूर्वरेखासमं कृत्वा सत्सार्द्धं प्रहरान्विता ।
शशिचक्रं स्मृतं ह्येवं त्यक्ता नैर्माल्यमुच्यते ।।
शशिर्पत्र स्मृतं पुष्पं मुकुलं यत्र यास्पति ।
तत्कलेपि यथापूर्वं शक्तनान्युपलक्षयेत् ।।
बाह्याध्यात्मियोगेन शुभा ग्राह्याऽशुभास्त्यजेत् ।
होरावाक्याक्षरस्थानादायपातोथ वा प्रिये ।।
अष्टारं चक्रमालिख्य ध्वजाद्यां प्रस्तरेद् बुधः ।
पूर्वै ध्वजं विजानीयात् दक्षिणे सिंह उच्यते ।।
वृषपश्चिमतो ज्ञेयः गजश्चैवोत्तरे तथा ।
स्थिरायास्ते समुद्दिष्टाः शक्तनाद्यं तद्दिशाहितं ।।
धूममग्नौ विजानीयादीतिस्थे श्वान उच्यते ।
तिर्यगे खर इत्युक्तो मूर्ध्निस्थे ध्वांक्षकं विदुः ।।
तदुत्कं शक्तनाद्यञ्च वलापचय कारकं ।
अशुभाऽशुभाग्राह्या शुभार्थ च शुभामताः ।।
४४अ)
सम्यक् ज्ञात्वा तु मन्त्रज्ञा भुपरिग्रहमाचरेत् ।
स्वाभिप्रेतस्य मानस्य चतुर्था साधिकं खनेत् ।।
समन्ताद्विस्तरं प्रोक्तं निम्नं यावज्जलान्तिकं ।
चिन्मात्रं *? खनेत् प्राज्ञः पुरुषार्थमथापि वा ।।
अर्द्धर्द्धं वाथ हस्तार्द्धन् दृढा वा यत्र गोचरे ।
पश्चादापूरयेत् प्राज्ञः खातञ्च तत्समन्तयोः ।।
चर्मस्यो पूरणं नेष्टं पक्षष्टकमयेन(?) तु ।
शिलामयोथधस्तात् सोपि भारगुरु स्मृतः ।।
उभयं चलते देवि फणीन्द्रविनिवर्तनैः ।
भूकम्परथयात्राभिहस्त्यश्चादि परिभ्रमैः ।।
तस्मान्नेष्टमयं कुर्यान्न च पाषाणसंचयः ।
मृदा वा केवलं नोक्तं न दृढं स्फोटनं भवेत् ।।
हस्तापूरास्म प्रस्तारैर्मृदमष्टांगुलोच्छ्रयः ।
सेकं चैवाकं कृत्वा कोटनञ्च प्रति प्रति ।।
पलाशाश्वत्ककाद्यैश्च हस्तिपाद कृतेन तु ।
अधो विपुलकं तंतु नाभिमात्रोच्छ्रयेण तु ।।
ग्राहेद्ग्रासंप्रकर्तव्यं ग्रहोर्द्धवृत्तमस्तकं ।
यथाशक्त्याहतं कृत्वा प्रस्तारैकं पुनः प्रतिः ।।
अनेनापूरयेत् खातं पादूनं यावदागतं ।
प्रासादमानतश्चैव उपविष्ठाद्वास्तु कल्पना ।।
सशल्या वा विशल्या वा विकृत्याशक्तनेन वा ।
मनसकल्पयित्वा तु वास्तौ शल्या निरूपयेत् ।।
पुराचोद्वारकं वक्ष्ये वास्तु सूत्रे यथास्थितं ।
तदुद्धृत्य समाकृत्वा वास्तुसूत्रप्रसारयेत् ।।
वक्ष्यमाणविधानेन प्रक्रान्त चैव वक्ष्यते ।
प्रतिष्ठालक्षणं चैव पादाख्यस्य च सुव्रते ।।
समाक्ष्या?तत्प्रमाणाया तत्राहृत्य शिलाष्टकं ।
कुम्भाष्टावग्निकुण्डाष्टौ चैकं वा निपुणो गुरुः ।।
यजेद् वास्तु नरं तत्र वक्ष्यमाण यथाहितं ।
गन्धपुष्पादिभिर्दिव्यैः वलिभिः सार्वकामिकैः ।।
तदूर्द्धे तु यजेच्छक्तिं सर्वाध्वानविधारिणीं ।
शक्त्यार्द्धे तु न्यसेद्वेदी वसुसंख्यादि शाष्टम् ।।
४४ब्)
नवमी मध्य देशे तु ह्यहुकं तत्र विन्यसेत् ।
तदूर्द्धविन्यसेद् ब्रह्म शिलाशक्तिञ्च साम्भवीं ।।
तस्यां रुद्राष्टकं सर्वं मूर्त्यादि सहितं न्यसेत् ।
धातुरत्नौषधीलोहबीजपारदगर्भितान् ।।
न्यस्तानन्त सुरेशादीं रुक्मतारारुणोद्भवान् ।
कलमासान्विन्यसे शक्तौ तन्मन्त्रैर्मध्यपूर्वकान् ।।
तदूर्द्धम्विन्यसेत् प्रोक्ता वेदिलोके स्वराणुनाभिः ।
हस्तमात्रास्तु वेदास्रास्तृतीयाशं समुच्छ्रयाः ।।
लोकपालायुधां कावा पद्माष्टदलभूषिताः ।
शिवमतुलं वर्णस्थमुच्चार्य नवमी न्यसेत् ।।
अधोभुवनमेतन्तु कालाख्यस्य च सुव्रते ।
षडावरणपर्यन्तं कालाख्यादि प्रकीर्तितं ।।
कालोर्द्धमात्म तत्वं स्यातन्मात्रां तन्तु विद्यषा ।
बुद्धिकर्मेन्द्रिये तं सनोत्तं व्याप्ति सिष्यते ।।
गुणत्रय कृताटोपं गर्वबुद्धिसमन्वितं ।
शिवाख्यमेवमध्वानं पादभ्यासे प्रकल्पयेत् ।।
मूले सद्वे तथोर्द्धे च कल्प्यं तत्व त्रयं त्रिधा ।
कल्पयित्वा ततोधीसान् ब्रह्मविष्णु हरान् क्रमात् ।।
धर्मे ज्ञानञ्च वैराग्यमैश्वर्यञ्चतुर्थकं ।
अग्नेयादि क्रमेणैव यावदीशानगोचरे ।।
पादरूपो स्मृता ह्येते हरिरूपेण वामुना ।
अधर्मा ज्ञानकं चैव अवैराग्यमनैश्वरं ।।
गात्रका चतुरो ह्येते पूर्वाद्याश्चोत्तरान्तगाः ।
स्थिरमेनं सदाध्वानं अब्रह्म भुवनान्तिकं ।।
तत्र पुष्पैर्प्रकल्प्यादौ निरोध्य विन्यसेत् पुनः ।
रुद्राष्टकन्तु विधिवत् मूर्त्यष्टकसमन्वितं ।।
गन्धपुष्पादिभिर्भद्रे पूजयेच्च शिलाष्टके ।
क्षमां पूर्वे तु विन्यस्य आग्नेययामग्निमेव च ।।
याम्यदिग्यजमानं तु नैर्-ऋतेकं न्यसेत् बुधः ।
* * *? वरुणं न्यस्य वायव्यां तिर्यगं न्यसेत् ।।
सौम्य इन्द्रविन्यस्य ऐशान्यां व्यासकं न्यसेत् ।
४५अ)
शिवमूर्तिं न्यसेन्मध्ये प्रासादान्ते च व्योमगां ।।
मूर्ति न्यासे कृते पश्चादतोन्यास्त्वधि देवताः ।
सर्वः पशुपतिश्चोग्रो रुद्र *? वस्तथैव च ।।
इशानश्च महादेवौ भीमो मूर्त्यधि देवताः ।
इत्युग्निश्च यमश्चैव रक्षशो वरुणस्तथा ।।
वायुः सोमस्तथेशानः पूर्वादिशान्तगोचरे ।
कुम्भाष्टकेषु न्यस्तव्या लोकपालास्रयं युताः ।।
स्वनाम * *? स्तेषां हि प्रणवादि नमोन्तिकाः ।
पूजाकाले प्रकर्तव्या स्वाहान्ता होमकर्मणि ।।
शृष्ट्यातत्वादि विन्यास संशुद्धिस्संहृति क्रमात् ।
संपूज्यैवं विधानैस्तु वलिधूपसुरासवैः ।।
स्वांगं कुण्डेषु संपूज्य समित्तिलघुतादिभिः ।
स्वाग्नौ होमं प्रकर्तव्य ज्ञात्वा द्रव्यवलोवलं ।।
मूर्तिमूर्त्याधिपानान्तु लोकपालान्तथैव च ।
शतं वापि सहस्रम्वा तस्याप्यर्द्धमथापि वा ।।
स्वतत्वाध्व विभागेन यथासंविशोधयेत् ।
शिलासमीपतो गत्वा शिक्त्वाशन्ति घटाम्भसा ।।
शिलासंस्पृश्यदर्भेण दिगीशात् पूजयेत् गुरुः ।
तत्व त्रयं च विन्यस्य जप्त्वाहुत्वा च शक्तितः ।।
भागे भागे ततः कुर्यात् सत्वानं तत्वयोः क्रमात् ।
शुद्धाशुद्धात्मना देवि ह्रस्वदीर्घा कुसम्वरैः ।।
निर्वर्त्यैव ततो वर्ज्यमर्मवास्तो निवेशयेत् ।
ध्रुवयोगे सनक्षत्रे करणेचारसंयुते ।।
कर्तुश्चार्घनुकूले वा शिलास्थापनमारभेत् ।
सुप्रतिष्ठजगारम्भ कालध्यानान्मवृत्तिना ।।
सप्ताहुती ददेत् पश्चाद्ध्यात्वा तद्गुणमयुताः ।
अनेन विधियोगेन गुरुणासंनिवेशितं ।।
यथाभिप्रेतसंसिद्धिस्तथा भवति नान्यथा ।
तस्योर्द्ध कल्पयित्वा तु अध्वानं वक्ष्यमाणकं ।।
प्रासादात्मगतं चैव प्रकृताद्यं शिवान्तिकं ।
तत्वसंधानकं चैव कल्पयेच्चाधि दैवतं ।।
४५ब्)
ततो भूतगणेभ्यश्च वलिं वै सार्वकामिकं ।
सर्वान्नसहितं दद्यात् स्वमन्त्रकृत् विग्रहः ।।
प्रणवञ्च दिशांशब्दं वासिभो?श्च ततःपरं ।
अघोरेभ्योथ घोरेभ्यो घोरघोरतरेभ्यश्च ।।
सर्वतः शर्वः सर्वेभ्यो नमः सर्वात्मनेति च ।
भ्योन्तशब्द त्रयं दत्वा भूतमातृदिशाधिपान् ।।
नमस्वान्ते प्रयोक्तव्यं पूजाकाले विपश्चिता ।
धूपे स्वाहा प्रयोक्तव्या स्वधाकाराघदापने ।।
वौषडन्तं ददेत् पानं वषडन्ता वलि क्रिया ।
हूं विसर्ज्य ततो यायात् फट्कारास्त्रसमुच्चरन् ।।
एवं सर्वत्र दातव्यस्तत्स्थाने तु दिशावलिं ।
स्वशास्त्रे विहितं वाथ वलिकर्मादिमाचरेत् ।।
स्वनाममन्त्रिभिः ज्ञात्वा ग्रहरक्षा प्रदापयेत् ।
दत्वा वलिं शुभावाप्तिर्भवेत् प्रासाद कल्पना ।।
अन्यथा तु महाविघ्नं प्रकुर्वन्ति विनायकाः ।
तस्मात् सर्वत्र दातव्यो वलिर्वै सार्वकामिकः ।।
इहासुत्र फलैर्योगः समाप्तारम्भ कर्मसु ।
तत्कृतात्मासमाचम्य दत्वा वै शिव दक्षिणा ।।
शिवमस्त्वित्यनुज्ञतोः विभाः प्रासादमारभेत् ।
अधुनासंप्रवक्ष्यामि प्रासादानान्तु लक्षणंः ।।
चतुरस्रं समं कृत्वा दिग्विदिक्षु विलक्षितं ।
समं वसु विभक्ते तु तिर्यगूर्द्धं यथाक्रमं ।।
चतुर्भागे तु पीठं स्याद्वि ऋतु भ्रमणं भवेत् ।
चत्वारिंशाष्टभिश्चैव भित्तीनां तु विकल्पना ।।
क्षेत्रसमोर्द्धजंघा च गंघोर्धे द्विगुणं भवेत् ।
शिखरञ्च वरारोहे शुकार्घागर्भमानतः ।।
तत्त्रिभागसमं चैव निर्गताग्रे प्रकल्पयेत् ।
विस्तरं गर्भमानेन उच्छ्रयं शिखरार्धतः ।।
विस्तरं वसुवत् कृत्वा षट्भागाद्गर्भ उच्यते ।
शुकाघ्रायास्तु प्राग्रीवा भागाभ्यां परिकल्पयेत् ।।
प्राग्ग्रीवा च स्मृताभित्तिः शुकाघ्रासाश्च निर्गमं ।
४६अ)
वास्तुमानं स्मृतं ह्यैतत् मण्डपैर्हीनलक्षणं ।।
लिङ्गमानमतो वक्ष्ये पीठलिङ्गसमं भवेत् ।
पीठार्द्धेन भवेद् गर्भः समताच्चैव सुव्रते ।।
तद्विधा च भवेद्भिः जंघा तद्विस्तरेण तु ।
द्विगुणं शिखरं प्रोक्तं जंघा ऊर्द्धं वरानने ।।
पीठगर्भान्तरं कर्णं तन्मानेन शुकाघ्रकं ।
निर्गमश्च समाख्यातः शेषान्यं पूर्ववद् भवेत् ।।
लिङ्गमानं स्मृतं ह्येतद् द्वारमानमथोच्यते ।
तुर्या *? वेदवत् कृत्वा द्वारं भागसमं भवेत् ।।
विस्तरेण समाख्यातं द्विगुणं चोच्छ्रयं भवेत् ।
द्वारवत् पीठं मध्ये तु शेषं सुषिरकं भवेत् ।।
पादैकादशिकाभित्तिर्द्वारार्द्धार्द्ध परिग्रहात् ।
तद्विस्तरसमाजंघा शिखरं द्विगुणं भवेत् ।।
शुकाघ्रा पूर्ववत् ज्ञेया निर्गमोच्छ्रयकं तथा ।
मण्डपैर्हीनप्रासादे शुकाघ्रापरिकल्पिता ।।
समण्डपे यथाभ्यासः शुकाघ्रां कथयामि ते ।
गर्भा द्वेदांशिके नैव भूतांशे नाथ वा प्रिये ।।
निर्ग्मताग्रे प्रकर्तव्या शुकाघ्रामण्डपान्विते ।
पूर्ववच्छेषमानं तु शुकाघ्राविस्तरोच्छ्रया ।।
निराधारा श्रयाणान्तु न्यासोयं परिकीर्तितंः ।
एकहस्तादि लिङ्गानां यावद् वै पञ्चहस्तकं ।।
समण्डपा विना वापि निरान्धारा प्रकीर्तिताः ।
गर्भसूत्राच्छ्रकाघ्रायाषार्श्वतो मण्डपोत्तमः ।।
क्षेत्रवच्च वहिस्तस्मात् पक्षयोस्तूत्तमो भवेत् ।
विस्तरेणसमाख्यातं तत्समम्वाग्रतो भवेत् ।।
गर्भमानेन पक्षौ तु विस्तरन् समोग्रतः ।
मण्डपश्च समाख्यातः मध्यमः सुरसुन्दरिः ।।
गर्भार्द्ध पक्षयोश्चैव वै पुण्यं तत्समोग्रतः ।
कन्यमस्तु समाख्यातस्तदर्द्धेनार्द्धमण्डपः ।।
शुकाघ्रा तत्समा चैव समन्ताच्चतुरस्रिका ।
गर्भसूत्रसमश्चैव विज्ञेयः पादमण्डपः ।।
मण्डपस्याग्रतञ्चैव गर्भार्द्धन्मुखमण्डपः ।
४६ब्)
मुखमण्डपार्द्धतोग्रे स्यात् वृषभस्य तु तुष्किका ।।
चतुरश्रा समन्ताच्च तुर्यांशेनांतर भवेत् ।
समस्तमण्डपोन्मानार्द्ध जयष्टि यथा शृणु ।।
मण्डपस्त्रितयात् सूत्रा दन्तरेथजसंस्थितिः ।
वेदाश्राष्टाश्रवृत्तस्तु तस्योर्द्धे तु स्वकायुधं ।।
कृष्णलोहमयं शुभ्रं शुद्धशैलमयं तथा ।
वृषोवाथ प्रकर्तव्यो वलीचास्रो हि सन्मुखः ।।
अधस्तार्द्धेदि वन्धस्तु घटो वापि कजासनं ।
तदधो वलि पीठन्तु चतुर्हस्तान्तरम् भवेत् ।।
चतुरश्रं प्रकर्तव्यं वृत्तं वा कमलेव वा ।
तत्र संस्थापयेन् नित्यं वल्याहार प्रियं प्रिये ।।
शिखरस्य चतुर्थांशे विज्ञेया तु प्रदक्षिणा ।
मण्डपस्य समाग्रे स्याज्जगती वन्धको भवेत् ।।
प्रासादभित्तिवज्ज्ञेयं प्राकारञ्च समतयोः ।
उच्छ्रयं चैव चिन्मात्रं सार्द्धम्वा कौशिकात्मकं ।।
समण्डपोयमाख्यातो निरान्धाराश्रयः प्रिये ।
सान्धारिक मतो वक्ष्ये यथावत् तत् तथा शृणु ।।
सदृस्तादि कलिङ्गानां यावत् तन्नवहस्तकं ।
रुक्मरौप्यादिकानान्तु महाप्रति मयाथवा ।।
प्रासादांश्च वरारोसान्धाराम्य परिकल्पयेत् ।
अन्यथा तु न कर्तव्या यदिस्यंदशुभं भवेत् ।।
यथा सिद्धिन्तु कर्तव्या यतोमानाधिकास्तुते ।
स्वमतं क्षेत्रमानन्तु वस्तुवद् भाजयेत् समं ।।
भागैके वाह्यभित्तिस्तु द्वितीयेऽन्धारिका भवेत् ।
तृतीये च पुनर्भित्तिः गर्भकोष्टैस्तु वेदवत् ।।
शुकाघ्राग्रे प्रकर्तव्या तद्गर्भगर्भमानतः ।
भित्तिर्भित्तिसमातस्या निर्गमोच्छ्रय पूर्ववत् ।।
अथवान्य प्रकारेण वेदाश्रं तारवत् कुरु ।
पीठं गर्भस्तथाभित्तिः सान्धारीभित्तय पुनः ।।
मध्याद्यन्तविभागेन पदैक कृतलक्षणाः ।
शुकाघ्रा पूर्व?न्न्यासः स गर्भे भित्ति संयुतः ।।
४७अ)
सान्धारिकं स्मृतं ह्येतद् वास्तुमानं वरानने ।
लिङ्गमानमतो वक्ष्ये यथावत् तत् तथा शृणुः ।।
पीठं लिङ्गसमं कृत्वा गर्भश्चैव तथा भवेत् ।
गर्भार्द्धभित्तयश्चैव भित्ति तुल्यान्धकारिका ।।
पीठवद्वाह्यभित्तिस्तु? शुकाघ्रापूर्ववद्यथा ।
विस्तरं चोच्छ्रयं चैव निर्गमञ्च वरानने ।।
लिङ्गमानं समाख्यातं द्वारमान तथोच्यते ।
गर्भार्द्धार्ध भवेद्वारं द्वारवन्मध्यपीठकं ।।
द्वारार्द्धाच्छुषिरं विद्यात् तन्तुल्याभित्तयस्तथा ।
भित्तिरन्धारिका ज्ञेया समन्तान्तु सुशोभना ।।
द्वारवद्वाह्यभित्तिस्तु शुकाघ्रा पूर्ववद्यथा ।
विस्तरं चोच्छ्रय चैव निर्गमश्च वरानने ।।
किंतु स्यान्निर्गमस्तस्या द्वारार्द्ध परिकीर्तितः ।
द्वारमानं स्मृतं ह्येतन् मण्डपानामथोच्यते ।।
पक्षयोः शुकनासातः क्षेत्रमानन्नयेद्वहिः ।
विस्तरस्तन्समाग्रे स्यात् समन्ताच्चतुरस्रकं ।।
मण्डपस्तु समाख्यातः उत्तमः शुभलक्षणः ।
*? न्धारिकायाः पक्षौ तु विस्तरस्तत् समोग्रतः ।।
चतुरश्रः समन्ताच्च मध्यमः परिकीर्तितः ।
गर्भभित्ति समान्सूत्रात् शुकाघ्रा पक्षयोर्भवेत् ।।
विस्तरम् तत् समोग्रे स्यात् कन्यसं तम्विजानतः ।
गर्भसूत्रं समोग्रे स्यान् मुखमण्डपको भवेत् ।।
प्रासादभित्तिवज्ज्ञेया मण्डपस्य न संशयः ।
प्रासादस्य त्रिभागेन विज्ञेया तु प्रदक्षिणा ।।
मण्डपस्य त्रिभागनंजगतीवन्धकोत्र तु ।
मुखमण्डपवत्त्यक्त्या वृषभस्य च * *? का ।।
मण्डप द्वय मानेन प्रकुर्यार्थजं संस्थितं ।
प्रासादस्य चतुर्थांशात् पार्श्वे देवाश्रयाः स्मृताः ।।
प्राकारभित्ति युक्तास्ते नाक्रमेत प्रदक्षिणां ।
*? तश्चो वलभी भूताः पूर्वाद्यादिग्व्यवस्थिताः ।।
तुर्यान्ये शिखराकारां आग्नेयादि विदिग्गताः ।
४७ब्)
पूर्वे या वलभी प्रोक्ता मध्ये द्वारागलान्विता ।।
मुखमण्डपः वद्वाह्ये चतुरायाश्रयान्वितः ।
द्वारार्द्धे भूमिका दिव्यं घटी गृहं तदुच्यते ।।
नंदिनञ्च महाकालं द्वारस्थाने निवेशयेत् ।
अर्द्धनारीश्वरं रुद्रं न्यसेद्वह्नि दिशात्मके ।।
मातरोयमदैवत्ये नैर्-ऋत्यां भृंगिविग्रहं ।
योगेश्वरालयं दिव्यं वारुण्यां विन्यसेद् बुधः ।।
आप्यास्यं वा प्रतीहारा पूर्वे योगेश्वरं तदा ।
वायव्यां वाश्विनौ देवा *? सा देवी तथोत्तरे ।।
चण्डेशञ्च तथैशान्या लोकेशां प्रकल्पयेत् ।
इन्द्राग्नि यमरक्षस्तु वरुणो वायुसोमकं ।।
इशानश्च स्मृता ह्येते पूर्वाद्या इशगोचराः ।
देवास्तदंशका चार्थ ऐशान्यामीश्वरं न्यसेत् ।।
धू * * *? प्रतिष्ठाप्य आग्नेययांरविन्यसेत् ।
याम्ये तु योगिनं देवं नैर्-ऋत्यामश्विनौच्यते ।।
प्राचेतसिदिशाभागे न्यसेच्चन्द्रकलासनं ।
वायव्योविश्वकर्माणं कामदेवमुद *? सेत् ।।
एवंमेतैर्वृतं देव मध्ये देवं प्रतिष्ठयेत् ।
प्राकारखातकेवाथं देवानेतान्निवन्धयेत् ।।
द्रव्याभावात् तथा भद्रे प्रासादस्थांश्च कारयेत् ।
विभूतिर्भक्तिमत्वञ्च तदा यतनकं शृणु ।।
अष्टोत्तरशतं लिङ्ग वरायतनमुच्यते ।
लिङ्गाष्टकवृता मध्ये नवायतनमध्यमं ।।
तुर्यसंख्यावृतैर्लिंगैः प्ञ्चायतनकन्यसं ।
तेषां च लक्षणं वक्ष्ये यथा यतन संस्थितिः ।।
सूर्यवद्भाजितं क्षेत्रं समन्ताचतुरस्रकं ।
घटिकाधारसंयुक्तः प्राकारैः पदिको भवेत् ।।
ततोत्तरं प्रकर्तव्यं भागेनैकेन सुन्दरि ।
तस्माद् भगान्तमानन्तु पूर्ववदक्षाप्यसौम्यगं ।।
अन्तलिङ्गं प्रतिष्ठाप्य मूललिङ्गानुगञ्च यत् ।
तस्माद्भगानवं? कृत्वा भागैर्जगतिका भवेत् ।।
चतुर्भागात्मक मध्ये * *? लिङ्गानुगञ्च यत् ।
४८अ)
तस्माद् भागान्तरं कृत्वा भागैर्जगतिका भवेत् ।।
चतुर्भागात्मकं मध्ये मूलप्रासादकल्पना ।
पञ्चायतनमाख्यातं विदिक्चतुर्भिस्तत्समं ।।
लिंगसम्यक् प्रतिष्ठाप्य दिश्यष्टा यतनं भवेत् ।
अष्टोत्तरशतम्वक्ष्ये लिङ्गानां स्थापनं प्रिये ।।
चतुर्विंशात्मकैर्भागैः कृत्वा क्षेत्रं समन्ततः ।
प्राकारो वाह्यभागैस्तु समताच्चतुरस्रकं ।।
तस्माद्भागान्तरं चैकं द्वारमध्ये द्विभागिकं ।
चतुर्दिक्षुश्चतुद्वारं प्राकारान्ते विवन्धयेत् ।।
द्वारो द्वे वलभीभूतं भूमिकाभिः समन्वितं ।
कोणे चत्वारि लिङ्गानि प्राकारपदिकानि च ।।
शेषम्प्राकारभितीस्तु कोशीरं पदिकात्मकं ।
पञ्चहस्तोच्छ्रयन्तस्य वेदाग्निकरि एव वा ।।
अन्तराद्भगामालाभिः लिङ्गमालाः प्रकल्पयेत् ।
पदैकौकान्तरं त्यक्त्वा चतुःकोणादितः क्रमात् ।।
मध्ये भागद्वयं चैव चतुर्दिक्ष्वन्तरं भवेत् ।
तस्माद्भगात्मकं तद्वदंतरं परिकल्प्येत् ।।
अन्तराद्भागमालभिर्लिङ्गमाला यथापुरा ।
किन्तु मध्यान्तरन्तत्र भागार्धाद्वा भयोरपि ।।
मध्ये लिङ्गं प्रकर्तव्यं भागार्द्धर्ध परिग्रहात् ।
अन्तरञ्च पुनस्तद्वल्लिङ्गमालां पुनस्तथा ।।
प्रनोऽन्तरं पुनर्लिङ्गं माला चैव तथा शृणु ।
द्विभागन्तरकं मध्ये तत्र लिङ्गं द्विषट्ककं ।।
अन्तरञ्च पुनस्त्यक्त्वा मूलशेषैस्तु मध्यगं ।
एवं संपिण्डितं सर्वं नवाधिकशतं भवेत् ।।
मूलैः सहमहादेवि लिङ्गसंख्या प्रकीर्तिता ।
हस्तमात्रं स्मृतं तत्र लिङ्गं चाष्टाधिकं शतं ।।
त्रिहस्तादि स्मृतं मध्ये यावन्तं नवहस्तकं ।
मध्यास्रयानु रूपेण पार्श्वलिङ्गाश्रयाः स्मृताः ।।
चतुर्धारोर्द्धा वापि प्रकुर्यान्नृत्यमण्डपं ।
सर्वभद्रकः पूर्वे पश्चिमे स्यात् त्रिपिष्टपः ।।
दक्षिणे च प्रदीर्घः स्यादुत्तरे चतुरस्रकः ।
४८ब्)
तेषाञ्च लक्षणं वक्ष्ये विनियोगं यथा यथा ।।
कृतं षोडषधा क्षेत्रं समन्ताच्चतुरस्रकं ।
भागैकसंप्रवेशेन कोणे चतुरवर्जनात् ।।
तत्क्षेन्नाद्दिशि संयोज्य निर्गमात् सर्वभद्रकः ।
तन्निर्गमाच्चतुर्दिक्षु मत्तचारणकं शुभं ।।
भागैके वाह्यभित्तिस्तु समन्ताच्चैव कल्पना ।
द्वितीये योश्रयं चैव तृतीये गणिकाश्रयं ।।
चतुर्थं चान्तरा कल्पं वेदीगुणणिका विधिं ।
चतुष्पदमुदङ्ग?स्य नर्तावकनिवेशनं ।।
गातारपूर्वतस्तद्वद्वारुणेवंशिनस्तथा ।
दक्षिणे मुरजावाद्या प्रेक्षकायाश्रयाश्रयाः ।।
नृत्यपीठम् भवेन् मध्ये उच्छ्रयाष्टाङ्गुलेन तु ।
षट्त्रिंशति पदं देवि नृत्यकान्ते प्रकल्पयेत् ।।
एवं समासतः ख्यातः पूर्वे वै नृत्यमण्डपः ।
पश्चिमे वायदा नृत्यं त्रिपिष्टपमयम्विदुः ।।
प्रदीर्घे वचयस्तस्य वारुण्याश्चैव सुव्रते ।
तत्क्षेत्रं पूर्वतश्चैव मुखमण्डपवद् भवेत् ।।
तत्रापि पूर्ववन्न्यासो गातारानुगवंसिनां ।
शेषान्यं पूर्ववन्न्यासं भिन्न्याद्यं नृत्यकांतगं ।।
त्रिपिष्टपः समाख्यातः त्रिषु स्थानेषु निर्गमः ।
प्रदीर्घ्यं संप्रवक्ष्यामि यथा दक्षिणतः स्थितः ।।
चतुरश्री कृते क्षेत्रे समेवस्वंसवर्तिते ।
भागभागं परित्यज्य तञ्च तञ्च पूर्वापरेभ्यसेत् ।।
दीर्घेन पूर्वतोभ्यस्य नर्तावकनिवेशनं ।
पश्चिमे मुरजावाद्या गुणत्यन्ते प्रकल्पयेत् ।।
पदैकावाह्यभित्तिस्तु गतागर्तास्तदानुगाः ।
गुणनीशानमो ख्यातं दक्षिणस्यां प्रदीर्घकं ।।
उत्तरे चतुरस्रन्तु घटी गृहं तदुच्यते ।
सामान्ये मानमित्युक्तं प्रासादानां सुरेश्वरि ।।
विशेष लक्षणं वक्ष्ये रूपस्थानर्कसंज्ञया ।
मेरुश्च मन्दरश्चैव कैलाशश्च तथैव च ।।
सर्वभद्रकमन्यच्च विमानोननृनस्तथा ।
४९अ)
नन्दिवृद्धिर्गरुन्माच सिन्हः कुम्भोगजस्तथा ।
वृषभः पद्मनामा च चतुरस्राष्टकस्तथा ।।
षोडशास्रोथ?ग्वा वृक्षौ वर्द्धमानास्तथैव च ।
पूर्ण श्रीवत्सनामा च खण्ड श्रीवत्सकस्तथा ।।
तथा खण्डार्द्धकश्चैव भद्रोहंसस्तथैव च ।
नलिनः श्रीनगश्चैव गृहराजस्तथापरः ।।
गृहार्द्धो वलभीनाम च्छन्दोन्यो मिश्रसंज्ञकः ।
यत् किञ्चिद् विस्तरं मानं तदष्टांशतु कन्यसे ।।
वहिस्तु निर्गमं कृत्वा तलच्छन्दास्तु वर्तयेत् ।
द्वादशांशाधिकं मध्यमुत्तमे विकृतिर्यथा ।।
मेरुमन्दरकैलास सर्वभद्रे स्वयं विधिः ।
विमानादौ न तन्मान तेषां तत्काल लक्षणं ।।
सप्ताविंशत्यमीनाम्ना तल्लक्षणमथोच्यते ।
चतुरश्री कृते क्षेत्रे द्वादशाधि शतं कुरु ।।
गुणभागप्रवेशेन तद्वयं मध्यविस्तरं ।
भागोभागश्च भागश्च निर्गमस्तु समो यथा ।।
पृथुत्वेन द्वयैकं च त्रयञ्च रथकल्पना ।
प्रवेशञ्च तथा कुर्यात् शरवत् कोणपिण्डिका ।।
पुनस्तद्द्वच्चतुर्दिक्षु यावन्नार्तं समाप्यते ।
तत्र कुर्याच्छ्रकाघ्रां तु यन्मध्ये ऋतु भागिकं ।।
सा च सृङ्ग चतुष्केण संहतेन प्रमाणतः ।
चतुर्दिक्षु चतुर्द्धारः शुकाघ्राश्च तथा पुनः ।।
कुम्भकोणनिवद्धस्तु चतुरायाश्रद्वान्वितः ।
षड्विंशति गमोश्चैव प्रथमाघाटकः स्मृतः ।।
जंघोर्द्ध तु वरारोहे भूमिका पञ्च तत्र तु ।
द्वितीया घाटके चैव चतुर्विंशतिभिर्गमैः ।।
चतुभूमिस्तु तत्रस्थ कर्तव्यस्तु सुशोभनः ।
तृतीया घाटके चैव गमैर्द्वाविंशकैस्तथा ।।
तत्र भूमिस्त्रयं चैव कर्तव्यं शुभलक्षणे ।
चतुर्थाघाटके चैव गमैर्विशैस्तु कल्पयेत् ।।
भूमिकञ्च द्वयन्तत्र वेद्यूर्द्धञ्च द्विभूमिकं ।
चतुराघकदिव्यै भूमिकाभिर्द्विरष्टभिः ।।
जंघोर्द्धे उच्छ्रयः ख्यातो वेद्यान्ते च सुरेश्वरि ।
४९ब्)
वेद्यष्टांडकमाख्यातं शुकाघ्रास्थैर्द्विरष्टभिः ।।
चतुर्विशाधिकैः शृङ्गैः शताण्डैरेरुरुच्यते ।
विचित्रचित्रसंयुक्तः पत्राद्यैरुपशोभितः ।।
चतुर्मुख सुशोभाढ्यो मेरु चैव प्रकीर्तितः ।
चतुराशीतिभिर्भागैः वेदाश्रं विभजेत्समं ।।
भागैः षड्भिः स्थितामध्ये रथकां कल्पयेद् दिशिः ।
भागैकं संप्रवेशेन भागे कुम्भं विनिर्दिशेत् ।।
चतुर्भागैः स्मृतो मार्गः कुम्भके चतुनिर्गमः ।
भागैक निर्गमं कृत्वा रथकम्वेदवद् भवेत् ।।
पुनस्तद्वत् प्रवेशस्तु निर्गमश्च तथैव च ।
प्रवेशं तद्विधं कुर्यात् भागमात्रेण निर्गमं ।।
कोणपिण्डी त्रिभागैस्तु पुनस्तद्वत् समाचरेत् ।
रथकैः कुम्भकैर्मार्गैः कोणैः पीठस्तु मध्यगैः ।।
एवं चैव प्रकर्तव्यो यावन्नान्तं समाप्यते ।
समसूत्रासमाख्यातामंदराधो विवर्तना ।।
शुकाघ्रां मध्यमागैस्तु चतुर्दिक्षु प्रकल्पयेत् ।
चतुःशृङ्गैः शुकाघ्राभिः पूर्ववन्मानकल्पितैः ।।
जंघोर्द्धे वै तत्रापि चतुराघाटकः प्रिये ।
त्रयोविंशगमैश्चैव प्रथमा घाटकः स्मृतः ।।
एकविंशैर्द्वितीये च तृतीये चोनविंशकैः ।
गमैः सप्तदशैश्चैव चतुर्था घाटकोत्तमं ।।
भूमिकाभिर्यथेन्द्रांशैर्वेद्यं तं परिकल्पयेत् ।
शुकाघ्राशिखरैर्युक्तः तुर्पुनः शतशृङ्गकः ।।
केवलो मन्दराख्यश्चतुरशीति परिकीर्तितः ।
चतुर्मुखस्तु विज्ञेयश्चतुर्दिक्षु सुशोभनः ।।
कुम्भकोणनिवद्धस्तु निर्गमायाश्रयान्वितः ।
शेषोभित्तिनिवन्धस्तु विचित्रशिखराकुलः ।।
यथाशोभा प्रकर्तव्या लक्षहेतुर्विलक्षितः ।
विचित्रचित्रसंयुक्तो मन्दराख्य प्रकीर्तितः ।।
चतुरश्री कृते क्षेत्रे समे षट्त्रिंशवर्तिते ।
भागाष्टकेन रथकं मध्यदेशे प्रकल्पयेत् ।।
भागैकसंप्रवेशेन त्रिभिश्चोपरथो भवेत् ।
५०अ)
प्रवेशकस्तु मध्यस्थश्चतुर्भिरथकानुगः ।।
रथव्यक्तो पदैकं तु लुप्तापिण्डी चतुःपदैः ।
कुर्यात् पदार्थ विच्छ्रेष्ठं नाम्नाकैलाशसंज्ञकः ।।
कोणपीठैश्च रथकैस्तथा चोपरथात्मकैः ।
चतुर्नामश्चतुर्दिक्षुश्चतुर्द्वारोपशोभितः ।।
चतुःशृङ्गैः शुकाघ्राभिस्तुङ्गं शृङ्गान्वितैः स्थितः ।
चतुराघाटकः सोपि विंशाष्टादशषोडशैः ।।
चतुर्दशगमैश्चैव भूमिकैर्द्वादशैः स्थितः ।
शुकाघ्राशिखरैर्युक्तस्तुर्याशीतिरुदाहृतः ।।
शुकाघ्राशिखरै हीनः षष्टिसाष्टः प्रकीर्तितः ।
सापाश्रयसमायुक्तश्चतुर्दिक्षु सुशोभनः ।।
प्रथमाङ्कैर्विचित्रैस्तु सुरविद्याधरालयः ।
कैलासस्तु समाख्यातो रुद्रस्यातीववल्लभः ।।
अष्टाविंशतिभिर्भागैः वेदाश्रविभजेत्समं ।
ऋतुभागैर्भवेन्मध्ये भद्रश्चैव सुरेश्वरि ।।
भागैकसंप्रवेशेन त्रिभिः स्यात् चोपभद्रकं ।
पुनर्भागैक ह्रासेन द्वाभ्यां स्याद्भद्रकानुगंः ।।
तद्व्यक्तौ च पदैकन्तु कुर्यात् कोण त्रिभागिकं ।
पुरुषार्थसमैद्वारैः शुकाघ्राभिरलंकृतः ।।
सापाश्रयञ्चतुर्दिक्षुः भ्रमात् सर्वत्र कल्पयेत् ।
केवलस्तलच्छन्देन समोधस्ताच्छुशोभनः ।।
उपरिष्टाद्विमानाङ्गा मेरुमन्दर एव वा ।
कैलासनन्दनो वापि श्रीवत्सो भद्र एव वा ।।
सर्वात्मशिखरैर्युक्तः सर्वत्र भद्रको यतः ।
वेदास्रोद्विंशमांसं तु समन्ताद्वाह्यतो ह्व?येत् ।।
चतुरश्रं द्वितीयं तु भवते नात्रसंशयः ।
दशभागैः पुराक्षेत्रं विभजेत् सर्वतः समंः ।।
चतुभिरथकोमध्येस्ततो भागात्मकं भवेत् ।
द्विभागे कोणवंधस्तु समन्ता चतुरश्रकं ।।
चतुराघाटकः सोहि आदौ सप्तदशेन तु ।
गमैः पञ्चदशैरेव द्वितीयं परिकल्पयेत् ।।
५०ब्)
तृतीयाघाटके चैव दश त्रितयकैर्ग्गमैः ।
चतुर्थैकादशेनैव भूमिकाभिः दशान्वितः ।।
गवाष्टकासंयुक्तौ विमानन्तु निवन्धयेत् ।
विंशमांसैः प्रकर्तव्याः शिखरस्य गवाक्षकाः ।।
तन्मात्रेण मधोदीर्घं वृत्तमूर्ध्निसमाकुलैः ।
शृङ्गैस्तुङ्गगतैर्दिव्यैर्मध्यस्थैश्चन्द्रशालकैः ।।
तच्छिराशिगतैर्वृत्तैश्चन्द्रशालासमन्वितैः ।
सकपाटैटालालाद्सु?चैः द्रेस्यार्द्धाङ्गी प्रकल्पयेत् ।।
चतुर्द्वारोथकार्यः शुकाघ्राश्च तथा पुनः ।
चत्वारिंशतिभिः शृङ्गैर्विमानः कथितो मया ।।
सर्वभद्रकरूपेण वेद्यं तंतु पदान्वितं ।
नन्दनं तम्विजानीयाद्भूमिकैर्द्वि ऋतुर्भवेत् ।।
चतुराघाटकः सोहि चतुर्द्वारोपशोभितः ।
चतुर्नासः सुशृङ्गस्तु चतुःषष्टण्डकान्वितः ।।
चन्द्रशार्द्ध चन्द्रैश्च चतुराश्रयान्वितः ।
विचित्रचित्रसंयुक्तः प्रोक्तोयं शुभलक्षणः ।।
नन्दनो नन्दते भोगैर्यदिष्टं तत्प्रसादतः ।
भागषोडशकं क्षेत्रं भागमात्राद्वयेद्वहिः ।।
द्वितीयं सिद्ध्यते क्षेत्रं तयोस्तिर्यक् त्रिधा भवेत् ।
वेदाशैर्मध्यरथकः क्षेत्रान्तविकृतेन तुः ।।
सार्द्धभागोपरथकः तत्समोन्तर्गतमो भवेत् ।
त्रिभागे कोणवन्धन्तु समन्तात् कल्पयेच्छुभे ।।
नन्दकावर्तलांछैस्तु गमान्ते पद्ममेव वा ।
चतुर्नामश्चतुर्द्वारश्चतुरायाश्रयान्वितः ।।
चतुराघाटकः सोहिः भूमिकाभिर्दशान्वितः ।
चत्वारिंशाण्डकैर्युक्तः प्रासादो नन्दिवर्तनः ।।
चतुरश्री कृते क्षेत्रे पृष्ठतः पादनिर्गमः ।
विस्तरं गर्भमानेन पक्षयोश्च तथैव च ।।
शुकाघ्रग्रे प्रकर्तव्या पूर्वमानविकल्पता ।
अभ्यन्तरे षडश्रस्तु पक्षयोश्च गृहद्वयं ।।
तयो गृहानुरूपेण वाह्यद्वारं प्रकल्पयेत् ।
५१अ)
ब्रह्मरुद्रौ च तत्रस्थौ वामदक्षिणयोगतः ।।
मध्ये विष्णु प्रतिष्ठाप्य प्रासादो गरुडः स्मृतः ।
पक्षगैः शुकनामस्थैर्गरुडैश्चेष्टकामयै ।।
शैले शैलैः प्रकर्तव्यः काष्ठजे काष्ठजैस्तथा ।
भुजङ्गमेखला वद्धैः कण्ठैः सर्पविभूषितैः ।।
वक्त्रारगप्रलम्बैश्च प्रासादो गरुडात्मकः ।
शुकनासायायन्मानं निर्गमश्चैव सुव्रते ।।
तन्मानं पृष्ठतो नीत्वा भ्रामयेद्वृत्तमण्डलं ।
तत्र कोणद्वयं त्यज्य अग्रे कोणद्वयान्वितः ।।
सिंहाकारं प्रकर्तव्यं शुकाघ्रासिंहवक्त्रकं ।
शिखरं वा यदा कुर्यातदाघ्राग्रस्थसिंहकं ।।
जंघापृष्ठोन्नतिं कुर्यात् सिंहः प्रासादको मतः ।
वेदास्रम्याष्टसंभागं त्यक्त्वा वृत्तपरिभ्रमेत् ।।
प्रवृद्धे वृत्तजंघा च कुंभाकाराधमानतः ।
गर्भञ्चैव तथा वृत्तं शुकाघ्रारहितो भवेत् ।।
उपरिष्टाच्चतुवृत्तैः खण्डखण्डैस्तु ह्रासतः ।
नयेद् वेद्यन्तकं यावत् कुम्भोयं परिकीर्तितः ।।
वेदाम्रात् पञ्चमांशं तु न्यस्त्वावृत्तार्द्ध चन्द्रवत् ।
पृष्ठतस्तु न कोणं वै शुकाघ्राग्रे यथापुरा ।।
पृष्ट्वासोन्नतांगे स्यात् प्रोतुङ्ग न समन्वितः ।
विचित्रशिखरां कीर्णो गजाख्यः सुखदो भवेत् ।।
कुम्भवद्वाह्यवृत्तस्तु गर्भो वै चतुरस्रकः ।
कैलासांकोपरिष्टाच्च विमालाङ्कमथापि वा ।।
अग्रे वै वाघ्रया युक्तो वृषोनामप्रकीर्तितः ।
वृत्तमण्डलकं क्षेत्रं कृत्वा चैव त्रिभागिकं ।।
एकैकं षोडशांशन्तु कर्तव्यं तु वरानने ।
भागमात्रं वहिभ्राम्य समन्ताच्चैव सुव्रते ।।
भागैकान्तरकं कृत्वा द्विभागात् यत्र कल्पना ।
रेखात्रयांश ह्रासाच्च जंघां तं प्रप्यितं(?) तथा ।।
जंघोर्द्धं यत्र ज्ञप्तिस्तु मञ्जरीरि वसुव्रते ।
अग्रे चैकाघ्रे या युक्तश्चतुर्भागास्रि कल्पना ।।
५१ब्)
षोडशास्रः स्मृतः पद्मः पद्माकारेवसंस्थितः ।
वेदास्रश्चतुरास्रेवजंघान्तसमलक्षणः ।।
शिखरं द्विदशं कृत्वा वेद्यन्तश्चैव सुव्रते ।
भागैकान्तरकं कृत्वा कुर्यादस्रिवरण्डकं ।।
शुकाघ्रैका प्रकर्तव्या चतुरस्रः प्रकीर्तितः ।
पूर्वेवाष्ट्रास्रकं कुर्यात् कर्णसूत्रविवर्तनात् ।।
अत्यन्तरं चतुरस्रंस्तृकोणोपस्थ शुकाघ्रया ।
षोडशास्रस्तथैवेह अस्रियुक्तौघ्रयान्वितः ।।
कुम्भवद् वृत्तभागस्तु जंघांत चैव सुव्रते ।
जंघोर्द्धे विंशमांसन्तु वरण्डं वृत्तरूपिणं ।।
शुकाघ्रारहितः सोपिग्वावृक्ष इति स्मृतः ।
दशभागी कृते क्षेत्रे भागमात्रं वहिः समं ।।
तद्वेदन्तरसूत्रं तु रथकं मध्यगम् भवेत् ।
सार्द्धभागोपरथकश्चान्तरंञ्च तथा भवेत् ।।
कोणपिण्डी द्वि भागाच्च वर्द्धमान उदाहृतः ।
भागार्द्धं कारयेत् ताभ्यां जलान्तरकमुत्तमं ।।
शृङ्गैश्चोपरथैकुर्याच्चन्द्रमालान्वितैस्तथा ।
पूर्णश्रीवच्छकः ख्यातः सर्वकामार्थसाधकः ।।
रुद्रवद्भाजितं क्षेत्रं निर्गमं पूर्ववद्यथा ।
द्विभागां कोणवत् तस्तु सार्द्धभागोपसंज्ञकः ।।
पूर्ववज्ज्ञानमार्गन्तु रथकश्च त्रिभागिकः ।
मृगाकार्द्धोपरथस्थैः खण्डः श्रीवत्सको मतः ।।
जंघान्तवर्द्धमानस्तु जंघोर्द्धखण्डशालकः ।
वेद्यन्तम्वान्तरैः सुस्थैः ज्ञेयं खण्डार्द्धकं विदुः ।।
श्रीवत्स त्रितयं प्रोक्तं तद्भेदो नन्दिवर्द्धनः ।
त्रिधाभूतस्तु द्रष्टव्यं पूर्णार्द्धः खण्ड एव च ।।
नन्दनो भद्रभेदेन भिन्नोस्मि त्रिविधो भवेत् ।
पूर्णशालादि भेदेन खंडार्द्धान्तः प्रकीर्तितः ।।
सप्तभागी कृते क्षेत्रे भागमेकं वहिस्तथा ।
त्रिभागैविस्तरं मध्ये द्वौ द्वौ कोणे तु संस्थितौ ।।
५२अ)
पुराक्षेत्रसमंभद्रे विख्यातं भद्रलक्षणं ।
वेदास्रं तुर्यवत् कृत्वा भागोभागस्तु पक्षयोः ।।
निर्गमस्तु समाख्यातो विस्तरं गर्भवद् यथा ।
अग्रे शुकाघ्रयो युक्तो गर्भश्चैव सुवृत्तकः ।।
जंघोर्द्धे नन्दनोनंदि वृद्धिः श्रीवत्सवर्द्धनी ।
विमानाङ्कमथान्यञ्च पृष्टतश्च न किञ्चन ।।
पार्श्वे गृहद्वयोपेतं वाह्ये द्वारं यथापुरा ।
हरिरुद्रौ तु तत्रस्थौ मध्ये ब्रह्मा प्रतिष्ठयेत् ।।
पार्श्वगे च शुकाघ्रे च हंसलांचनलाञ्छिते ।
हंसोनामसमाख्यातः प्रासादस्तु पितामहे ।।
सर्वभद्रोथ भद्रो वा नलिनैर्लांच्छितो यदा ।
तदातं नलिनं विद्यात् सर्वत्र शुभकर्मकृत् ।।
जंघामात्रविमानस्तु जंघोर्द्धं मन्दरान्वितः ।
श्रीशैलोनामविख्यातः प्रास्यदः सर्वसिद्धिदः ।।
चतुरश्रः महाद्वारो भद्रवन्निर्गमाद्दिशि ।
काष्ठारर्थोत्र रुद्वश्च भूमश्च सुशोभनः ।।
गृहराज स एवात्र सर्वसाधारणोमतः ।
रुद्रलक्षणहीनस्तु काष्ठांरर्थो यथापुरा ।।
पट्टशालाग्रतो युक्तो गृहार्द्धक उदाहृतः ।
भागाष्टक कृतं क्षेत्र पूर्वापरे द्वे वर्जयेत् ।।
तिर्यग्घैर्घ समस्त हितच्चोदश्याम्यगं न्यसेत् ।
चतुभागाग्रतो दद्यान् मध्ये द्वारं तु भागिकं ।।
सार्द्धभागे भवेद् भित्तिः भागार्द्धे पीठकल्पना ।
मातरस्तत्र संस्थाप्या शेषं स्याच्छुषिरवरं ।।
कर्तव्या च यथा शोभा भैरीषवर्त्तयोगतः ।
नन्दिकावर्तकैः हंशैः पद्मात् कीर्णसुशोभनैः ।।
हांशोर्द्ध कलसा दिव्यास्तुर्यसंख्या च पंक्तिगा ।
पृष्ठोग्रे शिखराकीर्णः समोवाथ त्रिभूमिकः ।।
पार्श्वे तु भैरिवत् हंशैः प्रासादोवलभी भवेत् ।
वलभ्यन्तन्तु मेर्वादि पृथक् संज्ञा स्वरूपतः ।।
कथितं सर्वमेतन्तु अद्यं तन्तु विभागयेत् ।
५२ब्)
अन्योन्यसन्निकृष्टस्तु एताद्यन्तु विभागसः ।।
प्रासादामिस्रकास्तत्र तत्संख्यासंप्रजायते ।
यस्य रूपं भवेज्जघा तस्योच्चार्यं तु मिश्रकं ।।
शैलोरर्थेष्टकानां तु काष्ठारर्थे तथैव च ।
प्रासादास्तत्र विज्ञेया लक्ष्यलक्षणयोगतः ।।
मृन्तृणारर्थयोगस्तु कुटी संज्ञस्तु सस्मृतः ।
प्रमाणं चाधुनावक्ष्ये हस्तमानं यथा भवेत् ।।
मेर्वादि शिखराणां तु वेद्यादौ यत् प्रकीर्तितं ।
मेरुः पञ्चाश हस्तस्तु समन्ताच्चतुरश्रकः ।।
मन्दरस्तु तथा भूतः पञ्चहस्तविवर्जनात् ।
चत्वारिंशतिभिहस्तैः कैलासो गज एव च ।।
पञ्चत्रिंशत्करेणैव सर्वतो भद्र उच्यते ।
त्रिंशहस्तस्तु कर्तव्यो विमानश्छंदकः शुभः ।।
नन्दनोनन्दि वृद्धिश्च पञ्चविंशकरावुभौ ।
एते ज्ञेयो महान्धाराश्चतुर्द्वारोपशोभिताः ।।
षदृस्तादि कलिङ्गानां पञ्चविंशादिकं भवेत् ।
खगेश्वरादितः कृत्वा यावद् वै वलभी भवेत् ।।
निराधाराश्रयास्ते तु लिङ्गं पञ्चकरान्तगाः ।
गरुडः पञ्चकश्चैव विंशहस्तौ प्रकीर्तितौ ।।
षोडशाष्टाश्रकौ चैव करषोडशका वुभौ ।
श्रीवत्स तृतीयञ्चैव वर्द्धमानस्तथा परः ।।
हस्तद्वादशके नैव कर्तव्यस्तुर्यसंख्यया ।
कुम्भो वृषोथ हंसंश्च वलभिच्छन्दकस्तथा ।।
दशहस्ता प्रकर्तव्याः प्रासादास्तुर्यसंख्यया ।
सिंहो नलिनः श्रीशैलः ग्वावृक्षश्चतुरश्रकंः ।।
अष्टहस्ता प्रकर्तव्या ये चान्ये शुभलक्षणाः ।
गृहार्द्धगृहराजस्तु दशपञ्च करावुभौ ।।
लिङ्गमानप्रमाणाद्वा यावदन्त चतुष्करं ।
त्रिकरं द्विकरम्वापि ग्रहरक्षादिकं प्रिये ।।
तेषां तु लक्षणं वक्ष्ये पीठाद्यं च यथा भवेत् ।
नवधा भाजितं क्षेत्रं पीठं मध्ये तु भागिकं ।।
द्विभागं गर्भ इत्युक्तो भित्तयस्तु तथा भवेत् ।
अथवा पञ्चभिर्भागैर्वेदास्रं विभजेत् समं ।।
५३अ)
भागोभागश्च भागश्च पीठो गर्भश्च भित्तयः ।
भित्तिहीनास्तु ते ख्याता भित्तिगर्भसमायतः ।।
अष्टहस्तादि ये युक्ता भित्यधिका मतास्तुते ।
मेर्वादौ मिश्रकाये तु महान्तस्तेपि कीर्तिताः ।।
तत्प्रमाणौ च ये छन्दालघुसंस्थानकापि वा ।
कर्तव्या रूपमात्रास्तु कर्तृभूति विवक्षया ।।
लिङ्गमानमतो वक्ष्ये प्रासादानां न संशयः ।
हस्तमात्रस्य लिङ्गस्य प्रासादस्तु चतुरष्करं ।।
स पादकरलिङ्गस्य प्रासादः पञ्चहस्तकः ।
सार्द्धहस्तस्य लिङ्गस्य षट्करः परिकीर्तितः ।।
पादून द्विकरस्यैव सप्तहस्तो भवेच्छुभः ।
द्विकरस्य च लिङ्गस्य प्रासादोष्टकरो भवेत् ।।
तस्यो द्वे त्रिषु लिङ्गेषु चान्तरेषु च सुव्रते ।
शक्तिदिक् रुद्रसंख्यातैः करैः प्रासाद कल्पना ।।
हस्तद्वादशके नैव प्रासादस्त्रिकरस्य च ।
तदूर्द्ध त्रितयस्यैव लिङ्गस्यान्तरस्य च ।।
प्रासादैक कराधिक्यो यावद् वस्तु त्रिपञ्चकं ।
चतुहस्तस्य लिङ्गस्य विकारकरसंख्यया ।।
तस्योर्द्धे त्रिषु लिङ्गेषु चान्तरेषु च सुव्रते ।
सप्ताधिक दशाष्टौ च नवाधिक दशस्तथा ।।
पञ्चहस्तस्य लिङ्गस्य प्रासादः कृति हस्तकः ।
तस्योर्द्धे त्रितयस्यैव लिङ्गस्यान्तकरस्य च ।।
एकद्वाविंशकश्चैव त्रयोविंशस्तथैव च ।
प्रासादाः कीर्तिता भद्रे निरान्धारासुशोभनाः ।।
षदृस्तस्य च लिङ्गस्य पञ्चविंशत्कराश्रयः ।
प्रासादास्तु वरारोहे सान्धारस्तु प्रकीर्तितः ।।
तदूर्द्धं त्रितयस्यैव अन्तरालस्य सुव्रते ।
षड्विंशस्तु तथासप्त अष्टाविंशकरस्तथा ।।
प्रासादास्तु वरारोहे सान्धारास्तु सुशोभनाः ।
सप्तहस्तस्य लिङ्गस्य प्रासादस्त्रिंशहस्तकः ।।
तस्योर्द्धे त्रितयस्यैव लिङ्गस्यांतरकस्य च ।
५३ब्)
एक द्वात्रिंशतिश्चैव त्रयस्त्रिंशस्तथैव च ।।
अष्टहस्तस्य लिङ्गस्य पञ्चत्रिंशत् कराश्रयः ।
दूर्द्ध त्रितयस्यैव अंतलिङ्गस्य सुव्रते ।।
षट्त्रिंशति तथा सप्त अष्टत्रिशत् कराश्रयः ।
नवहस्तस्य लिङ्गस्य प्रासादं कथयामिते ।।
चत्वारिंशत् करेणैव कर्तव्यस्तु सुशोभनः ।
अन्वा?रिकुसमायुक्तो नामाधिक्य उदाहृतः ।।
रुक्मरौप्यादि लिङ्गीनां मोहाप्रति मयोपि च ।
तदूर्द्धे कथितं भद्रे यावत् पञ्चाशकं करं ।।
अतोर्द्धन्तु न कर्तव्यः प्रासादोदोष कृत् मतः ।
मिश्रकान्तरलिङ्गेषु द्राविडं वाथ नागर ।।
देवदानवसिद्धानां स्थापने यो विधिस्मृतः ।
तत्र प्रासादमानन्तु नोक्तं मर्त्योद्भवं समं ।।
हीनलिङ्गेपि कर्तव्यौ वृहत् प्रासादकः शुभः ।
वृहल्लिङ्गेपि हिनः स्यात् प्रासादोवित्त भावतः ।।
स्वयं भूतेति प्रत्यक्षे तीर्थे यात्रा समन्विते ।
तत्र मेरु प्रकर्तव्यः पञ्चाशकरसंयुतः ।।
शते दशसहस्राङ्के नवहस्त प्रकल्पिते ।
मन्दराख्यः स्मृतस्तत्र पूर्वमानविकल्पितः ।।
वाणलिङ्गेति प्रत्यक्षे मुखलिङ्गोत्तमेषु च ।
प्रासादस्तत्र कर्तव्यो मेरुमन्दर एव वा ।।
वर्ततां शिखरस्यैव कथयामि तवा ।
सान्धारिका श्रयाणान्तु मेरुवादौ ये प्रकीर्तिताः ।।
उच्छ्रयं पूर्वमानेन च्छेत्रार्द्धे कृतसंच्छिखः ।
जंघोर्द्ध द्विगुणं यत्र तत् पृथुपक्तिवत् कुरु ।।
तस्याप्युर्द्धार्द्ध भागस्तु चोच्छ्रयं तुर्यधा कुरु ।
कण्ठोच्छ्रयस्तु पादेन द्विपादो मलसारकः ।।
पादे कुम्भो परिष्टान्तु उच्छ्रयः परिकीर्तितः ।
सार्द्धभागे पृथुः सोहि दशभागी कृतस्य तु ।।
पञ्चकामलसारस्य पृथुत्वेन तु सुव्रते ।
त्रिभिर्भागैर्भवेत् कण्ठः षड्भिर्वेदी सुशोभना ।।
द्विभागान्तः प्रमाणं यत् तत्समं वाह्यतो ह्वयेत् ।
५४अ)
तत्पृथुच्छ्रय भूतैस्तु भागैर्भक्त समोविधः ।।
नयेद्वेद्यंतकं यावत् भागाभागेन हानितः ।
पञ्चखण्डात्मिका वेदी समन्ताच्चतुरश्रिका ।।
जंघा ऊर्द्धे च वेद्याधो मध्ये सूत्रं ततो नयेत् ।
दक्षिणोत्तर योगेन वर्तनां चैव कारयेत् ।।
नन्दि वृद्द्यान्तकानां तु मेर्वादौ ये प्रकीर्तिताः ।
तेषामाघाटकं चैव क्रमाद्भूमि विभागशः ।।
द्रष्टव्यन्तु वरारोहे पूर्वमानविकल्पितः ।
शुकाघ्रास्वप्रमाणेन शिखरार्द्ध विसर्पिणी ।।
तत्कपोलस्य संहारो भेरीसम्वर्त्तयोगतः ।
हांसेष्टके प्रवर्तव्यो गणनांगुलमान्तः ।।
निरान्धाराश्रयानां तु मण्डपान्वित लक्षणं ।
क्षेत्रमानोच्छ्रयस्तेषामजंघस्त्रिगुणो मतः ।।
जंघोर्द्धे वेदवत् कृत्वा पादोर्द्धे तुर्यवर्तना ।
पृथुत्व मृषिवद्भज्य त्रिभागोर्द्धे तु सुव्रते ।।
वेदीरामैति वद्वा च पृथुत्वेनान्तु लक्षयेत् ।
सार्द्धभागे पृथुकण्ठः द्विभागामलसारकः ।।
पादूनभागवृत्तस्तु कलसस्तु सुशोभनः ।
शेषोधः पूर्ववत् ख्यातो रूपस्थानकलक्षणः ।।
अत्रापि शुकनासा तु पूर्ववल्लक्षणान्विताः ।
मण्डपै हीनाये प्रेक्ताः प्रासादास्तु वरानने ।।
सार्द्धभागोच्छ्रयस्तेषां जंघार्द्धे तु प्रकीर्तितः ।
पूर्ववद्वर्तमानान्तेषां सप्तभागविभागशः ।।
तस्योप्यर्द्धविसर्पिण्या शुकघ्रा पूर्ववद् यथा ।
भित्तिहीनास्तु ये चान्ये स जंघद्विगुणोच्छ्रयाः ।।
अष्टभागकृतं तन्तु सप्तमै सप्तधा कुरु ।
तदूर्द्धे स्वेदवत् कृत्वा पूर्ववद्वर्तना भवेत् ।।
त्रिभागैस्तु भवेज्जघां त्रिभागोर्द्ध तु वर्तनां ।
पञ्चखण्डात्मिका वेदी भागेनैकेन कल्पयेत् ।।
भूतभागोर्द्धतश्चैव शुकाघ्रां परिकल्पयेत् ।
ध्वजावस्थानसद्वार युक्तोयं मण्डपस्विना ।।
५४ब्)
जगेच्छ्रयेषु कामानान्तु हान्सः कर्यो नवात्मकः ।
खण्डखण्ड यथामानं तथासौ घटना भवेत् ।।
तथा सिन्हे च कर्तव्यो भेरीसंवर्त योगतः ।
विंशमासैर्विमानस्य दैर्घ्याः कार्या गवाक्षकाः ।।
अन्येषामपि कर्तव्याश्चत्वारि माससंयुताः ।
वातकम्य प्रवालैश्च गजाश्च रथभूचलैः ।।
विनागवाक्षकैः स्फोटस्तस्मात् कार्या गवाक्षकाः ।
कण्ठोर्द्धे तु चतुर्दिक्षु ध्वजधारणनिर्गमं ।।
कण्ठाधस्ताच्चतुर्थेन पञ्चमेनायतांगिनः ।
वेद्यात्मकं प्रकर्तव्यं ध्वजयष्टिनिवेसनं ।।
रथकेषु यदा कुर्यात् स्थानञ्च दिशि देवतां ।
भित्यष्टकसमासेन षुसिरं परिकल्पयेत् ।।
विस्तराद्विगुणं चोर्द्धे प्रवेशो न कथंचन ।
एवं चैव समाख्यातं सम्यक् प्रासादलक्षणं ।।
इति ब्रह्मयामले जयद्रथाधिकारे पिङ्गलामते प्रासादाधिकारो नाम
षष्ठमः प्रकरणः ।।
पिङ्गलोवाच ।।
द्वारंसंसूचितं देवनोक्तं लक्षणतस्त्वया ।
मण्डपानान्तथैवेह विभागस्तम्भसंख्यया ।।
कथयस्व प्रसादेन शूलपाणि वृषध्वज ।
भैरव उवाच ।।
द्वारमानञ्च कर्तव्यं गर्भमानार्द्धमुत्सृतं ।।
५४अ)
विस्तरञ्च तदर्द्धेन कर्तव्यन्तु वरानने ।
कर्णसूत्राच्च गर्भोत्थात् षड्भागाद्द्वयवर्जनात् ।।
उच्छ्रयं विस्तरं चैव पूर्ववत् परिकल्पयेत् ।
तथान्य लिङ्गमानेन षोडशांशविवर्जनात् ।।
विस्तरं द्विगुणोच्छ्रय उत्तमाना प्रकीर्तितं ।
मध्यमलिङ्गमानेन विस्तर द्विगुणोच्छ्रयः ।।
कन्यसानान्तु यन्मानं चस्वंसाधिकविस्तरं ।
उच्छ्रयश्च यथापूर्व कर्तव्यस्तु वरानने ।।
तथा चाङ्गुलं मानेन द्वारं चैवाधुना शृणु ।
चत्वारिंशाधिके नैव वशतेनांगुलमुच्छ्रयः ।।
विस्तरञ्च तदर्द्धेन उत्तमं परिकीर्तितं ।
दशह्रासैः प्रकर्तव्यं रिषिद्वारं वरानने ।।
पञ्चषष्टिभिरन्यच्च यद् भवेत् कन्यकन्यसं ।
प्रतिमानां न चान्येषां कृतांगुलविवक्षये ।।
विस्तरस्य चतुर्थांशे शाखायो विस्तरं भवेत् ।
तदर्द्धेन तु वै पुल्यं शाखयो परिकल्पयेत् ।।
विस्तरस्यार्द्धमुच्छ्रयधमधोदुम्बरकं भवेत् ।
तदर्द्धेन तु वै पुल्यं तस्यैव परिकल्पयेत् ।।
ऊर्द्धादुम्बरकं चैव तदष्टांशविवर्जनात् ।
प्रतिमाखास्तु यास्तत्र त्रिभागूनाः परस्परं ।।
शशिरामदिशार्द्धम्वा ऋषिभागथवा प्रिये ।
विषमास्तु स्मृताः शाखाः नवान्तानोर्द्धगं क्वचित् ।।
शाखोच्छ्रय चतुर्थाशे प्रतीहारौ पुरास्मृतौ ।
सरितौ मिथुनं चैव भारवाहास्तथैव च ।।
विद्याधरास्तथा भूयः किन्नराश्च तथैव च ।
गावोगिरिस्तथा नागा नवशाखा च कल्पिताः ।।
नागान्तनवशाखन्तु गर्वातं सप्तशाखगं ।
विद्याधरान्तं भूतान्तं त्रिशाखमिथुनान्तगं ।।
एवलंप्रतिहारस्तु एकशाखं यदा प्रिये ।
शेषो विहङ्गः श्रीवत्स स्वस्तिकोत्पलमालिकैः ।।
शंखैगजघटैश्चैव श्रियावर्तैस्तथैव च ।
नागपाशैः सुशोभाढ्यैः शाखाशोभा यथा भवेत् ।।
ऊर्द्धोदुम्बरमादौ च श्रीगजास्य हरिस्तथा ।
यक्षिणीशंकरश्चैव ग्रहाष्टौ पक्षिसंस्थिता ।।
व्याख्याद्यश्च श्रीकण्ठस्तथा नाटेश्वर स्मृतः ।
मातरपंक्तिसंस्थास्तु नवांताः क्रमतोदिताः ।।
शाखार्द्ध भागतो ज्ञेया संजूषाशाखसंग्रहे ।
अभ्यन्तरे च द्रष्टव्या कपाटास्तत्र संस्थिताः ।।
द्विखण्डश्चैकखंडो वा स चोक्तः सारदारुजः ।
अधोर्द्धकीलकैर्युक्तश्चैकाङ्ग नैव कारयेत् ।।
चतुरंगुलोधकीलस्तु ऊर्द्धाष्टांगुलको भवेत् ।
५४ब्)
कनसस्य कपाटस्य मध्यमे दशपञ्चकः ।।।
ऊर्द्धाधः कीलकश्चैव द्वादशार्द्धस्तु चोत्तमे ।
कीलाधारोस्मजश्चाध ऊर्द्धाधारश्च दारुजः ।।।
सुसंधिताषसैः कीलैः पत्रिकैः पट्टसन्धितैः ।
तिर्यगार्गलकैर्युग्मैः ऊर्द्धे वार्गलकोपि वा ।।।
एवं सुसन्धितं द्वारं कपाटं चार्गलान्वितं ।
कुञ्चिकोद्घाटनार्थाय शृंखला कुंचिकापि वा ।।
पृथुत्वस्य चतुर्थांशादीनस्यादर्द्ध चन्द्रकः ।
अधोम्वराग्रतो वा द्वे परिपट्टस्तु कीर्तितः ।।
तत् षडंशाद् भवेत् पक्षौ कपित्थंकरिरूपिणौ ।
मूलशाखाधतस्तच्च कुम्भाद्यैनवान्तकैः ।।
यथानुक्रमयोगेन शाखाम् वै कल्प्य वर्तयेत् ।
एवं सुनिर्मितं द्वारं स्वजाति सारदारुजैः ।।
नवं पुराणकाष्ठेन द्वारञ्च यदि निर्मितं ।
तदा तत्कालहं नित्यं मित्रामित्रो भविष्यति ।।
शाखयोः सकलाक्रान्तं द्वारयुक्तं यदा भवेत् ।
तदा दारिद्रकः कर्ता सगोत्रश्च भविष्यति ।।
अधो विपुलकं द्वारं स्त्रियश्चापल्यमादिशेत् ।
द्वारोर्द्ध विपुलं चैव प्रभुत्वं प्रमदा भवेत् ।।
द्वारे पिपीलाका मध्ये धनधान्य सुतर्क्ष?यः ।
यवमध्ये तथा द्वारै व्याधिवृद्धिस्तु जायते ।।
यदि स्यान् सूत्रहीनन्तु द्वारं चैव तु सुव्रते ।
राजडण्डस्तदा तत्र वर्षाद्वर्षात् प्रजायते ।।
वक्रे गोमहिषीणान्तु भृत्यानाञ्च क्षयो भवेत् ।
दिग्चान्ते तु यदा द्वारे विभ्रमो द्वेग कृन्तदा ।।
विलोमन्तु यदा द्वारं सर्वसम्पत्ति कक्षयं ।
भिन्नमत्युस्वरांशाखैर्जन्मनाशो कुले ततः ।।
एवं परीक्ष्य यत्नेन वेधादीन लक्षयेत् प्रिये ।
भ्रमद्रथकयष्टीभिरेकवृक्षमहार्यर्थिः? ।।
द्वारशाखान्य प्रसादैः कोणस्तम्भ ध्वजैस्तथा ।
चतुस्त्रिषथ शृङ्गाटैः मार्गैः कूप गृहेण वा ।।
शिलोथराथवाल्मीकैः रथ्याकुम्भारकेन वा ।
५५अ)
एवमाद्यैरथान्यैर्वा द्वारं विद्वमशोभनं ।।
तन्मध्यमध्यसूत्रं तु यथासंवलितं भवेत् ।
सूत्रसुत्रार्थकं वापि यथोत्तरदिशागतं ।।
साध्यमध्यग्दिशाद्वार प्रतिष्टा ।
भागं सूत्रं कृत्वा तु शंकुला ।।
प्रासादमध्यतो द्वारं तस्यारोपणमारभेत् ।
गर्भमध्ये च यन्सूत्रं द्वारमध्यान्नयेत् समं ।।
मध्यान्मध्यन्तु तत्रापि त्यजेन्निर्वेधकारणं ।
द्वारात्मिकां प्रतिष्ठां च कथयामि तवाधुना ।।
सुदिने ऋक्षवारे च तारायोगान्विते तदा ।
करणे चन्द्रसंयुक्ते कालवेलौदये तथा ।।
कर्तुश्चैवानुकूलेन द्वारारोपणमाचरेत् ।
स्नात्वा तु देशिकश्चादौ वस्त्राद्यैः ममलंकृतः ।।
शिल्पी चैव तथा भूतः स्नातो ह्यलंकृतः सुधीः ।
स्नाप्यतन्साखिनं दिव्यं पुण्याहैर्यज्ञमंगलैः ।।
महास्त्रं होमयेत् प्राज्ञः शतचाष्टोत्तरं प्रिये ।
तद्दिशाशोधनार्थाय यद्वक्त्रं द्वाररोपणं ।।
तद्दिशादेवता हम्या होमये द्वारशोभनं ।
संतर्प्य मूर्ति मत्ताश्च शक्त्यामूलादितः स्पृशेत् ।।
द्वारस्थानादधः पश्चात् पूज्यवास्तु नरं तथा ।
धारणीं शक्तिं संकल्या रत्नन्यासमधो न्यसेत् ।।
यायसं ऋद्धि वृद्धिश्च यवसिद्धार्थकः तथा ।
लक्ष्मणा विष्णुक्रा च अमृता मोहना तथा ।।
शतं मूलीताल मूलीपाठागो वन्दना तथा ।
सह देवारुजानी चरो रोन्द्रं रोचनातिला ।।
गोसृतादरदं तालं दधिदूर्वान्वितास्त्वि मे ।
विचित्रकपटे वथारक्षां चोर्द्ध उदुम्बरे ।।
स्वस्त्ययनान्विते चैव वेदध्वनि युतेन च ।
शान्ति होमं पुरा कृत्वा पश्चाद्वारसमुद्धरेत् ।।
सुवस्त्रवेष्टितं द्वारं त्रिसूत्रेण तु वेष्टयेत् ।
कुतपैः पुष्पमालाभिश्चूतपल्लवसंयुतैः ।।
रत्नगर्भघटं पूर्णवर्द्धन्या सहसंयुतं ।
मध्यं मध्यात् परित्यज्य किञ्चित् स्याच्चोत्तरं न्यसेत् ।।
५५ब्)
विषुवेन तु योगेन विज्ञानात् सयुतेन च ।
यदा सनात्मकं चाधः शाखयोः भुवनाध्वरं ।।
माया तत्वान्तगं न्यस्य ऊर्द्धोदुम्बरके पुनः ।
विद्याद्यञ्च न्यसेत् तत्वं पञ्चसंख्यं सुरेश्वरि ।।
विद्या तत्वेश्वरं चैव सदाशिवस्तृतीयकः ।
क्रियाशक्ति चतुर्थी तु ज्ञानशक्तिस्तु पञ्चमी ।।
शिवतत्वं न्यसेन् मध्ये तन्मार्गान्ते तु संस्थितं ।
शोध्यक्रमेष इत्युक्तो न्यासं स्यात् सृष्टि योगतः ।।
सप्तसंख्या हुतीश्चैव दद्यात् तद्गुणसंयुतां ।
स्थिरो प्रमेयो बोधाङ्का नित्यो व्याप्यनिनस्वरः ।।
तृप्त्यन्ताः स्वाहा अन्ताश्च प्रणवाद्यैः सुदीपिताः ।
एवं सप्ताहुती हुत्वा प्रोक्ष्यपश्चाद्दिशावलिं ।।
दत्वा चम्य प्रतीहारौ नंदिकालौ विनिर्मितौ ।
स्वनाम्नैव प्रतिष्ठाप्य पूज्य व्याप्त्यात्मया वृतो ।।
एवं संस्थापिते द्वारे यदिष्टं च तदाप्नुयात् ।
तोरणस्य तथैवेह प्रतिष्ठा पूर्वकोच्छ्रयः ।।
द्विजशिल्पि गुरूणां च दद्याच्छक्त्या तु दक्षिणां ।
चित्रस्वात्यन्तुरे न्येवा सिद्धं स्यात् भ्रमणे यदि ।।
तदादिग्यैवताहोमं कृत्वा प्रगुणतां नयेत् ।
अष्टोत्तरशतं चैव दानं दद्याद् दिशोचितं ।।
तदारभ्यारभेच्चैत्यं प्रासादाश्रयदे कुलं ।
शिवायतनपर्यायै ज्ञातव्यं शास्त्रवेदिभिः ।।
विनिर्दिष्टैस्तु शैलैर्वा निर्लेपाति प्रलेपनं ।
न कर्तव्यं वरारोहे युक्त लेपं प्रशस्यते ।।
समसन्धि न कर्तव्यं हीनपाद तथैव च ।
शिरोढ्यं नैव कर्तव्यं विलोमे स्फुटितं भवेत् ।।
इष्टकस्य तु कोणेन न कोणं चैवारभेद्बुधः ।
तिर्यक् शिरः सुकोणैस्तु शार्द्धहस्तैः सुसंधितः ।।
सन्धिना लक्षणवक्ष्ये पक्ष्यापक्ष्या यथा भवेत् ।
भूतसंख्यांगुलैः संधि ऋतुसंख्यागुणेन वा ।।
ऋषिवदंगुलैर्वापि तारादिग्रुद्रमंगुलैः ।
५६अ)
संधिभिस्तु वरारोहे दृढं कालान्तरे भवेत् ।।
अतोर्द्धं नैव कर्तव्यं भूताधो नैव नैव च ।
एवं च्छन्दोस्तु मेर्वादौ वलभ्यंतं निवन्धयेत् ।।
भारविश्रामणं मध्ये सुदृढैः सारदारुजैः ।
जंघा मध्ये प्रकर्तव्यं स वाह्याभ्यन्तरेण तु ।।।
नयेत् तथा यथासुत्र ह्रासः स्यात् पूर्वचोदितः ।
प्राप्तेसुनासिकान्ते तु वेद्यधो भूमिकान्तरे ।।
तन्मध्यो वरकं कुर्यात् वेदीगर्भ तु सुव्रते ।
हृदावरणं हेत्वर्थं स्वभ्रं चैव सुशोभनं ।।
वास्तोपतींश्च तत्रस्थान् पूतयित्वा विधानतः ।
घटं ताम्रमयं चैव मृन्मयं वासुशोभनं ।।
उषधीधान्यलोढ्या?नि धानूनां रत्नपञ्चकं ।
रसेन्द्रं तत्र निक्षिप्य वेष्टयेत् वस्त्रयुग्मकैः ।।
श्रग्भिः कुतर्पसूत्रैश्चन्दनेन तु चर्चितं ।
क्षीरमध्वाज्यपूर्णन्तु पायसैर्वा तृतं घटं ।।
घटान्ते पद्मकं ध्यात्वा हृत्पद्मं च यथा हृदि ।
प्राकृते च घटो ध्येयो मन्त्रन्यासं ततो न्यसेत् ।।
नाड्यानिलाक्षपालाश्चन्द्रार्कौ शिखिचात्मभूः ।
रुद्रो महेन्द्रमित्रश्च वागीशी वाश्विनौ दिशः ।।
क्ष्माभौग्नीरणखं शब्दः स्पलः स्यादुपकोरसः ।
गन्धः श्रुतित्व चोदृष्टिरसनानासिका तथा ।।
वाक्करपायुपस्थं चं व्रजनं च तथैव च ।
मनोहं कृति बुद्धिस्तु भूत वैकारि तैजसं ।।
प्रासादे तास्तु द्रष्टव्या वेद्यधो भूमिकान्तरे ।
प्रकृतिस्तु घटाकारा या पूर्वं कल्पिता प्रिये ।।
समावाह्यात्म तत्वं तु तत्पद्मान्ते निवैशयेत् ।
सर्वभूतात्मवृत्तिस्थं व्यापकञ्च विदीश्वरं ।।
तत्कर्मानुग्रहात् सत्वमधिकार मलान्वितं ।
रागो नियति विद्या च काल चैव कला तथा ।।
माया प्रमृति संशक्तं न्यस्त्वैवन्तु निरोधयेत् ।
गुणत्रय कृताटोपं हंकारस्थिरमध्यगः ।।
तमावृत्य तमोवेदीं प्रासादान्ते निवन्धयेत् ।
५६ब्)
यथानुक्रमनिष्पत्ति तथा शोध्यविकल्पना ।।
चतुरश्रा तु यादो?दी विद्यातत्वन्तदुच्यते ।
विद्येश्वरा अनन्ताद्या स्थिताश्चैव सकंथकाः ।।
तस्मादीश्वर तत्वन्तु विपुलामलसारके ।
सारिकालक्षणं वक्ष्ये यथा तत्र व्यवस्थितः ।।
प्रासादस्य चतुर्थांशं सूर्यभागविभाजितं ।
तत्रैकं भागमानं तु प्रकुर्याच्छारिका गृहं ।।
समंशुभे प्रकर्तव्यं विषमं विषमे तु तत् ।
द्राविडं वाथ कर्तव्यं तदाशिरो विकल्पना ।।
पृथुत्वा मलसारस्य द्वात्रिंशांसस्तु चूलकः ।
वेदाष्टास्रसुवृत्तस्तु त्रिधा समविकल्पितः ।।
त्रिशुलोर्द्धनिविष्टस्तु कुम्भ ऊर्द्ध गतो यदा ।
अथवा वृत्तभागे तु कुम्भो द्वे दशयेद्बुधः ।।
इशानकीलको नाम तदा स परिकीर्तितः ।
कलसत्वं तथास्यैव वेष्टनात् कलसा कृतिः ।।
तत्सदाशिवरूपं तु प्रणवेनाध्वरं न्यसेत् ।
त्रिशूलोर्द्धं यदा भद्रे शक्तित्रय कल्पना ।।
क्रिया चेच्छावद्वशृंगे मध्यशृङ्गे तु बोधिका ।
शिवतत्वोर्द्ध तत्वर्धतश्चैव ज्ञानशक्त्यात्मलीनकं ।।
धरादि तत्वसंघातं लयस्थानान्तगं प्रिये ।
शोध्यञ्चैव समाख्यातं प्रणवेन तु होमयेत् ।।
प्राग्घ्रत्वा तु न्यसेत् पश्चात् तदूर्द्धग्रहचूलकं ।
प्रतिष्ठेवं न्यसेत् तत्वं शिवादौ सृष्टि योगतः ।।
ग्रन्थिनीति स्मृता शक्ति सर्वाध्वनि हिताकला ।
शक्तित्रयसमायुक्ता मूर्त्यष्टकसमन्विता ।।
ध्यात्वा सर्वं प्रकल्प्यादौ प्रतिषुस्यास्रितं यथा ।
पुंसोसाधिष्ठिते पिण्डे तत्वं पुज्यति तत्रगं ।।
अत्रांशे च कथं तत्वं विच्छुन्यं कल्पनायतः ।
अम्मादिधारकत्वेन पृथ्वी तत्वमुदाहृतं ।।
आष्ट्यादिघटपूर्णस्तु आपतत्व स्वयं स्थिताः ।
अस्मादि सङ्ग्रहे वाथ गड्डुकाद्यमथापि वा ।।
वयसम्पाकवन्तेजो धूपदीपमथापि वा ।
वाग्नुः स्यात्स्यशनै चैव चामराद्यमथापि वा ।।
५७अ)
सुषिरे तु ख तत्वं स्याच्छब्दः प्रासादनामतः ।
स्पर्शस्तु चोदितोत्रैव काठिन्यादि स्वरूपतः ।।
प्रत्याकारं साह्लादं रस्यैव प्रकीर्तितः ।
रूपदर्शनसंयुक्तं रूपतन्मात्रमुच्यते ।।
धूमपुष्पादिके गन्धो गन्धतन्मात्रमेव च ।
गवाक्षकः स्मृतं श्रोत्रं त्वक् छुधा परिकीर्तिता ।।
वेद्यधोमञ्जरी यातु चक्षुषी सामते प्रिये ।
पीठिकावर्तनं जिह्वा शुकाघ्राघ्राणमुच्यते ।।
जिह्वा पत्र स्मृता वाचा प्राग्रीवा वाहुरुच्यते ।
उपस्थं वै प्रणालं स्याद्वारं पायु प्रकीर्तितं ।।
पादपूर्वं समाख्यातं धर्माद्यन्तु वरानने ।
विकल्पनाच्च सूत्रस्य मम्भत्र(?) व्यवस्थितं ।।
चितिः सङ्कल्पको बुद्धि निश्चयैहं कृताक्षकं ।
व्यवसायो ध्वनिष्पत्तौ गुणाश्चैव तु वर्णके ।।
प्रकृतिश्च तथा कारा प्रासादस्तु स्वरूपतः ।
कारणं पुरुषो नाम हृदावरणको मतः ।।
यथामाणवकः सिन्हः प्रत्यावयविकम् तथा ।
अन्यः साधारणश्चैव कर्तृ प्रासादयोः स्मृतः ।।
धर्मावेशस्मृतो रागो विद्या नित्यत्व भावना ।
नियमारम्भकार्थे तु नियतिस्तत्र संस्थिता ।।
कलनं द्रव्यसंवर्तः कालस्तत्र प्रकीर्तितः ।
धर्मार्थार्घन्तु यत्प्रोक्तं तत्कला संप्रकीर्तिता ।।
ऊहापोहविनिर्मुक्तं मायातत्वात्मकैकता ।
शिवायतनविज्ञानं शुद्धविद्या उदाहृता ।।
अधिष्ठानाधि दैवत्ये तत्वमीश्वरसंज्ञितं ।
पादादौ कलसान्ते तु समाप्तौ तु सदाशिवः ।।
सत्वाधिक्यन्तु यत्कर्तुः सर्वसामर्थ्यधारणा ।
शक्तिः साक्षात् तु द्रष्टव्या वहिरप्यात्मिके ध्वनिः ।।
व्यापकत्वाच्छिवो ह्येष प्रोक्तः प्रासादरूपकः ।
समत्वे तत्वविज्ञानं मूर्तिमूर्त्यधि दैवताः ।।
शोध्याध्व देवताः स्थाप्य पूर्ववत् परिकल्पिताः ।
त्रितत्वं कल्पयेद् भूयो देवतास्त्रयसंयुतंः ।।
५७ब्)
जंघान्तमात्मतत्वन्तु ब्रह्मातत्राधि देवता ।
विद्या तत्वं तु वेद्यं तं विष्णुस्तत्राधि देवता ।।
शिवतत्वोपरिष्ठान्तु तत्र साक्षात् स्वयं शिवः ।
देवता त्रय विन्यस्य कृत्वा चिद्देहमेकतां ।।
ततः स्थिरो भवत्यादिराहुतिभिः प्रतिष्ठयेत् ।
तृप्त्यंतां स्वाहया युक्ताः पूर्ववत् सप्तसंख्यया ।।
उर्द्धधोध्वरसं कल्प्या विद्धिशेषविशिष्टतं ।
तुर्यातीतान्तरीक्षे तु पादाधो सृष्ट्या प्रतिष्ठयेत् ।।
हृदादिकसरीरस्य शिवस्य वसमानता ।
कृता प्रासादकुम्भेनं निवेष्टेन स चूलिना ।।
तदन्ते गुरुविप्राणां शिल्पिनां दक्षिणादिकं ।
प्रदातव्यं यथाशक्त्या भोजयित्वा विधानतः ।।
अतोन्योमण्डपानान्तु विभागस्तम्भसंख्यया ।
भवन्ति मण्डपाश्चित्राः संख्याभिर्विविधैः स्थिताः ।।
प्रवक्ष्यन्ते यथा वच्च पूर्वमानविकल्पिताः ।
पुष्पकः पुष्पभद्रोथ पुष्पानन्दकुशल्यकः ।।
बुद्धिसंकीर्णको नाम जयभद्रोजयावहः ।
श्रीवत्सौ विजयोवास्तु संकीर्णस्तु श्रुतिं धरः ।।
यज्ञभद्रो विषालश्च सुशीलः शत्रुमर्दनः ।
भापंचो नन्दनो वृद्धिस्तथा वै माणि भद्रकः ।।
शुग्रीवोहर्षनामा च कर्णिकारपदर्धिकः ।
सिंहोवैश्यामभद्रश्च सुसूत्रश्चेतिकी ।
सप्ताविंशत्यमीनाम्ना विभागस्त्वधुनोच्यते ।।
चतुःषष्टियुतैस्तम्भैः पुष्पकसंप्रकीर्तिताः ।
मेरुप्रासादगम्यैवस्तस्य च्छन्द तदुच्यते ।।
पुष्पभद्रकनामा च द्विषष्टि स्तम्भ युग् भवेत् ।
स च मन्दरसंप्रोक्तं च्छन्दस्भद्र?पशोहितं ।।
षष्टिस्तम्भ युतो देवि पुष्पानन्दः प्रकीर्तितः ।
तं कैलास गतं पश्यैत् तद्रूपेण तु रूपकः ।।
शतार्द्धाष्टाधिकैस्तम्भै कुशल्यश्चैव कीर्तितः ।
गजप्रसादगन्तच्च चतुरस्रं स्वलक्षणं ।।
षट्शताद्विकैस्तम्भैः बुद्धिसंकीर्णको मतः ।
५८अ)
सर्वतो भद्रगं तच्च सर्वतो भद्रवत् स्थितः ।
चतुःपञ्चाशकैस्तम्भैर्जपभद्रप्रकीर्तितः ।।
विमानानुगतं तच्च विमानेन व्यवस्थितः ।
स्तम्भै शतार्धकैश्चैव श्रीवत्सो नामविश्रुतः ।।
नन्दिवृद्ध्यानुगश्चैव नन्दिवृद्धैव संस्थितः ।
चत्वारिशाधिकाश्चाष्टौ विजयोनामनामतः ।।
द्विजराजानुगश्चैव द्विजराजेवसंस्थितः ।
चत्वारिंशाधिक षट्च वास्तुनामा प्रकीर्तिताः ।।
पद्मप्रासादगश्चैव पद्माकारव्यवस्थितः ।
चत्वारिंशाधिकस्तुर्यः संकीर्णोनामविश्रुतः ।।
षोडशास्रानुगश्चैव षोडशास्रः सथवतु ।
चत्वारिंशाधिकैर्युग्मैः पशुपस्तु श्रुतिन्वरः ।।
अष्टास्रानुगश्चैव तद्रूपोष्टाम्रको भवेत् ।
चत्वारिंशतिभिस्तम्भैर्यज्ञ रुद्रप्रकीर्तितः ।।
गृहराजाग्रतश्चैव गृहराजेवसंस्थितः ।
अष्टत्रिंशतिभिस्तम्भैर्विशालोनामनामतः ।।
गृहार्द्धानुगतश्चैव तदाकारः व्यवस्थितः ।
त्रिदशैस्तु स्मृतस्तम्भैर्नदनाख्यस्तु कीर्तितः ।।
वर्द्धमानाग्रतश्चैव वर्द्धामानेनसंस्थितः ।
अष्टाविंशतिभिर्स्तम्भैर्वृद्धिमा च सुव्रते ।।
स च कुम्भा सृतो ज्ञेय कुम्भाकारेव संस्थितः ।
षट्विंशतिभिस्तम्भैस्तु माणिभद्रः प्रकीर्तितः ।।
वलभ्या अग्रतः प्रोक्तं समवेदाश्रको भवेत् ।
चतुर्विंशतिभिस्तम्भैः सुग्रिवस्तु प्रकीर्तितः ।।
वृषभस्याग्रतश्चैव वृषाकारः स्वरूपतः ।
द्वाविंशतिभिस्तम्भैस्तु हर्षाख्यो नामनामतः ।।
सिन्हस्यानुगतश्चैव तद्रूपेण व्यवस्थितः ।
कर्णिकार स्मृतो विंश हंसस्यानुगतो भवेत् ।।
हंसरूपेण द्रष्टव्यो मण्डपस्तु सुशोभनः ।
अष्टादशगते स्तम्भै मण्डपस्तु पदर्द्धिकः ।।
नलिनानुगतं पश्येन्नलिनेव व्यवस्थितः ।
स्तम्भैः षोडशकैर्देवि सिंहाख्यो मण्डपो भवेत् ।।
५८ब्)
श्रीनगानुगतश्चैव श्रीनगेवव्यवस्थितः ।
इन्दुसंख्यान्नितैस्तम्भैः स्यामभद्रः प्रकीर्तितः ।।
खावृक्षस्याग्रतः सोहि खावृक्षेव व्यवस्थितः ।
स्तम्भैर्द्वादशैकैर्देवि सुसूत्रञ्चेति कीर्तितः ।।
वेदाश्रस्योग्रः प्रोक्तः स्वाकारैस्तद्विधो भवेत् ।
चत्वारोसिश्रको ज्ञेया दशाष्ट षट्चतुर्थकैः ।।
स्तम्भैर्देवि प्रसिद्ध्यन्ते लघुप्रासादमाश्रिताः ।
ऋषि ऋतु भूतगास्तु वेदहस्तगत क्रमात् ।।
द्वौ स्तम्भौ शुकनासाग्रै वेदाधश्चाग्रतो भवेत् ।
वयस्तम्भ विभागेन कर्तव्यस्तु सुशोभनः ।।
स्तम्भाना रूपकम्वक्ष्ये संज्ञाभिस्तु पृथक् पृथक् ।
रुवको वज्रकश्चैव सुप्रलीनस्तथैव च ।।
द्विवज्रस्तु कलासारः मण्डलोहीरमण्डलः ।
तुर्यास्रोरुचको नाम वज्रकस्तु षडस्रकः ।।
सुप्रलीनः स्मृताष्टास्रोद्वादशास्रोद्विचक्रकं ।
षोडशास्रः कलासारः सुप्रवृत्तोहीरमण्डलः ।।
वलितैर्हीरकैश्चित्रैर्नाम्ना वै हीरमण्डलं ।
सप्तसंख्यास्थि मे स्तम्भा रूपलक्षणसंज्ञया ।।
कुम्भोपकुम्भविस्कम्भः स्थिरश्चैव चतुर्विधः ।
ज्ञेय स्तम्भो द्वहो ह्येष लक्षणस्त्वधुनोच्यते ।।
स्तम्भस्याष्टां शतो च्छेधं विस्तरस्तुर्य साधिकं ।
कन्यसानाम्वरारोहे मध्यमे द्वादशांशतः ।।
उच्छ्रयं विस्तरं चैव षष्ठमांशेन कीर्तितः ।
उत्तमे षोडशांशेन अष्टांशाविस्तरं भवेत् ।।
उच्छ्रयादुच्छ्रयं प्रोक्तं विस्तराविस्तरामतं ।
समस्त्रि भागभक्तस्तु उच्छ्रयो यः प्रकीर्तितः ।।
चतुरश्री कृतोधस्तान् मध्ये वृत्तो घटाकृतिः ।
तथा पद्ममुखश्चोर्द्धं कुम्भश्च प्रथमः स्मृतः ।।
तदधश्चतुरश्रे तु चतुःकोणेषु सुव्रते ।
चतुभिर्भारवाहैस्तु कोणस्थैः स घटोद्वृतैः ।।
स चोपकुम्भको ज्ञेयः लक्षणे विलक्षितः ।
नवभागकृतं चोर्द्धं विस्तरेण तथैव च ।।
५९अ)
त्रिभिः स्यात् क्षुरिकावर्ता भागेनैकेन जायते ।
लोटं चैव त्रिभिर्भागः पर्यायः कण्ठ उच्यते ।।
भागैकनिर्गमोवृत्तः पुनर्भागैक निर्गमः ।
विष्कम्भोयं समाख्यातः ऊर्द्धाधो वेदवद् भवेत् ।।
स्तम्भा कृतिर्गतिश्चाभ्यः स्थिरो नामा प्रकीर्तिताः ।
सममानं समाख्यातं स्तम्भमूर्ध्नि शिरः स्मृतं ।।
स्तम्भांसक प्रमाणं तु पार्श्वो वाथ समो भवेत् ।
यक्षयोनिर्गमञ्चैव विभूषार्द्धन्तु कारयेत् ।।
यावत् स्थितिर्भवेत् पट्टस्तावत् स्यात् तत् प्रमाणतः ।
तच्चोक्तं नन्दिकावर्तं द्विरावर्तं तथैव च ।।
त्रिरावर्तञ्च कर्तव्यं सुस्थितं चैव सुव्रते ।
चतुर्णां धारकश्चैव चतुर्दिक्षु विनिर्गतंः ।।
रूपञ्च ग्राहवंख्यातं नन्दिकावर्तकस्तु यत् ।
विवर्त द्वयसंयुक्तं करिघ्राणैव संस्थितंः ।।
द्विरावर्तन्तु विज्ञेयं लक्षणेन विलक्षितं ।
त्रिवलिं तु त्रिरावर्तमाग्रस्य भ्रमाद् भवेत् ।।
मूले स्तम्भाकृतिंचैव चतुर्णाधारकोपरि ।
भ्रमणावर्तनिर्मुक्तं सुस्तितं समलक्षणं ।।
पद्मच्छन्दैस्तदर्द्धन्तु ऊर्द्धस्याद्वर्तना यदि ।
नस्योपरि ततो दद्यात् तन्मानात् पद्मपत्रिकां ।।
पृथुत्वेन समाख्यातो दैर्घ्याष्टां शाधिका भवेत् ।
उच्छ्रयस्तु तथा तस्य कर्तव्यस्तु न चाधिकः ।।
तस्योपरि ततः पट्ट पृथुत्वपत्रिकासमा ।
दैर्घ्याद्यथान्तरं मानन्तदूर्द्धे पीठिका भवेत् ।।
आयसैः कीलकैर्युक्ता पद्मोत्कीर्णमुखाशुभाः ।
तस्योपरि महापट्टः विस्तारं षोडशाधिकं ।।
महापट्टोपरिकाण्ड कॢप्तै स्याद् भवते शुभा ।
काण्डस्ये द्वि पुनः कार्या निस्सन्धि दारुवर्तनाः ।।
इष्टकैः च्छादितं कृत्वा पङ्कनोपरि लेपयेत् ।
गंगेष्टिकासु चूर्णं तु माषचूर्णन्तथैव च ।।
पिण्याकं मृत्समायोगमासूरं तत्र योजयेत् ।
क्षीरवृक्षत्व चाकर्णैर्मर्दये त्रिफलोदकैः ।।
५९ब्)
अष्टांगुलसमुत्सेधं तेनोपरिप्रपूरितं ।
मुद्गरा कोटितं कृत्वा क्रमेणैव च सुन्दरि ।।
दर्पणोदरसंकाशं च्छुधायाचोपलेपितं ।
प्रासादञ्च तथा भूतं च्छुद्धालिप्तन्तु कारयेत् ।।
वृषाद्वर्षात् पुनर्भूयः खंः खचूर्णेन लेपयेत् ।
क्षीरकुञ्चकमेवोक्तं क्षीरयुक् शंखचूर्णकं ।।
विचित्रशिखराकीर्णाः पताकातोरणान्विताः ।
समण्डपाः समाख्याताः प्रासादास्तेति शोभनाः ।।
विधानेन वरारोहे प्रासादाः परिकीर्तिताः ।
इति ब्रह्मयामले जयद्रथाधिकारे पिङ्गलामते द्वाराधिकारो नाम सप्तमः
प्रकरणः ।।
भैरव उवाच ।।
वास्तु सूत्रं प्रवक्ष्यामि यथा क्षेत्र व्यवस्थितं ।
सूत्रकार्पासिकं चैव क्षौमं वाण्वजवल्कजं ।।
शुभा *? तु शुभा ह्येते समसूत्रास्त्रिवर्तनात् ।
गुल्मग्रन्थिविहीनं च अव्याविद्धमपीकरं ।।
अशुभे कोशजंशाणम्नायुवर्मजंमेव च ।
स्नायुवेल्ल्यान्तथा चौरं षट्टसूत्रमथापि वा ।।
गुल्मग्रन्थिसमायोगाद्यथा कर्मानुसारतः ।
विलोमवर्तनं चैव द्विरावर्तं तथैव च ।।
तदादौ मर्मविज्ञान हेतो वास्तुं प्रसारयेत् ।
सतत्क्षेत्र समं कृत्वा जलपूर्णनिशामुखे ।।
चित्रस्वात्यन्तरे तारा किञ्चिदुच्चा तु सा भवेत् ।
कृत्वादायं तदग्रे स्याच्छशक्तं कृत्वा तदग्रतः ।।
संकुच्छायाविभागेन पूर्वापरं विलक्षयेत् ।
ब्रह्मस्थानं विलक्ष्यादौ साध्यसूत्रं निपातयेत् ।।
दक्षिणोत्तरमन्यच्च मीनयुग्मं ध्रुवेण वा ।
सतक्षेतार्द्ध दिक्सूचं सस्थस्याद्विदिशांग्रहः ।।
तत्र मीन चतुष्कन्तु सिध्यतेत्रनसंशयः ।
मीनान्मीनस्थ सूत्रेण सिध्यते चतुरस्रकं ।।
नवनाडी विभक्तन्तु कृत्वा सूत्रं प्रपातयेत् ।
श्रियापशोवतीकान्ता स प्रियो विमला शिवा ।।
सुशोभाभानुनी चेता नाड्यः प्रोची मुखोङ्गताः ।
६०अ)
धन्याधनाविशाला च स्थिराभद्रा गदानिशा ।
विरजाविभवा चैव उत्तरस्थानमागताः ।।
नाड्याष्टादशसंयोगाच्चतुःषष्टि पदम् भवेत् ।
पार्श्ववंशार्द्धवंशश्च दुर्जयोदुद्वरो द्वयं ।।
अग्निर्वायु गतश्चैव दुर्जयः परिकीर्तितः ।
ईशरक्षगतो भद्रे दूर्द्धरस्तु न संशयः ।।
रक्तचोष्टौ स्मृताश्चाभ्याताश्चाख्याभिर्यथा शृणु ।
कर्णौ गुल्फौ च द्वौ संपीडि पदास्ते प्रकीर्तिताः ।।
कीलनी बन्धनी चैव कर्णगौ गुल्फगौ प्रिये ।
सृजनी चैव पक्षी च दक्षगौ वा वामगौ तथा ।।
पञ्चकोष्ठ गताश्चाभ्या हृदंशौ कटिमनुगौ ।
प्रार्श्वगे वापि द्वे प्रेक्षारज्जु तद्रज्जु योगतः ।।
संवर्ती च विवर्ती च हृद्यंश कटिजानुगा ।
दक्षपार्श्वगता पक्षी सद्भावा वामगामता ।।
पद्मं वज्रस्तु संधिश्च पदंलाङ्गलसंपुटं ।
त्रिशूलमणिबन्धश्च त्रिकटं स्वस्तिकं तथा ।।
वशंरज्जु मयंनाद्यं मर्म त्रयोदशकं स्मृतं ।
सूत्राष्ट युक् स्मृतं पद्म पञ्चसंख्यं प्रकीर्तितं ।।
ब्रह्मस्थानादितः कृत्वा पूर्वयाम्या परोत्तरे ।
षड्भिः सूत्रगतो वज्र अष्टाविंश स उच्यते ।।
नाडीसंपातको योत्र सन्धिमर्मस्तु संस्मृतः ।
संख्याषोडश इत्युक्ता सन्धीनान्तु वरानने ।।
शुद्धकोष्ठं पदं प्रोक्तं चतुर्विंशति तत् स्मृतं ।
रज्जु सूत्रं सवंसञ्च तस्योर्द्धे तु फलं स्मृतं ।।
तस्य संख्या वरारोहे षोडशैव मुदाहृता ।
कोणात् कोणगतं सूत्रं संपुटं तन्नसंशयः ।।
द्वात्रिशं तु तदेवोक्तं नात्रकार्याविचारणात् ।
कोणे त्रिशूत्रगं यच्च शूलं तं नात्रसंशयः ।।
तुर्यसंख्यतदेवोक्तं मीशाग्नी तीरगं प्रिये ।
सू?त्रपञ्चकसंयोगान्मणिबन्धः स उच्यते ।।
वसुसंख्यः स एवोक्तः पूर्वादौ युग्मयुग्मकः ।
तस्यानुगं त्रिसूत्रं च त्रिकटं तन्नसंशयः ।।
पञ्चसंख्या यथापूर्वं तद्दिशायामुदाहृतं ।
६०ब्)
रज्जु युक्पदमध्ये तु स्वस्तिकं तन्नसंशयः ।
अत्रवास्तौ न तदुक्तमुक्तं स्याद् यत्र सम्भवेत् ।।
वंशद्वय पुराप्रोक्तं रज्जुवोष्टौ तथैव च ।
नाड्यष्टादशकं मर्म कथितं तत्र सुव्रते ।।
मर्मोपभेदस्त्वन्यच्च मम द्वयसमागमात् ।
देवतास्थानकं कर्म राक्षसानां तथैव च ।।
देवता राक्षसासन्धि न पीड्यं मर्मकं क्वचित् ।
पद्मे संपीडिते चैव सर्वनाशस्तु जायते ।।
वज्रे संपीडिते स्वामि विनाशं चैव जायते ।
सन्धौ सम्पीडिते चैव व्याधि पीडा तु जायते ।।
पदे स्थानविनाशः स्यात् वाहनाय च संभवेत् ।
लाङ्गले पीडिते चैव धान्यक्षपं समादिशेत् ।।
संपुटे पीडिते कर्तुर्दुःखत्रयसमादिशेत् ।
त्रिशूले पीडिते चैव पत्नीभातृ सुतक्षयः ।।
मणिबन्धे तु पञ्चत्वं यान्ति भृत्याः प्रपीडिते ।
त्रिकटे मित्रविप्राणां गवां पीडा नृपस्य च ।।
स्वस्तिके च तथा विद्धे तद्राष्ट्रे च पराभवं ।
वंसैसंपीडिते चैव क्षयीवंशस्तु पैतृकः ।।
रज्जुपीडा तथावंशे मातृके क्षयमुच्यते ।
नाडी विद्धे तु सर्वाङ्गः विशीर्यति च नित्यशः ।।
मर्मोपधर्मसंभिन्ने सर्वं फलमिहावहेत् ।
न पीडयेत् तथा देव्यं राक्षसां चैव सुव्रते ।।
तत्काल पूजयेद् देवां वलिं चैव प्रदापयेत् ।
पूजिताः पीडिता ह्येते सुखदुःखकराः स्मृताः ।।
राज्ञाराष्ट्रस्य कर्तश्च स्थापकस्य च नित्यशः ।
महाभय करो वेधः तस्मादे तन्न पीडयेत् ।।
एवं ज्ञात्वा स्पृशेन मर्म कुड्यस्तम्भादि भिन्न च ।
पिङ्गलोवाच ।।
कोवाचास्तु समाख्यातो देहस्तस्यैव कीदृशः ।
किन्निमित्तन्तु ते देवास्तच्छरीरे समाशृताः ।।
शरीरा वयवास्तस्य प्राकृता वै कृतास्तथा ।
के ते देवा कथन्तत्र संख्यासंज्ञा पृथक् पृथक् ।।
६१अ)
क्षेत्रे चैव तथा रूपन्तथा कथय शङ्करः ।
भैरव उवाच ।।
विष्णोवराह रूपेण पृथ्वी चोद्धृता यदा ।
तदोत्पन्नाद्रयः सर्वे महाकाया महावलाः ।।
शशि *? पक्षसंयुक्ताः दुर्जयादुर्द्धराः प्रिये ।
खगामिनोनगाः सर्वे प्रजाविभ्रमकारकाः ।।
उत्पन्नानि यतं तश्च निपत्य पृथिवी तले ।
प्रजानिपातयत् स्वेन पक्षानिलसमाहता ।।
मुनिसिद्धाप्सरो देव्याः नरनागादयस्तथा ।
ततस्तु ऋषयस्तुष्टा हन्यमाना महानगैः ।।
व्यासो वाल्मीकशाकल्यः पराशरभृगुस्तथा ।
नारदस्तुम्वुरश्चैव सालंकायन कौशिकः ।।
वालखिल्यादयः सर्वे गताः यत्रेन्द्रसंस्थितः ।
गत्वा दिवं सुरेन्द्रस्य पुरतो व्रहताः प्रभो ।।
तेषां हि वचनं श्रुत्वा संक्रूद्धः यविपाणिकः ।
करिणः स्कन्धमारूढः शक्तिमुद्यस्य भासुरां ।।
रूपेणाजघ्निवां भीमो हरिर्नगवरूथिनीं ।
प्राप्ताश्चैव महाघोरं संग्रामं सुरसत्तमैः ।।
नगैः सह दुराधर्षैः गीर्वाणाकुलकारिभिः ।
उत्पत्य प्रहरंत्याशुः पक्षघातानिलाहताः ।।
देवास्तदी दृशे युद्धे हरिणा वज्रपाणिना ।
व्योम्निपक्षशिरच्छेद शक्तिनां त्वरितेन तु ।।
पतिता भूमिमाक्रम्यानिर्घाते वहि सुन्दरि ।
तेषां धराभराक्रान्ता शेषाद्याश्च निपीडिताः ।।
मुञ्चन्ति गरलं सासृक् कोष्टं चैव सवास्यजं ।
तद्विषाघ्रातमाक्रान्ता धरामुर्च्छामुपागता ।।
क्षणैकं मूर्च्छामास्थाय ससर्जार्ष्णं महानिलं ।
विषश्चानिलसंयोगाद्यतोत्पन्नस्तु सुव्रते ।।
विषोल्वणमहाद्वारः कायोनाम महासुरः ।
अध्रुवान्तं शरीरन्तु प्राकृतं चैव सुव्रते ।।
तेनाकादुग्रहा ऋक्षाश्चंद्राग्नि मणिजातयः ।
दिशावायुर्द्धराकाश योनीयंगर्गानांगणं ।।
६१ब्)
छादितानाभिभाषन्ते दिवि देवाश्च पक्षिणः ।
पृथिव्यां मुनयश्चैव यागसिद्धाप्सरोगणाः ।।
न सन्ध्या न दिवारात्रौ न वेला न तु तर्पणं ।
ध्यानपूजाजपो नास्ति न दिशा वलि कर्म च ।।
तदा कुलनना सर्वे गता यत्राम्बिकायतिः ।
गत्वास्तोतु समारब्धं ऋग्यजुर्सामाथर्वणैः ।।
हुं फट्कार वषट्कारौ गद्यपद्यैरनेकशः ।
स्तुत्वा भवं भवानीं च प्रणताः सरणं गताः ।।
स्तोत्रं ब्रह्मादितः श्रुत्वा चाविभूतौ भयांधकृत् ।
प्रत्यक्षं भगवन् दृष्ट्वामुराजानुमुपागताः ।।
त्राहि इन्द्र धरेशान भग्नास्ता विबुधा श्रियाः ।
उक्तं कजाद्भवे नैतत् सुरेन्द्रै विष्णुना तथा ।।
सर्व आर्तिहरो नाथः सर्वदुःखापहारकः ।
किं मेतद् सूतन्नाथ नष्ट चन्द्रे वसे वारी ।।
ब्रह्मादि वचनं श्रुत्वा तेषां वुध्वास्वयं महत् ।
देव्याचोक्तं हे नाथ नियामेदं महासुरं ।।
देव्या च वचनं श्रुत्वा वुध्वा चैवाकुलान् सुरान् ।
भो महेन्द्रा प्रकुर्वध्वं दृढवशश्चिरज्जवः ।।
स्थिर सत्वा वलम्वेधं येनेदं संयमाम्यहं ।
स्वामिनश्च वच श्रुत्वा हृष्टा सर्वे मनोच्छ्रुकाः ।।
ततो ध्यानेन संचिंत्य भैरवेन महात्मना ।
रुद्रं चाति वलं नाम महामायं समृप्तवान् ।।
अनुज्ञां प्रार्थयित्वा तु महामाया गता भृशं ।
तेना कृस्योर्द्ध वृत्तिं तु महादैत्यस्य सुव्रते ।।
कैशैराकृष्यजानुभ्यां भैरवाग्रे निपातितः ।
ततोत्ताने सस्थितस्तु करौ संकोच्य जानुकौ ।।
दत्वा वंशं तथारज्जं विष्कम्भ सदृशी कृतः ।
वैकृतं तु सरीरेदं क्षेत्रे वा क्षेत्रवद् भवेत् ।।
भयोज्झितमनासर्वे देवास्तत्रोपतिष्ठिताः ।
ईशकोणे स पर्जन्यौ वह्नि पूषौ तु वह्निगौ ।।
पितृ * * *? कौ चैव इति कोणे व्यवस्थितौ ।
वायनाशौ तथा वायोः यदार्द्धार्द्ध व्यवस्थिताः ।।
६२अ)
जयो महेन्द्रकश्चैव आदित्यः सत्यकस्तथा ।
भृशान्तरीक्षा पदिकाः पूर्वे चैव व्यस्थिताः ।।
वितथोदक्षिणे चैव गृहयमस्तथा ।
गान्धर्वो भृङ्गहरिणः पदैक विभवास्त्विके मे ।।
सुग्रीवः श्रग्विजश्चैव प्रचेतसासुरस्तथा ।
शोषरोगस्तथा पंक्ति पदिकाः पश्चिमे स्थिताः ।।
मुखौ भल्वाटकः सोमो रिगिश्चैवादितिदितिः ।
उत्तरे पदिका पक्तिः संस्थितास्ते यथा शृणु ।।
चतुष्कोष्ठात्मभूर्मध्ये तदीशे चापसंस्थितः ।
तस्ये शेवा पचत् सस्तुर्द्विपदौ तौ प्रकीर्तितौ ।।
ब्रह्माग्निगे च सावित्री द्विपदां तां विलेखयेत् ।
तदग्निगे च सविता सोपि स्याद्विपदस्थितः ।।
कजाद् भवति दिग्भागे द्विपचन्द्रस्तु संस्थितः ।
तस्यापीति गते चैव इन्द्रजिद्द्विपदे स्थितः ।।
करणे गज पक्ष्मा? च द्विपदे च व्यवस्थितः ।
तस्यापिरगते चैव रुद्रदास पदद्विकः ।।
ब्रह्मापूर्वे चतुर्यांशैर्मरीचको व्यवस्थितः ।
तेषां यामेव विवस्वा च सोमाप्ये चोत्तरे धरः ।।
चरकीशे वाह्यतः कोणे विदार्यग्नि दिशस्तथा ।
पूतनेति दिशाभागे वायव्यां पापराक्षसी ।।
पूर्वादिग्वाह्यतः स्कन्दो अर्यमादक्षिणे तथा ।
जंभाप्येव तथाभूय उत्तरे पिलपिंच्छकः ।।
स्थिता संधारणार्थाय नान्यथा पिष्टयां स्थितिः ।
प्रयोजनं स्थितिः कार्याः करणीयो वास्तु रुच्यते ।।
पर्यायैः पञ्चभिर्नाम वस्तुत्वं वास्तुसंज्ञकं ।
अवस्तु प्राकृतं प्रोक्तं मनर्थाकरणा स्थितिः ।।
अकार्यं चेति पर्याये वस्त्वादि वै कृतोच्यते ।
स्थितो वास्तु धरां व्याप्य क्षेत्रं व्याप्य यथेप्सितं ।।
प्रासादे चैव प्राकारे पुराट्टालकतोरणे ।
स्तम्भे ब्रह्मशिलायाञ्च गृहे द्वारप्रशतः ।।
मठे राज गृहे वाथ पुरावामकसंयुते ।
६२ब्)
नगरे ग्रामे खेटके वा विषये देशसंचये ।
यत्र यत्रेष्टसद्भावः तत्र वास्तु प्रकल्पयेत् ।।
चतुःषष्टि पदः प्रोक्तः प्रासादे चतुरस्रकः ।
समैरूपविनिर्मुक्तो शुकाघ्रावलभीस्तथा ।।
स्तंभे ब्रह्मशिलायाञ्च वृषभस्य चतुस्किके ।
एवमादि समे चैव वेदाश्रे वेदवद् भवेत् ।।
मेर्वाद्रौ च्छन्दकानान्तु रूपं पद्यस्य कीर्तितं ।
ग्रहरक्ष प्रयोक्तव्यं ज्ञात्वा स्थानविभागशः ।।
अभ्यन्तरे यथापूर्व वेदास्रं परिकल्पयेत् ।
मेरुरोर्मेरु वद्वास्तु मन्दरे वहिमन्दिरः ।।
कैलासवायुनासा च कैलासे वहि कीर्तितः ।
सर्वतोभद्रवत् ज्ञेयः सर्वतोभद्रसंज्ञया ।।
विमानोनामयः प्रोक्तः विमाने वहि कीर्तितः ।
नन्दिवर्द्धनवन्नन्दि नन्दने वहि नन्दनः ।।
सिंहाकारेवसिंहस्तु गजे चैव गजाकृतिः ।
पद्माकारे च पद्मस्तु अष्टाश्रषोडशस्तथा ।।
वर्द्धमानस्तु यो वास्तु वर्द्धमाने च कीर्तितः ।
श्रीवत्से वहि श्रीवत्स वास्तुश्चैव त्रिधा भवेत् ।।
भद्रवद् भद्र संज्ञस्तु हंसवद्धं स एव च ।
नलिनो नाम यो वायुर्नलिने वहि कीर्तितः ।।
भद्रवद् गृहराजस्तु श्रीनरो वहि श्रीनगः ।
एतेषां छन्दकानान्तु ग्रहरक्षप्रकल्पयेत् ।।
शेषान्ये पूर्वन्न्यासो दिशासु विदिशासु च ।
ज्ञात्वा भागं प्रकर्तव्यं प्रभूते प्रभूतन्तथा ।।
तत्समे तत्समो योज्ये न्यूने न्यूनं प्रकल्पयेत् ।
कुम्भो वृषोथग्वावृक्षस्तेषां चैवाधुना शृणु ।।
स्वमतं क्षेत्रमानन्तु कुम्भवत् परिवर्तयेत् ।
मध्ये तु ध्रुवकं कृत्वा त्रिनेमैस् भ्रामयेत् समं ।।
प्रागास्यं ब्रह्मसूत्रञ्च पातयेद् दक्षिणोत्तरंः ।
वाह्ये नेमी पदं चैव अष्टाविंशति कारयेत् ।।
द्वितीये पदविशं तु तृतीये द्वादशं तथा ।
चतुर्थे तुर्यसंख्यातं चतुःषष्टि पदं भवेत् ।।
जलेसौ वह्नि पूषौ तु पितृ द्वौ वारिकौ तथा ।
६३अ)
वायुनागं यथापूर्व न्यसेदीशादित क्रमात् ।
शेषाणां पूर्ववन्न्यासो ब्रह्माद्यान्ते यथापुराः ।।
इशेत्यधोर्द्धंगोवंशः पाश्वेश्चाग्नीरगस्तथा ।
इशाद्यमाध्यगे चैव इत्या प्रागुरे तथा ।।
अग्नेरुत्तरगे वायये ईरगादक्षपूर्वगे ।
रज्जुवोष्टौ स्मृता ह्येता पूर्वादीत् पूर्ववद्यथा ।।
ग्रहादीन् पूर्ववद्वा हृदिशासु विदिशासु च ।
वृत्तवास्तु स्मृतो ह्येष वृत्ताकाराः श्रयः प्रिये ।।
ऐन्द्रलिङ्गस्य वज्रस्य प्रासाद चतुरस्रकः ।
वास्तु चैव तथा प्रोक्त पूर्ववत् समुदाहृतः ।।
अग्ने यस्य लिङ्गस्य शक्तिलिङ्गस्य सुव्रते ।
भगाकारश्च प्रासादो वास्तुश्चैव तथा भवेत् ।।
स्वमतं योनिवत् कृत्वा त्रियोन्यन्ते समं कुरु ।
चतुष्पथं तथा कुर्यात् ब्रह्मसूत्र यथापुराः ।।
पूर्ववत् कोष्ठकान् कल्प्य कन्यासं चैव यथापुरा ।
रज्जुवंश तथा चैव मर्मोय मर्म एव च ।।
योन्यां कृत्याश्रयाणां तु भगवास्तु उदाहृतः ।
याम्यलिङ्गस्य दण्डस्य प्रासाढं खण्डचन्द्रवत् ।।
वास्तुश्चैव तथा भद्रे चन्द्रार्द्धकृतलक्षणंः ।
स्वमतं क्षेत्रमानञ्च शशिसकलवत् कुरु ।।
त्रिचन्द्रान्ते प्रकर्तव्यं ससमानविलक्षितं ।
अष्टाविंशंस्तथांविंशद्वादशचतुरेव च ।।
पदे समविभक्ते तु पूर्ववद् देवता न्यसेत् ।
वंशरज्जुस्तथा कुर्यान् मर्मादि पूर्ववद् भवेत् ।।
अर्द्धचन्द्रास्रयाणान्तु वास्तुश्चैवार्द्धचन्द्रवत् ।
रक्षोराजस्य लिङ्गस्य खड्गख्यस्य च सुव्रते ।।
प्रासादस्त्र्यश्रकश्चैव वास्तुश्चैव तथा भवेत् ।
स्वमतं क्षेत्रमानन्तु पूर्ववत् त्र्यंश्रकं कुरु ।।
गुणवत् त्र्यश्रकं मध्ये सममानविकल्पितः ।
पूर्ववत् कोष्ठकां कल्प्य पूर्ववद् देवतां न्यसेत् ।।
वंशरज्जुस्तथा प्रोक्तौ मर्मादिः पूर्ववद्यथा ।
६३ब्)
गुणकोणाश्रयोणां तु त्रिकोवास्तु भाषितः ।
कोणैकं परिधिस्थं तु कुण्डवत्तम्विकल्पयेत् ।।
वारुणस्य च लिङ्गस्य पाशलिङ्गस्य सुव्रते ।
प्रासादं कुम्भवत् ख्यातो वास्तुश्चैव पुरोदितः ।।
वायुलिङ्गध्वजस्यैव षट्कोणश्चाश्रयोहितः ।
षट्कोणपूर्ववत् कृत्वा क्षेत्रं चैव तु सुन्दरि ।।
त्रिभिरन्ते तथा कुर्यात् सममानविलक्षितः ।
समःषष्ठमकोणस्तु परिधिस्थो वरानने ।।
अष्टाविंशस्तथा विंशद्वादशश्चतुरेव च ।
चतुःषष्टि पदोत्रापि पूर्ववद् देवतां न्यसेत् ।।
वंशरज्जुस्तथा भद्रे मर्मादीन् पूर्ववद् यथा ।
ग्रहादीन् वाह्यतस्तद्वतदिशासु विदिशासु च ।।
षडश्रकाश्रयाणां तु षडश्रो वास्तु कीर्तितः ।
कौवेरस्य च लिङ्गस्य गदालिङ्गस्य सुव्रते ।।
पद्मप्रासादस्तु ख्यातो वास्तुश्चैव तथा भवेत् ।
पद्मप्रासादवत् क्षेत्रं कृत्वा चैव यथा पुरा ।।
द्वौ द्वौ पद्मा श्रीरद्वादीनवाह्ये चैव प्रकल्पयेत् ।
वृत्तवत् मध्यतो वास्तु यथापूर्वमुदाहृत् ।।
पद्माकृत्याश्रयाणां तु वास्तु पद्मा कृतिर्भवेत् ।
ऐशान्यस्य च लिङ्गस्य शूललिङ्गस्य सुव्रते ।।
अष्टाश्रश्चाश्रयः प्रोक्तौ वास्तुश्चैव तथा भवेत् ।
अष्टाश्रं पूर्ववत् कृत्वा परिधिस्थाष्टमम् भवेत् ।।
क्षेत्रं तुर्याश्रकं वाह्ये विस्तरं तद्विधं भवेत् ।
त्रिभिश्चान्ते तथा कुर्यादष्टाश्र परिकल्पना ।।
पूर्ववत् कोष्ठकान् भाज्य न्यासश्चैव तथा भवेत् ।
वंशरज्जुं तथा कुर्यान् मर्मादींश्चैव लक्षयेत् ।।
अष्टाश्रश्चाश्रपानान्तु अष्टाश्रो वास्तु कीर्तितः ।
ब्रह्मात्मके भवेत् पीठं सुषिरं स्यातदन्ततः ।।
द्विभागाच्च भवेद् भित्तिर्भगादिश्चैव तद्विधः ।
वैष्णवस्य तु लिङ्गस्य चक्राङ्कस्य सुव्रते ।।
गरुडो नामप्रासादो वास्तुश्चैव तथा भवेत् ।
ब्रह्मालिङ्गस्य पद्मस्य हंसाख्यस्था श्रयो मतः ।।
६४अ)
वास्तुश्चैव तथा भद्रे प्रासादाकृति लक्षणः ।
प्रसादलिङ्गवेदीनां येषां भागो यथागतः ।।
तेषां तथा गृहीतोपि कार्याशो यथा भवेत् ।
अथवासममानेन जंघान्तं चैव कारयेत् ।।
यस्य यत् कीर्तितं रूपं तद्रूपेण वरण्ठकः ।
मण्डपा तु तथा प्रोक्ता येते प्रोक्तास्तु साधने ।।
चतुरश्रादि भेदेन प्रासादा कृतिलक्षणाः ।
तद्दिशाभागविक्षिप्तास्तत्कार्यकरणेहिताः ।।
तद्वक्त्र भावमत्राश्च तद्वत् स्थानप्य प्रसाधयेत् ।
क्षेत्रान्यह्रद्रवद्भक्तं नाडिभिस्तुनिबोधमे ।।
ऐन्द्रीपूर्वे समाख्याता याम्यादक्षिणतः स्थिताः ।
पश्चिमे तु जया प्रोक्ता सौम्ये सौम्या विदु वुधाः ।।
प्राग्नाडिभिर्विभक्ते तु वाह्यस्थाश्चतश्रोत्र तु ।
वंशद्वयं तथा त्रापि तुर्यरज्जुस्तथैव च ।।
त्रिपदाश्चैव वोद्धव्यास्तुर्यान्या पदसप्तमाः ।
तथा मर्मादिकं ज्ञेयं देवतान्यास उच्यते ।।
चरकी वेशकोष्ठे तु स्कन्धश्चैव तथानुगः ।
अग्निकोष्ठे विदारी च अर्यमा च तथा भवेत् ।।
नैर्-ऋत्याम्यूतनान्यस्य जंभचैव तदानुगंः ।
पापराक्षसीं वायव्या पिलिपिच्छ तथैव च ।।
द्वितीये इशकोष्ठे तु तत्रेशं विन्यसेद् बुधः ।
अग्नि चैव तथान्यस्य पितरं वायुमेव च ।।
पर्यन्यादि वहिः पक्तिर्दित्यंतं चैव सुव्रते ।
देवाश्चैव चतुर्विंशद्द्विपदास्ते प्रकीर्तिताः ।।
देवाष्टौ पदिका ज्ञेयाः शेषांते तु यथा पुराः ।
नगराख्यः स्मृतो वास्तु नगरारम्भे तु सुव्रते ।।
अस्य पूर्वयदालिङ्गं भोगमोक्ष प्रसिद्धिदं ।
पश्चिमास्यं तथा कुर्यात् तथेशाग्नी विदुर्बुधाः ।।
पूर्वमुख नगराप्ये यदालिङ्गं तदा पूर्वमुखं भवेत् ।
वाप्तीतरो तथा प्रोक्तं प्राङ्मुखं परिकल्पयेत् ।।
दक्षसौम्य तु वीप्मातः पूर्वापर मुखौपि वा ।
६४ब्)
मध्ये चैव तदा प्रोक्त वीप्साकारविकल्पना ।
सामान्यसाधने न्यासः प्रासादं कथयामि ते ।।
प्रासादं वृषभो नाम पूर्वे चैव विकल्पयेत् ।
आग्नेययां कुम्भको नाम याम्यदिग्बलभी भवेत् ।।
नैर्-ऋत्यां खगराजस्तु ग्वावृक्षमायये कल्पयेत् ।
षोडशास्रस्तु वायव्यां गजानामा च सौम्यगे ।।
एशान्ये सर्वभद्रस्तु भोगमोक्षप्रसाधकाः ।
शेषान्ये च यथाभीष्टं स्थाप्यो मेरुः पुरान्ततः ।।
अन्यद्देशात्मकं वास्तुं यथावत् तत् तथा शृणु ।
चतुस्त्रिंशः स्मृता नाड्यद्यः समन्ताच्चतुरश्रकः ।।
त्रयस्त्रिंशत् पदो ज्ञेयस्तत्र जायति सुव्रते ।
प्राग्नाड्यनुगतानाड्यः संज्ञाभिर्विविधैः स्थिताः ।।
पदमत्रसहस्रं तु दशैकोन्नशतान्वितं ।
स पाद द्वितये पक्तौ ग्रहादीं वाह्यतो न्यसेत् ।।
पञ्चत्रिंशत् पदैकोणे पादाधि पाक्षातुरक्षमी ।
पादूना चतुस्त्रिंशद् ग्रहाणां प्राग्दिशादितः ।।
पादूनान्तश्चतुः पक्तिरीशाद्या देवता प्रिये ।
इशाग्नीति तथा वायुरीशकोशादिशं न्यसेत् ।।
चतुर्दश पदैर्भागः पादाधिक्यं प्रकल्पयेत् ।
पदैकादशिकान्येषां पादाधिक्यं जलादिनां ।।
भिन्नसूत्र स्मृतो ह्येष देवानां राक्षसैः सहः ।
आपवन्मादिकान्तनान्ते पदाष्टादशिकां न्यसेत् ।।
मरीच्याद्याधरांताश्च चतुःपण्चाशिकात्मकाः ।
एकाशीति पदान्ते तु ब्रह्मा तत्र प्रतिष्ठितः ।।
वंशद्वयं यथाभूतं रज्जुं चैव शृणुष्वथ ।
नवात्मिका स्मृता तुर्य तुर्यान्याश्चतुर्विंशगाः ।।
मर्मादीनि यथापूर्वं तथासम्यग्विलक्षयेत् ।
देशारंभे स्मृतो ह्येष पदैर्योजन कल्पना ।।
मण्डलात्मा भवेद् यस्तु तदारम्भे तु सुव्रते ।
कृते दशसहस्रांके वास्तौ चैव सुरेश्वरि ।।
यदुक्तं चैव पक्त्याख्यैः कोष्ठकैर्दशधात्मकैः ।
६५अ)
चरकीशे सतं चैव स्कन्दश्चैव तथानुगः ।
विदार्यग्नेः शतं दद्यादर्पमा च तथानुगः ।।
पूतनेति शतं दद्याज्जंभश्चैव तथानुगः ।
पापराक्षसिवायव्यां पादै चैव शते भवेत् ।।
तस्याप्यनुगतं तद्वत् पिलपिच्छं विदुर्बुधाः ।
चरक् यंते शते चैव इशानञ्च विधानतः ।।
विदार्यन्ते तथा वह्नेः कोष्ठकैः शतकल्पना ।
पितरः पूतनान्ते तु पदे चैव शते भवेत् ।।
वायोः शत पदं दद्यात् तयान्ते पापराक्षसी ।
पर्यजन्ये द्विशतं दद्याज्जये चैव तथा भवेत् ।।
माहेन्द्रे द्विशतं भद्रे तथादित्ये विदुबुधाः ।
सत्याय द्विशतं दद्याद् मृ?शाय द्विशतं भवेत् ।।
शतं चैवान्तरीक्षाय वह्ने वाह्ये प्रकल्पयेत् ।
पूषाय द्विशतं दद्याद्वितथाय तथैव च ।।
द्विशतं गृहक्षेत्राय यमाय द्विशतं भवेत् ।
गन्धर्वाय तथा भद्रे भृङ्गाय द्विशतं पुनः ।।
इति वाह्ये शतैणाय द्वौ चारिको ह्यतः परं ।
द्विशतं च यथा कल्प्य सुग्रीवौ द्विशतो भवेत् ।।
पुष्पदन्तस्तथा भद्रे प्रचेतसि तथैव च ।
असुरः शोषसंज्ञा यः द्विशतं द्विशतं भवेत् ।।
* *? न्ते तु शतं दद्यद्रोगायात्र न संशयः ।
नागाय द्विशतं भद्रे सुख्याय द्विशतं पुनः ।।
भल्वाटस्य तथा कल्प्यं सोमाय द्विशतं भवेत् ।
द्विशतं रिगि देवाय अदितये तथैव च ।।
इशान्ते तु शतं दद्याद् दितयत्र न संशयः ।
आपवच्छादिको भद्रे राजान्ताद्विशते भवेत् ।।
मरीच्यादि धरान्तन्तु वेदसंख्यासतान्विता ।
चतुःशतेनात्म भूमध्ये सम्यक् चैकं प्रकल्पयेत् ।।
वंशद्वयं तथा भूतं रज्जुवः शतरामगाः ।
तुर्यसंख्या तथान्यापि शतमुनि गता भवेत् ।।
मर्मादींश्च तथापि ज्ञात्वा मण्डलकल्पना ।
यत्तनार्थे तु यो वस्तु यत्तनाख्य प्रकल्पयेत् ।।
अष्टाशीत्यर्द्ध युक्तं तु शतं चैव विदुर्बुधाः ।
सूत्र त्रिदशसंपातात् कोष्टैर्द्वादशकैर्भवेत् ।।
६५ब्)
भूतसंख्यापदाधिष्टा चरकी वेशकोणतः ।
ऐन्द्रे तु षट्पदैः स्कन्ध विदारी भूतमग्निगे ।।
ऋत्वावस्थार्यमा याम्ये पूतनेति सरान्विता ।
जंभायये तुरसावस्थस्तिर्यगे पापराक्षसी ।।
पृथिव्यादिकसौम्ये तु पिलिपिच्छो रसान्वितः ।
पुनरन्तः समीपेशः पदमेकं तु नक्तिसः ।।
पर्जन्यो जय माहेन्द्र द्विपदास्ते प्रकीर्तिताः ।
तुर्यावस्थारविप्रोक्ता द्विपदे सत्यकोभृशः ।।
अन्तरीक्षपदावस्था वह्निराग्नौ तथैव च ।
पूषावितथनामा च द्विपदोथ गृहक्षतः ।।
वेदाधिष्ठ्यायमश्चैव गान्धर्वो भृङ्गि पक्षवत् ।
हरिणा पदमेकं तु पितरोपि तथैव च ।।
द्वौ वारिकोथ सुग्रीवः श्रग्द्विजा द्वि पदास्त्विमे ।
यमवद्वरुणावस्था ऋत्यशोषश्च युग्मवत् ।।
रागैकञ्च तथा वायु नागो मुख्यस्त्वतः परं ।
भल्वाटा द्विपदास्ते तु सोमस्तुर्य पदान्वितः ।।
रिग्यादित्यौ तथा भूय द्विपदौ तौ प्रकीर्तितौ ।
दिति पदे तु वोद्धव्यं शेषान्ते तुर्यथा पुराः ।।
वंश द्वयं तथा भूतं रज्जुश्चाष्टौ शृणुष्वथ ।
स्त्रिपदास्तुर्यसंख्याता तुर्यान्या तारगा मता ।।
मर्मादीश्च यथापूर्व ज्ञात्वा यत्तनमारभेत् ।
अन्यंखेटात्मको नाम वास्तुश्चैव सुरेश्वरि ।।
नाडी द्वादशसंपातात् केष्ठिका दशकैर्भवेत् ।
सर्वं संपिण्डिते चैव विंशैक युक् शतं भवेत् ।।
वहिः युक्तश्चतुर्दिक्षु चरक्यादि ग्रहैः सहः ।
भूतसंख्या पदावस्था दिशासु विदिशासु च ।।
द्वितीय पक्ति भोक्तारमीशाद्यं कथयामि ते ।
इशेरीशं सुविन्यस्य पर्जन्यस्तदनन्तरं ।।
जषोमाहेन्द्रकं न्यस्य रवि सत्यं तथैव च ।
भृषन्तरीक्षं विन्यस्य यावकेग्निं विदु बुधाः ।।
पूषावितथ नामा च गृहक्षतयमस्तथा ।
गन्धर्वा भृङ्गहरिणो रक्षादिक्यैतर न्यसेत् ।।
६६अ)
द्वौ वारिकोथ सुग्रीवः श्रग्द्विजाथ प्रचेतसः ।
असुरः शोषरोगाश्च वायौ वायु विजानतः ।।
नागमुख्यं तथान्यस्य भल्वाट सोममेव च ।
ऋग्यादित्यदितिं न्यस्य वत्सादीं पूर्ववन्न्यसेत् ।।
पद्यदान्ते मरीच्याद्या ब्रह्मानव पदान्ततः ।
वंशद्वयं यथापूर्वं त्रिपदास्तुर्यरज्जवः ।।
तुर्यान्याष्ट पदा ज्ञेया मर्मादीन् पूर्ववद्यथा ।
सम्यक् ज्ञात्वा वरारोहे खेटारम्भ समाचरेत् ।।
ग्रामवास्तु प्रवक्ष्यामि ग्रामारम्भे तु सुव्रते ।
भद्रात्मकं कृतं क्षेत्रं पूर्वाप्येकं विनासयेत् ।।
पदैकून शतं भद्रे तत्र जायंति नान्यथा ।
चरकीपिलिपिच्छस्तु जम्भो वै पापराक्षसी ।।
सौम्यपक्ति गतास्तेतु ग्रहाः सार्द्धद्विभागिकाः ।
याम्ये पक्तौ तथा भूतौ विदार्यादीन् प्रकल्पयेत् ।।
ईशादीन् पूर्ववन्न्यस्य वत्सादीश्च तथैव च ।
मरीच्यादीस्तथा न्यस्य ब्रह्मा मध्ये तथैव च ।।
वंशद्वयनिपात्यादौ त्रिपदास्तुर्यरज्जुवः ।
तुर्यान्यष्ट पदा ज्ञेया किन्तु मध्ये विवर्जनात् ।।
मर्मादींश्च तथा बुध्वा ग्रामारम्भं समारभेत् ।
अथान्यं संप्रवक्ष्यामि कोट्टाट्टालकसंयुतं ।।
कृतेशत पदे क्षेत्रे पूर्वस्थं द्विपदान्ततः ।
तत्पक्षे त्रिपदं लोप्य तिर्यग्दैर्घ्यं पदं तु तत् ।।
इशाग्ने तु पदे स्थाप्य तदधः पक्षवत् यजेत् ।
दैर्घ्यं तिर्यक् पदैकं तु सव्यासव्यं विदुर्बुधाः ।।
इशाग्नौ यत्पदौ भद्रे भागार्द्धार्द्ध विभाजितौ ।
चरकीकन्दमुर्ध्निस्थौ विदार्य यामयावके ।।
पूतनेति दिशाभागे पदं पूर्णं भुनक्ति सा ।
तस्योत्तर पदे जंभ पापराक्षसि तिर्यगे ।।
तस्यापीन्द्र गते पिच्छं पिलशब्दादि पश्य वै ।
चरक्यन्ते शकोणे तु पर्जन्य जययाम्यगे ।।
तस्याग्ने ये तु माहेन्द्रं सूर्यान्ते द्विपदे स्थितः ।
तदिन्द्रे तु न्यसेत् सत्यं सत्येतिगं भृशं न्यसेत् ।।
तस्य याम्यन्तरिक्षस्तु हुत तुक् स्वदिशि स्थितः ।
पूषाप्ये यावकाख्यस्य वितथस्तस्य नैर्-ऋते ।।
६६ब्)
वितथादौ च भृङ्गान्ताः द्विपदाः पक्तिसंस्थिताः ।
हरिणापदमेकं तु तत्सौम्ये पितरस्तथा ।।
द्वौ वारिकस्तु तद्वायोः शोषान्ता द्विपदे स्थिताः ।
रोगैन्द्रैक पदे भद्रे तत्पूर्वे वायुस्तद्विधः ।।
तदीशे नागमाद्यस्तु सोमान्ताः द्विपदाः स्थिताः ।
रिगिश्चेक पदावस्थस्तद्वदति याम्यगे ।।
दितिश्चैन्द्रे पदावस्थ ब्रह्मान्ते तु चतुष्पदे ।
तुर्यावस्थामरीच्यादि वत्साद्या द्विपदे वहि ।।
देवताभागभित्तिस्तु वत्साद्यन्ते चराचरः ।
इशाग्नौकुम्भकोणे तु मध्ये च सरवेसनं ।।
भवत् पट्टालको वास्तु प्राकारार्द्धविनिर्गमात् ।
वंशद्वयं यथापूर्वं रज्जवः कथयामिते ।।
वायवीतिगे गुणावस्थे इशाग्नौ पदगे प्रिये ।
स्वरगे द्वे च बोधव्ये रसगे द्वे तु एव च ।।
मर्माद्या यथापूर्वं ज्ञात्वाट्टालकमारभेत् ।
प्राकारभित्तिविस्तारो दीर्घत्वेन समीकृतः ।।
भाज्यपक्ति समोत्रापि समन्ता तु विपश्चिते ।
तथान्यासस्तु देवानां यथानगर वास्तुवत् ।।
वंशरज्ञं?स्तथा भूता मर्माद्यास्तु तथैव च ।
विधिनानेन नेतव्यो यावदाद्भालको भवेत् ।।
भूयोद्भाल पुनभित्ति भित्याद्भालकमेव च ।
एवं भ्राम्य चतुर्दिक्षु स कोणं वृत्तमेव वा ।।
त्रिभागैभित्ति वन्धस्तु सप्तभिस्तु चराचरः ।
सोच्छ्रयं द्विनरं भद्रे भितीर्या नरमानतः ।।
सोपानं रोहणार्थन्तु कर्तव्यं सतो वहून् ।
भित्तश्चोर्द्धे तु कौ कुर्यात् सवृत्तश्चोर्द्धतो भवेत् ।।
वृत्ताधः सुषिरं कार्यं गोपुरो वाथजालकं ।
सरनिगमणाथे तु यतो विग्रह हेतु सः ।।
चतुर्दिक्षुर्भवेद्वारं द्वारोर्द्ध वलभी भवेत् ।
अधोभ्यन्तर वाह्ये तु द्वारापालाश्रयं कुरु ।।
सौम्याप्यैन्द्रैस्त्रिभिर्वाह्यं याम्यं चैव कथञ्चन ।
सदा पिहिततद्वारं यमद्रष्टं यतो मतं ।।
किमर्थञ्चैव पू द्वार्थं नान्यथ विग्रहे जयः ।
६७अ)
प्रतियंत्र परिक्षेपैर्वास्तु रुद्रात्मको भवेत् ।।
भूतसंख्या पदैर्वाह्ये चरज्याद्या ग्रहैः सहः ।
मध्ये नवनवानां तु ग्रहांस्तत्रैव विन्यसेत् ।।
आदित्याश्चकेत्वन्ता मध्ये नवपदैः स्थिताः ।
रविमध्ये तु विन्यस्य सोमाद्यैन्द्रादितः क्रमात् ।।
पूर्वचक्राधिपः सोमसोमस्य पदगो रविः ।
भूसुताद्यान्न्यसेद् भूय अग्न्याद्यमीशगोचरे ।।
अङ्गारोधि पतिस्तद्वदग्नि चक्रे तु सुव्रते ।
सोमादित्य बुधाद्यांस्तु पुनरेक क्रमान्न्यसेत् ।।
बुधोधिपस्तथा याम्ये विन्यसेच्चक्र मध्यतः ।
सोमंगारसूर्यास्तु गीर्वाण स विवादितः ।।
न्यस्तव्या देवदेवेशि यथावदनुपूर्वशः ।
इति चक्राधिपो भूय देवमत्त्रि विदुर्बुधाः ।।
सोमांगारो बुधादित्यः शुक्राद्यानुक्रमेण तु ।
आप्ये शुक्रोधिपः प्रोक्तः सोमाद्यारवि तत्पदे ।।
शनिराद्यां पुनर्न्यस्य वायुचक्राधिपः शनिः ।
सोमाद्यांस्तु पुनर्न्यस्य शनिस्थाने तु भास्करः ।।
राहुकेत्वतंगं न्यस्त्वा राहुः सोम्याधिपः प्रिये ।
सोमाद्येन्द्रादितो न्यस्य सौम्यशे रवि केतुकौ ।।
इशश्चक्राधिपः केतुः सोमाद्याभास्करावधिः ।
न्यस्त्ववंतु विधाने ग्रहवास्तु रतो मतः ।।
वंशाद्यां पूर्ववत् पात्य मर्माद्यांस्तु विलक्षयेत् ।
प्राकारान्ते सामीप्ये यत्रवस्थानकं भवेत् ।।
चतुदिक्ष्वष्टकं चापि षोडशं वा प्रकल्पयेत् ।
चिति वास्तु प्रवक्ष्यामि शृणुष्वेक मना प्रिये ।।
ग्रहाणां राक्षसानां च श्मशानेपि तृदेवतां ।
समे भूत विभक्ते तु शतार्द्धार्द्धम् पदम् भवेत् ।।
व्योम मध्येन्द्रतो वायुः हुतभुक्याम्य आप्यकं ।
सौम्यधरान्तु विन्यस्य मध्य चक्रे विदुर्बुधाः ।।
पूर्वे वायुं पुनर्भ्यस्य तद्याम्येख वह्निं न्यसेत् ।
ज्वलाप्येकं पुनर्न्यस्य तत्सौम्ये पृथिवी न्यसेत् ।।
६७ब्)
याम्येग्निञ्च तथान्यस्य अग्न्याप्ये वायुखं भवेत् ।
खसौम्ये तु जलन्यस्य जलेन्द्रे तु धरा भवेत् ।।
आप्येकन्तु पुनर्न्यस्य तत्सौम्ये गति पावकौ ।
यावेन्द्रे तु न्यसेद् व्योम व्योमान्तके धरा भवेत् ।।
सौम्ये धरा पुनर्न्यस्य धरेन्द्रे गति पावकौ ।
तद्याम्यकं पुनन्यस्य आप्यायये वामकं न्यसेत् ।।
एवं क्रमात् स विन्यस्य चरज्याद्याग्रहैः सह ।
यथापूर्वं न्यसेद्वाह्ये दिक्कैण स्थित विग्रहाः ।।
वंशद्वय तथा पात्यरज्जुश्चाष्टौ शृणु प्रिये ।
चतस्रो द्विपदाज्ञेयाश्चतश्रोन्यगुणात्मकाः ।।
मर्माद्यात्र यथापूर्वं ज्ञात्वा सम्यक् माचरेत् ।
भूतात्मको यतो भद्रे भूतवास्तुम्तथोच्यते ।।
इत्येते वास्तवख्याता गृहवास्तु समन्विताः ।
इत्याद्ये जयद्रथाधिकारे द्वादशसाहस्रे पिङ्गलामते वास्त्वधिकारो नामः
प्रकरणः ।।
पिङ्गलोवाच ।।
गृहवास्तु सुरेशान सूचितो नादितस्त्वया ।
नाडीनाञ्च विभागोपि अवयवाञ्च शुलधृक् ।।
एतत् सर्वं समासेन कथ्यतां शशि शेखर ।
भैरव उवाच ।।
चतुरश्री कृते क्षेत्रे गृहरूपोथवा प्रिये ।
दशनाडी विभज्यादौ सूत्रपात्रन्तु कारयेत् ।।
नाडीनां तु यथासंख्या संज्ञाभिर्न ददामिते ।
सान्तये सोचती कान्ता विशाला प्राणवाहिणी ।।
साची वसुमती नन्दा सुभद्रा मनोरमा ।
दशनाड्यः स्मृता ह्येताः प्र्र्त्यक् प्राची मुखोङ्गताः ।।
हिरण्यासु प्रभालक्ष्मी विभूतिः विमलाश्रिया ।
जयाज्वाला विशोका च शुभा चैवोत्तरा मुखाः ।।
प्रत्यग्दशभि नाडीभि शुभो ज्ञेयौ धरात्मजः ।
देवतानां यथान्याशः तथा सम्यन्निबोधमे ।।
नाभी नवपदे ब्रह्मा आपस्तदीशसंस्थितः ।
द्विपदे तु स बोद्धव्यस्तद्वद्वत्सस्तदीशतः ।।
ब्रह्माग्ने तु सविता सावित्री तस्य पावके ।
द्विपदौ तौ विजानीयात् केतिचेन्द्र पदे तु सा ।।
तस्यापीति दिशाभागे जयेन्द्रे द्विपदस्थितः ।
ब्रह्मा तिर्य *? रुद्रस्तु रुद्रासस्तथैव च ।।
द्वि पदौतो विजानीयात्कपूर्वेषण्मरीचिकः ।
६८अ)
विवस्वान् पद्यदावस्थं भवयाम्ये विदुर्बुधाः ।।
पद्मगोन्यायगो भद्रे ऋत्ववस्थः कलाधिपः ।
आत्म तु चोत्तरे न्यस्य षट्पदे तु धराधर ।।
वच्छसे इशं विन्यस्य पर्जन्यस्तदनंतरं ।
जयो माहेन्द्रसूर्यस्तु मत्योभृशस्तथैव च ।।
अन्तरिक्षस्तु विज्ञेयाः पदिकाः पंक्तिसंस्थिताः ।
साविन्याचकेग्निस्तु पूषावितथमेव च ।।
गृहक्षतो यमश्चैव गान्धर्वो भृङ्गकं न्यसेत् ।
मृगश्च पदिकाज्ञेया याम्ययक्ति व्यवस्थिताः ।।
जयादीत्यंशकेपितृ द्वौ वारिस्तदनंतरं ।
सुग्रीवः पुष्पदन्तस्तु प्रचेतसस्तथैव च ।।
असुरः शोषरोगश्च पदिकाः पश्चिमे मताः ।
रुद्रदासश्च वायव्यां वायुं चैव तु विन्यसेत् ।।
नागमुख्यस्तु भल्वाट सोमोरिगिस्तथैव च ।
अदितिदिति नामा च पदिकाश्चोत्तरे गता ।।
चरकी च विदारी च पूतना पापराक्षसी ।
इशकोणादित कृत्वा यावदन्ते प्रभञ्जनः ।।
स्कन्दो यमाथजम्भश्च पिलिपिच्छस्तथैव च ।
पूर्वाद्यथोत्तरान्ते तु न्यस्तव्यास्तु सुलोचने ।।
धरासंधारणार्थे तु गीर्वाणांभ्यन्यथा स्थितिः ।
वंशद्वयं यथापूर्वं रज्जवोष्टौ तथैव च ।।
त्रिपदा किन्तु तुर्यस्तु तुर्यान्या पट्पदा प्रिये ।
मर्मोयमर्म भेदश्च यथापूर्वं तथात्र तु ।।
अन्यन्मर्मा कुलञ्चैव ज्ञातव्यं तु सुलोचने ।
कं ललाट भ्रूवौ वर्णौ नेत्र घ्राण सचीवुकौ ।।
ओष्ठे गण्डौ स गौज्जीव द्विज्जै जिह्वा तथैव च ।
हनु गरुडकुपश्च सकण्ठश्च विजानतः ।।
स्कन्धो वाहू तु विज्ञेये कुर्परौ तु तथैव च ।
सकालमणिवणिवन्धौ तु तले चाङ्गुलयो नखाः ।।
उरोहृच्चस्तनौ पार्श्वौ जठरं नाभि कुक्षिकौ ।
कटिस्फिचौ तथा शिस्न वृषणौ सुष्ककयायु च ।।
ऊरूजानुस्तथा जंघे गुल्फौ पाष्णी पदौ तथा ।
अङ्गुल्यस्तु नखा पृष्ठं मार्ग हृक्ष कृकोटिका ।।
त्रिकटेन समायुक्तं रुद्रमर्माधिकं शतं ।
इशकोणे शिरस्तस्य तन्मध्ये तु भ्रुवौ यदा ।।
तदूर्द्धे तु ललाट स्यात् समन्तान्तु विजात् ।
६८ब्)
याम्येग्निञ्च तथान्यस्य अग्न्यायये वायुखम् भवेत् ।
खसौम्ये तु जलन्यस्य जलन्द्रे तु धरा? भवेत् ।।
आप्येकन्तु पुनर्न्यस्य तत्सौम्ये गति यावकौ ।
यावेन्द्रै तु न्यसेद् व्योम व्योमान्तके धरा भवेत् ।।
सौम्यधरा पुनर्न्यस्य धरेन्द्र? गति पावकौ ।
तद्याम्येकं पुनर्न्यस्य आप्यायये व्योमकं न्यसेत् ।।
एवं क्रमात् स विन्यस्य वरज्याद्या ग्रहैः सह ।
यथा पूर्वं न्यसेद् वाह्ये दिक्कोणस्थितविग्रहाः ।।
वंश द्वय तथा यात्यरज्जुश्चाष्टो शृणु प्रिये ।
चतस्रो द्विपदा ज्ञेयाश्चतश्रोन्य गुणात्मकाः ।।
मर्माद्यात्र यथापूर्वं ज्ञात्वा सम्यक् समाचरेत् ।
भूतात्मको यतो भद्रे भूतवास्तुस्तथोच्यते ।।
इव्यते वास्तवख्याता गृहवास्तु समन्विताः ।
इत्याद्ये जयद्रथधिकारे द्वादशसाहस्रे पिङ्गलोमते वास्त्वधिकारो नामः
प्रकरणः ।।
पिङ्गलोवाच ।।
गृहवास्तु सुरेशान सूचितोनोदितस्त्वया ।
नाडीनाञ्च विभागोपि अवयवाञ्च शुलधृक् ।।
एतत् सर्वं समासेन कथ्यतां शशिशेखरः ।
भैरव उवाच ।।
चतुरश्री कृते क्षेत्रे गृहरूपोथ वा प्रिये ।
दशनाडी विभज्यादौ सूत्रपात्रं तु कारयेत् ।।
नाडीनान्तु यथासंख्यासंज्ञाभिर्न ददामिते ।
सान्तये सोचती कान्ता विशालाप्राणवाहिणी ।।
सती वसुमती नन्दा सुभद्रा मनोरमा ।
दशनाड्यः स्मृता ह्येताः प्रत्यक् प्राची मुखोङ्गताः ।।
हिरण्यासुप्रभालक्ष्मी विभूतिः विमलाश्रिया ।
जयाज्वालाविशोका च शुभा चैवोत्तरा मुखाः ।।
प्रत्यग्दशभिनाडीभिः शुभोज्ञेयो धरात्मजः ।
देवतानां यथान्याशः तथा सम्यन्निबोधमे ।।
नाभौ नवपदे ब्रह्मा आपस्तदीशसंस्थितः ।
द्विपदे तु स बोद्धव्यस्तद्वद्वत्सस्तदीशतः ।।
ब्रह्माग्ने तु सविता सावित्री तस्य पावके ।
द्विपदौ तौ विजानीयात् केतिचन्द्र पदे तु स ।।
तस्या पीति दिशाभागे जयेन्द्र द्विपदस्थितः ।
६९अ)
(मृगश्च पदिका ज्ञेया याम्य पक्षि व्यवस्थिताः ।?
जयादीत्य शकये * * * * * * * * * *
*? ग्रीवः पुष्पदन्तस्तु * *? सस्तथैव च । असुरः
शोषरोगश्च पदिकाः पश्चिमे मताः । ठिस् लिने इस् तोप् ओf पगे)
ब्रह्मातिर्यगरुद्रस्तु रुद्रासस्तथैव च ।
द्विपदौतो विजानीयात्क पूर्वे षण्मरीचिकः ।।
विवस्वान् यद्यदावस्थं भवयाम्ये विदुर्बुधाः ।
पद्मयोन्या परो भद्रै ऋत्ववस्थः कलाधिपः ।।
आत्मन्तु चोत्तरे न्यस्य षट्पदे तु धराधरः ।
वच्छेसे इशं विन्यस्य पर्जन्यस्तदनंतरं ।।
जयो माहेन्द्रसूर्यस्तु सत्योभृशस्तथैव च ।
अन्तरिक्षस्तु विज्ञेयाः पदिकाः पंक्तिसंस्थिताः ।।
सावित्र्या पावकेग्निस्तु पूषावितथमेव च ।
गृहक्षतोयमश्चैव गान्धर्वो भृङ्गकं न्यसेत् ।।
नागमुख्यस्तु भल्वाट सोमोरिशिस्तथैव च ।
अदितिर्दितिनामा च पदिकाश्चोत्तरे गता ।।
चरकी च विदारी च पूतना पापराक्षसी ।
इशकोणादित कृत्वा यावदन्ते प्रभञ्जनः ।।
स्कन्दो यमाथजम्भश्च पिलिपिच्छस्तथैव च ।
पूर्वाद्यथोत्तरान्ते तु न्यस्तव्यास्तु सुलोचने ।।
धरासंधारणार्थे तु गीर्वाणां न्यन्यथा स्थितिः ।
वंशद्वयं यथापूर्वं रज्जवोष्टौ तथैव च ।।
त्रिपदा किन्तु तुर्यस्तु तुर्यान्या षट्पदा प्रिये ।
मर्मौयमर्म भेदश्च यथापूर्वं तथात्र तु ।।
अन्यन्मर्मा कुलञ्चैव ज्ञातव्यं तु सुलोचने ।
कं ललाट भ्रुवौ वर्णौ नेत्रे घ्राण सचीवुकौ ।।
उष्ट्रे गाण्डौ स गौजा च द्विजौ जिह्वा तथैव च ।
हनुं गरुड कूपश्च सकण्ठश्च विजानतः ।।
स्कन्धो वाहु तु विज्ञेये कुर्परौ तथैव च ।
स कालमणि वणिबन्धौ तु तले चाङ्गुलयो नखाः ।।
उरो हृच्च स्तनौ पार्श्वौ जठरं नाभि कुक्षिकौ ।
कटिस्फिचौ तथा शिस्न वृषणौ सुष्क कपायु च ।।
ऊरूजानुस्तथा जंघ गुल्फौ पाष्णी पदौ तथा ।
अङ्गुल्यस्तु नखापृष्ठं मार्गहृक्ष कृकोटिका ।।
त्रिकटेन समायुक्तं रुद्रमर्माधिकं शतं ।
इशकोणे शिरस्तस्य तन्मध्ये तु भ्रुवौ यदा ।।
तदूर्द्धे तु ललाटं स्यात् समन्तान्तु विस्त?नतः ।
६९ब्)
कर्णौ तु दिति पर्जन्यौ ज्ञातव्यौ तु सुलोचने ।
नेत्रे च भ्रूरधो भागे भ्रूमध्ये विन्दुरुच्यते ।।
बिन्दुसङ्गतनासा च घ्राणाधः सन्धि गण्डकौ ।
ओष्ठौ गोजी? द्विजौ जिह्वा वत्सस्थे सप्तधा कृते ।।
अधश्चोर्द्ध क्रमेणैव मध्ये जिह्वा यथा भवेत् ।
गोजी द्वय विभागे तु अधरोष्टौ तथैव च ।।
द्विजौ भागद्वये प्रोक्तौ मध्येकारसना भवेत् ।
हनु पदान्तिकं सन्धिं कर्णमूलाद्विदुर्बुधाः ।।
वक्त्रमण्डलमेतन्तु वास्तोः सम्यक् प्रकाशितं ।
गरुडः कण्ठकूपश्च अर्द्धाप्ये तु त्रिभागिकाः ।।
अधोर्द्धाप्ये तु यत्प्रोक्तमुरस्तत् परिकल्पयेत् ।
जये स्कन्धम्विजानीयान् माहेन्द्र वाहुरुच्यते ।।
आदित्ये कुर्परं ज्ञेयं सलाकाभृशसत्यके ।
मणिवन्धोत्तरीक्षे च करञ्चैवाग्निरेव च ।।
साविन्यङ्गुलि विज्ञेया सविता च नखाः स्मृतः ।
वास्तो वामसमाख्यातं दक्षं सोदितिरुच्यते ।।
रिगिस्थाने भुजं ज्ञेयं सोमस्थाने तु कुर्परं ।
भल्वाटमुख्यभागे तु शलाकाञ्च विदुर्वुधाः ।।
नागस्थे मणिवन्धस्तु वायोः करमुदाहृतं ।
रुद्रदासांगुली ज्ञेया पञ्चसंख्या नखास्तथा ।।
राजयक्ष्मा पदे चैव भागाद्भगविभागशः ।
ब्रह्मादीशै तु यः सन्धिः हृदयंतविजानतः ।।
हृन्सन्धेर्वामदक्षे तु स्तनौ द्वौ परिकल्पयेत् ।
सरीरस्य पदैके तु स्तनं वाममुदाहृतं ।।
धराधरपदैके तु स्तनं दक्षिणमुच्यते ।
मरीचस्य यच्छेषं वै भूतसंख्या पदं प्रिये ।।
वामपार्श्वगतं तत्र दक्षिणं तु धरात्मकं ।
भूतसंख्यापदैर्युक्तः पार्श्वश्चैव वरानने ।।
ब्रह्मण्येन तु जठरं जठरान्ते नाभि रुच्यते ।
नाभेरूर्द्धाधः मीशस्तु दङ्ग्रहात्पद तुर्यवत् ।।
कुच्छिवामं विजानीयाद् दक्षिणं तद्वदेव हि ।
इन्द्र इन्द्र जयाभ्यान्तु भागार्द्धार्द्धभाजिते ।।
कट्यादौ पायुरन्ताश्च कल्पनीया विपश्विने ।
इन्द्राधो द्वे तु मुष्कम्वै कट्यार्द्धार्द्ध प्रकीर्तितं ।।
७०अ)
कट्याधसन्धिकूपन्तु वृषणौ सन्धिपक्षगौ ।
सन्धेरधोर्द्धार्द्धशिष्णं शिष्णाधः पायुरुच्यते ।।
वृषणौ पक्षगौ देवि स्फिचौ तौ तु विजानतः ।
विवस्वा षट्पदै चैव ऊरुश्चैव विदुर्वुधाः ।।
पूषार्णधजानुरुदिष्टं जान्वधोजंघरुच्यते ।
वितथादौ समारभ्य यावद् गन्धर्व गोचरे ।।
जंघापार्श्व भवेद् दैर्घ्य जघाधोर्द्धन्तु गुल्फकं ।
तदधः पाष्णिकं चैव तस्यार्द्धार्द्ध पदं विदुः ।।
पादार्द्धार्द्धांगुलिनान्तु अङ्गुल्यार्द्धार्द्धतो नखा ।
वामजंघासमुद्दिष्टा दक्षिणो कललोधिपः ।।
षट्पदैर्चतुबोध गुंजानुकं रोगसंज्ञके ।
शोषादौ स्रग्विजान्ताश्च जंघैषा च प्रकीर्तिताः ।।
सुग्रीवार्द्धे तु गुल्फम्वै पाष्णीञ्चापरार्द्धतः ।
तस्योर्द्धोर्द्ध पदं प्रोक्तं पादाधोर्द्धाङ्गुलीं भवेत् ।।
पितरोर्द्धे नखा प्रोक्ताः पूर्ववद्वरवर्णिनि ।
ब्रह्मात्मगते पृष्ठे पृष्ठ मर्म उदाहृतः ।।
अधो मुखो न मर्मम्वै ज्ञातव्यं सुरसुन्दरि ।
हृन्सन्धिपृष्ठ देशे तु हृत्यन्तन्तु विदुर्वुधाः ।।
वंशायः सन्धयः पृष्ठे मर्मतंतु कृकाटिका ।
इन्द्र इन्द्र जपः पृष्ठे त्रिकटं तं न संशयः ।।
अधो मुखो पदा वास्तुः प्रासादाद्या गृहादिषु ।
तदा निवेसनं कुर्यान् मर्मे मर्मं न पीडयेत् ।।
उत्तानं पूजनार्थे तु शल्योद्वारञ्च नान्यथा ।
यथा वास्तु तथा मर्म तन्मध्ये सूत्रसंधिगं ।।
सम्पातं तद्भवेत् मर्ममोक्तव्यन्तु प्रयत्नयः ।
पिङ्गलोवाच ।।
मर्मपीडा प्रकर्तव्या यदि देव तदा कथं ।
यद्वास्तु कल्पनं प्रोक्तं तत् क्षेत्रस्य परिग्रहः ।।
क्षेत्रे कुड्यादि विन्याशः कार्यो देव गृहादिषु ।
कथं तद्युज्यते कर्तुर्यतोमर्मयो हि सः ।।
यथावास्तु तथा मर्म तस्माद्वास्तु न पुज्यते ।
बहिश्चेत् क्रियतेऽरम्भः तदविनिरहेतु सः ।।
७०ब्)
तस्मात् सर्व प्रयत्नेन मर्मादेवार्चनं कुरु ।
शल्याद्वारञ्च देवेश क्रियते तत्वीथं वैः वैः ।।
वास्तुं प्रति यथा पूज्य क्रिया काले वलिम्वद ।
भैरव उवाच ।।
संनिवेशन काले तु प्रासादानां सुरेश्वरि ।
चतुरश्रं वृत्तं न्यश्रं यद्रूपं वास्तु कीर्तितं ।।
इषत्तच्चेशतो नीत्वा रक्षोघ्नार्द्ध सुरेश्वरि ।
समन्ताच्चालयेद् वास्तुं विधिनानेन सुन्दरि ।।
वास्तु संवलिते नैव मर्माद्यं वलितं भवेत् ।
एवं संध्यादि मर्माणां मध्यान्मध्यन्तु वञ्चनं ।।
चतुरश्राद्यमारम्भम्विधानेन कल्पयेत् ।
भित्द्यारम्भे तु देवेशि प्राकाराद्यां शृणुष्वमे ।।
यत् किञ्चिद् भित्तिमानन्तु तिलार्द्धा हीनवाधिकं ।
कृत्वा सङ्कल्पयेद्भित्तिः संशये नात्र कारयेत् ।।
एवं क्रियते यद्वास दृष्टादृष्ट फलावहं ।
शल्योद्वारं प्रवक्ष्यामि यथावत् तत् तथा शृणु ।।
सम्यक् शल्यविदाचार्यः सम्यग्वास्तु विधानवित् ।
आदौ तु मनसा कल्प्य वास्तु चैव सुरेश्वरि ।।
सुप्रच्छन्ने सुगुप्ते रविजने कटवेष्टिते ।
शक्तिनीशक्तनैर्देवि शल्योद्धरणमाचरेत् ।।
दिव्यादिव्यविमिश्रं च त्रिविधं तं विदुर्वुधाः ।
देवादि दर्शनं दिव्य अदिव्यं मानुषात्मकं ।।
श्वानोलुकककाकाद्यां विमिश्रं तं न संशयः ।
सात्वकंः कर्तुराचार्यः श्रेष्ठं देवादि दर्शनं ।।
राजसः कर्तुराचार्यो ज्ञेयमिश्रं तु मध्यमं ।
तामसः कर्तुराचार्यः कन्यसं मानुषात्मकं ।।
एवं ज्ञात्वा तु शकुनमुद्धरे च्छल्यवित्सदा ।
विकृतिं संप्रवक्ष्यामि नगरात्मनि यथा भवेत् ।।
कर्तारमानयेत् तत्र यत्रासौ वास्तु कल्पितः ।
आगते तत्र कर्तारो सुविज्ञो गुरुलक्षयेत् ।।
शिरः स्थित्वा शिरः क *? कुरुते कारको यदा ।
शिरः शल्यं तथा तस्मिन् उद्धरेत् तत् प्रमाणतः ।।
मुखे स्थित्वा मुखे क *? कृत्वा शल्यन्तु काष्टकं ।
द्वि हस्तादुद्धरेत् तत्र ग्रीवस्थे ग्रीवस्पर्शनात् ।।
७१अ)
लोहशृङ्खल तत्रस्थं मानेन त्रिकरेण तु ।
उदरस्थो यदा कर्ता स्पृशते चोदरात्मनि ।।
पशुशल्यं भवेत् तत्र सार्द्ध हस्त द्वयेन तु ।
हस्ते हस्तौ कृतौ कृत्वा खट्वा पादौ समादिशेत् ।।
द्वाविंशन्त्यंगुलं खत्वा तत्रो द्वार्यं विपश्चिते ।
वाहौ स्थित्वा यदा वाहुर्विकारं कुरुतेऽत्मनि ।।
तन्मूलं तत्र शल्यन्तु चिन्मात्रोदुद्धरेत् सदा ।
एवं वामे विनिर्दिष्टं दक्षिणे कटिमात्र *? तः ।।
तच्छल्यं तत्र निर्द्दिश्यं कपालम्बा मृदात्मकं ।
कटिस्थे तु कटिः कंडूं यदा करोति कारकः ।।
द्विहस्तादुद्धरेत् तत्र कीलकं लोहनिर्मितं ।
ऊरूस्थश्चोरु संस्पर्शात् सारकाष्ठञ्च तत्र वै ।।
सार्द्ध हस्तं खनित्वाधस्तच्छल्यं तु विशोधयेत् ।
जानुस्थो विकृतौ जाते शल्यंस्थनात्मकं विदुः ।।
नापितोपस्करो वाथ हस्तमात्रात् समुद्धरेत् ।
गुल्फस्थे गुल्फसंस्पर्शा द्वयपादं च विनिर्दिशेत् ।।
दशाष्टाङ्गुल मानेन तत्र खट्वासमुद्धरेत् ।
पादस्थ पादसंस्पर्शादिभास्थिं तत्र वा दिशेत् ।।
तालमात्राधतः खत्वा उद्धरेत् विचक्षणः ।
पितृस्थां गुष्ठसंस्पर्शात् खेटी वर्हिणचित्रिता ।।
शल्यं प्रोक्तं तदुद्धार्यं द्विरष्टांगुलमानतः ।
पितरस्थाथवा देवि कनिष्ठा विकृतो यदा ।।
कांस्यात्मकं तदा शल्यमुद्वापाष्टांगुलेन तु ।
पादस्थस्तु पदाकर्ता पादाधः स्पृशते प्रिये ।।
चर्मशल्यं तदा तत्र उद्धर्याष्टांगुलेन तु ।
उरस्थः उरसंस्पर्शाद् वृच्छल्यन्तत्र वादिशेत् ।।
अधोरुद्रांगुलं खत्वा उद्धरेन्नात्रसंशयः ।
पार्श्वस्था विकृते जाते शल्यं पाशुलिकात्मकं ।।
तस्मिन् स्थाने समुद्धार्यं नरार्धात् कथितन्तवः ।
कुचस्थस्तु यदा भद्रे कुचं स्पृशति कारकः ।।
मार्जारपञ्जरं तत्र कुचमानात्ममुद्धरेत् ।
ब्रह्मस्थः पृष्ठसंस्पर्शाद् भवेद् वाराह कुर्परं ।।
७१ब्)
तत्र वेत्वासमुद्धार्यं नाभि मात्रान्तसंशयः ।
इशस्थश्चक्षुसंस्पर्शात् तन्मानात् मौक्तिकं भवेत् ।।
श्रुतिस्थः श्रुतिसंस्पर्शात् प्रवालं वाथ कांचनं ।
रजतञ्च शुभा ह्येते कर्णमात्रात् समुद्धरेत् ।।
प्रत्ययार्थं तदुद्धार्यं मोत्तिकाद्यसुरेश्वरि ।
पुनः संस्थापये तत्र द्रव्यं चान्यविमिश्रितं ।।
स्फिचौ स्थित्वा स्पृशेत् तंतु त्रपुं तत्र विनिर्दिशेत् ।
कटिमात्राधतः खत्वा चोद्धरेत वरानने ।।
वक्त्रस्थश्च स्पृशेद् दंतात् तत्राभ्रककपालकं ।
त्रिहस्त परिमाणे खत्वा सम्यक् समुद्धरेत् ।।
भ्रुवोः संस्पर्शनाद् भद्रका च शल्यत्रिहस्तकं ।
कक्षौकषा कृतिं विद्यात् कृष्णलोहं करत्रयात् ।।
शिस्ने तु विकृतिं याते त्रिलोहं तत्र जायते ।
त्रिकराधः समुद्धार्यमिति शास्त्रस्य निश्चयः ।।
अथवा वास्तु मध्ये तु स्थित्वा वै कारकोत्तमः ।
यदाधुनाति सर्वांगं तदाशल्यं समन्ततः ।।
तदुक्तं पूर्वशल्यं तु स्थाने स्थाने विजानतः ।
सिकताम्मङ्गारलोहास्थि तुषखर्पर कीलकाः ।।
घाषतारा च कनकं प्रवालोमणिमौक्तिकः ।
सर्वं सल्यैर्यतः कीर्ण ततः संकीर्ण उच्यते ।।
नरमात्राधः खनित्वा शोधितव्यं प्रयत्नतः ।
शोध्यैतां कीर्णशल्यां तु पूरयेत् प्रागविधानतः ।।
शुद्धो वै जायते वास्तुं ततः सूत्रादि कल्पना ।
मर्मादेः कल्पनं कृत्वा देवानां स्थापनं प्रिये ।।
वास्तु संपूजयित्वा तु तत्पत्यु सर्वलिर्माहरेत् ।
ब्रह्माद्याः पतयः प्रोक्ता ग्रहाद्याश्च सुरेश्वरि ।।
यथा तेषां वलिः प्रोक्तः तथा सम्यग् निवोधमे ।
घृतधारे स देवाय पर्जन्ये वाक्षतं ददेत् ।।
कजकंजय देवाय माहेन्द्राय शृणु प्रिये ।
वैजयन्ती च पीता च पर्याय ध्वज मुच्यते ।।
सुवर्णोदक सूर्याय सत्याय च पुनः शृणु ।
७२अ)
धूम्रं वितानकं चैव दातव्यं हितमिच्छता ।
घृतक्षीरसमायुक्तं चरुं गोधूमजं प्रिये ।।
भृशायसंप्रदातव्यं यदीच्छेत् सिद्धिमात्मनः ।
मीनं तदन्तरिक्षाय स्विनं मांसमथापि वा ।।
वह्नेर्वलिं प्रवक्ष्यामि शृणुष्वेकाग्रमानसः ।
शक्तवो घृतमाक्षीकक्षीरयुक् सचि पूरितं ।।
स्रुवेन सहसंयुक्ते दातव्यं शान्तिमिच्छता ।
ज्वालापूष्णे च दातव्या वलिञ्चैव सुरेश्वरि ।।
वितथाय प्रदातव्यं रत्नचारि सुनिश्चयः ।
गृहक्षता यदातव्यं मधुंसुरवरार्चिते ।।
मत्स्यमांसं प्रदातव्यं यमदेवाय सुव्रते ।
चन्दनादिक गन्धञ्च गन्धर्वाये निवेदयेत् ।।
द्विज जिह्वा प्रदातव्या भृङ्गदेवाय सर्वदा ।
समूलं यववृक्षन्तु मृगाय प्रतिपादयेत् ।।
कृसरं क्रव्यसंयुक्तं पितृसंज्ञस्य दापयेत् ।
द्वौ वारिका यदातव्यं काष्ठं दन्तविशोधनं ।।
सुग्रीवे पूपकं दद्यात् कुशं दद्यान्तु श्रग्द्विजे ।
प्रचेतसे प्रदातव्यं राजीवं पद्मसोच्यते ।।
असुरे तु सुरादेया घृतान्तं शोथदेवते ।
रोग्रेन्द्राय प्रतव्यं मण्डकं वरवर्णिनि ।।
ध्वजं पीतं ददेद्वायोर्निर्विघ्नं नान्यथा प्रिये ।
फणीन्द्राय प्रदातव्यं पुष्पं वैनायकेसरं ।।
सुमुखे फलजातिं तु द्राक्षं चाम्रादि मेव वा ।
भक्तसूपं प्रदातव्यं भल्वादे नात्रसंशयः ।।
मधुघृतसमायुक्तं सोमे भक्तं प्रदापयेत् ।
पितृ देवाय तत्स्थाने कल्प्यं चैव सुरेश्वरि ।।
क्षीरषाय सदातव्यं सघृतं मधुमिश्रितं ।
वलिकाले पतस्ते तु वल्यर्थे सन्निवन्धनाः ।।
कुमुदस्य तु यत्कन्दं सौगन्धिकमथापि वा ।
उत्पलस्याथ पद्मस्य गिरिदेवाय दापयेत् ।।
अदितये प्रदातव्यो मुल्लोपिका सुरेश्वरि ।
पूरिकादिति देवाय दातव्यो हितमिच्छता ।।
आपवत् सन्दधिं दद्यादापे दद्यात् पयः प्रिये ।
७२ब्)
मरीचये मोदकं स्यात् सावित्र्यै तु कुशोदकं ।
सवित्रेण्चघ्र पुष्पं तु दातव्यं वरवर्णिनि ।।
विवस्वे च प्रदातव्यं रक्तचन्दनलेपनं ।
जयदेवाय दातव्यं हरितार्मं सुरेश्वरि ।।
यत्रसौमारिकं गृह्य भक्तं तद्रसभावितं ।
हरितान्नञ्च तच्चोक्तं कृत्रिमं तन्तु तत्वतः ।।
खिच्चान्नमिन्द्र देवाय गुडभक्तं कलाधिपे ।
घृतान्तं रुद्रदासाय रुद्राय फल्गुषैः सह ।।
पृथिवी धराय कुल्माषं मत्समांससमन्वितं ।
केचिद् वदन्ति कल्माषं सांकुरं वरवर्णिनि ।।
केचित् स तुषपिष्टन्तु स्विन्नमिंडरिके वहि ।
उभयो वा प्रदातव्यौ साकुरं स्विन्न मेव च ।।
यद्वलिं ब्रह्मणे चैव तच्छृणुष्व समाहिता ।
घृतक्षीरचरुं हव्यं तिलाक्षत यवान् कुशं ।।
पञ्चगव्यसमायुक्तं दातव्यं सिद्धिमिच्छता ।
घृतसिद्धिं तथा क्रव्यं चरुक्या संप्रदापयेत् ।।
मासभक्तसमायुक्तो मर्ममांससन्धितः ।
स्कन्दाय च प्रदातव्यौ वलिञ्चैव सुरेश्वरि ।।
हृत्पद्मेनसमायुक्तं संघृतं मांसमेव च ।
विदारिकायै दातव्यो वलिरेषा न संशयः ।।
वलिश्चान्यमनाथाय कृसरं पूपकैः सह ।
फल्गुषेण समायुक्तो दातव्यो हितमिच्छता ।।
स रक्तं पित्तमांसञ्च पूतनायै प्रदापयेत् ।
जम्भकाय प्रदातव्यं सार्द्रमांसासृक्संयुतं ।।
मास्थि खण्डामिषं रक्तं पित्तं वै पापराक्षसी ।
सांत्रं रक्तं च कुसुमं पिलिपिच्छा यदापयेत् ।।
वास्तोः पत्युः समाख्यातो वलिरेवं न संशयः ।
मंत्रं तेषां प्रवक्ष्यामि पूजां वलिविधिर्यथा ।।
चतुर्थान्तं स्वनामञ्च प्रणवादि विभूषितं ।
नमस्कारान्तसंयुक्तं पूजामत्तंस्त्वयं प्रिये ।।
गन्धधूपादिकं दद्यात् स्वाहान्तेन न संशयः ।
वौषडन्तार्घ दातञ्च स्वधान्ते वलिकर्मणि ।।
वषडन्ते पानंस्यादेवमाद्यां विदुर्वुधाः ।
दिक्काले परितो दद्याद् विधिनानेन सुव्रते ।।
७३अ)
तथा भूतगणेभ्यश्च दिङ्मात्रिणां तथैव च ।
सर्वान्न सहितं दद्याद्वलिं वलिं वै सार्वकामिकं ।।
मन्त्रं तेषां प्रवक्ष्यामि शृणुष्व वहितो प्रिये ।
प्रणवं पूर्वशव्यञ्च दिशाशब्दं तथैव च ।।
वासिने च तथा लिख्य भूतेभ्योघ्रः प्रकीर्तितः ।
एभ्योलिख्य पुनर्देवि अघोरेभ्यो लिखेत् क्रमात् ।।
घोरशब्दं पुनर्लिख्य पुनर्घोरतरेति च ।
पुनर्भ्यश्च ततः सर्वतः सर्वन्तु पुनर्भवेत् ।।
सर्वे समालिख्यभ्योनमस्तदनन्तरं ।
स चात्मने समालिख्य भ्योन्ते च पुनरेव हि ।।
नमः स्वाहा तथा वौषट् स्वधा वषट् यथाक्रमं ।
पूजाद्यायानमन्ताश्च जात्यन्ता परिकल्पना ।।
ह्रं चान्ते तु विसर्जेत भूतानाविधिचोदितः ।
यत्र शब्दन्तु भूतानां मात्राणान्तन्न योजयेत् ।।
तार्यविधिः स एवोक्तः पूर्वं वै यदुदीरितं ।
पिंगलोवाच ।।
ग्रहवास्तुस्त्वया देव प्रोक्तो भूतात्मकोपि च ।
यथा तेषां वलिः सिद्धः तथा कथय मे स्फुतं ।।
भैरवा उवाच ।।
सौवर्णकं कजं देयं सूर्यायात्र न संशयः ।
सोमे क्षीरं प्रदातव्यं श्वेतपुष्पसमन्वितं ।।
स्वस्तिकं रक्तपुष्पञ्च भूसुताय प्रदापयेत् ।
घृतपूर्णं श्रजं पीतं वुधाय प्रदापयेत् ।।
दधिभक्तं कुशोपेतं ग्रीर्वाणमविचारयेत् ।
फर्णषालि समौपेत शुक्राय प्रतिपादयेत् ।।
मोदकोत्पलसंयुक्तं शनैः सम्यक् निवेदयेत् ।
कुमुदमधुसंयुक्तं राहवे संप्रदापयेत् ।।
शक्तवोनीलपुष्पं तु केतवे सर्वदा प्रिये ।
यथा विन्यास योगेन वलिस्तेषां तथा प्रिये ।।
शंखभेर्यादि शब्दांस्तु व्योमायसंप्रदापयेत् ।
मृदुवस्त्रध्वजं वायोः घृतदीपं तु पावके ।।
नक्रंपिष्टमयं कृत्वा वरुणाय प्रदापयेत् ।
कूर्मसाक्षात् प्रदातव्यः निर्मितः पिष्टकेन वा ।।
पृथिव्यै च वरारोहे न्यासस्तु वलिकर्मणि ।
७३ब्)
तेषां स्वनाममंत्रस्तु यथापूर्वमुदाहृतः ।
एवं सर्वत्र दातव्यस्तत्स्थाने तु दिशावलिं ।।
दत्वा वलिं शुभा वाप्ति दृष्टादृष्टफलावहा ।
निर्विघ्नं तु तदाभद्रे समाप्त्यारम्भकर्मसु ।।
अन्यथा तु महाविघ्नं प्रकुर्वन्ति विनायकाः ।
तस्मात् सर्व वदातव्यौ वलि वै सार्वकामिकः ।।
एवं साठो भवेच्छ्रेयः पूजावलिविधानतः ।
प्रासादकल्पना पश्चात् गृहकल्पनमेव च ।।
इति पिङ्गलामते नवमः प्रकरणः ।।
पिङ्गलोवाच ।।
प्रासादलक्षणं चैव ज्ञातंसुरवरेश्वर ।
गृहाणां लक्षणं ब्रूहि पुराद्या वासवल्पना ।।
द्विजादि प्रक्रमाङ्गे फं राजादेः स्वषुरं वदः ।
चुम्वकादेर्यथारम्भम्भम्भा सम्यक् निवेदयेत् ।।
भैरव उवाच ।।
चुम्बकस्य पुरं वक्ष्ये यथानृप कृतम् भवेत् ।
प्रासादस्य तु यन्मानं विस्तरं सुरसुन्दरि ।।
तन्मानं वाह्यतस्त्यक्त्वा प्राकारस्य समं ततः ।
अन्तरालंतमेवोक्तं पुरप्रासादयोर्विदुः ।।
प्राकारभित्तिवत् ज्ञेयो पुरभित्तिप्रकल्पना ।
पुनस्तद्वत् तथा भूयः समन्तात् परिकल्पना ।।
यथा गणिक हेत्वर्थं कल्पितव्यं प्रयत्नतः ।
कर्तुश्च कीर्तनं वुध्वा समन्ताद्भुपरि ग्रहः ।।
पुराद्वेतु स एवोक्तः पुनभितीविकल्पना ।
द्विगुणं पूर्वमानन्तु यतोन्ते पुररक्षणं ।।
पुरमानन्तु यद् देवि तारावत् परिकल्पयेत् ।
पूर्वयाम्या परेणैव उत्तरेणै तथैव च ।।
चतुर्भुजां चतुर्दिक्षुस्ततः संजायते स्फुटं ।
इशाद्यादेवतास्तत्र दित्यन्ताः परिकल्पयेत् ।।
रक्षाद्यां वाह्यतः कल्प्यवत्माद्यन्ते तथैव च ।
वसुधारा गृह चैवं इशस्थाने प्रकल्पयेत् ।।
पर्जन्ये तु गृहं कुर्यात् संध्याचाद्य रुपस्करं ।
शंखकाहलभेर्यस्तु मर्दलः पटहस्तथा ।।
तिमिलं जयघण्ठा च तालायुग्मः स झर्झरी ।
मुरजाटक्कनन्दिस्तु हुडुच्छामोन्दमेव च ।।
७४अ)
कांसी डमरुकञ्चैव करडी पट्टमर्दलः ।
सुरलीवंशवीणा च मधुरी किन्नरकं तथा ।।
खुंखुनी द्विसरी चैव त्रिसरीर्नूत षट्सरी ।
एवमाद्यानि चान्यानि पर्जन्ये तु न्यसेद् गृहे ।।
जप स्थाने गृहं कृत्वा तत्र यत् स्थापनं शृणु ।
ताम्रादिगन्डुकाद्यास्तु हेमाद्यास्तु सुलोचने ।।
घटं च करकी चैव अर्घापात्रन्तथैव च ।
धूपाधारञ्च घण्टा च ससाणं चन्दनन्तथा ।।
एवमाद्यादि चाद्यानि तत्रस्थाप्या ह्यपस्कराः ।
जपात्पादं तु संगृह्य माहेन्द्रस्य समस्तकं ।।
आदित्यार्द्धं तु संगृह्य प्रभोलीक न्यसे पुरे ।
माहेन्द्रात् पादनिर्मुक्ता आदित्यार्द्ध समन्विता ।।
कर्तव्या च वरारोहे प्रतोली मध्यमे पुरे ।
आदित्यांशतु त्यन्था(?) वै माहेन्द्रंशसमन्वितां ।।
पदमेकेन कर्तव्या प्रेतोली चोत्तमे पुरे ।
निष्काशोथ प्रवेशश्च द्वारमार्गस्तथैव च ।।
तोरणं यथरस्या च प्रतोली चेति कीर्तिताः ।
एतैर्पर्याय नामाभिर्ज्ञातव्यासुरसुन्दरि ।।
वहि प्राकारयोर्मध्ये प्रतोली या प्रकीर्तिता ।
तस्योर्द्धे च वलभीभूतः प्रदीर्घो गुणन्याश्रयः ।।
मध्यप्राकारयोर्द्धे तु घटिकाश्रय तद्विधः ।
देवप्रकरस्योर्द्धे तु नृत्यशालां विदुर्वुधाः ।।
अथवा मण्डपान्ते तु नृत्यंशालां विदुवुधाः ।
अथवा मण्डपान्ते तु नृत्यं शिवपुरेहितं ।।
उत्तमे तु पुरे चैव माहेन्द्रेभ्यो गताश्रयः ।
जपपादसमोपेतः कर्तव्यस्तु सुलोचने ।।
महेन्द्रस्य तु यत्पादं जपपाद सन्धितः ।
अभ्यागताश्रयः प्रोक्तः पुरे मध्यमकल्पिते ।।
आदित्यार्द्धे तु कर्तव्यं कन्यसेभ्यागताश्रयः ।
सत्ये चैव प्रकर्तव्यं गृहमास्थान हेतुकं ।।
भृशाग्निके तु प्रकर्तव्यं विपुलं तु महानसं ।
पृष्णे जलाश्रयं कुर्याद् वितथे भाजनाश्रयः ।।
सौवर्णरजतं ताम्र कांस्यादि विनिर्मितं ।
७४ब्)
यंत्रिकाभिः समोपेतं स्थापितव्यं प्रयत्नतः ।
गृहक्षते गृहं चैव शस्त्रसंस्थापनाय तु ।।
खड्गवाणधनुश्चैव कुठारोमुद्गरस्तथा ।
क्षुरिकाकुन्तदंतश्च चित्रदण्डस्तथैव च ।।
लकुटं शक्तिपाशश्च कणयः शूलपत्रकः ।
चक्रासि गदवज्रश्च अंकुशश्चक्र पट्टिशः ।।
एवमाद्यानि चास्त्राणि फराणि विविधानि च ।
स्थापितव्यानि देवेशे गृहे गृहक्षतस्य तु ।।
यमे गान्धर्वके कुर्यात् मठं भूमि त्रयान्वितंः ।
अथवा द्वय सार्द्धन्तु भूमिकैकाथवा प्रिये ।।
उत्तमं मध्यमञ्चैव कन्यसं च यथाक्रमं ।
आचार्यस्य तदेवोक्तं निजं सयन हेतुकं ।।
इष्ट्याह्निकं जपं ध्यानं योगाभ्यासं तु तत्र वै ।
वीरभोज्यान्न पानाद्यैः वीरैः सह समाचरेत् ।।
भृङ्गे च स्त्री गृहं कुर्यान् मृगे कुर्या तु मज्जनं ।
पितृ स्थाने प्रकर्तव्यं सर्वथा या पुराश्रयः ।।
शौचमृत्तिककाष्ठञ्च द्विजसंशोधनस्य च ।
द्वौ चारिक गृहे चैव स्थापयेन् मन्त्रवित् सदा ।।
सुग्रीवे पुष्पदन्ते च प्रचेते भोजनाश्रयः ।
प्रदीर्घस्तु प्रकर्तव्यः प्रद्योतोजालकान्वितः ।।
असुरे शोषसंज्ञे च यतीनामाश्रयो भवेत् ।
पत्रोलूखलकाद्यानि रोगे कण्डनिका गृहं ।।
वायु स्थाने गृहं कुर्यात् तत्र स्थाप्यं तु गंधकं ।
चन्दनागरुकर्पूर कस्तुर्याद्या विलेपनं ।।
नागे मुख्ये च भल्वाटे गृहं दीर्घे तु विस्तरं ।
पुष्यार्थन्तु प्रकर्तव्यं यतीनामति शोभनं ।।
सोमिरिगौ च भण्डारं सोमे रत्नादि संग्रहं ।
रिगौधान्यादिकं देवि युग्मं वाप्येकमेव वा ।।
अदिनौ पर्शु *? ला च दितेर्दिव्योश्रयो भवेत् ।
एवं प्रदक्षिणे नायं न्यास स्यात् पुरसंस्थितः ।।
षट्मुखस्य शिवशिवस्यैवं न्यासोयं परिकीर्तितः ।
अपरास्यस्य देवस्य कथयामि तथाधुना ।।
वारुणार्द्धा सुरे चैव शोषे पादसमुन्वि *? ।
७५अ)
प्रतोलीकन्यसे चैव मध्ये दैत्यांसवर्जिता ।
वरुणांश विनिर्मुक्ता दैत्यांशेन समन्विता ।।
उत्तमस्य पुरस्यैव प्रतोली मध्यवर्तिना ।
सुग्रीवे पुष्पदन्ते च यतीनामाश्रयो भवेत् ।।
त्रयमार्गावशेषे तु तत्रास्थानं गृहं भवेत् ।
वारुणास्यैव यच्छेषं कुर्यादभ्यागता श्रयं ।।
माहेन्द्रादित्य सत्येव भोजनाश्रयम्तत्र वै ।
चालनं त्रय निर्दिष्टं शेषान्ये पूर्ववत् स्थिता ।।
प्रतोली पुरतो वाह्य शिवस्य गणिका पुरं ।
याम्योत्तरमुखभद्रे सततं पक्तिनाचितं ।।
वायव्ये तु दिशाभागे द्रागादी तूरिकाश्रयः ।
चतुष्कालं भवेत् तूरं धूपवेला च सोच्यते ।।
मध्याह्ने चार्द्धरात्रे च उदयास्त मनेषु च ।
पताकाध्वजसंयुक्तं वासरं दर्पणान्वितं ।।
दण्ड उत्क्षेप उत्क्षेपं श्वेतछत्रसमायुतं ।
चन्द्रातपसमायुक्तं प्रदीपं यष्टिनिर्मितं ।।
सौवर्णादितलीदिव्या त्रिरष्टाङ्गुलनिर्मिता ।
शालिभक्तमयलिङ्गं तत्र कुर्यात् शुशोभनं ।।
गन्धपुष्पसुधाद्यं घण्टाडमरुनादितं ।
पुंसिरे तत् तु सधार्य गणि वा सुरेश्वरि ।।
रूपयौवनसम्पन्ना दिव्यवस्त्ररलंकृता ।
एवं प्रदक्षिणेमाञ्च धूपवेलां समारभेत् ।।
भ्रामयेत् त्रीणि वाराणि प्रणालस्य तु वर्जनात् ।
तदन्तम्वलि पीठे तु स्थापितव्यं प्रयत्नतः ।।
पश्चादागत्य नृत्यं तु नृत्यगृहे समाचरेत् ।
काव्यं वा नाटकं वापि चोखं वादित्य निर्मितं ।।
शिवस्य पुरो नित्यं चतुर्वेला विधानतः ।
रात्र्यापादगते नैव द्राडाडञ्च शिवाग्रतः ।।
पुनः पादं त्रयातीते निशापाद्राडोमतः ।
सर्ववाद्यसमोपेतं पूर्व वै पदुदीरितं ।।
घटीमात्रं ततो नित्यं वादयेच्छिवद्रागडं ।
पुरस्योत्तर दिग्भागे पुष्पारामस्तु दी * का ।।
७५ब्)
कूपं वा विहरी वापि शुद्धशैलविनिर्मिता ।
प *? ष्टक मया वापि काष्टारर्था सुशोभना ।।
दिव्यसोपानसंयुक्ता विहरीदीर्घिका भवेत् ।
कुलालकृत पट्टम्वा कूपशोपानवर्जितं ।।
अर्हटं पदपट्टं वा कार्याटिंकुलिकापि वा ।
द्रोणी वाथ प्रकर्तव्या पुष्पारामोदका गमे ।।
केते वृक्षास्तु पुष्पाणां वृक्षाश्चैव शृणुष्वथ ।
वकुलं श्रीफलं चैव पुन्नागो नागकेसरः ।।
अप्सरं चम्पकश्चैव नागचम्पकपाटलाः ।
स्थल चम्पकस्त्वशोकं वृक्षोत्पलमकिंशुकः ।।
प्रियंगुकर्णिकारस्तु मन्दारः पारिजातकः ।
केतत्पति विमुक्ता च वहुसेनो जपन्तिका ।।
कुखवै शतपत्री च करवीरस्तगरस्तथा ।
सुरभिराजार्कजातीश्च कुन्द पूषिकमलिका ।।
एवमार्यानि चान्यानि सौरभ्यानि तु ।
दमनामरुवकाद्यादि प्रकीर्णानि तु कारयेत् ।।
प्रसस्ता दाडिमाम्रानिनार्यङ्गा वीजपूरकाः ।
कदली वदरी चैव कुचिकुन्दुरकंदुकः ।।
तालखर्जूरताडिश्च शूपवृक्षोथजम्विरः ।
नालिकेरस्तथा चापि हिन्तालः शाल एव च ।।
उदागस्त्रितित्तिडिश्च खदिराश्वत् कजम्भनः ।
प्लक्षोदुम्बरनिम्बश्च श्रीपल्लीवटवल्लकाः ।।
शोभनान्यैस्तथा वृक्षैः पूरयेन्नन्दनम्वन ।
ऐशान्यां शिल्पिनां वासः कल्पितव्य सुलोचने ।।
पूर्वे तु ब्राह्मणावासः शिवाग्रे शान्ति पाठकाः ।
आग्नेयां लोहकाराद्याः काष्ठकारादि कारुकाः ।।
याम्येन भृत्यवर्गास्तु कृषाणादि विकल्पनाः ।
नैर्-ऋत्यांमंत्यजातीना *? वा संकल्पयेद् वुधः ।।
रजकाद्यास्तु वारुण्यां न्यासोयं पुरवाह्यतः ।
पुरप्रासादयोरन्ते अन्तराले च सुन्दरि ।।
रम्भाम् तत्र समन्तान्तु गूपमालादिशोभितं ।
तगरं पिण्डसंज्ञा च करवीरैर्विभूषिता ।।
७६अ)
शिव पुरोयं समाख्याता नन्दिकावर्तलक्षणः ।
चुम्बकस्य वरारोहे भोगमोक्षार्थिनस्य तु ।।
शिवं शोभनभावञ्च मनोद्यं शाश्वत शुभं ।
स्थिरं चाव्ययसंपूर्णं पर्यायः यस्य चोदितः ।।
शिवस्य वा पुरं चैव न दोषं गुरुपूर्वकं ।
अथवा दक्षिणेस्तौ पूर्वे वा पश्चिमेपि वा ।।
मठञ्चैव प्रकर्तव्यं सौम्यनैव तु कारयेत् ।
प्रासादविस्तरं मानं त्यक्त्वा चैवान्तरालकं ।।
तदर्द्धं वा तदर्द्धञ्च ज्ञात्वा चैवानुरूपतः ।
कन्यसं मध्यमं चैव उत्तमं च त्रिधायतः ।।
भूपविग्रहकर्तव्यो ज्ञात्वा भूकर्तरीप्सया ।
चतुरस्रं समं कृत्वा गुणवद् भाजयेत् समं ।।
यागमण्डपमैशान्यां पूर्वे वा स्थानमण्डपः ।
सजलं पाकमार्गेयां जलपाकाप्य गोचरे ।।
मठं चान्तक दिग्भागे शयनं कुर्यात् स्वयं गुरुः ।
पितृ स्थाने तु वर्चो वै पर्यायस्तस्य चोच्यते ।।
विट्कुटी ब्रह्मवर्दञ्च चन्दन पाप्रदं प्रिये ।
अवस्योत्कटगूषञ्च नवसंज्ञाप्रकीर्तिता ।।
मत्रमण्डपवारुण्यां कर्तव्यस्तु विचित्रकः ।
यन्त्रोलूखलकाद्यादि वायव्यां सन्निवेसयेत् ।।
सोमस्थाने तु न्यासं वै सुगुप्तं चैव कारयेत् ।
मध्ये चाङ्गणकं रम्यं वाह्ये प्राकार वेष्टितं ।।
प्रागाप्यातोरणं वापि देवयोग्यविकल्पना ।
शुद्धशैलमयं सर्वं यत्कटकमयोथवा ।।
काष्ठनिर्मित सर्वं वा मृदनिर्मितमेव वा ।
कटका वेष्टितम्वापि तृणछन्नमथापि वा ।।
वित्तानुरूपतः प्राज्ञो देशकालानुरूपतः ।
द्वितीयं नन्दिका वर्तं चुम्बुकस्य प्रकीर्तितः ।।
नरेन्द्रादि कृतस्यैव ऐश्वर्यालंकृतस्य च ।
कथितन्तु वरारोहे पुरं दिव्यं सुशोभनं ।।
सामान्यं संप्रवक्ष्यामि चुम्बकाद्याश्रयं प्रिये ।
स्वकृतान्यकृतं वापि शालां चैवाधुना शृणु ।।
चतुःशालं त्रिशालञ्च द्विशालं चैक शालकं ।
७६ब्)
शालासंख्या भवन्त्येता विभागस्त्वधुनोच्यते ।
आचार्यस्य चतुःशालं त्रिशालं साधकस्य तु ।।
पुत्रकस्य द्विशालञ्च समयी ह्येकशालकं ।
दिग्भागमधुना वक्षे संज्ञा तेषां पृथक् पृथक् ।।
अष्टशालयुतं धन्यं वन्दिकावर्तमुच्यते ।
आपचक्रं विभज्यादौ शालासाधन हेतुकं ।।
पूर्वे तु श्रीगृहं कुर्यात् ध्वजायेन विपश्चिते ।
याम्ये सयया गृहं प्रोक्तं सिंहायेन विजानतः ।।
पश्चिमे भोजनं गेहं वृषायेन विदुर्वुधाः ।
न्यासं गृहोत्तरे कुर्याद्सजायेन न संशयः ।।
धूमायेन प्रकर्तव्यं पाकं दहन गोचरे ।
पायुदंपितरस्थे तु स्वनायेन न संशयः ।।
धान्यादिक्षोदनं गेहं वायव्यां रासभेन तु ।
यागमण्दप ऐशान्यां ध्वाक्षायेन तु सुन्दरि ।।
मुनितारा करेणैव रुद्रस्त्रिदश एव च ।
दशपञ्चकरेणैव दससप्तदिक्छक्तिकं ।।
एकविंशत् करेणैव ध्वजायां पूर्वतो भवेत् ।
चतुरस्रं समन्तान्तु कर्तव्यं श्रीगृहोत्तमं ।।
तत्र स्थाने सदा भद्रे श्रीमन्तैः सहसंयुतः ।
श्रियं तत्र लिक्षेत् साक्षाच्छ्री गृहं तेन चोच्यते ।।
एकूनम् त्रिंश हस्तेन पूर्वपश्चाय भवेत् ।
दशसप्तकरेणैव विस्तरं दक्षिणोत्तरं ।।
सिंहापंच भवेत् तेषां दक्षिणे सयनाय *? ।
दशपञ्चकरेणैव सुदीर्घन्दक्षिणोत्तरं ।।
रुद्रसंख्याकरेणैव वि *? रं पूर्वपश्चिमं ।
वृषापञ्च भवेत् तेन पश्चिमे भोजनाश्रयः ।।
त्रयोदशकरेणैव पूर्वपश्चायतं कुरु ।
रुद्रसंख्या करेणैव दक्षिणोत्तरविस्तरंः ।।
गजायं जायते तेन भण्डागारोत्तरेण तु ।
दशाष्टकरं दीर्घं तु विस्तरेण त्रयोदशः ।।
धूमायं जायते तेन वह्नौ पाकं वुदुर्वुधाः ।
प्रदीर्घन्दश हस्तन्तु षट्करं विस्तरेण तु ।।
श्वालायं जायते तेन पितृस्थाने त्ववश्यकं ।
दशहस्तं भवेदैर्घ्यं स्वरवद्विस्तरं प्रिये ।।
खराय जायन्ते वश्यं वायव्यां कण्डला गृहं ।
७७अ)
द्विरष्टकरदैर्घ्यान्तु द्विषट्कं विस्तरं प्रिये ।।
ध्वाक्षायं जायते ऐव ऐशान्यां यागमण्डपः ।
गृहे वाथवा तन्तु विषमं चतुरस्रकं ।।
चित्तानुसरितोवुध्वा चोक्तान्यूनाधिकं भवेत् ।
तृतीयं नन्दिकावर्तञ्चुम्बकस्य प्रकीर्तितं ।।
स्वस्तिकावर्तमन्यच्च तस्यैव चतुःशालकंः ।
चित्तहिनो यदा भद्रे तदा तत् कथयामिते ।।
स यागास्थानपूर्वन्तु स पाकसयनान्तके ।
शयति भोजनं चाप्य सयतु न्याशमुत्तरे ।।
यद्यस्य सन्निकृष्टन्तु तद्दिशाय प्रकल्पयेत् ।
तद्दिशाय युतं चैव कल्पनं गृहवर्जितं ।।
त्रिशालं साधकश्चैव कथयामि सदाधुना ।
हिरण्यावर्तकञ्चैव हीनं चोत्तरमन्दिरं ।।
कर्तव्यं साधकेन्द्रेण भोगमोक्षफलार्थिना ।
सुप्रभावर्तकम्वापि प्राग्घीनं सुखदं भवेत् ।।
चुल्लिकावर्तकं चैव याम्यहीनं न शोभनं ।
पक्षघ्ना वर्तकं देवि न सप्तञ्चाप्य हीनकं ।।
द्वयं ग्राह्यं द्वयं वर्ज्यं यतो वै सुखदुःखदं ।
द्विशालं पुत्रकस्यैव शृणुष्व वरवर्णिनि ।।
वृषसिंहयुतं धामसिद्धार्थं तत्प्रकीर्तितं ।
मुखमोक्षकरं नित्यं पुत्रकभ्य न संशयः ।।
गजानड्वान्समायुक्तं यमसूर्यं विदुर्वुधाः ।
मृत्युदञ्च यतो देवि वर्जितव्यं प्रयत्नतः ।।
गजध्वजसमायुक्तं दण्डाख्यं तद्विजानतः ।
राजदण्डकरन्नित्यं न प्राप्तं तद्विशेषतः ।।
ध्वजसिंहसमायुक्तं वाताख्यं तद्गृहं भवेत् ।
कलहञ्च भवेन्नित्यं न शस्तं वर्जयेत् सदा ।।
वृषध्वजसमायुक्तं पक्षिनाम्ना च विश्रुतः ।
वित्तनाशंवलन्नित्यं वर्जितव्यं प्रयत्नतः ।।
गजसिंहसमायुक्तं काकाकीनाम्ना च तद्गृहं ।
जनैः सह विरोध तु त्यक्तव्यं तन्नसंशयः ।।
समयिनैकशालं तु तच्छृणुष्व वरानने ।
ध्वजम्वा पश्चिमास्यन्तु सिंह वा चोत्तराननं ।।
७७ब्)
वृषं वा प्राङ्मुखं भद्रे दक्षिणास्य गजं न हि ।
गृहमानाष्टमासेन विस्तरस्य तु वीथिका ।।
वृषगृहाग्रतो वीथी उष्णीषं नामविश्रुतं ।
सिंहे तु पक्षयोर्वीथि सावष्टम्भ तु तद्गृहं ।।
ध्वज गृहे समन्तान्तु सुस्थितं तं न संशयः ।
गजे पश्चाद् भवेद् वीथी सायाश्रयविवर्जयेत् ।।
वीथीनां कल्पना भद्रे सामान्यं चुम्बकादितः ।
द्विजादि प्रक्रमाद्वासंनिगदामि प्रति प्रति ।।
द्वात्रिंशद्वस्तु मानेन विस्तरं यदिजादैर्घ्यन्तद्दशमांसेन पूर्वं वै
यत् प्रकीर्तितं ।।
अष्टाविंशत् करेणैव विस्तरं दक्षिणं गृहं ।
दैर्घ्यं तदष्टमांसेन चतुर्विंशति पश्चिमं ।।
विस्तरात् षष्ठमांसेन दैर्घ्यं तस्य प्रकीर्तितं ।
उत्तरं विंशहस्तेन चतुर्थांसेन दीर्घतः ।।
क्षत्रियस्य च यत्पूर्व द्विसतुर्विस्तरं भवेत् ।
दैर्घ्यन्तदष्टमांसेन चतुर्विंशति दक्षिणं ।।
विस्तरं षष्ठमांसेन दैर्घ्यं तस्य प्रकल्पयेत् ।
पश्चिमं विंशहस्तेन दीर्घन्तन्तुर्य मांसतः ।।
उत्तरं षोडशे नैव विस्तरश्च प्रकीर्तितं ।
विस्तारात् पक्षवद् दैर्घ्यं वैश्यसैवाधुना शृणु ।।
प्राक् चतुर्विंशहस्तेन षष्ठमांसेन दीर्घतः ।
दक्षिणं विशं हस्तेन दीर्घतन्तुर्य मांसतः ।।
पश्चिम षोडशे नैव तृतीयांसेन दीर्घता ।
चतुर्दशकरेणैव विस्तरं चोत्तरं गृहं ।।
तदर्द्धे नैव दीर्घं तु शूद्रस्यैव शृणु प्रिये ।
विस्तरं विंशहस्तेन दीर्घं तं तुर्यमांसतः ।।
प्राङ्मुखोदङ्मुखं चापि युग्मं चापि प्रकल्पयेत् ।
चतुःशालं न तस्यैव गौर्थे वा कुटिकाग्रतः ।।
आपं यत्र नलेभ्ये तत्रा स्यादनु पूर्वतः ।
यदुक्तं गृहवर्णानां न्यूनं वाप्यधिकं न हि ।।
भूपालस्य गृहं वक्ष्ये नन्दिकावर्तलक्षण ।
स्वमतं नवधाभाज्य एकाशीति पदान्वितं ।।
आस्थानमण्डपो नाभौ पदाष्टक परिभ्रमः ।
७८अ)
पूजामण्डप इशेस्यादिष्ट देव प्रपूजनं ।
तद्दक्षिणे गृहं चैव वस्त्राणानिलयं प्रिये ।।
पदमेकं पथस्यार्थे प्रागाप्ये तु न संशयः ।
प्राक्पथयास्यगे न्यस्य हेमाद्या भरणानि च ।।
खविते रत्न संस्थानं तदाप्ये गणिकाश्रयः ।
तस्याप्याय गतं चैव स्वकीयं स्वयनं गृहं ।।
त्रिभौमं पञ्चभौमं वा सप्तभौममथापि वा ।
विमानेन तु वन्धेन सुरूपं शिखरिणं यथा ।।
तद्वामे च महारज्ञा गृहं स्याद् वलभीयथ ।
इन्द्रे चान्तः पुरावासं तत्सौम्ये तु महल्लकं ।।
यथोत्तरे प्रकर्तव्यं प्रमदानां गृहोत्तमं ।
रुद्रस्थाने तु कर्पूरं कर्कोलाद्यानि वेशनं ।।
तस्य पूर्वे पुनारज्ञी गृहं चैव सुशोभन ।
आस्थानादुत्तरे न्यासं सर्वद्रव्यालयंवरं ।।
न्यासपूर्वे प्रकर्तव्यं कर्णोत्सार गृहं शुभं ।
प्राकारान्तरितं सर्वं या रेखा तत्र संभवेत् ।।
पुनर्वाह्ये पदं त्यज्य व्रजनार्थं समं ततः ।
वाह्ये न्यासं पुनर्देवि तत्रेशे शान्तिकं गृहं ।।
मध्ये कुण्डं प्रकर्तव्यं द्विहस्तंद्यगुलान्वितं ।
मेखलैकान्वितं चैव वसुसंख्यांगुलैर्भवेत् ।।
योनिमध्ये प्रकर्तव्यो विस्तृतो द्वादशांगुलः ।
दैर्घ्या द्विरष्टमुद्दिष्टोमेखलासार्धमंगुला ।।
द्व्यङ्गुलाग्रे प्रणालः स्यात् पृष्ठे कुम्भ द्वयान्वितः ।
चतुरस्रं पुनर्मध्ये मेखला चाङ्गुला भवेत् ।।
अन्तःकाण्डनिवद्धोर्द्धे लोहशृंखललम्बितां ।
घृतपूर्णघटताम्रो घटाधः सुषिरान्वितः ।।
सुषिरं दर्भमात्र तुं घृतनिर्गमनाय च ।
यथा विच्छिन्नधाराञ्च दिनरात्रिं तथा कुरु ।।
विप्रात्र पाठकाः शान्तिर्-ऋग्यजुर्सामवद्कु?च ।
होतात्राथवशो देवि नित्यं त्रिष्काल पालना ।।
राज्ञा ते च सदा पाल्यास्तेषां पुष्कलशासनं ।
शान्ति धारा गृहं ह्येतद् वसुधारा गृहं हि तत् ।।
स्वाङ्कादि ध्वजमालास्तु गङ्गायमुनमेव च ।
७८ब्)
हेमदण्डं शितंच्छत्रं मायूराद्यं च चामरं ।
पर्जन्ये तु गृहं कृत्वा तत्रस्थाप्यं प्रयत्नतः ।।
अश्वोपकरणदिञ्च सन्नाहाद्यं तथैव च ।
जपस्थाने गृहं कृत्वा स्थापितव्यं सदावुधैः ।।
सर्वाधि करणं चैव माहेन्द्रे च सदा भवेत् ।
आदित्येन भवेन् मार्गो मार्गो द्वे तु घटी गृहं ।।
धर्माधिकरणं सत्ये व्यवहारनिरूपणं ।
भृशं स्थाने गृहं कृत्वा स्थापितव्यं वृषोत्तमं ।।
अन्तरिक्षेग्नि धामे च कुर्यात् तत्र महानसं ।
भोज्यपात्राणि वै पुष्णि यत्त्रिकाद्या निवेशनं ।।
वितथे चैव कर्तव्यः सचिवा स्थानमण्डपः ।
गृहक्षत्रे प्रकर्तव्योजिनशाला न संशयः ।।
अङ्गरक्षाश्रयञ्चै * यमे नित्यं सदा भवेत् ।
गान्धर्वैगायकां स्थानं वीणावाद्यादि संग्रहं ।।
भृङ्गस्थाने प्रकर्तव्यं सेनापति गृहं शुभं ।
मृगस्थाने गृहं कृत्वा कस्तूर्यादि निवेशनं ।।
पितृस्थाने प्रकर्तव्यसंवश्यकगृहं सुभं ।
द्वौ वारिके प्रकर्तव्योमज्जनाश्रय उत्तमा ।।
प्रतीहारगृहं चैव सुग्रीवे च सदा भवेत् ।
पुष्पदन्ते प्रकर्तव्यो भोजनाश्रय उत्तमं ।।
प्रचेतसि तथामार्गः कर्तव्यस्तु सुशोभने ।
असुरे तलवर्गस्य गृहं चैव सदा भवेत् ।।
शोषे वै शस्त्रशाला च च्छुरिकाद्या निवेशनं ।
रोगे वा गोगृशालं च वैद्यस्थानं सदा भवेत् ।।
भृषशार्वा प्रकर्तव्या वायो नित्यं न संशयः ।
नागस्थाने गृहं युग्मं माणिक्यादि निरूपणं ।।
एकश्चैव तथा भद्रे पुष्पाश्रय द्वितीयके ।
सुमुखार्द्धप्रकर्तव्यं राजद्वौ वारिक गृहं ।।
मयूरं कुक्कुटार्धे तु कर्तव्यं तु गृहं शुभं ।
भण्डागारञ्च भल्वाटे सर्वशस्यालयंवरं ।।
घृतादि लवणाद्याश्च तत्र स्थाप्या प्रयत्नतः ।
सोमस्थाने महाशाला राजहस्ति निवेशनं ।।
अश्वशालरिगौ भद्रे यस्मिन् राजा स्वयं रुहेत् ।
७९अ)
अदितौ गृहयुग्मं तु महिषाश्चोरणा प्रिये ।
दिति स्थाने गृहं तद्वत् धेनुविद्याश्रयं युगं ।।
राजपुत्रादिसंयुक्तमुपाध्याय निवेशनं ।
प्रकारान्तरितात्रापि पूर्ववत् समुदाहृतं ।।
पूर्वद्वारे जयः प्रोक्त दक्षिणे शयनोत्तमं ।
आस्थानं प्राङ्मुखभद्रे नित्यमेव समाचरेत् ।।
निभृताययं तदाद्वारमपद्वारन्तदुच्यते ।
नोचेत्तद्वाहनं मूलं तदायद्वारपूर्वकं ।।
आस्थानाप्य मुखं तद्वच्छयनं चोत्तरेत् तदा ।
भाण्डागारन्तदा याम्ये या यथाशेषसंस्थितिः ।।
आस्थानन्याशशयनं चलनन्तु विधीयते ।
पुरं द्विगुणवद्वाह्ये प्राकारान्तरितं भवेत् ।।
मूलद्वारा गतो फट्टयुग्मचाभिमुखं भवेत् ।
वणिक् प्रत्रादि सौवर्णी येषां रक्षोत्तमात्र तु ।।
यामे वेश्यास्तु या रक्ष्या राजाभिगमनास्तु यत् ।
तत्राप्यभि मुखापक्ति गृहदीर्घत्व कल्पना ।।
पश्चिमे कर्म वेश्यास्तु भृत्या येन स्थितिर्न हि ।
उत्तरे दीर्घैकारामं पद्मोत्पल चितं शुभं ।।
तद्वद्वाह्ये पुनः कल्प्य प्राकारान्तरितं प्रिये ।
पूर्वे वै ब्राह्मणा वासं क्षत्रियावास चान्तके ।।
वैश्यानावाययदिग्भागे शूद्राणां तु तथोत्तरे ।
लोहकारादिराग्नियां नैर्-ऋत्ये शुण्डिकादितः ।।
वायव्यां हस्तिकादीनामैशान्यां प्रकृतिं न्यसेत् ।
पुनर्वाह्ये तथा भूतं कोट्टं वाह्ये प्रकल्पयेत् ।।
पूर्ववत् कथिते नैव प्रत्राट्भालकसंयुतं ।
विविधावाससंयुक्तं फट्टं विविधचर्चितं ।।
कलाधिपमरीचेवाद्रागडं राजनिर्मितं ।
मूलद्वारे तु ये पाला द्विरष्टकरदण्डिका ।।
खड्गहस्ताशता पञ्च धनुहस्तास्तथैव च ।
द्वितीये द्विस्वरः पालाः खड्गहस्ताः शतत्रयं ।।
तृतीयसूर्यवत्पाला खड्गहस्ताः शतद्वयं ।
चतुर्थे द्विषवत्पालाः शतसार्द्धास्तु रक्षणाः ।।
७९ब्)
पञ्चमे वसुवत्पालाः शस्त्रिणा शतमेव च ।
षष्ठमे ऋतुवत्पालाः सायुधाशीति रुच्यते ।।
चतुःपाला विनिर्दिष्टा द्वारे चैव तु सप्तमे ।
शतार्द्धरक्षणास्तत्र खड्गहस्तासुयोधनाः ।।
सुशूराः सत्वसंपन्ना स्वामि भक्तास्तु सर्वदा ।
विचित्रपुर विन्यासं सप्तप्राकारसंयुतं ।।
महाराजाधिराजस्य कथितं तवसुव्रते ।
सामान्यस्य नरेन्द्रस्य द्वितीयं नन्दिकोच्यते ।।
देवसंस्थिति पाकञ्च शयनं या युदाश्रयं ।
भोजनं पत्रभाण्डारं प्राकारान्ते प्रकल्पयेत् ।।
ऐशाद्यं चोत्तरां तन्तु प्रामाणमधुनोच्यते ।
अष्टोत्तरशतेनैकरसंस्थितिरेव च ।।
तत्पादेन भवेद् दैर्घ्य शयनं करशतेन तु ।
करद्वानवति प्रोक्त भोजनं पाददीर्घतः ।।
तुर्याशीति करेणैव भाण्डागारविदुर्वुधाः ।
चतुःपञ्चाशद्वहस्तेन पाकं पाद सुदीर्घतः ।।
शतार्द्धन्तु करेणैव गृहपायुदकल्पना ।
सायुधं किंतु तत्रान्ते पायुदस्ताककल्पना ।।
चत्वारिंश दृभूयेतं(?) यतुशालं प्रकल्पयेत् ।
तन्तुर्योनकरं चैव गृहं देवार्चने प्रिये ।।
पाददैर्घ्यं तथा त्रापि कथितं तवनान्यथा ।
पुनरन्यं प्रवक्ष्यामि राजाभाण्डारिक गृहं ।।
द्वासप्तति करेणैव प्राग् गृहं परिकीर्तितं ।
दैर्घ्यान् तत् षष्ठमांसेन दक्षिणं पञ्चषष्ठिभिः ।।
पञ्चाशाष्टकरं चाप्यमेक पञ्चाशचोत्तरं ।
षट्त्रिंशत् करमाग्नेययां सार्द्धद्वात्रिंश नैर्-ऋते ।।
वायोह्य कूनत्रिशं तु एशान्यां पुनरुच्यते ।
पञ्चविंशत् करासार्द्धं सर्वे षष्ठांश दीर्घतः ।।
सेनापते पुन ब्रूमि नन्दिकावर्तलक्षणं ।
चतुःषष्टिकरेणैव प्राग् गृहं परिकीर्तितं ।।
पञ्चमांसे तु दीर्घन्तुरितूनं दक्षिणं भवेत् ।
द्विपञ्चाशत् करेणैव पश्चिमं परिकीर्तितं ।।
चत्वारिंशद्रसोपेतं गृहं चोत्तरकं भवेत् ।
८०अ)
द्वयाधिककरं त्रिंशदाग्नेययां परिकीर्तितं ।।
एकून त्रिंशद्धस्तेन नैर्-ऋत्यां परिकीर्तितं ।
षट्त्रिंशति करेणैव वायो चैव गृहं प्रिये ।।
त्रयोविंशत् करेणैव इशस्थे तु गृहोत्तमः ।
सर्वेषां चैव दीर्घत्वं पञ्चमांसेन कीर्तितः ।।
समांतस्य महत्पूर्वं गृहं चैवाधुना शृणु ।
करं वैकून षष्ठिन्तु प्राग् गृहं परिकीर्तितं ।।
चतुर्थांसेन दीर्घन्तु चतुःपञ्चाशदक्षिणं ।
एकूनं चाप्यपञ्चाशद् दतूनां चोत्तरम् भवेत् ।।
सहार्द्धे कूनत्रिंशेन करेणाग्नेयकं गृहं ।
सप्ताविंशत् करेणैव नैर्-ऋत्यां परिकीर्तितं ।।
चतुर्विंशति सार्द्धेन वायव्यां तु गृहोत्तमं ।
द्वाविंशति करेणैव ऐशान्या कल्पयेद् गृहं ।।
सर्वेषां चैव दीर्घ्यर्थं तुर्याशं कल्पना प्रिये ।
ज्ञात्वा पञ्चप्रदातव्यं व्ययं कृत्वा तु यत्नतः ।।
ज्ञात्वेवं तु गृहं कार्यं न्यून चाप्यधिकं न हि ।
सद्वारञ्च गृहं प्रोक्तं यथावदनु पूर्वतः ।
पिङ्गलोवाच ।।
गृहे द्वारङ्कथंकार्यं शुभं यच्चाशुभम्वद ।
यागमण्डपद्वारन्तु तत्कथं क्रियते विभो ।।
भैरव उवाच ।।
यागमण्डपयद्वारं मध्ये प्रासादवद् भवेत् ।
गृहे द्वारं तु यत्प्रोक्तं तच्छृणुष्व शुभाशुभं ।।
विस्तारात् षोडशांसेन विस्तरं गृहभित्तयः ।
विस्तरस्यष्ट मे भागे द्वारं तद्विगुणोच्छ्रितं ।।
कन्यसानामयं न्यायो मध्यमे चार्क्कभागिकं ।
उत्तमानां विकारेण विस्ताराद्विगुणोच्छ्रयं ।।
अथवा च स्वयं वेद्य हस्तांगुलविवक्षया ।
न्यूनाधिकसमं ज्ञात्वा द्वारं वायसमन्वितं ।।
स्वदिग्गृहस्य यद्वारस्वापे नैव तु वारयेत् ।
साखाद्वयं तथाकार्यं तथैवौदुम्वरौ समौ ।।
स्वमानं चाष्टधा भाज्य द्वाराष्टौ चाधुना शृणु ।
दिक्षुद्वारं प्रकर्तव्यं विदिक्षु नैव कारयेत् ।।
८०ब्)
इशस्थाने यदाद्वारं रौद्रं चाति भयावहं ।
पर्जन्ये च यदाद्वारं स्त्री चलत्वं समादिशेत् ।।
जय स्थाने यदाद्वारं विजयो नात्र संशयः ।
माहेन्द्रे च यदाद्वारं श्रीयो वृद्धिमाप्नुयात् ।।
भास्करे च यदाद्वारं प्रतापः कीर्ति वर्द्धनं ।
सत्यस्थाने यदाद्वारं सद्वर्मशीलवर्द्धनं ।।
भूयस्थाने यदाद्वारं नित्यकलहवर्द्धनं ।
अन्तरिक्षे यदाद्वारं न सखं नैव दुःखदं ।।
प्राङ्मुखस्य गृहस्यैव द्वाराष्टक प्रकीर्तितं ।
दक्षिणाभिमुखस्यैव द्वाराष्टौ चाधुना शृणु ।।
अग्निस्थाने यदाद्वारं तदादार्घभयं भवेत् ।
पूषास्थाने यदाद्वारं तदादानसुखंधनं ।।
वितथे च यदाद्वारं तदामित्रादि नाशनं ।
गृहक्षते यदाद्वारं तदा सर्वक्षयं भवेत् ।।
यमस्थाने यदाद्वार तदामृत्युं समादिशेत् ।
गन्धर्व च यदाद्वारमित्रानाशनं ।।
भृंगिद्वारे तु शिल्पित्वं नैपुण्यं बुद्धिवर्द्धनं ।
मृगस्थाने यदाद्वार पौरुषं विक्रमं ध्रुवं ।।
पश्चिमाभिमुखस्यैव द्वाराष्टौ चाधुना शृणु ।
पितृस्थाने यदाद्वारं तदापुष्प प्रवर्द्धनं ।।
द्वौवारिके यदाद्वारं तदा प्रव्राजलक्षणं ।
सुग्रीवे च यदाद्वारं कृषिवाणिज्यसंपदं ।।
पुष्पदन्ते यदाद्वारं तदापुत्रार्थ शास्नातं ।
वारुणे तु यदाद्वरं आरोग्यं शान्तिदं सुखदं ।।
धनपुष्टिस्तु वृद्धिस्तु आयुर्बुद्धि दिने दिने ।
असुरे तु यदा द्वारं क्षयं चार्थे दिने दिने ।।
शोषस्थाने यदाद्वारं रोगवृद्धिस्तु नित्यशः ।
उत्तरास्य गृहस्यैव द्वाराष्टौ पुनरुच्यते ।।
वायुस्थाने यदा द्वारं सद्योच्चादनं तदा भवेत् ।
नागस्थाने यदाद्वारं मदोन्मत्त भयं भवेत् ।।
सुमुखे तु यदाद्वारं प्रभुत्वं मुख्यतामतं ।
भल्वाटे तु यदाद्वारमर्थवृद्धि दिने दिने ।।
सोमस्थाने यदाद्वारञ्चायुर्वृद्धिनिरोगता ।
८१अ)
रिगिस्थाने यदाद्वारं कृषत्वं क्षीणवृत्तयः ।
नित्यो द्वेगकरं रूक्षं वलिचित्तं सदा भवेत् ।।
अदितिस्थे यदाद्वारं कवित्वं बुद्धिवर्द्धनं ।
दितिस्थे तु यदाद्वारं तदाभिमानगर्वितं ।।
एवं ज्ञात्वा शुभं ग्राह्यमशुभं वर्जयेत् सदा ।
दिशान्ये च यथाकाम तथा देश्या शुभोदयाः ।।
सम्यक् ज्ञात्वा प्रयत्नेन वास्तुसूत्रं विचक्षणः ।
यथेष्टं भोगमाप्नोति मोक्षं वा शत्रुमर्दनं ।।
अविदित्वा न भोगोस्ति न मोक्षो नैव साधनं ।
तस्मात् सर्व प्रयत्नेन ज्ञात्वारम्भं समाचरेत् ।।
शिवादि पुरमेवन्तु सर्वकामार्थ हेतुतः ।
संप्रतीष्ठा यथाभीष्टा इहासुत्रफलेप्सया ।।
पिङ्गलामते गृह प्रकरणं ।।
८१ब्)
पिङ्गलोवाच ।।
लिङ्गीनाञ्च प्रतिष्ठा या साकाकस्य कथं वद ।
प्रतिष्ठामण्डपस्यैव मानं किकस्य कीदृशं ।।
कस्मिन् स्थाने प्रकर्तव्या किं यंतो वा वदस्व मे ।
कुण्डानां लक्षणं ब्रुहि कुण्डानाञ्च स्रुवादिकं ।।
एवमाद्यानि चान्यानि तत्कले यदुपागतं ।
तत्सर्वं हि समासेन कथयस्व प्रसादतः ।।
भैरव उवाच ।।
प्रतिष्ठा मण्डपे चैव प्रासादे स्थापनं मतं ।
प्रसादाच्चलिते नैव स्थितस्थापनमुच्यते ।।
प्रतिष्ठामण्डपश्चैको द्वितीयः स्नानमण्डपः ।
तृतीयो लक्षणो द्वारे कर्मशालाचतुर्थिका ।।
प्रासादाग्र प्रदेशे तु प्रतिष्ठामण्डपः शुभः ।
तदर्द्धान्योग्रतो भूयः लक्षणोद्वारमण्डपः ।।
तदर्द्धान्यस्तु तत्सौम्ये स्नानार्थं मण्डपश्चयः ।
कर्मशाला यथेच्छातः स्थानं यदुचितं भवेत् ।।
एकहस्तादि लिङ्गानां मण्डपानां सुरेश्वरि ।
प्रमाणमधुना वक्ष्ये धारिका तोरणानि च ।।
रौद्रलिङ्गादितः कृत्वा हस्तां तस्य च सुन्दरि ।
प्रतिष्ठामण्डपश्चैव दशहस्तकरान्वितः ।।
धारिका पञ्चहस्तास्तु तोरणं पञ्चहस्तकं ।
हस्तमात्राधरोययानि धारिका तोरणानि च ।।
स पादादिक लिङ्गस्य द्विहस्तां तस्य सुव्रते ।
त्रयोदश करेणैव कर्तव्यो मण्डपोत्तमः ।।
धारिकासप्तहस्तास्तु तोरणं तत्समं भवेत् ।
द्विहस्तवाधरोप्यानि धारिका तोरणानि च ।।
स पादादि कलिङ्गस्य त्रिहस्तां तस्य सुव्रते ।
दशपञ्चकरेणैव कारयेत् मण्डपोत्तमं ।।
धारिकानवहस्तास्तु तोरणञ्च तथाविधं ।
हस्तत्रयाधरोप्यानि धारिक तोरणानि च ।।
स पादादिकलिङ्गस्य तुर्या तस्य तु सुव्रते ।
दशसप्तकरेणैव प्रतिष्ठामण्डपः सुभः ।।
रुद्रवत् करसंख्योन धरिकास्तोरणानि च ।
हस्तत्रयमधोरोप्यं वम्बुंगुल(?) समन्वितं ।।
८२अ)
सपादादिकलिङ्गस्य भूतान्तस्य च सुव्रते ।
एकोनविंशहस्तेन कारयेत् मण्डपोत्तमं ।।
त्रयोदशकरेणैव धारिकास्तोरणं भवेत् ।
द्वादशांगुलसंयुक्तं त्रिहस्तं रोपयेदधः ।।
स पादादिकलिङ्गस्य षदृस्तां तस्य सुव्रते ।
एकविंशत् करेणैव कर्तव्यो मण्डपोत्तमः ।।
दशपञ्चकरैश्चैव धारिकाद्याः प्रकीर्तिताः ।
विकारांगुलसंगृह्य त्रिकरं रोपयेद् वुधः ।।
सपादादिकलिङ्गस्य सप्तां तस्य सुव्रते ।
त्रयोविंशत् करेणैव कारयेन् मण्डपोत्तमः ।।
नवांगुलसमोपेतास्तृपञ्चकरधारिकाः ।
तोरणं तत्समंगे ज्ञेयः त्रिरोप्यं द्वदशान्वितं ।।
सपादाद्यस्य लिङ्गस्य वस्वं तस्य सुव्रते ।
पञ्चविंशत् करेणैव मण्डपं कारयेद् वुधः ।।
दशसप्तांगुलैर्युक्तास्तृपञ्चकरधारिकाः ।
तोरणं तत्समं ज्ञेयं चतुर्हस्ताधरोपणं ।।
सपादाद्यस्य लिङ्गस्य रंधान्तस्य च सुव्रते ।
सप्ताविंशत् करेणैव कारयेत् मण्डपोत्तमः ।।
पञ्चविंशांगुलैर्युक्तास्तृपञ्चकरधारिकाः ।
तोरणं तत्समं गेयं तुर्याधः कररोपणं ।।
तुर्यांगुलसमोपेतमायशुद्धं प्रकीर्तितः ।
प्रदेशो वा यदा नास्ति दृढार्थमरोपयेत् ।।
यत्राभावस्तु वृक्षाणां तत्र यद्रुचिरङ्कुरु ।
भावपूर्वन्तु तत्रापि भावमूलं यतोखिलं ।।
अभावा द्वैत इत्युक्तो भावो वा द्वैत लक्षणः ।
तस्मादभावः त्यक्तव्यो भावं कल्प्य प्रतिष्ठयेत् ।।
किन्तु यत्प्राप्यं यत्नेन तत्सर्वं हि समाचरेत् ।
प्राप्तर्थे भावनादोषो न प्राप्तं यत्नतस्तथा ।।
मण्डपः प्रथमश्चैव धारिकाद्वादशान्वितः ।
विंशद्वारिकसंयुक्तं द्वितीयं मण्डपम्विदुः ।।
तृतीयस्तृंशत्संयुक्तो द्विवत्वांश तुर्यकं ।
८२ब्)
पञ्चमेरितु पञ्चाशद्वासप्ततिस्तु षष्ठमे ।
सप्तमे मण्डपे चैव धारिका नवतिस्तथा ।।
शतैकं दशयुक्तन्तु मण्डपे चाष्टमे विदुः ।
नवमे मण्डपे चैव द्वात्रिंशदधिकं शतं ।।
तदानुसारतो वुद्धारिकाद्यानि कल्पयेत् ।
तोरणानि च चत्वारि चतुर्दिक्षु विदिक्षु च ।।
सर्वेषां चैव सामान्यं मण्डपानानसंशयः ।
स्नानाख्यादि विनिर्मुक्तं तयोश्चैवैकतोरणं ।।
हस्तद्वयं परित्यज्य तोरणानि प्रकल्पयेत् ।
रोप्यादूर्द्धन्तु यन्मानं शाखायो परिकीर्तितं ।।
तन्मानौदुम्बरौ कार्यौ स्वजात्योशाखोदुम्वरौ ।
चतुनड्यः समोमार्गः प्रावसम्ब भवेदिह ।।
ऊर्द्धादुम्बरसंस्थन्तु त्रिमूलं त्रीणि कारयेत् ।
मध्ये च पक्षयोश्चैव प्रमणमधुनोच्यते ।।
शृंगं नवागुलं दीर्घ्यं चतुर्भागेन विस्तरं ।
ऋजु वै मध्यशृंगन्तु किंचिद् वक्रे च पक्षयोः ।।
प्रथमस्य समाख्यातं द्व्यगुलं वाधरोपणं ।
रुद्रांगुल द्वितीयस्य प्रवेशश्च त्रयोंगुलः ।।
त्रयोदश तृतीये तु चतुरंगुल रोपणं ।
पञ्चदशचतुर्थे तु पञ्चाङ्गुल प्ररोपणं ।।
सप्तादशाङ्गुलं भूते प्रवेशश्च षडंगुलः ।
ऊनविङ्स?ति षष्ठे तु सप्तागुल प्ररोपणं ।।
सप्तमे एकविंशं तु अष्टांगुलाधरोपणं ।
त्रयोविंशाष्टमे चैव नवांगुल प्ररोपणं ।।
नवमे पञ्चविंशन्तु दशचांगुलरोपणं ।
निवेशश्च प्रवेशश्च शाखयोः शूलशृङ्गयोः ।।
हृदासर्वः प्रकर्तव्यः प्रणवे नाथ सुव्रते ।
मध्यशृङ्गाधः श्रीदेवी पक्षशृगाधः स्वस्तिके ।।
पद्मम्वा नन्दिका वर्त प्रसस्तार्थन्तु कारयेत् ।
सान्तिदं नाम पूर्वे च न्यग्रोधेन तु निर्मितं ।।
औदुम्बरमयं चैव भू?तिदं याम्य गोचरे ।
८३अ)
पुष्टिदं चाप्यदिग्भागे पिप्पलेन विनिर्मितं ।
आयुदं चोत्तरे ज्ञेय प्लक्षे नैव तु निर्मितं ।।
एकैकतोरणस्याधः शाखयो द्वा *? लकौ ।
द्वौ द्वौ चैव प्रकल्पेत यथायथावन्धन्तथा शृणु ।।
*? न्दिञ्चैव महाकालं प्राग्द्वारे परिकल्पयेत् ।
भृंगिंविनायकौ चैव दक्षद्वारे तु पालकौ ।।
वृषभकार्तिके यण्च पश्चिमे द्वारपालकः ।
गौरी चै *? तुरडीशो द्वारापालौत्तरेण तु ।।
नन्दिञ्चैव महाकालं * * * *? ण कल्पयेत् ।
चटवर्गेण यौचान्यौ कल्पयेत् भृंगिनायकौ ।।
वर्गेणापि तपेणैव दुर्मुखोङ्गार कल्पना ।
यसवर्गेण देवेशि न्यस्तव्यौ तु शिताशितौ ।।
तोरणस्य समीपे तु वाह्ये चैवाधुना शृणु ।
कलसं शान्तनामानं प्रागिन्द्राधिष्ठितं न्यसेत् ।।
शिशिरो नामयश्चान्यत पावकेग्नि विभूषितः ।
पर्जन्यः कलशश्चैव याम्ये यमविभूषितः ।।
विशोर्नामयश्चान्यो नैर्-ऋत्यां पितरान्वितः ।
आप्यायको घटोनाम वारुणे वरुणान्वितः ।।
अमृताख्यञ्च वायव्यां तिर्यगाधिष्ठितं न्यसेत् ।
ह्रदं नामयं कलसं सौम्ये सोमान्वितं न्यसेत् ।।
निधीशकलमश्चैव ऐशान्यामाशसंयुतः ।?
वलदोनामयश्चान्यः पैत्रे विष्णुसमन्वितः ।।
अधः प्रकल्पयेत् तंतु ऐशान्यामुद्वकल्पना ।
शुभदं नाम तत्रस्थं ब्रह्मणाष्ठितं न्यसेत् ।।
* * * * *? पश्चान्ते प्रणवादि समन्तितः ।
प्रणवादि समा * * * *? ति अग्नये नमः ।।
शौंयमाय नमश्चैव ताराद्यस्तु विभूषितः ।
षौं निर्-ऋते नमश्चैव ताराद्यस्तु समन्वितः ।।
वौं वरुणाय नमस्तुभ्यं विश्वक्षराद्या *? पितः ।
यौं वायवे नमश्चान्ते विस्वे नाद्यमलंकृतः ।।
* * * *? नमश्चान्ते ताराद्यस्तु विभूषितः ।
८३ब्)
हौमीशाय नमस्तुभ्यं प्रवादि समन्वितः ।
क्षौं विष्णवे नमश्चैव नत्यंतादि समन्वितः ।।
ओं ओं ब्रह्मणे नमस्तुभ्यं सर्वे शस्त्रविभूषिताः ।
मन्त्र एषसमुद्दिष्टः कलसानान्तथैव च ।।
ओंकार कल्पितास्ते तु आधारत्वेन सुव्रते ।
आधेयास्तत्र पालास्तु अविर्नाभावकल्पिताः ।।
ओषधी रत्नगर्भास्ते तोयपूर्णासुशोभनाः ।
गन्धाद्यैश्चर्चितास्ते तु कंठे सूत्र कुशान्विताः ।।
पुष्पमालासुवद्धास्ते चूतपलशोभिताः ।
वस्त्रेणाच्छादयेत् सर्वान् तोरणानि तथैव च ।।
चूतपल्लवमालास्तु वन्धये तोरणोपरि ।
कुशच्छेदकृतामाला पुष्पपल्लवलम्बिताः ।।
चर्चितालक्षके नैव वस्त्रसूत्रेण वेष्टिताः ।
रम्भारोप्या विदिक् स्थाने वंशपल्लवकान्विताः ।।
ध्वजानां लक्षणं *? मिशृणुष्वेक मनाधुना ।
इन्द्रा युधा च पूर्वे वै पीतवर्णेन सा भवेत् ।।
रक्ताग्ने ये तु दिग्भागे रक्तवर्णेन सा भवेत् ।
कृष्णायाम्यविनिर्दिष्टा कृष्णवर्णेन सा भवेत् ।।
धूम्राधौम्य विनिर्दिष्टा धूम्यवर्णेन सा भवेत् ।
अत्रा वारुण दिग्भागे तद्वर्णेन प्रकीर्तिता ।।
कपिला तिर्यग् दिग्भागे तद्वर्णेन च सा मता ।
पीता कौवेर्य दिग्भागे पीतवर्णेन सा भवेत् ।।
श्वेता वेशानदिग्भागे स्वेतवर्णेन सोच्यते ।
नीलानैर्-ऋत्य दिग्भागे नीलवर्णेन सा भवेत् ।।
पद्मा इशानदिग्भागे पद्मवर्णेन सा भवेत् ।
मध्ये चित्रा समुद्दिष्टाश्चेद्याशय हेतु च ।।
एकवर्णा प्रकर्तव्या पताका खंडलादितः ।
लरशषवय सहक्ष ओं ओंकारमेव च ।।
त्रिमात्रा बिन्दुयुक्तास्तु विश्वाद्याश्च नमोन्तगाः ।
स्वनाममध्यगं कृत्वा चतुर्थन्तु *? योजिताः ।।
शस्त्ररूपाथजा ज्ञेया दिशासु विदिशासु च ।
वशयष्टिकृता * *? प्रणवेनोधृताः शुभाः ।।
८४अ)
मण्डपे मध्यभागे तु पीठं यागार्थ हेतुकं ।
चतुरश्रं समंशुभ्रं दर्पणोदरसंनिभं ।।
अष्टाङ्गुलोच्छ्रितं कार्यं विस्तरं चतुहस्तकं ।
एकहस्तान्तलिङ्गस्य कर्तव्यन्तु वरानने ।।
द्विहस्तान्तस्य लिङ्गस्य पीठं भूतकगन्धितं ।
विस्तरं चोच्छ्रयन्तस्य नवांगुलमुदाहृतं ।।
तृहस्तान्तस्य लिङ्गस्य पीठं शङ्करविस्तरं ।
उच्छ्रयेण तु देवेशि दशांगुलमुदाहृतः ।।
तुर्यान्तस्य च लिङ्गस्य पीठं सप्तकरम् भवेत् ।
दशैकांगुलमुच्छेधं कीर्तितं वरवर्णिनि ।।
पञ्च हस्तान्तलिङ्गस्य पीठं चास्यकरम् भवेत् ।
द्वादशांगुलमुच्छेधं * *? हस्तांताधुना शृणु ।।
नवहस्तं भवेत् पीठं त्रिदशांगुलमुच्छ्रितं ।
सप्तहस्तांतलिङ्गस्य पीठं विस्तर दिक्कतं ।।
द्विस्वरांगुलमुच्छेधमष्टहस्तांतमुच्यते ।
करैकादशपीठन्तु तृपञ्चागुलमुच्छ्रयं ।।
नवहस्तान्तलिङ्गस्य द्वि षट्ककरपीठकं ।
त्रिकारांगुलमुच्छेधं समासात् परिकीर्तितं ।।
चतुर्विंशांगुलं कुण्डं प्रथमस्य प्रकीर्तितं ।
द्वितीयस्य च षट्विंशमष्टाविंशं तृतीयकै ।।
त्रिंशाङ्गुलं चतुर्यस्य द्व्यधिकं पञ्चमस्य तु ।
चतुस्त्रिंशागुलैः कुंडं षष्ठमस्य प्रकीर्तितं ।।
षट्त्रिंशांगुलसप्त अष्टत्रिंशाष्टमस्य च ।
चत्वारिंशांगुलैः कुण्डं नवहस्तस्य कीर्तितं ।।
विस्तर वहिखा तस्य गम्भीरत्वं च सुव्रते ।
दिग्भागरूपसंख्या च कथयामि प्रति प्रति ।।
चतुरश्रम् भवेत् पूर्वे आग्नेयान्तु भगाकृतिः ।
याम्य चैवार्द्ध चन्द्रन्तु नैर्-ऋत्यां त्र्यश्रकं वरं ।।
वर्तुलं वारुणे ज्ञेयं षट्कोणं वायुगोचरे ।
पद्माभं सौम्यदिग्भागे त्वष्टास्रमीशगोचरे ।।
भगादि लक्षणं ब्रूमि शृणुष्वेकमना प्रिये ।
चतुरस्रं समं कृत्वा ब्रह्मसूत्रार्द्धतः पुनः ।।
८४ब्)
सव्यासव्यं द्वयं कोष्ठं कोणात् कोणन्तु सूत्रयोः ।
द्वाभ्याञ्च पातयित्वा तु तदर्द्धरितु भाजितं ।।
तदेकांशं परित्यज्य भ्रामयेत् खण्डचन्द्रवत् ।
अपशंख्यं यथाभ्राम्य क्षेत्रात् पञ्चाश वाह्यतः ।।
प्राग्नीत्वात्वा संगमः कार्यो वृत्तसूत्र द्वयोः प्रिये ।
भगाकारम् भवेत्येवं शेषसूत्रनिवाशयेत् ।।
रिषिवद्भाजिते क्षेत्रे सार्द्धभागद्वयोर्विना ।
पूर्वाप्ये चैव देवेशै तत्स्थं कृत्वा करद्वयं ।।
खटिकासूत्रयोगेन भ्रामयेत् खड्ग चन्द्रवत् ।
ऋजुमध्ये भवेद् योनिः प्राक्तं तं वृत्तमध्यतः ।।
गुणवद्भाजिते क्षेत्रे भागमेकं वहिनयेत् ।
पूर्वे सव्यापसव्ये च भागभागं वहिनयेत् ।।
वत्स्थं तत्स्थतु सूत्रं वै पातये त्रिणीसंख्यया ।
त्र्यश्रङ्गचं प्रसिध्येत योनि मध्ये तु पश्चिमे ।।
क्षेत्रं कर्णार्द्धतो गृह्य प्राग्नीत्वा गुणवत् कुरु ।
तद्भागैकन्तु संगृह्य भ्रामयेत् पूर्णचन्द्रवत् ।।
वृत्तं ह्येवं प्रसिद्ध्येत षडस्र शृणु सांप्रतं ।
षट्भागभाजिते क्षेत्र प्रागैक चाप्यमेककं ।।
तयोरर्द्धं गृहीत्वा वै वह्न्या यो मीनकं कुरु ।
पितृपूर्वे तथा भूय तिर्यगेन्द्रे तथैव च ।।
इशायये चैव मीनन्तु क्षे *? त्यक्त्वा मनोक्तथा ।
पश्चिमादीशगं सूत्र पावकञ्च तथैव च ।।
प्रागीतिगन्तथा सूत्रं त्रिर्यगञ्च तथैव च ।
तिर्यगेति गतं चान्यत् यावत् केशगतं तथा ।।
षट्सूत्र पातयित्वा तु षट्कोणसिध्यते स्फुटं ।
उपकोणे भवेद् योनिः पद्माभव * *? वहि ।।
वृत्तं कृत्वा तु मध्ये वै च्छदै वाह्ये तु लाछयेत् ।
मेखलायान्तु देवेश षोडशारे च सुन्दरि ।।
द्वादशारे वचा कुर्यात् अथवाष्टारवत् तथा ।
पद्माभञ्च समाख्यातमष्टाश्रं शृणु सांप्रतं ।।
क्षेत्रार्द्ध रविवत् कृत्वा * *? शार्द्धन्त्यजेद्विहि ।
साधयित्वा तु क्षेत्रन्तु प्राक् क्षेत्रन्नाशयेत् पुनः ।।
८५अ)
तत्वर्द्धन्तु(?) संगृह्य प्राग्याम्याप्योत्तरं क्रमात् ।
तिर्यक् सूत्रनिपातेन सिद्ध्यनेष्टाश्रमुत्तमं ।।
योन्यत्राप्युपकोणे तु तेषां वै लक्षणं शृणु ।
अश्वत्थ दलवत् कृत्वा कुंडवत् मध्यलांच्छितः ।।
ओष्ठमगुलमानेन योन्यग्रेंगुलसमितं ।
पृष्ठे कुम्भ द्वयाकारः सर्वसामान्यलक्षणः ।।
उत्तराभिमुखं ज्ञेयं प्रागाग्नेय वरानने ।
दक्षिणं नैर्-ऋतञ्चैव प्राङ्मुखं परिकीर्तितं ।।
पश्चिमम्वायु कुम्भन्तु सौम्यवक्रम्विदुवुधाः ।
सौम्यकुण्ड तथैशानं प्राङ्मुखन्तु विनिर्दिशेत् ।।
खातादेकांगुलन्त्यज्य मेखलानां स्थितिर्भवेत् ।
मेखलैकाथवा तिश्रो भूतंसंख्याथवा प्रिये ।।
षडङ्गुलोच्छ्रयविस्तीर्णा मेखलैका यदा भवेत् ।
चतुरोच्छ्रयविस्तीर्णा प्रथमामेखला मता ।।
त्र्यंगुलोच्छ्रयविस्तीर्णा द्वितीयामेखला भवेत् ।
द्व्यंगुलोच्छ्रयविस्तीर्णा तृतीयामेखला भवेत् ।।
त्रिमेखलं यदा भद्रे क्रमेणानेन कारयेत् ।
पञ्चानामेखलानान्तु पञ्चाद्यगुवर्तनात् ।।
अङ्गुलैकान्तन्देवेशे विस्तारोच्छ्रय पूर्ववत् ।
नवमं कुण्डमन्यच्च पूर्वे वापीशगेपि वा ।।
पीठकुण्डान्तरे चैव वृत्तं वा चतुरश्रकं ।
पीठार्द्धन्तु परित्यज्य कुण्डानां कल्पना प्रिये ।।
भद्रपीठं प्रकर्तव्यं सारदारुमयं शुभं ।
ब्रह्मभागात् द्विधा तिर्यग् विस्तरञ्चैव तद् भवेत् ।।
उच्छ्रयार्द्धेन तत्स्थौल्य मध्ये खातन्तु ब्रह्मवत् ।
विस्तरञ्च मनाग्निम्नङ्कर्तव्यं सुदृढं यथा ।।
चतुरश्रञ्चतुर्थ्यादम्विचित्रन्तु सुशोभनं ।
तत्रस्थाप्यन्तु लिङ्गे वै स्नानादिक समाचरेत् ।।
स्रुक् स्रुवौ कंकती पर्णी खादिरासनशिंशपा ।
चन्दनोचन्दनश्चैव रक्तचन्दन एवं वा ।।
देवदारु मयो वापि समीचाश्वत्थमेव वा ।
किंशुकोदुम्वरो वापि विल्वस्तु यनसोद् भवः ।।
८५ब्)
चुतश्चाशोकजा वापि वकुलो नागकेशर ।
पुन्नागश्चम्पको वापि ये चान्ये शोभना प्रिये ।।
षट्त्रिंशदंगुलं काष्ठं गृह्यादौ कल्पये स्रुचं ।
सप्तांगुलमुखदैर्घ्यकण्च चैकांगुलम् भवेत् ।।
वस्वंगुलं भवेद् वेदी चतुरस्रं समं सुभं ।
द्व्यङ्गुलं गण्डिकास्तद्वद् दण्डं चैव चतुर्दशं ।।
तुर्याङ्गुले भवेत् कुम्भो धात्रीसारोथ वा प्रिये ।
नवाङ्गुल परीणाहं कुम्भमध्ये प्रकल्पयेत् ।।
कुम्भे वहि भवेद् वृत्तं सवक्त्रङ्कण्ठसंयुतं ।
षडंगुल परीणाहो दण्डश्चैव सुवर्तुलः ।।
गण्डिका मध्यपुष्पञ्च विततं नागकेशरः ।
वेदिकामध्यतः स्वभ्र वृत्तं चैव चतुरंगुलं ।।
त्र्यंगुले नाधः खातं स्याद् यथा मानञ्चतुष्पलं ।
मेखलाद्वांगुलं वाह्ये समन्तात् परिकल्पयेत् ।।
सार्द्धाङ्गुल भवेच्छोभा समं वा चित्रमेव वा ।
वेदीमध्ये भवेत् कण्ठम् तत्त्रिभागेन विस्तरं ।।
कण्ठातञ्च भवेत् वृत्तं मानन्तस्य नवांगुलं ।
द्विकनीया प्रमाणेन वक्त्राग्रञ्च प्रकल्पयेत् ।।
सर्वदाश्वत्थ यंत्रवत् कर्तव्यन्तु सुशोभनं ।
कनीयाङ्गुलवतखात प्रमाणन्तत्र कारयेत् ।।
कण्ठाधो वेशनं कन्या तत्राज्यस्य विनिर्गमं ।
लोहतप्त शलाकेन वेधश्चैव तु कारयेत् ।।
शोभनम्वर्तुलम् चाधः कर्तव्यन्तु मनोहरं ।
रन्धिमात्रं स्रुवं कार्यं द्व्यङ्गुलं वट्ट?कन्तथा ।।
समन्ताद्वर्तुलं कृत्वा खाततङ्माय देव हि ।
पलार्द्धार्द्धं यथामानन्तथा वाह्ये घटद्वयं ।।
तुर्याङ्गुलपरीणाहं दण्डन्तम् परिकल्पयेत् ।
धात्रीफलं सुवृत्तं वा दण्डमूले प्रकल्पयेत् ।।
मनोद्यं तत्सुनिष्पाद्यमाज्यस्थाली मतः शृणु ।
योन्याकारा प्रकर्तव्या ग्रीवाकार ग्रहान्विता ।।
तत्खातं शोभनन्तत्र पलद्वादशसंभृतं ।
अर्घपात्रप्रम्प्रकर्तव्यं द्वादशाङ्गुलविस्तृतं ।।
वर्तुलन्तुर्य नालञ्च एकनालं सुशोभ ।??????
८६अ)
प्रणीताश्चैव कर्तव्याः सुवृत्ताद्वादशांगुलाः ।
स्थुलोष्ठा सुघनाः शुभ्राः स्थिरासम्पूर्णलक्षणाः ।।
गव्यपात्रप्रकर्तव्यं सूक्ष्मकर्णञ्च तन्मयं ।
तिलपात्रं यथाभूतं वर्तुलं द्वादशाङ्गुलं ।।
पादाभ्यञ्जन मात्रञ्च गन्धपात्रं तथैव च ।
वस्त्राभरणपात्रञ्च नैराजनमथापि वा ।।
कलमाष्टौ सुवृत्ताश्च तथाशान्ति घटाः शुभाः ।
सर्वपात्राघटाश्चैव सौवर्णाद्यां प्रकल्पयेत् ।।
मृतमयांता वरारोहे यथा सम्भविकाहिताः ।
कुतपाहुवद्दीर्घा स्निग्धाग्राच्छिन्नलक्षणाः ।।
विष्टरास्तु तथा दैर्घ्या परिधयम् तथा शुभाः ।
हरिताग्राः सपर्णाश्च नस्थुला न कुशाः समाः ।।
अवक्राक्षत विरहाय *? वृक्षोद्भवास्तुताः ।
प्रादेशमात्राः समिधाः साद्रा ग्राह्या समा प्रिये ।।
तुर्याष्ट षोडशश्चैव कार्या प्रतिसराः स्मृताः ।
पृथक् पात्रा प्रकर्तव्याः सुगन्धाः सुमनोहराः ।।
आशनं शयनञ्चैव भाजनं यंत्रिकान्वितं ।
पादुकाद्यानमेषांस्तु यागभूमौ उपस्करान् ।।
संपाद्यैवन्तथान्येपि यै विना न भवेत् क्रिया ।
पीठमध्ये पुनः पीठं रजसा चैव कारयेत् ।।
चतुरस्रं प्रदीर्घम्वा तृखण्डं नव पदान्वितं ।
नवतत्वं न्यसेत् तत्र यथावत् तत् तथा शृणु ।।
शिवतत्वं न्यसेन् मध्ये पूर्वे चैव सदाशिवं ।
आग्नेयामीश्वरं न्यस्य विद्यातत्वञ्च दक्षिणे ।।
साया तत्वम् पितृस्थाने कालतत्वञ्च वारुणे ।
नियत्याख्यं च वायव्या सौम्यै वै पुरुषं न्यसेत् ।।
ऐशान्यां प्रकृतिं न्यस्य मत्तास्तेषां शृणु प्रिये ।
ओंकारादि नमश्चान्ते नाममध्यनामध्ये नियोजितः ।।
सर्वेषाञ्चैव तत्वानाङ्कथितस्तनान्यथा ।
कलसा तत्र चत्वारः सुप्रतिष्ठस्तु पूर्ववतः ।।
सुशान्तन्दक्षिणे न्यस्य तेजाढ्यं पश्चिमे न्यसेत् ।
अमृतञ्चोत्तरे न्यस्य रत्नाख्यं वेशगोचरे ।।
दधिपूर्वे तु विन्यस्तं दक्षिणाज्यञ्च विन्यसेत् ।
८६ब्)
गोमकृच्चाप्य दिग्भागे गोमूत्रं चोत्तरे न्यसेत् ।
क्षीरमध्ये प्रतिष्ठाप्य कुशोदञ्चेश गोचरे ।।
तद्दिशा वक्त्रमन्त्रैस्तु दप्याद्याववराअनने ।
सकृन्मकृत्ततो मन्यं शिवे नैकत्र कारयेत् ।।
कुशोदकसमायुक्त पञ्चगव्यपवित्रकं ।
न्यसेच्चैशानदिग्भागे विशेषं चेत्तदुच्यते ।।
पूर्वे निष्ठिवनं न्यस्य क्षतजं याम्यगोचरे ।
अत्युत्कटं न्यसेच्चाप्ये शिवांवु सौम्य गोचरे ।।
मदंमध्ये सुविन्यस्य गन्धवारि तथेशगं ।
हृदयाद्यैः सकृन्मत्र्य मूलेनेकत्र कारयेत् ।।
नृसंख्यैक एकं कृत्वा स्थापयेत् शांकरीन्दिशि ।
स्नानाख्य मण्डपं गत्वा स्नान द्रव्यं समाहरेत् ।।
मृदा च कूले नद्या यातृण कीटादि वर्जिता ।
गोमयंख स्थितं शुद्धं रुग्जरादि गवांविना ।।
माक्षीकञ्च मधुश्रेष्ठ भ्रामरञ्च विवर्जयेत् ।
पत्रं पुष्पं फलम्वाथ प्रत्यग्रं सुमनोरमं ।।
खण्डितमुषितम्लानं दूरतः परिवर्जयेत् ।
सौवर्णं भोजनं श्रेष्ठं ताम्रं वाथ निराजने ।।
तत्र पीठं शुभं कृत्वा तृखण्डं पूर्ववत् प्रिये ।
वस्त्रयुग्मं तथाधूपं दीपचाभरणानि च ।।
अग्नेययां विन्यसेद् देवि पत्रं पुष्पञ्च शाङ्करे ।
कुंकुमं चन्दनं चैव गन्धाढ्यं च प्रलेपनं ।।
कषायं क्षीरकल्कञ्च चामरञ्चाजनं प्रिये ।
उत्क्षेपं व्यञ्जनं देवि वायव्यं चैव विन्यसेत् ।।
गोजमृत्तिकशस्त्रञ्च मधुनैराजनन्तथा ।
नैर्-ऋत्यां विन्यसेत् प्राज्ञ यथावदनु पूर्वशः ।।
वस्त्रपूतोदककुम्भं दिशासु विदिशासु च ।
नववाड्यथवा पञ्च ताम्रा वा मृन्मयापि वा ।।
सहिरण्या प्रकर्तव्या रत्नगर्भाथवा प्रिये ।
श्वेताम्भ पूर्वतो न्यस्य क्षीरोदक सुधूपितं ।।
केवलोदक पूर्णञ्च विमलांभं चाग्नि गोचरे ।
चन्दनोदक पूर्णन्तु गन्धाम्भं याम्य गोचरे ।।
८७अ)
रत्नोदक सुवर्णञ्च रत्नाम्भम् पितृगोचरे ।
फलोदक सुवर्णन्तु फलाम्भम्वारुणे न्यसेत् ।।
पुष्पोदक सुवर्णञ्च पुष्पाम्भ वायुगोचरे ।
शस्योदकभृतं कुम्भशस्याभं सोमदिग्न्यसेत् ।।
ओषधाम्भसुपूर्णञ्च शाङ्करी दिशि विन्यसेत् ।
सर्वद्रव्याम्भपूर्णञ्च सर्वात्मा इशगोचरे ।।
कूटमन्त्रैः सकृन्मंत्र्य कुम्भाष्टौ स्थापयेद् वुधः ।
कर्मगृहान्नयेल्लिङ्गं यन्त्रितं स्नानमण्डपे ।।
भद्रपीठे तु संस्थाप्य स्नानं पश्चात् समाचरेत् ।
मृत्स्नावास्त्रेण पूर्वन्तु वारिणा तदनन्तरं ।।
गोमयेन पुनः स्नानं तोयस्नानं ततः पुनः ।
कषायेन पुनः स्नानं तोयस्नानं पुनस्ततः ।।
क्षीरकल्कैः पुनः स्नानं तोयस्नानं ततः पुनः ।
अस्त्रोदकेन तस्यान्ते स्नाप्याञ्चैव ततः पुनः ।।
गन्धपुष्पादिभिः पूज्य मङ्गलैगीतवादितैः ।
रक्षोघ्नै तिलकं दत्वा लक्षणोद्वारमण्डपे ।।
आनयित्वा प्रयत्नेन गीतमङ्गलवादितैः ।
सुवर्णरोमजास्तार मृदुवस्त्र युगान्वितं ।।
सोपधानं स्वयेल्लिङ्गं प्राक् शिरेणैव सुव्रते ।
दिग्विलक्षं तु लक्ष्यादौ लक्षणोद्वारमाचरेत् ।।
विभज्य कौङ्कुमैः सूत्रैः रक्तैर्वा रोचनैस्तथा ।
नवभागविभक्ता? वा त्रिभागोर्द्धन्त्यजेद्वुधः ।।
षट्भागाधः प्रमाणेन लक्षणोद्वारमुत्तमं ।
रक्षोघ्नार्द्धञ्च तत्रापि तदधः सम्विलक्षयेत् ।।
प्रमादादूर्द्धगञ्चैव न स्पृशे तु कदाचन ।
मुखनामौ ललाटानाम्भेदो ग्रीवादिको भवेत् ।।
नेष्टायस्मात् ततश्चाधो लक्षणं संविलक्षयेत् ।
पूजार्द्धं वस्तुवत् कृत्वा तदेकं रितुवत् कुरु ।।
तद्वयं विस्तरं मध्ये लम्बसूत्रद्वयोः प्रिये ।
यवाष्टकोत्तमे लिङ्गे पृथुः खाताधरेखिका ।।
अवान्तर त्रयोपेते कथिता तव सुव्रते ।
अष्ट हस्ते अथवा लिङ्गे त्रयाधः संयुते प्रिये ।।
८७ब्)
सयूकं यवसप्तञ्च रेखाविस्तरनिम्नकं ।
सप्तहस्तैथवा लिङ्गे त्रयोवांतरसंयुते ।।
द्वियूकं षट्यवोपेतं रेखा चैव तु कारयेत् ।
षट्टसु चैव लिङ्गै च त्रयोवान्तरसंयुते ।।
त्रियुकान्वितपञ्चैव यवाश्चैव प्रकल्पयेत् ।
पञ्चहस्तेथ लिङ्गे च त्रयोवान्तरं संयुते ।।
चतुर्यवचतुर्यूकं रेखान्तत्र प्रकल्पयेत् ।
चतुहस्ते तथा लिङ्गे त्रयोवान्तरसंयुते ।।
त्रियवं पञ्चपुकञ्च पृथुरेखाधलक्षणं ।
त्रिहस्ते चैव लिङ्गे च त्रयावान्तरसंयुते ।।
षड्यूकं द्विपवं भद्रे रेखां चैव प्रकल्पयेत् ।
द्विहस्ते चैव लिङ्गे च त्रयावान्तरसंयुते ।।
यवैकसप्तयूकञ्च लक्षणं चाधविस्तरं ।
एकहस्तेथवा लिङ्गे रौद्रलिङ्गं त्रयान्विते ।।
पूकाष्टलक्षणञ्चैव पृथुखाते च रेखका ।
गभोत्थानाञ्च लिङ्गाना विधिनानेन कल्पना ।।
पक्षसूत्रविहीनन्तु लम्बसूत्रात्मकंवरं ।
रौद्राणां चैव कर्तव्यं हस्ताद्यानां शृणु प्रिये ।।
पक्षसूत्रं यथा तेषां तथा सम्यग् वदामिते ।
लम्बसूत्रार्द्धमानाच्च पक्षसूत्रावतारणं ।।
तखातं समवै पुण्यं कर्तव्यं लम्बनं यथा ।
लम्बार्द्धाष्टविभक्तन्तु पक्षयोश्चैव तद्विधिः ।।
कोणात् कोणं नयेत् सूत्र यावदृतु समागतं ।
अधोभागद्वयं त्यज्य द्वयोः योज्यन्तु पृष्ठतः ।।
छत्राकारं शिरोवर्त्य सुखदं राज्यभोगदम् ।
अथवान्य विधानेन पक्षसूत्रावतारणं ।।
लम्बसूत्रार्द्ध यन्मानं नवधा भाजयेत् तत् ।
द्वौ पक्षौ तु यथाभाज्य रिषिकोष्ठावतारणं ।।
द्वयञ्चाधपरित्यज्य पृष्ठे योगन्तु कारयेत् ।
त्रपुषे च शिरोवर्त्य भोगाशेष प्रसिद्धये ।।
अथवान्य विधानेन पक्षसूत्रावतारणम् ।
लम्बार्द्धगुणवत् कृत्वा पक्षयोश्चैव तद्विधः ।।
८८अ)
सार्द्धभागद्वयं नीत्वा भागार्द्धाधः परित्यजेत् ।
पृष्ठे नीत्वा प्रयोक्तव्यं कुक्कुटाते वतच्छिरः ।।
ज्ञानयोगप्रसिद्ध्यर्थं यच्चान्यच्छुभसाधनं ।
अथवान्य विधानेन पक्षसूत्रावतारणं ।।
लम्बार्द्धं स्वरवत् कृत्वा पक्षयोश्चैव तद्विधः ।
चतुर्दश पदंनीकोणकोणान्तसूत्रकं ।।
पृष्ठे योगः प्रकर्तव्यो द्वयं त्यज्य द्वयोस्तथा ।
वालचन्द्रे शिरोवर्त्य भोगमोक्ष प्रसिद्धये ।।
अथान्यं सर्वसामान्यं लक्षणं प्रवदामते ।
नवधार्ध्वाविभज्यादौ सप्तमं गुणवत् कुरु ।।
भागैकोर्द्ध परित्यज्य द्विभागाधो यवं भवेत् ।
मध्य सूत्रार्थसंगृह्य भ्रामयित्वार्द्ध चन्द्रवत् ।।
लम्बसूत्रविहीनन्तु पक्षसूत्रन्तथैव च ।
केवलं ब्रह्मसूत्रन्तु यावद्विष्णुम्प्रलम्बयेत् ।।
विष्णोर्द्ध हस्ति वाक्षे च दलयेत् पक्षयोरपि ।
यवलक्षणमेतद्धि सर्वकामार्थसाधकं ।।
प्रथमं लक्षणं चैव उक्तं छत्र शिर प्रिये ।
ऐन्द्रलिङ्गेपि तत्कार्यं ऐन्द्रत्वस्य प्रसाधनं ।।
तदेवं लक्षणं चैव शिरोवर्त्यञ्च शक्तिवत् ।
लिङ्गे चाग्नेयके चैव तद्गुणसाधनेहितं ।।
तदेवलक्षणं चैव दण्डस्य दण्डवच्छिरं ।
याम्ये लिङ्गे च तत्प्रोक्तं यमभोग प्रसाधनं ।।
तदेवलक्षणं चैव खड्गस्य खड्गवच्छिरः ।
नैर्-ऋते चैव लिङ्गै च तद्भागः संप्रसाधनं ।।
तदेवलक्षणं चैव ध्वजस्य शिरवच्छिरंः ।
लिङ्गे वै वायवे चैव भोगिनः शिरवच्छिरः ।।
लिङ्गे वै वारुणे चैव तद्भाग साधनम्वरं ।
तदैव लक्षणं चैव ध्वजस्य शिरवच्छिरः ।।
लिङ्गे वै वायवे चैव वायुभोगप्रसाधनं ।
तदेवलक्षणम्भद्रे गदस्य गदवच्छिरः ।।
लिङ्गेकौवेर्यके चैव कौवेर्यत्व प्रसाधनं ।
तदेव लक्षणं ज्ञेयं शिरश्चैव त्रिरुन्नतं ।।
लिङ्गे ऐशानके चैव शङ्करत्व प्रसाधनं ।
८८ब्)
तदेवलक्षणञ्चैव पद्मस्य च्छदवच्छिरः ।
लिङ्गे वै ब्राह्म्यसंज्ञे च ब्रह्मत्वञ्च प्रसाधनं ।।
तदेवलक्षणं रुद्रे शिरश्चक्रे लांछयेत् ।
लिङ्गे वैष्णवे ज्ञेयं सम्यक् विष्णुत्वसाधने ।।
दिशासाधनलिङ्गीनां लक्षणानि निबोधनै ।
गजाक्षयवयोर्मध्ये वर्जतीक्ष्णाग्रकं कुरु ।।
वज्रलिङ्गे च यत्प्रोक्तं तत्कर्मसंप्रसाधनं ।
शक्तिवच्छक्तिलिङ्गे च दण्डवद्दण्डसंज्ञके ।।
खड्गवत् खड्गसंज्ञे च पाशवत् पाशसंज्ञके ।
ध्वजवत् ध्वजसंज्ञे तु गदवत् गदसंज्ञके ।।
शूलवच्छूलसंज्ञे च किन्तु षट्भागवर्तनात् ।
पद्माख्ये चैव चक्राख्ये शृणुवक्ष्यामि तत्वतः ।।
नवधार्द्धा विभज्यादौ तृभागोर्द्धं त्यजेत् पुनः ।
द्विभागे पद्मवद्वर्त्यं चतुर्भागामृलालवत् ।।
लम्बसूत्र द्वयं प्रोक्तं विडुं युक्पक्षवर्जितं ।
पद्माख्ये चैव लिङ्गे च कथितन्तव नान्यथा ।।
विष्णुभागोर्द्धतश्चैव द्विभागे चक्रवल्लिखेत् ।
चक्राख्ये चैव लिङ्गे च ज्ञातव्यं सुरसुन्दरि ।।
अथान्यं संप्रवक्ष्यामि क्षुद्रसाधनलक्षणं ।
एषां यद्रुचितं लिङ्गं तस्यार्धा नवभाजिता ।।
शिरसिलं च सूत्रन्तु न भागात्मकम् भवेत् ।
तदर्द्धे पक्षसूत्रञ्च पृष्ठयोश्च पूर्ववत् ।।
फणेंद्रोष्टमशेषन्तु यत्र स्वेष्ठं प्रतिष्ठितं ।
अष्टभागात्मकं भद्रे लम्बसूत्रं यदा भवेत् ।।
पक्षसूत्रं तदर्द्धेन पृष्ठयोगस्तु तद्विधः ।
शत्रूणां चक्षु भ्रंशस्तु तेन मृत्युं समादिशेत् ।।
सप्तभागात्मकञ्चैव लम्बसूत्रं यदा भवेत् ।
पक्षसूत्रं तदर्द्धेन पृष्ठे योगश्च पूर्ववत् ।।
अनाहारमूकत्वं तेन मृत्युररातिनां ।
षष्ठमे ग्रीवा चेत्युक्तालम्बसूत्रं तदात्मकं ।।
पक्षसूत्रं तदर्द्धेन पृष्ठे योगं तथा पुनः ।
शत्रूणां वन्धुवर्गस्य क्षयं चैव विनिर्दिशेत् ।।
पञ्चमे लम्बसूत्रन्तु पक्षसूत्रन्तु तद्विधं ।
भुजवेधे च कथितं लक्षणञ्च सुरेश्वरि ।।
८९अ)
भुजाभङ्गञ्च शत्रूणाञ्चक्रे तेन क्षयो भवेत् ।
चतुर्थे लम्बसूत्रन्तु पक्षसूत्रं तु पूर्ववत् ।।
स्तनवेधसमुद्दिष्ट लक्षणं चैव नान्यथा ।
शत्रूणान्तन वेधेन पत्नीपुत्रादि नाशनं ।।
तृतीयं लम्बसूत्रञ्च पक्षसूत्रं तदर्द्धतः ।
हृद्वेधलक्षणं ह्येतत् कथितं तवनान्यथा ।।
हृच्छुलं शत्रूवर्गस्य तेन मृत्युं समादिशेत् ।
द्विभागे लम्बसूत्रञ्च पक्षसूत्रं तदर्द्धतः ।।
लक्षणं कुक्षिवेधन्तु कथितन्तव सुव्रते ।
शत्रूणां कुक्षिशूलञ्च तेन मृत्युर्न संशयः ।।
भागैके लम्बसूत्रञ्च पक्षसूत्रं तदर्द्धतः ।
लक्षणं नाभिवेधञ्च कथितं तवसुव्रते ।।
नाभिसूत्रञ्च शत्रूणां तेन मृत्युभयम् भवेत् ।
यन् सूत्रम् पीडनं प्रोक्तं तन्मयार्द्धतोपि वा ।।
यवार्द्धर्द्धं शुभं प्रोक्तं ज्ञात्वा सम्यक् समालिखेत् ।
भाववृत्ति प्रभेदाच्च लक्षणात् सर्वसाधनं ।।
अभाववृत्तिसंयोगात् विरुद्धार्थम् प्रसाधयेत् ।
भावाभावं समायोगाल्लिङ्गाद्यदि फलाप्यते ।।
लक्षणेन न किञ्चित् स्याद्धाढं तत्कथयामिते ।
एतत् लक्षणसंयुक्तं लिङ्गं चैव सलक्षणं ।।
लक्षणैर्हीनमययेतद्धीन लक्षणमुच्यते ।
तस्मात् सर्वप्रयत्नेन लक्षणोद्धरणं कुरु ।।
स्वेष्टलक्षणसंयुक्तो भवेल्लिङ्गं तदात्मकं ।
दृष्टान्त चेत्तदा ब्रूमि तथैवात्मगतं प्रिये ।।
शैवं महात्मकं तेजा योज्यमात्म त्वदीयकं ।
तल्लक्षणं परं प्रोक्तं तदुद्वार्यं विपश्चिता ।।
विरोधचेन्महान पुच्छायातप इवेश्वरि ।
शिववत्वञ्च यथा दृष्टं शान्तं व्यक्त्या विवेच्यते ।।
विशेषसन्निधिः शम्भो लक्षणेन विवेच्यते ।
रत्नजानाञ्च लिङ्गानां प्रवालमणिमुक्तजां ।।
स्फटिकादेर्वरारोहे यदभ्यर्च्चा मलार्चिषां ।
न प्राप्तलक्षणव्याप्तिस्तु प्राप्तलोहाष्टनिर्मिता ।।
स्वतेजा लक्षणं तेषां वाललिङ्गे तथैव च ।
८९ब्)
स्वतोलक्षणलिङ्गाङ्कं तेषां स्नानादिक क्रिया ।
प्रोक्ताव्यक्तादिच्चार्थानां दृगुन्मीलनलक्षणं ।।
जाम्बूनदशलाकाया तत्सूत्रो क्रिरयेत् गुरुः ।
गुरुपदिष्टमार्गैण शिल्या *? वोत्किरेत् युतः ।।
सुतीक्ष्णेणैव शस्त्रेण नैपुण्येन विवर्तयेत् ।
न बिन्दुशकलाहीना न स्फुटित समन्विता ।।
न विच्छिन्नास्तथास्थुला न क्वचित् कृशरूपिणी ।
रेखाकार्यासुसंपूर्णा भोगमोक्षफलार्थिभिः ।।
विंद्वाद्यास्फटिताद्याश्च रेखाकार्यास्तु साधने ।
सोभनञ्चासुभे विघ्नं सुभै वा सुभविघ्नदं ।।
तस्मात् सर्वप्रयत्नेन ज्ञात्वा लक्षणमुद्धरेत् ।
कीर्णे मधुघृतोद्वाह कार्यो मृत्युजितेन तु ।।
आचार्येणैव देवेशि रेखाप्यायन हेतुकं ।
शुभदं शोभनञ्चै * मृत्युजित् परिकीर्तितः ।।
तत्रापि च पुनः स्नानं पञ्चगव्यादिना चरेत् ।
कषायै क्षीरकल्काद्यैस्तोयस्नानान्तरैः शुभैः ।।
गन्धक्षीरघृतस्नानैर्दधिक्षौद्र जलान्तरैः ।
कुम्भाष्टकै पुनः स्नानं पूर्वाद्यानुक्रमैः शुभैः ।।
चन्दनैः कुंकुमैर्वापि कस्तूर्याद्यैः समालभेत् ।
दिव्यवस्त्रैर्युगैर्भूष्यं हेमाद्या भरणैस्तथा ।।
पुष्पधूपादिभिः पूज्य? अक्षतैस्तिलतण्डुलैः ।
रक्षोघ्नं तिलकं दत्वा नैराजनमाचरेत् ।।
अविधवैजीववत्सैः कौमारीगेयमङ्गलैः ।
पुण्याह जयशब्दैश्च शंखं वन्दिन वादितैः ।।
सुसंपूर्णावधिं कृत्वा चित्तभोगानुशारतः ।
पश्चादावमनं दद्याद् वृदा चैवार्चनं पुनः ।।
सर्वमैतद्वृदा कुर्यात् प्रणवेनाथसुव्रते ।
सुसंयुक्तरथानीते तस्मिंश्चारोहयेद्वृदा ।।
ततः सययाशलाका च मधुपात्रं तथैव च ।
वस्त्रयुग्मं घटाद्यञ्च स्नानार्थं यदुपागतं ।।
तत्सर्वं शिल्पिने दद्यात् तत्काले पूजयेत् तु तं ।
९०अ)
सुयंत्रितं रथे कुर्यात् पुरयात्रापरिभ्रमेत् ।
वलिं हरेद् दिशां गच्छेत् क्षिपेद् रत्न करम्बकं ।।
प्रक्षिपेद्वेसमालाञ्च मौक्तिमालाञ्च सर्वतः ।
प्रक्षिपेद्वेसपात्रञ्च ताम्रपात्राणि रौप्यकं ।।
कंसपात्रं च विधं यत्रिकाद्यानि प्रक्षिपेत् ।
क्षिपेद्वस्त्रंञ्च विविधं द्रव्यं वाथकपर्दकान् ।।
क्षिपेत् लाजां सपुष्पां वै सर्वसस्यां परिक्षिपेत् ।
वासरोत्क्षपसंयुक्तं वितानध्वजसंकुलं ।।
मुक्तादामप्रलम्बतं दर्पणाद्युपशोभितं ।
पुष्पधूपादि संयुक्तं दीपयष्टिसुसंकुलं ।।
एवम्भ्रमेत् पुरान्ते वै खेटान्तं ग्रासमेव च ।
तस्मिं चायतनं सर्वं शिवाद्यं पूर्वनिर्मितं ।।
पूजितव्यं प्रयत्नेन भूरत्नै भाश्वगोधनैः ।
द्विजांश्च दक्षयेच्छक्त्यादीनान्ध कृपणानपि ।।
शिवलिङ्गधराम्वापि विशेषं दक्षिणां ददेत् ।
एवम्विभागतो राजा नगरा ये प्रदक्षिणं ।।
अन्यैर्वापि प्रकर्तव्यं स्ववित्तस्यानुसारतः ।
यावत् पदं रथो गच्छेत् शिवस्यान्नाष्यसंस्थितः ।।
तावाश्च मेध कोटीनां हुलताक्कारको भवेत् ।
स्थापितोत्तरकाले च तद्दिने प्रतिवत्सरं ।।
रथपात्राप्रकर्तव्या यावल्लिङ्गसंस्थितिः ।
तदेवफलमाप्नोति भूपवैनसंशयः ।।
यस्य यस्य यदा भूमिस्तस्य तस्य तदाफलं ।
यदि मोहान्न पाल्यासा रौरवादिषु पच्यते ।।
पालनाक्षयधर्मस्तु शिवसामर्थ्य कीर्तितः ।
रर्थसुयंत्रितं भ्राम्य यथा चासितः प्रभुः ।।
कृतः स्वस्त्ययनं तत्र याम्यभूम्या समागतं ।
रथस्थं भद्रपीठे तु प्रणवेनाव तारयेत् ।।
हृदिना चापि देवेशे ततश्चाष्टौऽघकं ददेत् ।
दध्नं चार्घं तथाज्यञ्च मधुचापः सुतण्डुलं ।।
सिद्धार्थञ्च तिलं चैव श्वेतपुष्पं तथैव च ।
दूर्वाकाण्डसमायुक्तमर्घाष्टांगं निवेशयेत् ।।
९०ब्)
प्रणम्यशिरसा देव सर्वयेद्वृदिना पुनः ।
प्रवेशयेत् ततो लिङ्गं भद्रपीठस्थ यत्रितं ।।
यागमण्डप मध्ये तु पूर्वद्वारेथवा परे ।
योगपीठाप्यदिग्भागे स पीठस्थं तु यत्रितं ।।
तूलिकाद्यैर्विचित्रैस्तु ततः शययं प्रकल्पयेत् ।
सौपधानां यदा पार्श्वे पादयोर्गण्डकान्वितां ।।
स्वेतवस्त्रेणसंच्छाद्यमत्राद्यैर्वा विशेषतः ।
शिरसा प्रस्तारेत् शययां शिखया चौपधानकं ।।
कवचेनाच्छादनं कृत्वा स्वशास्त्रविधि चोदितैः ।
हृदिनाच्छादयेद्देवं शिरसाशयने स्वपेत् ।।
हेमकुम्भः शिरो देशे निद्राकुम्भस्स उच्यते ।
प्राक्सिरः शयनं श्रेष्ठं सामान्यं परिकीर्तितं ।।
पञ्चरत्नसुसंपूर्णं वस्त्राद्यैः समलंकृतं ।
गन्धधूपादिसंयुक्तं चूतपल्लवकान्वितं ।।
पुष्पमालासुसंच्छन्नं न्यसेद्रत्नोपरिशुभं ।
नैवेद्यं विविधं दत्वा पानाद्यं च सुवासितं ।।
क्रव्याद्यं वासवाद्यांश्च वस्त्राद्या भरणानि च ।
गन्धपुष्पादि धूपाद्यान्सर्वान्येव हृदार्घयेत् ।।
अन्यद्वाथ प्रदातव्यं गृह्योपष्करणादिकः ।
पाददेशे ततस्तस्य घृतक्षौद्रे निवेदयेत् ।।
पादाभ्यङ्ग न हेत्वर्थं हृदि नैव समाचरेत् ।
प्रणवे देवदेवेशे फर्णषादि तथा न हि ।।
भावा द्वैतेन संकल्प्य फल्गुषाद्या मृतं च यत् ।
सामान्ये च प्रतिष्ठा वै क्रिया सामान्यमाचरेत् ।।
आत्मार्थे हितशिष्यार्थे द्रव्या द्वैतेन कारयेत् ।
पुष्पदामसरां दद्याद्भाग प्रतिसरास्तुते ।।
तुर्याष्टषोडशश्चैव ब्रह्मभागाद्य क्रमात् ।
भूतिर्दर्भतिलाद्यांस्तु रक्षपालांश्च कल्पयेत् ।।
दक्षिणैभूतिरक्षा च पूर्वे दर्भस्तु रक्षकः ।
तिलश्चोत्तरदिग्भागे रक्षोघ्नं पश्चिमेन तु ।।
अस्त्रमन्त्रेण वै रक्षां कषाख्ये वा प्रकल्पयेत् ।
पादशे गुरु स्थित्वा न्यसेन् मृत्यष्टकं पुरा ।।
९१अ)
क्षमाग्निर्यजमानस्तुरविश्वायः प्रभञ्जनः ।
इन्द्रव्योमसमायुक्तं विभागस्त्वधुनोच्यते ।।
क्षमां पूर्वे च विन्यस्य पावकेग्नि च विन्यसेत् ।
यजमानं याम्यदिग्भागे नैर्-ऋत्यामर्कमेव च ।।
वारुणे वरुणन्यस्य वायव्यां वायुमेव च ।
सौम्यचन्द्रं सुविन्यस्य व्योम इशानगोचरे ।।
एवं मूर्त्यष्टकं न्यस्त्वा मूर्तिपांश्च पुनर्न्यसेत् ।
शर्वेपशुपतिश्चोग्रो रुद्रो भवस्तथैव च ।।
इशानोदेवैवश्व भीमो मूर्त्यधि देवता ।
पूर्वाद्यनुक्रमेणैव न्यसेदीशांतमेव च ।।
धारिकादीप्तिमद्युग्रा भोम्नाचैता वलोत्कटा ।
धात्री विश्वी च पूर्वाद्याविन्यस्या मूर्तिशक्तयः ।।
विद्येश्वरांस्तथान्यस्य शृणु तेषामनुक्रमं ।
अनन्तं पूर्वतोन्यस्य पावके सूक्ष्मसंज्ञकं ।।
याम्ये शिवौत्तमं न्यस्य पितृस्थानैक नैवकं ।
एकरुद्रं च वारुण्यां त्रिमूर्तिं वायुगोचरे ।।
सौम्यश्रीकण्ठकं न्यस्य शिखण्डामीशगोचरे ।
विद्याशक्तिं तथान्यस्य पूर्वाद्यनुक्रमेण तु ।।
वामाजेष्ठास्तथा रौद्री काली चैव चतुर्थिका ।
कलविकरणी चैव वलविकरिणीति च ।।
वलप्रमथनी चैव भूतानां सर्वमर्दनी ।
भैरवाष्टौ तथा न्यस्य शृणु तेषामनुक्रमं ।।
अशितांग पूर्वतोन्यस्य चरुं चैवाग्नि गोचरे ।
याम्ये रण्डन्तु विन्यस्य पैत्रक्रोधं च विन्यसेत् ।।
आप्येचोन्मत्तकं न्यस्य कपाली वायुगोचरे ।
भीषणं सौम्यदिग्भागे संहारं त्वीशगोचरे ।।
सामान्ये मोक्षहेत्वर्थं मूर्तिशक्तींस्तु विन्यसेत् ।
यदा चोत्तमभोगार्थी विद्याशक्तृस्तु विन्यसेत् ।।
क्षुद्रसाधनहेत्वर्थं मूर्तिशक्त्यैष्ट भैरवं ।
अनन्ताद्यास्तथा चैव मन्त्रं तेषां शृणुष्वथ ।।
मातृकावर्गमन्तैर्वा वर्गाद्येकेन वा प्रिये ।
९१ब्)
स्वरैः ह्रस्वैः पुमान् कल्प्यः स्त्रियोदीर्घस्वरेण तु ।
स्वमस्त्रैर्वाथन्यस्तव्याः स्वशास्त्रप्रविवेचितै ।।
स्वदिगक्षरमन्त्रैर्वा न्यस्तव्यास्तु वरानने ।
लरशषवयासश्च हकारश्च त्रिमातृकाः ।।
प्रागाद्याश्च वरारोहे ज्ञातव्यानुक्रमेण तु ।
सर्वेषां चैव सामान्यमेको वा चाक्षरो व्ययः ।।
स्वध्यानधारणाव्याप्तिं ज्ञात्वा तेषां सुविन्यसेत् ।
पीतं रक्तञ्च कृष्णञ्च नीलं चाभ्रञ्च धूम्रकं ।।
पद्माभं श्वेत वर्णञ्च ध्यानपूर्वादि देवतां ।
मूर्ती मूर्त्यधिपाश्चैव मूर्तिशक्ति तथैव च ।।
प्रकृत्यन्तास्ताव्याप्त्येषां धारणा पार्थिवादितः ।
विद्येश्वराणां तच्छक्ति भैरवाणां च सुव्रते ।।
विद्यातत्वान्त व्याप्तिस्तु कथिता तवनान्यथा ।
सर्वेषां व्यापकं चैव शिवोध्येयस्तु मध्यतः ।।
निवेश्यैवं निरोध्यस्तु कवचेनास्त्रसंयुतः ।
द्विजान् दिक्षु तथास्थाप्यमेश्वरां मन्त्रदीक्षितान् ।।
ऋग्वेदी पूर्ववश्चैव यजुवेद्यापगोचरे ।
सामवेदी तथा याम्य सौम्ये वाथर्वणं विदुः ।।
पठन् सूक्तं स्वकं सर्वे रुद्र पूर्वं तथाकपि ।
यावमानां तथान्येपि चुम्बकादेशपाठकाः ।।
विदिक्षुतापसांश्चैव साधद्यांस्तु कल्पयेत् ।
पञ्चब्रह्मात्मविज्ञान युक्तासम्यग्जयान्वितां ।।
मूर्तिधरां च संकल्प्य कुष्टषष्टसंख्यया ।
षोडषम्वाथ चत्वारश्चैका वा निपुणो गुरुः ।।
संहितापारगास्तत्र सा तिथिक्तास्तुम्वकः ।
भोगाद्यै च प्रतिष्ठं वै कुंडं षोडशकल्पयेत् ।।
मध्यमे भागसम्पन्ना कुण्डाष्टकविकल्पना ।
समान्यकुण्ड चत्वारि हीनार्थे चैक कल्पना ।।
मूर्तिपांश्च निरुप्येवं कुर्याद्वेवाधि वासनं ।
रोहिणी चानुराधार उत्तरास्तिस्र एव च ।।
धनिष्ठाश्रवणाश्चैव आद्राशतभिषा तथा ।
स्थिरारम्भाशुभा ह्येताः प्रतिष्ठा शुभलक्षणाः ।।
वर्णानाञ्च क्रमम्वक्ष्ये द्विजादीनां यथा शुभा ।
९२अ)
उत्तरापाठ ढहस्ताश्च पुष्परोहिणि एव च ।
द्विजानां शुभधो ह्येते क्षत्रियाणामतः शृणु ।।
पुनर्वसुस्तथा चित्रा धनिष्ठाश्रवण एव च ।
शुभासौम्या विनिष्टा वैश्यानां च निगद्यते ।।
उत्तराभाद्ररेवत्या चाश्विनी च शुभामता ।
पूर्वाफाल्गुनि स्वाती च मुद्राणामघसंयुता ।।
सोमादित्यो बुधश्चैव वृहस्पति शुभोदिता ।
ग्राह्येतांश्चतुरो वारा शुक्रभौमशनिस्त्यजेत् ।।
सम्पत् साधनक्षेमञ्च मित्राः परममित्रकाः ।
तारा पञ्चसुसंग्राह्याश्चतस्रो न्यास्तु वर्जयेत् ।।
वियत् प्रत्यरंजन्म नैधनेन समन्विताः ।
नात्मैर्वात्राशुभा योगा शुभा वा नाम्नै चात्रते ।।
ववद्यां वणिजांताश्च करणाः षट्शुभामताः ।
सर्वदा विष्टिः संत्याज्य स्थिराणां च त्रयं त्यजेत् ।।
चतुःपदं च संग्राह्यं शुक्लपक्षे शुभं मतं ।
नन्दाभद्राजयापूर्णा कृष्णे वा रिक्तवर्जिताः ।।
षष्ट्याद्याश्च न सस्ता वै क्षीणपक्षे च सर्वदा ।
ग्रहैर्ग्रहसमायोगे वक्त्रान्तं द्वंद्वकं ।।
शुभार्थी वर्जयेद्वेतां परार्थे चात्मनोपि वा ।
विरुद्धेथपि कर्तव्यं कर्तराशय हेतुतः ।।
तथा तथा प्रकर्तव्यं यथा फलजिगीषया ।
वास्याधिवासनं श्रेष्ठं सद्योधिवासनोपि वा ।।
सोष्णीशीशितगन्धागी शुक्लाम्वर विभूषितः ।
करौ कंकन हेमौ तु मुद्रिकांगुलि हेमजा ।।
कर्णौसुकुण्डलौ हेमौ पादौ नूपुर हेमजौ ।
कटौमेखलहेमाच्च ग्रीवामाला च हेमजा ।।
विविधा भरणैर्भूष्य कर्तृभिश्च विकल्पितः ।
होतावार्य प्रणम्यादौ भुक्तिमुक्ति प्रदस्तुयः ।।
मूर्तिपाश्च न चोष्णीषाः सर्वालङ्कारभूषिताः ।
कर्तव्याकारकेणैव यथावदनुपूर्वशः ।।
किमर्थञ्चेद्विनाष्णीषा नाम्ना हि सम्यते ।
मूर्तीशानु कृतिं स्वां स्वां भजन्तमन्त्र तत्वगाः ।।
९२ब्)
उत्तमं वायदालिङ्गं सेश्वरा भूषयेत् तदा ।
महायाश्च वलोपेताः पीनाः पूर्णाङ्गलक्षणाः ।।
सन्यस्त रुद्रमन्त्रास्तु स्थिरसत्वा दृढव्रताः ।
लिङ्गस्योत्तर दिग्भागे न्यसेत् पिण्डं जलाश्रया ।।
मूर्तिमन्त्रात्मको न्यासः तथाकार्यं क्रियाङ्कया ।
सितवस्त्रयुगासापि क्रियान्ताः *? निसंस्थिता ।।
क्रियान्तं चैव शत्कृन्तं यासा कुण्डलिनीति च ।
स्नानादिको विधिश्चात्र लिङ्गवत् सौम्यगोचरे ।।
लक्षणोद्धरणं चात्र भगाकारं तु वर्तयेत् ।
खातस्यान्त प्रदेशे तु लिङ्गलक्षण चाधतः ।।
यथा न दृश्यते लोकैर्गुह्यैशक्ति मयन्ततः ।
वरंसारं प्रधानञ्च अतस्तद्गुह्यलक्षणं ।।
उत्कीर्यलिङ्गवत्तस्या गुह्यं हेमशलाकया ।
ब्रह्मात्मिकाशिलान्यस्यो लिङ्गे मूलप्रदेशतः ।।
स्नानादिका विधिः प्राप्ता किन्तु लक्षणवर्जिता ।
स्वभ्रलक्षणसंयुक्ता पूर्वं वै प्रतिपादिता ।।
अनन्तशक्ति सा प्रोक्ता धरिणीति च विश्रुता ।
स्थिरकारीश चैवोक्ता विश्वनिर्वृत्तिकारिका ।।
सेयं सर्वात्ममूर्त्येका युक्ताप्यात्वा निवेशयेत् ।
संपूज्य देशिको भीष्टविधिनात्रितयं पुरा ।।
स्वकुण्डे तु गुरुः श्रीमान यजेत् सर्वात्मकं ततः ।
शास्त्रोक्तेन विधानेन अग्निञ्च जनयेच्छुभं ।।
निष्पाद्यैवं शिवाग्नि तु पूर्णाहुत्या च सुव्रते ।
नवभागं ततः कल्प्य मध्यादौदिग्गवाश्रयेत् ।।
मध्ये शिवागिं संकल्प्य मूर्त्याग्न्यष्टौ प्रकल्पयेत् ।
पूर्वभागं तु यो वह्निः पूर्वकुण्डे नयेद्गुरुः ।।
अग्निदिगग्नि कुण्डे तु याम्यदिक् याम्य कुण्डके ।
पितरिपितरगोऽग्नि वारुणे वारुणे वहि ।।
वायवे वायु दिग्भागः सौम्यगः सौम्यगोचरे ।
ऐशान्यामिशदिग्भागो मध्यमे जुहुयात् स्वयं ।।
९३अ)
स्वमूर्तिकृतसन्दोहा मूर्तिपाश्च यथानले ।
तथाहोमं प्रकर्तव्यं स्वयोगां मूर्तिपैः प्रिये ।।
तथाशान्ति घटां कृत्वा मूर्तिमन्त्रास्तु संयुताः ।
सम्पाताभिहतास्सर्वे शतेनाष्टोत्तरेण तु ।।
शिवमन्त्रास्त्रसंयुक्त स्वघटं कल्पयेद् गुरुः ।
स्वमूर्तिमन्त्रविद्भज्ये वक्त्रागं परिकल्पयेत् ।।
स्वं स्वं चैवाध्वरमिष्ट्वा होमं कृत्वा यथाविधिः ।
स्वमूर्तिमन्त्रवक्त्राङ्गैः शोध्यहोमं समाचरेत् ।।
सर्वाध्वानं समाधाय एकवत् कर्मवाचरेत् ।
त्रितत्व कल्पयित्वा तु व्याप्यव्यापकलक्षणं ।।
आत्मतत्वादितः कृत्वा चुम्बकसहमूर्तिपैः ।
होमद्रव्यवलं ज्ञात्वा होतव्यं सुरसुन्दरि ।।
ब्रह्मभागात्म तत्वं तु विद्या तत्वञ्च वैष्णवे ।
रुद्राख्ये शिवतत्वन्तु कल्पयेर्च्चानुपूर्वशः ।।
प्राधानांतात्मतत्वन्तु विद्यातत्वान्त विद्यया ।
शिवान्तं शिवतत्वं तु व्याप्तिस्तेषां प्रकीर्तिता ।।
आत्माख्योत्थापनं कृत्वा व्याप्तिशुद्धासुरेश्वरि ।
उत्थायाश्चान्य सार्घश्च ब्रह्मभागं कुशैः स्पृशेत् ।।
गन्धपुष्पादिभिपूज्य विद्याख्योत्थापनं पुनः ।
तद्व्याप्तिशुद्धि हेत्वर्थ पुनरागत्य होमयेत् ।।
पुनरुत्थायसार्घश्च माधवाख्यं कुशैः स्पृशेत् ।
गन्धपुष्पादिभिः पूज्य शिवाख्योत्थापनं पुनः ।।
तद्व्याप्ति पूर्ण हेत्वर्थं पुनरागत्य होमयेत् ।
पुनरुत्थापसार्घश्च रुद्राख्यञ्च कुशैः स्पृशेत् ।।
गुरूपदिष्टमन्त्रेण भागाद्भागं वरानने ।
मूर्तिपैश्च तथा कार्यञ्चात्मतत्वाद्यनुक्रमात् ।।
तत्तत्वव्यासंसोध्य सार्घहस्तः कुशैः स्पृशेत् ।
चुम्बकोन्तक्षमाध्यक्षस्त्वग्न्याध्यक्षस्तदानुगः ।।
पावकान्ते यमाध्यक्षः सूर्याध्यक्षस्तदानुगः ।
अकान्तवारुणाध्यक्षो वाताध्यक्षास्तदानुगः ।।
९३ब्)
इन्द्ररध्यक्षो वातांते व्योमाध्यक्षस्तदानुगः ।
द्विजेन्द्रविष्णुरुद्राख्ये भागे सर्वसमोविधिः ।।
सहस्रं वा शतम्वापि तस्यार्द्धार्द्धमथापि वा ।
कर्तव्यं मूर्तिपैः सार्द्धकर्ममाचार्यमाचरेत् ।।
पिण्डिकाथ क्रिया व्याप्ता शोध्यमूर्ति समन्विता ।
चुम्बको मूर्तिपैः सार्द्धं सार्घहस्तः कुशै स्पृशेत् ।।
सा क्रिया विधिः मात्रापि किन्तु भोग्यत्व कल्पना ।
भोक्तृत्वे चासुरो(?) नाथो ज्ञानशक्त्यात्मको विभुः ।।
भोक्तृत्वे च परोनाथो ज्ञानशक्त्यात्मको विभुः ।
ब्रह्मात्मिका शिलायातु सीध्वरे धारणी स्मृता ।।
साधारणं च भूतत्वं तत्कल्पं शोधयेत् तु तां ।
शतैकं मूर्तिपैर्हुत्वा तत्वानाञ्च वरानने ।।
शोध्यसम्यक् पुनर्भूयो युक्तां शक्तिं निवेशयेत् ।
शुद्धेस्मिंस्त्रितये चैव लिङ्गवेदी शिलात्मके ।।
विधिपूर्णार्थहोमित्वा पश्चाच्छक्ति त्रयं न्यसेत् ।
ज्ञानशक्तिं न्यसेल्लिङ्गे क्रियाशक्तिं च पिण्डिके ।।
ब्रह्मात्मिका शिलायांतु धारणीं शक्ति विन्यसेत् ।
पूर्णाहुति प्रयोगेण योगं ध्यात्वाथसंयुतं ।।
गन्धपुष्पादिभिः पूज्य प्राप्तकालं च लक्षयेत् ।
वाह्यमध्यात्मिकं कालः प्राप्तशब्देन गम्यते ।।
ज्योतिषादिष्टवाह्यस्तु यद्यसौ गुरुवेदकः ।
आध्यात्मिको भवेत् सूक्ष्मः स गुरोस्तु नियोगतः ।।
उभयोः प्राप्ति हेत्वर्थं ऋतुकालं तु लक्षयेत् ।
सन्निकृष्टो यदाकालः क्रियासंक्षेपतस्तदा ।।
कालः स्याद्यदि दूरस्तु तदा होमं जपादिकं ।
द्रव्याधिकं विहीनं वा कान्यसंक्षेपविस्तरं ।।
वृत्ते होमादिके कार्ये हीने ध्यानजपादिकं ।
कर्तव्यं देवदेवेशि यथावदनुपूर्वशः ।।
उत्थाया चार्यो देवाय दक्षिणे श्रवणे त्विदं ।
ओं नमो भगवते रुद्राय रुद्ररौद्र नमोस्तुते ।।
विधिपूर्णमपूर्णम्वा शक्त्यापूर्य च गृह्यतं ।
स्वाहा ।।
९४अ)
निर्वर्तितं यद्विधानं ज्ञानशक्त्यासमर्पयेत् ।
ओं नमः शाङ्करि पूरय २ स्वाहा ।।
वेदिकाया विधानं यत् क्रियाशक्तः समर्पयेत् ।
अनेनैव तु मन्त्रेण अनन्ताख्ये समर्पयेत् ।।
निवेद्यैव पुनः पश्चात् कवचास्त्रौ निरोधयेत् ।
निरोध्यैवं शिवं पश्चात् गच्छेत् प्रासादमानतः ।।
उच्चार्यास्त्रं महारौद्रं नाम्ना पाशुपतं महत् ।
ओं हृं? ह्रीं हः हः हूं फट् स्वाहा
महापाशुपतं नाम अस्त्रराजं प्रकीर्तितं ।
विघ्नान् विनाशयित्वा तु प्रासादस्थां सुरेश्वरि ।।
ब्रह्मात्मिकाशिलायाश्च गुरुस्थापनमाचरेत् ।
कर्णसूत्रेण गर्भस्य साध्यमध्यं विवर्जयेत् ।।
न्यूनं ब्रह्मशिलामध्यं द्वारमध्याद्यथाच्युतं ।
ऋषिवद्भाजितं द्वारं मध्येकं गुणवत् कुरु ।।
तन्मध्येकं द्विधाभूयः सोम्यार्द्धे गुणवत् पुनः ।
त्यज्यन्तरे द्वयं भूयो दक्षिणेकं त्यजेत् तथा ।।
तयोर्द्ध *? र्यत् सूत्रं मध्यमाधनं ।
भवत्यनेन विधाने मध्यात्मध्यस्य वर्जनं ।।
न च मध्यपरित्यागो विधिनान्येन सुव्रते ।
एवं मध्यं प्रसाध्यादौ शिला तत्र सुचि न्यसेत् ।।
आदौ तन्मान * * *? वास्तु सूत्रं च पूर्ववत् ।
देवतान् पूर्ववत् कल्प्य वलिपूजां च पूर्ववत् ।।
शिलां मध्यं सुसंलक्ष्य स्थापयेत् स्वगुणेन तु ।
ओं नमो व्यापिनि स्थिरे अचले ध्रुवे ह्रीं लं ह्रीं स्वाहा ।।
स्वगुणेयं समाख्याता प्रागुक्तं परमेष्ठिना ।
व्याप्ति ध्यानाश्रयोभूत्वा समत्वं सर्वगं परं ।।
सावष्टम्भ स्थिराध्वानं यदेष्टं चिंत्यविन्यसेत् ।
आधाराधेयं संवधादविता भाव उच्यते ।।
आधारानन्तशक्तिस्तु आधेयस्तु परः शिवः ।
गन्धपुष्पादिभिः पूज्य युग्मे नैव तु रोधयेत् ।।
पूर्वं यत् कल्पितं स्वभ्रं तत्र रत्नानि विन्यसेत् ।
पूर्वस्वभ्रे न्यसेद् वज्रं सूर्यकातञ्च पावके ।।
९४ब्)
इन्द्रनीलं न्यसेद् याम्ये महानीलं च नैर्-ऋते ।
मौक्तिकन्तु न्यसेत् देवि वारुणे स्वभ्रमण्डले ।।
पुष्परागन्तु वायव्यां पद्मरागं तथोत्तरे ।
वैडूर्यमीशदिग्भागे मध्ये सर्वाणि विन्यसेत् ।।
एवं चानुक्रमेणैव न्यसेत् रत्नानि सूरिणः ।
रत्नन्यासात् पुनर्भूयो लोहन्यासं समाचरेत् ।।
काञ्चनञ्च न्यसेत् पूर्वे ताम्रं चैवाग्नि गोचरे ।
आयसंयाम्यदिग्भागे नैर्-ऋत्यांत्रपुषं न्यसेत् ।।
प्राचेतसि दिशाभागे तारचैव तु विन्यसेत् ।
रीतिकाम्बायुदिग्भागे सौम्यघाषञ्च विन्यसेत् ।।
ऐशान्याञ्च न्यसेतसीशं पुनपाशाणकं न्यसेत् ।
हरितालं न्यसेत् पूर्वे पावके * * * च्छिलां ।।
कासीसंयाम्यदिग्भागे नैर्-ऋत्याकाक्षिकं न्यसेत् ।
रमेन्द्रवारुणे न्यस्य वायव्यां चैव कथ्यते ।।
सौवर्णगैरिका देवि न्यस्तव्या नात्र संशयः ।
गन्धपाशाणकं सौमे भृङ्गमीशान गोचरे ।।
लोहपाशाणयोर्देवि मात्रां चैव तु विन्यसेत् ।
पुनरन्यानि मूलानि न्यस्तव्यानि यथा शृणु ।।
उषीरं पूर्वतो न्यस्य विष्णुक्रान्ताग्नि गोचरे ।
रक्तचन्दनयाम्ये तु पैत्रे कृष्णागुरुन्तथा ।।
श्वेत चन्दन वारुण्यां सारिकोत्पलवायवे ।
सौम्ये कुण्डञ्च विन्यस्य शंखपुष्पाशगोचरे ।।
मूलं सम्यक् विन्यस्य पुनः सश्यञ्च विन्यसेत् ।
धान्यं पूर्वे च विन्यस्य गोधूमां चाग्नि गोचरे ।।
याम्य तिलान् विन्यस्य माषं नैर्-ऋत्य गोचरे ।
सुङ्गं(?) वारुणदिग्भागे वायव्याञ्च यवं न्यसेत् ।।
सौम्य नीवारकं न्यस्य स्यामामीशानगोचरे ।
सर्वधान्यं न्यसेन् मध्ये सर्वमूलन्तथैव च ।।
सर्वपाषाणलोहाञ्च न्यसेन् मध्ये तु सुव्रते ।
पुनर्मध्ये न्यसेत् पृष्टी वृषं कुर्मधा न्यसेत् ।।
सर्वाञ्चाप्यथ वा ह्येकं सौवर्णेन तु निर्मित ।
सर्वेषां चाम्यभावे तु न्यसेदेकन्तु पादरं ।।
९५अ)
वीजगाढं न कर्तव्यं मूलगाढं तथैव च ।
गाढे नैव महादोषस्तस्मान्मात्रां प्रदापयेत् ।।
दीप्तिस्तृप्तिस्मृतिश्चैव रोगनासाचतुष्टयं ।
तैर्युक्तानन्तशक्तिस्तु विद्ये च सुव्रते ।।
धरान्तं ध्यानमालव्य न्ययेत् सर्वाक्षरेण वा ।
पायसेनोपरिलेप्य नेत्रवस्त्रेण छादयेत् ।।
प्रतिलिङ्गमारभेत श्वभ्रे पीठवन्धं समाचरेत् ।
पृथक् पीठं यदा भद्रे तदैनं विधिमाचरेत् ।।
नोचेत्पिण्डितं पीठं तु प्रतिलिङ्गमारभेन्नहि ।
वस्त्रयुग्मेनसंच्छाद्यशिखामन्त्रेणसुव्रते ।।
गन्धपुष्पादिभिपूज्य विशुद्धेनान्तरात्मना ।
वर्मणारोधिकं कृत्वा खड्गे नैव तु रोधयेत् ।।
निर्वत्येव पुनर्वाह्ये तत् स्थाने दिग्वलिं हरेत् ।
दिक्पतिभ्यो वलिं दत्वा सम्यगा चम्य यत्नतः ।।
पुनरागत्य कुण्डे तु होमे पश्चात् समारभेत् ।
किमर्थं चेतद्वातव्यं शिलासूत्रविशोधनं ।।
वास्तुसूत्रविशुद्ध्य प्रायश्चि?त्यर्थं जुहुयात् ।
शतं शतं शतं हुत्वा ततोलिङ्गं प्रसादयेत् ।।
हृदिनोत्थापयेल्लिङ्गं ते नैवार्घं प्रदापयेत् ।
शिरसा चालयेद्भूयस्तुति कृत्वा तु मन्त्रवित् ।।
जपशब्दा कुलं कृत्वा वेदध्वनिसमाकुलं ।
वन्दिनि घोषसंयुक्तं स्त्रीणांगेयसमन्वितं ।।
कौमार्यामङ्गलैर्युक्तं यतीनां तवसंयुतं ।
स्वस्तिवाक्यं द्विजैर्युक्तं हिलिहिलाकारसंयुतं ।।
संखकाहलसंयुक्तं विविधैर्वाद्यवादितैः ।
पुष्पधूपाकुलैर्दीपैः चामरोत् क्षेपवीजितैः ।।
आचार्ये नोद्धृतं देवं मूर्तिपैः सहसंयुतं ।
कर्ता चैव समायुक्तं सखाये पूर्वकल्पितं ।।
एवं चोद्धृत्य गन्तव्यं प्रासादस्य समीपतः ।
प्रदक्षिण त्रयं कृत्वा द्वारस्थानकमानयेत् ।।
अष्टांगार्घं प्रदातव्यं भद्रपीठ स्थितं शुभं ।
मूर्तिपैश्चार्घदातव्यं स्त्रियः सर्वाश्चरोचनां ।।
अक्षतं पतिना संहैर्ब्राह्मणैश्च कुशोदकं ।
९५ब्)
भद्रपीठस्थितं कृत्वा द्वारगर्भान्तरे तु तं ।
प्रासादञ्च यदापूर्वं तदाद्वारप्रवेशनं ।।
प्रवेशे तु न चाधोर्द्ध तिर्यग्द्वारं स्पृशेत् क्वचित् ।
स्पर्शनाच्च महादोषः कारकादेर्भवेदिह ।।
तद्दिशा होमकर्तव्यं तन्मन्त्रेणैव सुव्रते ।
तदेव दिशि कुण्डे तु तदाध्यक्षेण सुव्रते ।।
शतमष्टाधिकं हुत्वा जपञ्चैव तथा भवेत् ।
तस्य दानं प्रदातव्यं वाहनं तद्दिशोचितं ।।
इभंच्छागं महीषञ्च दासौमकरमेव च ।
मृगोविमानकश्चैव वलीवर्द्धा द्विजाधिपं ।।
हंसं प्रत्यक्षतो दानमभावार्द्धेमददेत् ।
एवं कृते भवेच्छान्तिः कारकादेस्तु भाविनि ।।
आचार्योद्घाटयेच्छुभ्रं यत्पुरावस्त्रच्छादितं ।
रेचयेत् कवचास्त्रञ्च यत् पूर्वन्तु निरोधितं ।।
महापाशुपतास्त्रेण यत्पुरा कथितेन तु ।
यन्त्रस्थं धारयेल्लिङ्गं मध्यान्मध्यं प्रसाधयेत् ।।
सुचिह्नैर्लम्बसूत्रैस्तु मूर्तिपैश्च समावृतं ।
यन्त्रस्थं भावयेत् सन्धार्यं यावत् प्रागुणभागतः ।।
ध्यात्वाशक्तिमतः शक्तिं मनानात्व व्यवस्थितां ।
ध्यानातीतान्तगं कृत्वा तस्मात् सृष्ट्या निवेशयेत् ।।
स्थिरो भवति संस्थाप्य देवा ब्रह्मशिलामुखे ।
स्वमन्त्रेण परं धाम ध्यात्वाकारणकारणं ।।
तद्धर्मध्यानसंयोज्य चिदचेतसि विन्यसेत् ।
विषुवे नैव योगेन चुम्बकः सुसमाहितः ।।
पीठं निवेश्य तत् पश्चात् गन्धपुष्पादिभिर्यजेत् ।
संरक्षपीठं लिङ्गन्तु चर्मास्त्रेणैव सुव्रते ।।
पुनरागत्यहोतव्यं शतिको दोषशान्तये ।
उत्पाताद्यभिघातार्थं यथाहोमं तथा जपं ।।
पीण्डिकाम्बाधयेद्भूय पूज्यसंस्तुत्य पूर्ववत् ।
मूर्तिपैश्चुम्बकैः सार्द्धं सहायैः कारकैः सहः ।।
गीतवाद्यादिकं कृत्वा वन्दि वृण्दद्विजातिभिः ।
९६अ)
ऊर्द्धाधस्तात् समानीय विधिना पूर्ववद्यथा ।
प्रदक्षिण त्रयं कृत्वा द्वारस्थाने समागता ।।
रोचनार्घाक्षतं दत्वा मूर्तिपैः चुम्बकैः सहः ।
न संस्पृशेत् तथाद्वारं प्रवेश्या चैव यत्नतः ।।
प्रवेशं लम्बसूत्राभ्यां वेदीलक्षणलक्षितं ।
सम्यक् साध्यदिशाभागं दक्षिणामूर्तिसंस्थितः ।।
प्रणालं उत्तरे कृत्वा क्रियास्थापनमारभेत् ।
सूक्ष्मकालात्मकं वेद्य ऋतुकाले च वीक्षयेत् ।।
देहे देही यथायोगंस्तथा ज्ञाने क्रियां न्यसेत् ।
भोगो भोगी यथायोग युञ्जेत् ज्ञाने क्रियान्तथा ।।
बोधक्रिया निविष्टं तु ज्ञेयं ज्ञानासृतं यथा ।
सूर्येन्द्र विम्बयोर्यद्वदेकी भूता यथा कलां ।।
तथात्रापि स्मरित्वा तु दृक्क्रिये संनिवेशयेत् ।
देहवत् पिण्डिका ज्ञेया लिङ्गन्देही च कीर्तितं ।।
भोगवत् पिण्डिका ज्ञेया लिङ्गभोगी च नान्यथा ।
ज्ञानवत् पिण्डिका भद्रे ज्ञेयवल्लिङ्गमुच्यते ।।
इन्द्रवत् पिण्डिकामत्ये सूर्यवल्लिङ्गमुच्यते ।
क्रिया देहे वसं कल्प्य ज्ञानं देही च कल्प्यते ।।
भोग्ये वहि क्रिया रूपं ज्ञानं भोगी वलक्ष्यते ।
क्रियाज्ञाने च द्रष्टव्या ज्ञानं ज्ञेय च द्रव्यते ।।
चन्द्रवत् क्रियवोधव्या सूर्यवत् ज्ञानमुच्यते ।
ऋतुकन्येव बोधव्या क्रियाशक्ति वरानने ।।
पुं वद्रागान्वितं ज्ञेयं ज्ञानशक्ति न संशयः ।
पुं कन्या योगवत् ज्ञेयं दृक्क्रियासंनिवेशनं ।।
अथ किम् बहुनोक्तेन दृष्टान्ता कुलितेन तु ।
त्वमहञ्च यथा पूर्वं संयोगं स्थित हेतुकं ।।
दृक्क्रिया तु तथा योगो धर्मिणः क्रिय हेतुकं ।
त्वञ्च साक्षात् क्रियारूपा पिण्डीरूपा च या स्थिता ।।
ज्ञानरूपमहमहभद्रे लिङ्गरूपेण यः स्थितः ।
एवं संस्थापनं प्रोक्तं प्रासादे च सुरेश्वरि ।।
प्रगुणे तु न चेत्तस्मिन् दिग्जातं कथितं प्रिये ।
९६ब्)
गत्वाचार्येण होतव्यं स्वकुण्डे दोषशान्तये ।।
अष्टोत्तरशतं हुत्वा जपं कृत्वा तु भावितः ।
तद् दिग्देवतां हुत्वा तु चालयेत् प्रगुणान्नयेत् ।।
प्रगुणे तु सुसंजाते प्रायचितन्तु होमयेत् ।
शतं शतं जपं कृत्वा ततो निर्दोषतां गुरुः ।।
तत्कालेनापि तत्काले तद्गुरो दक्षिणां ददेत् ।
तद्वाहनानि तन्मूल्यं कृत्रिमं वाथ हेमजं ।।
सम्पाताद्यभि घाताद्यैर्वक्रैर्दिक्भ्रान्तकैस्तथा ।
अनेनैव तु दानेन दत्वा दोषैर्विमुच्यते ।।
स्वभ्रसंधिन्ततः पूर्यवालुकः सूक्ष्मगालितैः ।
तावत् पूर्यस्तु तत् सन्धिर्यावर्त्तोत्तानकं प्रिये ।।
क्षारलोहमलैश्चूर्णैरालाचूर्णैः सुसूक्ष्मकैः ।
शंखचूर्णं सुसंगृह्य क्षौमतैलविपाचयेत् ।।
युक्तं पाकं ततः कृत्वा विसंधिन्तेन कारयेत् ।
यथान विचलेत् तेन उदकाद्यभिघातः ।।
तथासौमठनं कुर्यादन्यथा दोषमाप्नुयात् ।
उदकं संधिगंछाधः प्रमादाद्यद्विजायते ।।
सिद्धिहानि मनोद्वेगरोगो वाप्यथ पञ्चता ।
तस्मात् सर्वप्रयत्नेन जलं प्रणालिगं शुभं ।।
प्रणालाधः प्रणालञ्च शैलजम्वाथ दारुजं ।
सुदृढं भाजनं कृत्वा दातव्यं जलनिर्गमं ।।
प्रासादान्ते वृहत् खातं कूपवत् पट्टनिर्मितं ।
ततो मूर्ति धरैः सर्वैः प्रागाद्यैश्चानुपूर्वशः ।।
स्वस्वशान्तिघटे नैव अर्द्धार्द्धे नैव स्नापयेत् ।
स्वकशान्ति घटार्द्धेन चुम्बकः स्नानमाचरेत् ।।
पुनः पश्चाद् विभागेन देशिकः स्नापयेच्छिवं ।
मधुस्नानं पुरा कृत्वा जलस्नानमतः परं ।।
क्षीरस्नानं ततो भूय उदकं तदनंतरं ।
दधिस्नानं पुनः कृत्वा जलस्नानं विधीयते ।।
घृतस्नानं पुनर्भूय जलस्नानमतः परं ।
मधुस्नानं पुराकृत्वा जलस्नानं मनन्तरं ।।
खण्डैः संस्नापये भूय स्नापयेदुष्णवारिणा ।
९७अ)
रूक्षेण पुनरुद्वर्त्य गड्डुकान्दापयेद्वहून् ।
सामान्यविधिरेवोक्तं पञ्चगव्यादिमज्जनं ।।
विशेषं चेतदा भद्रे स्नानं पञ्चामृतं पुरा ।
क्षतजेन पुनः स्नानः स्नानं गंधतोयमतः परं ।।
जलान्तरान्तर स्नानं हृन्मन्त्रेण च सुव्रते ।
स्नानं कृत्वा न्यसेत् मन्त्रान् यथात्मनि समीहितान् ।।
अनन्ताद्यन्तु शक्त्यन्तं सामान्ये चासने न्यसेत् ।
विशेषं वाथप्रेतांतं स्वशास्त्रप्रविवेदितं ।।
मूर्तिवक्त्रांगसंयुक्तं मूलमन्त्रं न्यसेत् प्रिये ।
ज्ञानशक्तिं न्यसेत् प्राज्ञा वृत्तभागे तु मूर्तिवत् ।।
तत्परत्वेन मूलं तु मन्त्रं चैव सुरेश्वरि ।
क्रियाशक्तिं न्यसेत् पीठे प्रेतरूपं च सोच्यते ।।
मन्त्रग्रामं तु ग्रामन्तु विन्यस्य ददेच्चैवाष्टपुष्पिकां ।
ततः सान्नैध्य हेत्वर्थं स्नानं विविधमाचरेत् ।।
ततः चन्दनगन्धाद्यैः कुंकुमैश्च विलेपयेत् ।
पूजां कृत्वा सुशोभाढ्यां चित्रवस्त्रेण भूषयेत् ।।
हेमालङ्कारकैर्भूष्यं गुग्गुलाद्यैश्च धूपयेत् ।
दीपैः शोभामतः कृत्वा नैवेद्यं विविधं ददेत् ।।
भक्ष्यं विविधभोज्यं वा लेह्यम्वा चोष्यमेव वा ।
पेयं वाथप्रदातव्यं सामान्यम्वाथ सुन्दरि ।।
विशेषं वाथ दातव्यं नैवेद्यं विविधं प्रिये ।
अष्टादशविधैः मीनैर्मांसैश्चैव द्विरष्टभिः ।।
फलजैः पुष्पजैर्मद्यै गुडजैः पुष्पजैर्ददेत् ।
गीतनृत्योत्सवैर्देवि घंटाडमरु नादितैः ।।
दिवारात्रोत्सवैर्दिव्यैर्भूयेद्विन(?) चतुष्टयं ।
पुष्पधूपादि नैवेद्य ताम्बूलादि प्रदापनतः ।।
सामान्ये वाचमेन्नित्यं हस्तपादादि क्षालनं ।
विशेषेनाचमेन्मंत्री नमौचेच्चरणादिकं ।।
यतोद्व्यर्थञ्च समान्यं द्वैताद्वैतविदुर्वुधाः ।
विशेषैकार्थसंज्ञेयं केवला द्वैतलक्षणं ।।
९७ब्)
रात्रोजागरदानञ्च गेयनृत्यस्तु वादितैः ।
महोत्सवैर्दिनान्येव सामान्ये वाथ कारयेत् ।।
दिवाऽनिवारितसत्रं दीनानाथोंश्च दापयेत् ।
विशेषं चेत्तदा वीरैर्योगिनीकारकैः सह ।।
वीरभोज्यान्नपानाद्यं दिवान्ते निशि वा चरेत् ।
नृत्यगेय सवाद्यैश्च दिनान्येवं महोत्सवं ।।
चुम्बको मूर्तिपैः सार्द्ध त्रिकालं होमयेद् दिवा ।
सदा वा द्रव्य भावाच्च होमसार्द्धत्रिकोविधिः ।।
चतुर्थेहनिसप्राप्ते चुकः सुसमाहितः ।
चतुर्थी होमयेत् प्राज्ञा ज्ञात्वा द्रव्यवलावलं ।।
शतं वाथ सहस्रम्वा मूर्तिपैः सह संयुतः ।
नैवेद्य भक्ष्यभोज्यानि लेह्यचोष्याणि यानि तु ।।
सर्वायनयनं कृत्वा पूजायनयनन्तथा ।
कुमार्या भ्रातृपुत्राणां प्रवत्यानाथदुष्णिता ।।
नैवेद्यञ्च प्रदातव्यं भक्षणायनसंशयः ।
दिव्यपुष्पप्रदातव्यं धारणायविपश्चिता ।।
न निर्माल्यं विनिर्दिष्ट यतश्चण्डैश्वरम्विना ।
अतो निर्दोषमेवोक्तं भक्षणे धारणेपि वा ।।
दाने वा ग्रहणे चापि सामान्यवाथ सुव्रते ।
विशेषसन्निधो यस्मात् तस्मात् युततरास्तुते ।।
सिद्धिमुक्ति कराणुभ्यश्चरुके च यथा मता ।
ततः सन्माजं कृत्वा स्नाप्य देवं यथोचितं ।।
विविधैः पूर्वनिर्दिष्टैः गन्धतोयादिभिः प्रिये ।
यथोचितात्मभिर्द्रव्यैः पूजयेत् सुसमाहितः ।।
गन्धपुष्पादिकं गृह्य दिग्वलिञ्च समाहरेत् ।
आचम्यागत्य भूयस्तु दक्षिणामूर्तिसंस्थितः ।।
सामान्ये चैव लिङ्गे तु विद्विशेषं विसर्जयेत् ।
स्वयागश्चैव योन्यस्तस्तदात्मस्थञ्च कारयेत् ।।
लिङ्गे मूर्तौ न्यसेच्चण्डं चण्डक्रोधेति विश्रुतः ।
तदुत्थमिति तं ध्यात्वा ज्ञानमूर्त्यात्मगातु या ।।
९८अ)
ज्वालाजटालदुःप्रेक्षे दंष्ट्रालो विकृताननः ।
शरत्कुन्देन्दु धवलं क्रोधचण्डो विनिःसृतः ।।
स्वयमेव महेशस्तु अमूर्तौ मूर्तिमागतः ।
विचिन्त्यचण्डरुद्रन्तु क्रोधन्देवाद्विनिर्गतः ।।
मत्कील्य(?) च तत्माने लिङ्गादीशे निवेशयेत् ।
सपुष्पेणैव देवेश मुद्रासंहारकेन तु ।।
निवेश्यैवं पुनर्भूयः पीठादीशे च कल्पयेत् ।
अनन्ताख्या तु या शक्तिः सा चलाचलरूपिणी ।।
पात्ररूपा च द्रष्टव्या चण्डस्यासनरूपिणी ।
तदासन प्रकल्प्यादौ चण्डमूर्तिन्निवेशयेत् ।।
सविसर्गकथाख्येन ओं नमश्चादिरन्ततः ।
मूर्तिमन्तसमुद्दिष्टः केवलम्वासनं भवेत् ।।
तदेवस्वरदीर्घैस्तु षडङ्गानि प्रकल्पयेत् ।
स्वरै ह्रस्वैः प्रयुक्तन्तु पञ्चवक्त्रञ्च कल्पयेत् ।।
क्षौमिति मूलमंत्रस्तु स्वयञ्चण्डेश्वरं परं ।
तत् स्थाने कृष्णरूपं तु चतुःकरसुभासुरं ।।
ध्यातव्यं देवदेवेशे पूर्वं वै शिवनिर्मितं ।
गन्धपुष्पादिभिः पूज्य तद्धर्मास्त्रेण रोधयेत् ।।
होमं कृत्वा ततः पश्चाच्चण्डेश्वरविकल्पना ।
तद्दिशावलोकयेद्भूयः प्राकारस्यान्तसन्निधौ ।।
आगारं कल्पयेत् तत्र ऐष्टं वाप्यथ शैलजं ।
दारुजं मृन्मयं वाथ सुगुप्तं चैव कारयेत् ।।
प्रागाधारा तु या शक्तिः स्थिरत्वं तत्र कल्पयेत् ।
तदासनं प्रकल्प्यादौ न्यसेच्चण्डं तु सुस्थितं ।।
स्थाप्य चण्डं समाचम्य प्रायश्चित्तन्तु होमयेत् ।
स्नापयित्वा पुनर्देवं लिङ्गसाधारणं यजेत् ।।
साधारणञ्च वक्त्राणि षडङ्गानि प्रकल्पयेत् ।
साधारणं त्रयोदेवा त्रिभागे तु विकल्पयेत् ।।
ब्रह्मभागे तु ब्रह्माणं पार्थिवन्ते विकल्पयेत् ।
विष्णुभागे स्वयं विद्यान्ते चैव कल्पयेत् ।।
रुद्रभागे स्वयं साक्षात् ज्ञानशक्त्या तु कल्पयेत् ।
एवं विकल्पयित्वा तु हुत्वासप्ताहुतिं वुधः ।।
९८ब्)
ओं शिवाय स्थिरो भव स्वाहा । ओं शिवाया प्रमेयो भव स्वाहा । ओं शिवाय
बोधो भव स्वाहा । ओं शिवाय नित्यो भव स्वाहा । ओं शिवाय व्यापको भव
स्वाहा । ओं शिवाया विनस्वरो भव स्वाहा । ओं शिवाय परितृप्तो भव स्वाहा ।
आत्मार्थे वा विशेषे वा तदा चण्डेश्वरं न हि ।
तदुत्थं तद् वियोगं वै कल्पना नैव कारयेत् ।।
भैरवं लिङ्गमेवोक्तं भैरव त्वात् प्रतिष्ठितं ।
किन्तु स्थानं प्रकल्पीत निर्माल्य स्थान हेतुकं ।।
किन्तु चण्डेश्वरोनोवा स्वयोगे वर्जनञ्च तत् ।
न वर्जयेद् विशेषञ्च होमं चातुर्थकं न हि ।।
अतो निर्माल्यजो दोषो न भवेत् तत्र सुव्रते ।
नैवेद्य भक्ष्यभोज्यानि गन्धपुष्पाणि यानि तु ।।
तान्यशेषं सदा वापि न निर्माल्यं च दोद्भवं ।
चण्डेश्वरस्य ते नैव न दोषो दानलंघने ।।
भक्षणे धारणे वाथ पूततां नयते भृतं ।
विशेषसन्निधो यस्माच्चादिमध्यान्तकल्पितं ।।
तस्मात् सिद्धि कराणुभ्यश्चरुकं तन्नसंशयः ।
न दद्याद्गानलाग्निभ्यो दद्यात् समय पुवके ।।
तत्रापि सप्त चाहुती भैरवायेति पातयेत् ।
तद्गुणेन समायुक्ताः स्वाहान्तः प्रणवादिकाः ।।
पुनः प्रविश्य चान्ते तु चुम्बकः सुसमाहितः ।
देवस्यैशान दिग्भागे स्थित्वा वै जयते शतं ।।
महापाशुपतास्त्रं तु विधिच्छिद्रनिवारणं ।
ऊनातिरिक्तकर्मञ्च पूर्णं कुर्याद् विधिं सदा ।।
एव पाशुपतं जप्त्वा पठेच्छ्रावणकं पदं ।
क्रियाकालेथ हे नाथ यागकर्म कृताकृतं ।।
पूर्णं स्वशक्तिसंयोगात् करो तु परमेश्वरः ।
ततः शान्ति घटार्द्धैस्तु चुम्बको मूर्तिपैः सह ।।
कर्तारं स्नापयंत्येते तद्वर्गा मोक्षयन्ति च ।
दीक्षानिर्वाणिकाया च प्रोक्षणाद् भवते स्फुटं ।।
९९अ)
स्नापयित्वा ततो भूय कंकणं हेमजं शुभं ।
दक्षहस्ते तु दातव्यं दर्भजं चाप्यसम्भवे ।।
तेन तस्य प्रतिष्ठाख्यं फलं सम्यक् समर्पितं ।
भवते कारकस्यैव यथाशास्त्रस्य निश्चयः ।।
स्वकः शान्ति घटश्चैव पुनः पूर्व शिवं न्यसेत् ।
शिवतीर्थं च तत्कल्प्य सिञ्चेद्वस्त्रशतं भुवि ।।
निर्वाणार्थ तद्वर्गाणां मुक्त्यर्थं तीर्थकल्पना ।
शिवतीर्थं समन्तान्तु शतहस्त प्रमाणतः ।।
तस्मिन् स्थाने च ये सत्यः सन्यासेन म्रियन्ति वा ।
त्रिनेत्राः शिवतुल्यास्तु शिवलोकमवाप्नुयात् ।।
तस्माद् सत्य शिवं पूज्य प्रणम्याष्टाङ्गदण्डवत् ।
जानुभ्यामवनी गत्वा स्तुति पूर्वं नमेद् गुरुः ।।
प्रदक्षिण त्रयं कृत्वा पुनः कर्तृसमन्वितः ।
प्रणम्य च पुनर्भूयो यायाद्वै यागमण्डपं ।।
प्रतिष्ठा पीठमध्ये कर्ता आसन कल्पयेत् ।
सिंहासन शिविं वाथ द्विजनिर्मित हेमजं ।।
रौप्यजं ताम्रजं वाथ लोहजं दारुजावपि ।
चेत्रजं चर्मजं वाथ वस्त्रजं वा पटा वृतं ।।
पादौ गृह्य गुरोश्चैव प्रसादी कृत्य यत्नतः ।
विश्राम्यतं मुखासीनं मूर्द्धादौ पादयोन्ततः ।।
जानुभ्यामवनी गत्वा प्रणम्य च गुरुन्ततः ।
चन्दनाद्यैश्च संलिप्य दिव्यपुष्पैश्च पूजयेत् ।।
दिव्यवस्त्रयुगं सिद्धं दिव्यधूपैस्तु धूपयेत् ।
हेमालङ्काररत्नैश्च वस्त्रे भाश्वैश्च धेनुकैः ।।
विषयग्रामभूमेभिर्भृत्य कन्यादि वाहनैः ।
धान्यादि सस्यसंहातैर्महीषी चोरणादिकैः ।।
प्रभूतैर्दक्षिणैर्दिव्यैर्गुरुसंतोष्य यत्नतः ।
गुरोर्गौलक्षणोद्धारे स्वभ्रलेपे हिरण्यकं ।।
चलने रथयात्रायां भूरत्नञ्च प्रदापयेत् ।
तदन्ते वन्द्याः पूज्यस्तु दक्ष्यमूर्तिधरास्तथा ।।
स्थापकार्द्धार्द्ध तुल्या तु दक्षिणा परिकीर्तिता ।
९९ब्)
सुभ्रेषां मूर्तिपानाञ्च समं दानमुदाहृतं ।
साधकानां तदंशं तु हीनं दद्याद् वरानने ।।
पुत्रकानां तदर्द्धं तु तदर्द्धं समयीषु च ।
तत्पादूनं द्विजानां तु सहायानां तदर्द्धकं ।।
तदर्द्धवन्दिवृन्दानां भण्डानाञ्च तदर्द्धकं ।
यथाशक्त्या प्रदातव्यं दिनान्धकृपणैष्वेपि ।।
स्वगोत्रस्त्रीकुमारीणां मानयेत् भृत्यवान्धवान् ।
वन्धनस्थाण्च मोक्तव्यान हिंसेत् प्राणिन प्रिये ।।
भोजयित्वाग्रतो दानं विविधैर्भोजनैः प्रिये ।
भोजयेच्चुम्बकाद्यांश्च विशेषैः भोजनैः शुभैः ।।
सर्वकामान्ततो दद्याद्वलिम्वै सार्वकामिकं ।
तस्मादादौ शिवं पूज्य प्रणम्य च गुरुं ततः ।।
फलानुमोदनार्थाय विज्ञप्तिं कुरुते प्रिये ।
तत्प्रसादाच्च हे नाथ सर्वमेतत् प्रदर्शितं ।।
तस्यानुमोदना भूयो गुरुश्चैवानुमोदयेत् ।
मत्प्रसादात् समस्तं हि पूर्णलिङ्गात्मकं फलं ।।
यदिष्टसाधन वापि तत्सर्वं चानुमोदयेत् ।
मलस्यान्तर्गते भानौ ये दृष्टास्तु सरेणवः ।।
यावद्दार्थी ष्वकास्मानां लिङ्गवेदीध्वजादिषु ।
प्रमाणं तावत् तल्लोके स्थानास्थानात् परं व्रजेत् ।।
पिण्डान्ते ब्रह्मलोकन्तु प्रथमं याति कारणः ।
भोगान् तात्कालिकान् भुक्त्वा यात्यन्ते निष्कलन्ततः ।।
पूर्वापरकुलोद्धार्य द्विपक्ष्यैकसमन्वितं ।
पुष्कलञ्च धनन्दद्यात् पत्नीपुत्रसमन्वितः ।।
आत्मानं गुरवे चैव स्वपुण्यं विनिवेदयेत् ।
ततः तुष्टो गुरुः श्रीमान् शिवतत्व मनुस्मरन् ।।
संपूर्णं तत्समं कृत्वा वामहस्तेन पूजयेत् ।
गन्धपुष्पादिभिर्मन्त्री तच्छिरासतदर्घयेत् ।।
ततस्तु भावितात्मा च प्रणम्य च पुनः पुनः ।
तदिच्छायानुवर्ती च यावज्जीवन्तु वर्तयेत् ।।
प्रतिष्ठा कथिता धन्या स्थिराणां लिङ्गरूपिणां ।
चलानाञ्च तथैवेह कथयामि तवाधुना ।।
१००अ)
पिङ्गलोमते प्रतिष्ठापटलः ।।
भैरव उवाच ।।
अथापि संप्रवक्ष्यामि प्रतिष्ठाया चलस्य तु ।
द्विविधं तत्समाख्यातं सा पीठं पीठपिण्डितं ।।
पृथक् पीठं सपीठञ्च तत्समं पीठपिण्डितं ।
तत्समं द्विविधं भद्रे पूरितोत्कीरितं तथा ।।
जातपीण्डितलोहानां सिक्थकैर्भरितं मतं ।
स्फाटिकं मणिमुक्तं च प्रवालं रत्न पञ्चकं ।।
स्वयोनोत्कीरितं चैव श्रेष्ठंतजातपिण्डितं ।
स्वयोन्यभावतस्तेषां स्फाटिकाद्यं यदा भवेत् ।।
हैमाद्यैलोहजैः पीठं पृथक् कृत्वा प्रतिष्ठयेत् ।
मण्डपो द्विविधस्तेषां यागाख्यं स्नानमण्डपं ।।
पूर्वे च लक्षणो द्वार प्रोक्ता येषां हितास्तुते ।
लोहजांतरिमानान्तु लक्षणैः सहनिर्मितं ।।
अतो न प्राप्तस्तेषां हि तृतीयो मण्डपः प्रिये ।
मणिमुक्तप्रवालानां नेष्टं यतोर्चि सन्निधः ।।
स्थितोपि देवता सूर्यश्चन्द्रश्चन्द्रोधनाधिपः ।
विष्णुब्रह्मा तथानागा वरुणोवायुयमस्तथा ।।
पितरः पावकश्चैव रुद्रश्चैवाधि देवताः ।
सूर्यकान्ते स्थितः सूर्यश्चन्द्रकान्ते तु चन्द्रमाः ।।
वज्रे वै देवराजस्तु वैडुर्ये तु धनाधिपः ।
इन्द्रनीले स्थितो विष्णु पुष्परागे तु राक्षसाः ।।
पद्मरागे स्थितो ब्रह्मा प्रवाले च हुतासनः ।
मौक्तिकैवरुणश्चैव स्फटिके शङ्करस्तथा ।।
वायुर्मरकते चैव नागामाणिक्य जातिषु ।
महानीले पुनश्चैव सदा तत्र व्यवस्थितः ।।
तेनातिकान्तिजानां तुनोत् किरेत् लक्षणं वुधः ।
तथापिस्तपनागारे पूर्ववत्स्नपन क्रिया ।।
पञ्चगव्यादिकं स्नान पञ्चादिता दिवा प्रिये ।
निर्निर्ज्य पूज्यसंगे यै विविधैर्दिजवन्दिभिः ।।
विविधैवाद्यसंयुक्तैः कुमारीपतिभिस्तथा ।
सूयमानं नयैद्याग मण्डपं कुण्डसंयुतं ।।
१००ब्)
योगपीठं तु मध्ये तु चतुर्हस्तसमन्वितः ।
उच्छ्रयाष्टाङ्गुलं भद्रे नाधिकं नाणुकारयेत् ।।
सर्वेषां चललिङ्गानां मण्डपैकादशः करः ।
हस्तमात्रं भवेत् कुण्डं किन्तु संख्या च पूर्ववत् ।।
लक्षणं च तथा भद्रे दिग्विदिक्षु व्यवस्थितं ।
धारिका तोरणं चैव यद्वदादि मुदाहृतं ।।
दिक्पालानां तथान्यस्य कलसांश्च ध्वजांस्तथा ।
द्वारपालांस्तथा न्यस्य कुंडाष्टौ मूर्तिपांस्तथा ।।
सुवेश्याद्यन्तथात्मानं पूर्ववत् मूर्तिपांस्तथा ।
सुदिने ऋक्षवारे च तथा चैवाधिवासनं ।।
पद्यात्मनो भवेल्लिङ्गं चलाख्यं चैव सुव्रते ।
मण्डपे च प्रतिष्ठा वै तदात्रतांत्रिका क्रिया ।।
समान्ये चललिङ्गे च क्रियासामान्यपूर्ववत् ।
त्रितत्वाध्वान व्याप्तिश्च होम्यामूर्तीश्चरात्मभिः ।।
पूर्वजेन विधानेन ज्ञात्वा द्रव्य वलावलं ।
क्रियां पूर्वे च निष्पाद्य ततोस्थापनमाचरेत् ।।
पृथक् पीठं न्यसेत् पीठे ध्यात्वा ज्ञानक्रिये तथा ।
जातपीठे तथा किंतु अनानात्वव्यवस्थितं ।।
होमादिकां क्रियां कृत्वा पृथक्त्वेन तु कारयेत् ।
व्यापिन्यो धारशक्तिर्या ततःस्थं मासने क्वचित् ।।
लिङ्गमूलप्रदेशे तु पीठ चैव तु विन्यसेत् ।
शक्तित्रयञ्च द्रष्टव्यं मनन्तक्रियबोधया ।।
चलस्थिरं यतो ह्येतच्चललिङ्गमतोच्यते ।
मन्त्रन्यासं तथान्यस्य वक्त्रान्मान्यात्मनस्तया ।।
सुविन्यासं तथा कृत्वा गन्धपुष्पादिभिर्यजेत् ।
स्वेष्टं यदा तदा न्यास्य कुर्याद्वै विसर्जनं ।।
निसा तदा प्रतिष्ठा च तत्काले वीरभोजनं ।
तदुत्थैश्चरुकैर्दिव्यैः सर्वभक्षादिसंयुतैः ।।
सर्वान्नसहितैर्दिव्यैः सर्वमांसादिसंयुतैः ।
सर्वासवादिसंयुक्तैः सर्ववीरसमन्वितैः ।।
सर्वयोगिनिसंहैश्च नृत्यगेयमनोत्सवैः ।
नयेन्निशांसमस्ता हि प्रतिष्ठान्ते च सुव्रते ।।
१०१अ)
सामान्ये वा चले लिङ्गे दिवावास्थापनं हितं ।
स्वविद्याङ्गम्विसर्जाथ तन्माणुन्यसेत् प्रिये ।।
किन्तु चण्डेश्वरो नैव चललिङ्गे तु सर्वदा ।
नात्र चतुर्थिका होमो न द्वैतं कल्पयेत् प्रिये ।।
नावाहनं विसर्जनं मन्त्रस्यास्यैव सर्वदा ।
नास्यनिर्मल्यजा दोषो दाने वा लंघनेपि वा ।।
भक्षणे धारणे वापि चरुके च हि सर्वदा ।
स्वेष्टवान्यस्य यद्दत्तं चरुकं तं न संशयः ।।
तत् प्रासायत् स्वयं प्रज्ञा नान्यस्मैव प्रकल्पयेत् ।
न दद्याङ्गा जलाग्नि दद्यात्वै नरकं व्रजेत् ।।
प्रनुतं यागकाले तु नैवेद्यं यदि सुव्रते ।
तदा वै भ्रातृपुत्राणां भगिनीष्वथ दापयेत् ।।
तद्गड्डुका प्रदाने च पूजाकाले तु प्रदापयेत् ।
प्रागासनं प्रतिष्ठाप्य पत्रपुष्पैर्यथाहितं ।।
पीठे वा स्थंडिले वापि पक्वे?ष्टेशिलेथ वा ।
मण्डले चापि यष्टव्यं न तु भूम्यां कदाचन ।।
अभावादथवस्त्रार्द्धं स्थिते वाथकरण्डके ।
स्वपरिग्रहलिङ्गं तु लोकानां नैव दर्शयेत् ।।
यागेश्वरञ्च सामान्यं यागे चैव तु पूजितं ।
लोकानान्दर्शयेत् प्राज्ञः सत्वानुग्रहहेतुकं ।।
दीक्षाकाले च देवेशे शिष्यसंकारकर्मणि ।
स्थापयेद्गुप्तगोप्यञ्च मुद्गकेथकरण्डके ।।
फरुके वाथवेक्किणि वेत्रजेथ करण्डके ।
दानादिकं यथापूर्वं चुम्बुकादेस्तु दापयेत् ।।
वन्दनं पूजनं चैव कर्तश्चैवानुमोदनं ।
वलिदानफलञ्चैव प्रतिष्ठाप्य समर्पणम् ।।
पूर्ववत् सर्वमेवं तु विधिमेनं समाचरेत् ।
एवं सर्वसमासेन चललिङ्गस्ययो विधिः ।।
कथितन्ते वरारोहे यथाशास्त्रस्य निश्चयः ।
इदानीसंप्रवक्ष्यामि मुखलिङ्गे तु यो विधिः ।।
मुखलिङ्गे प्रतिष्ठाया साधना तव कथ्यते ।
पूर्ववत् मण्डपस्तेषां त्रयं चैव प्रकल्पयेत् ।।
१०१ब्)
स्नानादिकं विधिं कृत्वा पूर्ववत् स्नानमण्डपे ।
आनयित्वा ततो भूयो लक्षणे द्वारमण्डपे ।।
निनिर्ज्य पूज्यसंगे यैर्दृगुन्मीलनमाचरेत् ।
आचार्योन्मीलयेच्चक्षु पुराहेमशलाकया ।।
शिल्पी चैव ततः पश्चाच्छस्त्रेणैवोत्कीरेच्छनैः ।
मृत्युजिन्मंत्र भृन्मंत्रीमधुनाज्येन पूरयेत् ।।
भद्रपीठस्थितं कृत्वा वाद्यगेयादिकोत्सवैः ।
रथस्थं यंत्रित कृत्वा नगरान्त प्रदक्षिणं ।।
प्राक्तनेन विधानेन यागमण्डपमागते ।
अष्टाङ्गार्घ निवेद्याथ पूर्ववच्चाधिर्वासयेत् ।।
पीठं तृखण्डशः कृत्वा तत्वन्यासम्त्वतोच्यते ।
मध्ये सदाशिवं न्यस्य प्रागीश्वरं तु विन्यसेत् ।।
आग्नेययां विन्यसेद् विद्यां याम्ये मायां च विन्यसेत् ।
नैर्-ऋत्यां कालतत्वन्तु वारुणे नियतीं न्यसेत् ।।
रागतत्वन्तु वायव्यां भूतत्वं सौम्यगोचरे ।
प्रधानं त्वीशदिग्भागे पूर्ववत् मूर्तिशाधिपाः ।।
न्यस्तव्यास्तु वरारोहे मूर्तिशक्ति समन्विता ।
पञ्चब्रह्मन्यसेद् भूयमद्याप्येवामसौम्यगे ।।
दक्षिणे घोरराजानं पूर्वे तत् पूरुषं न्यसेत् ।
इशानं मध्यतो न्यस्य ततः शययादि कल्पना ।।
किन्तु सययापरिदेवि भद्रपीठस्थितं तु तत् ।
उभ्रञ्चैव तथा भद्रे होमयेच्चानुपूर्वशः ।।
कुण्डाष्टकविधानेन मूर्तिपैः सह चुम्बकैः ।
त्रितत्वकपना तद्वत् किंतु वृत्तेनाथा भवेत् ।।
सदाशिवं न्यसेत् तत्र पंचवक्त्र महातनुं ।
एकत्रिचतुर्वक्त्राणां सामान्यविधिमाचरेत् ।।
द्विदलापिण्डिका चैव तथा तामधिवासयेत् ।
एवन्निवर्तयित्वा तु क्रियाहोमजपादिकं ।।
नीत्वा प्रासादमध्ये तु पूर्ववत् स्थापनमाचरेत् ।
स्थापयित्वा ततोनाथं रोपये द्विदलां क्रियां ।।
कीलकैः सन्धितां कृत्वा निर्विष्टः पूर्वजैर्द्धनैः ।
योनिमध्ये दलं संध्यः करालैः पूर्वनिर्मितैः ।।
१०२अ)
पञ्चगव्यादिभिः स्नाप्य गन्धपुष्पादिभिर्यजेत् ।
होमं चातुर्थिकं कृत्वा चण्डकल्पनवा प्रिये ।।
स्वविद्यांगं विसर्ज्यार्थ न्यसेद् ब्रह्मान्यनुक्रमात् ।
अनन्तासनं प्रकल्प्यादौ धर्मज्ञानं तथैव च ।।
वैरागैश्वर्यकं न्यस्य अधर्माज्ञानकं न्यसेत् ।
अवैराग्यं तथान्यस्य अनैश्वर्य तथैव च ।।
अधस्थदनकं न्यस्य च्छदनोर्द्धन्तथैव च ।
पद्मोपरिसुविन्यस्य वामाद्याः शक्तयो न्यसेत् ।।
विल्वीचाद्यास्तथा न्यस्या मूर्तिवद्वृत्तकल्पना ।
क्रिया तु पीठमेवोक्तं पीठचासन उच्यते ।।
आसनात् क्रिया निष्पत्तिः क्रिया हि फलदा यतः ।
प्रणवेन समस्तं हि आसनं कल्पयेत् प्रिये ।।
अत्रासीनः सुरेशानो मूर्तिभूतः स्वयं प्रभुः ।
सद्यमष्टकलायुक्तं न्यसेद् वक्त्रे तु पश्चिमे ।।
त्रयोदशकलावामं सौम्यवक्त्रे तु विन्यसेत् ।
घोरं चाष्टकलोपेतं दक्षवक्त्रे तु विन्यसेत् ।।
चतुष्कलं नरन्देवि पूर्ववक्त्रे तु विन्यसेत् ।
इषं पञ्चकलं वृत्ते मध्योर्द्धे चैव विन्यसेत् ।।
अघोरो हृदयं तस्य शिरस्तत् पुरुषोच्यते ।
इशानश्च शिखातस्य वामोवर्म उदाहृतः ।।
अस्त्रं वै सद्य देवस्तु ज्ञानशक्तिस्त्रिलोचनं ।
सामान्येन तु विन्यस्य गन्धपुष्पादिभिर्यजेत् ।।
विशेषं चेतस्व शास्त्रे च संज्ञाभिः प्रविवेचितैः ।
आसनाद्यञ्च देवेशे वक्त्रांगानि च लोचनं ।।
पूर्वापरमुखं चैव स्थापयेत् तच्चतुर्मुखं ।
प्राङ्मुखां प्राङ्मुखं त्रिमुखञ्चैव सद्य वक्त्रं उदान हि ।।
पश्चान्मुखे त्रिमुखे वा नरवक्त्रं न कारयेत् ।
प्राङ्मुखं चैक वक्त्रं च तदा नर विकल्पना ।।
आप्ये सद्यैक वक्त्रञ्च कल्पितव्यं न संशयः ।
शेषाणि तद्दिशापाद्य वक्त्राणां चैव कल्पना ।।
स्थिराद्यहुति सप्तं च होमयित्वा तु भाविनि ।
१०२ब्)
दिग्वलिं च ततो दत्वा दानभोज्य पूर्ववत् ।
वंद्यपूजानुमोदञ्च तथा फलसमर्पणं ।।
एतन्ते कथितं सर्वं व्यक्ताव्यक्तस्य यो स्थितिः ।
भैरव उवाच ।।
प्रतिमाव्यक्तरूपाणां प्रतिष्ठायाधुनोच्यते ।
मण्डपाः पूर्ववत् कार्या त्रयश्चैव न चित्रिते ।।
चित्रिते च द्वयं कार्यं लक्षणोद्वारसंयुतं ।
दारुजं पट्टजं चैव चित्रितं तन्नसंशयः ।।
शैलजं लोहजं चैव चित्रहीनं सदा भवेत् ।
सदा स्नान क्रिया तेषां चित्रिते च सदा न हि ।।
हस्तैकादशचादौ तु सप्ता विशांत सुव्रते ।
मण्डपाः पूर्ववत् कार्या द्वारहस्त कृतात्मना ।।
धारिकास्तोरणं चैव पूर्ववत् परिकीर्तितं ।
एकत्रिंशत् करेणैव मण्डपः कन्यसः प्रिये ।।
महाप्रतिमकल्पानां मन्तात् कथितं प्रिये ।
दशसप्तकराश्चैव धारिकास्तोरणैः सह ।।
चत्वारिंशत् करैकेन मण्डपो मध्यमः स्मृतः ।
एकोन विंशद्वस्तास्तु धारिकास्तोरणम् भवेत् ।।
महाप्रति समध्यस्य कथितस्तवनान्यथा ।
एकपञ्चाशद् हस्तेन मण्डपश्चोत्तमः प्रिये ।।
एकविंसत् करेणैव धारिकास्तोरणानि च ।
पंच षट् सप्तहस्त तु रोपणं चानुपूर्वशः ।।
पीठमध्ये प्रकर्तव्यं त्रिपञ्चकरकन्यसे ।
षोडशांगुलमुच्छ्रेधं समन्ताद् दर्पणे वहि ।।
मध्यमो विंशद्धस्तेन विंशांगुलसमुच्छ्रयं ।
पञ्चविंशत् करेणैव पीठं चैवोत्तमं भवेत् ।।
हस्तमात्रोच्छ्रयं भद्रे कुण्डद्विकरकं न्यसेत् ।
मध्यमे त्रिकरं चैव चतुर्हस्तोत्तमे कुरु ।।
रूपं तेषां च संख्यां च पूर्ववत् परिकल्पयेत् ।
प्रतिमा सैलजादीनां मण्डपे स्नानसंज्ञके ।।
पूर्ववस्नपनं कृत्वा नेतव्यालक्षणात्मके ।
निर्नीज्यपूज्यसंगेर्यैर्नेत्रान्मीलनमाचरेत् ।।
पूर्वजेन विधानेन चुम्बकस्सह शिल्पिभिः ।
चित्रभानां तथैवेह दृगुन्मीलनकं भवेत् ।।
१०३अ)
मसिनामर्दितां कृत्वा लेखन्या च समुद्धरेत् ।
किं तत्र न पूर्येतमधुनाज्येन भाविनि ।।
मृत्युजिन्मन्त्रराजेन अन्तरीक्षे च कल्पयेत् ।
भद्रपीठस्थितां कृत्वा रथस्थां च सुयंत्रितां ।।
पूर्वजेन विधानेन नगरान्तः प्रदक्षिणं ।
यागमण्डपमानीय कृतस्वस्त्यादि मङ्गलैः ।।
अष्टाङ्गार्घं निवेद्याच्च प्रणवेनावतारयेत् ।
उक्तानुक्तं तु यत्किञ्चित् तत्सर्वं प्रणवेन तु ।।
शययादिकं ततः कल्प्यप्राङ्मुखं यत्र कल्पना ।
पीठस्य पश्चिमे भागे सारदारुमयं हि सः ।।
कीलकद्वयरोप्यञ्च तिर्यगेका च पट्टिका ।
पश्चिमाभिमुखं वाथ प्रसादे पश्चिमा मुखे ।।
नोर्द्धस्थं धारयेत् तत्र भद्रपीथस्थितं महत् ।
प्राङ्मखे च वरारोहे प्रतिमा चापि वासयेत् ।।
द्विहस्ताधस्तु व्यक्ताना सुभ्रं चैवाधि वासयेत् ।
पीठं त्रिखण्डशः कृत्वा तत्व न्यासस्ततोच्यते ।।
सदाशिवस्य देवस्य निधनीशस्य भाविनि ।
श्रीकण्ठस्य च रूपस्य महादेवस्य सुव्रते ।।
भैरवे विघ्नराजस्य षण्मुखस्य च भृंगिनः ।
चामुण्डादेश्च दुर्गाया गौर्यादीनां च या मता ।।
नाथमध्यादितः कृत्वा न्यसेत् तत्वान्यत्र क्रमात् ।
मुखलिङ्गविधानेन मूर्तिशक्त्यन्तकं न्यसेत् ।।
केशवस्य तु रूपस्य न्यास तत्व मतोच्यते ।
विद्या माया कलाकालनिपत्यशुद्धविद्यया ।।
रागं च पुरुषं चैव प्रधानञ्च न्यसेत् क्रमात् ।
एकमूर्तिर्भवेद्विष्णुब्रह्मादीनाम्वरानने ।।
अष्टमूर्त्यादिकांश्चैव कल्पना चैव कारयेत् ।
ब्रह्मरूपस्य देवेशे तत्वन्यासमतोच्यते ।।
प्रधानं मध्यतो न्यस्य त्रैगुण्य पूर्वतो न्यसेत् ।
हंकार पावके न्यस्य दक्षिणे बुद्धिसंज्ञकं ।।
नैर्-ऋत्यान्तु मनोन्यस्य बुद्धीन्द्रियाणि वारुणे ।
१०३ब्)
तिर्यगे तु वरारोहे न्यसेत् कर्मेन्द्रियाणि च ।
तन्मात्राण्युत्तरे न्यस्य भूतानि वेशगोचरे ।।
अनेनैव विधानेन देवराजादिकं भवेत् ।
कुण्डाष्टकविधानेन मूर्तिपैः सह चुम्बकः ।।
होमं चैव प्रकर्तव्यं सर्वसामान्य देवतां ।
आत्मतत्वैकमात्रं तु ब्रह्मांतानां प्रकीर्तिता ।।
आत्मविद्ये द्वयं तत्वं विष्णोश्चैव विकल्पयेत् ।
तत्वत्रयं न्यसेद् रुद्रे नाथाद्यां शिव संभवा ।।
तेषाञ्चैव तु यत्पीठं शक्तिद्वयविलक्षितं ।
स्वभ्रान्तधारिकां कल्प्य पीठोर्द्धे च क्रियात्मिका ।।
देवीनां चैव यत्पीठं शक्त्यानंतैक कल्पना ।
क्रियारूपा भवेत् साक्षात् प्रतिमाज्ञानसमन्विता ।।
कृत्वाधिवासनं चैव प्रतिमापीठसंयुतं ।
पीठं नीत्वाग्रतश्चैव प्रासादे सुरसुन्दरि ।।
यासां स्नानादिकं प्राप्तं तासामध्ये निवेशनं ।
गर्भमध्ये तु देवेशे चित्रं भित्ति युतं न्यसेत् ।।
प्रतिमान्तां पुननीत्वा न्यसेत् पीठे तु पूर्ववत् ।
सुविन्यासं ततः कृत्वा गन्धपुष्पादिभिः यजेत् ।।
यासां रूपविनाशस्तु तांसां चाधः क्रिया भवेत् ।
होमं चातुर्थिकं चैव चण्डेश्वरविकल्पना ।।
प्रतिमानाञ्च सर्वासां न प्राप्ता तु विशेषतः ।
स्वविद्याङ्गविसेज्याथमन्त्रन्यासं शृणु प्रिये ।।
आसनं पूर्ववत् कल्प्य वा वाह्यं शिवसंभवात् ।
पञ्चब्रह्मं न्यसेत् नाथे पूर्ववक्त्रादि योगतः ।।
अनन्तीशस्य यो मंत्रं कथयामि ते । ओं अं अनन्तीशाय स्वाहा ।।
अनंतीशस्यावाहनं मन्त्रः ।
अकारं षड्विधं कृत्वा तारकादि विभूषितं ।
षज्जात्यंतसमोपेतं षडङ्गानि प्रकल्पयेत् ।।
ओं श्रौं श्रीकंठाय स्वाहा । श्रीकंठस्यो वाहनमन्त्रः ।
श्रीकारं षड्विधं कृत्वा षडङ्गानि च पूर्ववत् ।
ओं मां महादेवाय स्वाहा ।
महादेवस्या वाहनमन्त्रः ।
१०४अ)
नकारं षड्विधं कृत्वा षडङ्गानि च पूर्ववत् ।।
ओं भौममहाभैरवाय स्वाहा । भैरवस्या वाहनमन्त्रः ।
भकार षड्विधं कृत्वा षडङ्गानि च कल्पयेत् ।
ओं गौं गणपतये स्वाहा ।।
गकारं षड्विधं कृत्वा षडङ्गानि प्रकल्पयेत् ।।
ओं कौं कार्तिक कुमाराय स्वाहा । षण्मुखस्या वाहनमन्त्रः ।
ककारं षड्विधं कृत्वा षडङ्गानि प्रकल्पयेत् ।।
ओं आं खथोल्काय स्वाहा । आदित्यस्या वाहन मन्त्रः ।
आकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।।
ओं नौं नन्दिकेश्वराय स्वाहा । नन्दिकेश्वरस्या वाहनमन्त्रः ।
नकारं षड्विधं कृत्वा तस्याङ्गानि भवन्ति हि ।।
ओं मो महाकालाय स्वाहा । महाकालस्या वाहनमन्त्रः ।
मकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।।
ओं भों भृङ्गिरिटये स्वाहा । भृङ्गिनश्चावाहनमन्त्रः ।
भकारं षड्विधं कृत्वा तस्याङ्गानि भवन्ति वै ।।
इन्द्रादीनाञ्च वरारोहे यथापूर्वमुदाहृतं ।
लरशषवयसश्च हकारश्च त्रिमातृकाः ।।
ओं चौं चामुण्डायै स्वाहा । चामुण्डा वाहनमन्त्रः ।
वकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।।
ओं इं इन्द्राण्यै स्वाहा । इन्द्राण्या वाहनमन्त्रः ।
इकारं षड्विधं कृत्वा तस्याङ्गानि भवन्ति वै ।।
ओं वौं वां राह्वै स्वाहा । वाराह्या वाहन मन्त्रः ।
वकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।।
ओं वौं वैष्णव्यै स्वाहा । वैष्णव्या वाहनमंत्रः ।
वकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।।
ओं कौं कौमार्यै स्वाहा । कौमार्या वाहन मन्त्रः ।
ककार षड्विधं क्र्त्वा तस्याङ्गानि प्रकल्पयेत् ।।
ओं मौं महेश्वर्यै स्वाहा । माहेश्वर्यो वाहनमन्त्रः ।
मकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।।
ओं श्र्यों श्रियायै स्वाहा । श्र्यावाहन मन्त्रः ।
श्रीकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।।
१०४ब्)
ओं नौं इं अर्द्धनारीश्वराय स्वाहा । अर्द्धनारीश्वरावाहनमन्त्रः ।
नं इं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।
ओं हौं शौं हरिशंकराय स्वाहा । हरिशंकरावाहनमन्त्रः ।
हंशं तु षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।
ओं ओं मों उमामहेश्वराय स्वाहा । उमामहेश्वरावाहनमन्त्रः ।।
उमंतु षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।
पृथक् कृत्वा न्यसेद् वापि यतोत्सङ्गविवर्तिनी ।।
ओं वौं वं वैष्णवे स्वाहा ।। विष्णोरावाहनमन्त्रः ।।
वकारं षड्विधं कृत्वा तस्यानि प्रकल्पयेत् ।
ओं वौं ब्रह्मणे स्वाहा ।। ब्रह्मावाहनमन्त्रः ।।
व्रंकारं षड्विधं कृत्वा तस्यानि प्रकल्पयेत् ।
पुन व्रं तुर्यवत् कृत्वा वक्त्राणि तस्य वै ।।
ओं रौं रेवताय स्वाहा । रेवन्ता वाहनमन्त्रः ।
रकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।
ओं नौं नागराजाय स्वाहा । नागराजावाहनमन्त्रः ।
नकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।।
ओं पौं पितृदेवाय स्वाहा । श्मशाने पितृदेवतावाहन मन्त्रः ।
यकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।
आसनं चैव सर्वेषां तारकेण प्रकल्पयेत् ।।
येषां यत्तत्वमध्वान तत्तदेवाज्जमूर्द्धतः ।
मूर्तिवक्त्राङ्गविन्याशः कर्तव्यञ्च यथाविधिः ।।
यद्व्याप्तो देवता या तावद्व्याप्तौ सन्निधी कृताः ।
सामान्ये वा चतुर्थी च होमे चैव तु कारयेत् ।।
वलिपूर्वं गन्धपूर्वं गन्धपुष्पादि पूजनं ।
भोजनं चुम्बकादीनां दक्षिणाद्यन्तथैव च ।।
चन्दनं पूजनं चैव फलं चैवानुमादनं ।
तत्सर्वं पूर्ववद् देवि कर्तव्यञ्च विपश्चिता ।।
तूराणान्तु प्रतिष्ठा वै ततोद्देशान्तु कथ्यते ।
स्वशास्त्रनिर्मितं रूपं विधानं तद्विवेचितं ।।
१०५अ)
मंत्रैश्चैव महेशानि स्वशास्त्रे तु विवेचितैः ।
यागे वा स्थण्डिले वापि मन्त्रन्यासः स्वयं भवेत् ।।
स्वगुरुम्वाथविज्ञाप्य तेन कृत्वा प्रतिष्ठयेत् ।
मूर्तिमन्त्रां न्यसेत् तत्र आसनं पृथक् कल्पना ।।
मन्त्रसन्धानकं कृत्वा वक्त्राङ्गानि च कल्पयेत् ।
एवं संचोदितं कल्प्य सन्निधत्वं स्थिर तत्वतः ।।
आवाहनं विसर्जनं सदा तत्र न कारयेत् ।
पूजाकाले सदामन्त्री आसनाद्यं प्रकल्पयेत् ।।
स्थण्डिले मण्डले वापि पीठे वा दिव्यकल्पिते ।
तदूर्द्धन्तु न्यसेत् वा च गन्धपुष्पदिनार्चनं ।।
पटे वाथ प्रतिष्ठाया मासनादि समन्विता ।
अन्तरीक्षे तु सन्धार्य गन्धपुष्पाद्यधो क्रिया ।।
येषां रूपविनाशो हि धूपमात्र प्रदर्शनं ।
पुनर्वस्त्रेणसंछाद्य सदा षट्सु लक्षणं ।।
ध्यानकाले च नित्यं हि पटोघाद्य सुचिन्तयेत् ।
यक्षरक्षपिशाचानां प्रतिष्ठायां वरानने ।।
स्वनाममस्त्रैस्तेषां हि प्रवादि नमोन्तगैः ।
व्याप्तिस्तेषाम्वरारोहे पार्थिवान्ते तु कल्पना ।।
भैरव उवाच ।।
प्रतिष्ठां वाणलिङ्गस्य कथयामि तवाधुना ।
पूर्ववत् स्नपनं कृत्वा मण्डपस्नानसंज्ञके ।।
मीतवाद्योत्सवाद्यैस्तु नगरान्तः प्रदक्षिणं ।
कृत्वा चानीययागाख्ये मण्डपै कुण्डसंयुते ।।
चोक्तेन विधानेन पूज्य हुत्वा तु व्याहृतिं ।
स्वेच्छयाथाविभूत्यर्थं शोध्यं नैवाविमुक्तये ।।
नीत्वा प्रासादमध्ये तु स्वविज्ञानेन स्थापयेत् ।
पिण्डिका चाग्रतः स्थाप्य कृषं यद्यधो वाणकं ।।
उर्द्धे कृशं यदावाणं क्रियां पश्चात् प्रकल्पयेत् ।
मूर्तिलक्षणसूत्राणां कृत्वा चाभ्रमणादिकं ।।
विधिनोक्तो यतस्त्वेथ सन्निधो नित्यमेव च ।
पिङ्गलोवाच ।।
१०५ब्)
वाणशब्दः कथं प्रोक्तः कोवावाणेति कीर्तितः ।
कस्मिन् स्थाने तु तद्ग्राह्यमेतत्सर्वं व्रवीहिमे ।।
भैरव उवाच ।।
साधु साधु महाभागे यत्वया चोदितो ह्यह ।
कथयामि न संदेहो यथाशास्त्रस्य निश्चयः ।।
वाणासुरः पुराभद्रे शीवस्यातीववल्लभः ।
जितक्रोधोनुरक्तश्च शिवपूजाविधौरतः ।।
बुद्धिज्ञानिपुणश्चैव शिल्पज्ञलक्षणान्वितः ।
दिने दिने स्वयं कृत्वा लिङ्गस्थाप्य प्रपूजयेत् ।।
एवं यावच्छतं चाब्दं दिव्यमानेन पूजयेत् ।
तदातद्भक्तिमुत्क्षेप्यं त्यक्त्वाजातशङ्करः ।।
शंकर उवाच ।।
तुष्टोहं तव हे वाण वरं ब्रूहि किमिच्छसि ।
शङ्करस्य वच श्रुत्वा वाणोवचनमव्रवीत् ।।
यदि तुष्टोसि हे नाथ मदर्थे मन्दभागिने ।
क्लिष्टोह देवदेवेश लिङ्गकार्ये दिने दिने ।।
तच्च लक्षणसंसिद्धिं लक्षणं शास्त्रनिर्मितं ।
शास्त्रार्थं दुर्लभं देव सिद्धेश्चार्थः सुदुर्लभाः ।।
तस्माद् यदि मे तुष्टस्त्वं लिङ्गन्देहि स लक्षणं ।
सर्वकारुणिकं नाथ सर्वसत्वानुकम्पक ।।
सर्वेषां च हितार्थाय प्रसादं कुरु शङ्करः ।
श्रुत्वैवं वचनन्तस्य शिवः परमकारणः ।।
गत्वाकैलासमूर्ध्नि तु वाणेन सहसुन्दरि ।
निर्मिता लिङ्ग कोटीना संख्या चैव चतुर्दशः ।।
सिद्धलिङ्गन्तु तत्सर्वं सदोदयस्वयंभुवः ।
आपाद्यैव सुसंपूर्णं वाणस्य च समर्पितं ।।
अक्षयं चाव्ययं वाणं स्थाप्य मानञ्च नित्यशः ।
ततः समूह्यवाणस्तु भारकृत्वा प्रयत्नतः ।।
स्वपुरै नीत्वातं भारं भूयश्चिन्तयते शुचिः ।
अक्षयं परिसंसिद्ध स्थाप्यमानं दिने दिने ।।
सत्वानां सिद्धि हेत्वर्थं पुण्यस्थाने तु सञ्चयेत् ।
लिङ्गादौ च वरारोहे सञ्चितास्तिश्रकोटयः ।।
श्रीशैलेस्तिश्रकोट्यस्तु कोट्यैकाकन्यकाश्रमे ।
(कालिकागर्थनागन्धायं चितास्त्रिसु कोटयः । ठिस् लिने इस् बोत्तोम् ओf पगे)
१०६अ)
अमरेश्वरैक कोटिस्तु कन्यातीर्थैक कोटि च ।
महेन्द्रे कोटिरेका च नेपालकोटिसंस्थिता ।।
वाणार्थं तनु(?) स्मृतं लिगं वाणलिङ्गमथोच्यते ।
वाणो वा शिव इत्युक्तं तत्कृतवाणमुच्यते ।।
अकृतत्वादथवाणं स्वतो लिङ्गानुरूपतः ।
तस्मात् तेषु प्रदेशेषु पुण्यस्थानोन्यथापि वा ।।
स्थितं यच्छिव सद्भावं विशे *? कृतिविग्रहं ।
सततोदितनिर्गतं शुद्धाशुद्धोदय स्मृतं ।।
पीठस्थं पीठमुक्तम्वा शक्तिस्थं शक्तिवर्जितं ।
यत्र तत्र स्थितं वाणं मन्त्रजं मन्त्र वर्जितं ।।
संस्कृतं चुम्बके नाथ येन तेन प्रतिष्ठितं ।
भुक्तिमुक्ति प्रदं नित्यं अन्यद्वा सफलं भवेत् ।।
चल स्थिर विभूत्यै च स्थाप्य चित्सन्निधः सदा ।
चतुर्थी होमेन प्राप्तं चण्ड नैव प्रकल्पयेत् ।।
विशेषाध्वा च यन्नोक्तं न च विसर्जनन्तथा ।
मन्त्रसाधनयोगेषु साधकैः संप्रतिष्ठते ।।
आश्व?सिध्यन्ति मन्त्रास्तु तस्मिन् नैव न संशयः ।
विधिः स्यात् पूर्वतो यद्वत् तद्वदत्र भवेन्नवा ।।
प्रागन्यैः संस्कृते वाणै पुनरेव विधिं स्वकं ।
कृत्वान्यासं प्रकुर्वीत स्वमन्त्रैश्चैव सुव्रते ।।
न दोषभाग्भवत् तत्र सर्वसाधारणं यतः ।
वामामृतादिभिर्द्रव्यैरन्यैर्वा तंत्र चोदितैः ।।
क्रियां कृत्वा प्रसिध्येत न तत्र दोषभाग् भवेत् ।
सिद्धान्तमंत्रसंयुक्ते स्वांसेन्यस्तेन शङ्करं ।।
तस्मिन्न्यासो यतो लिंगे चित्स्थिरो हि सदा भवेत् ।
तथा लिङ्गाकृतौ रोहे नदी प्रस्र?वणोद् भवेत् ।।
अन्यशैलभवे चैव वाणवाणद्विधिरुच्यते ।
विशेषाकृतयोर्यस्मात् कर्तव्यं तत्र देशिकैः ।।
तत्र न्याशं कृते मन्त्रैर्विशेषः सन्निधो भवेत् ।
सहस्राङ्के तथा लिङ्गे शतलिङ्गे तथैव च ।।
१०६ब्)
पूर्ववत् स्थापनं चैव त्रितत्वं च यथापुरा ।
यावन्तो लिङ्गसंख्यास्तु तावत् तत्र शिवं न्यसेत् ।।
कृत्वा समस्तकं भिन्नं चेतासंस्थापनं तथा ।
लिङ्गे लिङ्गे न्यसेत् भूयो ज्ञानशक्तिं सदोदयां ।।
क्रियाशक्त्यैक सर्वेषां धारणी त्वेक कल्पना ।
चतुर्थी चण्ड कुप्तिस्तु(?) पूर्वजेन भवेन्नवा ।।
सामान्ये वा विशेषे च स्थापयेत् सिद्धिकर्मणि ।
रौद्राणां स्थापनं यच्च गुणाकन्दरगह्वरे ।।
यस्मात् तत् पिण्डिकाधिक्यं तस्मात् तच्च विलोमदं ।
यस्माद्विलोमदन्देवि तस्मान्नान्यत्र स्थापयेत् ।।
सर्वदास्थिरमेतन्तु वलं रौद्रं न कारयेत् ।
तेषामपि वले यद्वन्न्यासोक्तः सिद्धि कर्मणि ।।
चतुर्थी चण्डकृप्तिस्तु आवाहनविसर्जनं ।
न प्राप्तं तत्र देवेशे सिद्धिदं तु यतः स्मृतं ।।
मनःशिवोथस्थाप्य जातपीठे च वलवत् ।
धारणीमात्रसंकल्प्य तत्पीठे च सुरेश्वरि ।।
ज्ञानशक्तिं न्यसेत् लिङ्गे मोक्षमात्रप्रदन्तु तत् ।
तत्पूज्यं पुत्रकैरेव संखंश्वरैर्भक्तितम् तथा ।।
साधकाचार्ययोर्नै निष्क्रियं वोधमात्रकं ।
पार्थिवस्य च पक्षस्य शैलवद्विधिमाचरेत् ।।
अपक्वस्य तथा किन्तु स्थितस्थापनमाचरेत् ।
पीठपिण्डितवद्भद्रे वलं यद्वद्रुदाहृतं ।।
मूर्द्धिवकनिविष्टानांमहन्यहनिकारयेत् ।
स्वलक्षणं न्यसेन् मन्त्रां किन्तु स्याद्वामवर्जितं ।।
आत्मस्थं तु पुनः कृत्वा पुष्पैः सह विसर्जयेत् ।
एकादि * *? संस्थाने वसुलिङ्गाधिके क्रमात् ।।
मूलमध्ये प्रतिष्ठाप्य मूले चण्डविकल्पना ।
शेषाणां स्थापनं चैव मध्यावरणकादितः ।।
पृथक् कुण्डं न तेषां हि मूले कल्पित कल्पितं ।
लोकपालार्चितानाञ्च पूर्वजे च विधि *? था ।।
सामान्येन विशेषेण स्थाप तद्विधामतं ।
१०७अ)
भोगमोक्षप्रसिद्ध्यर्थं सर्वसामान्यकीर्तितं ।
दिशासाधनलिङ्गानां स्थापनञ्च शृणु प्रिये ।।
मण्डपे चतुरश्रे तु कुण्डे तु चतुरश्रके ।
सर्वपीतोपचारेण वस्त्रपुष्पादि लेपनैः ।।
शनिवार दिने चैव योगे विष्कम्भ चक्रके ।
ऋक्षे चैवोत्तरे त्रीणि स्थापयेद्वक्र संज्ञकं ।।
मन्त्रांस्तस्य प्रवक्ष्यामि यैर्मन्त्रैः सन्निधो भवेत् ।
ओं लौं? वज्रेश्वराय लः स्वाहा ।।
लंकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।
मण्डपे योनि रूपे च योनि कुण्डे च तद्दिशि ।।
सर्वरक्षोपचारेण वस्त्रपुष्पविलेपनैः ।
भूसुतेन तु वारेण योगचण्डे च सुव्रते ।।
भरण्याद्रे च ऋक्षेण स्थापयेछक्तिसंज्ञकः ।
मंत्रांस्तस्य प्रवक्ष्यामि यैर्मन्त्रैः सन्निधो भवेत् ।।
ओं रौं शक्तीश्वाराय रः स्वाहा ।
रंकारं षड्विधं कृत्वा तस्यानि प्रकल्पयेत् ।
अर्द्धचन्द्राकृते चैव मण्डपे कुण्डखण्डके ।।
तद्दिशायां वरारोहे सर्वकृष्णापचारकैः ।
वस्त्रपुष्पविलेपेन स्थापये दण्डसंज्ञकं ।।
वारेणैव तु शुक्रेण मन्त्रयोगेन सुव्रते ।
पूर्वादि त्रय ऋक्षेण विपन्तारेण कल्पयेत् ।।
मन्त्रांस्तस्य प्रवक्ष्यामि यैर्मन्त्रैः सन्निधो भवेत् ।
ओं स्रौं दण्डेश्वराय सः स्वाहा ।।
संकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।
वारेणैव तु शुक्रेण गण्डयोगेन सुव्रते ।।
पूर्वादि त्रय ऋक्षेण रविवारेण कल्पयेत् ।
त्रिकोणे मण्डपे चैव कुण्डे चैव त्रिकोणके ।।
तद्दिशि जुहुयात् प्राज्ञ शनिवारेण सुव्रते ।
विष्टिनाशूलयोगेन मूलाद्राभरणी तथा ।।
सर्वनीलोपचारेण वस्त्रपुष्पविलेपनैः ।
स्थापयेत् खड्गलिङ्गन्तु कालरूपी स्वयं गुरुः ।।
मंत्रास्तस्य प्रवक्ष्यामि यैर्मन्त्रैः सन्निधो भवेत् ।
१०७ब्)
ओं प्रौं खड्गेश्वराय षः फट् स्वाहा ।
षकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।।
मण्डपे वृत्तरूपे च कुंण्डे चैवानुवृत्तके ।
तद्विशायाञ्च तत्कुण्डे हुत्वा चैव स्वयं गुरुः ।।
सर्वश्वेतोपचारेण वस्त्रपुष्प च लेपनैः ।
गुरुसोमबुधै चैव शुभयोगेसुतारके ।।
हस्ते चाश्विनिरोहिण्यौ ऋक्षे त्रीण्युत्तरे तथा ।
स्थापयेत् पाशलिङ्गन्तु शान्त्याप्यायन हेतुकं ।।
मन्त्रास्तस्य प्रवक्ष्यामि यैर्मन्त्रैः सन्निधो भवेत् ।
ओं व्लौं पाशेश्वराय वः स्वाहा ।
वंकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।।
ओं म्लौं ध्वजेश्वराय यः स्वाहा ।
गकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।।
ओं स्लौं गदेश्वराय सः स्वाहा ।
सकारं षड्विधं कृत्वा तस्यांगानि प्रकल्पयेत् ।।
ओं ह्लौं शूलेश्वाराय हः स्वाहा ।।
हंकारं षड्विधं कृत्वा तस्यानि प्रकल्पयेत् ।।
ओं क्ष्लौं चक्रेश्वराय क्षः स्वाहा ।
क्षंकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।।
ओं ओं प्लौं वा पद्मेश्वराय ओं स्वाहा ।
ओंकारं षड्विधं कृत्वा तस्याङ्गानि प्रकल्पयेत् ।।
स्वतत्र कृतमन्त्रैश्च जातिवक्त्राङ्गकल्पितैः ।
लिङ्गानुरूप चिन्मन्त्री कर्मद्रव्यसमन्वितः ।।
कुरुते कार्यसंसिद्धिं स्तम्भौ दाघक्षयस्तथा ।
पञ्चत्वं शान्तिरारोग्यं गमनं पुष्टिवर्द्धनं ।।
विद्वेषं च्छेदनं माया ज्ञानयोगप्रसाधनं ।
प्रतिष्ठा कथिता धन्या लिङ्गार्चानां समासतः ।।
प्रतिष्ठान्ते स्मृतं स्नानं दानजागणादिकं ।
भूरत्नस्तेजतुरगां भृत्या कन्याञ्च वाहना ।।
धान्यालङ्कारवस्त्राणि सर्वान्यथ शिवे यथा ।
सर्वकर्मान्ततो दद्याद्वलिम्वै सार्वकामिकं ।।
तदन्ते भोजयित्वादक्त्यामूर्तिधरास्तथा ।
फलानुमोदनं दानं कर्तुश्चैव समर्पणं ।।
पूर्ववत् सर्वमेतत्तुं कर्तव्यन्तु विपश्चिता ।
भोगान् तात्कालिकान् भुक्त्वा यावत्यन्ते निष्कलन्ततः ।।
१०८अ)
एकादि सततं स्थाने पूर्वात् कोटिगुणं फलं ।
अनन्तं दशधा पूर्वं प्रमाणात् प्राप्नुयात् सकृत् ।।
जीर्णोद्धारे तथा मूलं फलं कर्तुर्भवे ध्रुवं ।
पिङ्गलामते अस्त्र प्रतिष्ठाधिकारः ।।
पिङ्गलोवाच ।।
जीर्णशब्दप्रयुज्येत उद्धारः क्रियते कथं ।
विभुत्वादनयोश्चैव प्राप्तिर्वाथ कथम्वद ।।
भैरव उवाच ।।
जीर्णाजीर्णस्तु यः शब्दः सपिण्डे चात्मनो न हि ।
उद्धारः स्थूलजीर्णस्य यद्वत् केचिन् म्रियन्ति च ।।
मृते क्रिया विहीनस्तु यथालोके च संस्थितः ।
तथात्रापि च लिङ्गस्य दृक्सून्या आगमक्रिया ।।
दग्धं शीर्ण्णं क्रियाहीनं व्यङ्गगर्भान्वितं कृशं ।
हीनमानातिरेकं च स्थूलं चक्रं च दूथितं ।।
स्फुटितं खण्डितं चैव करालं चाति भीषणं ।
लिङ्गम्वाथ पिण्डिकावाथ यद्दृष्टं तत्समुद्धरेत् ।।
प्रतिमानां तथैवेह व्यक्ताव्यक्तन्तथैव च ।
कर्णनासाङ्गुलैर्हीना व्यङ्गं पूर्वस्तथोद्धृता ।।
त्याज्यस्तास्तु वरारोहे श्रीमुखाङ्गविनाशिकाः ।
तद्देशवासि सर्वेषां स्थापके कर्तृशिल्पिनां ।।
महद् दोषविकारं स्यात् तस्माद्देताः समुद्धरेत् ।
व्यापकोपि यथान्यस्मिन् स्थितस्तत्र तथा शिवः ।।
क्रियावियुक्तायुक्तो वा पिण्डिका सह चोद्धरेत् ।
सुस्थितं दुस्थितं वापि कथं चैव न दोषभाक् ।।
विधिहीनस्य वाक्यै तन्नदोषो विधिपूर्वकः ।
न दोषाय स्मृतो यस्माच्छिवव्याप्तिविसर्जनात् ।।
तद्दक्षिणे दिशाभागे प्रासादान्ते च भाविनि ।
सकुण्डं स्थण्डिलं कृत्वा शिवमावाह्य पूजयेत् ।।
ओं नमो व्यापकेश्वराय एहि २ स्वाहा । व्यापक शिवस्या वाहनमन्त्रः । ओं
व्यापक हृदयाय नमः ।। ओं व्यापकशिरसे स्वाहा ।। ओं व्यापक शिखायै
वौषट् । द्वे व्यापक कवचाय हूं । ओं व्यापकास्त्राय फट् । प्रणवे नासन
कल्प्य पूजयेत् परमेश्वरं ।
१०८ब्)
तद्दिशां देवतां पूज्य होमं चैव समारभेत् ।
वास्थन्ते दिग्वलिं वाह्ये दत्वाद्वारं समाचरेत् ।।
महापाशुपतास्त्रं तु भागे भागे हुनेत् ततः ।
ब्रह्मभागे सहस्रञ्च विष्णुभागे सहस्रकं ।।
रुद्रभागे सहस्रञ्च होमं कृत्वा समुद्धरेत् ।
प्रोक्ष्यतत्केन शिखया पाशयेद्वेमरर्ज्जुना ।।
वृषस्कन्धं नयेत् पश्चाज्जनैः सार्द्धञ्च देशिकः ।
शिवसस्त्विति वक्तव्यमुद्धारविधिचोदितः ।।
नीत्वा तु दक्षिणे भागे नगरे वाथ ग्रामके ।
खेटके वा पुरे चैव जले शैलं विनिक्षिपेत् ।।
लोहमावर्त्यसंस्थाययं दारुजं निर्दहे तु तत् ।
होमं पुष्ट्यर्थकभूय कुर्यात् तद् दिशि देवता ।।
प्रासाद शोधनं हुत्वा वास्तु शुद्ध्यर्थकन्तथा ।
महापाशुपतास्त्रेण शतेनैकं हुतं क्रमात् ।।
ते नैव रक्षयेद् भूयः प्रासादं पीठमेव च ।
तावत् कालञ्च तद्रक्ष्यं यावत् प्रकृप्तितादृशं ।।
पूर्वोक्तेन विधानेन स्थाप्यते तत्र तादृशं ।
कन्यसं मध्यमं वापि प्राक् प्रमाणविलक्षितं ।।
यन्त्रि द्वारमध्येन न स्पर्शतं प्रवेशयेत् ।
पूर्वजेन विधानेन होमं कृत्वा तु शक्तितः ।।
रत्नान्वितं शिलास्वभ्रं कृत्वा लेप्य प्रतिष्ठयेत् ।
पूर्ववच्च तथा स्नान कर्तुश्चैव शिवस्य च ।।
प्रासादश्च यदाज्जीर्णः उद्धारं क्रियते तदा ।
तद्गतं चैव मंत्रञ्च तत्व व्रातमशेषकं ।।
खड्गे चैव सुसंक्राम्य पूजयेन्नित्यमेव हि ।
लिङ्गस्य दक्षिणे स्थाप्य होमं कृत्वा सहस्रकः ।।
लिङ्गस्योर्द्ध कृतं यंत्रं काष्ठपट्टान्तरं शुभं ।
उद्धारो स्पर्शनैः प्राज्ञ इष्टकाञ्चावतारयेत् ।।
पुनस्तेन प्रमाणेन रूपेणैव तु तादृशं ।
शैलशैलञ्च कर्तव्यंमिष्टकं चेष्टकेन तु ।।
१०९अ)
काष्टे च मृन्मये वापि पक्वेष्टं शैलजं कुरु ।
सूत्रहीनोत्तमं कार्यं हीनं नैवोत्तमे पुरा ।।
उत्तमं शैलजं ज्ञेयं मध्यं पक्वेष्टजं प्रिये ।
काष्ठारर्थं भवेत् कर्मं मृद्भवानीवकन्यसं ।।
मृदाशतगुणं दारु तस्मादैष्टं तु लक्षधा ।
पक्वेष्टास्थैलजं पुण्यं कोटि कोटि गुणाधिकं ।।
समाप्ते देहसंयोगे खड्गादुत्कील्यकारयेत् ।
पूर्वजेन विधानेन प्रतिष्ठासमुदायिका ।।
कर्तव्या तु वरारोहो ग्रहलूलनिवेशनं ।
मौलिकं फलमाप्नोति जीर्णौद्धारे कृते स्फुटं ।।
हस्तात् तस्य च यत्पीठं भूगतं चतुरंगुलं ।
द्वादशाङ्गुलमुच्छेधमुम्वरायाः प्रकीर्तितं ।।
द्विहस्तात् तस्य यत्पीठं भूगतं चाष्टमङ्गुलं ।
त्रिहस्तस्य च यत्पीठं भूगतं द्वादशांगुलं ।।
शेषं पीठं समुच्छेधं चोस्वरोर्द्धन्तु कारयेत् ।
चतुर्हस्तस्य यत्पीठं भूताष्टादशांगुलं ।।
पञ्चहस्तस्य यत्पीठं भूगत च त्रिरष्टकं ।
षट् हस्तात् तस्य यत्पीठं भूगतं त्रिदशाङ्गुलं ।।
डम्वरोर्द्धन्तु यच्छेषं पीठवन्धं प्रकल्पयेत् ।
सप्तहस्तस्य यत्पीठं त्रिंशाष्टाङ्गुलभूगतं ।।
अष्टहस्तस्य यत्पीठं षट्चत्वारिंश *? तं गतं ।
अङ्गुलानि विनिर्दिष्टं शेषंपीठसमुच्छ्रयं ।।
नवहस्तस्य यत्पीठं चतुः पावाशद्भूगतं ।
त्रिषट्काङ्गुलसंयुक्तं त्रिहस्तं पीठमुच्छ्रयं ।।
अनेनैव तु वन्धेन न भवेद् विकरालकं ।
सामान्यं वा पदालिङ्गं पुरास्ताद् वृषभो भवेत् ।।
पिङ्गलामते जीर्णोद्धारः ।।
पिङ्गलोवाच ।।
वृषभः सूचितो देवनाक्तोलक्षणतस्त्वया ।
कन्यं मध्योत्तमं चैव मानं किङ्कस्य कीदृशं ।।
कथन्तस्य प्रतिष्था वै क्रियते तद्व्रवीहि मे ।
भैरव उवाच ।।
हस्तमात्रम्यस्य लिङ्गस्य वृषश्चैव तु तत्समः ।
सपादकरलिङ्गस्य षड्विशांगुलकोवृषः ।।
१०९ब्)
सार्द्धहस्तस्य लिङ्गस्य द्विमत्तवृषभोङ्गुलः ।
पादून द्विकरस्यैव वृषस्तु त्रिदशांगुलः ।।
द्विहस्तस्य च लिङ्गस्य चतुस्त्रिशाङ्गुलो वृषः ।
सपादद्विकरस्यैव षट्त्रिंशाङ्गुलको वृषः ।।
सार्द्धद्विकरलिङ्गस्य अष्टत्रिंशांगुलो वृषः ।
पादून त्रिकरस्यैव चत्वारिंशद्गुलोवृषः ।।
त्रिकरस्य च लिङ्गस्य द्विकरोवृषभो भवेत् ।
सपादत्रिकरस्यैव सनेत्र द्विकरोवृषः ।।
सार्द्ध त्रिकरलिङ्गस्य द्विनेत्र द्विकरो भवेत् ।
पादून चतुर्हस्तस्य त्रिनेत्र द्विकरोवृषः ।।
चतुर्हस्तस्य लिङ्गस्य कलाष्ट द्विकरो भवेत् ।
सपादचतुर्हस्तस्य द्विकरो नवनेत्रकः ।।
सार्द्धस्य चतुर्हस्य द्विकरो दशनेत्रकः ।
पादून पञ्चहस्य कलारुद्र द्विहस्तकः ।।
पञ्च हस्तस्य लिङ्गस्य वृषञ्चैव त्रिहस्तकः ।
सपादपञ्च हस्तस्य नेत्रयुक्ति करोवृषः ।।
अर्द्धषष्ठकरस्यैव द्विनेत्र त्रिकरोवृषः ।
पादून षट्करस्यैव त्रिनेत्र त्रिकरोवृषः ।।
षट् हस्तस्य च लिङ्गस्य वस्त्वङ्गुल करत्रयं ।
सपाद षट्करस्यैव पञ्चनेत्र करक्रयः ।।
अर्द्धसप्तकरस्यैव षट्नेत्र त्रिकरो वृषः ।
पादून सप्त हस्तस्य त्रिकरोरिषि नेत्रकः ।।
सप्तहस्तस्य लिङ्गस्य त्रिकरो नवनेत्रकः ।
सपादं सप्तहस्तस्य दिग्नेत्र त्रिकरो वृषः ।।
सार्द्धसप्तकरस्यैव रुद्रनेत्रान्वितोगुणः ।
पादूनाष्टकरस्येव वृषभञ्चतुर्हस्तकः ।।
अष्टहस्तस्य लिङ्गस्य द्विकलं चतुहस्तकं ।
सपादाष्टकरस्यैव चतुर्नेत्रश्चतुष्करः ।।
सार्द्धस्याष्टकरस्यैव सषड्नेत्रश्चतुष्करः ।
पादूननवहस्तस्य वसुनेत्रश्चतुष्करः ।।
नवहस्तस्य लिङ्गस्य पञ्चहस्तोवृषो भवेत् ।
पञ्चहस्ता *? चोर्द्धन्तु हस्ताधो नैव कारयेत् ।।
रौद्राणां वृषभो नास्ति विषेशेषे वात्मकेन हि ।
११०अ)
वाणलिंगे वृषो नैव स्वयं भूतेन कारयेत् ।
लोट्टने शतलिङ्गे च मुखलिङ्गे सहस्रके ।।
वृषश्चैव न कर्तव्यो लोकपालार्चितेन हित ।
अस्त्रलिङ्गे तथा नैव यश्चान्यत् सिद्धलिङ्गकः ।।
प्रतिमाग्रे वृषो नैव अपरास्यैकलिङ्गके ।
वृषास्त्रं नैव कर्तव्यं ध्वजयष्टिनिवेशनं ।।
वृषोन्मानमतश्चैव प्रतिष्ठां लक्षणान्वितां ।
कथयामि वरारोहे यथावदनुपूर्वशः ।।
शैले तु शैलजकार्या दारवे दारुजा वृषः ।
लोहानां लोहजः कार्या मृन्मये मृन्मयात्मकः ।।
हेमाद्यैरीप्सितं कुर्याद् वृषसर्वत्रशोभनं ।
सुयोगेन सुतारेण सुवारकरणेन च ।।
सुदुक्षेषु दिने चैव शक्तनेन शुभेन तु ।
एषां यद्रूचितं मानं वृषभस्य प्रकीर्तितं ।।
सप्तधाभाजितं दैर्ग्यं तदेकं द्वादशांगुलं ।
तदैकांशं तु यत्प्रोक्तं मङ्गुलन्तद्भवेदिह ।।
तद्वयं नेत्रकं नामतालतारादि पूर्ववत् ।
तन्मानान्मानकाद्यञ्च कथयामि प्रति प्रति ।।
अष्टनेत्र प्रदीर्घञ्च स्याद् वक्त्र प्रोच्चमनाग् भवेत् ।
तत्पृठुवृषमानस्य नेत्रनेत्र समेव हि ।।
दीर्घत्वञ्च तदर्द्धेन विस्तरे द्वे प्रकल्पयेत् ।
तारवत् तारके द्वे च ज्योतिके ज्योतिवद्दृशः ।।
कविरौ द्वौ तर्द्धेन रक्ते नैव तदर्द्धके ।
कलार्द्धकौ भ्रुवौ स्थौल्यौ दैर्घ्यौ तौ द्विकलौ प्रिये ।।
यवार्द्धार्द्धं नये ह्रासाद्यावदग्रे यवं भवेत् ।
नासापुटौ सुवृत्तौ च नेत्रवत् परिकल्पयेत् ।।
अन्तरं च तयोज्ञेयं द्विनेत्राद्विस्तरं भवेत् ।
षड्नेत्रं विस्तरं वक्त्रं तदूर्द्धे पञ्चनेत्रकं ।।
विस्तरञ्च तदूर्द्धं वै चतुनेत्रं प्रकल्पयेत् ।
तदूर्द्धञ्च पुनर्वृद्धि पञ्चषड्नेत्रकम्भवेत् ।।
नेत्रनेत्रान्तरञ्चैव सप्ताष्टनवनेत्रकं ।
पृथुत्वं वक्त्रसंसिद्धं हनुभ्यां मानमुच्यते ।।
११०ब्)
कर्णमूलान्तु वक्त्रां तं तदूर्द्धपञ्च नेत्रकं ।
कर्णयोरन्तरञ्चैव विष्टरं सप्तनेत्रकं ।।
कर्णमूलकलादैर्घं तद्वृत्तं पञ्चनेत्रकं ।
वृत्तादूर्द्धं चतुर्नेत्रं दैर्घ्यं कर्णौ प्रकल्पयेत् ।।
कृषग्रतस्तु यो कार्यमङ्गुलार्द्धसमयथा ।
तदन्ते सुषिरौ कार्यौ नेत्रार्द्ध समवर्तुलौ ।।
नेत्रार्द्धार्द्ध समाकार्या ऋजुरेखाश *? ली ।
कर्णमूलांतनासोर्द्धसूत्रक्रासान्नयेत् समं ।।
किञ्चितलम्बोधभागः स्याद्वनुभ्यां शोभनं यथा ।
शृङ्गमूले द्विनेत्रं स्याद् वृत्तं चैव प्रकल्पयेत् ।।
नेत्रार्द्धर्द्ध नयेद्व्रासान् यावाग्रे नेत्र पादतः ।
किञ्चिद्वक्त्रग्रतस्नीक्ष्ने नेत्रत्रय समुच्छ्रयं ।।
शृङ्गयोरन्तरञ्चैव द्विनेत्रं विस्तरम् भवेत् ।
तस्याधस्ताद्वरारोहे षट्नेत्रादवदुःस्मृतः ।।
अष्टनेत्र स्मृता ग्रीवा तस्मात् ककुदयावधिः ।
ककुदविस्तरं भद्रे त्रिनेत्रं परिकल्पयेत् ।।
उच्छ्रयंतद्धिनेत्रन्तु किञ्चित् वक्त्रोर्द्धवृत्तकं ।
ककुदाधो द्विनेत्रञ्च त्यत्वाजंघ विकल्पना ।।
पञ्चनेत्र स्मृता जंघादैर्घ्यत्वेन च कीर्तिता ।
संधिनेत्रार्द्धिकः प्रोक्तश्चतुर्नेत्रौयजंघिका ।।
सार्द्धनेत्रञ्च तस्याधो गुल्फौ चैव प्रकल्पयेत् ।
द्विनेत्रौ चक्षुखुरौ कार्यादैर्घ्यंतिर्यक् चकुष्कलं ।।
गुल्फाधः खुरिकाज्ञेया नेत्रपादेन कीर्तिता ।
नेत्रवद्वृत्तनाहं खुरिकाया प्रकल्पयेत् ।।
जघामूले तु यो नाहः दशसप्तक *? वेत् ।
नेत्रान्तरं पुनर्नाह त्रिपञ्चकलसंयुतः ।।
पुनर्नेत्रान्तरं त्यक्त्वा त्रयोदश कलात्मिकः ।
पुनर्नेत्रान्तरं त्यक्त्वा कलारुद्रैस्त्वनाहतः ।।
चतुर्दशकलासन्धि नाहं चैव प्रकल्पयेत् ।
नेत्रान्तरं कलासूर्य नाहं चैवोपजंघिका ।।
पुनर्नेत्रान्तरं त्यक्त्वा दिक्कलापरिवेष्टनं ।
पुनर्नेत्रान्तरं त्यक्त्वा नेत्राष्टाग्रोपजङ्घिका ।।
१११अ)
द्विनेत्रङ्कम्बलं चैव ग्रीवाधो लम्बनं भवेत् ।
नेत्राष्टादशकं दैर्घ्यजंघांतं कम्बलं विदुः ।।
ककुदात्पृष्टमानां तु नेत्राष्टादशकं भवेत् ।
त्रिकटांतञ्च विज्ञेयं त्रिनेत्रं त्रिकटं पुनः ।।
षट्नेत्रञ्च तथा ज्ञेयं त्रिकटात् पुंच्छसंततिः ।
द्विनेत्रं पुच्छमूलं स्यात् पृथुत्वं प्रकीर्तितं ।।
मध्ये नेत्रसमं ज्ञेयं नेत्रस्यार्द्धाग्रपुच्छकं ।
तस्य तालत्रयं दैर्घ्यं पुच्छदंडमुदाहृतं ।।
पुच्छदण्डे पुनर्भद्रे तालार्द्धं केशसंस्थितिः ।
चतुरङ्गुलमानेन वृत्तं दण्डस्य नाहतः ।।
दण्डनेत्रं पृथुपृष्टं संधिदेशे प्रकीर्तितं ।
पृथुमध्ये पृथुश्चैव कलाष्टकमुदाहृतः ।।
पृष्ठाग्रे तु पृथुश्चैव सप्तनेत्रः प्रकीर्तितः ।
कुक्षिदेशे तु यो नाहो नेत्रार्द्धा त्रिंशकैर्भवेत् ।।
त्रिकटे चैव योनाहस्त्रिशन्नेत्रैस्तु कीर्तितः ।
पृष्ठाग्रे चैव यो नाहः एकविंशत्कलामतः ।।
नाभिनेत्रद्वयन्तत्र शिस्नन्तद्वत् प्रकल्पयेत् ।
द्विनेत्रौ वृषणौ तद्वद्विस्तरौ तौ प्रकल्पयेत् ।।
पञ्चनेत्र स्मृता जंघा सन्धिश्चैव तु नेत्रिका ।
दीर्घत्वेन वरारोहे षट्नेत्राचोपजङ्घिका ।।
द्विनेत्रौगुल्फकौ विद्विखुरौपञ्चागुलौ मतौ ।
खुरेकेऽङ्गुलमानेन नाहोगोलवद् भवेत् ।।
खुरेनाहः कलापञ्च कथितस्तवनान्यथा ।
जंघामूले तु यो नाहो एकविंशत् कला भवेत् ।।
नेत्रान्तरं पुनर्नाहं कलाष्टादशकम्विदुः ।
पुनर्नेत्रं परित्यज्य नेत्रत्रिपञ्चकेन तु ।।
नेत्रान्तरं पुनस्त्यक्त्वा नाहः नाहसूर्य कलात्मकः ।
त्रिषट्कलानाहस्तु संधिश्चैव तु कीर्तितः ।।
त्रिपञ्चकलानाहस्तु पृष्टतश्चोपजंघिका ।
द्विनेत्रं चान्तरं त्यक्त्वा नाहः सूर्य कलात्मकः ।।
पुनर्द्विनेत्रकं त्यक्त्वा नाहस्तु नवनेत्रकः ।
पृष्टगर्ता च विज्ञेया द्व्यगुला चैव दीर्घतः ।।
१११ब्)
पृथुत्वार्द्धाङ्गुलं भद्रे तत्पादेन गभीरता ।
वृषभैवं सुनिष्पाद्य लक्षणं सुशोभनं ।।
लक्षणोद्देशतः प्रोक्तं शिल्पिनो लक्षको गुरुः ।
लक्षलक्षणसंयुक्तं वृषं चैव तु कारयेत् ।।
ध्वजयष्टौ स्मृतौश्चोभ्रो तत्पीठे वा सुसंस्थितः ।
प्राङ्मुखे मण्डपपूर्वे वारुणे वारुणे वरुणेव हि ।।
चतुष्किकासकुंडस्तु पूर्ववन्मानलक्षितः ।
पूर्ववत् पीठमध्ये तु खंडकृत्वा त्रिधान्यसेत् ।।
तत्वं नवक्रमेणैव कुर्याच्छक्त्याद्यमध्यतः ।
राथादौ च प्रकृत्यतं पूर्ववत् प्राग्दिशादितः ।।
मूर्तिमूर्त्यधियान्यस्त्वा मूर्तिशक्तिं तथैव च ।
यत्रेहांतैस्तथा मन्त्रै पूर्ववत् सर्वसंभृतैः ।।
पूर्ववत् स्नपनं कृत्वा पञ्चगव्यादिभिः प्रिये ।
नेत्रोन्मीलनकं कृत्वा सययास्थमधिवासयेत् ।।
तत्वोपस्थापनं कृत्वा क्रियाशक्त्युंतकं प्रिये ।
त्रितत्वं शोधयित्वा तु सहस्राहुतिभिः क्रमात् ।।
हुत्वायष्ट्वाभ्रमित्वा च पूर्वङ्गीतवादितैः ।
नयेच्चतुष्किकासनं भद्र पीठं तु संस्थितं ।।
अर्घादिकं ततः कृत्वा भूतः स्वस्त्यादिमंगलैः ।
चतुष्कीमध्यसंसाध्य शिलास्थापनमारभेत् ।।
रक्षोघ्नार्द्ध परित्यज्य गर्भसूत्राद्व्यवस्थिता ।
साशिलापट्टसंस्थानां सदृढाचतुरश्रिका ।।
वृषभस्य प्र्माणेन दीर्घावाथवाहल्यका ।
नवस्वभ्रं तथा कृत्वा रत्नन्यासादिकं पुरा ।।
पारदैकोथवान्यस्य धारणीं शक्ति विन्यसेत् ।
चलस्थिरासुवृतीस्तु धारणी शक्तिकल्पना ।।
क्रियारूपं वृषं चिंत्य स्थापयेत् स्वगुणेन तु ।
अविनाभावसंचिन्त्य ज्ञानक्रियासमाश्रितं ।।
यद्वद्राज्यभराज्ञश्च प्राधान्यराजभोगदः ।
तद्वच्छिववृषस्थाघ्रशिवैकत्वावियोगतः ।।
शिवरूपी वृषोज्ञेयः त्रिनेत्रः सर्वगः परः ।
११२अ)
चतुःपादौ तौ द्वौ पक्षौ उरः पृष्ठे तथैव च ।
क्षमाद्यामूर्तितत्वानि क्रमेणैव तु विन्यसेत् ।।
स्थिराध्ववलवृत्तिस्तु शिवैकत्वे विनिर्मितः ।
ओं ह्रां ह्रीं वृषभाय स्वाहा ।।
हकारं षड्विधं कृ * *? स्याङ्गानि प्रकल्पयेत् ।
विश्वेनौ वामनं कल्प्य पूर्ववद्विधिना प्रिये ।।
स्नानपूजाविशेषश्च प्रसादं गुरुदक्षिणा ।
दिग्वलिभोजनं दानं पूर्ववत् समुदाहृतं ।।
देवयोग्याश्रयं वुध्वा वृषभस्याश्रयो भवेत् ।
चतुष्की शिखरोपेता चतुर्द्वारोपशोभिता ।।
विमानेन तु वन्धेन कर्तव्या च सुशोभना ।
वृषमेवञ्च संस्थाप्य स्थापयेत् ध्वजसंज्ञकं ।।
इत्याद्ये जयद्रथाधिकारे पिङ्गलामते वृषभाधिकारो नाम सप्तमः
प्रकरणः ।।
पिङ्गलोवाच ।।
ध्वख्यं सूचितं देव किं नामध्वज उच्यते ।
तत् किमर्थञ्च संस्थाप्यं यदि नोत्थाप्य किम् भवेत् ।।
किं प्रमाणेन किं रूपं कथं स्थाप्यं व्रवीहिमे ।
भैरव उवाच ।।
ध्वजं चिह्नेति विख्यातं देवावां शक्तिलक्षणं ।
अव्याहतोस्तु रूपी च शिवाभिजनसन्निधः ।।
विशेषे संनिधो यस्माद् विशेषाध्वा शिवागः ।
तद्विघातोन्यथा प्रोक्तो ध्वजशक्तिविनानघे ।।
तस्मात् सर्वप्रयत्नेन प्राधान्यं ध्वजसंस्थिते ।
शितरक्तपीतकृष्णैः खण्डैश्चैव दृढैः शुभैः ।।
द्वादशाङ्गुलखण्डैस्तु विस्ताराष्टाङ्गुलं भवेत् ।
संधयेत् खण्डखण्डैस्तु पक्षौ डमरुकैः शुभैः ।।
शितं रक्तं शितं पीतं शितकृष्णं पुनः पुनः ।
अनेनैव नयेत् तावद् यावत् प्रासादमानतः ।।
मीनपुच्छे तु पीत तु रक्तं चैव तु कारयेत् ।
भुवनाध्वात्म शक्तिस्तु या ख्याता च शिवाश्रये ।।
तेनासौ तत्प्रमाणेन कन्यनीयो महाध्वजः ।
११२ब्)
ध्वजा अष्टौ प्रकर्तव्या पालानान्तु यथेप्सया ।
पीतरक्तं तथा कृष्णनीलचाभ्रञ्च धूम्रकं ।।
पद्माभं शितवर्णञ्च प्रागाद्यां परिकल्पयेत् ।
योक्ताः प्रासाद भागान्ते चतुर्थाभूमिमण्डले ।।
वंसयष्टिकृता धारा तत्राधारात्मिकां न्यसेत् ।
व्यापिनी शक्तिराधाराजगाधाराशिवाव्यया ।।
चिन्मूनन्तु मलपाश कर्मरज्जु निवन्धनं ।
कल्पितव्यं वरारोहे विश्वेनैकाक्षरेण तु ।।
भुवनानि विचित्राणि अध्वरूपी महाध्वजः ।
तन्तुनाडी कृताधाराः पिच्छद्वय महास्त्रकं ।।
विचित्रश्चित्रकैर्नाना भोगाश्रयोगुणाः ।
तत्रादि देवताः सर्वाः सायुधा भुवनेश्वराः ।।
शस्तु शक्त्याण्डसंहाश्च चिदचित्ते च ये स्थिताः ।
तत्वसंहात्मकादीप्तास्ते विशेषा प्रतिष्ठयेत् ।।
आदितत्वं ततोन्यस्य शोध्यं संहारयोगतः ।
अनन्ताद्यादि योगेन सृष्टिन्यायेन स्थापयेत् ।।
तत्व तत्वेनश्वराश्चैव सन्धनासंनिध ततः ।
तदस्तु कल्पनां दीप्ति स्थिरत्वं भ्रमणं ततः ।।
नियोगाज्ञा शिवस्येच्छासंशोध्यैवं प्रतिष्ठयेत् ।
शिवसान्निध्यतानित्या क्रियारूढा पुरोदिता ।।
कुण्डाष्टविधानेन जुहुयात् मूर्तिपैः सहः ।
द्रव्यानाञ्च प्रमाणेन होमः सार्वत्रिको मतः ।।
प्रतिष्ठासुशुभाकार्या ज्ञानपूर्णा प्रपूर्णता ।
प्रासादलिङ्गवेदीनां भ्रमनात् कण्ठवेष्टनात् ।।
वाप्तीरणात् समाख्यातां फलं कोटिगुणं ध्वजे ।
यथा सुरोपितं क्षेत्रं विहलं रक्षणैर्विना ।।
विनाध्वजं तथा प्रोक्ता प्रतिष्ठानायका वृता ।
ग्रहाभूताश्च वेतालाः शिवादिष्टापुरानघे ।।
पूजागृह्नन्ति होमाद्यां जपां चापि न रक्षिता ।
तेप्यनेन विधानेन शुद्धाप्रासादभूमिषु ।।
न हि सन्ति शैवास्त्राक दीपिता विगतादिशः ।
अतोर्द्धं चुम्बकोधीरः प्रतिषेद्ध्वजपूर्ववत् ।।
११३अ)
ध्वजारोहे परोक्षे च स्वयं प्रत्यक्षतो भवेत् ।
पादाद्याश्च प्रतिष्ठाया कर्तृहीने कृते पुरा ।।
ध्वजारोहण काले च कर्तृः प्रत्यक्षतः स्मृताः ।
तदुद्यमनहेत्वर्थं तत्कालं वापि कारयेत् ।।
सर्वत्रैव तु तत्कर्म कृत्वा वंश पुरोहणं ।
महापाशुपतास्त्रं च न्यसेत् तत्राधि देवता ।।
प्रागादिषु ध्वजानाञ्च व *? द्यास्त्राणि विन्यसेत् ।
तस्मात् प्रतिष्ठया? पूर्णं फलं कर्तुरवाप्यते ।।
कुलांत्वशेषां विगतां जीविनां भृत्यवान्धवां ।
समुद्धरित्वान्तरकान्नयेत्तत्व मनामयं ।।
समयोक्ता ध्वजान्ते या संस्थाप्यादिशिदेवता ।
स्वगृहेषु यथान्यायं तन्मात्रैः संप्रतिष्ठयेत् ।।
तस्मिन् वा रथकांतम्भाद्वलिपीठं तदग्रतः ।
वलिमन्त्रेण देवेशे स्थापयेत् तद्वली भुजाम् ।।
तदन्ते चास्त्रमन्त्रेण वलि पीठस्य चाग्रतः ।
सवृषं चास्त्रयुक्तं वा ध्वजयष्टिम्प्रतिष्ठयेत् ।।
एवं प्रतिष्ठया पूर्णं शास्त्रोक्तं चैव कारयेत् ।
शान्तिर्भवति तद्राष्ट्रे जयीराजा सुखी प्रजाः ।।
सुप्रजाश्च स्त्रियः सर्वाश्चिरायुरुग्विवर्जिताः ।
सुवृष्टिश्च सुभिक्षश्च सस्यनिष्पत्ति जायते ।।
गुरुकर्ता प्रयुञ्जीत प्रासादवाभि नन्द *? ।
पृथुलञ्च धनं दत्वा लव्धानुज्ञानु मोदयेत् ।।
त्वत्प्रसादान्मयानाथ भोगमोक्षफलोदयं ।
प्राप्तं संसारविश्लेषं क्रियाख्यं कर्मसाधनं ।।
आत्माद्रव्य सबन्धु वै त्वमेव सरणं गतः ।
भार्यापुत्रधनं धान्यं देशमाणिक्य संचयं ।।
भृत्यदार स मेतञ्च सपूण्यं विनिवेदयेत् ।
ततस्तुष्टो गुरु श्रीमान् शिवतत्वमनुस्मरन् ।।
तत्समानफलं कृत्वा तच्छिष्ये शिरसि स्वकं ।
हस्तं निवेश्यतं तत्वं युक्तयोग्योत्र तद्वदेत् ।।
यद्गुरोः शिवपूर्णन्तु फलं मोक्षार्थसाधनं ।
तदनन्त शिवोक्त्या तु संयंनंते सदोदयं ।।
११३ब्)
प्रसादी कृत्य तस्येच्छा वर्तीनित्यं व्यवस्थितः ।
निर्वाणकमशेषन्तु प्राप्नुयादविचारतः ।।
शिवस्य दक्षिणे मूर्तौ मठं कृत्वा सुशोभनं ।
पुरं वाथ समन्ताच्च शैलाढ्यञ्च सुनिर्मितं ।।
धान्यालङ्करवस्त्रैश्च सर्वद्रव्यैः शुपूरितं ।
गृहोपष्करणाद्यैस्तु गुरोः सर्वनिवेदयेत् ।।
विद्याधनं प्रकल्प्यादौ यतीनोमाश्रया च ।
ग्रामाच्छादनपौष्कल्यं आगताभ्यागतायत ।।
देवस्वं कल्पयेद् भूयः तद्गुरोर्यदि सम्मतं ।
खण्डस्फटित हेत्वर्थं गणिकादेश्च पालनं ।।
नर्तावकसगन्धर्वा ये चान्ये शिवप्रेषकाः ।
जीवनं पुष्कलं हेतुं कल्पयेत् पालयेत्तुतान् ।।
तत्स्थितिं पालयेद्यत्नादपाल्यान्नरकं व्रजेत् ।
एवं समासतः ख्यातं प्रतिष्ठालिङ्गं लक्षणं ।।
द्रव्यप्रासादवस्तूनां प्रतिष्ठापञ्चकान्विता ।
यत्वया पृच्छितं भद्रे किमन्यत् परिपृसि ।।
इत्याद्ये जयद्रथाधिकारे पिङ्गलामते ध्वजारोहणं नाम अष्टादशमः
प्रकरणः ।।
पिङ्गलोवाच ।।
सिद्धिलिङ्गाश्रितानाञ्च प्राक् त्वया प्रतिपादिता ।
किं लिङ्गमाश्रयेत् प्राज्ञस्तत्काले कथमाश्रयेत् ।।
आश्रितोत्तर कालेपि नियम च विधि क्रिया ।
एतत्सर्वं समासेन कथयस्व प्रदयः ।।
भैरव उवाच ।।
स्वयंभूवाणलिङ्गन्तु प्रधानञ्चाश्रयं प्रिये ।
शताख्यञ्च सहस्राख्य रौद्रं चैवाश्रयेद्वुधः ।।
लोट्टतञ्चल लिङ्गन्तु तुरं चैव परिग्रहं ।
यावज्जीवेत् प्रतिज्ञातं समायञ्च प्रतिग्रहः ।।
लोकपालार्चितं वाथ आश्रयेत् सिद्धिकांक्षकः ।
दिशासाधन हेत्वर्थं शस्त्रलिङ्गमथाश्रयेत् ।।
सिद्धिदं तु सदा ह्येतत् साधकस्य न संशयः ।
सतदोषैस्तु प्रागुक्तै गर्भाद्यैर्नाभि * *? ते ।।
११४अ)
अव्यक्तं वा स्वयं स्थाप्य योग्यायोग्यञ्च तच्छृणु ।
स्थापितं यत्सुरैर्दैत्यैरिषिभिश्च तथा नरैः ।।
विकल्पवासनातीतैः वेदिकैरससम्वरैः ।
तत्प्रसिद्धाश्रयेत् सर्वं लिंगीलिङ्गाश्रयेम्युकैः ।।
नाश्रयेच्चाप्रसिद्धै तु द्वैतमन्त्रनिवेसितं ।
सन्यस्तवतिभिः स्थाप्यं नाश्रयेद्वैदिकन्तथा ।।
कन्दमूलफलाशीना पयःशाकासिनान्तया ।
मुमुक्षुणा स्थापितं लिङ्गं नाश्रयेत् सिद्धिकाक्षकः ।।
व्यङ्गं गर्भान्वितं हीनं शीर्णं जीर्णं रुजान्वितं ।
नाश्रयेद्वाथयुक्तं तु श्रीमुखाङ्गं विनाशकं ।।
अद्वेताश्वासुराः सर्वे तेषां यत्न विकल्पयेत् ।
सुरां मध्ये प्रवक्ष्यामि ये द्वैताद्वैतलक्षणाः ।।
इन्द्रः शुक्रस्तथा पक्षो साधवाग्निर्यमस्तथा ।
रक्षोराजा च वायुश्च रवितार्क्ष्यं सुगुह्यकाः ।।
राक्षसारावणाद्यास्तु सिद्धविद्याधरास्तथा ।
किन्नाराप्सरगन्धर्वा अद्वैता मन्त्र तत्पराः ।।
तेषां ये तु प्रसिद्धास्तु नाममात्रेण भाविनि ।
आश्रयेन्निर्विकल्पेन साधकः सुसमाहितः ।।
व्योमो वाल्मीकः शाकल्याः पराशरभृगुस्तथा ।
काश्यपोनासिकेतु श्च शालंकायनकस्तथा ।।
ऋषिराजास्तु ये चान्ये मन्त्रिणस्ते तु भाविनि ।
मान्धातानघ्नषश्चैव भूपालभरतःशकः ।।
कौरवाः पाण्डवाः सर्वे भावितामन्त्र तत्पराः ।
अथर्वणञ्च वेदैस्तु तल्लिङ्गं चाश्रयेद् वुधः ।।
ब्रह्मासोमो बुधश्चैव कार्तिकेयो वृहस्पतिः ।
सर्वदा द्वैतयुक्तास्तु तेषां लिङ्गं च वर्जयेत् ।।
नागानां च तथैवेह वर्जितव्यं सदावुधैः ।
वालखिल्यादयः सर्वे मातङ्गः पुलहः क्रतुः ।।
शुकोनारदमाल्यश्च भरद्वाजोङ्गिरो मुनिः ।
तुम्बुरो वरुणः शत्रुघ्नशान्तनुर्द्धूम एव च ।।
द्वैतयुक्ताः सदा तत्र कन्दमूल प्रियाः ।
११४ब्)
कचाद्यैर्मुमुक्षुभिश्चान्यैः स्थापितै तं विफलं तु तत् ।
एवम्परीक्ष्य यत्नेन ग्राह्याग्राह्यं विपश्चिता ।।
यद्ग्राह्यं चाश्रयेत् प्राज्ञा अग्राह्यञ्च विवर्जयेत् ।
यत्प्रसिद्ध्यर्थं तत्रासिद्धोश्रये नृणां ।।
द्वैतान्वितं च यल्लिङ्गं दृष्टं चाथमनोद्यकं ।
अपूज्यं समषण्मासमनार्थं च जनादृते ।।
पुनरेव भवत्ये तद्योग्यं संस्कारकर्मणि ।
सदोषमपि यल्लिङ्गं गर्भाद्यैरावृतं तु यत् ।।
अनिष्टं साधनमंत्री तेषांमसमाश्रयेत् ।
प्रोत्सारयि विघ्नेशान् तत्स्थानस्थाः समन्ततः ।।
महापाशुपतास्त्रं चर्प्य? यन्नु?च्चा योगतः ।
दंष्ट्राकरालविकृतिं कालाग्नि सदृशोपमं ।।
दृष्टिनाकेकरेणैव वामादेशिनि छोटिका ।
महास्त्रानलसंतप्ता ध्वस्त सत्वाग्लयान्विताः ।।
दिग्दशोगम्यमास्तु चिन्तयेत् साधकोत्तमः ।
प्रासादरूपिणश्चान्ये विशोध्यास्ते शिवाश्रये ।।
वेदिका रूपिण्ये ये चान्ये द्वाराकाराश्च ये स्थिताः ।
ग्रहाक्रूरापिशाचाश्च भूताश्च कट पूतना ।।
उरगामातरश्चैव यातुधानाश्च राक्षसाः ।
साकिन्याद्याश्च वेताला ये चान्ये हिंसकास्तथा ।।
विघ्नरूपाश्रयं तृ?ते श्रेयांसि च शिवाश्रये ।
प्राक् प्रदत्तवराः सर्वे शम्भुना तु विनायकाः ।।
विधिहीनक्रियाः सर्वे तेषां चैव समर्पिताः ।
तस्माद् वै शोधये देवाः पूजाफलजिगीषिणः ।।
मन्मृदास्नापयेल्लिङ्गं महास्त्रेण जलन्ततः ।
गोमयेन पुनः स्नानं पञ्चगव्यजलान्तरं ।।
एवं स्नान त्रयं कार्यै महापाशुपतेन तु ।
स्वमन्त्र हृदिना पश्चाद्वधिस्नानमधुनास्तथा ।।
जलान्तरं पुनः स्नाप्यस्नापयेत् क्षीरसर्पिषा ।
एवं चतुर्विधं स्नानं कृत्वा सामान्यलक्षणं ।।
विशेषेण पुनः स्नानं स्वशास्त्रविहितेन तु ।
११५अ)
पञ्चामृतेन अलिना क्षतजेन जलान्तरं ।
स्नापयेत् साधको धीरः स्वमन्त्रेण समाहितः ।।
विधानेनात्मके नैव तद्द्रव्यै विविधैः शुभैः ।
नृक्घ्या(?) अजादिभिर्वापि होमं कृत्वा स्वसक्तितः ।।
पुनरेवाथ पंक्तिः स्यादाराद्या विनिर्मितैः ।
स्वासनाद्यात्ममूर्तिस्तु समावाह्यात्मकं यजेत् ।।
प्रासादञ्च सदामत्र्यं ध्वजातं प्राग्विधानतः ।
होमं स्वशक्तितः कृत्वा विधिरेष समाचरेत् ।।
मन्त्रन्यासं ततः कृत्वा कवचास्त्रेण रक्षयेत् ।
स्वगुहायां तथान्यस्य महाशास्त्रेण तु रक्षयेत् ।।
क्षेत्रालम्बीयदानस्यादिगणरोधितां ।
स्वगृहे च चलं लिङ्गं तूरं चैव परिग्रहं ।।
कृत्वा न्यस्तात् समन्त्रस्तु रक्षां कृत्वा श्रयेद् वुधः ।
एकलिङ्गोपरास्यञ्च वृषभास्त्रविवर्जितं ।।
संस्कार्यं साधने नान्यं कन्यमध्योन्तमार्थिभिः ।
सामान्येपि न दोषं स्यात् सदा सान्निध्यकं यतः ।।
आश्रयेत् साधकेन्द्रस्तु पूजार्थं सुखकारणं ।
यद् दृश्यते यदा लोके तत्र मन्त्रं न विन्यसेत् ।।
विन्यसेद् वा तदादोषः सिद्धि हानिश्च जायते ।
तस्मान्न विन्यसेन् मन्त्रात् स्वयंभूर्यदि वा भवेत् ।।
प्रत्यक्षोपदि सम्भुवा वाणाद्यं चापरास्यकं ।
न प्राप्तं तत्र न्यासस्तु तीथियात्रासमन्वितः ।।
महद्दोषो भवेन्नित्यं विघ्नैश्च परिभूयते ।
किन्तु गन्धा प्रदष्टव्यं पूज्यं तन्तारकेण तु ।।
लोकयात्रानुसारेण यात्राकाले परिभ्रमेत् ।
समागमं यतस्तस्मिन्योगिन्याद्याश्च दर्शनं ।।
दर्शनं चैव वीराणां यतः सिद्धाभि भाषिणं ।
क्षेत्रालम्बी यदामन्त्री वलिदानन्तदानिसि ।।
प्रहरैक गते नैव दत्वेघ्नि तं फलम् भवेत् ।
नियमश्चात्र तूराणां नेष्टोन्यैर्यत् प्रपूजितः ।।
स्वयं कार्याप्यसंस्थाप्य पूजयेत् सिद्धिकाक्षिणः ।
११५ब्)
प्रतिमानां तथैवेह वर्ज्यं चान्यप्रतिष्ठितं ।
स्वकृतांचाश्रयेद्व्यक्तां अन्यथा दोषकृन्मतः ।।
स्वकृतमन्यकृतम्वापि मुखलिङ्गं समाश्रयेत् ।
पूर्वजेन विधानेन विधिं कृत्वा प्रयत्नतः ।।
चललिङ्गाऽन्ययष्टोपि वामदक्षिणयोपि वा ।
स्वाभिप्रायेण पूर्यैव पुनः संस्कार मर्हति ।।
संस्कारे तु कृते पश्चात् स्वांसे न्यस्तेन शाङ्कर ।
स्वयंभुर्वाणलिङ्गानां होमाद्यविनाचरेत् ।।
किन्तु स्नानादिकं कृत्वा मन्त्रन्यासं समाचरेत् ।
प्राप्तश्च सर्वदा येन नित्यत्वं सन्निधत्वता ।।
रौद्रलिङ्ग तथा वज्रं शक्तिदण्डाख्यसंज्ञकं ।
खड्गाख्यं पाशसंज्ञञ्च ध्वजाख्यं गदसंज्ञकं ।।
शूलाख्यं चक्रसज्ञञ्च पद्माख्यञ्चैव सुन्दरि ।
आश्रयं भूति लिङ्गानां कर्तव्यं सिद्धिकाक्षिणी ।।
साधनेकयुतोनिष्ठानाश्रयेन्मोक्षकांक्षिणः ।
नाश्रयेत् पुत्रकाद्यस्तु आश्रयेत् पुत्रकाद्यस्तु आश्रयेद्देषकृन्मतः ।
प्रमाणं चेष्टनोन्मानं यत्प्रोक्तं लिङ्गलक्षणो ।।
सम्यक् ज्ञात्वा तं ज्ञानं कुर्याल्लिङ्गी श्रयम्वुधैः ।
रत्नलिङ्गान्यशेषां तु पद्यैन्यैरपि संस्कृतां ।।
योज्यं तन्मंत्रतत्वेन तस्मादुत्कील्यसम्भवे ।
स्वविधिस्तु पुनः कृत्वा स्वमन्त्रञ्च न्यसेत् ततः ।।
लोहजालां तथा ख्यातो विधिः स्याद्रत्न एव हि ।
मृद्भवानैव कर्तव्यं आश्रयं चान्यसंस्कृते ।।
धान्यान्नजं यथा गौडं तिलगन्धसुपिष्टकं ।
नवानवा कृतिं कृत्वा संस्कारञ्च दिने दिने ।।
कृत्वा यष्ट्वा त्यजेन्नित्यं साधकः सिद्धि काक्षिणः ।
किंतु होमं विना तेषा मन्त्रन्यासस्तु केवलः ।।
सार्द्धतं साधनो योज्यं लिङ्गाख्यं नेतरे क्वचित् ।
ये द्वैतेन पुरा लिङ्गं द्वैते नेष्टञ्चलन्तु तत् ।।
चललिङ्गं पुराद्वैतं संस्कार्या द्वैतमाश्रयेत् ।
११६अ)
यस्मात् परापरं स्थानं अद्वैतद्वैतलक्षणं ।
अद्वैतं परमित्याहु द्वैतं चापरकं प्रिये ।।
निश्चयश्च निसंदिग्धमद्वैतं निर्विकल्पयेत् ।
शुद्धं सर्वगुणोपेतं प्रत्यक्षं दृष्टसाधनं ।।
अद्वैतञ्च परं भद्रे चोदिनं परमेष्टिना ।
शास्त्राचारा प्रमादी च सिद्धिर्दृष्टा त्रिधा प्रिये ।।
प्रमादी चलथा मोक्षो न केन प्रतिहन्यते ।
अलो?र्था द्वैतकं श्रेष्ठं निर्विकल्पं समाचरेत् ।।
द्वैतमार्गद्वयं सिद्धं साचाराचारहीनकं ।
साचारे मोक्षभागञ्च दृष्टं चैवाभिघातलः ।।
शास्त्राचारहीनस्य न सिद्धि न च मोक्षभाक् ।
अगम्या सत्यवादी च नरकं द्वैतनिश्चयं ।।
तस्मात् परापरं स्थानं नाहोस्याद्योजितोपि सः ।
ना पूजितोपि सान्निध्यं त्यजेद् यस्मात् ससर्वगः ।।
श्वानकाकादिभिः स्पृष्टो नाशुचितत् प्रजायते ।
समासतेपि ये मन्त्रा न जहन्ति हि तत्वतः ।।
अतः परा द्वैतलिङ्गाना परं द्वैतमाश्रयेत् ।
अपूज्यं स्पृष्टकाकाद्यं द्वैतं त्यजति मन्त्रराट् ।।
अतो द्वैतैर्विधिः कार्यः प्रसिद्धो भैरवागमे ।
सशिवस्थैः कृतैर्मन्त्रैः स्नानं तेष्वेव कल्पयेत् ।।
वाणोप्यथ स्वयंभू च प्रोक्तौ तुल्यौ मयानघे ।।
नासन्निधौ यतस्त्वेतौ सर्वसाधारणो यथा ।
चिति देवानां सान्निध्यं नोर्द्धम्वर्ष शतात् कचित् ।।
काष्ठजे च स्थितिर्यावत् तस्य जीर्णत्व सन्निधिः ।
जीर्णे काष्ठं परित्यागो व्यक्तानाङ्गात्र हीनकं ।।
मुक्ताफलप्रवालाद्ये तेजोहानिर्न यावधिः ।
तावत् सान्नैध्यता तेषु तेजो हीनपरित्यजेत् ।।
अनार्चिषा तु सान्नैध्य नित्यवेहविवर्जितं ।
प्रमादात् यदिदह्ये तत् अग्निदाघ न भाविनि ।।
तदुत्कीर्णमणिनान्तु मन्त्रहानिर्न जायते ।
रुक्मरौप्यारताम्राणां लिङ्गानां हविदलनात् ।।
अप्रलानवयुषां च प्रोक्तं संस्करणं पुनः ।
११६ब्)
प्रलीतं चेद्यदा भद्रे तदा पूर्वे च तत् स्थितिः ।
कर्तव्या साधकेन्द्रेण सोहं नैव तु कारयेत् ।।
सोहं वा यदि जायेत प्रायश्चितं तदा महत् ।
नष्टभ्रष्टवपुषां च प्रमादाद्यदि योगतः ।।
प्रायश्चितं स्मृतं लक्षं पुनः स्यान्मन्त्ररोहणं ।
तूराणां नर शुक्त्यादि कृतानां जालकं विनां ।।
स्थिति स्यादन्यथा त्यागो दृष्टः स्यापि समात् पुनः ।
नवा नवा कृतिः कार्या प्राक्तनस्तं विसर्जयेत् ।।
घृतालिना तु संपूर्ण कुण्डे चैव तु होमयेत् ।
तचूरं होमयित्वा तु स्वमन्त्रं नियुतं जयेत् ।।
जपित्वा होमयित्वा तु नवसंस्कार्यमर्चयेत् ।
इत्याद्ये जयद्रथाधिकारपिङ्गलामते लिङ्गाश्रयो नाम एकोनविंशतिमः
प्रकरणः ।।
भैरव उवाच ।।
लिङ्गाश्रय गतश्चात्र सिद्धि हेतोर्यथा वि * ।
प्रोच्यते सोममासेन शृणुयोश्वरेश्वरि ।।
स्वतन्त्राचारचारित्वं स्वानुष्ठानविकल्पना ।
स्वन्मन्त्रात्मात्मभावेन सोत्साहः समुपाचरेत् ।।
क्रियाध्यानं यथासिद्धं समयाद्यं जपादिकं ।
नित्यनैमित्तिके होमं यथासिद्धं तथा चरेत् ।।
भूपरिग्रहपूर्वञ्च कृत्वायागं समाश्रयेत् ।
सामान्यै तद्वरारोहे नियमं कथितं तव ।।
विशेषं सम्प्रवक्ष्यामि शृणुष्वेकाग्रमानसो ।
अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि ।।
पूजाध्यानजपं होमं द्विगुणं समुपाचरेत् ।
पूर्णिमायां च संक्रान्तौ ग्रहणे चन्द्रसूर्ययोः ।।
विशेषद्रव्यसम्भारैर्यागमिष्ट्याधिकं जपेत् ।
गन्धतोयसमोपेतं शिवं यन्नाधिका * * *? ।।
अन्येष्वपि च पर्वेषु पूजाद्यञ्चाधिकं प्रिये ।
सिद्धेर्गुर्वर्थ वीराणां प्रत्यक्षेथपरोक्षके ।।
पूजाहोमादिकार्यन्तदुद्विश्य च भोजनं ।
११७अ)
प्रहुरान्नादिपानाद्यैर्भक्ष्यैर्नानाविधौस्तथा ।
निर्घातसन्निपाते च भूकम्पे दिव्यदर्शने ।।
प्रदानगडुकादैश्च जपादीनां विशेषतः ।
स्वप्ने शुभाशुभे दृष्टे जपपूजादिकं भवेत् ।।
अभ्यागतागते वीरे भ्रातृवर्गे गृहागते ।
यथाशक्त्यातिथि कार्यो द्रव्यैः सहायनिर्मितैः ।।
प्रत्यक्षावेशने देव्या क्षेत्रपालप्रदलने ।
फल्गुषालिसमोपेतं वलिपूजाधिकं भवेत् ।।
उल्कापाते मृते वीरे जपपूजादिकं भवेत् ।
सिद्धद्रव्यागते चैव शिवं पूज्य महोत्सवैः ।।
विशेषभोजनं कृत्वा प्रमादीकृत्य गृह्नयेत् ।
योगिनी सिद्धयोगीन्द्रैर्मेलकं यदि जायते ।।
प्राप्तिविशेषतः पूजा तेषां चैव शिवस्य च ।
वीरभोज्यान्नपानाद्यैः कार्यं प्राप्तविधिस्थितैः ।।
सम्वत्सरात्मको योगः कर्तव्यो विषुवर्द्धये ।
योगं चैवापरं कार्यस्तथा विष्णुपदेषु च ।।
षडशीति मुखे योगं व्रतग्रहणमोक्षणे ।
जपग्रहणमोक्षे च होमग्रहणमोक्षणे ।।
योगश्चैव तु कर्तव्यो लिङ्गस्यैव तु पूरणं ।
पुष्पैर्वासु मनोद्यैश्च पद्मैनीलोत्पलादिकैः ।।
फलैर्वा विविधैर्दिव्यैर्दधि भक्तैः समुज्वलैः ।
घृतभक्तैर्भक्षकुसूपैः क्षीरभक्तैः प्रपूरयेत् ।।
घृतपूर्णैश्च सैवक्षैर्मण्डकाद्यैश्च खाद्यकैः ।
गुडैश्च लड्डुकैश्च पूरयेत् खण्डशर्करैः ।।
पिशितैर्मीनकैर्दिव्यैर्मदिरालोड्य पूरयेत् ।
लिङ्गपूरणकं कृत्वा पश्चाद् वीरैश्च भोजनं ।।
शिवाग्रे नृत्यगे पञ्च कर्तव्यम्वा विकल्पतः ।
भक्तिमाश्रित्य सर्वेषां कर्तव्यं सिद्धिकाक्षिभिः ।।
मोक्षार्थिनापि कर्तव्यम्चित्तसाठ्यविवर्जितं ।
अन्यथा न भवेत् मोक्षः सिद्धिश्चैव सुदूरतः ।।
आचार्यैः साधकैः पुत्रैः मेश्वरैर्लिङ्गमाश्रितैः ।
११७ब्)
क्रियार्थिभिः प्रकर्तव्यं यथाशास्त्रार्थकं प्रिये ।
योन्योपि हि विधिस्तन्त्रे नियमार्थं प्रचोदितं ।।
सोत्रष्वेये विशेषेण लिङ्गाश्रय गतैर्नरैः ।
तम कृत्वा न युज्येत भोगमोक्षप्रसाधने ।।
अभावे वा कृते वाथ आपदाद्यैः क्रियार्थिभिः ।
द्विगुणं तु जपं कार्यं संध्यालोपे विपश्चिते ।।
प्रमादात् कथितं भद्रे कामतश्च चतुर्गुणं ।
प्रमादादाह्निकच्छेदे कर्तव्यन्तु चतुर्गुणं ।।
जपञ्च साधकेन्द्रेण कामतस्तद्विधा भवेत् ।
प्रमादाद्वामविच्छेदे हुत्वा च द्विशतं जपेत् ।।
कामाच्चतुर्गुणं हुत्वा जपं चैव चतुर्गुणं ।
प्रामादाज्जपभङ्गे च तत् पूर्यतत्समं जपेत् ।।
कामतो जपभङ्गेन तत्पूर्य चतुर्द्धा जपेत् ।
प्रमादाध्यानविच्छेदे द्विगुणं ध्यानमाश्रयेत् ।।
कामतो ध्यानच्छेदन्तु तत्क्षणञ्च चतुर्गुणम् ।
स्वमन्त्रश्चैव जप्तव्यो वैशेषिकमुदाहृतः ।।
मंत्रं समान्यमाख्यामि प्रायश्चित्ते यथा भवेत् ।
ओं नमो भलिखेत् पूर्वङ्ग?वतेरुपुनर्लिखेत् ।।
द्रायशूलञ्च संलिख्य पाणिने च लिखेत् ततः ।
हनद्वयं समालिख्य दहद्वयं पचस्तथा ।।
नासयद्वयमालिख्य सर्वपापां पुनर्लिखेत् ।
भक्षद्वयं लिखित्वा तु ओं ह्रीं हूं फट् समालिखेत् ।।
स्वाहाकारं ततोलिख्य सर्वपापप्रणासनीं ।
विद्या चैव समाख्याता प्रायश्चित्वार्थ कर्मणि ।।
कायिकं वाचिकं पापं कामाकामश्च मानसं ।
अनया जपमानस्तु रसविद्धेवताम्रवत् ।।
प्रमादा चालिते लिङ्गे स्थिरे वा चलसंज्ञके ।
पीठे वा पिण्डिके वाथ विद्यालक्ष्य जपेद्वुधः ।।
प्रायश्चित्तार्थकं जप्त्वा होमं कृत्वा युतं पुनः ।
पूर्वजेन विधानेन कर्तव्यं स्थितस्थापनं ।।
ओं नमो भगवते रुद्राय शूलपाणिने हन हन दह दह पच पच नाशय
नाशय सर्वपाप भक्ष भक्ष ओं ह्रीं हूं फट् ठ ठ ।।
११८अ)
चललिङ्गेग्निदग्धे च तस्करेण हृतेथवा ।
प्रायश्चित्तं स्मृतं लक्षं तत्र विद्याञ्जयेत् प्रिये ।।
हस्तात् पतं लिङ्गे तु उपहते स्थापिते पि वा ।
तत्रापि लक्षमावर्त्य पुनः संस्कार मर्हति ।।
जपतश्चाक्षसूत्रन्तु पतनादयुतं जपेत् ।
निद्रयाचाभिभूतस्तु पतते साधकौ भुवि ।।
तदार्द्धं लक्षजप्तव्यं नयतेदयुतं जपेत् ।
देवगुरुन्तथाशास्त्रं पादेन स्पृशते यदि ।।
प्रमादादयुतं जाप्यं कामतो नियुतं जपेत् ।
गुरुसम्बन्धिनश्चैव शयनासन पादुका ।।
देवस्य गड्डुकाद्यांस्तु पादेन स्पृशते यदि ।
प्रसादाद्विशतं जाप्यं कामतंश्चायुतं जपेत् ।।
हस्तात् पतितपुस्तस्तु स्थिताद्वा यत्र तत्र तु ।
तत् सूत्रं भूगतं वापि भूमौ पुस्तक वाचने ।।
आसने शयने स्थाप्य पटले च गृहस्य च ।
विद्यापञ्चशतं जाप्यं कामतस्तु द्विधा भवेत् ।।
शीर्णागमश्च सिद्धांन्तप्रस्तं जीर्णं घृतप्लुतं ।
अग्निकुण्डे तु होतव्य हुत्वा विद्याशतं जपेत् ।।
पुष्यात्स्थापनकाले तु तृणकाष्ठादि च्छेदने ।
सकृदुच्चार्य विद्यां तु यत् किञ्चित् तत् समाचरेत् ।।
रुद्रायेति पदोच्चार्य ताराद्यं तु क्रियाखिला ।
हिक्काच्छिक्का विजृम्भा च तत्पदोच्चार्यनित्यशः ।।
दुःस्वप्ननाशने चैव सप्तधा वर्तये छुचि ।
अनिमित्ते च प्राणीनां घातने शतधा जपेत् ।।
पक्षिणां घातने चैव निनिमिहे न भाविनि ।
विद्यापापारिणो नाम त्रिशतं तु जपे छुचिः ।।
निनिर्मित्ते चतुष्पाद घातनेन वधाशतं ।
निर्विनोदं द्विजां हत्वा कामकारेण मन्त्रिणा ।।
विद्यापापारिणीं भद्रे जपेद्वशसहस्रकं ।
यागार्थञ्च पशुं हत्वा तंत्राचारस्य दूषकं ।।
११८ब्)
न दोषे द्विवधे नित्यं न वधे द्वै विलोमदं ।
अन्यास्तु मानुषां हत्वा तदर्थम्वा विनोदतः ।।
क्षपनं चोर्द्धलिङ्गीनां तथा वैष्णवलिंगिनां ।
न भेदं निर्निमित्ते तु भेदाद्वाप्य युतं जपेत् ।।
शिवाग्नि गुरुनिन्दानां तेषां हत्वा न दोषभाक् ।
शिवव्रतधरच्छायां लंघनाच्छशतधा भवेत् ।।
हत्वा तेषामकामाच्च पञ्चधायुतकं जपेत् ।
कामतो नियुतं जाप्य कलहेनायुतं जपेत् ।।
अकामाल्लिङ्गभेदेन लक्षपञ्चाशकं जपेत् ।
कामतः प्रयुतं जाप्यं गुरूणां सम्मन्तेन तु ।।
वीराणां निन्दने चैव योगिनाञ्च दूषणे ।
स्त्रीणाञ्च ताडने चैव शिवज्ञानं च दूषणे ।।
अयुतत्रितयं जाप्यं न जपेद्विघ्नभाग्भवेत् ।
द्रव्याणां दूषणे चैव वीरचक्रे च संस्थिते ।।
तत्काले कहलहोत्पन्ने सहस्रेण शुचिर्भवेत् ।
अथवा भोजनं कार्यं वीराणां सम्मतेन तु ।।
गुरुद्रोहे कृते नैव अज्ञानान्मोहवासनात् ।
पुनसन्तापनं कृत्वा तद्गुरोर्यदि सर्पते ।।
तदालक्षं जपं कृत्वा गुरुं सन्तोषयेत् प्रिये ।
गुरुपत्नी ह्यतोमोहात् सकृत् पश्चात् पुनस्त्यजेत् ।।
त्यक्त्वासंतापनं कृत्वा प्रायश्चित्तार्थ सप्यति ।
तस्यापि लक्षजप्यन्तु दातव्यं निर्विकल्पतः ।।
न त्यजेत् कामतो मोहात् नारकी स्यान्नसंशयः ।
प्रायश्चित्तं न तस्योक्तं दीक्षाफलविरोधिनः ।।
आत्मघाती गुरोघाति तथा चैव परस्परं ।
प्रमादात् तापनं कृत्वा प्रायश्चित्तञ्च मार्गति ।।
विद्यालक्षं जपन्तस्य दातव्ये चुम्बकेन तु ।
गुरुसंतोष्य यत्नेन पुनः संस्कारमर्हति ।।
गुरोर्गुरुतरो यस्तु प्रमादाद्रक्तदर्शनात् ।
दशलक्षं जपं तस्य तद्गुरोर्यदि सम्मतं ।।
गुरुस्थानविनाशी च तस्याचारस्तु लंघकः ।
स्वास्नौयक्रमविरोधी अस्थितिः स्थिति कारकः ।।
११९अ)
परलोकान्नसम्भीतो गुरुञ्चैवोपसर्पति ।
त्यक्त्वाचारविरुद्धस्तु प्रायश्चित्तञ्च मार्गति ।।
दशलक्षं जपन्तस्य दातव्यं शास्त्रवेदिभिः ।
तेनापि भक्तिमासृत्य शुचिस्तद्गतमानसः ।।
विजने च शुचि स्थाने जप्तव्यं यावत् पूर्यते ।
संपूर्णे तु जपे चैव जपस्तेषां समर्पयेत् ।।
तेभ्यो भोज्यं प्रदातव्यं वीराख्यं द्रव्यसंभृतं ।
यद्यसौ भाजनं नैव अभोज्ये जपितेष्वपि ।।
अथवा पुष्पतांबूल चन्दनादहप्राशनं ।
धारणे लेपने सुद्धि गुरुणोमवधारणे ।।
यथा शक्त्या तु मन्त्रज्ञैः काराययं चावधारणं ।
प्रायश्चित्तेस्रावीर्णे तु वर्तयेच्चाविरोधतः ।।
चीर्णेपि च पुनर्दोषैस्सम्पर्कं यदि जायते ।
अनुधार्यं तथा तस्य प्रायश्चित्तं न विद्यते ।।
एवं शास्त्रार्थतो मन्त्री लोकविराविरोधकः ।
पारंपर्यानुवर्ती च वर्तयेन्निर्विशङ्कतः ।।
वामोवामासुवर्ती च दक्षिणे दक्षिणा चरेत् ।
सामान्यं वामदक्षेपि प्रायश्चित्तमुदाहृतं ।।
द्वैतेष्वपि च संपर्क विरुद्धा चरणैस्तथा ।
न कर्तव्यं सदा मन्त्री ये चान्यैर्दूषितैः सहः ।।
सैद्धान्तिकस्य या चिन्ता न प्राप्तामन्त्रिभिः सदा ।
मन्त्रिणश्चैव सिद्धा *? चितानैव च नव च ।।
अन्योन्यैश्च न सम्पर्कं सम्पकं वालिना सह ।
सर्वसंपत्तिकं चान्यत् पवित्रारोहणं प्रिये ।।
नियमानां वरं तच्च लिङ्गाश्राय गतैर्नरैः ।
तद कृत्वा न युज्येत सिद्धौ मुक्तौ प्रसाधने ।।
पिङ्गलामते प्रायश्चित्त प्रकरणं ।।
पिङ्गलोवाच ।।
पवित्रारोहणं देव कस्मिन्काले किमर्थकं ।
पवित्रेति वयः शब्दस्तस्योर्ध्वं कथयस्व मे ।।
केन तत्क्रियते शम्भो कर्तव्यन्तु कथम्वदः ।
भैरव उवाच ।।
स्वकाले भैरवे प्राप्ते पवित्रारोहणम् भवेत् ।
दिवातीते तु देवानां निशिप्रातु भैरवे ।।
११९ब्)
मकरादौ तु पद्मासां देवानां दिनमुच्यते ।
कर्कणदौ निसा भद्रे षड्माषांश्च विदुर्वुधाः ।।
तन्मुखं च यदा भद्रे मेघघोषञ्च वर्षति ।
न चोदकैस्तु तृप्तस्तु सस्यैच्छन्ननवांकुरे ।।
वनस्पति तृणीद्यैस्तु ओषध्यैश्छन्नलक्षणे ।
प्राप्ते षोढे भद्रंते वा तस्यान्ते च ततो न हि ।।
कर्तव्यन्तु यथाशक्त्या देवी देवस्य भैरवे ।
विधिः सामान्यलिङ्गानां स्थण्डिले वा कृतौश्वके ।।
स्वशरीरे च कर्तव्यं स्वपरिग्रहवर्तिभिः ।
चुम्बकैः साधकैः पुत्रैः समयीश्वेश्वरै नरैः ।।
तद कृत्वा न सिध्येत दृष्टादृष्ट फलं प्रिये ।
स चोक्तः शुक्लकृष्णै वा पक्षे स्वेष्ट दिने शुभे ।।
प्रतिपत् सङ्गताशम्य पवित्रारोहणं विदुः ।
द्वितीयां ब्रह्मणश्चैव गौद्याश्चैव तृतीयके ।।
चतुर्थ्यां विघ्नराजस्य नागानां पञ्चमीषु च ।
षष्ठ्या कुमार देवस्य सप्तस्या भास्करस्य च ।।
अष्टम्यां व्यक्त रुद्राणां नवम्याश्चण्डिकादिषु ।
दशम्यां यमदेवस्य इन्द्रस्यैकादशीषु च ।।
द्वादश्यां विष्णुदेवस्य इष्ट देवे त्रयोदशी ।
चतुर्दश्यां शिवस्यैव पूर्णमां पितृदेवतां ।।
इष्टस्याग्र दिने चैव कर्तव्यं चाधि चासनं ।
मृद्भस्म दन्तकाष्ठञ्च होमार्थधनसद्ग्रहं ।।
यौवना आत्मनो नैव क्रिया सम्प्राप्यतेत्र तु ।
तत्सर्वं सम्भृतं कार्यं भेषज्यादिकसंग्रहं ।।
श्रुवादिकं विनिर्दिष्टं न च स्यान्नेति वा श्रुची ।
जलकुम्भार्घ पातञ्च गडुकाद्यं प्रोक्तनं ।।
त्यक्त्वा न्यास्तु नवा कृत्वा रुक्माद्यं धातुजां न हि ।
सूत्रञ्चद्रभजं श्रेष्ठं कजम्बा सूत्रपट्टकं ।।
कार्यास्यम्वापि कर्तव्यं भोगमोक्षफलार्थिना ।
अन्यच्चाशय हेत्वर्थं क्षौमम्वाल्वजकौशजं ।।
शानम्वा चोरनारञ्च दिग्लिङ्गे शास्त्ररूपिणे ।
त्रिगुणं त्रिगुणी कृत्य शतमष्टोत्तरोत्तमे ।।
शते नैवाष्ट हस्तस्य नवत्या सप्तमस्य च ।
१२०अ)
तदेवाधोत्तराणाञ्च हीनं यो यस्य संस्थितिं ।
मध्येमोत्तमलिङ्गस्य सूत्रञ्चाशीतिकम् भवेत् ।।
सप्तत्यापञ्च हस्तस्य चतुःषष्ठीश्चतुस्करे ।
कन्यसोत्तमलिङ्गस्य वर्णवत् सूत्रसंयुतं ।।
द्विहस्तस्य कलासंख्या तत्वसंख्या च कन्यसे ।
समसूत्रञ्च कर्तव्यं भोगार्थी ग्रंथिभिस्तथा ।।
मुक्त्यर्थी नैष्ठिकानाञ्च विसमं ग्रन्थिसूत्रकं ।
यावत् तत्सूत्रसंख्या च तावद्धं धातु ग्रन्थयः ।।
तूलगर्भं प्रकर्तव्यं सूत्रेण कृशता यदि ।
छुरितं कुंकुमे नैव गोजेनाथाश्रेणा प्रिये ।।
निशावाथ शुभं भद्रे न शुभे तालपीतिका ।
गैरिका वा शिलावाथ चित्रयेत् ग्रन्थवन्धनं ।।
सौवर्णभाजने स्थाप्य ताम्रे रोप्येथ वा प्रिये ।
अथवा मृन्मये पात्रे पद्म पत्र पलासजे ।।
सत्कुण्डे यागभूमौ तु स्थाप्य वैवाधिवासयेत् ।
कृत्वाह्निकं स्वयं तत्र जपहोमादिकं प्रिये ।।
साम्पाताभिहुतं कार्यं दत्वार्द्धे तु कटित्रिका ।
मार्ग्यावाप्यथ तत्पात्रं यथा नैव घृतप्लुतं ।।
सम्वत्सरात्मकं ध्यात्वा त्रिसूत्रेणैव वेष्टयेत् ।
प्रासादोदक भाण्डञ्च वेदीवृषभमादितः ।।
खेत्रपालश्च चण्डीश लोकपालांस्तथैव च ।
अर्चनं पूजनं कृत्वा त्रिसूत्रेण तु वेष्टयेत् ।।
एवं कृत्वा ततः पश्चाद्ध्यात्वा सर्वाध्व गतं प्रिये ।
पूर्णाहुति प्रदातव्या ततश्चान्ते वलिं हरेत् ।।
प्रोक्षपश्चाद्रयस्पृश्य गन्धपुष्पादिभिर्यजेत् ।
शास्त्रार्थञ्च गुरुं पूज्य वीराणां चैव पूजयेत् ।।
स्नाप्यलिंगं तथा लभ्य स्नानैश्च विधिपूर्वकैः ।
पुष्पगन्धादिभिः पूज्य पूजावन्धञ्च वन्धयेत् ।।
प्राग्दन्तकाष्ठकन्दद्याद्याम्ये भस्मञ्च दापयेत् ।
पश्चिमे मृत्तिकान्दद्यादुत्तरे चामलोदकं ।।
ऐशान्यां च ददेद्गध पञ्चामृतमथापि वा ।
१२०ब्)
तद्दिशावक्त्रमन्त्रैश्च स्वसंज्ञा चास्यमन्त्रकैः ।
संहिते नाथमूलेन दद्याद्गन्ध पवित्रकं ।।
गन्धपुष्पन्तथा धूपं दीपं नैवेद्यकान् शुभान् ।
अर्घपाद्यादिकान् सर्वान् हृदिना च समर्पयेत् ।।
दत्वासंश्रावयेत् देवं स्थित्वे शाने तु निश्वनं ।
अमन्त्रितस्तु भगवान् पूजाचोपाहृता मया ।।
गृहाणैना महादेव समस्तविधिकारणं ।
ओं नमो व्रतनियमेश्वराय पूरय २ स्वाहा ।।
अनेनामन्त्रितः शम्भुमन्त्रिनः सन्निधो भवेत् ।
विधिनोक्तेन द्रव्येन अर्घं पश्चात् प्रदापयेत् ।।
ततो निर्गत्य पालानां क्षेत्र पालादिकां प्रिये ।
गन्धपुष्पादिभिः पूज्य पालाद्यांश्च निमन्त्रयेत् ।।
ते नैव वलिमन्त्रेण आमन्त्रण पदेन च ।
युक्तासर्वां विधिकार्यो क्षेत्रे चैव विधिः स्थिरं ।।
गृहेथवाप्यने नैव विधानेन समाचरेत् ।
गुहायां वा यदाभावः तदामूलफलादिभिः ।।
निर्वत्येष्टि च भास्वोत्थं भक्ष्यं शिष्यसमन्वितः ।
अथोत्तमसहायैर्वा साधकोत्तमसाधने ।।
क्षुद्रेवाथ तदेकाकी भक्त्यादेवं स्मरन् स्वपेत् ।
प्रभाते च महाभूतिं कर्तव्यावित्तभावतः ।।
गन्धपुष्पं तथा धूपं दीपनैवेद्यकादिकं ।
प्रचुरान्नासवाद्यास्तु विधां चैव विस्तरात् ।।
कृत्वा इष्ट्वा च हुत्वा च स्नाप्य देवं घृतादिभिः ।
दधिमधु?श्चैव क्षीरपञ्चामृतोथवा ।।
समालभ्यसुगन्धैश्च चन्दनैः कुंकुमादिभिः ।
यथोक्तं पूजनं कृत्व्गा पूजावन्धं समारभेत् ।।
ब्रह्मनारायणोक्तैश्च विशेषैनन्दिनिर्मितैः ।
कौमारैर्वा गणैः कालैः शक्रैर्-ऋषिभिर्निर्मितैः ।।
पत्रछेदैश्च चित्रैश्च पुष्पमार्गैः सुवर्तितैः ।
वस्त्रैर्वा विविधैश्चित्रै राजनेत्रादिभिः शुभैः ।।
पूजावन्धं प्रकर्तव्यं पुष्पमण्डपिकोपरि ।
१२१अ)
दत्वाधूपार्घताम्बूलं नैवेद्यं च प्रदापयेत् ।
दीपाद्यां संभृतां दद्यात् पुनर्वर्हि देवतांस्तथा ।।
गन्धपुष्पादिसंभारैः पूजानैवेद्यकादिकां ।
दत्वा चेष्टाविशेषेण तेषां कृत्वा प्रतर्पणां ।।
प्रविश्याभ्यन्तरे शिष्य युक्तो दद्यात् पवित्रकं ।
सेश्वरैश्च समायुक्तो पैश्चान्यै तदर्थिभिः ।।
सर्वाध्वसांक्रियांभाव्य सर्वद्रव्यात्ममन्त्रकं ।
सर्वमुद्राव्रतं जाप्य होमं यागार्थसूत्रकं ।।
भूपरिग्रहपूर्वत्मयोगं ध्यानं कृताकृतं ।
सिद्धादि गुरुवीराह्वा मेलकाकरणं तथा ।।
तत्संहृत्यसमस्तं हि कृत वाथ कृताकृतं ।
व्रतेश्वरेण संश्राव्य देवं गृह्यपवित्रकं ।।
स्वेष्टमन्त्रं समुच्चार्य तत्वे तत्वे परिक्षिपेत् ।
ध्यात्वा सम्वत्सरात् मन्त्र त्रिसूत्रं वद्धमन्ततं ।।
तल्लग्नं वजनैः सार्द्धं लिङ्गमूर्ध्नि निवेशयेत् ।
शिवतत्वादितः सृष्ट्या मोक्षार्थी च त्रिकन्ददेत् ।।
भोगार्थी चात्मतत्वादि विलोमाच्च त्रिकं तथा ।
पवित्राणां त्रयं दद्यादात्मविद्याशिवात्मकं ।।
तच्चोक्तं तु ददे ब्रह्म द्वितीयं विष्णुवेददेत् ।
तृतीयं स्याच्छिवस्योक्तं तत्वे तत्वे सुपूरितं ।।
प्रलम्बैकञ्च दातव्यं यावद्वेद्यन्तकं भवेत् ।
सर्वाध्व देवतां चिंत्य सर्वतत्वाश्रयं हि सः ।।
यथाशोभं प्रकर्तव्यं संख्याहिन प्रलकः ।
वहिश्च वृषचण्डीश दिग्देवात्मातरादिकान् ।।
यथाशक्त्याप्रदातव्यं तेषां वै लक्षणं न हि ।
यक्षभूतपिशाचानां स्मशाने पितृदेवतां ।।
शाकिन्यक्षेत्रपालाद्या निर्विघ्नार्थाल्पकं ददेत् ।
धूपपूजाविशेषैश्च तेषां दद्यादनुक्रमात् ।।
चले वा स्थण्डिले वाथ तूरेवात्मशरीरके ।
यथाशोभं प्रकर्तव्यं ज्ञात्वा चैवानुरूपतः ।।
प्रतिमाव्यक्तरूपाणा पीठप्रासादगां तथा ।
जात्वंतं च शिरालंव्यं पवित्रकं त्रिसूत्रकं ।।
१२१ब्)
रौद्राणां च तथैवेह ग्रंथिवन्धास्तथा मताः ।
पुस्तकानां यथाशोभं तन्मानेन सुदीर्घता ।।
महाप्रतिमज्येष्टस्य शतञ्चाष्टोत्तरं भवेत् ।
मध्यमे पदवत् संख्या चाशीत्येकोत्तरं भवेत् ।।
महाप्रतिमकन्यस्य वर्णसंख्यास्तु जानुगः ।
समाचम्यप्रविश्यान्ते स्थित्वेशेविनिवेदयेत् ।।
अज्ञानादापदाद्वापि यत्कृतं विधिहीनकं ।
कामतो वा विहीनन्तु कृतं वाथ कृताकृतं ।।
तेनाहमकृतेनशसमयाद्यैर्विवाधितः ।
पाहित्राहिनिमज्जंतं भवेस्मिन् भविनांपते ।।
यतनात्रायते यस्माद्विलयं नरकादिषु ।
धातुत्रयार्थसंसिद्धं पवित्रेत्यविधीयते ।।
एवं संश्रावितं कर्म पूर्णभावं व्रतेश्वरं ।
सर्वङ्करोति संपूर्णं शक्तिभिः योगिपूजिते ।।
कृतमेव प्रनातीह पतनात् तत्पवित्रकं ।
संपूर्णकरणप्रोक्तं सिद्धिलिङ्गप्रकाशकं ।।
विधिहीनेन सिद्धिः स्यातस्मात्कार्यङ्कवित्रकं ।
मुक्त्यर्थी वा तदाप्येतत् प्राप्तदीक्षोत्तरं यतः ।।
विधिस्नदन्विता(?) दीक्षा समयाद्या क्रिया फला ।
तस्मात् पवित्रकं कार्य दीक्षाङ्गत्वात् मुमुक्षुभिः ।।
फलार्थं साधकैः सर्वैकर्तव्यं निश्चयेन तु ।
भोगमोक्षार्थिना वापि ये चान्ये साधिकारिणः ।।
पुंस्त्री नपुंसकैर्वाये ये केचिच्छिवकारिणः ।
पवित्रारोहणं कार्यं व्रतानां प्रवरं यतः ।।
सामान्यम्वा स्वयोगान्ते भोजनञ्चानिवारितं ।
यतीनां सेश्वराणाञ्च दीनानाथांश्च भोजयेत् ।।
विविधैर्भक्ष्यभोज्यैश्च घृतपूर्णादि लड्डुकैः ।
वटकैः खण्डखाद्यैश्च भोजयेच्छिवयोगिनः ।।
मानयेत भोजयित्वा तु वस्त्रयुग्मं पवित्रकैः ।
कौपीनैः भेषजाद्यैश्च दत्वा तेषां पुनर्ददेत् ।।
सुप्रसन्नोसि भगवंश्चातुर्मास्यामुपक्रमात् ।
१२२अ)
विशेषार्थं यदा भोज्यं मण्डलस्थमतः परं ।।
परोक्षे चैव प्रत्यक्षे वस्त्रयुग्मपवित्रकैः ।
प्रचुरान्नासवाद्यैस्तु भक्षैनानाविधैस्तथा ।।
द्रव्यैर्विविधसंसिद्धैर्जलजैर्विविधपाचितैः ।
फलजैः पुष्पजैश्चान्यै पिष्टजैगुडजैस्तथा ।।
कालदेशानुरूपैस्तु कर्तव्यं वीरभोजनं ।
भगिनी भ्रातृवर्गैश्च यागोत्थ चरुकञ्च यत् ।।
प्रासयेन्निर्विकल्पेन तत्काले च विशेषतः ।
भूम्यासनैः समाधिस्थैः शिष्टचोद्यविकल्पनैः ।।
यागकाले विनोदेन गुरोश्चैवाग्रतस्तथा ।
निशामुखे प्रकर्तव्यं विधिः स्याद्गुह्यकात्मकः ।।
तत्राप्यन्ते प्रदातव्यं यतीनां दक्षिणादिकं ।
ज्ञात्वाचित्तानुभावेन यथापूर्वमुदाहृतं ।।
दीनार्थे याचनं कृत्वा विरुद्धा चरणन्तथा ।
कर्तव्यविधिमेवन्तु न दोषस्तस्य पार्वति ।।
सामान्ये च दिने चैव स्नात्वा चार्यः शुचिस्तथा ।
देवं स्नाप्य तथा पूज्य गन्धपुष्पादिभिः शुभैः ।।
स्थित्वा देवाग्रतः प्राज्ञः स्वशिष्यैः सहचुम्बकः ।
सहायैः सहवीरर्वासैश्वरैः वानरैः सहः ।।
संश्राव्यं समयं तेभ्यः पुरस्तान्तु यथासुखं ।
अष्टमासात्मकं पापं सम्वत्सरात्मकोपि वा ।।
कायिकं मानसं भाव्यं यत्पूर्वञ्च पवित्रकं ।
तत्पुनस्तु न कर्तव्यं समयाचारलंघनं ।।
विलोमं तान्त्रिकाचारं स्वशास्त्राचारलघनं ।
भवभावनकर्तव्यं शिव वाक्यविलघनं ।।
गुरोर्वाक्यानुसारेण शास्त्राचारेण वर्तस्व? ।
दिनैकं तद्दिनं वाथ नियमञ्च कुरुस्वथ ।।
त्रिपञ्च नवपक्षम्वा ज्ञात्वा चैव स्वशक्तितः ।
विदेशप्रस्थितानां च गुरुवाक्योपराधिना ।।
तेषाञ्च विधिरेवोक्तो दिनैकाद्यं व्रतं प्रिये ।
स्थानाश्रयस्थिराणाञ्च स्वाधिनानां स्वतन्त्रिणां ।।
मासम्वाथ द्विमासम्वा त्रिचतुर्माससंयमं ।
१२२ब्)
अयाचितं वा नक्तञ्च अष्टग्रासमथापि वा ।
भिक्षासी वा गृहे पञ्च एकानेकासनेपि वा ।।
क्रव्याल्पाशी च वर्चाशी व्रत्र कृत्वा भवेच्छुचिः ।
अयुतं नियुतं वापि प्रयुतार्द्धं स्वशक्तितः ।।
यथाजपं तथा होमं ध्यानं पूजा तथैव च ।
दिनवंध्यं प्रकर्तव्यं नियमं नियमार्थिभिः ।।
तेनास्यं व्रतयागादि संपूर्णकरणं भवेत् ।
पवित्रापनयनं कृत्वा पूजापनयनम् भवेत् ।।
पुनः पूज्य वरारोहो तदेव हि यथा पुरा ।
चन्द्रोग्न्यावाथद्रस्काया(?) धूपे वाथ सुधूपितं ।।
दिने दिने हि कर्तव्यं नियमान्ते तु भाविनि ।
पूर्णे तु नियमे चैव यागमिष्ट्वा तु पूर्ववत् ।।
सर्वद्रव्यात्मसम्भारैः स्नानपूजाजपादिकं ।
कृत्वा चेष्टा च हुत्वा च देवञ्चैव क्षमापयेत् ।।
यत्कृतन्नियमाज्जाप्यं होमं चैव व्रतादिकं ।
तत्सर्वन्देवदेवस्य फलमुद्दिश्य सर्पयेत् ।।
समुद्दिश्य फलं नोचा(?) निष्टाव्रतनिधौ स्थितः ।
कुतेस्मिन् भाजनं शक्त्या सामान्यविधिसंस्थितः ।।
पूर्ववद् दानमानन्तु शीतप्रावरणादिकं ।
कौपीनाद्यं पतीभ्यश्च पादत्राणाद्यकं ददेत् ।।
विशेषैर्वा विशेषं तु कर्तव्यं भोजनादिकं ।
यथाशक्त्या ते नापि शीतत्राणादिकं ददेत् ।।
यतिभ्यो मानयित्वा तु भोजयित्वा यथा पुरा ।
निवेद्यविधिं देवस्य स्थित्वे शाने पुनर्ददेत् ।।
यत्किञ्चिद्विधिपूर्णं तु भावाभावोद्भवानि वा ।
करोतु विधिपूर्णन्तु स्वशक्त्या परमेश्वरः ।।
ततस्तु साधनैचार्घं दत्वा कर्मसमाचरेत् ।
मोक्षार्थी वा यथान्यायन्तथा सम्यक् समाचरेत् ।।
पिङ्गलामते पवित्रारोहणं ।।
पिङ्गलोवाच ।।
अधमध्योत्तमत्वञ्च शिवलिङ्गं न युज्यते ।
युज्यते तदा दोषो यथा पौरषवद् भवेत् ।।
व्याप्ति व्यापक भावस्य सैकाप्रोक्ता त्वया पुरा ।
१२३अ)
सिद्धिसाधनसंयोगा त्रिधा वा शतधापि वा ।
तत्रापि सुमहां दोषः चैकरूपा चला सदा ।।
न युक्तं सौम्यरौद्रञ्च शिवश्चैको द्विधा कथं ।
एतत्सर्वं समासेन कथयस्व प्रसादतः ।।
भैरव उवाच ।।
स च तत्व समत्वेन व्याप्तिर्या च मयोदिता ।
सा सर्वासर्वलिङ्गेषु सन्देहोत्र न भाविनि ।।
अधमध्ये तु मत्वञ्च किन्नस्यात् स विवक्षया ।
न याति वाचमानाद्वा याति कर्तु विवक्षया ।।
त्रिगुरु ब्राह्मणस्योक्तं चित्तभावानुरूपतः ।
क्षत्रियस्य द्विमध्यन्तु द्रव्यभावानुपूर्वशः ।।
उत्तमाधोधमान्मध्यं वैश्यस्यैव तु कीर्तितं ।
यच्छेषं शूद्रजातीनां द्विकन्यं वरवर्णिनि ।।
समे फलेपि विन्यासो लोकमार्गविचक्षया ।
धर्मसामान्ययो पार्थं अन्यथा वा यथायथं ।।
प्रासादमानतो नाथ कर्तुर्द्रव्यानुसारतः ।
करमानाधमाद्यास्तु ते न भेदोस्य कीर्तितः ।।
यदुक्तञ्च त्रिधासिद्धिः साधकेच्छा शिवस्य तु ।
ज्ञात्वाशयञ्च तेषां हि यत्र तत्र स्थितो वदेत् ।।
कन्यसे वाथ मध्ये ज्येष्ठे वाथददेत् त्रिधा ।
रत्नादीनां तथाप्रोक्तो मुद्गाङ्गलक्षणोपि सः ।।
न हीनफलसिद्धेस्तु हीनं स्याद्रव्यते तु किं ।
उत्तमा हीनदातृत्वा नोहीने द्रव्यते क्वचित् ।।
साधुः कर्मकराणां च दुष्टादोषैर्न वाध्यते ।
भूपति यथा दद्यात् फलं वृत्याश्च कर्मजाः ।।
भागातिशयतस्तेषां सर्वदोपि न हीयते ।
न हीयते तथानाथः प्रमाणादधमादिनां ।।
पुं भावश्च यथा ह्येकस्तत्वव्राते द्विभासते ।
भिन्नोभावादि भेदेन मूर्तिभेदात् तथा शिवः ।।
विशेषः स्थानगः प्रोक्तो यथार्कः किरणान्वितः ।
एवं रौद्र स्थितः सौम्ये भैरवाद्या कृतौ यथा ।।
विवक्षा साधका सार्वी तदिच्छातोभिजायते ।
१२३ब्)
रौद्रकर्मेप्य?के रौद्रं सौम्यसौम्यप्यके भवेत् ।
परिपक्व कषायानामुमुक्षुत्वे च तन्मतिः ।।
शक्तिपातेन मन्तव्यास्तीव्रम्तीव्रतरादिना ।
यथानुग्रहभेदस्तु रूपभेदस्तथा शिवः ।।
यथाप्राप्तिर्भवति च फले *? नां तथा मतिः ।
ज्ञात्वा सर्वज्ञता वृत्तौ तद्रूपी चाभवत् प्रभुः ।।
अस्त्रलोके सरूपाणां कर्मव्यक्ति करोहि सः ।
यदिनो साधनंध्यर्थं तेनासौ तत्तथा सृजत् ।।
एवं रक्षपिशाचानां भूतवेतालपालकैः ।
गणविद्याधरादीनां रूपकः परमेश्वरः ।।
यक्षदेवात्मकं भूत्वा फलमिष्टं समोवहेत् ।
यतोसौ परभावश्च व्यापकत्वञ्च सर्वदा ।।
सर्वज्ञत्वं स्वतंत्रत्वं सर्वकर्तृत्वलक्षणं ।
सर्वकारुणिको नाथो दयालुनित्यसाश्वतः ।।
अतश्चासौ शिवाणूनां भावाद्भावि फलस्य च ।
एवसंलक्षणं लिङ्गं साधकस्तु सलक्षणः ।।
सलक्षणगुणाधारः सलक्ष्येन क्षमभ्यसेत् ।
निर्लक्षे वा तदा तस्य लिङ्गञ्चिचित्लक्षतं ।।
मनोतीतो मनाधारः समासाद्यः प्रसिध्यति ।
सर्वसिद्धिकरं ह्येतत् विधानं पारमार्थिकं ।।
कथितन्तु मया भद्रे साधकानानसंशयः ।
पिङ्गलामते ।।
पिङ्गलोवाच ।।
श्रुतन्देव मयासर्वं लक्षणलिङ्गमादितः ।
मन्त्राणालक्षणं ब्रूहि तत्पूर्वं हि यतोखिलं ।।
भैरव उवाच ।।
अतःपरं प्रवक्ष्यामि मन्त्राणालक्षणं शुभं ।
येन विज्ञातमात्रेण साधकः सिद्धिभाग् भवेत् ।।
विजने च शुभे देशे पुष्पप्रकरशोभिते ।
आचार्यो मम्त्रसन्नद्धः साधकैः सह संयुतः ।।
अकारादि हकारान्ताः कूटषटविवर्जितां ।
मातृकां प्रस्तरेत् प्राज्ञः ततो मन्त्रेप्सितं लिखेत् ।।
गन्धपुष्पादिभिः पूज्य स्वकवर्णक्रमेण तु ।
सयोगार्णं तथा रेफं सानुस्वारं तथैव च ।।
१२४अ)
मात्राविसर्गा ये मन्त्रा पृथक्तं तेषु कारयेत् ।
विश्लेषञ्च ततः कृत्वा अधस्तान्नाम चालिखेत् ।।
लोकप्रसिद्धनामम्वा मात्रापित्रा च वाक्यतं ।
यतीनां पुष्पपातेन गुरुणानामयत्कृतं ।।
तस्यनाम्नस्तु वर्णास्तु विभक्ताश्चैव कारयेत् ।
यथामन्त्रस्य उक्तानि नामार्णस्य तथैव च ।।
साध्यसाधयो देवि लक्षणं वांशकं च यत् ।
साध्यार्णमालिकाधस्तादेकैकस्य ऋजूत्थिता ।।
साधकार्णं तथा कुर्याद् यावन् मन्त्रस्य संख्यया ।
पुनरेव तु दातव्यं यावत् पूर्यति मन्त्रराट् ।।
अथवा मन्त्रवर्णाना नामवर्णादिका यदि ।
पुनर्मन्त्राक्षरं नैव तं मन्त्रं वर्जयेत् सदा ।।
ज्ञात्वैवञ्च लिखेद्वर्णान् लिखित्वा गणित भवेत् ।
प्रथमस्तु भवेत् सिद्धः साध्याश्चैव द्वितीयकः ।।
सुसिद्धस्तु तृतीयस्यादरिश्चैव चतुर्थकः ।
पुनस्मि द्वस्ततः साध्यः सुसिद्धारिस्तथैव च ।।
एवनामाक्षरै देवि मन्त्रागणचतुर्विधः ।
कारयेत् गणनं प्राज्ञः यावन् मन्त्रः समाप्यते ।।
नामार्णमादितः कृत्वा मन्त्रार्णं यावद् गण्यते ।
समाप्ते तु ततो मन्त्रे निर्देशं च विधीयते ।।
सर्वसिद्धः प्रसिद्धेत दृष्टादृष्टफलं प्रिये ।
सर्वसाध्य उदासीनो न हानि नैव सम्पदः ।।
सुसिद्धस्सर्वतो मन्त्रं स्त्रिधा सिद्धि व्यवस्थिता ।
सर्वारिः कृत्तकः प्रोक्तः साधकस्य न संशयः ।।
आदि सिद्धान्ततश्चैव मन्त्रस्तु भवते यदा ।
अचिरेणैव कालेन ससिद्धिफलभाग् भवेत् ।।
साध्यान्तादिर्यदा मन्त्रः कृच्छ्रेणैव प्रसिध्यति ।
आदौ चान्ते सुसिद्धस्तु त्रैलोक्य फलदायकः ।।
प्रथमे च भवेच्छत्रुरिषुश्चान्ते तथैव च ।
सवैमारयते क्षिप्र साधकन्तु विपश्चिते ।।
१२४ब्)
आदि सिद्धान्तसाध्यश्च मन्त्रस्तु भवते यदा ।
कल्पोक्तं द्विगुणं कर्म कृत्वा चैव प्रसिध्यति ।।
सिद्धान्तो यदि साध्यस्तु कल्पोक्तेन तु सिध्यति ।
साध्यादि च सुसिद्धान्ते मन्त्रस्य भवते यदा ।।
तत्रापि द्विगुणे नैव सिद्धिर्भवति नान्यथा ।
आदौ सिद्धः सुसिद्धान्ते मन्त्रश्चैव यदा भवेत् ।।
चतुर्गुण कृते कर्म सिद्धो भवति मन्त्रराट् ।
रिपुरन्तसुसिद्धादि मन्त्रस्तु भवते यदा ।।
कल्पोक्तं द्विगुणं कर्म कृत्वा चैव प्रसिध्यति ।
तदाष्टगुणजप्तेन सिध्यते नात्रसंशयः ।।
अरिश्चादौ सुसिद्धान्ते मन्त्रस्तु यदि जायते ।
षड्गुणेन कृते कर्म तदा सिद्धिमवाप्नुयात् ।।
आदौ सिद्धः सुसिद्धान्ते मध्ये माध्यस्तथैव च ।
समन्त्र सिध्यते क्षिप्रं यदिष्टं साधकस्य तु ।।
सुसिद्धादिश्च सिधान्ते पूर्ववत् साध्यमध्यगः ।
सर्वसिद्धि करो नित्यं साधकस्य न संशयः ।।
सिद्धादौ च सुसिद्धान्ते रिपुरन्ते यदा भवेत् ।
ना *? प्रभवते मन्त्रे जयोधिक्यमपेक्षते ।।
सुसिद्धादौ च सिद्धान्ते रिपुरन्ते पूर्ववत् प्रिये ।
चतुर्गुण कृते कर्म तदा सिद्धिरवाप्यते ।।
आद्यन्ते च यदा साध्यो मध्ये सिद्धो यदा भवेत् ।
न सिद्धिर्न च हानिस्तु कृच्छ्रेणाथ प्रसिध्यति ।।
उभौ साध्यसुसिद्धान्ते जपाधिक्यमपेक्षते ।
अरौसंपुटिते सिद्धः सुसिद्धश्च तथैव च ।।
धनधान्यसुतान् पत्नी नाशं चैव विनिर्दिशेत् ।
सिद्धान्तरितसाध्यस्तु सुसिद्धान्तरितस्तथा ।।
अधमध्योत्तमासिद्धिर्विघ्नं तत्र न जायते ।
सिद्धान्तरितशत्रुर्वा सुसिद्धे च तथैव च ।।
नारिः प्रभवते तत्र किंतु कृच्छ्रमये क्षते ।
साध्यान्तरित सिद्धस्तु सुसिद्धस्तु तथैव च ।।
सोपि यत्नेन सिध्येत अतिकृच्छ्रेण भाविनि ।
१२५अ)
रिपूणान्तरितस्सिद्धः सुसिद्धश्च तथैव च ।
इदृशं लक्षणं दृष्ट्वा दूरतः परिवर्जयेत् ।।
रिपुणां दूषितो मन्त्रो नादेयस्तु कदाचनः ।
यातन कारयेत् पश्चात् मन्त्रादीनाम्वरानने ।।
सिद्धश्चैव सुसिद्धश्च एकीकृत्य विधानवित् ।
पुनः साध्यरिपुश्चैव कृत्वा तु दशभिर्गुणेत् ।।
गुणिते तु द्विधारासौ पश्चाद् भागं तु हारयेत् ।
सिद्धरासौ तु यो हानि वसुभिस्तु समाहरेत् ।।
अरिरासौ तु सोध्यानि भानुभि *? समाहरेत् ।
अरिरासौ तु यच्छेषसंशकाश्च भवन्ति हि ।।
ते च मासा समाख्याता सामान्ते परमेश्वरि ।
सिद्धिरासौ तु ये शेषाः प्रहरास्रां विदुर्वुधाः ।।
तत्प्रहरेषु च तन्मासे मन्त्रग्रहणमाचरेत् ।
तत्कालेद्यविशिष्ठन्तु चरुकादि प्रासनंहितं ।।
तन्मासे सिद्धिमायाति साधको नात्रसंशयः ।
मन्त्रलक्षणमेवोक्तं यत्वया संप्रचोदितं ।।
आज्ञानेनुष्ठयेद्यस्तु विघ्नानेकं विनिर्दिशेत् ।
एवं मंत्रात्मकं ज्ञात्वा सम्यक् ज्ञात्वात्मलक्षणं ।।
मंत्रस्यार्घं प्रदातव्यं यदिष्टं साधकेन तु ।
पिङ्गलामते मन्त्रांशकलक्षणोनामप्रकरणः ।।
पिङ्गलोवाच ।।
सामान्यलक्षणो देव चुम्बकः साधकौ स्मृतौ ।
विशेषात्मगतं चैव तयो लक्षणकं वदः ।।
भैरव उवाच ।।
आर्यदेशविनिर्मुक्ता प्रान्तदेशोद्भवास्तु ये ।
न ते सिद्ध्यरिहा ज्ञेया न चान्यस्य तु सिद्धिदाः ।।
न स्वतो मुक्ति मयान्ति पाराक्य वशवर्तिनः ।
उच्चारायग्निसंयोगात् षडध्वानविशोधनात् ।।
शिवेच्छा भक्तियुक्ता वा शिव स्मरणं भाविताः ।
मोक्षस्तेषां वरारोहे नान्यथा तु कदाचनः ।।
पौनर्भवसमुत्पन्नो वेश्यागर्भोद्भवास्तु ये ।
१२५ब्)
कथको गोत्रजा वाथ रक्तभिक्षोथपाण्डरः ।
पटश्चैतोथनिर्ग्रथः महाव्रतधरस्तथा ।।
व्रतं पाशुपतधृत्वा भगवकालसंज्ञकं ।
व्रतविप्लावकोपे च लिङ्गाधार कृताश्च ये ।।
बीजसंकरसंकीर्णो योनिसंकरसंकरा ।
ब्रह्मयोनिषु सूद्रेण न वैश्यैर्न तु क्षत्रियैः ।।
उत्पनास्तत्रहीनास्तु न ते सिद्ध्यरुहामताः ।
वर्णान्योन्येनये जाताः योनिसंकरसम्भवाः ।।
सिद्धिभाजो न ते चात्र मुक्तिर्भाजोथ दीक्षया ।
ब्रह्मक्षत्रियविछुद्राश्चातुवर्णोपि सम्भवाः ।।
शुद्धे महतीवंशे वा सर्वाङ्गलक्षणान्विते ।
इभक्तम्भाकृतिं मूर्ध्ना छत्राकारमथापि वा ।।
सुस्निग्धः कुटिलैः केशैः षट्पदाकारसंनिभैः ।
वृहल्ललाट्टपट्टेन आयतः कृतशोभिना ।।
भ्रुवौ वायत चापाभौ लोचनेतरलक्षणे ।
सितौ वायत कर्णान्तौ तारौसारङ्गसन्निभौ ।।
नयनोपान्तसंरक्तौ नीलोत्पलदलान्तगौ ।
नामावंशेन तुङ्गेन ऋजुना यत्तलेन च ।।
इषन्नामित मूलेन संलग्नौ भ्रुवसन्धिना ।
तथैव गण्डयुग्मेन इषद्रन्नसितेन च ।।
कपोलौ च समौसुत्रौ विभक्तौ सृक्षिणी गती ।
अधराष्टेन युग्मेन विम्ववर्णाधरेण तु ।।
किञ्चिदग्रोन्नता युक्तिः शितादशनदष्ट्रिणः ।
चिबुकेन विभक्तेन प्रोन्नतेन समस्रुणा ।।
कर्णौच्चलितशः कुल्यौ भूषणौ वरलम्वितौ ।
कम्बुग्रीवेणकण्ठेन स्कन्धविप्रलेन तु ।।
कलसाधारसंस्थेन वहूशिखरशोभिना ।
भुजौस्तंभेन वृत्तेन गूढसन्धिप्रलम्बिना ।।
गोपुच्छकरिणाभेन मणिवन्धावसानतः ।
करौ ताम्रारुणौ चैव दैर्घ्यैरंगुलिभिः शुभैः ।।
सर्वसंधिसमैः पर्वैरारकुतनुभिर्नखैः ।
१२६अ)
विस्तीर्णवक्षभागैकं तनुनाजठरेण तु ।
नाभिप्रदक्षिणावर्तन निम्नोनोन्नतः शुभः ।।
पार्श्वौस्तु वर्तितौ चैव कक्ष्यवक्ष्यावसानकौ ।
कटिग्रीवाविभक्तेन पृष्ठभागेन चैव हि ।।
न चैवाभ्यन्तनिम्नेन पृष्ठवंशेन संयुतः ।
चतुरस्र कृतेनैव मेखलागुणवन्धिना ।।
स्फिचाधारौ च तावर्त्यौ कटिस्तम्भो न तेन तु ।
उरूकरिकराकारौ सुवृत्तौ नातिकर्कसौ ।।
जंघौ मकरवक्त्रालौ जान्वस्थिपरिवर्जितौ ।
कूर्मपृष्ठोन्नतौ पादौ मांसलौ सुसमौघनौ ।।
निगूढगुल्फसन्धानौ शिराजालविवर्जितौ ।
अग्रोन्नताचाङ्गुलिभिरंगुष्ठौ परिवर्तुलौ ।।
राखैश्च रक्तमूलैस्तु शिताभैश्च मुखोन्नतैः ।
प्रोत्फुल्लकमलालासौ तलपादौ तु यस्य वै ।।
श्यामवर्णोथ गौरो वा मुद्गश्यामं प्रियङ्गुवत् ।
नातिकृष्णो न गौरो वा मेघदुन्दुभिनिस्वनः ।।
सुप्रहृष्टान संक्रुद्धः वादजल्पे पराङ्मुखः ।
विशेषलक्षण ह्येतत् साधकोह्यथ देशिकः ।।
सौरिहः सर्वसिद्धीनां साचारश्च प्रदर्शकः ।
सर्वलक्षणसंयुक्तः पूर्णलक्षणलक्षितः ।।
सुविज्ञातं ततः कृत्वा शक्तिना यः प्रचोदिनः ।
दृढभक्तानुरक्तश्च मन्त्रचानुभावित ।।
ख्याययं तस्य च तन्त्रार्थं या संख्या सासनस्य तु ।
संस्कृत्य चात्मसंस्कारैर्मन्त्रं तंत्रं प्रकाशयेत् ।।
स चैकान्तगुहावासी मंत्रतंत्रोप वृंहितः ।
यदात्मभोगमाकांक्षी तदा तेषु प्रवर्तते ।।
सहायैः सुदृढैर्वीरैपुनश्चात्मसमै नरः ।
सभृतस्सर्वसंभारैस्तदासाधनमारभेत् ।।
साधकस्त्रिविधस्तत्र उत्तमाधममध्यमाः ।
तद्विधारत्रिधासिद्धिः कयामि प्रति प्रति ।।
अणिमालघिमा चैव महिमा प्राप्तिरेव च ।
१२६ब्)
प्रकामता इषित्वं च यत्र कामावशापिका ।
महासिद्धीभिरष्टाभिः दशप्रत्यययुग्भवेत् ।।
उत्तमः शाधकश्चैव साधयेच्चोत्तमा प्रिये ।
कृपाशंसंखशूलाब्जं चक्रञ्च परशुधनुः ।।
वेतालपादुकौ दण्डं पद्मखड्गङ्कमण्डलुं ।
भस्माधारञ्च खट्वाङ्गं खटिकाद्यूतमेव च ।।
शक्तिपाशांकुशंश्चैव ससाधनं ।
गदाक्षुरिककर्तृ च मुद्गरञ्च तथैव च ।।
कपालस्य च प्रेत्या च पुनः पालसाधनं ।
एवमाष्टानि चान्यानि मध्यमं मध्यमस्य च ।।
शान्तिकं पौष्टिकं चैव वश्याकर्षणमेव च ।
विद्वेषोच्चाटने चैव मोहनं मारणन्तथा ।।
स्तम्भनं रोहणं द्वेषं दण्डपिट्टापनवधं ।
एवमाद्यादि चान्यानि कन्यसं कन्यसंकन्यसंस्य च ।।
प्रतिष्ठापञ्चकोपेतं लिङ्गप्रासादलक्षणं ।
प्रतिमालक्षणं चैव मुखलिङ्गस्य लक्षणं ।।
चलपट्टं तथा वाणं पीठपिण्डिक लक्षणं ।
वास्तु लक्षणसूत्रञ्च निवेशञ्च पुरादिषु ।।
लक्षणं चैव द्रव्याणां मठाट्टालकलक्षणं ।
शिल्पिनश्चुम्बकश्चैव साधकस्य च लक्षणं ।।
जीर्णोद्धाराश्रयं चैव नियमञ्च यथा भवेत् ।
पवित्रारोहणं चैव मन्त्रांशकविलक्षणं ।।
अधमध्योत्तमञ्चैव त्रिधासिर्यथास्थितं ।
सर्वज्ञविषयं सर्वं कल्याणं सर्वसम्पदः ।।
कथितन्तु मयासर्वं यत्त्वयासंप्रचोदितं ।
पिङ्गलामते सिद्धिसाधनाचार्यलक्षणं ।।
पिङ्गलोवाच ।।
सर्वेषां लक्षणं देव आगमात् प्रतिपद्यते ।
आगमो लक्षणोपेतो नेति वा वदमे प्रभो ।।
आगमस्यास्य देवेश सम्बन्धः कथमुच्यते ।
साधक व्यक्ति हेत्वर्थं व्याख्याप्ययनकं वद ।।
भैरव उवाच ।।
साधु साधु महाप्राज्ञ युक्त चोद्यविकल्पिनि ।
१२७अ)
कथयामि न सन्देहो लक्षणं चागमस्य तु ।
आद्भावस्तु समन्ताच्च गम्यते त्यागमो मतः ।।
सास्यते त्रायते यस्मात् तस्माच्छास्त्रमुदाहृतं ।
ज्ञायते नयते येन ज्ञानन्ते नाभि धीयते ।।
तनुते त्रायते नित्यं न तु मित्थं विदुर्वुधाः ।
शब्दार्थैस्तु चितो वापि वुधैरागमकल्पितः ।।
शिववक्त्राम्बुजा पातं पारंपर्य क्रमेण तु ।
छन्दोलक्षणसंसिद्धि * *? मेत्यभिधीयते ।।
श्रोतृवत्कृत्व न्यायेन स च ज्ञेयस्तु पण्डितैः ।
वक्ताचार्यस्तु मुख्येन साधकोवा क्वचिद् भवेत् ।।
समयी पुत्रकौ नैव शिवशास्त्रार्थ पारगै ।
यद्यप्यर्थ विदौ तौ तु न श्रोतव्यं फलार्थिभिः ।।
श्रोतारोह्या गमस्यैव समयी सुतसाधकाः ।
देशिकाः मेश्वरा सर्वे(?) शिवभक्ता दृढव्रताः ।।
मन्त्रीमन्त्राभिषिक्तस्तु तत्राचारविधौरतः ।
सम्वत् २९७ चैत्रशुक्लपूर्णमास्यां मासदिने उत्तरफाल्गुणनक्षत्रे ।
श्रीरमेश्वर परमभट्टारकमहाराजाधिराज श्रीमद्रुद्र देवस्य
विजयराज्ये । श्रीमत् महाविजकरथ्यायां श्रीचन्दनमण्डपीरथ्याधिवासिना ।
श्रीशिवाचार्यविजाधरवर्मेण लिखापितं पुस्तकं ।
लेखकपशुपतिनालिखितमिति ।।
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
tpl09dlrphbiofoe0wt09cuz28i7cpg
पीठपूजाविधिः
0
164234
415851
2026-05-13T04:43:42Z
Shubha
190
{{header | title = पीठपूजाविधिः | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ---- MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00559 Uniform title: pīṭhapūjāvidhi Manuscript : NGMCP 1/1081 Reel No: B 191/12 D... नवीन पृष्ठं निर्मीत अस्ती
415851
wikitext
text/x-wiki
{{header
| title = पीठपूजाविधिः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00559
Uniform title: pīṭhapūjāvidhi
Manuscript : NGMCP 1/1081 Reel No: B 191/12
Description:
Ritual manual
Notes:
Manuscript selected by Dr. Mark S.G. Dyczkowski .
Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash.
Revision 0: Sept. 26, 2021
Internet publisher : Muktabodha Indological Research Institute
Publication year :
Publication city :
Publication country : United States
----
प्. १अ) १ ओं नमः श्री ३ महागणेशाय नमः || श्रीगुरुपादुकाभ्यां नमः
||
ततः पीठपूजाविधिः ||
यजमान पुष्पभाजनयाचके || अद्यादि || वाक्य || यजमानस्य मानवगोत्र
श्रीश्रीजयभूपतीन्द्रमल्लवर्म्मणः श्री ३ आकाश महाभैरव
प्रीत्यर्थं रथप्रतिष्ठा तदुपरि सुवर्णकलशध्वजावलोहन भैरवाग्नि
सहस्राहूति अहोरात्र यज्ञ अष्टमातृका आराधन निमिर्त्यर्थं कर्तुं
पुष्पभाजनं समर्प्पयामि ||
श्रीसंवर्त्तामण्डलान्ते क्रमपदसहितानन्दशक्ति सुभीमा
सृष्टं न्याये चतुष्कं त्व कुलकुलगतं पंचकं चान्यषट्कं |
चत्वारो पंचकोन्यं पुनरपि चतुरंस्तत्वतो मण्डलेदं
संसृष्टं येन तस्मै नमत गुरुवरं भैरवः श्रीकुजेशं ||
श्यामा रक्ता त्रिनेत्रास्तनभरनमिता मत्तमातऽऽन्गामी
बिम्बोष्ठी चारुनेत्रा पृथुतलजघना मेखलारत्नशोभे |
देवाऽऽन्गे वस्त्रशोभे वरवरकुसुमे वर्व्वराकेशभारे
सा मे श्रीकुब्जिकाख्या वितरतुतरसा ज्ञानदिव्यौघमोघं ||
प्. १ब्) उत्फुल्लाम्बुज कर्णिकोपलिगता श्रीसिद्धिलक्ष्मी परा
कर्प्पूरस्फटिकेन्दु कुण्डधवरा निशेष पापोपहा ||
संसारार्णवदुःखपक्वदहनी निष्कम्पनं सर्व्वदा
श्रीमत्पञ्चमुखाम्बुजा दशभुजा प्रेत स्थिता पातु वः ||
गौरं त्र्यक्षविभादि पंचवदनं सिंहस्थमाकर्षणं
पाशं मुद्गरतऽऽन्कमक्षमभयं नागेश्वरं तम्बरं |
पात्रं मोदकपूरितं ह्यभयदं सव्यापि सव्योकरं
विभ्रच्छूलमनोहरं सुजठर हेलम्बनाथं नमः ||
ब्रह्माणि कमलेन्दु सौम्य वदनी माहेश्वरी लीलया
कौमारी रिपुदर्प्पणाशनकरी चक्रायुधा वैष्णवी |
वाराहि घणघोरघर्घरमुखी ऐन्द्री च वज्राअयुधा
प्. २अ) चामुण्डागननाथ भैरवगणा रक्षन्तु मे मातृका ||
पीठे मध्ये निवासिनी भगवति प्रेतासनी सुन्दरीं
रक्ताऽऽन्गी धृतशूलसाक्षकृ?करी संसारसारप्रदां |
ब्रह्मोपेन्द्रसुरेन्द्र किन्नरगणैः संपूजितां सर्व्वदा
तां वन्दे सततन्नमामि शिरसा कामार्थसिद्धिप्रदां ||
ब्रह्माण्यादि जयादिभिः परिवृता क्षेत्रे स्थिता योगिनी
श्रीवीरे सकले सुरैः समरसो शूलाक्षमाला धृता |
उन्मत्ता धृतसांकमऽऽन्गलयुधा पीयूषधारावृता
प्रेमानावरकाद्य बिन्दु सहिता चक्रेश्वरी नमोस्तुते ||
पूर्वं दक्षिणपश्चिमोत्तर शिवा पूर्वादिवामासिका
क्षेत्रेशो वटुभूतदुर्ग्गहरणं हेलम्बनथाय च |
प्. २ब्) श्मशानेश्वरमादिदेव द्विभुजः शोकादिदोषप्रहा
नित्यानन्दमयी प्रमोदिते सदावल्यादि पूजाविधि ||
सिद्धिरस्तु क्रियारम्भे वृद्धिरस्तु धनागमे |
पुष्टिरस्तु शरीरेषु शान्तिरस्तु गृहे तव ||
सर्व्वविघ्नि प्रशमनं सर्व्वशान्तिकरं शुभ |
आयुपुत्रं च कामञ्च लक्ष्मी सन्तति वर्द्धनं ||
यथादान प्रहाराणां कवचं भवतु वारिणं |
तद्वदैव विधात्राणां शान्तिर्भवतु वारणं ||
पुष्पभाजनं समर्प्पयामि ||
गो यदाममालकोतयावजोपयके || थ्वते धुनऽऽनावे वं स्वसे चोऽऽनाव ||
विघ्निहरण वलिविय || वलिछपात भुजावन मेलाने उति || द्वंदु ५ || नववलि ५ ||
अर्घपात्रसऽऽना
प्. ३अ) सुकला सवुनन्यानते || केवोफं १ ||
स्नानादि || लंखनहाय ||
ऊकारं वायुबीजं तदुपरि वरुणं वज्रपाणिं तदूर्द्ध्वं
कालं वर्णांतयुक्तं तदुपरि परमं वह्निबीजं स हंसं |
इन्दुबिन्दुं लयान्तं सितकमलधरं क्षीरधारा श्रवन्तं
दृष्ट्वा कूटन्तु नित्यं दहति कुलमलं मेरुतुल्यं हि पापं ||
अलिस्नानं ||
श्क्ष्म्ल्व्र्यीं श्रीपादुकां || चेत् ||
श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरं |
आभूषितं ललाताक्षं चन्दनं प्रतिगृह्यतां ||
चन्दनं लेपितं पुण्यं पवित्रं पापनाशनं |
आपदा हरते नित्यं लक्ष्मीराज्यसुखप्रदं ||
सिंदूर ||
वीरेश्वरी महावीर वीरभस्मविभूषितं |
त्रैलोक्याकर्षणी देवी सिन्दूरारुणमुत्तमं ||
प्. ३ब्) अक्षत ||
अक्षतं अक्षयो कामं धर्म्मकामार्थसिद्धिदं |
इप्सितं मे वरं देही परत्रे च परांगतिं ||
दृष्टि ||
स्वर्ग्गमर्त्त्यैक पाताल चतुर्द्दशप्रदर्शकं |
दिव्यचक्षु फलाप्त्यर्थं दृष्टिकं प्रतिगृह्यतां ||
जजमका ||
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यस्सहजं पुरस्तात् |
आयुष्यमग्रं प्रतिमञ्च शुभ्रं यज्ञोपवीतं परमस्तु ते यः ||
अदुवार ||
वस्त्रं पवित्रं परमं सुखसौभाग्यदायकं |
कार्प्पासिकं जगत्मात्र वस्त्रगृह्न नमोस्तुते ||
स्वान ||
नानापुष्पसुगन्धाढ्यं मालतीकुसुमोपमं |
सौभाग्यसिद्धिदं भद्रे पुष्पारोहनमुत्तमं ||
प्. ४अ) कर्णपताका ||
शुद्धसिन्दूरवर्णाभा पताकां कर्णसंज्ञकां |
गृहानपरमेसान चतुष्कोणां सुशोभणां ||
पंचपताका ||
कर्णार्थ युगलं देवि पताकां पंचवर्णकं |
पचसिद्धिफलाप्त्यर्थं गृहाणध्वजमुत्तमं ||
चफुमाढे ||
छत्रं चिन्तामणिं दिव्यं पूर्णचन्द्रनिभंसितं |
तेन दत्तेन देवेश देहि मे चिन्तितं फलं ||
मालक्वजापूजावोय || त्रितत्वेनाचमनं ||
ह्रां आत्मतत्वाय स्वाहा || ह्रीं विद्यातत्वाय स्वाहा || हूं शिवतत्वाय स्वाहा ||
ह्रां ह्रीं ह्रूं सर्व्वतत्वाय स्वाहा ||
सूर्ययार्घ || अद्यादि || वाक्य ||
वर्णान्तं बीजमुद्धृत्य तस्योपरि शिवं न्यसेत् |
आदिमध्यावसाने तु अग्नित्रयविभूषितं ||
प्. ४ब्) वर्म्मणा दीपितं कृत्वा सावित्री चैव मुद्धरेत् |
एष कूटवरः श्रेष्ठो महामार्त्तण्डभैरवः ||
अर्घं नमः || पुष्पं नमः || र्ह्र्क्ष्रीं श्रीमहामार्त्तण्डभैरवाय नमः
||
गुरुनमस्कार ||
ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौं ||
अखण्डमण्डलाकारं व्याप्तं येन चराचरं |
तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः ||
गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देव महेश्वरं |
गुरुदेव जगत्सर्व्वं तस्मै श्रीगुरुवे नमः ||
परमगुरुभ्यो नमः || परमेष्ठीगुरुभ्यो नमः || परमाचार्यगुरुभ्यो
नमः ||
वलिस ||
पद्मासनाय पादुकां ||
थवके || कूर्म्मासनाय पादुकां ||
पार्श्वे अक्षत विकरणं || किणि २ विच्चे कोऽऽन्कणायै ह्रः अस्त्राय फट् ||
प्. ५अ) वज्रमुद्रया मुखवेष्टनं || ऐं ५ हूं फट् वज्रपंजरे स्वाहा ||
दशद्वारस्पर्शनं || ५ चलमे कुले कुलमचले ह्रीं ह्रूं फट् स्वाहा ||
न्यासः ||
५ किणि २ विच्चे कोऽऽन्कणायै ह्रः अस्त्राय फट् पादुकां ||
करशोधनं ४ ||
नमो भगवति हृत्कमलायै ह्रां श्री अंगुष्ठाभ्यां पादुकां || ह्स्फ्रें
कुब्जिकायै कुलदीपायै ह्रीं श्रीं तर्ज्जनीभ्यां पादुकां || ५ ह्रां ह्रीं ह्रूं
वर्व्वरशिखे ह्रूं श्रीमध्येमाभ्यां पादुकां || ५ घोरे अघोरे
अघोरामुखी वहुरूपायै ह्रैं श्रीं अनामिकाभ्यां पादुकां || ५ छां छीं
महन्तारिकायै ह्रौं श्रीकनिष्ठाभ्यां पादुकां || ५ किणि २ विच्चे
कोऽऽन्कणायै ह्रः श्रीकरतरपृष्ठाभ्यां पादुकां || इति करं न्यासः ||
५ नमो भगवति
प्. ५ब्) हृत्कमलायै श्री ऊर्द्ध्ववक्त्रायै पादुकां || ५ ह्स्फ्रें कुब्जिकायै
कुलदीपायै श्रीपूर्ववक्त्रायै पादुकां || ५ ह्रां ह्रीं ह्रूं वर्व्वरशिखे
श्रीदक्षिणवक्त्रायै पादुकां || ५ घोरे अघोरे अघोरामुखी वहुरुपायै श्री
उत्तरवक्त्रायै पादुकां || ५ छां छीं महंतारिकायै श्रीपश्चिमवक्त्रायै
पादुकां || ५ किणि २ विच्चे कोऽऽन्कणायै श्रीपरापरवक्त्रायै पादुकां || इति
वक्त्रन्यासः ||
५ नमो भगवति हृत्कमलायै ह्रां हृदयाय पादुकां || ५ ह्स्फ्रें कुब्जिकायै
कुलदीपायै ह्रीं शिरसे स्वाहा || ५ ह्रां ह्रीं ह्रूं वर्व्वरशिखे ह्रूं
श्रीशिखायै वौषट् || ५ घोरे अघोरे अघोरामुखी वहुरूपायै ह्रैं कवचाय
हूं || ५ छां छीं महन्तारिकायै ह्रौं नेत्रत्रयाय वषट् ||
प्. ६अ) ५ किणि २ विच्चे कोऽऽन्कणायै ह्रः अस्त्राय फट् || इत्यंगन्यासः ||
जलपात्रासनाय पादुकां || ऐं ५ ह्स्क्ष्म्ल्व्र्यूं आनन्दशक्तिभैरवाननद
वीराधिपतये श्क्ष्म्ल्व्र्यीं श्रीजलपात्रभट्टारिकायै पादुकां || ह्रां
हृदयाय नमः || ह्रीं शिरसे स्वाहा || हूं शिखाय वौषट् || ह्रैं कवचाय हूं
|| ह्रौं नेत्रत्रयाय वषट् || ह्रः अस्त्राय फट् || आवाहनादि || धेनुमुद्रां ||
गायत्रि ||
ऐं ५ कुब्जिकायै विद्महे कुलदीपायै धीमहि तन्नो कुब्जि प्रचोदयात् ||
अर्घपात्रपूजा ||
अर्घपात्रासनाय पादुकां || ऐं ५ ह्रां ह्रीं ह्रूं ह्रः प्रस्फुर २ घोर २
तरतनु २ रूपचट २ प्रचट २ कह २ वम २ दम २ घातय २
प्. ६ब्) विघातय २ विघ्नि २ हूं ३ फट् क्रों श्रीमहाकौमारिका विच्चे पादुकां ||
ऐं ५ श्क्ष्म्ल्व्र्यीं आनन्दशक्तिभैरवानन्द श्रीमहाविद्याराजेश्वरी
ह्स्क्ष्म्ल्व्र्यूं श्री अर्घपात्रभट्टारिकायै पादुकां || षडंग || आवाह्य
योनिमुद्रां ||
भूतशुद्धि ||
ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौं ह्सौं ह्स्फ्रें श्रीं ह्रीं ऐं ||
आत्मपूजा ||
ऐं चन्दनं पादुकां || ह्रीं अक्षतं पादुकां || श्रीवीरभस्म पादुकां ||
ह्स्फ्रें सर्व्वजनमोहनी पादुकां || ह्सौं नानाछत्रालंकालपुष्पं
पादुकां || ऐं ५ ह्स्क्ष्म्ल्व्र्यूं आननदशक्तिभैरवानन्दवीराधिपतये
श्क्ष्म्ल्व्र्यीं आत्मने पुष्पं पादुकां || ऐं कुसौ पादुकां || बिन्दुत्रय ३ ||
इत्यात्मपूजा ||
मालिनदण्डकं पठेत् || ओं नमश्चण्डिकायै ||
प्. ७अ) श्रीभैरव उवाच ||
ऐं ५ जयत्वं मालिनी देवी निर्म्मले मल नाशिनी |
ज्ञानशक्तिप्रभूद्देवी बुद्धिस्त्वं तेजवर्द्धनी ||
जननी सर्व्वभूतानां संसारेऽस्मिं व्यवस्थिता |
मातावीरावली देवी कारुण्यं कुरु वत्सले ||
जयति परमतत्वनिर्व्वाणसंभूति तेजोमयि निःसृता व्यक्तरूपा
पराज्ञानशक्तिस्त्वमिच्छाक्रिया मंगला ऋज्विरेखा सुरेखा पुनः
सुप्तनागेन्द्रवत्कुण्डलाकाररूपा प्रभूर्न्नादशक्तिस्तु संगीयसे भासुरा
ज्योतिरूपा स्वरूपा शिवाज्येष्ठनामा च वामा च रौद्री मनाख्यान्विका
बिन्दुरूपा वधुतार्द्धचन्द्राकृतिस्त्वं त्रिकोणा अ उ मकार ओकार ईकार
संयोजितैक त्वमाद्यसे तत्त्वरूपा भगाकारवस्थायिनी आदितः
क्षान्ततत्वत्वोद्भवा
प्. ७ब्) योनिरूपा स्वरूपा श्रीकण्ठसंबोधनी रुद्रमाता तथा नन्दशक्तिः
सुशूक्ष्मा त्रिमूर्त्तामरीशार्घिनी भारभूति स्थिति शात्मिकास्थाणु
भूताहताक्षा च झण्ठीश भौतीश सद्यात्मिकानुग्रहेशार्च्चितात्वं
क्रुरशाऽऽन्गमहासेन संभोगिनी षोडशान्तामृता बिन्दुसंदोहिनीस्यंद
देह प्लूताशेषशम्यक् परानन्दनिर्वाणसौख्यप्रदे भैरवी भैरवाद्यान
क्रीडानुशक्तिः परामारिनी रुद्रमातार्च्चिते रुद्रशक्तिः खगसिद्धि योगेश्वरी
सिद्धिमाता विभुः शब्दराशीति योन्यार्णवी वाग्विशुद्धा शिवासिद्धि
वागेश्वरी मातृकासिद्धिमिछाक्रियामंगलासिद्धिलक्ष्मीर्व्विभूतिः
संभूतिर्ग्गतिः शाश्वताख्यान्ति नारायणी रक्तचण्डा कराले क्षणा
प्. ८अ) भीमरूपा महोछूष्मा योगप्रियात्वं जयन्त्याजिता रुद्रसंमोहिनी
त्वं नवात्माख्य देवस्य चोत्संगपानाश्रिता
मन्त्रमार्ग्गानुगैर्म्मन्त्रिभिर्व्वीरपानानुरक्तैः सुभक्तैश्च संपूज्यसे
देवी पञ्चामृतैद्दिव्यपानोत्सवै मुण्डकऽऽन्कालकापालिनी
एकजन्मद्विजन्मत्रिजन्मचतुःपंचषट्सप्तजन्मोद्भवै शास्त्रवैस्तैश्च
नारैः शुभैः फल्गुषैस्तर्प्यसे मद्यमांसप्रिये
मन्त्रविद्याव्रतोद्भासिभिर्म्मुण्डकं
कालकापालिभिर्द्दिव्यचर्ययानुरूढैर्नमस्कार ओंकार स्वाहा स्वधाकार
वौषट् वषट्कार हुंका फत्कार जातिभिरेतै श्च
मन्ताक्षरोच्चारिभिर्व्वामहस्तस्थितै रक्ष सुत्रावलि जातिभिः साधकैः
पुत्रकैःर्मातृभिर्म्मण्डलैर्द्दीक्षितै योगिभिर्ययोगिनिवृन्दमेलापकै
प्. ८ब्) रुद्रक्रीडालसैः पूज्यसे योगिनी योगसिद्धिप्रदे देवित्वं
पद्मपत्रोपमैल्लोचनैः स्नेहपूर्णस्तु संपश्यसे तस्य दिव्यान्तरिक्ष स्थिता
सप्तपातालसंखेचरी सिद्धिरव्याहतावर्णते भक्ति तोयः पठेद्दण्डक्रमे
एककालं द्विकालं त्रिकालं चतुःपंचषट्सप्तचाष्टौ शुचिः संस्मरेद्यः
सदा मानवः सोपि चौराग्नि शस्त्रार्णव पर्व्वताग्रेपि संरक्षसे देवी पुत्रान्
रागान्महालक्ष्मी प्रिये हेमचौरान्यपरदारानुशक्तश्च ब्रह्मघ्न गोघ्न
महादोषदुष्टा विमुञ्चन्ति संस्मृत्य देवी त्वदीयमुखं
पूर्णचन्द्रानुकारि स्फुरद्दिव्यमाणिक्य सत्कुण्डलोद्घृष्टमण्डस्थलं
येऽपि वद्ध्वा दृढैर्बन्धनैर्नागपाशैर्भुजावद्धपादांगुलैस्तेपि
त्वन्नामसंकीर्त्तनाद्देवि मुञ्चन्ति
प्. ९अ) घोरैर्म्महाव्याधिभिः संस्मृत्य पादारविन्द द्वयं ते महाकालि
कालाग्नि तेजः प्रभे स्कन्दब्रह्मेन्द्र चन्द्रार्क्कपुष्पायुधैर्म्मौलिमालालि
सत्पद्म किंजल्क सत्पिञ्जरे सर्व्ववीराम्बिके भैरवि भैरवस्ते
शरणागतोहं क्षमस्वापराधं क्षमस्वापराधं शिवे ||
एवं स्तुत्वा महादेवी भैरवेन महात्मना |
ततो लिंगविनिर्भिद्यनिर्ग्गतां परमेश्वरी ||
इति मालिनीदण्डकस्तोत्रं समाप्तं ||
पंचवलिविय ||
ऐं ५ मयूरासनायदुकां || ऐं ५ श्रीं ह्रीं कुलपुत्रवटुकनाथाय पादुकां ||
बलिं ||
५ नरासनाय पादुकां || ऐं ५ थ्रौं प्रस्तरद्वीपदं भकी देवी
महाध्वांक्ष क्षेत्रपालाय पादुकां ||
बलिं ||
५ शवासनाय पादुकां || ऐं ५ यां योगिनीभ्यो पादुकां ||
प्. ९ब्) बलिः || ५ ये केचित् योगिनीनां पीठजा क्षेत्रजा सहजा जोगजा गर्भजा
कुलजा संदोहजा ये केचिद् योगिनीनां खेचरी भूचरी गोचरी एकाक्षरी
द्वक्षरी त्र्यक्षरी चतुःपंचषट्सप्ताष्टनवाक्षरीणां त्रीयगामिनीनां
यथोपपन्नानां बलिं गृह्न २ स्वाहा ||
५ प्रेतासनाय पादुकां || ऐं ५ ह्स्ख्फ्रीं श्रीसिद्धिचामुण्डेश्वरी पादुकां ||
बलिं ||
५ मूषासनाय पादुकां || ऐं ५ गां गीं गूं गैं गौं गः ग्लौं
श्रीकुलगणेश्वराय पादुकां || बलिं ||
आवाहनादि ||
दण्ड तर्जनी योनि बिन्दु गजमुद्रां दर्शयेत् ||
जप ||
श्रीं ह्रीं स्वाहा १० || थ्रौं स्वाहा १० || यां स्वाहा १० || ह्स्ख्फ्रें स्वाहा १० ||
ग्लौं स्वाहा ||
स्तोत्र ||
गौर्ययापुत्रं कुमारं गगणतरुधृतं क्षेत्रकं योगिनीं च
प्. १०अ) चामुण्डा चण्डरूपा दुरित भयहरं विघ्निहारं गणेशं ||
पुष्पाद्या धूपदीपा मिखमधुवलिभिः चर्च्चिता भूषिताऽऽन्गी
चक्रे संपूज्ययकानां विविधजनहिता भुक्तिमुक्ति प्रदाता ||
पंचवल्यार्च्चनविधे तत्सर्वं पलिपूर्णमस्तु ||
आवाहन ||
श्रीसम्वर्त्तामण्डलान्ते क्रमपदनिहितानन्दशक्तिः सुभिमा
सृष्टिं न्याय चतुष्कं अकुलकुलगतं पंचकं चान्य षट्कं |
चत्वारो पंचकोन्यं पुनरपि चतुरं तर्त्ततो मण्डलेदं
संसृष्टं येन तस्मै नमत गुरुवरं भैरवं श्रीकुजेशं ||
इदं आवाहिष्ये आवाहयामि ||
५ अलुं अनन्तमण्डल श्री आदिदेव पादुकां ||
त्रिदेव || आसन || ५ नरासना पादुकां ||
प्. १०ब्) ५ मयूसनाय पादुकां || ५ मूषासनाय पादुकां || ५ थ्रौं
प्रस्तरद्वीपदम्भकी देवी महाध्वांक्ष क्षेत्रपालाय पादुकां || ५ श्रीं
ह्रीं कुलपुत्रवटुकनाथाय पादुकां || गां गीं गूं गः ग्लौं
कुलगणेश्वराय पादुकां ||
थ्वतेनं बलिः || आवाह्य || तर्ज्जनी दण्डगजमुद्रां ||
इन्द्रादि || लूं इन्द्राय नमः || बलिं || रूं अग्नये नमः || मूं यमाय नमः ||
क्षूं नै-ऋत्याय नमः || वूं वरुणाय नमः || यूं वायवे नमः || सूं
कुबेराय नमः || हूं ईशानाय नमः || अं अनन्ताय नमः || उं ब्रह्मणे
नमः || थ्वतेनं बलिं ||
जयादि || जयायै पादुकां || विजयायै पादुकां || अजितायै पादुकां ||
अपराजितायै पादुकां || जम्भन्यै पादुकां ||
प्. ११अ) स्तम्भनी पादुकां || मोहनी पादुकां || आकर्षणी पादुकां ||
थ्वतेनं बलिः ||
ब्रह्मान्यादि || अं ब्रह्माणी पादुकां || कं माहेश्वरी पादुकां || चं
कौमालि पादुकां || टं वैष्णवी पादुकां || तं वाराहि पादुकां || पं
इन्द्राणी पादुकां || यं चामुण्डायै पादुकां || शं महालक्ष्म्यै
पादुकां || थ्वतेनं वलिः ||
हेतुकादि || हूं हेतुकभैरवायै नमः || हूं त्रिपुरान्तकभैरवाय नमः ||
हूं अग्निजिह्वाभैरवाय नमः || हूं अग्निवेतारभैरवाय नमः || हूं
कालाक्षभैरवाय नमः || हूं कलालिभैरवाय नमः || हूं
एकपादभैरवाय नमः || हूं भीमरूपभैरवाय नमः ||
हूं डामलभैरवाय नमः || हूं कूर्मापृष्ठभैरवाय नमः ||
थ्वतेनं वलिं ||
प्. ११ब्) अशितांगादि || ह्रां अशितांगभैरवाय नमः || ह्रां रुरुभैरवाय
नमः || ह्रां चण्डभैरवाय नमः || ह्रां क्रोधभैरवाय नमः || ह्रां
उन्मत्तभैरवाय नमः || ह्रां कपालीशभैरवाय नमः || ह्रां
भीषणभैरवाय नमः || ह्रां शंहारभैरवाय नमः || थ्वतेनं बलिः ||
ऐं ५ अघोरे ह्रां थ घोरे ह्रीं घोरघोरन्तरे ह्रूं फ्रें सर्व्वतः सर्व्व सर्व्वे
ह्रें जुं सः ह्रों रुद्ररूपे ह्रं पादुकां ||
ऐं ५ ऐं वज्रकुब्जिनी ह्स्फ्रें त्रैलोक्याकर्षणी ह्रीं कामांग द्रावणी क्लीं स्त्रीं
महाक्षोभकारिणि ऐं सौं सः पादुकां ||
ऐं ५ नमो भगवति ह्स्फ्रें कुब्जिकायै ह्रां ह्रीं हूं घोरे अघोरे अघोरामुखी
छां छीं किणि २ विच्चे पादुकां || थ्वतेनं वलि ||
त्रियाञ्जलि ||
प्. १२अ) दुमाज्र || वं कुलि || मानेश्वरी || दुथुयामालको || ऽऽना सुखुलाकायाव
वलिविय || ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौंः
अजरश्चाप कुम्भश्च इडाचारस्तथैव च |
इन्द्रमूर्त्तिश्च उल्कास्ये ऊष्माण्डो रिपुसुदन ||
ऋमुक्त ऌप्तकायश्च ॡलापादैक दष्टकः |
ऐरावतश्च ओघाम्ब औषधीशस्तथापरे ||
अन्तको अर्थवाहुश्च कमरश्च खलाननः |
गोमुखश्चैव घण्टालो ऽऽन ण न चण्डधारकः ||
छटातोपो जटालाक्षो झऽऽन्कारो ञ भटेश्वरः |
टऽऽन्कपाणिस्तथा चान्य स्थानुदभश्च डामरः ||
ढर्ट्टकर्णो नतीकान्तस्तडिद्भास्थविरस्तथा |
दन्तुरोधनदश्चैव नागकर्णः प्रचण्डवान् ||
फेत्कारो विरसिंहश्च भृकुताक्षो मेघभासुरः |
योगान्तो रौरवश्चैव लम्बोष्ठो वत्सलस्तथा ||
प्. १२ब्) शुक्रतुण्डः षडालास्ये सुनासो हुहुकस्तथा |
क्षयान्तकस्तु पंचाशत् क्षेत्रपालो उदाहृदा ||
पंचाशत्वर्णमुद्धारे स्थानस्थाः क्षेत्रपालकाः |
शेषावर्णविहिनान्तु क्षेत्रपालाश्चतुर्दश ||
एकलिंगे च हूंकरं श्मशाने च भयावहं |
महालक्ष्मी वने घोरे ज्वालामुखि वसेत्सदा ||
एकवृक्षे वटे वाथ विडालवदनो वसेत् |
घण्टारावो गुहावासे पद्मषण्डे जलाम्बरः ||
सऽऽन्गमे भूरिधारोघः पर्व्वते मरुतस्तथा |
निर्झरे श्रवणि प्रवहो निधाने मणिभद्रकः ||
रसक्षेत्रे धानाध्यक्षो यज्ञे वाटेषू क्रोष्टकः |
अरण्येशवरं विंद्यादुद्याने मधुकरः स्मृताः ||
चतुषष्टिर्म्महावीर्ययाः पालयित्वा स्थिता जगत् ||
प्. १३अ) तत्र क्षेत्रे सदाकालं बलिपूजां निवेदयेत् |
चत्वारस्तत्र भूपाल द्विजाद्या गृह्नते बलिं ||
भूखगतरूपक्षी च स्वाचारि बलिकांक्षिण |
नित्याधिकारि चत्वारः क्रव्यादा इतरे जने ||
वर्व्वराः पिंगकेशाश्च पिंगभूपिऽऽन्गलोचना |
दंष्ट्राकराला अत्युग्राः कपालाभरणो ज्वलाः ||
काश्मीरचन्द्रश्रीखण्डैर्म्मृगालि मीन फल्गुषैः |
पुष्पैर्व्वस्त्रैस्तथा छत्रैर्दिपैर्धूपैस्तु गुर्ग्गुलैः ||
भावितान्मभिराद्यैश्च क्रमपूजापरायणैः |
घण्टावाद्यैश्च गीताद्यैस्तर्प्पिता कामदा सदा ||
ऐं ५ ओं ह्रीं हूं अमुकाय अवतर २ क्षेत्रपालमहाबल कपिलजटाभारभासुर
त्रिनेत्र ज्वालामुखगन्धं पुष्पं बलि पूजां गृह्न २ भैरवरूपेण
प्. १३ब्) तुरु २ मुरु २ ख २ ल २ फ्रें २ महाडामराधिपतये बलिं गृह्न २
स्वाहा ||
इति अजरादि बलिः ||
त्रियांजलिः || ह्स्क्ष्म्ल्व्र्यूं श्क्ष्म्ल्व्र्यीं पादुकां || षडंग || बलिः ||
निर्व्वाणच्छाय ||
त्वाकमहावलिविय || क्षां क्षीं क्षूं क्षेत्रपालाय बलिं गृह्न २ स्वाहा || श्रीं
ह्रीं कुलपुत्रवटुकनाथाय बलिं गृह्न २ स्वाहा || गां गीं गूं गः ग्लौं
श्रीकुलगणेश्वराय बलिं गृह्न २ स्वाहा || हूं
महाकरवीरश्मशानाधिपतये बलिं गृह्न २ स्वाहा || ह्स्ख्फ्रीं
श्रीसिद्धिचामुण्डायै बलिं गृह्न २ स्वाहा || आकाशचारिणी सवर्ग्गेभ्यो
बलिं गृह्न २ स्वाहा || सर्व्वेभ्यो भूतेभ्यो सर्व्वेभ्यो पिशाचेभ्यो
इष्टदेवतेभ्यो बलिं गृह्न २ स्वाहा || आवाहनादि || योनिमुद्रां || धूप ||
प्. १४अ) दिव्यगन्धसमायुक्तं सर्व्वदेवप्रियावहं |
आघ्रानं सर्व्वदेवानां धूपोयं प्रतिगृह्यतां ||
धूपाहारेषु भगवान् विश्वरूपी महेश्वरी |
धूपेनानेन देवेसि सुप्रीतां परमेश्वरी ||
दीप ||
सुप्रकाशो महातेज सर्व्वतस्तिमिरापहं |
सबाह्याभ्यन्तरं ज्योति दीपोयं प्रतिगृह्यतां ||
ज्योतिर्दश्यामि ||
अन्नं महारसं दिव्यं रसे षड्भिः समन्वितं |
मया निवेदितं भक्त्या गृहाण परमेश्वरी ||
नैवेद्यं गृह्यतां देवी भक्ति मे अचरां कुरु |
अपमृत्युहरं देवी परत्रे च परां गतिं ||
फलपुष्पताम्बूल धूपदीप इदं नैवेद्यं नमः ||
जप ||
थ्रौं स्वाहा १० || श्रीं ह्रीं स्वाहा १० || ग्लौं स्वाहा १० || यां स्वाहा १० ||
हं ९ स्वाहा १० || सं ९ स्वाहा १० || थ्ह्म्रौं स्वाहा ५४ ||
प्. १४ब्) निर्व्वाणया ५४ ||
केवोतयऽऽना ५ || स्तोत्र ||
अखण्डमण्डलाकारं व्याप्तं येन चलाचरं |
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ||
श्रीमहाभैरवाय || श्रीदेव्युवाच ||
श्रीसम्वर्त्तामण्डलान्ते क्रमपदनिहितानन्दशक्तिः सुभीमा
सृष्टं न्याये चतुष्कं अकुलकुलगतं पंचकं चान्य षट्कं |
चत्वारः पंचकोण्यं पुनरपि चतुरं षोडशाज्ञा विशेषो
देव्यास्तौ मूत्तिमध्ये हसखफलकला बिन्दुपुष्पाक्षमुद्रा ||
वृर्द्धं कौमारबालं परमशिवकला वक्रदेवैक्रमान्या
श्रीनाथं चन्द्रपूर्ययां नवनवकलितं युग्मभेदे तु सारं |
त्रितत्वं सिद्धावतारं प्रथमकलियुगे कोऽऽन्कणे स्वाधिकारं
तेषां वै पुत्रशिष्या नवपुलषमते तेषु मध्ये द्विरष्टौ ||
प्. १५अ) संतानं गोत्रपिण्डं कुलक्रमसकलं षोडशान्ता क्रमान्तं
आदौ द्वे मण्डलाद्यैः परिभिमे भयदं पूज्य सद्भाववृन्दं |
आधावस्थादशान्तं कुलक्रमसकलं मण्डलस्थानपूर्व्व-
संस्कारं त्रिक्षमेतत् पशुजनभयकृद्विन्दुसिद्धि शिवाग्नौ ||
मध्ये विश्रामभूमि प्रभवमनुभयं प्रत्ययं स्वाधिकारं
संसृष्टं येन तस्मै नमत गुरुवरं भैरवः श्रीकुजेशं ||
ऐं या सा शक्तिर्भगाख्या त्रिपथगतियुता त्रिक्षरा त्रिप्रकारा |
ऐं तस्या श्री ओडियाने परकरसहितं मध्यसंस्थं सुदीप्तं |
ह्रीं तछ्रीजालंधलाखे प्रकतितनिलय दक्षिणे चैव कोणे
श्रीवामे श्रीपूर्णपीठे पशुजनभयकृत्पूजितं येन विश्वं ||
ह्स्फ्रें तस्याग्रे कामरूपं मदनकलियुतं सर्व्वसिद्धालयं च
प्. १५ब्) ह्सौं त्रिकोणान्ते समस्तं परमशिवकलालं कृतं योगवृन्दं |
क्ष्मौं तन्मध्ये दिव्यलिंगं परमसुखकरं बिन्दुरूप खरूपं
क्लीं नित्यानन्दस्वरूपं तदुपरिपरमं षट्प्रकारैर्व्विभिन्नं ||
ग्लूं विद्याभोगापगम्य मनुभयविमलं त्रिश्रपीठे ललाटे
ऐं एवं व्याप्तं समस्तं स्थितिलयजननी रुद्रशक्ति स्त्रिभेदा ||
ऐं तत्रस्था देवदेवी अकुलकुलमया नन्दधात्रि स्वरूपा
ओं गुर्व्वाज्ञा बिन्दुभूता पशुजनहरणी सिद्धिदिव्यौघरूपा ||
ह्सौं नित्यक्लिन्ना सुरक्ता भगमुदित पदानन्दधात्रि प्रसिद्धा
क्ष्मौं कुर्व्वन्ति तत्वकामान् क्षुभित वरतनु श्रीकुजाख्यान्नमामि ||
ऐं सन्तानं मेरुमार्ग्गेण अन्वयं तत्र देवता |
प्. १६अ) निर्ग्गमः पीठि ओंकार सिद्धान्वय प्रकीर्त्तिता ||
भूष्णीभूति गुहावासी वृक्षश्चैव कदम्बकः |
संख्ये तस्य वितं प्रोक्तं अम्बा च गुहवासिनी ||
गृहेश्चन्द्रपुरं प्रोक्तं भेदो मन्थानभैरवं ||
गोत्र अमलिका देवी वाममार्ग्गे प्रकल्पयेत् ||
अन्वयं प्रत्ययश्चामधिकारश्च कोऽऽन्कणे |
जन्म ब्रह्मशिलास्थाने स्थिति श्रीकामरूपके ||
किर्त्तिश्चिञ्चिनिवृक्षे तु सिद्धिश्चैव तु सागरे |
तुष्टोहं तस्य देवशि योजानाति कुलाक्रमं ||
षोडशाधारभेदेन न्यासं कूटं क्रमन्तथा |
पूजितं सिद्धिदं भद्रे सुशिष्याय निवेदयेत् ||
नमोस्तुते महामाये सूक्ष्मदेहे परापरे |
एकाकिनी विश्वधाम्ने नादाख्य बिन्दुमालिनी ||
प्. १६ब्) अदेहाय समुत्पन्ने अचरे विश्वधारिणी |
महाकुण्डलनी नित्यं हंसमध्ये व्यवस्थिता ||
सोमसूर्ययाग्निमध्येस्थे व्योमव्यापि परापरे |
ओंकारविग्रहावस्थे हकाराद्धार्द्धधारिणी ||
बालाग्रशतधा सूक्ष्मे अनन्ते चाक्षयव्यये |
हकारार्द्ध कलाधारे पद्मकिंजल्कमाश्रिते ||
सकालाख्ये महामाये वरदे लोकपूजिते |
एकैक नादिमध्येस्थ मर्म्ममेकैकभेदिनी ||
अष्टत्रिंशत्कलादेवि भेदिनी ब्रह्मरंध्रके |
विद्युल्लतानिभा देवी भुजंगकुटिलाकृतिः ||
ब्रह्माविष्णुश्च रौद्रश्च ईश्वरश्च सदाशिवः |
एते पंचमहाप्रेता पादमूले व्यवस्थिता ||
त्रैलोक्यजननी देवी नमस्ते शक्तिरूपिणी |
प्. १७अ) इडापिऽऽन्गलमध्येस्थे मृणालतन्तुरूपिनी ||
बिन्दुमध्ये गतो देवी कुटिलाचार्द्धचन्द्रिके |
तुषारकनिकाभासे द्वादशान्तावलंबिनी ||
उमार्क्ष हृत्गते गौरी द्वादशादित्यवर्च्चसे |
शून्ये सून्यान्तरावस्थे हंसाख्ये प्राणधायिणी ||
लंबाख्ये परमादेवी दक्षिणोत्तर गामिनी |
नासाग्रे च समुर्त्तीर्णे मध्ये सूत्र प्रवाहिनी ||
हृल्लेखे परमानन्दे तालुमुर्द्धि व्यवस्थिते |
नादघण्टिक संघृष्टे गुणाष्टक समन्विते ||
स्थूले सूक्ष्मेत्व संक्रुद्धे धर्म्माधर्म पुतद्वये |
कार्ययकारण कर्तृत्वं त्रिसून्यनादविग्रहे ||
परापर परेशुद्धे चैतन्य शाश्वतेद्ध्रुवे |
सर्व्ववर्णधरादेवी गुह्यतत्व त्रिविश्रुते ||
प्. १७ब्) शक्तिमूले महाव्यूहे बिन्दुबीजसमन्विते |
अशरीरे महाभागे संसारार्णवतारिणी ||
जया च विजया चैव जयन्ति चापराजिता |
तुंबुरु बीजमध्येस्थे नमस्ते पापमोचनी ||
बन्धमोक्षकरी देवी षोडशान्ता व्यवस्थिता |
भ्रमनी शक्तिशूलेन महाव्यूहसमन्विते ||
भ्रमनी भ्रामणी गौरी मायायन्त्र प्रवाहिनी |
स्वच्छन्दभैरवी देवी क्रोध उन्मत्तभैरवी ||
पंचाशद्वर्णरूपस्था त्वयारुद्राः प्रकीर्त्तिताः |
अमृताख्ये रुरुश्चन्द्र नमस्ते ज्ञानभैरवी ||
दंष्ट्रोत्कटविद्युज्जिह्वे तालकाक्षी भयानने |
नमामि देवदेवेशि अघोरे घोरविक्रमे ||
ज्वालामुखी वेगवती उमादेवी नमोस्तुते |
योगिनी च श्रया देवी गौरी लक्ष्मी सरस्वती ||
प्. १८अ) हंसस्वराद्धके देवि गोमुखी शक्तिमालिनी |
क्रोष्टकी शुभगा देवी दुर्ग्गाकात्यायणी तथा ||
नित्यक्लिन्ना समाख्याता रक्ता एकाक्षरापरा |
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ||
वाराही चैव माहेन्द्री चामुण्डात्वं भयानना |
योगेशी त्वं हि देवेशि कुलाष्टक विभूषिते ||
अष्टाष्टक धरी देवी लक्ष्मीत्वं बहुरूपिणी |
ऐन्द्री चैव तु आग्नेयां याम्यां नै-ऋत्यवाहिणी ||
वायुव्यां चैव कौवेरी ईशाने च मुदाहृता |
प्रयागा वरुणा कोल्ला अट्टहासा जयन्तीका ||
चरित्रे काम्रकं चैव देवी कोटं तथाक्रमं |
तथा काली उमादेवी देवदूती नमोस्तुते ||
भद्रकाली महामाय चर्म्ममुण्डा भयावहे |
महोशूक्ष्मे महासान्ते नमस्ते शक्तिरूपिणी ||
प्. १८ब्) भुर्भुवस्वेति स्वाहान्ते दयानाथं कुरु क्षमे |
ज्ञानार्थितो महामाय एतद्दिक्षा निवेदितुं ||
यस्त्विदं पठ्यते स्तोत्रं त्रिसंध्याश्चैव मानवः |
प्राप्नोति चिन्तितां कामान् स्त्रीणां भवतु वल्लभः ||
इति शिवशक्तिसमरसत्वं महामायास्तोत्रं समाप्तं ||
पिऽऽन्गाक्षी रक्तकेशां किणि किणि धवलं किऽऽन्किणी मालजालं
द्रंष्ट्रास्यं क्रूरभावं सकलभयहरं पात्रहस्तं च नादं |
सुव्यक्तं सिंहनादं ल ल ल लववलं मऽऽन्गलं व्योमतत्वं
भूतप्रेतादिनाथं ग्रहगण नमितं क्षेत्रपालं नमामि ||
रक्ताम्बरं ज्वलितपिऽऽन्ग जटाकलापं
ज्वालावलीरतिरथः दधरं प्रचण्डं |
सूर्ययो दयात् कनककान्तण संगगौरं
गौरी सुतः वटुकनाथमहं नमामि ||
हंतार्षा क्षोभदुःखं समितभवभयं सर्व्वविघ्नान्तकाय
गां गीं गूं गें खडंगे गगणगतिगते सिद्धिसर्व्वार्थभावे ||
ओं ह्रूं ग्लूं मुद्रागजाक्षे गसपवनगते आषुजानेकसंस्थे
प्. १९अ) ओं ह्रीं हूं हां गां गणेशे द्विरविखगणे विघ्निनाथं नमस्ते ||
इछाज्ञानीक्रीयासासुरवरनमिता सा श्रियामऽऽन्गलाख्या
सा गौरी सा च दुर्ग्गा भगवति शुभदा मातृकाश्चर्म्ममुण्डा ||
सा ब्रह्मा सा च विष्णुर्ग्रहगणसकला भैरवी क्षेत्रपाला
सानेकानेकरूपा विविधगुरुदया योगिनी त्वां नमामि ||
ऊकारो नित्यपादो हसक्षमर भुजो बोधरश्चाग्नि लिऽऽन्ग
वायु व्याघ्राजिनाऽऽन्ग शशिसकलशिरो बिन्दुनादोर्द्धयुक्तो |
निर्ज्जिऽऽन्गगाम्बुधारा ऋयुपरमकलाभैरवो मन्त्रमूर्त्ति
पाया देवो नवात्मा सकलगुरुवरं भैरवं श्रीकुजेशः ||
ब्रह्मानि कमरेन्दु सौम्यवदणी माहेश्वरी लीलया
कौमारी लिपुर्द्दपनासनकरि चक्रायुधा वैष्णवी |
प्. १९ब्) वालाहि घनघोलघर्घरमुखि ऐन्द्रीश्च वज्रायुधा
चामुण्डा गणनाथभैरवगणा रक्षन्तु मे मात्रिका ||
श्यामारक्ता त्रिनेत्रा स्तनभरनमिता मत्तमातऽऽन्गगामी
बिम्बोष्ठी चारुनेत्रा पृथुतरजघनामेखरा रत्नशोभे |
देवाऽऽन्गे वस्त्रशोभे वरवरकुसुमे वर्व्वरे केशभार
सामे श्रीकुब्जिकाख्या वितरतुतरसा ज्ञानदिव्यौघमोघं ||
उत्फुल्लाम्बुज कर्णिकोपरिगता श्रीसिद्धिलक्ष्मीपरा
कर्प्पूरस्फटिकेन्दु कुन्दधवरानिशेक पापोपहा ||
संसारार्णव दुःखपऽऽन्कदहनी निष्कम्पनं सर्व्वदा
श्रीमत्पञ्चमुखाम्बुजा दशभुजा प्रेत स्थिता पातु वः ||
निर्व्वाणं निर्व्विकल्पं निरुपमषिलं निर्व्विकार क्षकारं
हूंकालं वज्रदंष्टं हुतवहनयनं रौद्र उन्मत्तभावं ||
फेत्कारं वह्निनादं भृगुतितमखिलं भैरवं शूलपाणि
प्. २०अ) खड्गाऽऽन्गं व्योमणियं दमरुकसहितं भैलवं क्षेत्रपालं ||
पूर्व्वं दक्षिणपश्चिमोत्तर शिवा पूर्वादिवामाश्रीका
क्षेत्रेशो वटुभूतदुर्ग्गहरणं हेलम्बनाथाय च |
श्मशानेश्वरमादिदेव द्विभुजः शोकादिदोषप्रहा
नित्यानन्दमयी प्रमोदित सदावल्यादि पूजाविधिः ||
यथावान || अत्र गन्धादि || समयच्छाय || तर्प्पण || एकानेक ||
एकामूर्त्तिरणेकधात्रीऽऽन्जगति पूर्णेश्वरी वासवे
भूतेशी गगणोपमा भगवति निशेश्वरी दक्षिणे ||
ज्ञानागम्य कुजेश्वरी कुलगणा वारुण्यदिऽऽन्नायिका ||
श्रीवामां प्रनमामि विश्वजननी दर्शेश्वरी सिद्धिदा ||
मण्डलह्मोय || नोसिय || थ्वते वलिपूजाविधि || पूजोकोणरसजोरनसकताऽऽन-
प्. २०ब्) कुचिनकावयने ||
सालाऽऽनस गणपतिपूजा || ओं नमः गुरुभ्यो नमः ||
त्रितत्वेनाचम्य ||
ह्रां आत्मतत्वाय स्वाहा || ह्रीं विद्यातत्वाय स्वाहा || ह्रूं शिवतत्वाय स्वाहा
||
गुरु नमस्कार ||
ऐं ५ अखण्डमण्डलाकारं व्याप्तं येन चराचरं |
तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः ||
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुदेवो महेश्वरः |
गुरुदेव जगत् सर्व्वं तस्मै श्रीगुरुवे नमः ||
पद्मासनाय पादुकां || गः अस्त्राय फट् || ऐं ५ हूं फट् वज्रपंजरे स्वाहा
|| चलमकुले कु ह्रीं ह्रुं फट् स्वाहा ||
न्यासः ||
ग्लूं अस्त्राय फट् || करशोधनं ४ || ग्लूं कनिष्ठाभ्यां नमः || ग्लूं
अनामिकाभ्यां स्वाहा || ग्लूं मध्यमाभ्यां वोषट् || ग्लूं तर्ज्जनीभ्यां
हूं || ग्लूं अऽऽन्गुष्ठाभ्यां वषट् || ग्लूं अस्त्राय फट् ||
प्. २१अ) ग्लूं हृदयाय नमः || ग्लूं शिरसे स्वाहा || ग्लूं शिखायै वोषट् || ग्लूं
कवचाय हूं || ग्लूं नेत्रत्रयाय वषट् || ग्लूं अस्त्राय फट् || इति कराऽऽन्ग
न्यासः ||
जलपात्रपूजा ||
जलपात्रासनाय पादुकां || हकारकुटपूजा || षडंगेन || आवाहनादि ||
धेनुमुद्रा || गायत्री ||
अर्घपात्रपूजा ||
अर्घपात्रासनाय पादुकां || अघोराष्ट्र || सकारकूत || षडऽऽन्गेन ||
आवाहनादि || योनिमुद्रा || भूतशुद्धि ||
ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौं ह्सौं ह्स्फ्रीं श्रीं ह्रीं ऐं ||
आत्मपूजा || ऐं चन्दनेत्यादि ||
ताहारयवसपूजा ||
ओं गंगायै नमः || ओं यमुनायै नमः || ओं सरस्वत्यै नमः || ओं कावेर्ययै
नमः || ओं नर्म्मदायै नमः || ओं गण्डक्यै नमः || ओं कौशिक्यै नमः || ओं
सप्तसमुद्रेभ्यो नमः || ऐं ५ ह्स्क्ष्म्ल्व्र्यूं
प्. २१ब्) कुलवृक्ष महासेन संमोहन सकलतीर्थ मन्त्रदेवता
कलातत्वतत्वाधिपतये ब्रह्मविष्णुरुद्रात्मके आत्मविद्या शिवतत्वाय
ह्स्क्ष्म्ल्व्र्यूं श्क्ष्म्ल्व्र्यीं संपूर्णकलशमूर्त्तय पादुकां ||
आवाहनादि || धेनुमुद्रां || देवस्नानपंचामृत ||
ओं अद्यादि || वाक्य ||
ऊकारं वायुबीजं तदुपरि वरुणं वज्रपाणिं तदूर्द्धकालं
वर्णान्तयुक्तं तदुपरि परमं वह्निबीजं सहस्रं इन्दुं बिन्दुं लयान्तं
सितकमलदरं क्षीरधाराश्रवन्तं दृष्ट्वाकुटन्तु नित्यं दहति कुलमयं
मेरुतुल्यं हि पापं ||
दुदु ||
पयसापयभूम्बैव पृथिव्यां पुतमेव च |
कामधेनु श्रवन्नित्यं स्नापयामि सिवाज्ञया ||
धरि ||
दधि उमापति देवं देवानां प्रिय वल्लभं |
स्नापयश्च सदानित्यं सूप्रीता देवता सदा ||
प्. २२अ) घेल ||
घृतपूत विनाकिनं लिऽऽन्गपूतं पिनाकिनि |
अग्निसर्पस्वरूपेन तां त्रिलोकं जनं शिवं ||
कस्ति ||
गोमुखी शक्तिनोभूतं देवानां प्रिय वल्लभं |
वांच्छाकल्पतरुस्नानं येन स्नानेन लभ्यते ||
साखल ||
खण्डमेतत्महास्वादु मनसा शीतलं सदा |
खण्डेन्दु स्नापितं देव अखण्डित बलप्रदः ||
पंचामृत ||
तथा पंचादि पयसं पंचब्रह्म निवासिनं |
पंचद्रव्यसमायुक्तं पञ्चाऽऽन्गैः स्नापयाम्यहं ||
अलिस्नान ||
श्क्ष्म्ल्व्र्यीं पादुकां ||
चेत ||
श्रीखण्डचन्दनं दिव्यं गन्धाद्यस्य मनोहरं |
आभूषितं ललाटाख्य चन्दनं प्रतिगृह्यतां ||
चन्दनैर्ल्लेपितं पुण्यं पवित्रं पापनाशनं |
आपदा हरते नित्यं लक्ष्मीराज्य सुखप्रदं ||
प्. २२ब्) सिधरे ||
वीरेश्वरी महावीर वीरभस्मविभूषितं |
त्रैलोक्यां कर्षणी देवी सिन्दूरारुणमुत्तमं ||
अक्षत ||
अक्षतं अक्षयो कामं धर्म्मकामार्थसिद्धिदं |
इप्सितं मे वरं देवी परत्रे च पराऽऽन्गतिं ||
दृष्टि ||
ध्यान दृष्टि विशालेषु ललितं वीरचक्षुषु |
सोमसूर्ययाग्निभुवनं वैसमं नेत्र निर्म्मलं ||
जजमका ||
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् |
आयुष्यमग्रं प्रतिमुञ्चशुभ्रं यज्ञोपवीतं परमस्तु तेजः ||
अदुवार ||
नानावस्त्रविचित्राऽऽन्गं क्षौमकार्पास निर्म्मितं |
देवाऽऽन्गं भूषणं श्रेष्ठं गृहाण परमेश्वरं ||
चढुमाढे ||
छत्रं चिन्तामणिं दिव्यं पूर्णचन्द्रनिभंसितं |
तेन दत्तेन देवेश देहि मे चिन्तितं फलं ||
प्. २३अ) स्नान ||
नानापुष्पसुगन्धानि मालती कुसुमोदयं |
सौभाग्यसिद्धिदं भद्रे पुष्पारोहनमुत्तमं ||
पंचपताका ||
पताका पंचवर्णाभा कर्णयोः परिलंबिनी |
पंचभूतात्मिका पंच दत्तेयं क्षौमनिर्म्मिता ||
कर्णपताका ||
शुद्धसिन्दूरवर्णाभा पताकां कर्णसंज्ञकां |
गृहाणपरमेशान चतुःकोणां सुशोभना ||
थ्वतेछायलपे ||
पितचूर्न न चोयमालको || जापूजावोयमालको ||
अथ देवार्च्चनं || त्रितत्वेनाचम्य ||
ह्रां आत्मतत्वाय स्वाहा || ह्रीं विद्यातत्वाय स्वाहा || ह्रुं शिवतत्वाय स्वाहा ||
सूर्ययार्घ || अद्यादि || वाक्य ||
वर्णान्तं बीजमुद्धृत्य तस्योपरि शिवं न्यसेत् |
आदिमध्यावसाने तु अग्नित्रयविभूषितं ||
वर्म्मणा दीपितं कृत्वा सावित्र्या चैव मुद्धरेत् |
प्. २३ब्) एष कूटवरः श्रेष्ठो महामार्त्तण्डभैरवः ||
अर्घं नमः || पुष्पं नमः || र्ह्क्ष्रीं श्रीमहामार्त्तण्डभैरवाय नमः
||
गुरुनमस्कार ||
ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौंः ||
अखण्डमण्डलाकारमित्यादि || गुरुब्रह्मात्यादि || परमगुरुभ्यो नमः ||
परमेष्ठीगुरुभ्यो नमः || परमाचार्य गुरुभ्यो नमः ||
वलिस ||
पद्मासनाय पादुकां || थवके कूर्म्मासनाय पादुकां || जवखवस ऐं ५
ग्लूं अस्त्राय फट् || ऐं ५ ऐं हूं फट् वज्रपंजरे स्वाहा || ऐं चलमकुले
कुलमचले ह्रीं ह्रूं फट् स्वाहा || दशद्वारस्पर्शनं ||
प्. २४अ) ओं ग्लां अंगुष्ठाभ्यां नमः || ओं ग्लीं तर्ज्जनीभ्यां नमः || ओं ग्लूं
मध्यमाभ्यां नमः || ओं ग्लें अनामिकाभ्यां नमः || ओं ग्लौं
कनिष्ठाभ्यां नमः || ओं ग्लः करतरपृष्ठाभ्यां नमः ||
ग्लां हृदयाय नमः || ग्लीं शिरसे स्वाहा || ग्लूं शिखायै वौषट् || ग्लैं
कवचाय हूं || ग्लौं नेत्रत्रयाय वौषट् || ग्लः अस्त्राय फट् || इति कराऽऽन्ग
न्यासः ||
जलपात्रपूजा ||
जलपात्रासनाय पादुकां || ऐं ५ ह्स्क्ष्म्ल्व्र्यूं आनन्दशक्तिभैरवानन्द
वीराधिपते श्क्ष्म्ल्व्र्यीं श्रीजलपात्रभट्टारिकायै पादुकां || षडऽऽन्ग ||
आवाहनादि || धेनुमुद्रां || गायत्रि ||
ऐं ५ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहे तन्नो गणपति प्रचोदयात् ||
अर्घपात्रपूजा || अर्घपात्रासनाय पादुकां ||
प्. २४ब्) ऐं ५ ह्रां ह्रीं ह्रूं ह्रः प्रस्फुर २ घोर २ तरतनु २ रूपचट २ प्रचट २
कह २ वम २ दम २ घाटय २ विघातय २ विघ्नि ३ ह्रूं ३ फट् क्रौं
श्रीमहाकौमारिका विच्चे पादुकां || ऐं ५ श्क्ष्म्ल्व्र्यीं
आनन्दशक्तिभैरवानन्द श्रीमहाविद्याराजेश्वरी ह्स्क्ष्म्ल्व्र्यूं
अर्घपात्रभट्टारिकायै पादुकां || षडंग || आवाहनादि || पंचमुद्रां
दर्शयेत् ||
भूतशुद्धि || कच्छप मुद्रां बध्वा ||
ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौं ह्सौं ह्स्फ्रें श्रीं ह्रीं ऐं ||
आत्मपूजा ||
ऐं ५ ह्स्क्ष्म्ल्व्र्यूं श्क्ष्म्ल्व्र्यीं आत्मने ऐं चन्दनं पादुकां ||
ह्रीं अक्षतं पादुकां || श्रीवीरभस्म पादुकां || ह्स्फ्रें सर्व्वजनमोहनी
पादुकां || ह्सौं नानाच्छत्रपुष्पं पादुकां || ऐं कुसौ पादुकां || ३ ||
आवाहन ||
श्रीसम्वर्त्तामण्डलान्ते
प्. २५अ) क्रमपदनिहितानन्दशक्तिः सुभिमा सृष्टिं न्याये चतुष्कं त्व
कुलकुलगतं पंचकं चान्यषट्कं | चत्वार पंचकोन्यः पुनरपि
चतुलस्तत्वतो मण्डलेदं संसृष्टं येन तस्मै नमत गुरुवरं भैरवं
श्रीकुजेशं ||
त्रिदेव ||
नरासनाय पादुकां || मयूरासनाय पादुकां || मूषासनाय पादुकां
|| ऐं ५ थ्रौं प्रस्तरद्वीपदम्भकी देवी महाध्वांक्ष क्षेत्रपालाय
पादुकां || श्रीं ह्रीं कुलपुत्रवटुकनाथाय पादुकां || गां गीं गूं गः ग्लौं
श्रीकुलगणेश्वराय पादुकां || यां योगिनिभ्यो पादुकां || थ्वतेनं वलिः ||
आवाहनादि || तर्ज्जनी दण्डगजमुद्रां || इति त्रिदेवपूजा ||
विसेकक्षेत्रपालपूजा || खालसंवलितय ||
ऐं ५ श्ह्म्रैं अमृतद्वीपसवरी देवी रतिप्रिया क्षेत्रपालाय पादुकां || ३ || वलिः
|| आवाहनादि ||
प्. २५ब्) तर्ज्जनी मुद्रां || इति क्षेत्रपालपूजा ||
आसन ||
आधारशक्तये पादुकां || अनन्तासनाय नमः || कंदासनाय नमः ||
नरासनाय नमः || पत्रासनाय नमः || केशरासनाय नमः ||
कर्णिकासनाय नमः || पद्मासनाय नमः || मूषासनाय नमः ||
ध्यानं ||
तप्तकाञ्चमयं देहं मुखं पूर्व्वसुशोभनं |
इन्द्रनीलप्रतीकाशं दक्षिणे च वरानने ||
हिमकान्ति कुन्दकर्प्पूर शशिवदनपश्चिमे |
उत्तरस्यारुणा कीर्णं पद्मरागसमप्रभं || २ ||
इति ध्यानं ||
पूजनं ||
ओं ह्रीं श्रीं अविघ्नश्वराय पादुकां || ऐं ह्रीं श्रीं आं गणेशाय पादुकां ||
ऐं ह्रीं श्रीं ईं गजास्याये पादुकां || ऐं ह्रीं श्रीं ईं गजवाहनाय पादुकां ||
ऐं ह्रीं श्रीं उग्रजाख्याये पादुकं ||
प्. २६अ) ऐं ह्रीं श्रीं ऊं गजशीर्ष्याय पादुकां || ऐं ह्रीं श्रीं ऋगांगेयाये
पादुकां || ऐं ह्रीं श्रीं ॠं गणनाय पादुकां || ऐं ह्रीं श्रीं ऌं त्रिधातवे
पादुकां || ऐं ह्रीं श्रीं ॡं गगनाय पादुकां || ऐं ह्रीं श्रीं ऐं
गणघोघकाय पादुकां || ऐं ह्रीं श्रीं ऐं गोप्तिय पादुकां || ऐं ह्रीं श्रीं
ग्लौं गणपतये पादुकांः ||
थ्वतेनं वलिः ||
ऐं ५ गां गीं गूं गः ग्म्ल्व्र्यूं श्रीकुलगणेश्वराय पादुकां || षडंग ||
वलिं ||
गायत्री ||
ओं तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहे तन्नो गण प्रचोदयात् ||
वलिः || षडंग || आवाहनादि || गजमुद्रां ||
त्रियाञ्जलि || निर्व्वाणछाय || वलि || त्वाक महावलिः ||
ऐं ५ क्षां क्षीं क्षूं क्षः क्षेत्रपालाय वलिं गृह्न २ स्वाहा || श्रीं ह्रीं
कुलपुत्रवटुकनाथाय वलिं गृह्न २ स्वाहा || गां गीं
प्. २६ब्) गूं गः ग्लौ कुलगणेश्वराय वलिं गृह्न स्वाहा || हूं
महाकरवीरश्मशानाधिपतये वलिं गृह्न २ स्वाहा || ह्स्ख्फ्रीं
सिद्धिचामुण्डेश्वरी वलिं गृह्न २ स्वहा || आकाशचारिणी सवर्ग्गेभ्यो वलिं
गृह्न २ स्वाहा || सर्व्वेभ्यो भूतेभ्यो पिशाचेभ्यः सर्व्वेभ्यो इष्टदेवताभ्यो
वलिं गृह्न २ स्वाहा || आवाहनादि ||
गजमुद्रा || धूप ||
दिव्यगन्धसमायुक्तं सर्व्वदेवो प्रियावहं |
आघ्रानं सर्व्वदेवानां धूपोयं प्रतिगृह्यतां ||
धूपाहारेषु भगवान् विश्वरूपी महेश्वरि |
धूपेनानेन देवेसि सुप्रीतां परमेश्वरी ||
दीप ||
सुप्रकाशो महातेज सर्व्वतस्तिमिरापहं |
शबाह्याभ्यन्तरं ज्योति दीपोयं प्रतिगृह्यतां ||
ज्योतिर्दश्यामि ||
अन्नं महारसं दिव्यं रसे षड्भिस्समन्वितं |
प्. २७अ) मयानिवेदितं भक्त्या गृहाण परमेश्वरी ||
मोहनीफय ||
नैवेद्यं गृह्यतां देवी भक्ति मे अचरां कुरु |
अपमृत्युहरं देवी परत्रे च परां गतिं ||
फलपुष्पताम्बूल धूपदिप इदं नैवेद्यं नमः ||
जप ||
थ्रौ स्वाहा || १० || श्रीं ह्रीं स्वाहा || १० || ग्नौं स्वाहा १० || ग्म्ल्व्र्यूं स्वाहा ५४ ||
निर्व्वाणया ५४ ||
केवोऽऽना ५ तय || स्तोत्र ||
अखण्डमण्डलाकारं व्याप्तं येन चराचरं |
तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः ||
पिंगाक्षी रक्तकेशां किणि किणि धवरं किऽऽन्किणी मालजालं
द्रष्ट्यस्यं क्रुरभावं सकलभयहरं पात्रहस्तं च नादं |
सुव्यक्तं सिंहनादं ल ल ल ल ल वलं वर्व्वलं व्योमतत्वं
भूतप्रेतादिनाथं ग्रहगणनमितं क्षेत्रपालं नमामि ||
रक्ताम्बरं ज्वलतपिऽऽन्ग जताकलापं
ज्वालावलीरतिरदण्ड पवने? प्रचण्डं |
प्. २७ब्) सूर्ययोदयात् कनककान्तण संगगौरं
गौरीसुतः वटुकनाथमहन्नमामि ||
हन्तार्षा क्षोददुःखं समितभवभयं सर्व्वविघ्नान्तकाय
गां गीं गूं गै खडंगे गगणपतिगते सिद्धिसर्व्वार्थभावे |
ओं ह्रुं मुद्रागजाक्षे गसपवणगते आखुयानेक संस्थ
ओं ह्रीं हां गां गणेशे द्विरर्दमुखगणे विघ्निनाथे नमस्ते ||
इच्छाज्ञानी क्रियासासुर वरनमिता सा शृयामंगलाख्या
सा गौरी सा च दुर्ग्गा भगवति शुभदा मातृकाश्चर्म्ममुण्डा ||
सा ब्रह्मा सा च विष्णुर्ग्रहगणसकलाभैरवी क्षेत्रपाला
सानेकानेकरूपा विविधगुण दयायोगिनी त्वां नमामि ||
गौरं त्र्यक्ष विभाति पंचवदनं सिंहस्थमाकर्षणं
पाशं मुंगलतऽऽन्कमक्षमभयं नागेश्वरं तम्वरं |
प्. २८अ) पात्रं मोदकपूरितं ह्वभयदं सव्यापि सव्योकरं
विभ्रछूलमनोहलं सुजथरं हेलम्बनाथं नमः ||
यथावानप्रहाराणां कवचम्भवति वारणं |
तद्वदेव विधात्रानां शान्तिर्भवतु वारणं ||
स्वस्थान क्षेत्रपालाय ब्रह्माण्यादि असिताऽऽन्गमहाभैरव सहिताय
गणवटुकयोगिनी क्षेत्रपालाय सांगाय सगणस्परिवाराय दिग्विगि इन्द्रादि
लोकपालाय सुप्रीता वरदा भवन्तु यजमानस्य सगस्परिवाराणां
आयुरारोग्यमैश्वर्यय जनधनलक्ष्मी सन्तति सन्तानवृद्धिरस्तु यथा
शास्त्रोक्तफलवरदायिनो भवन्तु ||
अन्यत्र शरणं नास्ति त्वमेव शरणं ममास्तस्मात्कारुण्य भावेन रक्ष
रक्ष परमेश्वरी ||
दक्षिणाच्छाय || नमस्कारयाय ||
प्. २८ब्) परिवारपूजा || समयच्छाय || तर्प्पण ||
मोहनीकोकाय || स्वानकोकाय ||
एकानेक भवन्ति जगत्त्रिपूर्णेश्वरी वासवे
भूतेसि गगणोपमा भगवती निःशेश्वरी दक्षिणे |
ज्ञानागम्य कुजेश्वरी कुलगणावारुण्यदिऽऽन्नायका
श्रीवामां प्रणमामि विश्वजननी दर्शेश्वरी सिद्धिदं ||
यजमान स्वानमुऽऽनातय सकलेऽऽनय ||
अम्बे पूर्व्वगतं पदं भगवती चैतन्यरूपात्मको
ज्ञानेच्छा बहुधा तथा हरिहर ब्रह्मामरीचि त्रयं |
भास्वद्भैरवपंकजरुचे श्रीयोगिनीपंचकं
चन्द्रार्क्का च मरीचि षट्कविमलं मां पातु नित्यं कुजः ||
वलि विसर्ज्जनं ||
सालाऽऽनसफया मोहनी सुह्लेसदेवनेकुमियाकेते ||
श्री ३ मध्यपीठपूजाविधि ||
त्रितत्वेनाचम्य || ह्रां आत्मतत्वाय स्वाहा ||
प्. २९अ) ह्रीं विद्यातत्वाय स्वाहा || ह्रुं शिवतत्वाय स्वाहा || गुरुनमस्कार ||
अखण्डमण्डलाकारेत्यादि ||
न्यासः ||
अं अस्त्राय फट् || ४ || करशोधनं || ऐं ५ अंगुष्ठाभ्यां नमः || ऐं ५ ह्रीं
तर्ज्जनीभ्यां नमः || ऐं ५ श्रीं मध्यमाभ्यां नमः || ऐं ५ ह्स्फ्रें
अनामिकाभ्यां नमः || ऐं ५ ह्सौं कनिष्ठाभ्यां नमः || ऐं ५ अः अस्त्राय
करतलपृष्ठाभ्यां नमः ||
ऐं ५ हृदयाय नमः || ऐं ५ ह्रीं शिरसे स्वाहा || ऐं ५ श्रीं शिखायै वषट् || ऐं ५
ह्स्फ्रें कवचाय हूं || ऐं ५ ह्सौं नेत्रत्रयाय वौषट् || अः अस्त्राय फट् ||
जलपात्रपूजा || हकारकुतनपूजा || सकारकुटनपूजा || षडऽऽन्ग ||
आवाहनादि || योनिमुद्रां ||
भूतशुद्धि || आत्मपूजा || ऐं ५ चन्दनं पादुकां ||
आवाहन || श्रीसम्वर्त्तामण्डलान्ते
प्. २९ब्) क्रमपदनिहितानन्दशक्तिः सुभिमा सृष्टिं न्याये
चतुष्कं अकुलकुलगतं पंचकं चान्यषट्कं ||
चत्वारो पंचकोन्यं पुनरपि चतुरं तर्त्ततो मण्डलेदं
संसृष्टं येन तस्मै नमत गुरुवरं भैरवं श्रीकुजेशं ||
ताहारयवपूजा ||
ओं गंगायै नमः || ओं यमुनायै नमः || ओं नर्म्मदायै नमः || ओं कावेर्ययै
नमः || ओं कौशिक्यै नमः || ओं गण्डक्यै नमः || ओं सरयवै नमः || ओं
सप्तसमुद्रेभ्यो नमः || ओं संपूर्णकलयै नमः || ऐं ५ ह्स्क्ष्म्ल्व्र्यूं
कुलवृक्ष महासेन संमोन सकलतीर्थ मन्त्रदेवता कलातत्वतत्वाधिपतये
ब्रह्मविष्णुरुद्रात्मविद्या शिवतत्वाय ह्स्क्ष्म्ल्व्र्यूं श्क्ष्म्ल्व्र्यीं
संपूर्णकलशमूर्त्तये नमः || आवाहनादि ||
प्. ३०अ) धेनुमुद्रां || देवपंचामृतस्नान || ओं अद्यादि वाक्ये || लंखनहाय
||
ऊकारं वायुबीजं तदुपरि वरुणं वज्रपाणिं तदुर्द्धं
कालं वर्णान्तयुक्तं तदुपरि परमं वह्निबीजं सहंसं |
इन्दुबिन्दुं लयान्तं शितकमलधरं क्षीरधाराश्रवन्तं
दृष्ट्वाकूटन्तु नित्यं दहति कुलमरं मेरुतुल्य हि पापं ||
दुदु ||
पयसामृते पूतेन पृथिव्यां परिपूरितं |
कामधेनु श्रवन्नित्यं स्नापयामि शिवाज्ञया ||
धरि ||
दधि उमापतिं देवं देवाना प्रियवल्लभं |
स्नापयश्च सदानित्यं सूप्रीता देवता सदा ||
घेर ||
घृतपूतविनाकेन लिऽऽन्गपूत पिनाकिणि |
अग्निसर्प्पस्वरूपेण तांत्रिकं जनं शिवं ||
कस्ति ||
गोमुखी शक्तिनोद्भूतं देवानां प्रियवल्लभं |
प्. ३०ब्) वांच्छाकल्पतरुस्नानं येन स्नानेन लभ्यते ||
साखल ||
खण्डमेतन्महास्वादु मनसाः शीतलं सदा |
खण्डेन्दु स्नापितं देव अखण्डित बलप्रदः ||
पंचामृत ||
तथा पंचादि पयसः पंचब्रह्मनिवासिनं |
पंचद्रव्यसमायुक्तं पंचाऽऽन्गैः स्नापयाम्यहं ||
अलिस्नान ||
श्क्ष्म्ल्व्र्यीं पादुकां ||
चेत ||
श्रीखण्डचन्दनं दिव्यं गन्धाढ्यस्सुमनोहरं |
आभूषितं ललाताख्ये चन्दनं प्रतिगृह्यतां ||
चन्दनैर्ल्लेपितं पुण्यं पवित्रं पापनाशनं |
आपदा हरते नित्यं लक्ष्मीराज्य सुखप्रदं ||
सिधर ||
वीरेश्वरी महावीर वीरभस्मविभूषितं |
त्रैलोक्यं कर्षणी देवी सिन्दूरारुणमुत्तमं ||
अक्षत ||
अक्षतं अक्षयो कामं धर्म्मकामार्थसिद्धिदं |
इस्मितं मे वरं देवी परत्रे च पराऽऽन्गतिं ||
दृष्टि ||
प्. ३१अ) ध्यानदृष्टिविशालेषु ललितं वीरचक्षुषु |
सोमसूर्ययाग्निभुवनं वैसमं नेत्र निर्म्मलं ||
जजमका ||
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् |
आयुष्यमग्नं प्रतिमंच शुभ्रं यज्ञोपवित्रं परमस्तु तेजः ||
अदुवार ||
नानावस्त्रविचित्राऽऽन्गं क्षौमकार्प्पास निर्म्मितं |
देवाऽऽन्गभूषणं श्रेष्ठं गृहाण परमेश्वरी ||
चफुमाढे ||
छत्रं चिन्तामणिं दिव्यं पूर्णचन्द्रनिभंसितं |
तेन दत्तेन देवेश देहि मे चिन्तितं फलं ||
स्नान ||
नानापुष्पसुगन्धानि मालतीकुसुमोदयं |
सौभाग्यसिद्धिदं भद्रे पुष्पारोहनमुत्तमं ||
पंचपताका ||
पताकापंचवर्णाभा कर्णयोः परिलम्बिनी |
पंचभूतात्मिका पंच दत्तेयं क्षौमनिर्म्मिता ||
कर्णपताका ||
शुद्धसिदूरवर्णाभा पताकां कर्णसंज्ञकां |
प्. ३१ब्) गृहाण परमेशान चतुःकोणांसुशोभना ||
थ्वतेछायलये || पतवासनचोय || जापूजावोयमालको ||
अथ देवार्च्चनं ||
त्रितत्वेनाचम्य ||
ह्रां आत्मतत्वाय स्वाहा || ह्रीं विद्यातत्वाय स्वाहा || ह्रूं शिवतत्वाय स्वाहा
|| सूर्ययार्घ || अद्यादि || वाक्य || पुष्पं नमः ||
वर्णान्तं बीजमुद्धृत्य तस्योपरि शिवं न्यसेत् |
आदिमध्यावसानेषु अग्नित्रयविभूषितं ||
वर्म्माणा दीपितं कृत्वा सावित्र्या चैव मुद्धरेत् |
एष कूटवरः श्रेष्ठो महामार्त्तण्डभैरवः ||
अर्घं नमः || पुष्पं नमः || र्ह्र्क्ष्रीं श्रीमार्त्तण्डभैरय नमः ||
गुरुनमस्कार ||
ऐं ५ अखण्डमण्डलाकारं व्याप्तं येन चराचरं |
तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः ||
गुरुर्ब्रह्मा गुरुर्विष्णु गुरुदेव महेश्वरः |
प्. ३२अ) गुरुदेव जगत्सर्व्वं तस्मै श्रीगुरुवे नमः ||
परमगुरुभ्यो नमः || परमेष्ठीगुरुभ्यो नमः || परमाचार्यगुरु श्री
आदिदेव पादुकां || वलिस || पद्मासनाय नमः || थवके || कूर्म्मासनाय
नमः || जवयव || किणि २ विच्चे कोऽऽन्कणायै ह्रः अस्त्राय फट् || ऐं हूं फट्
वज्रपंजरे स्वाहा || चलमकुले कुलमचरे ह्रीं ह्रूं फट् स्वाहा ||
ततो न्यासः || वतीशी न्यासः ||
ऐं ५ किणि २ विच्चे कोऽऽन्कणायै ह्रः अस्त्राय फट् ||
करं शोधनं || ४ ||
ऐं ५ नमो भगवति हृत्कमलायै ह्रां अंगुष्ठाभ्यां नमः || ऐं ५ ह्स्फ्रें
कुब्जिकायै कुलदीपायै ह्रीं तर्ज्जनीभ्यां नमः || ऐं ५ ह्रां ह्रां ह्रुं
वर्व्वरशिखायै ह्रूं मध्यमाभ्यां नमः || ऐं ५ घोरे अघोरे अघोरामुखि
वहुरूपायै ह्रं अनामिकाभ्यान्नमः || ऐं ५ च्छां च्छीं महन्तारिकायै ह्रौं
कनिष्ठाभ्यां नमः ||
प्. ३२ब्) ऐं ५ किणि २ विच्चे कोऽऽन्कणायै ह्रः कलतरपृष्ठाभ्यां नमः || इति
करन्यासः ||
ऐं ५ नमो भगवति हृत्कमलायै श्री ऊर्द्ध्ववक्त्राय नमः || ऐं ५ ह्स्फ्रें
कुब्जिकायै कुलदीपायै श्रीपूर्व्ववक्त्राय नमः || ऐं ५ ह्रां ह्रीं ह्रूं
वर्व्वरशिखायै श्रीदक्षिणवक्त्राय नमः || ऐं ५ घोरे अघोरे अघोरामुखी
वहुरूपायै श्री उत्तरवक्त्राय नमः || ऐं ५ च्छां च्छीं महन्तारिकायै
श्रीपश्चिमवक्त्राय नमः || ऐं ५ किणि २ विच्चे कोऽऽन्कणायै श्रीपरापरवक्त्राय
नमः || इति वक्त्रन्यासः ||
ऐं ५ नमो भगवति हृत्कमलायै ह्रां हृदयाय नमः || ऐं ५ ह्स्फ्रें कुब्जिकायै
कुलदीपायै ह्रीं शिरसे स्वाहा || ऐं ५ ह्रां ह्रीं ह्रुं वर्व्वरशिखे हूं शिखायै
वषट् || ऐं ५ घोरे अघोरे अघोरामुखी वहुरूपायै ह्रैं कवचाय हुं || ऐं ५
च्छां च्छीं महन्तारिकायै ह्रौं नेत्रत्रयाय वौषट् ||
प्. ३३अ) ऐं ५ किणि २ विच्चे कोऽऽन्कणायै ह्रः अस्त्राय फट् || इति अऽऽन्गन्यासः ||
जलपात्रपूजा ||
जलपात्रासनाय नमः || ऐं ५ ह्स्क्ष्म्ल्व्र्यूं
आनन्दशक्तिभैरवानन्दवीराधिपतये श्क्ष्म्ल्व्र्यीं श्रीजलपात्रभट्टारिकायै
पादुकां || ह्रीं हृदयायेत्यादि || आवाहनादि || धेनुमुद्रां || गायत्रि ||
ऐं ५ कुब्जिकायै विद्महे कुलदीपायै धीमहे तन्नः कुब्जि प्रचोदयात् || आत्मादि
सर्व्वद्रव्याणि प्रोक्षणं ||
अर्घपात्रपूजा || अर्घपात्रासनाय पादुकां ||
ऐं ५ ह्रां ह्रीं ह्रुंः प्रस्फुर २ घोर २ तरतरु २ रुपचत २ प्रचट २ कह २ वम २
दम २ घातय २ विघातय २ विघ्नि हूं २ फट् क्रों श्रीमहाकौमारिका विच्चे
पादुकां || ह्रीं हृदयायेत्यादि ||
प्. ३३ब्) पंचमुद्रां प्रदर्शयेत् ||
भूतशुद्धि || ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौं ह्सौं ह्स्फ्रें श्रीं ह्रीं ऐं ||
आत्मपूजा || ऐं ५ ह्स्क्ष्म्ल्व्र्यूं श्क्ष्म्ल्व्र्यीं आत्मने ऐं चन्दनं पादुकां ||
ह्रीं अक्षत पादुकां || श्रीवीरभस्म पादुकां || ह्स्फ्रें सर्व्वजनमोहनी
पादुकां || ह्सौं नानाच्छत्र अलंकार पुष्पं पादुकां || अर्घपात्रोदकेन
शिरसि सिञ्चयेत् || ऐं कुसौं पादुकां || ३ ||
आवाहन ||
श्रीसम्वर्त्तामण्डलान्ते क्रमपदनिहितानन्दशक्तिः सुभीमा
सृष्टिं न्याये चतुष्कं अकुलकुलगतं पंचकं चान्य षट्कं |
चत्वारो पंचकोन्यं पुनरपि चतुरं तत्ततो मण्डलेदं
संसृष्टं येन तस्मै नमतु गुरुवरं भैरवं श्रीकुजेशः ||
इदं आवाहिष्ये आवाहयामि ||
५ ड्लं अनन्तमण्डलश्री आदिदेव पादुकां || नरासनाय पादुकां ||
मयूरासनाय पादुकां ||
प्. ३४अ) मूषासनाय पादुकां || थ्रौं प्रस्तरद्वीपदम्भकी देवी
महाध्वांक्ष क्षेत्रपालाय पादुकां || श्रीं ह्रीं कुलपुत्रवटुकनाथाय
पादुकां || गां गीं गूं गः ग्लौं कुलगणेश्वराय पादुकां ||
थ्वतेनं वलिः || आवाहनादि || तर्ज्जनि दण्डगजमुद्रां || इति त्रिदेवपूजा ||
अथ परिवारपूजा ||
अं ब्रह्माणी असिताऽऽन्गभैरवाय पादुकां || कं माहेश्वरी रु रु भैरवाय
पादुकां || चं कौमालि चण्डभैरवाय पादुकां || टं वैष्णवी
क्रोधभैरवाय पादुकां || तं वाराहि उन्मत्तभैरवाय पादुकां || पं
इन्द्रायणी कपालिशभैरवाय पादुकां || यं चामुण्डायै
भीषणभैरवाय पादुकां || शं महालक्ष्मी संहारभैरवाय
पादुकां || थ्वतेनं वलिः ||
आसन || आधारशक्तये नमः || अनन्तासनाय नमः ||
प्. ३४ब्) कन्दासनाय नमः || नारासनाय नमः || पत्रासनाय नमः ||
केशरासनाय नमः || कर्णिकासनाय नमः || पद्मासनाय नमः ||
प्रेतासनाय पादुकां ||
ध्यानं ||
ऐं ५ कामरूपी महातेजा युगान्तादित्य वर्च्चसा |
लाक्षारसनिभा दिव्या पद्मराग समप्रभा ||
सर्व्वरत्नविचित्राऽऽन्गी अंबिका भूतविग्रहा |
चतुर्भुजा त्रिनेत्रञ्च त्रिशूलं जाप्यमालिकां ||
काद्यबिन्दुधरी देवी नानारत्नविभूषिता |
ध्यातव्यं च महादेवी कुलेश्वरि प्रपूजयेत् ||
इति ध्यानं ||
त्रियाञ्जलिः ||
ऐं ५ श्री अनादि महापीठि मेरु महाक्षेत्रे कौलि गृहे ह्स्ख्फ्रें कुब्जिके
ह्स्क्ष्म्ल्व्र्यं श्रीकुलचक्रेश्वरनाथ अम्बा पादुकां || ऐं ५ श्री अनादि
महापिठि मेरुक्षेत्रे कौलिगृहे श्ख्फ्रीं कुब्जिके श्क्ष्म्ल्व्र्यीं श्रीकुलचक्रेश्वरी
अम्बा पादुकां || ३ ||
प्. ३५अ) वलि || षडऽऽन्ग || गायत्री || ऐं ५ कुब्जिकायै विद्महेत्यादि ||
ऐं ५ अघोरे ह्रां थघोरे ह्रीं घोरघोरन्तरे ह्रूं फ्रें सर्व्वतः सर्व्व सर्व्वे ह्रं
जुं सः ह्रां रूद्ररूपे ह्रः पादुकां ||
ऐं ५ ऐं वज्रकुब्जिनीनी ह्स्फ्रें त्रैलोक्याकर्षणी ह्रीं कामांग द्रावणि क्लीं स्त्रीं
महाक्षोभकारिणि ऐं सौ सः पादुकां ||
ऐं ५ नमो भगवति ह्स्फ्रें कुब्जिकायै ह्रां ह्रीं ह्रूं घोरे अघोरे अघोरामुखि
च्छां च्छीं किणि २ विच्चे पादुकां || वलि ||
ऐं ५ नाश्वरमूलमन्त्रगणेश || ग्वाखनपूजा ||
ऐं ५ ह्रां ह्रीं ह्रूं शिखास्वछन्द भैरवाय पादुकां || वलि ||
इन्द्रादिपूजा ||
इन्द्राय नमः || अग्नये नमः || यमाय नमः || नै-ऋत्याय नमः || वरुणाय
नमः || वायवे नमः || कुबेराय नमः || ईशानाय नमः || अनन्ताय नमः ||
ओं ब्रह्मणे नमः ||
प्. ३५ब्) थ्वतेनं वलिः ||
वलिल्वहोपूजा ||
नरासनाय नमः || हंसासनाय नमः || वृषासनाय नमः ||
मयूरासनाय नमः || गरुडासनाय नमः || महिषासनाय नमः ||
गजासनाय नमः || प्रेतासनाय नमः || नरासनाय नमः || अं ब्रह्माणी
असिताऽऽन्गभैरवाय पादुकां || कं माहेश्वरी रु रु भैरवाय पादुकां || चं
कौमारि चण्डभैरवाय पादुकां || टं वैष्णवी क्रोधभैरवाय
पादुकां || तं वाराही उन्मत्तभैरवाय पादुकां || पं इन्द्राणी
कपालीशभैरवाय पादुकां || यं चामुण्डा भीषणभैरवाय पादुकां
|| शं महालक्ष्मी संहारभैरवाय पादुकां ||
थ्वतेनं वलिः ||
प्रयागक्षेत्रपालाय पादुकां || वरुणक्षेत्रपालाय पादुकां || कोलाक्ष
क्षेत्रपालाय पादुकां ||
प्. ३६अ) अट्टहास क्षेत्रपालाय पादुकां || जयन्ती क्षेत्रपालाय पादुकां ||
चरित्र क्षेत्रपालाय पादुकां || एकाम्र क्षेत्रपालाय पादुकां ||
देवीकोट क्षेत्रपालाय पादुकां || थ्वतेनं वलि ||
अष्टपत्रे || मध्ये || पूजन || त्रियाञ्जलि ||
ओं ह्रां ह्रूं ह्ट्सैं? कुसंनदीपजयभद्रक्षेत्रपालमृगा देवी क्ष्रों
महास्वस्थानक्षेत्रपालाय पादुकां || ३ || वलि || मध्येस || आवाहनादि
मुद्रा || इति वलिलोहापूजा ||
त्रियाञ्जलि || आवाहनादि || योनिमुद्रां || वलि ||
ऽऽनासुखुलाकायाववलिविय ||
ऐं ५ ह्रां सर्व्वपीथोपपीठानि द्वारोपद्वारमेव च ||
क्षेत्रोपक्षेत्र संदोहा सर्व्वदिग्भागसंस्थिता ||
योगिनी योगवीरेन्द्राः सर्व्वं तत्र समागता |
इदं पर्व्वमहाचक्रं श्रीनाथो वरदो मम ||
प्. ३६ब्) ये भक्ताशासने देवी गुरुपादार्च्चने रता |
सर्व्वसिद्धिप्रसादो मे देवी तेषां सदा भवेत् ||
वीराणां योगिनिनाञ्च ये द्विषन्ति महीतले |
ते दत्तातवलिं देवी समयाचल मेलके ||
श्रुतिस्मृति मनः पुष्टि मांसमेदोस्थि जीवितं |
निकृन्तयन्तु दुष्टानां योगिनीगणसंकुला ||
कुहुंकानि कुस्वप्नानि दुर्न्निमितां द्विभाषितां |
निकृन्तयन्तु दुष्टानां योगिनीगणसंकुला ||
ओंकारादिषु ये भूतास्त्रयः साराः प्रकीर्त्तिताः |
ओषधी धातु संदोहा दिशासु विदिशासु च ||
महीपाताल ब्रह्माण्डे सर्व्वस्थानान्तरेषु च |
योगिनी योग युक्तात्मा नित्यं तिष्ठति साधका ||
वीरकर्म सुरेन्द्राणां सत्यं तिष्ठन्ति देवता |
सिद्धाश्च पुत्रकाचार्यया साधकाः क्षितिसायिनं ||
नगरे वाथ ग्रामे वा अटव्यां वा सरिद्वरे |
प्. ३७अ) वापी कूपैक वृक्षे वा श्मशाने मातृमण्डले ||
नानारूपधरान्येपि वटजा विविधानि च |
ते च सर्व्वेपि संतुष्टा वलिं गृह्नन्तु सर्व्वतः ||
शरणागतोप्यहं तेषां सर्व्वमेतत्फलप्रदं |
पालयेत् यत्मयाकर्म्म यत्करिष्यामि यत्कृतं ||
वलिपुष्पप्रदानेन संतुष्टा मम चिन्तका |
सर्व्वकर्म्माणि सिध्यन्तु सर्व्वदोषा प्रसान्तु मे ||
शिवशक्ति प्रदानेन श्रीकुकारां नमाम्यहं |
इति समय वलिं ||
त्रियाञ्जलिः || षडंग || वलि || निर्व्वाणच्छाय ||
त्वाकमहावलिविय ||
क्षां क्षीं क्षूं क्षेत्रपालाय वलिं गृह्न २ स्वाहा || श्रीं ह्रीं
कुलपुत्रवटुकनाथाय वलिं गृह्न २ स्वाहा || गां गीं गूं गः ग्लौं
श्रीकुलगणेश्वराय वलिं गृह्न २ स्वाहा ||
प्. ३७ब्) हूं महाकरवीरश्मशानाधिपतये वलिं गृह्न २ स्वाहा || ह्स्ख्फ्रीं
श्रीसिद्धिचामुण्डायै वलिं गृह्न २ स्वाहा || आकाशश्चारिणी सर्वर्ग्गेभ्यो
वलिं गृह्न २ स्वाहा || सर्व्वेभ्यो भूतेभ्यो सर्व्वेभ्यो पिशाचेभ्यो सर्व्वेभ्यो
इष्टदेवताभ्यो वलिं गृह्न २ स्वाहा || आवाहनादि || योनिमुद्रां ||
धूप ||
दिव्यगन्धसमायुक्तं सर्व्वदेवप्रियावहं |
आघ्रानं सर्व्वदेवानां धूपोयं प्रतिगृह्यतां ||
धूपाहारेषु भगवति विश्वरूपी महेश्वरी |
धूपेनानेन देवेसि सुप्रीतां परमेश्वरी ||
दीप ||
सुप्रकाशो महातेज सर्व्वत्रस्तिमिरापहं |
सवाह्याभ्यन्तरं ज्योतिर्दीपोयं प्रतिगृह्यतां ||
ज्योतिर्दश्यामि ||
सालाऽऽन सफया मोहनि देवयाह्ववनेतयः पूजायायमाल ||
नैवेद्य ||
अन्नं महारसं दिव्यं रसै षड्भिः समन्वितं |
प्. ३८अ) मया निवेदितं भक्त्या गृहाण परमेश्वरी ||
नैवेद्यं गृह्यतां देवी भक्ति मे अचरां कुरु |
अपमृत्युहरं देवी परत्रे च परांगतिं ||
फलपुष्पताम्बूल धूपदीप इदं नैवेद्यं नमः ||
जप ||
थ्रौं स्वाहा १० || श्रीं ह्रीं स्वाहा || १० || यां स्वाहा ||
यह्म्ख्फ्रां स्वाहा ५४ || श्म्ख्फ्रीं स्वाहा ५४ || निर्व्वानया ||
वो ५ केवोतय || स्तोत्र ||
अखण्डमण्डलाकारं व्याप्तं येन चराचरं |
तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः ||
श्रीसम्वर्त्ता ||
पिऽऽन्गाक्षी रक्तकेशां किणि किणि धवलं किऽऽन्किणी मालजालं
द्रंष्ट्रास्यं क्रूरभावं सकलभयहरं पात्रहस्तं च नादं |
सुव्यक्तं सिंहनादं ल ल ल ल ल वलं मऽऽन्गलं व्योमतत्वं
भूतप्रेतादिनाथं ग्रहगण नमितं क्षेत्रपालं नमामि ||
प्. ३८ब्) रक्ताम्बरं ज्वलितपिऽऽन्ग जटाकलापं
ज्वालावलीरतिरदन्दधर प्रचण्डं |
सूर्ययोदयात्कनककान्तण संगगौरं
गौरीसुतः वटुकनाथमहं नमामि ||
हंतार्षाक्षोभदुःखं सनितभयहरं सर्व्वविघ्नान्तकाये
गां गीं गूं गैं खडऽऽन्गे गगणपति गते सिद्धिसर्व्वार्थ भावे ||
ओं ह्रूं ग्लूं मुद्रागजाक्षेगसपवणगते आखुयानैक संस्थे
ओं ह्रीं ह्रूं हां गां गणेशे द्विरविषगणे विघ्निनाथं नमस्ते ||
इच्छाज्ञानी क्रीयासासुरवरनमिता सा श्रियामऽऽन्गलाख्या
सा गौरी सा च दुर्ग्गा भगवति शुभदा मातृकाश्चर्म्ममुण्डा ||
सा ब्रह्मा सा च विष्णुर्ग्रहगणसकला भैरवी क्षेत्रपाला
सानेकानेकरूपा विविधगुणदया योगिनीत्वां नमामि ||
ब्रह्माणीया ||
ब्रह्माणि ब्रह्मसावित्री ब्रह्मतत्वनिवेदिनी |
प्. ३९अ) चतुर्भुजं चतुर्व्वक्त्रं चतुर्व्वेदपरायणी ||
चतुर्भुजं विलंव्यापि चतुर्युगपरायणी |
हंसयुक्त विमानस्था सौम्यरूपी पितामही ||
पुस्तकं जाप्यमालां च वरदाभय पाणिनी |
पीतपुष्परतां देवी पीताऽऽन्गी पीतवाससा ||
पीतोपहार संतुष्टा पीतगन्धानुलेपिनी |
उदुम्बर तलावस्था प्रयागक्षेत्रवासिनी |
पूर्व्वपीठे स्थिता नित्यं ब्रह्मशक्ती नमोस्तुते ||
माहेश्वरीया ||
माहेश्वरी महादेवी मोहमाया निरंजनी |
महावृषभमारूढा महाहुंकारनादिनी ||
हेमवक्त्र निभं देहं कपालं शशिशेषरी |
त्रिलोचनं त्रिशूलं च अक्षसूत्रकमण्डलुं ||
हाडालंकारसर्व्वाऽऽन्गी दक्षिणेन वरप्रदा |
सृष्टिस्थिति विनाशानां सर्व्वव्यापि सुरेश्वरी ||
प्. ३९ब्) श्वेतपुष्परतां देवी श्वेताऽऽन्गी श्वेतवाससा |
श्वेतवस्त्रपरीधाना मुक्ताभरणभूषिता ||
वाराणस्यां महाक्षेत्रे तालवृक्षनिवासिनी |
आग्नेयां च स्थिता पीठे माहेश्वरी नमोस्तुते ||
कौमारीया ||
वालभावे महारौद्री कौमारी रक्तलोचनी |
रक्तवस्त्रपरीधाना सिन्दूरारुणविग्रहा ||
चतुर्भूजा शक्तिसूत्रं सिद्धिपात्रधरं शुभं |
कौमारं परमं शक्ति मयूरवरवाहिनी ||
रक्तपुष्परतां देवी रक्तमांसावसासिनी |
कोलापूज्यां महाक्षेत्रे वटवृक्षनिवासिनी ||
याम्यपीठे स्थितानित्यं कौमारि च नमोस्तुते |
वैष्णवीया ||
वैष्णवी विष्णुमायां च दैत्यदुर्ग्गान्तनाशिनी |
हरितश्यामवर्णाऽऽन्गी गरुडोपरिसंस्थिता ||
शंखचक्रगदाहस्ता चतुर्बाहु विभूषिता |
प्. ४०अ) रत्नज्वाला महाक्रीडा नानारत्नविभूषिता ||
हरितपुष्पगन्धञ्च सदाहरितधारिणी |
स्वर्ग्गमर्त्य च पाताले स्थितिरूपेण संस्थिता ||
अट्टहास महाक्षेत्रे कदम्बवृक्षवासिनी |
तिष्ठन्ति पीठ नैर्-ऋत्ये नारायणि नमोस्तुते ||
वाराहीया ||
वाराही घोररक्ताऽऽन्गी रक्तकेशी महोदरी |
दंष्ट्राकरालगंभीरा वालार्क्क तेजलोचनी ||
कपालमालिकामाला विचित्रपुष्पशोभिता |
महामहिषमाढा ज्वलिताग्नि समप्रभा ||
मीनांकुश कर्त्तिकाद्या हाडाभरणभूषिता |
त्रिनेत्रं ज्वलितं देहं दुष्टदर्प्पविनाशिनी ||
जयन्ती क्षेत्रसंस्थानां निम्बवृक्षसमाश्रिता |
नागपीठे स्थिता नित्यं कोलरूपी नमोस्तुते ||
इन्द्रायनीया ||
शक्रेश्वरी सहस्राक्षी कुऽऽन्कुमारुणविग्रहा |
सुरेश्वरी सवी देवी सर्वालंकारभूषिता ||
प्. ४०ब्) चतुर्भुजा विशालाक्षी छत्रघण्टाविधारिणी |
महावज्रधरी देवी स्थिति ऐंरावता गजा ||
नानापुष्परतान्देवी नानारत्नविभूषितां |
नानागन्धविलिप्ताऽऽन्गी नानावस्त्रविराजिते ||
चरित्रे च महाक्षेत्रे कदम्बवृक्षवासिनी |
वायुपीठे स्थिता नित्यं शक्रेश्वरी नमोस्तुते ||
चामुण्डाया ||
चामुण्डा चण्डिका चण्डी चण्डचण्दा सुधारिणी |
चण्डाट्टहास चण्डाक्षी प्रचण्डा चण्डहासिनी ||
दंष्ट्राकराल रक्ताक्षी कपिलकेशी कृषोदरी |
कृशाऽऽन्गी भीषणी रौद्री जिह्वाललन भीषणी ||
महाप्रेतासमारूढा भुजा अष्टा सुशोभनी |
असिचर्म्मयुता हस्ता डमरु खट्वाऽऽन्गधारिणी ||
कर्त्तृकापालहस्ताऽऽन्गी वरदाभयभूषिता |
नरचर्म्मधृता देवी द्वीपचर्म्मकटि स्थिता ||
प्. ४१अ) मुण्डमालाधरी देवी अन्ताभरणभूषिता |
हाडालंकारभूषाऽऽन्गी अलिफलगु सदा प्रिये ||
सहस्रसूर्यसंकाशं रोमकूपे प्रतिप्रतिः |
ज्वालामालाकुलो देहा तडित्कोटि समप्रभा ||
भूतवेतालडाकिन्यां परिवारं च राक्षसी |
एकाम्रके महाक्षेत्रे अश्वत्थवृक्षवासिनी ||
पीठ उत्तरसंस्थाऽऽन्गै चामुण्डायै नमोस्तुते ||
महालक्ष्मीया ||
महालक्ष्मी महादेवी सौभाग्ये सुरसुन्दरी |
वैदुर्ययपादुकारूढा सिंहासनोपरिस्थिता ||
चतुर्भुजा विशालाक्षी खड्गफेटकधारिणी |
नूपुरहारकेयुरा रत्नकुण्डलधारिणी ||
रत्नोत्खचित् सर्व्वाऽऽन्गी चूडामणिविभूषिता |
विचित्रपुष्परत्नञ्च वस्त्रगन्धानुलेपनी ||
त्रैलोक्ये व्यापिनी देवी सर्व्वस्थं स चराचरं |
प्. ४१ब्) सिद्धिगन्धर्व्व नमिता विद्याधरसुरार्च्चिता ||
देवीकोट महाप्लक्षं संहाराष्टकुलक्रमं |
ईशानपीठसंस्थाय महालक्ष्मी नमोस्तुते ||
मध्यया ||
रक्तवर्णं चतुर्व्वाहुं अक्षमालात्रिशूलकं |
कपालं बिन्दुहस्ता च चक्रेश्वरी नमोस्तु * ||
अष्टक्षेत्रे स्थितान्देवीं अष्टवृक्षनिवासिनी |
अष्टभैरवसंयुक्तं अष्टमातृ नमोस्तुते ||
जननी सर्व्वभूतानां सर्व्वतत्वप्रकारिणी |
सर्व्वदोषहरा देवी संसारपाशच्छेदनी ||
त्वमेव सर्व्वशास्त्रत्वं त्वमेव योगरूपिनी |
त्वमेव सृष्टिसंहारं त्वमेव स्थितिरूपिनी ||
त्वमेव सर्व्वरूपानि त्वमेव विश्वरूपिनी |
पीठेश्वरं महादेवं देवदेवं महात्मनं ||
भैरवं भीषनं रौद्रं घोरां गम्भीररूपिनी |
नीलाञ्जननिभं देहं महाकाय महोत्सवे ||
प्. ४२अ) नानाभुजसमाकीर्णा नानाशास्त्र धरा शुभा |
त्रिलोचन महातेज अग्निसूर्यय समप्रभं ||
भ्रुवौलासमसूत्रं च दावाग्नि समतेजसा |
त्रिशूलमुण्डखट्वाऽऽन्ग डमरु तर्ज्जनि ध्वजं ||
पालिजातामकंवारं खड्गचर्म्मधरा शुभा |
पाशाऽऽन्कुशधरं देवं वज्रशूचिगदाधरं ||
कपालकर्त्तिकं चक्रं गजचर्म्मावगुण्ठितं |
द्रंष्ट्राकरालवदना व्याघ्रचर्म्मकटिवृता ||
सालंकालेन सर्व्वाऽऽन्गी नरास्थि पुष्पशोभिता |
शीर्षमालाधरं देवं कपालं मालिकोत्तमं ||
चूडामणि महातेजं कपालं चन्द्रशेषरं |
महाप्रेतासना नित्यं नृत्यंगीस तदा पिर्य ||
सर्व्वाललनखं तेजं जटाविद्रुस सन्निभं |
चतुष्पीथे स्थिता नित्यं अष्टक्षेत्रा निवासिनी ||
अष्टमूर्त्तिस्थिता देवी अष्टाष्टयोगिनी प्रिये |
भद्रपीठे स्थिता नित्यं भद्रकालि समावृता ||
प्. ४२ब्) भद्रकारणकर्त्तारं वीरभद्र नमोस्तुते |
असिताऽऽन्ग रुरुश्चैव चण्डोर्थ क्रोधभैरव ||
उन्मत्तभैरवंश्चैव कपालिभीषनस्तथा |
संहाराश्चैव अष्टौ च भैरवाष्टक नमोस्तुते ||
स्वस्वानस्वाधिकाराश्च स्वस्वरूपा स्ववीर्ययका |
स्मर्त्तकार्ययेषु वर्त्तन्ते दिव्यान्तरेषु भूमिसा ||
दशदिक्षु सक्षेत्रपालं च क्षेत्राञ्चैव चतुर्द्दश |
पंचाशत्क्षेत्रपालं च क्षेत्रपालं नमोस्तुते ||
नाथनाथं महानाथं आदिनाथं महात्मने |
श्रीनाथसिद्धिनाथञ्च मीननाथं नमोस्तुते ||
क्षेत्रनाथञ्च पीठञ्च दीपनाथ महात्मने |
प्रेतनाथञ्च भूतं च वटुकनाथं नमोस्तुते ||
त्रिनाथो नवनाथञ्च षोडशनाथमुत्तमं |
सप्ताविंशद्विपञ्चासो चौराशीति नमोस्तुते ||
सर्व्वेषां नाथ सिद्धानां सन्तानं कुलवृर्धये |
प्. ४३अ) योगशद्यस्तथा विरा तत्सर्व्वञ्च नमोस्तुते ||
एककालं द्विकालं वा त्रिकालं यःत्पठेन्नरः |
शतमावर्त्तयेद्यस्तु प्राप्नोति शृणुमुत्तमं ||
नाशयेच्छोक चिन्तानि नाशये विघ्नदेवता |
नाशयेत् कलह लोकानि नाशयेद्दुखभागिनी ||
नाशयेद्भयदारिद्रं नासयेद्रिपु सोत्तमम् |
नाशयेदग्नि चौरानि नाशयेद्राजकोधकं ||
नाशयेत् सविषं घोरं नाशयेत् सर्व्वपाटकै |
आयुरारोग्यमैश्वर्यय धनधान्यविवर्द्धनं ||
धर्म्मार्थ काममोक्षानां जशसौभाग्यमुत्तमं |
रिद्धि सिद्धि श्रियं लक्ष्मी विद्याज्ञानसुनन्तितं ||
बुद्धिप्रज्ञासुमित्रं च वृद्धिन्ते च दिने दिने |
सकालमलनन्तस्य उत्पाते नाशयेत् सदा ||
सर्व्वलोगप्रणस्यन्ति दीर्घमायु च लभ्यते |
प्. ४३ब्) इति श्रीपीठनृर्णय देव्यास्मृते पीठावतार स्तोत्रं समाप्तं ||
मध्ये पीठनिवासिनीं भगवतीं प्रेतासिनीं सुन्दरीं
रक्ताऽऽन्गी धृतशूलसाक्षककरीं संसारसारप्रदां ||
ब्रह्मोपेन्द्र सुरेन्द्र किन्नरगणैः संपूजितां सर्व्वदा
तां देवीं सततं नमामि शिरसा कामार्थसिद्धिप्रदां ||
ब्रह्माण्यादि जयादिभिः परिवृता क्षेत्रे स्थिता योगिनी
श्रीवीरैस्सकलैः सुरैः समरस शूलाक्षमाला धृता |
उन्मत्ताधृतसाऽऽन्कमऽऽन्गलयुधा पीयूषधारावृता
प्रेमानावरकाद्यबिन्दु सहिता चक्रेश्वरी पातु वः ||
यथा बाणप्रहाराणां कवचं भवति वारणं |
तद्वदेव विधात्रानां शान्तिर्भवतु वारणं ||
स्वस्थानक्षेत्रपालाय ब्रह्माण्यादि असिताऽऽन्गमहाभैरव सहिताय
प्. ४४अ) गणवटुकयोगिनी क्षेत्रपालाय सांगाय सगणस्परिवाराय दिग्विदिगि
इन्द्रादि लोकपालाय सुप्रीता वरदा भवन्तु यजमानस्य
सगणस्परिवाराणां आयुरारोग्यमैश्वर्यय जनधनलक्ष्मी संतति
संतानवृद्धिरस्तु यथा शास्त्रोक्तफलवरदायिनो भवन्तु ||
अन्यत्र शरणं नास्ति त्वमेव शरणं मम |
तस्मात् कारुण्यभावेन रक्ष रक्ष परमेश्वरी ||
तर्प्पण ||
समयच्छाय || ग्वयदक्षिणाछाय || नमस्कारयाय ||
वाक्य || मोहनीच्छाय देवसके || यजमानयाता मोहनी आगणतके || एकानेक ||
एकामूर्त्तिरनेकधात्रि जगति पूर्णेश्वरी वासवे
भूतेशी गगणोपमा भगवति नैशेश्वरी दक्षिणे ||
ज्ञानागम्य कुजेश्वरी कुलगण चारुण्यदिऽऽन्नायिका |
प्. ४४ब्) श्रीवामां प्रणमामि विश्वजननी दर्शेश्वरी सिद्धिदा ||
स्वान आगनतके ||
अम्बे पूर्व्वगतं पदं भगवति चैतन्यरूपात्मिका
ज्ञानेछा वहुला तथा हरिहरौ ब्रह्मामरीचि त्रयं |
भास्वद्भैरव पंचकं तदनु च श्रीयोगिनी पंचकं
चन्द्राक्कौ च मरीचि षट्कं विमलं मां पातु नित्यं कुजा ||
मण्डलह्मोय || नोसिय || वलि विसर्ज्जन || साक्षिथाय ||
इति श्री ३ मध्ये पीठिपूजाविधिस्समाप्त ||
पिठिपूजा धुनकाववयाव यजमानरासालायाव स्वस्तिक सविद्यावके ||
स्वस्ति कुर्ययात् सदा विघ्न स्वस्ति मार्त्तण्डमेव च |
योगिनी स्वस्ति सर्व्वाश्च स्वस्ति पीठा स्वक्षेत्रका ||
पूर्वं दक्षिणतः पश्चात् रुत्तरोद्ध्राधस्तथा |
स्वस्ति षट्कागमस्था तु गुप्ता प्रकट देवताः ||
प्. ४५अ) भैरवो भैरवी साऽऽन्गा स्वस्ति स्वः स्वचक्रगा |
स्वमन्त्राश्च स्वमुद्राश्च स्वायुधा परिवारिका ||
ग्रहनक्षत्रराशिस्था स्वस्ति सर्व्वास्य स्वस्तये |
स्वस्ति वीरा प्रमेलाश्च योगिन्यागणनायका ||
स्वस्ति देवाधिदेवेशि मन्त्रराजो निरन्तरं |
हव्य पलालि तृप्ताश्च स्वस्ति कुलाग्नि देवताः |
स्वस्ति राजा प्रजानाञ्च यजमान स्वस्ति सर्व्वदा ||
नृवच्छन || एकाप्लकानगाले ||
यजमानस्य मानवगोत्र श्रीश्रीजयभूपतीन्द्रमल्लवर्म्मणः श्री ३
आकाशमहाभैरवप्रीत्यंरथप्रतिष्ठा तदुपरि
सुवर्णकलशध्वजावलोहन भैरवाग्नि सहस्राहुति अहोरात्र
यज्ञनिमित्यर्थं || ह्रः अस्त्राय फट् || ३ ||
वलिविय ||
भूताय विविधाकारा भूविदिव्यान्तरिक्षका |
प्. ४५ब्) पातालतलवासिन्यां ते नश्यन्तु शिवाज्ञया ||
दीप ||
सुप्रकाशो महातेजस्सर्व्वत्र तिमिरापहं |
शवाह्याभ्यन्तरं ज्योति दीपोयं प्रति गृह्यतां ||
तालचानत्वाय ||
ह्रां आत्मतत्वाय स्वाहा || ह्रीं विद्यातत्वाय स्वाहा || ह्रूं शिवतत्वाय स्वाहा
||
सगोननत्वा || त्रितत्वेन || ३ ||
थ्वनंलिपीठिपूजाया स्वानवियने गुलयां || स्नान लंखनहाय ||
ऊकारम् वायुबीजं तदुपरिवरुणं वज्रपाणिं तदूर्द्धं
कालं वर्णान्तयुक्तं तदुपरिपरमं वह्निबीजं सहसं |
इन्दुं बिन्दुं लयान्तं शितकमलधरं क्षीरधारा श्रवन्तं
दृष्ट्वा कूतन्तु नित्यं दहति कुलमयं मेरुतुल्यं हि पापं ||
चन्दन ||
श्रीखण्डचन्दनं दिव्यं गन्धाढ्यस्सुमनोहरं |
आभूषितं ललाटाऽऽन्गे चन्दनं प्रतिगृह्यतां ||
प्. ४६अ) चन्दनैर्लेपितं पुण्यं पवित्रं पापनाशनं |
आपदा हरते नित्यं लक्ष्मीराज्य सुखप्रदं ||
सिधर ||
वीरेश्वरी महावीर वीरभस्मविभूषितं |
त्रैलोक्यां कर्षणी देवी सिन्दूरारुणमुत्तमं ||
सगोन ||
सिद्धार्थं दधिपावनं च सकलं संपूर्णचन्द्रोपमं |
पापौघ दुरितौघ नाशनकरी वाच्छार्थसिद्धिं करी |
यस्माः संभव संपदा जयकरी चार्थं महासिद्धिदं
दीर्घायुश्चिरकारणे विजयते शंभुस्सदा पातु वः ||
मोहनि ||
त्रैलोक्यमोहनीनां रिपुकुलदहनी भंजनी सर्व्वविघ्नि
भूतप्रेतापिशाचा भयसुषहरणी ध्वंसिनी दाकिनीनां |
रक्षा भूतानराणां शिवसकलमुखा सर्व्वमऽऽन्गल्ययुक्ता
सा देवी मोहनीयं त्रिपठगतियुता सर्व्वसम्पत्तिदायि ||
प्. ४६ब्) स्वान यजमानयाताविय ||
गौरं त्र्यक्षविभादि पंचवदनं सिंहस्थामाकर्षणं
पाशं मुद्गर तऽऽन्कमक्षमभयं जागेश्वरं तम्बरं |
पात्रं मोदकपूरितं ह्यभयदं सव्यापि सव्यापरं
विभ्रछूल मनोहरं सुजठरं हेलम्बनाथं नमः ||
ब्रह्माणी कमलेन्दु सौम्यवदनी माहेश्वरी लीलया
कौमारी रिपुदर्प्पणाशनकरी चक्रायुधा वैष्णवी |
वाराहि घनघोरघर्घरमुखी ऐन्द्रीश्च वज्राअयुधा
चामुण्डा गणनाथभैरवगणा रक्षन्तु मे मातृका ||
रक्तवर्णं चतुर्व्वाहुं अक्षमाला त्रिशूलकं |
कपालबिन्दु हस्ता च चक्रेश्वरी नमोस्तुते ||
सेफा ||
प्रतिष्ठितोसि देवत्वं सुप्रतिष्ठा भुवणत्रयं |
सान्निध्यं प्रतिगृह्नासि जजमानादिवृद्धये ||
प्. ४७अ) सन्नोस्तु द्विपदे नित्यं सन्नोराज्यस्तथैव च |
यजमानसंभूतोयं सुपुत्र पशुबान्धवः ||
रक्षत्वं सर्व्वकालेषु देशनं भैरव नमोस्तुते ||
सुप्रतिष्ठा वरदा भवन्तु || इति लाजान प्रतिष्ठा ||
पिथिपूजाया आगनतया वहयका समय
यजमानयाताच्छह्मुतथवताच्छह्मुतकायावतर्प्पण ||
प्रीतः प्रेतासनस्था भवभयहरणे भैरवा मन्त्रमूर्त्तिः
चण्डी चण्डा सनस्थां फणितफणिफणा लोकपाला फणीन्द्राः |
यक्षाः रक्षाश्च दैत्याः पितृगणसहिताः मातराः क्षत्रपाला
योगिन्योः योगयुक्ताः जलचलखचलापाणमेतत् पिवन्तु ||
पिवन्तु देवता सर्व्वे रुद्राश्चैव विनायकाः |
योगिनी क्षेत्रपालाश्च मम देहे व्यवस्थिता ||
नमः श्रीनाथाय ||
प्. ४७ब्) नमः सिद्धिनाथाय नमः || नमः श्रीकुजेशनाथाय नमो नमः ||
नातुऽऽनाव भुचासतय || कलंकपूजा || त्रियाञ्जलि ||
५ हूं कलंकापालिन्यै चाण्डालिनि हूं फट् पादुकां || ३ ||
धूप || दीप || कलंकवातकरंच्छोय || दक्षिणा ||
एकामूर्त्तिरनेकधात्रि जगति पूर्णेश्वरी वासवे
भूतेशी गगणोपमा भगवति नैश्वेरी दक्षिणे |
ज्ञानागम्य कुजेश्वरी कुरगणा वारुणा दिऽऽन्नायिका
श्रीवामां प्रणमामि विश्वजननी दर्शेश्वरी सिद्धिदा ||
अम्बे पूर्व्वगतं पदं भगवति चैतन्यरूपात्मिका
ज्ञानेच्छा वहुला तथा हरिहरौ ब्रह्मा मरीचि त्रयं |
भास्वद्भैरव पंचकं तदनु च श्रीयोगिनीपंचकं
चन्द्रार्क्कौ च मरीचि षट्क ममलं मां पातु नित्यं कुजा ||
प्. ४८अ) वलिविसर्ज्जन || वलिच्छोय || गडनास || गणध्याखायिनायस ||
वटुकदुमा जुं स || साक्षिथाय || नोसिय ||
इति पीठिपूजा समाप्त ||
सम्वत् ८२१ फाल्गुणकृष्ण त्रयोदशी थ्वकुह्नु श्री ३
आकाशमहाभैरवसरथ श्री श्रीजयभूपतीन्द्रमल्लदेवसनयो ऽऽनादिनजलो
|| शुभ ||
प्. ४८ब्) १ अद्येत्यादि || मानवगोत्र यजमानस्य
श्रीश्रीजयभूपतीन्द्रमल्लदेववर्म्मणः श्री ३ स्वेष्टदेवताप्रीतिकामनया
नवगृहप्रवेशप्रतिष्ठानिमित्यार्थेन सिद्धाग्नि अयुताहुति यज्ञनवपीठ
अष्टमातृकाराधनं कर्त्तुं पुष्पभाजनं समर्प्पयामि ||
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
5d8h5dhaqd0ts3vvjn6i3ejt72m1jqc
415852
415851
2026-05-13T04:44:21Z
Shubha
190
415852
wikitext
text/x-wiki
{{header
| title = पीठपूजाविधिः
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00559
Uniform title: pīṭhapūjāvidhi
Manuscript : NGMCP 1/1081 Reel No: B 191/12
Description:
Ritual manual
Notes:
Manuscript selected by Dr. Mark S.G. Dyczkowski .
Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash.
Revision 0: Sept. 26, 2021
Internet publisher : Muktabodha Indological Research Institute
Publication year :
Publication city :
Publication country : United States
----
प्. १अ) १ ओं नमः श्री ३ महागणेशाय नमः ।। श्रीगुरुपादुकाभ्यां नमः
।।
ततः पीठपूजाविधिः ।।
यजमान पुष्पभाजनयाचके ।। अद्यादि ।। वाक्य ।। यजमानस्य मानवगोत्र
श्रीश्रीजयभूपतीन्द्रमल्लवर्म्मणः श्री ३ आकाश महाभैरव
प्रीत्यर्थं रथप्रतिष्ठा तदुपरि सुवर्णकलशध्वजावलोहन भैरवाग्नि
सहस्राहूति अहोरात्र यज्ञ अष्टमातृका आराधन निमिर्त्यर्थं कर्तुं
पुष्पभाजनं समर्प्पयामि ।।
श्रीसंवर्त्तामण्डलान्ते क्रमपदसहितानन्दशक्ति सुभीमा
सृष्टं न्याये चतुष्कं त्व कुलकुलगतं पंचकं चान्यषट्कं ।
चत्वारो पंचकोन्यं पुनरपि चतुरंस्तत्वतो मण्डलेदं
संसृष्टं येन तस्मै नमत गुरुवरं भैरवः श्रीकुजेशं ।।
श्यामा रक्ता त्रिनेत्रास्तनभरनमिता मत्तमातऽऽन्गामी
बिम्बोष्ठी चारुनेत्रा पृथुतलजघना मेखलारत्नशोभे ।
देवाऽऽन्गे वस्त्रशोभे वरवरकुसुमे वर्व्वराकेशभारे
सा मे श्रीकुब्जिकाख्या वितरतुतरसा ज्ञानदिव्यौघमोघं ।।
प्. १ब्) उत्फुल्लाम्बुज कर्णिकोपलिगता श्रीसिद्धिलक्ष्मी परा
कर्प्पूरस्फटिकेन्दु कुण्डधवरा निशेष पापोपहा ।।
संसारार्णवदुःखपक्वदहनी निष्कम्पनं सर्व्वदा
श्रीमत्पञ्चमुखाम्बुजा दशभुजा प्रेत स्थिता पातु वः ।।
गौरं त्र्यक्षविभादि पंचवदनं सिंहस्थमाकर्षणं
पाशं मुद्गरतऽऽन्कमक्षमभयं नागेश्वरं तम्बरं ।
पात्रं मोदकपूरितं ह्यभयदं सव्यापि सव्योकरं
विभ्रच्छूलमनोहरं सुजठर हेलम्बनाथं नमः ।।
ब्रह्माणि कमलेन्दु सौम्य वदनी माहेश्वरी लीलया
कौमारी रिपुदर्प्पणाशनकरी चक्रायुधा वैष्णवी ।
वाराहि घणघोरघर्घरमुखी ऐन्द्री च वज्राअयुधा
प्. २अ) चामुण्डागननाथ भैरवगणा रक्षन्तु मे मातृका ।।
पीठे मध्ये निवासिनी भगवति प्रेतासनी सुन्दरीं
रक्ताऽऽन्गी धृतशूलसाक्षकृ?करी संसारसारप्रदां ।
ब्रह्मोपेन्द्रसुरेन्द्र किन्नरगणैः संपूजितां सर्व्वदा
तां वन्दे सततन्नमामि शिरसा कामार्थसिद्धिप्रदां ।।
ब्रह्माण्यादि जयादिभिः परिवृता क्षेत्रे स्थिता योगिनी
श्रीवीरे सकले सुरैः समरसो शूलाक्षमाला धृता ।
उन्मत्ता धृतसांकमऽऽन्गलयुधा पीयूषधारावृता
प्रेमानावरकाद्य बिन्दु सहिता चक्रेश्वरी नमोस्तुते ।।
पूर्वं दक्षिणपश्चिमोत्तर शिवा पूर्वादिवामासिका
क्षेत्रेशो वटुभूतदुर्ग्गहरणं हेलम्बनथाय च ।
प्. २ब्) श्मशानेश्वरमादिदेव द्विभुजः शोकादिदोषप्रहा
नित्यानन्दमयी प्रमोदिते सदावल्यादि पूजाविधि ।।
सिद्धिरस्तु क्रियारम्भे वृद्धिरस्तु धनागमे ।
पुष्टिरस्तु शरीरेषु शान्तिरस्तु गृहे तव ।।
सर्व्वविघ्नि प्रशमनं सर्व्वशान्तिकरं शुभ ।
आयुपुत्रं च कामञ्च लक्ष्मी सन्तति वर्द्धनं ।।
यथादान प्रहाराणां कवचं भवतु वारिणं ।
तद्वदैव विधात्राणां शान्तिर्भवतु वारणं ।।
पुष्पभाजनं समर्प्पयामि ।।
गो यदाममालकोतयावजोपयके ।। थ्वते धुनऽऽनावे वं स्वसे चोऽऽनाव ।।
विघ्निहरण वलिविय ।। वलिछपात भुजावन मेलाने उति ।। द्वंदु ५ ।। नववलि ५ ।।
अर्घपात्रसऽऽना
प्. ३अ) सुकला सवुनन्यानते ।। केवोफं १ ।।
स्नानादि ।। लंखनहाय ।।
ऊकारं वायुबीजं तदुपरि वरुणं वज्रपाणिं तदूर्द्ध्वं
कालं वर्णांतयुक्तं तदुपरि परमं वह्निबीजं स हंसं ।
इन्दुबिन्दुं लयान्तं सितकमलधरं क्षीरधारा श्रवन्तं
दृष्ट्वा कूटन्तु नित्यं दहति कुलमलं मेरुतुल्यं हि पापं ।।
अलिस्नानं ।।
श्क्ष्म्ल्व्र्यीं श्रीपादुकां ।। चेत् ।।
श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरं ।
आभूषितं ललाताक्षं चन्दनं प्रतिगृह्यतां ।।
चन्दनं लेपितं पुण्यं पवित्रं पापनाशनं ।
आपदा हरते नित्यं लक्ष्मीराज्यसुखप्रदं ।।
सिंदूर ।।
वीरेश्वरी महावीर वीरभस्मविभूषितं ।
त्रैलोक्याकर्षणी देवी सिन्दूरारुणमुत्तमं ।।
प्. ३ब्) अक्षत ।।
अक्षतं अक्षयो कामं धर्म्मकामार्थसिद्धिदं ।
इप्सितं मे वरं देही परत्रे च परांगतिं ।।
दृष्टि ।।
स्वर्ग्गमर्त्त्यैक पाताल चतुर्द्दशप्रदर्शकं ।
दिव्यचक्षु फलाप्त्यर्थं दृष्टिकं प्रतिगृह्यतां ।।
जजमका ।।
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यस्सहजं पुरस्तात् ।
आयुष्यमग्रं प्रतिमञ्च शुभ्रं यज्ञोपवीतं परमस्तु ते यः ।।
अदुवार ।।
वस्त्रं पवित्रं परमं सुखसौभाग्यदायकं ।
कार्प्पासिकं जगत्मात्र वस्त्रगृह्न नमोस्तुते ।।
स्वान ।।
नानापुष्पसुगन्धाढ्यं मालतीकुसुमोपमं ।
सौभाग्यसिद्धिदं भद्रे पुष्पारोहनमुत्तमं ।।
प्. ४अ) कर्णपताका ।।
शुद्धसिन्दूरवर्णाभा पताकां कर्णसंज्ञकां ।
गृहानपरमेसान चतुष्कोणां सुशोभणां ।।
पंचपताका ।।
कर्णार्थ युगलं देवि पताकां पंचवर्णकं ।
पचसिद्धिफलाप्त्यर्थं गृहाणध्वजमुत्तमं ।।
चफुमाढे ।।
छत्रं चिन्तामणिं दिव्यं पूर्णचन्द्रनिभंसितं ।
तेन दत्तेन देवेश देहि मे चिन्तितं फलं ।।
मालक्वजापूजावोय ।। त्रितत्वेनाचमनं ।।
ह्रां आत्मतत्वाय स्वाहा ।। ह्रीं विद्यातत्वाय स्वाहा ।। हूं शिवतत्वाय स्वाहा ।।
ह्रां ह्रीं ह्रूं सर्व्वतत्वाय स्वाहा ।।
सूर्ययार्घ ।। अद्यादि ।। वाक्य ।।
वर्णान्तं बीजमुद्धृत्य तस्योपरि शिवं न्यसेत् ।
आदिमध्यावसाने तु अग्नित्रयविभूषितं ।।
प्. ४ब्) वर्म्मणा दीपितं कृत्वा सावित्री चैव मुद्धरेत् ।
एष कूटवरः श्रेष्ठो महामार्त्तण्डभैरवः ।।
अर्घं नमः ।। पुष्पं नमः ।। र्ह्र्क्ष्रीं श्रीमहामार्त्तण्डभैरवाय नमः
।।
गुरुनमस्कार ।।
ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौं ।।
अखण्डमण्डलाकारं व्याप्तं येन चराचरं ।
तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः ।।
गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देव महेश्वरं ।
गुरुदेव जगत्सर्व्वं तस्मै श्रीगुरुवे नमः ।।
परमगुरुभ्यो नमः ।। परमेष्ठीगुरुभ्यो नमः ।। परमाचार्यगुरुभ्यो
नमः ।।
वलिस ।।
पद्मासनाय पादुकां ।।
थवके ।। कूर्म्मासनाय पादुकां ।।
पार्श्वे अक्षत विकरणं ।। किणि २ विच्चे कोऽऽन्कणायै ह्रः अस्त्राय फट् ।।
प्. ५अ) वज्रमुद्रया मुखवेष्टनं ।। ऐं ५ हूं फट् वज्रपंजरे स्वाहा ।।
दशद्वारस्पर्शनं ।। ५ चलमे कुले कुलमचले ह्रीं ह्रूं फट् स्वाहा ।।
न्यासः ।।
५ किणि २ विच्चे कोऽऽन्कणायै ह्रः अस्त्राय फट् पादुकां ।।
करशोधनं ४ ।।
नमो भगवति हृत्कमलायै ह्रां श्री अंगुष्ठाभ्यां पादुकां ।। ह्स्फ्रें
कुब्जिकायै कुलदीपायै ह्रीं श्रीं तर्ज्जनीभ्यां पादुकां ।। ५ ह्रां ह्रीं ह्रूं
वर्व्वरशिखे ह्रूं श्रीमध्येमाभ्यां पादुकां ।। ५ घोरे अघोरे
अघोरामुखी वहुरूपायै ह्रैं श्रीं अनामिकाभ्यां पादुकां ।। ५ छां छीं
महन्तारिकायै ह्रौं श्रीकनिष्ठाभ्यां पादुकां ।। ५ किणि २ विच्चे
कोऽऽन्कणायै ह्रः श्रीकरतरपृष्ठाभ्यां पादुकां ।। इति करं न्यासः ।।
५ नमो भगवति
प्. ५ब्) हृत्कमलायै श्री ऊर्द्ध्ववक्त्रायै पादुकां ।। ५ ह्स्फ्रें कुब्जिकायै
कुलदीपायै श्रीपूर्ववक्त्रायै पादुकां ।। ५ ह्रां ह्रीं ह्रूं वर्व्वरशिखे
श्रीदक्षिणवक्त्रायै पादुकां ।। ५ घोरे अघोरे अघोरामुखी वहुरुपायै श्री
उत्तरवक्त्रायै पादुकां ।। ५ छां छीं महंतारिकायै श्रीपश्चिमवक्त्रायै
पादुकां ।। ५ किणि २ विच्चे कोऽऽन्कणायै श्रीपरापरवक्त्रायै पादुकां ।। इति
वक्त्रन्यासः ।।
५ नमो भगवति हृत्कमलायै ह्रां हृदयाय पादुकां ।। ५ ह्स्फ्रें कुब्जिकायै
कुलदीपायै ह्रीं शिरसे स्वाहा ।। ५ ह्रां ह्रीं ह्रूं वर्व्वरशिखे ह्रूं
श्रीशिखायै वौषट् ।। ५ घोरे अघोरे अघोरामुखी वहुरूपायै ह्रैं कवचाय
हूं ।। ५ छां छीं महन्तारिकायै ह्रौं नेत्रत्रयाय वषट् ।।
प्. ६अ) ५ किणि २ विच्चे कोऽऽन्कणायै ह्रः अस्त्राय फट् ।। इत्यंगन्यासः ।।
जलपात्रासनाय पादुकां ।। ऐं ५ ह्स्क्ष्म्ल्व्र्यूं आनन्दशक्तिभैरवाननद
वीराधिपतये श्क्ष्म्ल्व्र्यीं श्रीजलपात्रभट्टारिकायै पादुकां ।। ह्रां
हृदयाय नमः ।। ह्रीं शिरसे स्वाहा ।। हूं शिखाय वौषट् ।। ह्रैं कवचाय हूं
।। ह्रौं नेत्रत्रयाय वषट् ।। ह्रः अस्त्राय फट् ।। आवाहनादि ।। धेनुमुद्रां ।।
गायत्रि ।।
ऐं ५ कुब्जिकायै विद्महे कुलदीपायै धीमहि तन्नो कुब्जि प्रचोदयात् ।।
अर्घपात्रपूजा ।।
अर्घपात्रासनाय पादुकां ।। ऐं ५ ह्रां ह्रीं ह्रूं ह्रः प्रस्फुर २ घोर २
तरतनु २ रूपचट २ प्रचट २ कह २ वम २ दम २ घातय २
प्. ६ब्) विघातय २ विघ्नि २ हूं ३ फट् क्रों श्रीमहाकौमारिका विच्चे पादुकां ।।
ऐं ५ श्क्ष्म्ल्व्र्यीं आनन्दशक्तिभैरवानन्द श्रीमहाविद्याराजेश्वरी
ह्स्क्ष्म्ल्व्र्यूं श्री अर्घपात्रभट्टारिकायै पादुकां ।। षडंग ।। आवाह्य
योनिमुद्रां ।।
भूतशुद्धि ।।
ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौं ह्सौं ह्स्फ्रें श्रीं ह्रीं ऐं ।।
आत्मपूजा ।।
ऐं चन्दनं पादुकां ।। ह्रीं अक्षतं पादुकां ।। श्रीवीरभस्म पादुकां ।।
ह्स्फ्रें सर्व्वजनमोहनी पादुकां ।। ह्सौं नानाछत्रालंकालपुष्पं
पादुकां ।। ऐं ५ ह्स्क्ष्म्ल्व्र्यूं आननदशक्तिभैरवानन्दवीराधिपतये
श्क्ष्म्ल्व्र्यीं आत्मने पुष्पं पादुकां ।। ऐं कुसौ पादुकां ।। बिन्दुत्रय ३ ।।
इत्यात्मपूजा ।।
मालिनदण्डकं पठेत् ।। ओं नमश्चण्डिकायै ।।
प्. ७अ) श्रीभैरव उवाच ।।
ऐं ५ जयत्वं मालिनी देवी निर्म्मले मल नाशिनी ।
ज्ञानशक्तिप्रभूद्देवी बुद्धिस्त्वं तेजवर्द्धनी ।।
जननी सर्व्वभूतानां संसारेऽस्मिं व्यवस्थिता ।
मातावीरावली देवी कारुण्यं कुरु वत्सले ।।
जयति परमतत्वनिर्व्वाणसंभूति तेजोमयि निःसृता व्यक्तरूपा
पराज्ञानशक्तिस्त्वमिच्छाक्रिया मंगला ऋज्विरेखा सुरेखा पुनः
सुप्तनागेन्द्रवत्कुण्डलाकाररूपा प्रभूर्न्नादशक्तिस्तु संगीयसे भासुरा
ज्योतिरूपा स्वरूपा शिवाज्येष्ठनामा च वामा च रौद्री मनाख्यान्विका
बिन्दुरूपा वधुतार्द्धचन्द्राकृतिस्त्वं त्रिकोणा अ उ मकार ओकार ईकार
संयोजितैक त्वमाद्यसे तत्त्वरूपा भगाकारवस्थायिनी आदितः
क्षान्ततत्वत्वोद्भवा
प्. ७ब्) योनिरूपा स्वरूपा श्रीकण्ठसंबोधनी रुद्रमाता तथा नन्दशक्तिः
सुशूक्ष्मा त्रिमूर्त्तामरीशार्घिनी भारभूति स्थिति शात्मिकास्थाणु
भूताहताक्षा च झण्ठीश भौतीश सद्यात्मिकानुग्रहेशार्च्चितात्वं
क्रुरशाऽऽन्गमहासेन संभोगिनी षोडशान्तामृता बिन्दुसंदोहिनीस्यंद
देह प्लूताशेषशम्यक् परानन्दनिर्वाणसौख्यप्रदे भैरवी भैरवाद्यान
क्रीडानुशक्तिः परामारिनी रुद्रमातार्च्चिते रुद्रशक्तिः खगसिद्धि योगेश्वरी
सिद्धिमाता विभुः शब्दराशीति योन्यार्णवी वाग्विशुद्धा शिवासिद्धि
वागेश्वरी मातृकासिद्धिमिछाक्रियामंगलासिद्धिलक्ष्मीर्व्विभूतिः
संभूतिर्ग्गतिः शाश्वताख्यान्ति नारायणी रक्तचण्डा कराले क्षणा
प्. ८अ) भीमरूपा महोछूष्मा योगप्रियात्वं जयन्त्याजिता रुद्रसंमोहिनी
त्वं नवात्माख्य देवस्य चोत्संगपानाश्रिता
मन्त्रमार्ग्गानुगैर्म्मन्त्रिभिर्व्वीरपानानुरक्तैः सुभक्तैश्च संपूज्यसे
देवी पञ्चामृतैद्दिव्यपानोत्सवै मुण्डकऽऽन्कालकापालिनी
एकजन्मद्विजन्मत्रिजन्मचतुःपंचषट्सप्तजन्मोद्भवै शास्त्रवैस्तैश्च
नारैः शुभैः फल्गुषैस्तर्प्यसे मद्यमांसप्रिये
मन्त्रविद्याव्रतोद्भासिभिर्म्मुण्डकं
कालकापालिभिर्द्दिव्यचर्ययानुरूढैर्नमस्कार ओंकार स्वाहा स्वधाकार
वौषट् वषट्कार हुंका फत्कार जातिभिरेतै श्च
मन्ताक्षरोच्चारिभिर्व्वामहस्तस्थितै रक्ष सुत्रावलि जातिभिः साधकैः
पुत्रकैःर्मातृभिर्म्मण्डलैर्द्दीक्षितै योगिभिर्ययोगिनिवृन्दमेलापकै
प्. ८ब्) रुद्रक्रीडालसैः पूज्यसे योगिनी योगसिद्धिप्रदे देवित्वं
पद्मपत्रोपमैल्लोचनैः स्नेहपूर्णस्तु संपश्यसे तस्य दिव्यान्तरिक्ष स्थिता
सप्तपातालसंखेचरी सिद्धिरव्याहतावर्णते भक्ति तोयः पठेद्दण्डक्रमे
एककालं द्विकालं त्रिकालं चतुःपंचषट्सप्तचाष्टौ शुचिः संस्मरेद्यः
सदा मानवः सोपि चौराग्नि शस्त्रार्णव पर्व्वताग्रेपि संरक्षसे देवी पुत्रान्
रागान्महालक्ष्मी प्रिये हेमचौरान्यपरदारानुशक्तश्च ब्रह्मघ्न गोघ्न
महादोषदुष्टा विमुञ्चन्ति संस्मृत्य देवी त्वदीयमुखं
पूर्णचन्द्रानुकारि स्फुरद्दिव्यमाणिक्य सत्कुण्डलोद्घृष्टमण्डस्थलं
येऽपि वद्ध्वा दृढैर्बन्धनैर्नागपाशैर्भुजावद्धपादांगुलैस्तेपि
त्वन्नामसंकीर्त्तनाद्देवि मुञ्चन्ति
प्. ९अ) घोरैर्म्महाव्याधिभिः संस्मृत्य पादारविन्द द्वयं ते महाकालि
कालाग्नि तेजः प्रभे स्कन्दब्रह्मेन्द्र चन्द्रार्क्कपुष्पायुधैर्म्मौलिमालालि
सत्पद्म किंजल्क सत्पिञ्जरे सर्व्ववीराम्बिके भैरवि भैरवस्ते
शरणागतोहं क्षमस्वापराधं क्षमस्वापराधं शिवे ।।
एवं स्तुत्वा महादेवी भैरवेन महात्मना ।
ततो लिंगविनिर्भिद्यनिर्ग्गतां परमेश्वरी ।।
इति मालिनीदण्डकस्तोत्रं समाप्तं ।।
पंचवलिविय ।।
ऐं ५ मयूरासनायदुकां ।। ऐं ५ श्रीं ह्रीं कुलपुत्रवटुकनाथाय पादुकां ।।
बलिं ।।
५ नरासनाय पादुकां ।। ऐं ५ थ्रौं प्रस्तरद्वीपदं भकी देवी
महाध्वांक्ष क्षेत्रपालाय पादुकां ।।
बलिं ।।
५ शवासनाय पादुकां ।। ऐं ५ यां योगिनीभ्यो पादुकां ।।
प्. ९ब्) बलिः ।। ५ ये केचित् योगिनीनां पीठजा क्षेत्रजा सहजा जोगजा गर्भजा
कुलजा संदोहजा ये केचिद् योगिनीनां खेचरी भूचरी गोचरी एकाक्षरी
द्वक्षरी त्र्यक्षरी चतुःपंचषट्सप्ताष्टनवाक्षरीणां त्रीयगामिनीनां
यथोपपन्नानां बलिं गृह्न २ स्वाहा ।।
५ प्रेतासनाय पादुकां ।। ऐं ५ ह्स्ख्फ्रीं श्रीसिद्धिचामुण्डेश्वरी पादुकां ।।
बलिं ।।
५ मूषासनाय पादुकां ।। ऐं ५ गां गीं गूं गैं गौं गः ग्लौं
श्रीकुलगणेश्वराय पादुकां ।। बलिं ।।
आवाहनादि ।।
दण्ड तर्जनी योनि बिन्दु गजमुद्रां दर्शयेत् ।।
जप ।।
श्रीं ह्रीं स्वाहा १० ।। थ्रौं स्वाहा १० ।। यां स्वाहा १० ।। ह्स्ख्फ्रें स्वाहा १० ।।
ग्लौं स्वाहा ।।
स्तोत्र ।।
गौर्ययापुत्रं कुमारं गगणतरुधृतं क्षेत्रकं योगिनीं च
प्. १०अ) चामुण्डा चण्डरूपा दुरित भयहरं विघ्निहारं गणेशं ।।
पुष्पाद्या धूपदीपा मिखमधुवलिभिः चर्च्चिता भूषिताऽऽन्गी
चक्रे संपूज्ययकानां विविधजनहिता भुक्तिमुक्ति प्रदाता ।।
पंचवल्यार्च्चनविधे तत्सर्वं पलिपूर्णमस्तु ।।
आवाहन ।।
श्रीसम्वर्त्तामण्डलान्ते क्रमपदनिहितानन्दशक्तिः सुभिमा
सृष्टिं न्याय चतुष्कं अकुलकुलगतं पंचकं चान्य षट्कं ।
चत्वारो पंचकोन्यं पुनरपि चतुरं तर्त्ततो मण्डलेदं
संसृष्टं येन तस्मै नमत गुरुवरं भैरवं श्रीकुजेशं ।।
इदं आवाहिष्ये आवाहयामि ।।
५ अलुं अनन्तमण्डल श्री आदिदेव पादुकां ।।
त्रिदेव ।। आसन ।। ५ नरासना पादुकां ।।
प्. १०ब्) ५ मयूसनाय पादुकां ।। ५ मूषासनाय पादुकां ।। ५ थ्रौं
प्रस्तरद्वीपदम्भकी देवी महाध्वांक्ष क्षेत्रपालाय पादुकां ।। ५ श्रीं
ह्रीं कुलपुत्रवटुकनाथाय पादुकां ।। गां गीं गूं गः ग्लौं
कुलगणेश्वराय पादुकां ।।
थ्वतेनं बलिः ।। आवाह्य ।। तर्ज्जनी दण्डगजमुद्रां ।।
इन्द्रादि ।। लूं इन्द्राय नमः ।। बलिं ।। रूं अग्नये नमः ।। मूं यमाय नमः ।।
क्षूं नै-ऋत्याय नमः ।। वूं वरुणाय नमः ।। यूं वायवे नमः ।। सूं
कुबेराय नमः ।। हूं ईशानाय नमः ।। अं अनन्ताय नमः ।। उं ब्रह्मणे
नमः ।। थ्वतेनं बलिं ।।
जयादि ।। जयायै पादुकां ।। विजयायै पादुकां ।। अजितायै पादुकां ।।
अपराजितायै पादुकां ।। जम्भन्यै पादुकां ।।
प्. ११अ) स्तम्भनी पादुकां ।। मोहनी पादुकां ।। आकर्षणी पादुकां ।।
थ्वतेनं बलिः ।।
ब्रह्मान्यादि ।। अं ब्रह्माणी पादुकां ।। कं माहेश्वरी पादुकां ।। चं
कौमालि पादुकां ।। टं वैष्णवी पादुकां ।। तं वाराहि पादुकां ।। पं
इन्द्राणी पादुकां ।। यं चामुण्डायै पादुकां ।। शं महालक्ष्म्यै
पादुकां ।। थ्वतेनं वलिः ।।
हेतुकादि ।। हूं हेतुकभैरवायै नमः ।। हूं त्रिपुरान्तकभैरवाय नमः ।।
हूं अग्निजिह्वाभैरवाय नमः ।। हूं अग्निवेतारभैरवाय नमः ।। हूं
कालाक्षभैरवाय नमः ।। हूं कलालिभैरवाय नमः ।। हूं
एकपादभैरवाय नमः ।। हूं भीमरूपभैरवाय नमः ।।
हूं डामलभैरवाय नमः ।। हूं कूर्मापृष्ठभैरवाय नमः ।।
थ्वतेनं वलिं ।।
प्. ११ब्) अशितांगादि ।। ह्रां अशितांगभैरवाय नमः ।। ह्रां रुरुभैरवाय
नमः ।। ह्रां चण्डभैरवाय नमः ।। ह्रां क्रोधभैरवाय नमः ।। ह्रां
उन्मत्तभैरवाय नमः ।। ह्रां कपालीशभैरवाय नमः ।। ह्रां
भीषणभैरवाय नमः ।। ह्रां शंहारभैरवाय नमः ।। थ्वतेनं बलिः ।।
ऐं ५ अघोरे ह्रां थ घोरे ह्रीं घोरघोरन्तरे ह्रूं फ्रें सर्व्वतः सर्व्व सर्व्वे
ह्रें जुं सः ह्रों रुद्ररूपे ह्रं पादुकां ।।
ऐं ५ ऐं वज्रकुब्जिनी ह्स्फ्रें त्रैलोक्याकर्षणी ह्रीं कामांग द्रावणी क्लीं स्त्रीं
महाक्षोभकारिणि ऐं सौं सः पादुकां ।।
ऐं ५ नमो भगवति ह्स्फ्रें कुब्जिकायै ह्रां ह्रीं हूं घोरे अघोरे अघोरामुखी
छां छीं किणि २ विच्चे पादुकां ।। थ्वतेनं वलि ।।
त्रियाञ्जलि ।।
प्. १२अ) दुमाज्र ।। वं कुलि ।। मानेश्वरी ।। दुथुयामालको ।। ऽऽना सुखुलाकायाव
वलिविय ।। ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौंः
अजरश्चाप कुम्भश्च इडाचारस्तथैव च ।
इन्द्रमूर्त्तिश्च उल्कास्ये ऊष्माण्डो रिपुसुदन ।।
ऋमुक्त ऌप्तकायश्च ॡलापादैक दष्टकः ।
ऐरावतश्च ओघाम्ब औषधीशस्तथापरे ।।
अन्तको अर्थवाहुश्च कमरश्च खलाननः ।
गोमुखश्चैव घण्टालो ऽऽन ण न चण्डधारकः ।।
छटातोपो जटालाक्षो झऽऽन्कारो ञ भटेश्वरः ।
टऽऽन्कपाणिस्तथा चान्य स्थानुदभश्च डामरः ।।
ढर्ट्टकर्णो नतीकान्तस्तडिद्भास्थविरस्तथा ।
दन्तुरोधनदश्चैव नागकर्णः प्रचण्डवान् ।।
फेत्कारो विरसिंहश्च भृकुताक्षो मेघभासुरः ।
योगान्तो रौरवश्चैव लम्बोष्ठो वत्सलस्तथा ।।
प्. १२ब्) शुक्रतुण्डः षडालास्ये सुनासो हुहुकस्तथा ।
क्षयान्तकस्तु पंचाशत् क्षेत्रपालो उदाहृदा ।।
पंचाशत्वर्णमुद्धारे स्थानस्थाः क्षेत्रपालकाः ।
शेषावर्णविहिनान्तु क्षेत्रपालाश्चतुर्दश ।।
एकलिंगे च हूंकरं श्मशाने च भयावहं ।
महालक्ष्मी वने घोरे ज्वालामुखि वसेत्सदा ।।
एकवृक्षे वटे वाथ विडालवदनो वसेत् ।
घण्टारावो गुहावासे पद्मषण्डे जलाम्बरः ।।
सऽऽन्गमे भूरिधारोघः पर्व्वते मरुतस्तथा ।
निर्झरे श्रवणि प्रवहो निधाने मणिभद्रकः ।।
रसक्षेत्रे धानाध्यक्षो यज्ञे वाटेषू क्रोष्टकः ।
अरण्येशवरं विंद्यादुद्याने मधुकरः स्मृताः ।।
चतुषष्टिर्म्महावीर्ययाः पालयित्वा स्थिता जगत् ।।
प्. १३अ) तत्र क्षेत्रे सदाकालं बलिपूजां निवेदयेत् ।
चत्वारस्तत्र भूपाल द्विजाद्या गृह्नते बलिं ।।
भूखगतरूपक्षी च स्वाचारि बलिकांक्षिण ।
नित्याधिकारि चत्वारः क्रव्यादा इतरे जने ।।
वर्व्वराः पिंगकेशाश्च पिंगभूपिऽऽन्गलोचना ।
दंष्ट्राकराला अत्युग्राः कपालाभरणो ज्वलाः ।।
काश्मीरचन्द्रश्रीखण्डैर्म्मृगालि मीन फल्गुषैः ।
पुष्पैर्व्वस्त्रैस्तथा छत्रैर्दिपैर्धूपैस्तु गुर्ग्गुलैः ।।
भावितान्मभिराद्यैश्च क्रमपूजापरायणैः ।
घण्टावाद्यैश्च गीताद्यैस्तर्प्पिता कामदा सदा ।।
ऐं ५ ओं ह्रीं हूं अमुकाय अवतर २ क्षेत्रपालमहाबल कपिलजटाभारभासुर
त्रिनेत्र ज्वालामुखगन्धं पुष्पं बलि पूजां गृह्न २ भैरवरूपेण
प्. १३ब्) तुरु २ मुरु २ ख २ ल २ फ्रें २ महाडामराधिपतये बलिं गृह्न २
स्वाहा ।।
इति अजरादि बलिः ।।
त्रियांजलिः ।। ह्स्क्ष्म्ल्व्र्यूं श्क्ष्म्ल्व्र्यीं पादुकां ।। षडंग ।। बलिः ।।
निर्व्वाणच्छाय ।।
त्वाकमहावलिविय ।। क्षां क्षीं क्षूं क्षेत्रपालाय बलिं गृह्न २ स्वाहा ।। श्रीं
ह्रीं कुलपुत्रवटुकनाथाय बलिं गृह्न २ स्वाहा ।। गां गीं गूं गः ग्लौं
श्रीकुलगणेश्वराय बलिं गृह्न २ स्वाहा ।। हूं
महाकरवीरश्मशानाधिपतये बलिं गृह्न २ स्वाहा ।। ह्स्ख्फ्रीं
श्रीसिद्धिचामुण्डायै बलिं गृह्न २ स्वाहा ।। आकाशचारिणी सवर्ग्गेभ्यो
बलिं गृह्न २ स्वाहा ।। सर्व्वेभ्यो भूतेभ्यो सर्व्वेभ्यो पिशाचेभ्यो
इष्टदेवतेभ्यो बलिं गृह्न २ स्वाहा ।। आवाहनादि ।। योनिमुद्रां ।। धूप ।।
प्. १४अ) दिव्यगन्धसमायुक्तं सर्व्वदेवप्रियावहं ।
आघ्रानं सर्व्वदेवानां धूपोयं प्रतिगृह्यतां ।।
धूपाहारेषु भगवान् विश्वरूपी महेश्वरी ।
धूपेनानेन देवेसि सुप्रीतां परमेश्वरी ।।
दीप ।।
सुप्रकाशो महातेज सर्व्वतस्तिमिरापहं ।
सबाह्याभ्यन्तरं ज्योति दीपोयं प्रतिगृह्यतां ।।
ज्योतिर्दश्यामि ।।
अन्नं महारसं दिव्यं रसे षड्भिः समन्वितं ।
मया निवेदितं भक्त्या गृहाण परमेश्वरी ।।
नैवेद्यं गृह्यतां देवी भक्ति मे अचरां कुरु ।
अपमृत्युहरं देवी परत्रे च परां गतिं ।।
फलपुष्पताम्बूल धूपदीप इदं नैवेद्यं नमः ।।
जप ।।
थ्रौं स्वाहा १० ।। श्रीं ह्रीं स्वाहा १० ।। ग्लौं स्वाहा १० ।। यां स्वाहा १० ।।
हं ९ स्वाहा १० ।। सं ९ स्वाहा १० ।। थ्ह्म्रौं स्वाहा ५४ ।।
प्. १४ब्) निर्व्वाणया ५४ ।।
केवोतयऽऽना ५ ।। स्तोत्र ।।
अखण्डमण्डलाकारं व्याप्तं येन चलाचरं ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।।
श्रीमहाभैरवाय ।। श्रीदेव्युवाच ।।
श्रीसम्वर्त्तामण्डलान्ते क्रमपदनिहितानन्दशक्तिः सुभीमा
सृष्टं न्याये चतुष्कं अकुलकुलगतं पंचकं चान्य षट्कं ।
चत्वारः पंचकोण्यं पुनरपि चतुरं षोडशाज्ञा विशेषो
देव्यास्तौ मूत्तिमध्ये हसखफलकला बिन्दुपुष्पाक्षमुद्रा ।।
वृर्द्धं कौमारबालं परमशिवकला वक्रदेवैक्रमान्या
श्रीनाथं चन्द्रपूर्ययां नवनवकलितं युग्मभेदे तु सारं ।
त्रितत्वं सिद्धावतारं प्रथमकलियुगे कोऽऽन्कणे स्वाधिकारं
तेषां वै पुत्रशिष्या नवपुलषमते तेषु मध्ये द्विरष्टौ ।।
प्. १५अ) संतानं गोत्रपिण्डं कुलक्रमसकलं षोडशान्ता क्रमान्तं
आदौ द्वे मण्डलाद्यैः परिभिमे भयदं पूज्य सद्भाववृन्दं ।
आधावस्थादशान्तं कुलक्रमसकलं मण्डलस्थानपूर्व्व-
संस्कारं त्रिक्षमेतत् पशुजनभयकृद्विन्दुसिद्धि शिवाग्नौ ।।
मध्ये विश्रामभूमि प्रभवमनुभयं प्रत्ययं स्वाधिकारं
संसृष्टं येन तस्मै नमत गुरुवरं भैरवः श्रीकुजेशं ।।
ऐं या सा शक्तिर्भगाख्या त्रिपथगतियुता त्रिक्षरा त्रिप्रकारा ।
ऐं तस्या श्री ओडियाने परकरसहितं मध्यसंस्थं सुदीप्तं ।
ह्रीं तछ्रीजालंधलाखे प्रकतितनिलय दक्षिणे चैव कोणे
श्रीवामे श्रीपूर्णपीठे पशुजनभयकृत्पूजितं येन विश्वं ।।
ह्स्फ्रें तस्याग्रे कामरूपं मदनकलियुतं सर्व्वसिद्धालयं च
प्. १५ब्) ह्सौं त्रिकोणान्ते समस्तं परमशिवकलालं कृतं योगवृन्दं ।
क्ष्मौं तन्मध्ये दिव्यलिंगं परमसुखकरं बिन्दुरूप खरूपं
क्लीं नित्यानन्दस्वरूपं तदुपरिपरमं षट्प्रकारैर्व्विभिन्नं ।।
ग्लूं विद्याभोगापगम्य मनुभयविमलं त्रिश्रपीठे ललाटे
ऐं एवं व्याप्तं समस्तं स्थितिलयजननी रुद्रशक्ति स्त्रिभेदा ।।
ऐं तत्रस्था देवदेवी अकुलकुलमया नन्दधात्रि स्वरूपा
ओं गुर्व्वाज्ञा बिन्दुभूता पशुजनहरणी सिद्धिदिव्यौघरूपा ।।
ह्सौं नित्यक्लिन्ना सुरक्ता भगमुदित पदानन्दधात्रि प्रसिद्धा
क्ष्मौं कुर्व्वन्ति तत्वकामान् क्षुभित वरतनु श्रीकुजाख्यान्नमामि ।।
ऐं सन्तानं मेरुमार्ग्गेण अन्वयं तत्र देवता ।
प्. १६अ) निर्ग्गमः पीठि ओंकार सिद्धान्वय प्रकीर्त्तिता ।।
भूष्णीभूति गुहावासी वृक्षश्चैव कदम्बकः ।
संख्ये तस्य वितं प्रोक्तं अम्बा च गुहवासिनी ।।
गृहेश्चन्द्रपुरं प्रोक्तं भेदो मन्थानभैरवं ।।
गोत्र अमलिका देवी वाममार्ग्गे प्रकल्पयेत् ।।
अन्वयं प्रत्ययश्चामधिकारश्च कोऽऽन्कणे ।
जन्म ब्रह्मशिलास्थाने स्थिति श्रीकामरूपके ।।
किर्त्तिश्चिञ्चिनिवृक्षे तु सिद्धिश्चैव तु सागरे ।
तुष्टोहं तस्य देवशि योजानाति कुलाक्रमं ।।
षोडशाधारभेदेन न्यासं कूटं क्रमन्तथा ।
पूजितं सिद्धिदं भद्रे सुशिष्याय निवेदयेत् ।।
नमोस्तुते महामाये सूक्ष्मदेहे परापरे ।
एकाकिनी विश्वधाम्ने नादाख्य बिन्दुमालिनी ।।
प्. १६ब्) अदेहाय समुत्पन्ने अचरे विश्वधारिणी ।
महाकुण्डलनी नित्यं हंसमध्ये व्यवस्थिता ।।
सोमसूर्ययाग्निमध्येस्थे व्योमव्यापि परापरे ।
ओंकारविग्रहावस्थे हकाराद्धार्द्धधारिणी ।।
बालाग्रशतधा सूक्ष्मे अनन्ते चाक्षयव्यये ।
हकारार्द्ध कलाधारे पद्मकिंजल्कमाश्रिते ।।
सकालाख्ये महामाये वरदे लोकपूजिते ।
एकैक नादिमध्येस्थ मर्म्ममेकैकभेदिनी ।।
अष्टत्रिंशत्कलादेवि भेदिनी ब्रह्मरंध्रके ।
विद्युल्लतानिभा देवी भुजंगकुटिलाकृतिः ।।
ब्रह्माविष्णुश्च रौद्रश्च ईश्वरश्च सदाशिवः ।
एते पंचमहाप्रेता पादमूले व्यवस्थिता ।।
त्रैलोक्यजननी देवी नमस्ते शक्तिरूपिणी ।
प्. १७अ) इडापिऽऽन्गलमध्येस्थे मृणालतन्तुरूपिनी ।।
बिन्दुमध्ये गतो देवी कुटिलाचार्द्धचन्द्रिके ।
तुषारकनिकाभासे द्वादशान्तावलंबिनी ।।
उमार्क्ष हृत्गते गौरी द्वादशादित्यवर्च्चसे ।
शून्ये सून्यान्तरावस्थे हंसाख्ये प्राणधायिणी ।।
लंबाख्ये परमादेवी दक्षिणोत्तर गामिनी ।
नासाग्रे च समुर्त्तीर्णे मध्ये सूत्र प्रवाहिनी ।।
हृल्लेखे परमानन्दे तालुमुर्द्धि व्यवस्थिते ।
नादघण्टिक संघृष्टे गुणाष्टक समन्विते ।।
स्थूले सूक्ष्मेत्व संक्रुद्धे धर्म्माधर्म पुतद्वये ।
कार्ययकारण कर्तृत्वं त्रिसून्यनादविग्रहे ।।
परापर परेशुद्धे चैतन्य शाश्वतेद्ध्रुवे ।
सर्व्ववर्णधरादेवी गुह्यतत्व त्रिविश्रुते ।।
प्. १७ब्) शक्तिमूले महाव्यूहे बिन्दुबीजसमन्विते ।
अशरीरे महाभागे संसारार्णवतारिणी ।।
जया च विजया चैव जयन्ति चापराजिता ।
तुंबुरु बीजमध्येस्थे नमस्ते पापमोचनी ।।
बन्धमोक्षकरी देवी षोडशान्ता व्यवस्थिता ।
भ्रमनी शक्तिशूलेन महाव्यूहसमन्विते ।।
भ्रमनी भ्रामणी गौरी मायायन्त्र प्रवाहिनी ।
स्वच्छन्दभैरवी देवी क्रोध उन्मत्तभैरवी ।।
पंचाशद्वर्णरूपस्था त्वयारुद्राः प्रकीर्त्तिताः ।
अमृताख्ये रुरुश्चन्द्र नमस्ते ज्ञानभैरवी ।।
दंष्ट्रोत्कटविद्युज्जिह्वे तालकाक्षी भयानने ।
नमामि देवदेवेशि अघोरे घोरविक्रमे ।।
ज्वालामुखी वेगवती उमादेवी नमोस्तुते ।
योगिनी च श्रया देवी गौरी लक्ष्मी सरस्वती ।।
प्. १८अ) हंसस्वराद्धके देवि गोमुखी शक्तिमालिनी ।
क्रोष्टकी शुभगा देवी दुर्ग्गाकात्यायणी तथा ।।
नित्यक्लिन्ना समाख्याता रक्ता एकाक्षरापरा ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।।
वाराही चैव माहेन्द्री चामुण्डात्वं भयानना ।
योगेशी त्वं हि देवेशि कुलाष्टक विभूषिते ।।
अष्टाष्टक धरी देवी लक्ष्मीत्वं बहुरूपिणी ।
ऐन्द्री चैव तु आग्नेयां याम्यां नै-ऋत्यवाहिणी ।।
वायुव्यां चैव कौवेरी ईशाने च मुदाहृता ।
प्रयागा वरुणा कोल्ला अट्टहासा जयन्तीका ।।
चरित्रे काम्रकं चैव देवी कोटं तथाक्रमं ।
तथा काली उमादेवी देवदूती नमोस्तुते ।।
भद्रकाली महामाय चर्म्ममुण्डा भयावहे ।
महोशूक्ष्मे महासान्ते नमस्ते शक्तिरूपिणी ।।
प्. १८ब्) भुर्भुवस्वेति स्वाहान्ते दयानाथं कुरु क्षमे ।
ज्ञानार्थितो महामाय एतद्दिक्षा निवेदितुं ।।
यस्त्विदं पठ्यते स्तोत्रं त्रिसंध्याश्चैव मानवः ।
प्राप्नोति चिन्तितां कामान् स्त्रीणां भवतु वल्लभः ।।
इति शिवशक्तिसमरसत्वं महामायास्तोत्रं समाप्तं ।।
पिऽऽन्गाक्षी रक्तकेशां किणि किणि धवलं किऽऽन्किणी मालजालं
द्रंष्ट्रास्यं क्रूरभावं सकलभयहरं पात्रहस्तं च नादं ।
सुव्यक्तं सिंहनादं ल ल ल लववलं मऽऽन्गलं व्योमतत्वं
भूतप्रेतादिनाथं ग्रहगण नमितं क्षेत्रपालं नमामि ।।
रक्ताम्बरं ज्वलितपिऽऽन्ग जटाकलापं
ज्वालावलीरतिरथः दधरं प्रचण्डं ।
सूर्ययो दयात् कनककान्तण संगगौरं
गौरी सुतः वटुकनाथमहं नमामि ।।
हंतार्षा क्षोभदुःखं समितभवभयं सर्व्वविघ्नान्तकाय
गां गीं गूं गें खडंगे गगणगतिगते सिद्धिसर्व्वार्थभावे ।।
ओं ह्रूं ग्लूं मुद्रागजाक्षे गसपवनगते आषुजानेकसंस्थे
प्. १९अ) ओं ह्रीं हूं हां गां गणेशे द्विरविखगणे विघ्निनाथं नमस्ते ।।
इछाज्ञानीक्रीयासासुरवरनमिता सा श्रियामऽऽन्गलाख्या
सा गौरी सा च दुर्ग्गा भगवति शुभदा मातृकाश्चर्म्ममुण्डा ।।
सा ब्रह्मा सा च विष्णुर्ग्रहगणसकला भैरवी क्षेत्रपाला
सानेकानेकरूपा विविधगुरुदया योगिनी त्वां नमामि ।।
ऊकारो नित्यपादो हसक्षमर भुजो बोधरश्चाग्नि लिऽऽन्ग
वायु व्याघ्राजिनाऽऽन्ग शशिसकलशिरो बिन्दुनादोर्द्धयुक्तो ।
निर्ज्जिऽऽन्गगाम्बुधारा ऋयुपरमकलाभैरवो मन्त्रमूर्त्ति
पाया देवो नवात्मा सकलगुरुवरं भैरवं श्रीकुजेशः ।।
ब्रह्मानि कमरेन्दु सौम्यवदणी माहेश्वरी लीलया
कौमारी लिपुर्द्दपनासनकरि चक्रायुधा वैष्णवी ।
प्. १९ब्) वालाहि घनघोलघर्घरमुखि ऐन्द्रीश्च वज्रायुधा
चामुण्डा गणनाथभैरवगणा रक्षन्तु मे मात्रिका ।।
श्यामारक्ता त्रिनेत्रा स्तनभरनमिता मत्तमातऽऽन्गगामी
बिम्बोष्ठी चारुनेत्रा पृथुतरजघनामेखरा रत्नशोभे ।
देवाऽऽन्गे वस्त्रशोभे वरवरकुसुमे वर्व्वरे केशभार
सामे श्रीकुब्जिकाख्या वितरतुतरसा ज्ञानदिव्यौघमोघं ।।
उत्फुल्लाम्बुज कर्णिकोपरिगता श्रीसिद्धिलक्ष्मीपरा
कर्प्पूरस्फटिकेन्दु कुन्दधवरानिशेक पापोपहा ।।
संसारार्णव दुःखपऽऽन्कदहनी निष्कम्पनं सर्व्वदा
श्रीमत्पञ्चमुखाम्बुजा दशभुजा प्रेत स्थिता पातु वः ।।
निर्व्वाणं निर्व्विकल्पं निरुपमषिलं निर्व्विकार क्षकारं
हूंकालं वज्रदंष्टं हुतवहनयनं रौद्र उन्मत्तभावं ।।
फेत्कारं वह्निनादं भृगुतितमखिलं भैरवं शूलपाणि
प्. २०अ) खड्गाऽऽन्गं व्योमणियं दमरुकसहितं भैलवं क्षेत्रपालं ।।
पूर्व्वं दक्षिणपश्चिमोत्तर शिवा पूर्वादिवामाश्रीका
क्षेत्रेशो वटुभूतदुर्ग्गहरणं हेलम्बनाथाय च ।
श्मशानेश्वरमादिदेव द्विभुजः शोकादिदोषप्रहा
नित्यानन्दमयी प्रमोदित सदावल्यादि पूजाविधिः ।।
यथावान ।। अत्र गन्धादि ।। समयच्छाय ।। तर्प्पण ।। एकानेक ।।
एकामूर्त्तिरणेकधात्रीऽऽन्जगति पूर्णेश्वरी वासवे
भूतेशी गगणोपमा भगवति निशेश्वरी दक्षिणे ।।
ज्ञानागम्य कुजेश्वरी कुलगणा वारुण्यदिऽऽन्नायिका ।।
श्रीवामां प्रनमामि विश्वजननी दर्शेश्वरी सिद्धिदा ।।
मण्डलह्मोय ।। नोसिय ।। थ्वते वलिपूजाविधि ।। पूजोकोणरसजोरनसकताऽऽन-
प्. २०ब्) कुचिनकावयने ।।
सालाऽऽनस गणपतिपूजा ।। ओं नमः गुरुभ्यो नमः ।।
त्रितत्वेनाचम्य ।।
ह्रां आत्मतत्वाय स्वाहा ।। ह्रीं विद्यातत्वाय स्वाहा ।। ह्रूं शिवतत्वाय स्वाहा
।।
गुरु नमस्कार ।।
ऐं ५ अखण्डमण्डलाकारं व्याप्तं येन चराचरं ।
तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः ।।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुदेवो महेश्वरः ।
गुरुदेव जगत् सर्व्वं तस्मै श्रीगुरुवे नमः ।।
पद्मासनाय पादुकां ।। गः अस्त्राय फट् ।। ऐं ५ हूं फट् वज्रपंजरे स्वाहा
।। चलमकुले कु ह्रीं ह्रुं फट् स्वाहा ।।
न्यासः ।।
ग्लूं अस्त्राय फट् ।। करशोधनं ४ ।। ग्लूं कनिष्ठाभ्यां नमः ।। ग्लूं
अनामिकाभ्यां स्वाहा ।। ग्लूं मध्यमाभ्यां वोषट् ।। ग्लूं तर्ज्जनीभ्यां
हूं ।। ग्लूं अऽऽन्गुष्ठाभ्यां वषट् ।। ग्लूं अस्त्राय फट् ।।
प्. २१अ) ग्लूं हृदयाय नमः ।। ग्लूं शिरसे स्वाहा ।। ग्लूं शिखायै वोषट् ।। ग्लूं
कवचाय हूं ।। ग्लूं नेत्रत्रयाय वषट् ।। ग्लूं अस्त्राय फट् ।। इति कराऽऽन्ग
न्यासः ।।
जलपात्रपूजा ।।
जलपात्रासनाय पादुकां ।। हकारकुटपूजा ।। षडंगेन ।। आवाहनादि ।।
धेनुमुद्रा ।। गायत्री ।।
अर्घपात्रपूजा ।।
अर्घपात्रासनाय पादुकां ।। अघोराष्ट्र ।। सकारकूत ।। षडऽऽन्गेन ।।
आवाहनादि ।। योनिमुद्रा ।। भूतशुद्धि ।।
ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौं ह्सौं ह्स्फ्रीं श्रीं ह्रीं ऐं ।।
आत्मपूजा ।। ऐं चन्दनेत्यादि ।।
ताहारयवसपूजा ।।
ओं गंगायै नमः ।। ओं यमुनायै नमः ।। ओं सरस्वत्यै नमः ।। ओं कावेर्ययै
नमः ।। ओं नर्म्मदायै नमः ।। ओं गण्डक्यै नमः ।। ओं कौशिक्यै नमः ।। ओं
सप्तसमुद्रेभ्यो नमः ।। ऐं ५ ह्स्क्ष्म्ल्व्र्यूं
प्. २१ब्) कुलवृक्ष महासेन संमोहन सकलतीर्थ मन्त्रदेवता
कलातत्वतत्वाधिपतये ब्रह्मविष्णुरुद्रात्मके आत्मविद्या शिवतत्वाय
ह्स्क्ष्म्ल्व्र्यूं श्क्ष्म्ल्व्र्यीं संपूर्णकलशमूर्त्तय पादुकां ।।
आवाहनादि ।। धेनुमुद्रां ।। देवस्नानपंचामृत ।।
ओं अद्यादि ।। वाक्य ।।
ऊकारं वायुबीजं तदुपरि वरुणं वज्रपाणिं तदूर्द्धकालं
वर्णान्तयुक्तं तदुपरि परमं वह्निबीजं सहस्रं इन्दुं बिन्दुं लयान्तं
सितकमलदरं क्षीरधाराश्रवन्तं दृष्ट्वाकुटन्तु नित्यं दहति कुलमयं
मेरुतुल्यं हि पापं ।।
दुदु ।।
पयसापयभूम्बैव पृथिव्यां पुतमेव च ।
कामधेनु श्रवन्नित्यं स्नापयामि सिवाज्ञया ।।
धरि ।।
दधि उमापति देवं देवानां प्रिय वल्लभं ।
स्नापयश्च सदानित्यं सूप्रीता देवता सदा ।।
प्. २२अ) घेल ।।
घृतपूत विनाकिनं लिऽऽन्गपूतं पिनाकिनि ।
अग्निसर्पस्वरूपेन तां त्रिलोकं जनं शिवं ।।
कस्ति ।।
गोमुखी शक्तिनोभूतं देवानां प्रिय वल्लभं ।
वांच्छाकल्पतरुस्नानं येन स्नानेन लभ्यते ।।
साखल ।।
खण्डमेतत्महास्वादु मनसा शीतलं सदा ।
खण्डेन्दु स्नापितं देव अखण्डित बलप्रदः ।।
पंचामृत ।।
तथा पंचादि पयसं पंचब्रह्म निवासिनं ।
पंचद्रव्यसमायुक्तं पञ्चाऽऽन्गैः स्नापयाम्यहं ।।
अलिस्नान ।।
श्क्ष्म्ल्व्र्यीं पादुकां ।।
चेत ।।
श्रीखण्डचन्दनं दिव्यं गन्धाद्यस्य मनोहरं ।
आभूषितं ललाटाख्य चन्दनं प्रतिगृह्यतां ।।
चन्दनैर्ल्लेपितं पुण्यं पवित्रं पापनाशनं ।
आपदा हरते नित्यं लक्ष्मीराज्य सुखप्रदं ।।
प्. २२ब्) सिधरे ।।
वीरेश्वरी महावीर वीरभस्मविभूषितं ।
त्रैलोक्यां कर्षणी देवी सिन्दूरारुणमुत्तमं ।।
अक्षत ।।
अक्षतं अक्षयो कामं धर्म्मकामार्थसिद्धिदं ।
इप्सितं मे वरं देवी परत्रे च पराऽऽन्गतिं ।।
दृष्टि ।।
ध्यान दृष्टि विशालेषु ललितं वीरचक्षुषु ।
सोमसूर्ययाग्निभुवनं वैसमं नेत्र निर्म्मलं ।।
जजमका ।।
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्रं प्रतिमुञ्चशुभ्रं यज्ञोपवीतं परमस्तु तेजः ।।
अदुवार ।।
नानावस्त्रविचित्राऽऽन्गं क्षौमकार्पास निर्म्मितं ।
देवाऽऽन्गं भूषणं श्रेष्ठं गृहाण परमेश्वरं ।।
चढुमाढे ।।
छत्रं चिन्तामणिं दिव्यं पूर्णचन्द्रनिभंसितं ।
तेन दत्तेन देवेश देहि मे चिन्तितं फलं ।।
प्. २३अ) स्नान ।।
नानापुष्पसुगन्धानि मालती कुसुमोदयं ।
सौभाग्यसिद्धिदं भद्रे पुष्पारोहनमुत्तमं ।।
पंचपताका ।।
पताका पंचवर्णाभा कर्णयोः परिलंबिनी ।
पंचभूतात्मिका पंच दत्तेयं क्षौमनिर्म्मिता ।।
कर्णपताका ।।
शुद्धसिन्दूरवर्णाभा पताकां कर्णसंज्ञकां ।
गृहाणपरमेशान चतुःकोणां सुशोभना ।।
थ्वतेछायलपे ।।
पितचूर्न न चोयमालको ।। जापूजावोयमालको ।।
अथ देवार्च्चनं ।। त्रितत्वेनाचम्य ।।
ह्रां आत्मतत्वाय स्वाहा ।। ह्रीं विद्यातत्वाय स्वाहा ।। ह्रुं शिवतत्वाय स्वाहा ।।
सूर्ययार्घ ।। अद्यादि ।। वाक्य ।।
वर्णान्तं बीजमुद्धृत्य तस्योपरि शिवं न्यसेत् ।
आदिमध्यावसाने तु अग्नित्रयविभूषितं ।।
वर्म्मणा दीपितं कृत्वा सावित्र्या चैव मुद्धरेत् ।
प्. २३ब्) एष कूटवरः श्रेष्ठो महामार्त्तण्डभैरवः ।।
अर्घं नमः ।। पुष्पं नमः ।। र्ह्क्ष्रीं श्रीमहामार्त्तण्डभैरवाय नमः
।।
गुरुनमस्कार ।।
ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौंः ।।
अखण्डमण्डलाकारमित्यादि ।। गुरुब्रह्मात्यादि ।। परमगुरुभ्यो नमः ।।
परमेष्ठीगुरुभ्यो नमः ।। परमाचार्य गुरुभ्यो नमः ।।
वलिस ।।
पद्मासनाय पादुकां ।। थवके कूर्म्मासनाय पादुकां ।। जवखवस ऐं ५
ग्लूं अस्त्राय फट् ।। ऐं ५ ऐं हूं फट् वज्रपंजरे स्वाहा ।। ऐं चलमकुले
कुलमचले ह्रीं ह्रूं फट् स्वाहा ।। दशद्वारस्पर्शनं ।।
प्. २४अ) ओं ग्लां अंगुष्ठाभ्यां नमः ।। ओं ग्लीं तर्ज्जनीभ्यां नमः ।। ओं ग्लूं
मध्यमाभ्यां नमः ।। ओं ग्लें अनामिकाभ्यां नमः ।। ओं ग्लौं
कनिष्ठाभ्यां नमः ।। ओं ग्लः करतरपृष्ठाभ्यां नमः ।।
ग्लां हृदयाय नमः ।। ग्लीं शिरसे स्वाहा ।। ग्लूं शिखायै वौषट् ।। ग्लैं
कवचाय हूं ।। ग्लौं नेत्रत्रयाय वौषट् ।। ग्लः अस्त्राय फट् ।। इति कराऽऽन्ग
न्यासः ।।
जलपात्रपूजा ।।
जलपात्रासनाय पादुकां ।। ऐं ५ ह्स्क्ष्म्ल्व्र्यूं आनन्दशक्तिभैरवानन्द
वीराधिपते श्क्ष्म्ल्व्र्यीं श्रीजलपात्रभट्टारिकायै पादुकां ।। षडऽऽन्ग ।।
आवाहनादि ।। धेनुमुद्रां ।। गायत्रि ।।
ऐं ५ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहे तन्नो गणपति प्रचोदयात् ।।
अर्घपात्रपूजा ।। अर्घपात्रासनाय पादुकां ।।
प्. २४ब्) ऐं ५ ह्रां ह्रीं ह्रूं ह्रः प्रस्फुर २ घोर २ तरतनु २ रूपचट २ प्रचट २
कह २ वम २ दम २ घाटय २ विघातय २ विघ्नि ३ ह्रूं ३ फट् क्रौं
श्रीमहाकौमारिका विच्चे पादुकां ।। ऐं ५ श्क्ष्म्ल्व्र्यीं
आनन्दशक्तिभैरवानन्द श्रीमहाविद्याराजेश्वरी ह्स्क्ष्म्ल्व्र्यूं
अर्घपात्रभट्टारिकायै पादुकां ।। षडंग ।। आवाहनादि ।। पंचमुद्रां
दर्शयेत् ।।
भूतशुद्धि ।। कच्छप मुद्रां बध्वा ।।
ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौं ह्सौं ह्स्फ्रें श्रीं ह्रीं ऐं ।।
आत्मपूजा ।।
ऐं ५ ह्स्क्ष्म्ल्व्र्यूं श्क्ष्म्ल्व्र्यीं आत्मने ऐं चन्दनं पादुकां ।।
ह्रीं अक्षतं पादुकां ।। श्रीवीरभस्म पादुकां ।। ह्स्फ्रें सर्व्वजनमोहनी
पादुकां ।। ह्सौं नानाच्छत्रपुष्पं पादुकां ।। ऐं कुसौ पादुकां ।। ३ ।।
आवाहन ।।
श्रीसम्वर्त्तामण्डलान्ते
प्. २५अ) क्रमपदनिहितानन्दशक्तिः सुभिमा सृष्टिं न्याये चतुष्कं त्व
कुलकुलगतं पंचकं चान्यषट्कं । चत्वार पंचकोन्यः पुनरपि
चतुलस्तत्वतो मण्डलेदं संसृष्टं येन तस्मै नमत गुरुवरं भैरवं
श्रीकुजेशं ।।
त्रिदेव ।।
नरासनाय पादुकां ।। मयूरासनाय पादुकां ।। मूषासनाय पादुकां
।। ऐं ५ थ्रौं प्रस्तरद्वीपदम्भकी देवी महाध्वांक्ष क्षेत्रपालाय
पादुकां ।। श्रीं ह्रीं कुलपुत्रवटुकनाथाय पादुकां ।। गां गीं गूं गः ग्लौं
श्रीकुलगणेश्वराय पादुकां ।। यां योगिनिभ्यो पादुकां ।। थ्वतेनं वलिः ।।
आवाहनादि ।। तर्ज्जनी दण्डगजमुद्रां ।। इति त्रिदेवपूजा ।।
विसेकक्षेत्रपालपूजा ।। खालसंवलितय ।।
ऐं ५ श्ह्म्रैं अमृतद्वीपसवरी देवी रतिप्रिया क्षेत्रपालाय पादुकां ।। ३ ।। वलिः
।। आवाहनादि ।।
प्. २५ब्) तर्ज्जनी मुद्रां ।। इति क्षेत्रपालपूजा ।।
आसन ।।
आधारशक्तये पादुकां ।। अनन्तासनाय नमः ।। कंदासनाय नमः ।।
नरासनाय नमः ।। पत्रासनाय नमः ।। केशरासनाय नमः ।।
कर्णिकासनाय नमः ।। पद्मासनाय नमः ।। मूषासनाय नमः ।।
ध्यानं ।।
तप्तकाञ्चमयं देहं मुखं पूर्व्वसुशोभनं ।
इन्द्रनीलप्रतीकाशं दक्षिणे च वरानने ।।
हिमकान्ति कुन्दकर्प्पूर शशिवदनपश्चिमे ।
उत्तरस्यारुणा कीर्णं पद्मरागसमप्रभं ।। २ ।।
इति ध्यानं ।।
पूजनं ।।
ओं ह्रीं श्रीं अविघ्नश्वराय पादुकां ।। ऐं ह्रीं श्रीं आं गणेशाय पादुकां ।।
ऐं ह्रीं श्रीं ईं गजास्याये पादुकां ।। ऐं ह्रीं श्रीं ईं गजवाहनाय पादुकां ।।
ऐं ह्रीं श्रीं उग्रजाख्याये पादुकं ।।
प्. २६अ) ऐं ह्रीं श्रीं ऊं गजशीर्ष्याय पादुकां ।। ऐं ह्रीं श्रीं ऋगांगेयाये
पादुकां ।। ऐं ह्रीं श्रीं ॠं गणनाय पादुकां ।। ऐं ह्रीं श्रीं ऌं त्रिधातवे
पादुकां ।। ऐं ह्रीं श्रीं ॡं गगनाय पादुकां ।। ऐं ह्रीं श्रीं ऐं
गणघोघकाय पादुकां ।। ऐं ह्रीं श्रीं ऐं गोप्तिय पादुकां ।। ऐं ह्रीं श्रीं
ग्लौं गणपतये पादुकांः ।।
थ्वतेनं वलिः ।।
ऐं ५ गां गीं गूं गः ग्म्ल्व्र्यूं श्रीकुलगणेश्वराय पादुकां ।। षडंग ।।
वलिं ।।
गायत्री ।।
ओं तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहे तन्नो गण प्रचोदयात् ।।
वलिः ।। षडंग ।। आवाहनादि ।। गजमुद्रां ।।
त्रियाञ्जलि ।। निर्व्वाणछाय ।। वलि ।। त्वाक महावलिः ।।
ऐं ५ क्षां क्षीं क्षूं क्षः क्षेत्रपालाय वलिं गृह्न २ स्वाहा ।। श्रीं ह्रीं
कुलपुत्रवटुकनाथाय वलिं गृह्न २ स्वाहा ।। गां गीं
प्. २६ब्) गूं गः ग्लौ कुलगणेश्वराय वलिं गृह्न स्वाहा ।। हूं
महाकरवीरश्मशानाधिपतये वलिं गृह्न २ स्वाहा ।। ह्स्ख्फ्रीं
सिद्धिचामुण्डेश्वरी वलिं गृह्न २ स्वहा ।। आकाशचारिणी सवर्ग्गेभ्यो वलिं
गृह्न २ स्वाहा ।। सर्व्वेभ्यो भूतेभ्यो पिशाचेभ्यः सर्व्वेभ्यो इष्टदेवताभ्यो
वलिं गृह्न २ स्वाहा ।। आवाहनादि ।।
गजमुद्रा ।। धूप ।।
दिव्यगन्धसमायुक्तं सर्व्वदेवो प्रियावहं ।
आघ्रानं सर्व्वदेवानां धूपोयं प्रतिगृह्यतां ।।
धूपाहारेषु भगवान् विश्वरूपी महेश्वरि ।
धूपेनानेन देवेसि सुप्रीतां परमेश्वरी ।।
दीप ।।
सुप्रकाशो महातेज सर्व्वतस्तिमिरापहं ।
शबाह्याभ्यन्तरं ज्योति दीपोयं प्रतिगृह्यतां ।।
ज्योतिर्दश्यामि ।।
अन्नं महारसं दिव्यं रसे षड्भिस्समन्वितं ।
प्. २७अ) मयानिवेदितं भक्त्या गृहाण परमेश्वरी ।।
मोहनीफय ।।
नैवेद्यं गृह्यतां देवी भक्ति मे अचरां कुरु ।
अपमृत्युहरं देवी परत्रे च परां गतिं ।।
फलपुष्पताम्बूल धूपदिप इदं नैवेद्यं नमः ।।
जप ।।
थ्रौ स्वाहा ।। १० ।। श्रीं ह्रीं स्वाहा ।। १० ।। ग्नौं स्वाहा १० ।। ग्म्ल्व्र्यूं स्वाहा ५४ ।।
निर्व्वाणया ५४ ।।
केवोऽऽना ५ तय ।। स्तोत्र ।।
अखण्डमण्डलाकारं व्याप्तं येन चराचरं ।
तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः ।।
पिंगाक्षी रक्तकेशां किणि किणि धवरं किऽऽन्किणी मालजालं
द्रष्ट्यस्यं क्रुरभावं सकलभयहरं पात्रहस्तं च नादं ।
सुव्यक्तं सिंहनादं ल ल ल ल ल वलं वर्व्वलं व्योमतत्वं
भूतप्रेतादिनाथं ग्रहगणनमितं क्षेत्रपालं नमामि ।।
रक्ताम्बरं ज्वलतपिऽऽन्ग जताकलापं
ज्वालावलीरतिरदण्ड पवने? प्रचण्डं ।
प्. २७ब्) सूर्ययोदयात् कनककान्तण संगगौरं
गौरीसुतः वटुकनाथमहन्नमामि ।।
हन्तार्षा क्षोददुःखं समितभवभयं सर्व्वविघ्नान्तकाय
गां गीं गूं गै खडंगे गगणपतिगते सिद्धिसर्व्वार्थभावे ।
ओं ह्रुं मुद्रागजाक्षे गसपवणगते आखुयानेक संस्थ
ओं ह्रीं हां गां गणेशे द्विरर्दमुखगणे विघ्निनाथे नमस्ते ।।
इच्छाज्ञानी क्रियासासुर वरनमिता सा शृयामंगलाख्या
सा गौरी सा च दुर्ग्गा भगवति शुभदा मातृकाश्चर्म्ममुण्डा ।।
सा ब्रह्मा सा च विष्णुर्ग्रहगणसकलाभैरवी क्षेत्रपाला
सानेकानेकरूपा विविधगुण दयायोगिनी त्वां नमामि ।।
गौरं त्र्यक्ष विभाति पंचवदनं सिंहस्थमाकर्षणं
पाशं मुंगलतऽऽन्कमक्षमभयं नागेश्वरं तम्वरं ।
प्. २८अ) पात्रं मोदकपूरितं ह्वभयदं सव्यापि सव्योकरं
विभ्रछूलमनोहलं सुजथरं हेलम्बनाथं नमः ।।
यथावानप्रहाराणां कवचम्भवति वारणं ।
तद्वदेव विधात्रानां शान्तिर्भवतु वारणं ।।
स्वस्थान क्षेत्रपालाय ब्रह्माण्यादि असिताऽऽन्गमहाभैरव सहिताय
गणवटुकयोगिनी क्षेत्रपालाय सांगाय सगणस्परिवाराय दिग्विगि इन्द्रादि
लोकपालाय सुप्रीता वरदा भवन्तु यजमानस्य सगस्परिवाराणां
आयुरारोग्यमैश्वर्यय जनधनलक्ष्मी सन्तति सन्तानवृद्धिरस्तु यथा
शास्त्रोक्तफलवरदायिनो भवन्तु ।।
अन्यत्र शरणं नास्ति त्वमेव शरणं ममास्तस्मात्कारुण्य भावेन रक्ष
रक्ष परमेश्वरी ।।
दक्षिणाच्छाय ।। नमस्कारयाय ।।
प्. २८ब्) परिवारपूजा ।। समयच्छाय ।। तर्प्पण ।।
मोहनीकोकाय ।। स्वानकोकाय ।।
एकानेक भवन्ति जगत्त्रिपूर्णेश्वरी वासवे
भूतेसि गगणोपमा भगवती निःशेश्वरी दक्षिणे ।
ज्ञानागम्य कुजेश्वरी कुलगणावारुण्यदिऽऽन्नायका
श्रीवामां प्रणमामि विश्वजननी दर्शेश्वरी सिद्धिदं ।।
यजमान स्वानमुऽऽनातय सकलेऽऽनय ।।
अम्बे पूर्व्वगतं पदं भगवती चैतन्यरूपात्मको
ज्ञानेच्छा बहुधा तथा हरिहर ब्रह्मामरीचि त्रयं ।
भास्वद्भैरवपंकजरुचे श्रीयोगिनीपंचकं
चन्द्रार्क्का च मरीचि षट्कविमलं मां पातु नित्यं कुजः ।।
वलि विसर्ज्जनं ।।
सालाऽऽनसफया मोहनी सुह्लेसदेवनेकुमियाकेते ।।
श्री ३ मध्यपीठपूजाविधि ।।
त्रितत्वेनाचम्य ।। ह्रां आत्मतत्वाय स्वाहा ।।
प्. २९अ) ह्रीं विद्यातत्वाय स्वाहा ।। ह्रुं शिवतत्वाय स्वाहा ।। गुरुनमस्कार ।।
अखण्डमण्डलाकारेत्यादि ।।
न्यासः ।।
अं अस्त्राय फट् ।। ४ ।। करशोधनं ।। ऐं ५ अंगुष्ठाभ्यां नमः ।। ऐं ५ ह्रीं
तर्ज्जनीभ्यां नमः ।। ऐं ५ श्रीं मध्यमाभ्यां नमः ।। ऐं ५ ह्स्फ्रें
अनामिकाभ्यां नमः ।। ऐं ५ ह्सौं कनिष्ठाभ्यां नमः ।। ऐं ५ अः अस्त्राय
करतलपृष्ठाभ्यां नमः ।।
ऐं ५ हृदयाय नमः ।। ऐं ५ ह्रीं शिरसे स्वाहा ।। ऐं ५ श्रीं शिखायै वषट् ।। ऐं ५
ह्स्फ्रें कवचाय हूं ।। ऐं ५ ह्सौं नेत्रत्रयाय वौषट् ।। अः अस्त्राय फट् ।।
जलपात्रपूजा ।। हकारकुतनपूजा ।। सकारकुटनपूजा ।। षडऽऽन्ग ।।
आवाहनादि ।। योनिमुद्रां ।।
भूतशुद्धि ।। आत्मपूजा ।। ऐं ५ चन्दनं पादुकां ।।
आवाहन ।। श्रीसम्वर्त्तामण्डलान्ते
प्. २९ब्) क्रमपदनिहितानन्दशक्तिः सुभिमा सृष्टिं न्याये
चतुष्कं अकुलकुलगतं पंचकं चान्यषट्कं ।।
चत्वारो पंचकोन्यं पुनरपि चतुरं तर्त्ततो मण्डलेदं
संसृष्टं येन तस्मै नमत गुरुवरं भैरवं श्रीकुजेशं ।।
ताहारयवपूजा ।।
ओं गंगायै नमः ।। ओं यमुनायै नमः ।। ओं नर्म्मदायै नमः ।। ओं कावेर्ययै
नमः ।। ओं कौशिक्यै नमः ।। ओं गण्डक्यै नमः ।। ओं सरयवै नमः ।। ओं
सप्तसमुद्रेभ्यो नमः ।। ओं संपूर्णकलयै नमः ।। ऐं ५ ह्स्क्ष्म्ल्व्र्यूं
कुलवृक्ष महासेन संमोन सकलतीर्थ मन्त्रदेवता कलातत्वतत्वाधिपतये
ब्रह्मविष्णुरुद्रात्मविद्या शिवतत्वाय ह्स्क्ष्म्ल्व्र्यूं श्क्ष्म्ल्व्र्यीं
संपूर्णकलशमूर्त्तये नमः ।। आवाहनादि ।।
प्. ३०अ) धेनुमुद्रां ।। देवपंचामृतस्नान ।। ओं अद्यादि वाक्ये ।। लंखनहाय
।।
ऊकारं वायुबीजं तदुपरि वरुणं वज्रपाणिं तदुर्द्धं
कालं वर्णान्तयुक्तं तदुपरि परमं वह्निबीजं सहंसं ।
इन्दुबिन्दुं लयान्तं शितकमलधरं क्षीरधाराश्रवन्तं
दृष्ट्वाकूटन्तु नित्यं दहति कुलमरं मेरुतुल्य हि पापं ।।
दुदु ।।
पयसामृते पूतेन पृथिव्यां परिपूरितं ।
कामधेनु श्रवन्नित्यं स्नापयामि शिवाज्ञया ।।
धरि ।।
दधि उमापतिं देवं देवाना प्रियवल्लभं ।
स्नापयश्च सदानित्यं सूप्रीता देवता सदा ।।
घेर ।।
घृतपूतविनाकेन लिऽऽन्गपूत पिनाकिणि ।
अग्निसर्प्पस्वरूपेण तांत्रिकं जनं शिवं ।।
कस्ति ।।
गोमुखी शक्तिनोद्भूतं देवानां प्रियवल्लभं ।
प्. ३०ब्) वांच्छाकल्पतरुस्नानं येन स्नानेन लभ्यते ।।
साखल ।।
खण्डमेतन्महास्वादु मनसाः शीतलं सदा ।
खण्डेन्दु स्नापितं देव अखण्डित बलप्रदः ।।
पंचामृत ।।
तथा पंचादि पयसः पंचब्रह्मनिवासिनं ।
पंचद्रव्यसमायुक्तं पंचाऽऽन्गैः स्नापयाम्यहं ।।
अलिस्नान ।।
श्क्ष्म्ल्व्र्यीं पादुकां ।।
चेत ।।
श्रीखण्डचन्दनं दिव्यं गन्धाढ्यस्सुमनोहरं ।
आभूषितं ललाताख्ये चन्दनं प्रतिगृह्यतां ।।
चन्दनैर्ल्लेपितं पुण्यं पवित्रं पापनाशनं ।
आपदा हरते नित्यं लक्ष्मीराज्य सुखप्रदं ।।
सिधर ।।
वीरेश्वरी महावीर वीरभस्मविभूषितं ।
त्रैलोक्यं कर्षणी देवी सिन्दूरारुणमुत्तमं ।।
अक्षत ।।
अक्षतं अक्षयो कामं धर्म्मकामार्थसिद्धिदं ।
इस्मितं मे वरं देवी परत्रे च पराऽऽन्गतिं ।।
दृष्टि ।।
प्. ३१अ) ध्यानदृष्टिविशालेषु ललितं वीरचक्षुषु ।
सोमसूर्ययाग्निभुवनं वैसमं नेत्र निर्म्मलं ।।
जजमका ।।
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्नं प्रतिमंच शुभ्रं यज्ञोपवित्रं परमस्तु तेजः ।।
अदुवार ।।
नानावस्त्रविचित्राऽऽन्गं क्षौमकार्प्पास निर्म्मितं ।
देवाऽऽन्गभूषणं श्रेष्ठं गृहाण परमेश्वरी ।।
चफुमाढे ।।
छत्रं चिन्तामणिं दिव्यं पूर्णचन्द्रनिभंसितं ।
तेन दत्तेन देवेश देहि मे चिन्तितं फलं ।।
स्नान ।।
नानापुष्पसुगन्धानि मालतीकुसुमोदयं ।
सौभाग्यसिद्धिदं भद्रे पुष्पारोहनमुत्तमं ।।
पंचपताका ।।
पताकापंचवर्णाभा कर्णयोः परिलम्बिनी ।
पंचभूतात्मिका पंच दत्तेयं क्षौमनिर्म्मिता ।।
कर्णपताका ।।
शुद्धसिदूरवर्णाभा पताकां कर्णसंज्ञकां ।
प्. ३१ब्) गृहाण परमेशान चतुःकोणांसुशोभना ।।
थ्वतेछायलये ।। पतवासनचोय ।। जापूजावोयमालको ।।
अथ देवार्च्चनं ।।
त्रितत्वेनाचम्य ।।
ह्रां आत्मतत्वाय स्वाहा ।। ह्रीं विद्यातत्वाय स्वाहा ।। ह्रूं शिवतत्वाय स्वाहा
।। सूर्ययार्घ ।। अद्यादि ।। वाक्य ।। पुष्पं नमः ।।
वर्णान्तं बीजमुद्धृत्य तस्योपरि शिवं न्यसेत् ।
आदिमध्यावसानेषु अग्नित्रयविभूषितं ।।
वर्म्माणा दीपितं कृत्वा सावित्र्या चैव मुद्धरेत् ।
एष कूटवरः श्रेष्ठो महामार्त्तण्डभैरवः ।।
अर्घं नमः ।। पुष्पं नमः ।। र्ह्र्क्ष्रीं श्रीमार्त्तण्डभैरय नमः ।।
गुरुनमस्कार ।।
ऐं ५ अखण्डमण्डलाकारं व्याप्तं येन चराचरं ।
तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः ।।
गुरुर्ब्रह्मा गुरुर्विष्णु गुरुदेव महेश्वरः ।
प्. ३२अ) गुरुदेव जगत्सर्व्वं तस्मै श्रीगुरुवे नमः ।।
परमगुरुभ्यो नमः ।। परमेष्ठीगुरुभ्यो नमः ।। परमाचार्यगुरु श्री
आदिदेव पादुकां ।। वलिस ।। पद्मासनाय नमः ।। थवके ।। कूर्म्मासनाय
नमः ।। जवयव ।। किणि २ विच्चे कोऽऽन्कणायै ह्रः अस्त्राय फट् ।। ऐं हूं फट्
वज्रपंजरे स्वाहा ।। चलमकुले कुलमचरे ह्रीं ह्रूं फट् स्वाहा ।।
ततो न्यासः ।। वतीशी न्यासः ।।
ऐं ५ किणि २ विच्चे कोऽऽन्कणायै ह्रः अस्त्राय फट् ।।
करं शोधनं ।। ४ ।।
ऐं ५ नमो भगवति हृत्कमलायै ह्रां अंगुष्ठाभ्यां नमः ।। ऐं ५ ह्स्फ्रें
कुब्जिकायै कुलदीपायै ह्रीं तर्ज्जनीभ्यां नमः ।। ऐं ५ ह्रां ह्रां ह्रुं
वर्व्वरशिखायै ह्रूं मध्यमाभ्यां नमः ।। ऐं ५ घोरे अघोरे अघोरामुखि
वहुरूपायै ह्रं अनामिकाभ्यान्नमः ।। ऐं ५ च्छां च्छीं महन्तारिकायै ह्रौं
कनिष्ठाभ्यां नमः ।।
प्. ३२ब्) ऐं ५ किणि २ विच्चे कोऽऽन्कणायै ह्रः कलतरपृष्ठाभ्यां नमः ।। इति
करन्यासः ।।
ऐं ५ नमो भगवति हृत्कमलायै श्री ऊर्द्ध्ववक्त्राय नमः ।। ऐं ५ ह्स्फ्रें
कुब्जिकायै कुलदीपायै श्रीपूर्व्ववक्त्राय नमः ।। ऐं ५ ह्रां ह्रीं ह्रूं
वर्व्वरशिखायै श्रीदक्षिणवक्त्राय नमः ।। ऐं ५ घोरे अघोरे अघोरामुखी
वहुरूपायै श्री उत्तरवक्त्राय नमः ।। ऐं ५ च्छां च्छीं महन्तारिकायै
श्रीपश्चिमवक्त्राय नमः ।। ऐं ५ किणि २ विच्चे कोऽऽन्कणायै श्रीपरापरवक्त्राय
नमः ।। इति वक्त्रन्यासः ।।
ऐं ५ नमो भगवति हृत्कमलायै ह्रां हृदयाय नमः ।। ऐं ५ ह्स्फ्रें कुब्जिकायै
कुलदीपायै ह्रीं शिरसे स्वाहा ।। ऐं ५ ह्रां ह्रीं ह्रुं वर्व्वरशिखे हूं शिखायै
वषट् ।। ऐं ५ घोरे अघोरे अघोरामुखी वहुरूपायै ह्रैं कवचाय हुं ।। ऐं ५
च्छां च्छीं महन्तारिकायै ह्रौं नेत्रत्रयाय वौषट् ।।
प्. ३३अ) ऐं ५ किणि २ विच्चे कोऽऽन्कणायै ह्रः अस्त्राय फट् ।। इति अऽऽन्गन्यासः ।।
जलपात्रपूजा ।।
जलपात्रासनाय नमः ।। ऐं ५ ह्स्क्ष्म्ल्व्र्यूं
आनन्दशक्तिभैरवानन्दवीराधिपतये श्क्ष्म्ल्व्र्यीं श्रीजलपात्रभट्टारिकायै
पादुकां ।। ह्रीं हृदयायेत्यादि ।। आवाहनादि ।। धेनुमुद्रां ।। गायत्रि ।।
ऐं ५ कुब्जिकायै विद्महे कुलदीपायै धीमहे तन्नः कुब्जि प्रचोदयात् ।। आत्मादि
सर्व्वद्रव्याणि प्रोक्षणं ।।
अर्घपात्रपूजा ।। अर्घपात्रासनाय पादुकां ।।
ऐं ५ ह्रां ह्रीं ह्रुंः प्रस्फुर २ घोर २ तरतरु २ रुपचत २ प्रचट २ कह २ वम २
दम २ घातय २ विघातय २ विघ्नि हूं २ फट् क्रों श्रीमहाकौमारिका विच्चे
पादुकां ।। ह्रीं हृदयायेत्यादि ।।
प्. ३३ब्) पंचमुद्रां प्रदर्शयेत् ।।
भूतशुद्धि ।। ऐं ह्रीं श्रीं ह्स्फ्रें ह्सौं ह्सौं ह्स्फ्रें श्रीं ह्रीं ऐं ।।
आत्मपूजा ।। ऐं ५ ह्स्क्ष्म्ल्व्र्यूं श्क्ष्म्ल्व्र्यीं आत्मने ऐं चन्दनं पादुकां ।।
ह्रीं अक्षत पादुकां ।। श्रीवीरभस्म पादुकां ।। ह्स्फ्रें सर्व्वजनमोहनी
पादुकां ।। ह्सौं नानाच्छत्र अलंकार पुष्पं पादुकां ।। अर्घपात्रोदकेन
शिरसि सिञ्चयेत् ।। ऐं कुसौं पादुकां ।। ३ ।।
आवाहन ।।
श्रीसम्वर्त्तामण्डलान्ते क्रमपदनिहितानन्दशक्तिः सुभीमा
सृष्टिं न्याये चतुष्कं अकुलकुलगतं पंचकं चान्य षट्कं ।
चत्वारो पंचकोन्यं पुनरपि चतुरं तत्ततो मण्डलेदं
संसृष्टं येन तस्मै नमतु गुरुवरं भैरवं श्रीकुजेशः ।।
इदं आवाहिष्ये आवाहयामि ।।
५ ड्लं अनन्तमण्डलश्री आदिदेव पादुकां ।। नरासनाय पादुकां ।।
मयूरासनाय पादुकां ।।
प्. ३४अ) मूषासनाय पादुकां ।। थ्रौं प्रस्तरद्वीपदम्भकी देवी
महाध्वांक्ष क्षेत्रपालाय पादुकां ।। श्रीं ह्रीं कुलपुत्रवटुकनाथाय
पादुकां ।। गां गीं गूं गः ग्लौं कुलगणेश्वराय पादुकां ।।
थ्वतेनं वलिः ।। आवाहनादि ।। तर्ज्जनि दण्डगजमुद्रां ।। इति त्रिदेवपूजा ।।
अथ परिवारपूजा ।।
अं ब्रह्माणी असिताऽऽन्गभैरवाय पादुकां ।। कं माहेश्वरी रु रु भैरवाय
पादुकां ।। चं कौमालि चण्डभैरवाय पादुकां ।। टं वैष्णवी
क्रोधभैरवाय पादुकां ।। तं वाराहि उन्मत्तभैरवाय पादुकां ।। पं
इन्द्रायणी कपालिशभैरवाय पादुकां ।। यं चामुण्डायै
भीषणभैरवाय पादुकां ।। शं महालक्ष्मी संहारभैरवाय
पादुकां ।। थ्वतेनं वलिः ।।
आसन ।। आधारशक्तये नमः ।। अनन्तासनाय नमः ।।
प्. ३४ब्) कन्दासनाय नमः ।। नारासनाय नमः ।। पत्रासनाय नमः ।।
केशरासनाय नमः ।। कर्णिकासनाय नमः ।। पद्मासनाय नमः ।।
प्रेतासनाय पादुकां ।।
ध्यानं ।।
ऐं ५ कामरूपी महातेजा युगान्तादित्य वर्च्चसा ।
लाक्षारसनिभा दिव्या पद्मराग समप्रभा ।।
सर्व्वरत्नविचित्राऽऽन्गी अंबिका भूतविग्रहा ।
चतुर्भुजा त्रिनेत्रञ्च त्रिशूलं जाप्यमालिकां ।।
काद्यबिन्दुधरी देवी नानारत्नविभूषिता ।
ध्यातव्यं च महादेवी कुलेश्वरि प्रपूजयेत् ।।
इति ध्यानं ।।
त्रियाञ्जलिः ।।
ऐं ५ श्री अनादि महापीठि मेरु महाक्षेत्रे कौलि गृहे ह्स्ख्फ्रें कुब्जिके
ह्स्क्ष्म्ल्व्र्यं श्रीकुलचक्रेश्वरनाथ अम्बा पादुकां ।। ऐं ५ श्री अनादि
महापिठि मेरुक्षेत्रे कौलिगृहे श्ख्फ्रीं कुब्जिके श्क्ष्म्ल्व्र्यीं श्रीकुलचक्रेश्वरी
अम्बा पादुकां ।। ३ ।।
प्. ३५अ) वलि ।। षडऽऽन्ग ।। गायत्री ।। ऐं ५ कुब्जिकायै विद्महेत्यादि ।।
ऐं ५ अघोरे ह्रां थघोरे ह्रीं घोरघोरन्तरे ह्रूं फ्रें सर्व्वतः सर्व्व सर्व्वे ह्रं
जुं सः ह्रां रूद्ररूपे ह्रः पादुकां ।।
ऐं ५ ऐं वज्रकुब्जिनीनी ह्स्फ्रें त्रैलोक्याकर्षणी ह्रीं कामांग द्रावणि क्लीं स्त्रीं
महाक्षोभकारिणि ऐं सौ सः पादुकां ।।
ऐं ५ नमो भगवति ह्स्फ्रें कुब्जिकायै ह्रां ह्रीं ह्रूं घोरे अघोरे अघोरामुखि
च्छां च्छीं किणि २ विच्चे पादुकां ।। वलि ।।
ऐं ५ नाश्वरमूलमन्त्रगणेश ।। ग्वाखनपूजा ।।
ऐं ५ ह्रां ह्रीं ह्रूं शिखास्वछन्द भैरवाय पादुकां ।। वलि ।।
इन्द्रादिपूजा ।।
इन्द्राय नमः ।। अग्नये नमः ।। यमाय नमः ।। नै-ऋत्याय नमः ।। वरुणाय
नमः ।। वायवे नमः ।। कुबेराय नमः ।। ईशानाय नमः ।। अनन्ताय नमः ।।
ओं ब्रह्मणे नमः ।।
प्. ३५ब्) थ्वतेनं वलिः ।।
वलिल्वहोपूजा ।।
नरासनाय नमः ।। हंसासनाय नमः ।। वृषासनाय नमः ।।
मयूरासनाय नमः ।। गरुडासनाय नमः ।। महिषासनाय नमः ।।
गजासनाय नमः ।। प्रेतासनाय नमः ।। नरासनाय नमः ।। अं ब्रह्माणी
असिताऽऽन्गभैरवाय पादुकां ।। कं माहेश्वरी रु रु भैरवाय पादुकां ।। चं
कौमारि चण्डभैरवाय पादुकां ।। टं वैष्णवी क्रोधभैरवाय
पादुकां ।। तं वाराही उन्मत्तभैरवाय पादुकां ।। पं इन्द्राणी
कपालीशभैरवाय पादुकां ।। यं चामुण्डा भीषणभैरवाय पादुकां
।। शं महालक्ष्मी संहारभैरवाय पादुकां ।।
थ्वतेनं वलिः ।।
प्रयागक्षेत्रपालाय पादुकां ।। वरुणक्षेत्रपालाय पादुकां ।। कोलाक्ष
क्षेत्रपालाय पादुकां ।।
प्. ३६अ) अट्टहास क्षेत्रपालाय पादुकां ।। जयन्ती क्षेत्रपालाय पादुकां ।।
चरित्र क्षेत्रपालाय पादुकां ।। एकाम्र क्षेत्रपालाय पादुकां ।।
देवीकोट क्षेत्रपालाय पादुकां ।। थ्वतेनं वलि ।।
अष्टपत्रे ।। मध्ये ।। पूजन ।। त्रियाञ्जलि ।।
ओं ह्रां ह्रूं ह्ट्सैं? कुसंनदीपजयभद्रक्षेत्रपालमृगा देवी क्ष्रों
महास्वस्थानक्षेत्रपालाय पादुकां ।। ३ ।। वलि ।। मध्येस ।। आवाहनादि
मुद्रा ।। इति वलिलोहापूजा ।।
त्रियाञ्जलि ।। आवाहनादि ।। योनिमुद्रां ।। वलि ।।
ऽऽनासुखुलाकायाववलिविय ।।
ऐं ५ ह्रां सर्व्वपीथोपपीठानि द्वारोपद्वारमेव च ।।
क्षेत्रोपक्षेत्र संदोहा सर्व्वदिग्भागसंस्थिता ।।
योगिनी योगवीरेन्द्राः सर्व्वं तत्र समागता ।
इदं पर्व्वमहाचक्रं श्रीनाथो वरदो मम ।।
प्. ३६ब्) ये भक्ताशासने देवी गुरुपादार्च्चने रता ।
सर्व्वसिद्धिप्रसादो मे देवी तेषां सदा भवेत् ।।
वीराणां योगिनिनाञ्च ये द्विषन्ति महीतले ।
ते दत्तातवलिं देवी समयाचल मेलके ।।
श्रुतिस्मृति मनः पुष्टि मांसमेदोस्थि जीवितं ।
निकृन्तयन्तु दुष्टानां योगिनीगणसंकुला ।।
कुहुंकानि कुस्वप्नानि दुर्न्निमितां द्विभाषितां ।
निकृन्तयन्तु दुष्टानां योगिनीगणसंकुला ।।
ओंकारादिषु ये भूतास्त्रयः साराः प्रकीर्त्तिताः ।
ओषधी धातु संदोहा दिशासु विदिशासु च ।।
महीपाताल ब्रह्माण्डे सर्व्वस्थानान्तरेषु च ।
योगिनी योग युक्तात्मा नित्यं तिष्ठति साधका ।।
वीरकर्म सुरेन्द्राणां सत्यं तिष्ठन्ति देवता ।
सिद्धाश्च पुत्रकाचार्यया साधकाः क्षितिसायिनं ।।
नगरे वाथ ग्रामे वा अटव्यां वा सरिद्वरे ।
प्. ३७अ) वापी कूपैक वृक्षे वा श्मशाने मातृमण्डले ।।
नानारूपधरान्येपि वटजा विविधानि च ।
ते च सर्व्वेपि संतुष्टा वलिं गृह्नन्तु सर्व्वतः ।।
शरणागतोप्यहं तेषां सर्व्वमेतत्फलप्रदं ।
पालयेत् यत्मयाकर्म्म यत्करिष्यामि यत्कृतं ।।
वलिपुष्पप्रदानेन संतुष्टा मम चिन्तका ।
सर्व्वकर्म्माणि सिध्यन्तु सर्व्वदोषा प्रसान्तु मे ।।
शिवशक्ति प्रदानेन श्रीकुकारां नमाम्यहं ।
इति समय वलिं ।।
त्रियाञ्जलिः ।। षडंग ।। वलि ।। निर्व्वाणच्छाय ।।
त्वाकमहावलिविय ।।
क्षां क्षीं क्षूं क्षेत्रपालाय वलिं गृह्न २ स्वाहा ।। श्रीं ह्रीं
कुलपुत्रवटुकनाथाय वलिं गृह्न २ स्वाहा ।। गां गीं गूं गः ग्लौं
श्रीकुलगणेश्वराय वलिं गृह्न २ स्वाहा ।।
प्. ३७ब्) हूं महाकरवीरश्मशानाधिपतये वलिं गृह्न २ स्वाहा ।। ह्स्ख्फ्रीं
श्रीसिद्धिचामुण्डायै वलिं गृह्न २ स्वाहा ।। आकाशश्चारिणी सर्वर्ग्गेभ्यो
वलिं गृह्न २ स्वाहा ।। सर्व्वेभ्यो भूतेभ्यो सर्व्वेभ्यो पिशाचेभ्यो सर्व्वेभ्यो
इष्टदेवताभ्यो वलिं गृह्न २ स्वाहा ।। आवाहनादि ।। योनिमुद्रां ।।
धूप ।।
दिव्यगन्धसमायुक्तं सर्व्वदेवप्रियावहं ।
आघ्रानं सर्व्वदेवानां धूपोयं प्रतिगृह्यतां ।।
धूपाहारेषु भगवति विश्वरूपी महेश्वरी ।
धूपेनानेन देवेसि सुप्रीतां परमेश्वरी ।।
दीप ।।
सुप्रकाशो महातेज सर्व्वत्रस्तिमिरापहं ।
सवाह्याभ्यन्तरं ज्योतिर्दीपोयं प्रतिगृह्यतां ।।
ज्योतिर्दश्यामि ।।
सालाऽऽन सफया मोहनि देवयाह्ववनेतयः पूजायायमाल ।।
नैवेद्य ।।
अन्नं महारसं दिव्यं रसै षड्भिः समन्वितं ।
प्. ३८अ) मया निवेदितं भक्त्या गृहाण परमेश्वरी ।।
नैवेद्यं गृह्यतां देवी भक्ति मे अचरां कुरु ।
अपमृत्युहरं देवी परत्रे च परांगतिं ।।
फलपुष्पताम्बूल धूपदीप इदं नैवेद्यं नमः ।।
जप ।।
थ्रौं स्वाहा १० ।। श्रीं ह्रीं स्वाहा ।। १० ।। यां स्वाहा ।।
यह्म्ख्फ्रां स्वाहा ५४ ।। श्म्ख्फ्रीं स्वाहा ५४ ।। निर्व्वानया ।।
वो ५ केवोतय ।। स्तोत्र ।।
अखण्डमण्डलाकारं व्याप्तं येन चराचरं ।
तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः ।।
श्रीसम्वर्त्ता ।।
पिऽऽन्गाक्षी रक्तकेशां किणि किणि धवलं किऽऽन्किणी मालजालं
द्रंष्ट्रास्यं क्रूरभावं सकलभयहरं पात्रहस्तं च नादं ।
सुव्यक्तं सिंहनादं ल ल ल ल ल वलं मऽऽन्गलं व्योमतत्वं
भूतप्रेतादिनाथं ग्रहगण नमितं क्षेत्रपालं नमामि ।।
प्. ३८ब्) रक्ताम्बरं ज्वलितपिऽऽन्ग जटाकलापं
ज्वालावलीरतिरदन्दधर प्रचण्डं ।
सूर्ययोदयात्कनककान्तण संगगौरं
गौरीसुतः वटुकनाथमहं नमामि ।।
हंतार्षाक्षोभदुःखं सनितभयहरं सर्व्वविघ्नान्तकाये
गां गीं गूं गैं खडऽऽन्गे गगणपति गते सिद्धिसर्व्वार्थ भावे ।।
ओं ह्रूं ग्लूं मुद्रागजाक्षेगसपवणगते आखुयानैक संस्थे
ओं ह्रीं ह्रूं हां गां गणेशे द्विरविषगणे विघ्निनाथं नमस्ते ।।
इच्छाज्ञानी क्रीयासासुरवरनमिता सा श्रियामऽऽन्गलाख्या
सा गौरी सा च दुर्ग्गा भगवति शुभदा मातृकाश्चर्म्ममुण्डा ।।
सा ब्रह्मा सा च विष्णुर्ग्रहगणसकला भैरवी क्षेत्रपाला
सानेकानेकरूपा विविधगुणदया योगिनीत्वां नमामि ।।
ब्रह्माणीया ।।
ब्रह्माणि ब्रह्मसावित्री ब्रह्मतत्वनिवेदिनी ।
प्. ३९अ) चतुर्भुजं चतुर्व्वक्त्रं चतुर्व्वेदपरायणी ।।
चतुर्भुजं विलंव्यापि चतुर्युगपरायणी ।
हंसयुक्त विमानस्था सौम्यरूपी पितामही ।।
पुस्तकं जाप्यमालां च वरदाभय पाणिनी ।
पीतपुष्परतां देवी पीताऽऽन्गी पीतवाससा ।।
पीतोपहार संतुष्टा पीतगन्धानुलेपिनी ।
उदुम्बर तलावस्था प्रयागक्षेत्रवासिनी ।
पूर्व्वपीठे स्थिता नित्यं ब्रह्मशक्ती नमोस्तुते ।।
माहेश्वरीया ।।
माहेश्वरी महादेवी मोहमाया निरंजनी ।
महावृषभमारूढा महाहुंकारनादिनी ।।
हेमवक्त्र निभं देहं कपालं शशिशेषरी ।
त्रिलोचनं त्रिशूलं च अक्षसूत्रकमण्डलुं ।।
हाडालंकारसर्व्वाऽऽन्गी दक्षिणेन वरप्रदा ।
सृष्टिस्थिति विनाशानां सर्व्वव्यापि सुरेश्वरी ।।
प्. ३९ब्) श्वेतपुष्परतां देवी श्वेताऽऽन्गी श्वेतवाससा ।
श्वेतवस्त्रपरीधाना मुक्ताभरणभूषिता ।।
वाराणस्यां महाक्षेत्रे तालवृक्षनिवासिनी ।
आग्नेयां च स्थिता पीठे माहेश्वरी नमोस्तुते ।।
कौमारीया ।।
वालभावे महारौद्री कौमारी रक्तलोचनी ।
रक्तवस्त्रपरीधाना सिन्दूरारुणविग्रहा ।।
चतुर्भूजा शक्तिसूत्रं सिद्धिपात्रधरं शुभं ।
कौमारं परमं शक्ति मयूरवरवाहिनी ।।
रक्तपुष्परतां देवी रक्तमांसावसासिनी ।
कोलापूज्यां महाक्षेत्रे वटवृक्षनिवासिनी ।।
याम्यपीठे स्थितानित्यं कौमारि च नमोस्तुते ।
वैष्णवीया ।।
वैष्णवी विष्णुमायां च दैत्यदुर्ग्गान्तनाशिनी ।
हरितश्यामवर्णाऽऽन्गी गरुडोपरिसंस्थिता ।।
शंखचक्रगदाहस्ता चतुर्बाहु विभूषिता ।
प्. ४०अ) रत्नज्वाला महाक्रीडा नानारत्नविभूषिता ।।
हरितपुष्पगन्धञ्च सदाहरितधारिणी ।
स्वर्ग्गमर्त्य च पाताले स्थितिरूपेण संस्थिता ।।
अट्टहास महाक्षेत्रे कदम्बवृक्षवासिनी ।
तिष्ठन्ति पीठ नैर्-ऋत्ये नारायणि नमोस्तुते ।।
वाराहीया ।।
वाराही घोररक्ताऽऽन्गी रक्तकेशी महोदरी ।
दंष्ट्राकरालगंभीरा वालार्क्क तेजलोचनी ।।
कपालमालिकामाला विचित्रपुष्पशोभिता ।
महामहिषमाढा ज्वलिताग्नि समप्रभा ।।
मीनांकुश कर्त्तिकाद्या हाडाभरणभूषिता ।
त्रिनेत्रं ज्वलितं देहं दुष्टदर्प्पविनाशिनी ।।
जयन्ती क्षेत्रसंस्थानां निम्बवृक्षसमाश्रिता ।
नागपीठे स्थिता नित्यं कोलरूपी नमोस्तुते ।।
इन्द्रायनीया ।।
शक्रेश्वरी सहस्राक्षी कुऽऽन्कुमारुणविग्रहा ।
सुरेश्वरी सवी देवी सर्वालंकारभूषिता ।।
प्. ४०ब्) चतुर्भुजा विशालाक्षी छत्रघण्टाविधारिणी ।
महावज्रधरी देवी स्थिति ऐंरावता गजा ।।
नानापुष्परतान्देवी नानारत्नविभूषितां ।
नानागन्धविलिप्ताऽऽन्गी नानावस्त्रविराजिते ।।
चरित्रे च महाक्षेत्रे कदम्बवृक्षवासिनी ।
वायुपीठे स्थिता नित्यं शक्रेश्वरी नमोस्तुते ।।
चामुण्डाया ।।
चामुण्डा चण्डिका चण्डी चण्डचण्दा सुधारिणी ।
चण्डाट्टहास चण्डाक्षी प्रचण्डा चण्डहासिनी ।।
दंष्ट्राकराल रक्ताक्षी कपिलकेशी कृषोदरी ।
कृशाऽऽन्गी भीषणी रौद्री जिह्वाललन भीषणी ।।
महाप्रेतासमारूढा भुजा अष्टा सुशोभनी ।
असिचर्म्मयुता हस्ता डमरु खट्वाऽऽन्गधारिणी ।।
कर्त्तृकापालहस्ताऽऽन्गी वरदाभयभूषिता ।
नरचर्म्मधृता देवी द्वीपचर्म्मकटि स्थिता ।।
प्. ४१अ) मुण्डमालाधरी देवी अन्ताभरणभूषिता ।
हाडालंकारभूषाऽऽन्गी अलिफलगु सदा प्रिये ।।
सहस्रसूर्यसंकाशं रोमकूपे प्रतिप्रतिः ।
ज्वालामालाकुलो देहा तडित्कोटि समप्रभा ।।
भूतवेतालडाकिन्यां परिवारं च राक्षसी ।
एकाम्रके महाक्षेत्रे अश्वत्थवृक्षवासिनी ।।
पीठ उत्तरसंस्थाऽऽन्गै चामुण्डायै नमोस्तुते ।।
महालक्ष्मीया ।।
महालक्ष्मी महादेवी सौभाग्ये सुरसुन्दरी ।
वैदुर्ययपादुकारूढा सिंहासनोपरिस्थिता ।।
चतुर्भुजा विशालाक्षी खड्गफेटकधारिणी ।
नूपुरहारकेयुरा रत्नकुण्डलधारिणी ।।
रत्नोत्खचित् सर्व्वाऽऽन्गी चूडामणिविभूषिता ।
विचित्रपुष्परत्नञ्च वस्त्रगन्धानुलेपनी ।।
त्रैलोक्ये व्यापिनी देवी सर्व्वस्थं स चराचरं ।
प्. ४१ब्) सिद्धिगन्धर्व्व नमिता विद्याधरसुरार्च्चिता ।।
देवीकोट महाप्लक्षं संहाराष्टकुलक्रमं ।
ईशानपीठसंस्थाय महालक्ष्मी नमोस्तुते ।।
मध्यया ।।
रक्तवर्णं चतुर्व्वाहुं अक्षमालात्रिशूलकं ।
कपालं बिन्दुहस्ता च चक्रेश्वरी नमोस्तु * ।।
अष्टक्षेत्रे स्थितान्देवीं अष्टवृक्षनिवासिनी ।
अष्टभैरवसंयुक्तं अष्टमातृ नमोस्तुते ।।
जननी सर्व्वभूतानां सर्व्वतत्वप्रकारिणी ।
सर्व्वदोषहरा देवी संसारपाशच्छेदनी ।।
त्वमेव सर्व्वशास्त्रत्वं त्वमेव योगरूपिनी ।
त्वमेव सृष्टिसंहारं त्वमेव स्थितिरूपिनी ।।
त्वमेव सर्व्वरूपानि त्वमेव विश्वरूपिनी ।
पीठेश्वरं महादेवं देवदेवं महात्मनं ।।
भैरवं भीषनं रौद्रं घोरां गम्भीररूपिनी ।
नीलाञ्जननिभं देहं महाकाय महोत्सवे ।।
प्. ४२अ) नानाभुजसमाकीर्णा नानाशास्त्र धरा शुभा ।
त्रिलोचन महातेज अग्निसूर्यय समप्रभं ।।
भ्रुवौलासमसूत्रं च दावाग्नि समतेजसा ।
त्रिशूलमुण्डखट्वाऽऽन्ग डमरु तर्ज्जनि ध्वजं ।।
पालिजातामकंवारं खड्गचर्म्मधरा शुभा ।
पाशाऽऽन्कुशधरं देवं वज्रशूचिगदाधरं ।।
कपालकर्त्तिकं चक्रं गजचर्म्मावगुण्ठितं ।
द्रंष्ट्राकरालवदना व्याघ्रचर्म्मकटिवृता ।।
सालंकालेन सर्व्वाऽऽन्गी नरास्थि पुष्पशोभिता ।
शीर्षमालाधरं देवं कपालं मालिकोत्तमं ।।
चूडामणि महातेजं कपालं चन्द्रशेषरं ।
महाप्रेतासना नित्यं नृत्यंगीस तदा पिर्य ।।
सर्व्वाललनखं तेजं जटाविद्रुस सन्निभं ।
चतुष्पीथे स्थिता नित्यं अष्टक्षेत्रा निवासिनी ।।
अष्टमूर्त्तिस्थिता देवी अष्टाष्टयोगिनी प्रिये ।
भद्रपीठे स्थिता नित्यं भद्रकालि समावृता ।।
प्. ४२ब्) भद्रकारणकर्त्तारं वीरभद्र नमोस्तुते ।
असिताऽऽन्ग रुरुश्चैव चण्डोर्थ क्रोधभैरव ।।
उन्मत्तभैरवंश्चैव कपालिभीषनस्तथा ।
संहाराश्चैव अष्टौ च भैरवाष्टक नमोस्तुते ।।
स्वस्वानस्वाधिकाराश्च स्वस्वरूपा स्ववीर्ययका ।
स्मर्त्तकार्ययेषु वर्त्तन्ते दिव्यान्तरेषु भूमिसा ।।
दशदिक्षु सक्षेत्रपालं च क्षेत्राञ्चैव चतुर्द्दश ।
पंचाशत्क्षेत्रपालं च क्षेत्रपालं नमोस्तुते ।।
नाथनाथं महानाथं आदिनाथं महात्मने ।
श्रीनाथसिद्धिनाथञ्च मीननाथं नमोस्तुते ।।
क्षेत्रनाथञ्च पीठञ्च दीपनाथ महात्मने ।
प्रेतनाथञ्च भूतं च वटुकनाथं नमोस्तुते ।।
त्रिनाथो नवनाथञ्च षोडशनाथमुत्तमं ।
सप्ताविंशद्विपञ्चासो चौराशीति नमोस्तुते ।।
सर्व्वेषां नाथ सिद्धानां सन्तानं कुलवृर्धये ।
प्. ४३अ) योगशद्यस्तथा विरा तत्सर्व्वञ्च नमोस्तुते ।।
एककालं द्विकालं वा त्रिकालं यःत्पठेन्नरः ।
शतमावर्त्तयेद्यस्तु प्राप्नोति शृणुमुत्तमं ।।
नाशयेच्छोक चिन्तानि नाशये विघ्नदेवता ।
नाशयेत् कलह लोकानि नाशयेद्दुखभागिनी ।।
नाशयेद्भयदारिद्रं नासयेद्रिपु सोत्तमम् ।
नाशयेदग्नि चौरानि नाशयेद्राजकोधकं ।।
नाशयेत् सविषं घोरं नाशयेत् सर्व्वपाटकै ।
आयुरारोग्यमैश्वर्यय धनधान्यविवर्द्धनं ।।
धर्म्मार्थ काममोक्षानां जशसौभाग्यमुत्तमं ।
रिद्धि सिद्धि श्रियं लक्ष्मी विद्याज्ञानसुनन्तितं ।।
बुद्धिप्रज्ञासुमित्रं च वृद्धिन्ते च दिने दिने ।
सकालमलनन्तस्य उत्पाते नाशयेत् सदा ।।
सर्व्वलोगप्रणस्यन्ति दीर्घमायु च लभ्यते ।
प्. ४३ब्) इति श्रीपीठनृर्णय देव्यास्मृते पीठावतार स्तोत्रं समाप्तं ।।
मध्ये पीठनिवासिनीं भगवतीं प्रेतासिनीं सुन्दरीं
रक्ताऽऽन्गी धृतशूलसाक्षककरीं संसारसारप्रदां ।।
ब्रह्मोपेन्द्र सुरेन्द्र किन्नरगणैः संपूजितां सर्व्वदा
तां देवीं सततं नमामि शिरसा कामार्थसिद्धिप्रदां ।।
ब्रह्माण्यादि जयादिभिः परिवृता क्षेत्रे स्थिता योगिनी
श्रीवीरैस्सकलैः सुरैः समरस शूलाक्षमाला धृता ।
उन्मत्ताधृतसाऽऽन्कमऽऽन्गलयुधा पीयूषधारावृता
प्रेमानावरकाद्यबिन्दु सहिता चक्रेश्वरी पातु वः ।।
यथा बाणप्रहाराणां कवचं भवति वारणं ।
तद्वदेव विधात्रानां शान्तिर्भवतु वारणं ।।
स्वस्थानक्षेत्रपालाय ब्रह्माण्यादि असिताऽऽन्गमहाभैरव सहिताय
प्. ४४अ) गणवटुकयोगिनी क्षेत्रपालाय सांगाय सगणस्परिवाराय दिग्विदिगि
इन्द्रादि लोकपालाय सुप्रीता वरदा भवन्तु यजमानस्य
सगणस्परिवाराणां आयुरारोग्यमैश्वर्यय जनधनलक्ष्मी संतति
संतानवृद्धिरस्तु यथा शास्त्रोक्तफलवरदायिनो भवन्तु ।।
अन्यत्र शरणं नास्ति त्वमेव शरणं मम ।
तस्मात् कारुण्यभावेन रक्ष रक्ष परमेश्वरी ।।
तर्प्पण ।।
समयच्छाय ।। ग्वयदक्षिणाछाय ।। नमस्कारयाय ।।
वाक्य ।। मोहनीच्छाय देवसके ।। यजमानयाता मोहनी आगणतके ।। एकानेक ।।
एकामूर्त्तिरनेकधात्रि जगति पूर्णेश्वरी वासवे
भूतेशी गगणोपमा भगवति नैशेश्वरी दक्षिणे ।।
ज्ञानागम्य कुजेश्वरी कुलगण चारुण्यदिऽऽन्नायिका ।
प्. ४४ब्) श्रीवामां प्रणमामि विश्वजननी दर्शेश्वरी सिद्धिदा ।।
स्वान आगनतके ।।
अम्बे पूर्व्वगतं पदं भगवति चैतन्यरूपात्मिका
ज्ञानेछा वहुला तथा हरिहरौ ब्रह्मामरीचि त्रयं ।
भास्वद्भैरव पंचकं तदनु च श्रीयोगिनी पंचकं
चन्द्राक्कौ च मरीचि षट्कं विमलं मां पातु नित्यं कुजा ।।
मण्डलह्मोय ।। नोसिय ।। वलि विसर्ज्जन ।। साक्षिथाय ।।
इति श्री ३ मध्ये पीठिपूजाविधिस्समाप्त ।।
पिठिपूजा धुनकाववयाव यजमानरासालायाव स्वस्तिक सविद्यावके ।।
स्वस्ति कुर्ययात् सदा विघ्न स्वस्ति मार्त्तण्डमेव च ।
योगिनी स्वस्ति सर्व्वाश्च स्वस्ति पीठा स्वक्षेत्रका ।।
पूर्वं दक्षिणतः पश्चात् रुत्तरोद्ध्राधस्तथा ।
स्वस्ति षट्कागमस्था तु गुप्ता प्रकट देवताः ।।
प्. ४५अ) भैरवो भैरवी साऽऽन्गा स्वस्ति स्वः स्वचक्रगा ।
स्वमन्त्राश्च स्वमुद्राश्च स्वायुधा परिवारिका ।।
ग्रहनक्षत्रराशिस्था स्वस्ति सर्व्वास्य स्वस्तये ।
स्वस्ति वीरा प्रमेलाश्च योगिन्यागणनायका ।।
स्वस्ति देवाधिदेवेशि मन्त्रराजो निरन्तरं ।
हव्य पलालि तृप्ताश्च स्वस्ति कुलाग्नि देवताः ।
स्वस्ति राजा प्रजानाञ्च यजमान स्वस्ति सर्व्वदा ।।
नृवच्छन ।। एकाप्लकानगाले ।।
यजमानस्य मानवगोत्र श्रीश्रीजयभूपतीन्द्रमल्लवर्म्मणः श्री ३
आकाशमहाभैरवप्रीत्यंरथप्रतिष्ठा तदुपरि
सुवर्णकलशध्वजावलोहन भैरवाग्नि सहस्राहुति अहोरात्र
यज्ञनिमित्यर्थं ।। ह्रः अस्त्राय फट् ।। ३ ।।
वलिविय ।।
भूताय विविधाकारा भूविदिव्यान्तरिक्षका ।
प्. ४५ब्) पातालतलवासिन्यां ते नश्यन्तु शिवाज्ञया ।।
दीप ।।
सुप्रकाशो महातेजस्सर्व्वत्र तिमिरापहं ।
शवाह्याभ्यन्तरं ज्योति दीपोयं प्रति गृह्यतां ।।
तालचानत्वाय ।।
ह्रां आत्मतत्वाय स्वाहा ।। ह्रीं विद्यातत्वाय स्वाहा ।। ह्रूं शिवतत्वाय स्वाहा
।।
सगोननत्वा ।। त्रितत्वेन ।। ३ ।।
थ्वनंलिपीठिपूजाया स्वानवियने गुलयां ।। स्नान लंखनहाय ।।
ऊकारम् वायुबीजं तदुपरिवरुणं वज्रपाणिं तदूर्द्धं
कालं वर्णान्तयुक्तं तदुपरिपरमं वह्निबीजं सहसं ।
इन्दुं बिन्दुं लयान्तं शितकमलधरं क्षीरधारा श्रवन्तं
दृष्ट्वा कूतन्तु नित्यं दहति कुलमयं मेरुतुल्यं हि पापं ।।
चन्दन ।।
श्रीखण्डचन्दनं दिव्यं गन्धाढ्यस्सुमनोहरं ।
आभूषितं ललाटाऽऽन्गे चन्दनं प्रतिगृह्यतां ।।
प्. ४६अ) चन्दनैर्लेपितं पुण्यं पवित्रं पापनाशनं ।
आपदा हरते नित्यं लक्ष्मीराज्य सुखप्रदं ।।
सिधर ।।
वीरेश्वरी महावीर वीरभस्मविभूषितं ।
त्रैलोक्यां कर्षणी देवी सिन्दूरारुणमुत्तमं ।।
सगोन ।।
सिद्धार्थं दधिपावनं च सकलं संपूर्णचन्द्रोपमं ।
पापौघ दुरितौघ नाशनकरी वाच्छार्थसिद्धिं करी ।
यस्माः संभव संपदा जयकरी चार्थं महासिद्धिदं
दीर्घायुश्चिरकारणे विजयते शंभुस्सदा पातु वः ।।
मोहनि ।।
त्रैलोक्यमोहनीनां रिपुकुलदहनी भंजनी सर्व्वविघ्नि
भूतप्रेतापिशाचा भयसुषहरणी ध्वंसिनी दाकिनीनां ।
रक्षा भूतानराणां शिवसकलमुखा सर्व्वमऽऽन्गल्ययुक्ता
सा देवी मोहनीयं त्रिपठगतियुता सर्व्वसम्पत्तिदायि ।।
प्. ४६ब्) स्वान यजमानयाताविय ।।
गौरं त्र्यक्षविभादि पंचवदनं सिंहस्थामाकर्षणं
पाशं मुद्गर तऽऽन्कमक्षमभयं जागेश्वरं तम्बरं ।
पात्रं मोदकपूरितं ह्यभयदं सव्यापि सव्यापरं
विभ्रछूल मनोहरं सुजठरं हेलम्बनाथं नमः ।।
ब्रह्माणी कमलेन्दु सौम्यवदनी माहेश्वरी लीलया
कौमारी रिपुदर्प्पणाशनकरी चक्रायुधा वैष्णवी ।
वाराहि घनघोरघर्घरमुखी ऐन्द्रीश्च वज्राअयुधा
चामुण्डा गणनाथभैरवगणा रक्षन्तु मे मातृका ।।
रक्तवर्णं चतुर्व्वाहुं अक्षमाला त्रिशूलकं ।
कपालबिन्दु हस्ता च चक्रेश्वरी नमोस्तुते ।।
सेफा ।।
प्रतिष्ठितोसि देवत्वं सुप्रतिष्ठा भुवणत्रयं ।
सान्निध्यं प्रतिगृह्नासि जजमानादिवृद्धये ।।
प्. ४७अ) सन्नोस्तु द्विपदे नित्यं सन्नोराज्यस्तथैव च ।
यजमानसंभूतोयं सुपुत्र पशुबान्धवः ।।
रक्षत्वं सर्व्वकालेषु देशनं भैरव नमोस्तुते ।।
सुप्रतिष्ठा वरदा भवन्तु ।। इति लाजान प्रतिष्ठा ।।
पिथिपूजाया आगनतया वहयका समय
यजमानयाताच्छह्मुतथवताच्छह्मुतकायावतर्प्पण ।।
प्रीतः प्रेतासनस्था भवभयहरणे भैरवा मन्त्रमूर्त्तिः
चण्डी चण्डा सनस्थां फणितफणिफणा लोकपाला फणीन्द्राः ।
यक्षाः रक्षाश्च दैत्याः पितृगणसहिताः मातराः क्षत्रपाला
योगिन्योः योगयुक्ताः जलचलखचलापाणमेतत् पिवन्तु ।।
पिवन्तु देवता सर्व्वे रुद्राश्चैव विनायकाः ।
योगिनी क्षेत्रपालाश्च मम देहे व्यवस्थिता ।।
नमः श्रीनाथाय ।।
प्. ४७ब्) नमः सिद्धिनाथाय नमः ।। नमः श्रीकुजेशनाथाय नमो नमः ।।
नातुऽऽनाव भुचासतय ।। कलंकपूजा ।। त्रियाञ्जलि ।।
५ हूं कलंकापालिन्यै चाण्डालिनि हूं फट् पादुकां ।। ३ ।।
धूप ।। दीप ।। कलंकवातकरंच्छोय ।। दक्षिणा ।।
एकामूर्त्तिरनेकधात्रि जगति पूर्णेश्वरी वासवे
भूतेशी गगणोपमा भगवति नैश्वेरी दक्षिणे ।
ज्ञानागम्य कुजेश्वरी कुरगणा वारुणा दिऽऽन्नायिका
श्रीवामां प्रणमामि विश्वजननी दर्शेश्वरी सिद्धिदा ।।
अम्बे पूर्व्वगतं पदं भगवति चैतन्यरूपात्मिका
ज्ञानेच्छा वहुला तथा हरिहरौ ब्रह्मा मरीचि त्रयं ।
भास्वद्भैरव पंचकं तदनु च श्रीयोगिनीपंचकं
चन्द्रार्क्कौ च मरीचि षट्क ममलं मां पातु नित्यं कुजा ।।
प्. ४८अ) वलिविसर्ज्जन ।। वलिच्छोय ।। गडनास ।। गणध्याखायिनायस ।।
वटुकदुमा जुं स ।। साक्षिथाय ।। नोसिय ।।
इति पीठिपूजा समाप्त ।।
सम्वत् ८२१ फाल्गुणकृष्ण त्रयोदशी थ्वकुह्नु श्री ३
आकाशमहाभैरवसरथ श्री श्रीजयभूपतीन्द्रमल्लदेवसनयो ऽऽनादिनजलो
।। शुभ ।।
प्. ४८ब्) १ अद्येत्यादि ।। मानवगोत्र यजमानस्य
श्रीश्रीजयभूपतीन्द्रमल्लदेववर्म्मणः श्री ३ स्वेष्टदेवताप्रीतिकामनया
नवगृहप्रवेशप्रतिष्ठानिमित्यार्थेन सिद्धाग्नि अयुताहुति यज्ञनवपीठ
अष्टमातृकाराधनं कर्त्तुं पुष्पभाजनं समर्प्पयामि ।।
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
j71zt4u33s623svotapo47iio6sszzf
प्रभुलिङ्गलीला
0
164235
415853
2026-05-13T05:29:20Z
Shubha
190
{{header | title = प्रभुलिङ्गलीला | author = | translator = | section = | previous = | next = | year = | notes = }} <poem> ---- MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00621 Uniform title: prabhuliṅgalila Description: Notes: Text selected by D... नवीन पृष्ठं निर्मीत अस्ती
415853
wikitext
text/x-wiki
{{header
| title = प्रभुलिङ्गलीला
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00621
Uniform title: prabhuliṅgalila
Description:
Notes:
Text selected by Dr. Elaine Fisher and funded by a fellowship awarded to Dr. Fisher by Stanford University.
Data entered by the staff of Muktabodha under the direction of Anirban Dash.
Revision 0: March 27, 2022
Publisher : vīraśaivaliṅgibrahmaṇagranthamala
Publication year : 1903
Publication city : Solapur
Publication country : India
----
ओं
वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला |
ग्रंथ ६ वा.
(भविष्यत्पुराणांतर्गत)
प्रभुलिंगलीला
भाग १ ला.
वेदमूर्ति, मणूर मठाध्यक्ष मल्लिकार्जुनशास्त्री
शके १८२५, सन् १९०३
पृ० १) श्रीगणेशाय नमः | श्रीनंदिकेश्वराय नमः | अविघ्नमस्तु |
शुभमस्तु |
|| भविष्यत्पुराणे प्रभुलिंगलीलाप्रारंभः ||
श्रीमद्वेदशिखैकमत्यघटनासिद्धान्तसूत्रावली-
तात्पर्यार्थमपार्थमायिकजगन्मिथ्यात्वबोधप्रदम् |
सत्यं ज्ञानमनंतमाद्यमजरं सर्वेश्वरं शंकरं
वंदेऽहं प्रभुलिंगमूर्तिमनिशं वाऽऽन्मानसागोचरम् || १ ||
कदाचिन्नैमिषारण्ये पुण्ये मुनिगणावृते |
भागीरथीमहोदारप्रवाहपरिपोषितैः || २ ||
भूषितैरतुलस्निग्धपत्रपुष्पफलव्रजैः |
निरंतरवसंताढ्यैर्नितान्तसुखशीतलैः || ३ ||
चंपकाशोकपुन्नागचंदनागरुतिंदुकैः |
कपित्थाश्वत्थखर्जूरनारिकेलमधुद्रुमैः || ४ ||
पनसप्लक्षकदलीरसालबकुलासनैः |
पलाशोदुंबरवटैर्जंबूजम्बीरपाटलैः || ५ ||
द्राक्षेक्षुदाडिमीकुंदबन्धुजीवकवेणुभिः |
महेश्वरपदाम्भोजपूजार्हदलकोमलैः || ६ ||
पृ० २) असंख्यातैरनुस्यूतैर्बिल्वद्रुमकदंबकैः |
मल्लिकामाधवीजाजीकरवीरकुरुंटकैः || ७ ||
श्यामन्तिकारुद्रजपानंद्यावर्तशमिद्रुमैः |
अन्यैरनन्यसामान्यैर्मान्यैर्मुनिभिरन्वहम् || ८ ||
अभ्रंकषैरदभ्रैस्तैर्विभ्राजितदिगन्तरैः |
परिपक्वफलस्यन्दिरसपूरितसारणैः || ९ ||
अच्छाच्छगुच्छविसरन्मकरन्दरसालसैः |
भृंगैर्झंकारमुखरैर्नटद्विटपकोटिभिः || १० ||
शारिकाकीरकिर्म्मीरमयूरपिकनादितैः |
दिव्यैरपि च मन्दारैः पारिजातैश्च कल्पकैः || ११ ||
सन्तानवृक्षप्रमुखसन्तानैरुपशोभिते |
राजहंसकृतक्रीडैराजहंसोपशोभितैः || १२ ||
भ्राजद्भिरप्सरोवृन्दैराजीवकुमुदाकरैः |
राजते राजताद्रींद्रधवलैर्भूतिभूषितैः || १३ ||
रुद्राक्षमंडपोदग्रशिखरैर्लिखितांबरैः |
पृ० ३) नैमिषारण्यवर्णनम् |
पर्णशालांगणप्रांशुवंशनर्तितवल्कलैः || १४ ||
काषायपंक्तिकलिततरुशाखाभिरुज्ज्वले |
कोटिकोटिमहालिंगमंगलायतनोन्नते || १५ ||
सदाशिवाराधनोद्यद्धूपवासितदिक्तटे |
हठाभ्यासिमहायोगिकृतयोगमठावृते || १६ ||
लयानन्दघनाक्रांतमहागह्वरबृंहिते |
मंत्रोपास्तिरतोदंचद्गंगाशीकरसैकते || १७ ||
शिवराजमहायोगिसेविताश्रममंडपे |
सर्वदातिथिपूजार्थसमाह्वानरवाकुले || १८ ||
अध्वरीयहविर्भागागतदैवतसंकुले |
वेदवेदान्तसिद्धान्तपाठकध्वनिनादिते || १९ ||
सदा हरहरध्वानप्रतिध्वनितपुष्करे ||
नीवारकंदमूलादिसंपूर्णबहुशाद्बले || २० ||
स्फाटिकाच्छशिलासीनशिवपूजापरायणे |
पंचाग्निमध्यविभ्राजत्तपस्विशतसंकुले || २१ ||
परमार्थपदध्यातृपरहंसगणावृते |
पृ० ४) पारमेश्वरविज्ञानपरतत्वैकचिंतकैः || २२ ||
महापाशुपताघोरशैवशांभवदीक्षितैः ||
षट्स्थलज्ञानसंपन्नैः शिवजीवैक्यतत्परैः || २३ ||
श्वेताश्वतरशाखोक्तसमयाचारनिष्ठितैः ||
भक्तैर्माहेश्वरैश्चैव प्रसादिप्राणलिंगिभिः || २४ ||
शरणैरैक्यसंपन्नैर्वीरमाहेश्वरोत्तमैः ||
शिवार्पितानि भुंजानैरनर्पितपराऽऽन्मुखैः || २५ ||
जगच्छिवमयं सर्वमिति विज्ञाननिश्चितैः |
प्राणलिंगांगसंबंधपदार्थपरिशोधकैः || २६ ||
परमानंदभरितैर्निराभारैर्निरंकुशे |
परस्परपरित्यक्तजातिवैरैरनाकुलैः || २७ ||
गोव्याघ्रादिभिरेकत्र तृणांबुग्रहणोत्सुकैः |
संवीते सकलानंदसंधानकरबंधुरे || २८ ||
कामधुक् कल्पिताकल्पहेमभाजनसज्जितैः |
षड्रसायनसारान्नपानीयैः परितोषितैः || २९ ||
नानादिगंतादायातैरसंख्यैरतिथिव्रजैः |
समाश्रितगृहद्वारवेदिकालक्षलक्षिते || ३० ||
पृ० ५) सूतागमनवर्णनम् |
नित्योत्सवसमाराध्यगणाकीर्णशिवालये |
एवंविधाश्रमे तत्वज्ञानदूरीकृतश्रमे || ३१ ||
शौनकाद्या महात्मानो मुनयः शंसितव्रताः |
शिवज्ञानरता नित्यं शिवभक्तिरसाप्लुताः || ३२ ||
शिवध्यानैकनिष्ठास्ते शिवव्रतपरायणाः |
शिवाराधनसर्वस्वशिवमाहात्म्यदर्शिनः || ३३ ||
शिवलीलानुसंधानशेमुषीमुषितांहसः |
दैवादभ्यागतं सूतं सत्रयागदिदृक्षया || ३४ ||
व्यासप्रसादसंप्राप्तत्रिकालज्ञानशालिनं |
हस्तामलकवत्सर्वपुराणार्थानुभाविनं || ३५ ||
शिवैकतानहृदयं शिवदीक्षापरायणम् |
शिवाद्वैतानुसंधानचित्कलाकलितांतरम् || ३६ ||
सदा शिवशिवेत्येव जपन्तं द्व्यक्षरं मुहुः |
दर्शनस्पर्शनालापैर्बहिर्जनपराऽऽन्मुखम् || ३७ ||
कृतेष्टप्राणभावैक्यं गुरुलिंगचरार्चकम् |
भस्मोद्धूलितसर्वांगं फालभास्वत्त्रिपुंड्रकम् || ३८ ||
पृ० ६) रुद्राक्षहारवलयमुकुटांगदकुंडलम् |
शिवदीक्षाक्षणक्षीणपूर्वजातीयलक्षणम् || ३९ ||
अक्षीणशिवयोगाढ्यमर्चनीयं द्विजातिभिः |
कामहर्षिणमालोक्य ते महामुनिसत्तमाः || ४० ||
दूरादेव समुत्थाय प्रणम्याभ्यर्च्य तं गुरुम् |
तद्दत्तभस्मरुद्राक्षप्रसादाशीर्भिरादृताः || ४१ ||
उपवेश्य सभामध्ये समुन्नतकुशासने ||
रांकवालंकृतानल्पव्याघ्रचर्मोत्तरच्छदे || ४२ ||
पृथक्पृथक् च ते सर्वे तदंघ्रिद्वयसन्निधौ |
समर्प्य फलपुष्पादीनुपहारानतंद्रिताः || ४३ ||
भक्त्या भूयः समन्तात्ते दंडवत्प्रणिपत्य च |
तदंघ्रिन्यस्तनिटिलदूरीकृतदुरक्षराः || ४४ ||
कृतांजलिपुटाः सर्वे स्थित्वा सूतं व्यजिज्ञपन् || ४५ ||
ऋषय ऊचुः |
भगवन्सर्वशास्त्रज्ञ पुराणार्थविशारद |
वेदप्रकाशकान्येव पुराणानि महामते || ४६ ||
कथितानि समस्तानि त्वयाऽस्माकं कृपानिधे ||
तत्र शैवं भविष्यच्च लैंगं वाराहमेव च || ४७ ||
स्कांदं मात्स्यं तथा कौर्मं मार्कंडेयं च वामनं |
ब्रह्मांडं च दशैतानि त्रिलक्षग्रंथसंख्यया || ४८ ||
पृ० ७) ऋषिप्रश्नवर्णनम् |
शैवानि सात्विकानीति श्रुतानि त्वन्मुखांबुजात् |
भविष्यन्नामके तत्र पुराणे शिवसंमते || ४९ ||
कथितं शिवभक्तानां चरितं शिवयोरपि |
यदा तिष्ये युगे पापे धर्मनिर्मूलनोद्यतैः || ५० ||
पाषंडैर्बहुभिः पापैर्बौद्धचार्वाककौलिकैः ||
देवतान्तरभक्तैश्च शिवनिंदापरायणैः || ५१ ||
दधीचिना गौतमेन शप्तैर्ब्राह्मणवंशजैः ||
दैत्यप्रकृतिभिः क्रूरैर्वैष्णवादि प्रभेदतः || ५२ ||
मार्गांतरप्रविष्टैस्तैः शिवभक्तिः खिलीकृता |
तदा प्रमथनाथानामवताराञ्च्छिवाज्ञया || ५३ ||
तत्कृतप्रत्ययांस्तद्वद्दुष्टनिग्रहणानि च |
वीरशैवशुभाचारसम्यगुद्धरणानि च || ५४ ||
युगावृत्तिक्रमेणैव भविष्यदपि भूतवत् |
कृपया परयाऽस्माकं सर्वं कथितवानसि || ५५ ||
नंदीश्वरावतारेऽत्र तच्चरित्रप्रशंसने |
प्रभुमूर्तेर्महेशस्य कल्याणाख्यमहापुरे || ५६ ||
समागमनमाख्यातं नंदीशस्य सभांप्रति |
तदाराधनतुष्टस्य प्रभोरमिततेजसः || ५७ ||
शिवज्ञानोपदेशश्च वर्णितो भवता मुने |
इदानीं श्रोतुमिच्छामः सर्वज्ञस्य महागुरोः || ५८ ||
पृ० ८) प्रभुमूर्तेर्महेशस्य लीलामानंददायिनीम् |
कलिकल्मषनिर्मग्नसमुद्धरणकौशलाम् || ५९ ||
कथमेष महादेवः प्रभुमूर्त्या निरंजनः |
भूमाववततारैतन्माहात्म्यं वक्तुमर्हसि || ६० ||
तत्कथामृतधाराभिरस्मानानन्दयाधुना |
यदि श्रीगुरुकारुण्यपात्रताऽस्मासु विद्यते || ६१ ||
इति संप्रार्थितः सूतः प्रीतः संजातसंस्मृतिः |
शिवावेशवशोत्पन्नपरानन्दलयोदयः || ६२ ||
चिरं समाहितस्वान्तश्चरणध्याननिर्वृतः |
करस्थलिंगप्रसरत्किंचिदुन्मीलितेक्षणः || ६३ ||
बाह्याभ्यन्तरतौल्येन सर्वं शिवमयं स्मरन् |
त्रैकालिकज्ञाननिधिः साक्षात्कृतजगत्त्रयः || ६४ ||
तत्कृतश्रीगुरुकथाप्रश्नसंजातसंभ्रमः |
सर्वांगसंगतोदारपुलकांकुरनिर्भरः || ६५ ||
आनंदाश्रुपरिक्लिन्ननेत्रांचलसमंचितः |
अवलोक्य मुनीन्सर्वान् स्मयमानमुखांबुजः || ६६ ||
विवक्षुरपि संकोच्य हर्षगद्गदितं वचः |
तूष्णीं मुहूर्तमास्थाय पुनः स्फुरितवाग्झरः || ६७ ||
पृ० ९) सूतकृतगुरुध्यानं गुरुमहिमानुवर्णनं च |
स्मरन् व्यासमुनिं भक्त्या गुरुं च गणनायकम् |
मेघगंभीरया वाचा प्रोवाच वचनं शुभं || ६८ ||
सूत उवाच |
साधु साधु महात्मानो मुनयः शंसितव्रताः |
यत्कृतार्थतमो लोके युष्माभिर्भावितोऽस्म्यहं || ६९ ||
प्रश्नोऽयं भवतां सर्वजगदानन्ददायकः ||
क्रियते येन सुदृढा गुरौ भक्तिः परात्मनि || ७० ||
येषां देवे परा भक्तिर्यथा देवे तथा गुरौ |
तैरेव क्रियते सोऽयं प्रश्नो वेदान्तगोचरः || ७१ ||
अहो सत्संगमहिमा वर्ण्यते केन वा भुवि ||
येन श्रीगुरुमाहात्म्यकथायां चोदितोऽस्म्यहं || ७२ ||
सत्संगश्च विवेकश्च निश्चलं नयनद्वयम् |
एकेन विकलः काणो द्वाभ्यामंधः प्रकीर्तितः || ७३ ||
ये शिवे श्रीगुरौ भक्ताः सत्यवाचो जितेंद्रियाः |
लिंगांगसंगिनः शुद्धास्ते वै सन्तः प्रकीर्तिताः || ७४ ||
भस्मरुद्राक्षनियताः पंचाक्षरपरायणाः |
विश्वाधिकशिवज्ञाननिष्ठाः सन्तः प्रकीर्तिताः || ७५ ||
पृ० १०) वेदे शिवे गुरौ ब्राह्मे ये भक्तास्तत्कथामृते |
सक्ता विरक्तास्ते सन्तस्तेषां संगो हि दुर्लभः || ७६ ||
अद्य मे सुदिनं जातं प्रेरितो यत्कथामृते |
प्रभोर्भवद्भिर्मुनयः सत्यज्ञानचिदात्मनः || ७७ ||
यः प्रभुः स्रष्ट्टसृष्टानां जंतूनां शिष्टवर्त्मनाम् |
इष्टलिंगांगसाहित्यमुपदेष्टा स्वयं गुरुः || ७८ ||
यः शिष्यजनरक्षार्थं स्वयं मानुष्यमास्थितः |
प्राणं पश्चिममार्गेण धृत्वा चोद्बोध्य कुंडलीम् || ७९ ||
सदा केवलकुंभेन भावं लिंगे समर्पयन् ||
चरति स्वेच्छया भूमौ योगीव निरुपाधिकः || ८० ||
तस्य माहात्म्यमतुलं शृणुध्वं कथयामि वः ||
प्रभोर्माहात्म्यमखिलं भूतं भव्यं भवच्च यत् || ८१ ||
न शक्यते मया विप्रा वक्तुं वर्षशतैरपि ||
गुहास्थितो महादेवो यथोच्चारयतेऽत्र मां || ८२ ||
तथा कथा प्रतिध्वानसदृक्षेयं समीक्ष्यतां |
नाहं वच्मि शिवो वक्ता श्रोताऽपि स महेश्वरः || ८३ ||
पृ० ११) प्रभुलीलावतारमाहात्म्यवर्णनम् |
न यूयं मानवा विप्रा न कथेयं च लौकिकी |
गुहेश्वरमहालिंगप्रभुमूर्तेर्गुरोरिदम् || ८४ ||
लीलावतारमाहात्म्यं शृणुत श्रद्धयाऽस्तिकाः |
कालक्षेपार्थमेतन्न वार्ताश्रवणमात्रकं || ८५ ||
विशुद्धचित्ता ये भक्त्या शृण्वन्ति सततं नरः ||
शिवस्ताननुगृह्णाति तनुचित्तार्थबंधहृत् || ८६ ||
नेयं ज्ञातिजनद्वेषकृतयुद्धकथा कथा |
न स्त्रीविषयभोगेच्छालंपटाभिकका कथा || ८७ ||
नानुश्रविकसौख्यार्थकर्मकांडकथाऽपि च |
किन्तु कुंडलिनीयोगजनितानन्दनिर्भरा || ८८ ||
चिदाकाशमयात्मैक्यतृप्तिदेयं कथा शुभा |
जन्ममृत्युजराक्रान्तजनकीटकथा नहि || ८९ ||
कर्मांधकारसंगत्या शैवं धर्ममजानताम् |
कथेयं दुर्मदांधानां न स्वेच्छाचारिणां नृणाम् || ९० ||
अपि तु स्वेच्छयाऽऽरब्धलीलाविग्रहशालिनाम् ||
चिदाकाशमयांगानां सच्चरित्रवतां कथा || ९१ ||
पृ० १२) ततः शिवगुरुज्ञानभक्तिनिःश्रेणिकोपमा |
भुक्तिमुक्तिप्रदा पुण्या कथेयं श्रूयतां द्विजाः || ९२ ||
ग्रसित्वेक्षुपलाशानि छागो रोमंथमाचरन् ||
तावन्मात्रेण संतुष्टो यथा भवति तुच्छधीः || ९३ ||
तथा नीचजनो लोके स्वर्गादिसुखमुत्तमम् |
मत्वा कर्माणि कुर्वाणो जन्म मृत्युं च विंदति || ९४ ||
यथेक्षुरसमास्वाद्य सुखी भवति वारणः |
तथा भक्तिरसं विद्वानास्वाद्यामृतमश्नुते || ९५ ||
यूयं शिवपदांभोजभक्तिभाजो मुनीश्वराः |
प्रभुलिंगमहालीलामाकर्णयत सादरम् || ९६ ||
स्पर्शवेधिमये देहे यथायसविभूषणम् |
तप्तजांबूनदमयं जायते समलंकृतम् || ९७ ||
तथा वचनमत्यल्पप्रयुक्तं शोभते तराम् |
अप्राज्ञेनापि सर्वज्ञे कल्याणगुणभाजने || ९८ ||
अभिनीय नभः स्प्रष्टुमुन्नमयय भुजावुभौ |
किमर्थमूर्ध्वमुतिष्ठेद्व्यापकं तत्समंततः || ९९ ||
तथा सगुणभावेन नैर्गुण्येनापि लीलया |
व्यापकस्य प्रभोः कीर्तिमप्राप्य मम वागियम् || १०० ||
पृ० १३) किमन्यदाश्रयेत्तेन विना किंचिन्न विद्यते |
गोवत्सो गां परित्यज्य भल्लूकीं नानुधावति || १०१ ||
तथा शिवं परित्यज्य मद्वागन्यं न संश्रयेत् |
प्रभोरीशस्य माहात्म्यं पुरा प्रमथभाषितम् || १०२ ||
पुनः पुनर्युगावृत्त्या भविष्यदपि भूतवत् |
संस्मृत्य कथयाम्यद्य शृणुध्वं यूयमास्तिकाः || १०३ ||
कालो ह्यनादिरेषोऽत्र भूयो भूयः कलौ युगे |
प्रभोः प्रमथनाथानामवताराश्च तत्क्रियाः || १०४ ||
धर्मसंस्थापनार्थाय विज्ञेया आस्तिकोत्तमाः |
यंत्रधारः प्रभुर्ज्ञेयः सर्वे यंत्राणि वै वयम् || १०५ ||
यथा प्रेरयते सोऽयं तथा कुर्मो न चान्यथा |
सिद्धवीरेश्वरस्वामी श्रीगुरुः शिवयोगिनाम् || १०६ ||
बुद्धिं त्रैकालिकीं दद्यात् प्रभोर्लीलानुवर्णने |
वाचो यतो निवर्तंते वेदाद्या मनसा सह || १०७ ||
आदिमध्यान्तशून्यो यो नादबिन्दुकलातिगः |
एषोऽयमत्यनिर्देश्यः प्राज्ञैरपि च योगिभिः || १०८ ||
पृ० १४) श्रीशिवः सच्चिदानन्दो नामरूपविवर्जितः |
निर्गुणः परमं तत्वं निर्विकल्पो निरंजनः || १०९ ||
सर्गसंहारसंसर्गवर्जितो भर्ग ईश्वरः |
वशीकृतमहामायः स्वतंत्रः परमेश्वरः || ११० ||
नंदीश्वरादिप्रमथान्ब्रह्मादीन्सुरपुंगवान् |
देवर्षीन् सनकादींश्च हृत्वाऽज्ञानतमश्च्छटाः || १११ ||
अनुग्रहीतुं सुज्ञानमुद्रया पुस्तकेन च |
घंटामृतघटाभ्यां च कमनीयाकृतिं वहन् || ११२ ||
अर्धचंद्रजटाजूट आकर्णायतलोचनः |
लंबमानलसत्कर्णः किंचिदुन्नतनासिकः || ११३ ||
कंबुग्रीवः पृथूरस्को धृतनागेंद्रकुंडलः |
नागयज्ञोपवीताढ्यो योगपट्टाभिरंजितः || ११४ ||
समुन्नतभुजः श्रीमान्दीर्घरोमावलीयुतः |
आवर्तनाभिरुचिरनितंबोरुद्वयांचितः || ११५ ||
पद्मरागप्रभाजालरंजितांघ्रिद्वयांचितः |
दक्षिणामूर्तिरूपेण साक्षात्कृत्य विराजते || ११६ ||
तस्य श्रीदक्षिणामूर्तेर्वटमूलं हि मन्दिरं |
तस्य न्यग्रोधवृक्षस्य जलं शान्तरसः स्मृतः || ११७ ||
पृ० १५) परमात्मस्वरूपनिरूपणम् |
आलवालं च सद्गोष्ठी मुलमोंकार एव च |
वेदः प्रकाण्डो विद्याश्च जटास्ताः परिकीर्तिताः || ११८ ||
तथोपनिषदः शाखा भक्तिः फलमितीर्यते |
आनंदः फलसारः स्यादन्तर्ध्यानं प्रसाधनम् || ११९ ||
चिंतात्यागो महामार्ग इति ज्ञेयं महात्मभिः |
तस्य न्यग्रोधवृक्षस्य मूले मुनिगणावृते || १२० ||
विद्यासिंहासनासीनो ज्ञानं मौनेन सद्गुरुः |
बालोऽपि वृद्धशिष्येभ्यो य उपादिशदास्तिकाः || १२१ ||
तस्य देवस्य माहात्म्यं को वा वर्णयितुं क्षमः |
स एव देवदेवेशो भूमौ भक्तानुकंपया || १२२ ||
परित्यज्य करे शूलं फणिभूषणसंहतिम् |
भूतसंघाननेकांश्च कपालकृतभाजनः || १२३ ||
कंठे विषं ललाटेऽक्षि तिरोधाय गुरुः स्वयम् |
कृपारसार्द्रनयनः सुधामधुरभाषणः || १२४ ||
मूर्तः शान्तरसः साक्षात्कान्त्या दान्त्या समुज्ज्वलः |
मन्दस्मितमुखांभोजः कंदर्प इव सुंदरः || १२५ ||
पृ० १६) किंचित्काषायललितधौतांबरविभूषितः |
साक्षान्मोक्षप्रदातेति जनतानंददायकः || १२६ ||
सर्वलोकप्रसिद्धोऽयं भक्ताभीष्टार्थसिद्धिदः |
सिद्धवीरेश्वरो नाम्ना क्षितौ प्रत्यक्षतां गतः || १२७ ||
महायोगेश्वरस्यास्य महिमानं प्रशंसितुं |
शक्तो नंदीश्वरः साक्षान्मादृशाः शक्नुयुः कथम् || १२८ ||
स एष सिद्धवीरेशः सदाचार्यशिखामणिः |
संप्रदायद्वयं चक्रे सकलं निष्कलं च यत् || १२९ ||
सर्वेषां शांभवं धर्ममुपदिश्य दयानिधिः |
रक्षति स्म जगत् कृत्स्नमक्षयज्ञानसागरः || १३० ||
जन्मभूमिरसौ सर्वकल्याणगुणसन्ततेः |
स्वयं हि सर्वभूतात्मा चरलिंगवपुर्धरः || १३१ ||
शिवभक्तजनोदारजीवरत्नसमाकृतिः |
कविर्मायांधतमसविध्वंसनविचक्षणः || १३२ ||
बौद्धचार्वाकजैनादिपरवादिनराधमैः |
कीटैरगम्यसौलभ्यमहीरुहफलोपमः || १३३ ||
परमार्थशिवाचारपट्टबंधविराजितः |
पृ० १७) गोशालाबद्धसुरभिर्भक्तानां स्वनिकेतने || १३४ ||
जैनमस्तकविन्यस्तशूलाख्यविरुदांकितः |
दुर्मानबीजलक्ष्माभृन्मानमर्दनसाहसः || १३५ ||
मृदुलस्वपदन्यासविलासैः पावयन्महीम |
लसन् गमनचातुर्यैर्नटलिंगतनुः शिवः || १३६ ||
दीयते दीक्षिते यत्तत् क्षीयते नेति वा वदन् |
शिष्यसंरक्षणार्थाय स्वयं पर्यटति क्षितौ || १३७ ||
निजपादोदकं पुण्यं प्रसादं मुक्तिसाधनम् |
प्रयच्छति गुरुर्योऽयं भक्तेभ्यः प्रणतार्तिहा || १३८ ||
आराध्यलक्षणाकार आराधकसुरद्रुमः |
आराद्दूरी च सर्वत्र वर्तमानो जगत्त्रये || १३९ ||
पादार्चकजनस्वान्तरंधकारनिरोधकम् |
गुरुशब्दाक्षरद्वंद्वं भजन्विजयते स्वयम् || १४० ||
शुद्धसत्वकलोपेतो निर्गुणोऽपि गुणाश्रयः |
एकोऽपि जलकुंभस्थशशीवानेकतां गतः || १४१ ||
उपाधिभेदैः श्रुत्या च युक्त्या च न हि वस्तुतः |
प्रत्यक्षतारकब्रह्म परात्परतरो गुरुः || १४२ ||
पृ० १८) मंत्रमूलं गुरोर्वाक्यं पूजामूलं गुरोः पदम् |
ध्यानमूलं गुरोर्मूर्तिर्मुक्तिमूलं गुरोः कृपा || १४३ ||
अणोरणीयान्महतो महीयानपि सद्गुरुः |
प्रणवप्राणपदवी प्रणवार्थप्रदर्शकः || १४४ ||
तृणीकृताणिमाद्यष्टसिद्धिर्यच्छिष्यसंततिः |
स योगी कृतकृत्यानां स्वगृहांगणशेवधिः || १४५ ||
पुण्यैकनिरतानां च स्वर्णाहितमधूपमः |
जागरः स्वप्नसौषुप्तभ्रमावस्थाविवर्जितः || १४६ ||
अवस्थात्रयसाक्षी च सहजानंदसुंदरः |
प्राणलिंगांगसंबंधपदार्थज्ञानमादरात् || १४७ ||
उपदिश्य सुशिष्येभ्यः सुखलीलानुभावनैः |
प्रसाद्य भोगमोक्षौ द्वौ यो रक्षति महागुरुः || १४८ ||
तस्मै श्रीगुरवे सुधींद्रतरवे सत्यात्मने स्वात्मने
पुण्याय श्रुतिसंमताय यतये भूम्ने परब्रह्मणे |
भक्तव्रातसदावनैकरतये श्रीसिद्धवीरेश्वर-
स्वामींद्राय समस्तदेशिकमनःसांद्राय तुभ्यं नमः || १४९ ||
पृ० १९) इति शिवगुरुवर्यस्तोत्रसंजातहर्षस्तदनु
तदनुकंपाजातसर्वार्थबोधः |
मुनिगणमवलोक्य श्रोतुकामं समंतात्प्रभुगुरुशिवलीलां प्राह सूतो
महात्मा || १५० ||
शृणुध्वमृषयः सर्वे सावधानेन चेतसा |
वेदान्तसारसर्वस्वं न कस्याऽपि प्रकाशितम् || १५१ ||
अनादिमध्यनिधनमादेराद्यं निरंजनम् |
सर्ववेदशिखालक्ष्यमसादृश्यमनामयम् || १५२ ||
एतत्तदित्यनिर्देश्यमवाऽऽन्मानसगोचरम् |
सत्यं ज्ञानमनंतं यत्सदानंदघनं परम् || १५३ ||
निर्विकल्पं निराख्यातं निरालंबं निराकुलम् |
परं ब्रह्म परं धाम परमात्मा परायणम् || १५४ ||
परात्परं परंज्योतिः परात्परपथातिगम् |
स्वप्रकाशचिदाकाशं सर्वव्यापि सदातनम् || १५५ ||
न तत्र भानुराभाति न चेदं चंद्रतारकम् |
नेमाश्च विद्युतो भान्ति कुतोऽग्निस्तत्र भासते || १५६ ||
पृ० २०) तमेव भान्तमनुभात्येतत्सर्वं विभाति च |
तस्य भासा यतो वाचो निवर्तंते हृदा सह || १५७ ||
येनेदं निखिलं व्याप्तं यद्वै वाचोऽपि वाचकम् |
न मन्यते यन्मनसा यन्मतं न मतं भवेत् || १५८ ||
अमतं यन्मतं तत्स्यादविज्ञातं विजानताम् |
विज्ञातमविजानानामेकमेवाद्वितीयकम् || १५९ ||
केवलं ब्रह्म यल्लिंगं निर्विकाराख्यमिष्यते |
तदेव परमं तत्वं सर्वाधिष्ठानमद्भुतम् || १६० ||
त्रिपाद्ब्रह्मामृतं पूर्णं निष्कलं सर्वकारणम् |
अलिंगं लिंगमध्यस्थमद्वैतं प्रकृतेः परम् || १६१ ||
निर्विकाराख्यतत्वं तदनुत्तरपराक्षरम् |
सिसृक्षया मायामनुगृह्णाति सात्विकीम् || १६२ ||
उदयं प्राप्तवांस्तस्माद्देवः सोऽयं सदाशिवः |
महाकैलासमारूढः स एव परमः शिवः || १६३ ||
सर्वानुग्राहकः सोऽयं सर्वतत्वोत्तरोत्तरः |
अदृश्यविग्रहो देवो भावग्राह्यो मनोमयः || १६४ ||
पृ० २१) पंचकारणसृष्टिक्रमोपन्यासनिरूपणम् |
अरूपोऽयं सरूपोऽपि सकलोऽपि च निष्कलः |
अवाऽऽन्मानसगम्योऽपि भक्त्या गम्यः परेश्वरः || १६५ ||
सदाशिवात्समुत्पन्ना चिच्छक्तिः सांबिका शिवा |
शिवानन्या परानंदा सैवोमा चित्कला मता || १६६ ||
सदाशिवश्च चिच्छक्तिर्दांपत्यं स्वेच्छया गतौ |
ताभ्यां शिवः समुत्पन्नः स एवेश्वर उच्यते || १६७ ||
सोऽपि कारणकैलासवर्ती सर्वपिधायकः |
मिश्रतत्वमयो यस्माद्देवः सकलनिष्कलः || १६८ ||
शिवात्तस्मात्समुत्पन्ना स्वेच्छाशक्तिस्तयोर्द्वयोः |
मिथुनीभूतयोर्जातः श्रीरुद्रो जगतांपतिः || १६९ ||
पंचवक्त्रधरः सोऽयं पंचब्रह्मात्मको यतः |
अष्टमूर्तिर्जगद्रक्षासृष्टिसंहारकारकः || १७० ||
कार्यकैलासवर्ती यः श्रीकंठाख्यो महागणैः |
असंख्यातैर्विहरति स्वेच्छया परमेश्वरः || १७१ ||
क्रियाशक्तिः समुत्पन्ना रुद्रात्तस्मान्मुनीश्वराः |
सैव गौरी गिरिसुता वैष्णवी दक्षकन्यका || १७२ ||
गुणत्रयात्मिका देवी दुर्गा कालीति गीयते |
पृ० २२) क्रियाशक्तेश्च रुद्रस्य मिथुनीभूतयोस्तयोः || १७३ ||
प्राप्तवान्विष्णुर्जगत्पालनतत्परः |
निद्रालस्यप्रमादादितमोगुणयुतोप्ययम् || १७४ ||
रुद्रानुग्रहसंप्राप्तसत्वः सत्यसुखात्मकः |
वैकुंठाख्यपुरे मेरौ वसन् रक्षति वै जगत् || १७५ ||
विष्णोस्तस्मात्समुत्पन्ना महालक्ष्मीरिति श्रुता |
आदिशक्तिस्तयोर्जाता मिथुनीभूतयोर्द्वयोः || १७६ ||
ब्रह्मा सर्वजगत्स्रष्टा चतुरास्यो रजोन्वितः |
जातः सत्याधिराजोऽयं परा शक्तिस्ततो ह्यभूत् || १७७ ||
पश्यन्ती मध्यमा वैखर्यवस्थाभिः परा च सा |
स्वरूपेण च वाण्याख्या जाता शक्तिश्चतुर्विधा || १७८ ||
तया व्याप्तमिदं सर्वं चराचरमयं जगत् |
ब्रह्माणी ब्रह्मणोर्जातं मिथुनीभूतयोर्द्वयोः || १७९ ||
चराचरमिदं सर्वं पिंडब्रह्मांडसंज्ञितम् |
समष्टिव्यष्टिरूपेण सर्वं शिवमयं यतः || १८० ||
सदाशिवोऽपि सर्वज्ञः सर्वकर्ता जगत्पतिः |
महेश्वरादिरूपेण स्वेच्छाशक्तिविजृंभणात् || १८१ ||
सृष्ट्वा जगदिदं सर्वं तदेवानुप्रविश्य च |
पृ० २३) समष्टिव्यष्टिरूपेण सदसच्चाभवत्प्रभुः || १८२ ||
विश्वाभूतानि पादोऽस्य त्रिपाद्ब्रह्मामृतं दिवि |
गुह्येश्वरः स एवायं महादेवो मुनीश्वराः || १८३ ||
उपादानोपकरणप्रयोजनविवर्जितः |
स्वेच्छामात्रेण सकलं सृजत्यवति हन्ति च || १८४ ||
पिदधात्यनुगृह्णाति तथाप्यानंदलीलया |
ज्ञानशक्त्योमया साकं रन्तुकामो निरुद्यमः || १८५ ||
सृष्टिक्रियायां ब्रह्माणं सृष्टिस्थित्योश्च माधवम् |
सृष्टिस्थितिलयेष्वेकं रुद्रं पशुपतिं प्रभुम् || १८६ ||
अभिषिच्याकरोदीशः स्वाज्ञया तदधीश्वरान् |
तस्माद्रुद्रोऽधिकस्ताभ्यां पशूनां पतिरीश्वरः || १८७ ||
प्रत्यासत्त्या शिवस्यायं नामधामादिभिः समः |
सूत्रधारेण महता गुहेशेनाभिनंदितः || १८८ ||
पृ० २४) अध्यास्ते कार्यकैलासे शृंगे मेरोः समुन्नते |
गुहेश्वरस्तु सर्वज्ञः सच्चिदानंदसुंदरः || १८९ ||
अनेककोटिब्रह्मांडमहाभांडातिगे पथि |
निरंजनचिदाकाशे नित्यमुक्तैः समन्वितः || १९० ||
महाकैलासशिखरे प्रभुरास्ते चिदंबया ||
ऋषय ऊचुः |
सूत पौराणिकश्रेष्ठ ब्रूह्यस्माकमशेषतः |
महाकैलासमाहात्म्यं यज्ज्ञात्वा मोक्षमाप्नुयात् || १९१ ||
सूत उवाच |
शृणुध्वमृषयः सर्वे सावधानेन चेतसा |
किमस्ति शिवभक्तेषु रहस्यं भुवि मादृशाम् || १९२ ||
अयं मोक्षकरः प्रश्नो भवतां योगिसंमतः |
महाकैलासमहिमा शक्यते केन वर्णितुं || १९३ ||
ध्यानस्थानेषु सर्वेषु महाकैलासवैभवं |
ध्यात्वा तदूर्ध्वशिखरे ध्येयो देवः सदाशिवः || १९४ ||
अनेककोटिब्रह्मांडान्यसंख्यातैर्महागणैः |
रक्षितानि महेशस्य महिम्नावहितानि हि || १९५ ||
तेषामनंतकोटीनां ब्रह्मांडानामथोपरि |
निरंजनमहाकाशे निर्विकल्पे निरामये || १९६ ||
पृ० २५) महाकैलासवर्णनम् |
देशकालापरिच्छेद्ये वेद्ये वेदान्तवेदिभिः |
महाकैलासशैलोऽयं वर्तते शंकराज्ञया || १९७ ||
समुन्नतो योजनानां षष्टिकोटिभिरायतः |
त्रिंशत्कोटिभिरानंदनिलयस्तेजसां निधिः || १९८ ||
शिखरं नवरत्नाढ्यं तस्योर्ध्वं भाति सुव्रताः ||
सदाशिवस्य नगरी वर्तते तत्र मुक्तिदा || १९९ ||
विचित्ररत्नप्राकारगोपुराट्टालकावृता |
तन्मध्ये दिव्यभवनमवाऽऽन्मानसगोचरं || २०० ||
रत्नस्तंभसहस्राढ्यं राजते तस्य मध्यमे |
रत्नपांचालिकारूपसर्वावरणशक्तिभिः || २०१ ||
समुज्ज्वले महाचक्रराजसिंहासनोत्तमे |
चिदंबरमहायंत्रलसद्बैंदवमंडले || २०२ ||
वीरासने समासीनो महाशंभुः सदाशिवः |
पंचविंशतितत्वोद्यत्पंचविंशतिसन्मुखः || २०३ ||
पंचाशन्मातृकास्त्रोद्यत्पंचाशत्करमंडितः ||
वामांकपीठिकासीनज्ञानांबालिंगनोत्सुकः || २०४ ||
किरीटहारवलयकेयूरांगदकुंडलैः |
माणिक्यखचितैरन्यैर्भूषणैरभिभूषितः || २०५ ||
पृ० २६) सत्यज्ञानानंदघनः सहस्रांशुसहस्रभाः |
लक्ष्यलक्षणशून्यश्रीरप्राकृततनुर्महान् || २०६ ||
यतो वाचो निवर्तंते अप्राप्य मनसा सह |
स एष सर्वशक्तीनामाश्रयो बहुभिर्वृतः || २०७ ||
रुद्रैः सिद्धैश्च मुनिभिः सर्वैश्वर्यसमन्वितः |
नित्यमुक्तैर्निराभासैरैक्यविज्ञानतत्परैः || २०८ ||
उपास्यमानः सततं सर्वव्यापी सनातनः |
भक्तानुग्रहणार्थाय परमात्मा विराजते || २०९ ||
रत्नश्रृंगस्य परितस्तस्यान्यानि द्विजोत्तमाः |
भान्त्येकादशश्रृंगाणि सूर्यकांतमयान्यहो || २१० ||
मूर्तयस्तेषु पंचान्याः शंभोः षडपि मूर्तयः |
पंचविंशतिसंख्याका मूर्तयोऽन्याश्च सुव्रताः || २११ ||
निवसंत्येकपंचाशत्संख्याका मातृकास्तथा |
तेषां च परितः शृंगाण्यग्निकान्तमयानि हि || २१२ ||
एकोत्तरसहस्रं स्युस्तेषु ध्यायन्त ईश्वरम् |
वसन्त्यष्टोत्तरशतं तांडवेशस्य मूर्तयः || २१३ ||
सप्तकोटिमहामंत्रदेवताश्च वसन्ति हि ||
शृंगाण्येकाधिकदशसहस्राण्यभितस्ततः || २१४ ||
पृ० २७) भान्त्यच्छस्फटिकाभानि महान्ति गिरिशाज्ञया |
तेषु विघ्नेश्वरस्कंदौ महाशास्ता च भैरवः || २१५ ||
नंदिभृंगिमहाकालप्रमुखाश्च गणाधिपाः |
धर्मश्चतुष्पाद् वृषभः कामधेनुरभीष्टदा || २१६ ||
दुर्गाद्याः शक्तयो भक्ताश्चंडीशाद्यास्तथाऽनिशम् |
पंचास्त्रमूर्तयः शैव्यो निवसंति शिवाज्ञया || २१७ ||
तेषां शृंगाणि परितो रत्नकांतानि संततम् |
लक्षमेकोत्तरं विप्रा मनोज्ञानि विभांति हि || २१८ ||
प्रत्यक्शृंगगताः शिवार्चनपरास्तेषां स्थिता विष्णवो
ब्रह्माणः शिवलिंगपूजनपरास्तेषामुदीचीनगाः |
प्राच्या शृंगगताः पुरंदरमुखा ध्यायन्ति तं लोकपा
याम्येषु प्रवसन्ति सन्मुनिगणाः श्रीदक्षिणामूर्तिगाः || २१९ ||
एकोत्तरदशलक्षाण्यभितः शृंगाणि तेषां स्युः |
सौवर्णानि मुनींद्रास्तेषु च भूताधिपाः सन्ति || २२० ||
पुनरपि दशायुधानि श्रीरुद्रास्सिद्धगरुडगंधर्वाः |
विद्याधराश्च सुरभिर्मणिकल्पकशंखपद्मनिधयश्च || २२१ ||
रमणीयरुद्र-
पृ० २८ व पृ० २९ उपलब्ध नही है |
पृ० ३०) * * * * * * * * * * * * * * * * * * *
* * * * * * * * * * * * कैलासशैलोत्तमः |
एषोऽन्तःप्रलयेषु सत्यमहिमा संवर्धतेंऽडोपरिद्राक्
पश्यन्ति न पापलेशसहिता रक्षःप्रकृत्याश्रिताः || २३५ ||
महाकैलासशैलेऽस्मिन् सच्चिदानंदनिर्भरे |
सर्वानुग्राहको देवः सर्वव्यापी सदाशिवः || २३६ ||
महेश्वरादिब्रह्मान्तसृष्टिस्थित्यंतकारकः |
उपासकानुग्रहार्थं चिच्छक्त्या क्रीडति प्रभुः || २३७ ||
स एष रुद्रं सर्वेषां सृष्टिस्थित्यंतलक्षणे |
आधिपत्येऽभिषच्यैनं कैलासेऽस्थापयत्प्रभुः || २३८ ||
सोऽपि मेरोरुदक्शृंगे ब्रह्माच्युतपुरोपरि |
राजताद्रिरिति ख्यातो रुद्रावासः सतां गतिः || २३९ ||
सदाशिवाज्ञया सोऽपि सत्यज्ञानघनात्मकः |
महाकैलासवत् पुण्यः पुण्यात्मभिरुपास्यते || २४० ||
तावन्मानोच्छ्रयायामस्तावच्छृंगसमन्वितः |
सदाशिवस्य ये पुत्रा ये भक्ता ये महाजनाः || २४१ ||
ते सर्वे रुद्रदेवस्य स्वांशैरेव तथाविधाः |
तद्वत्प्रभुत्वं रुद्रस्य तत्प्रसादादभूद्द्विजाः || २४२ ||
पृ० ३१) पंचवक्त्रधरो रुद्रः सद्योजातादिनामभिः |
दशबाहुः शिवाख्याभिः सर्वाभिः समलंकृतः || २४३ ||
तच्छक्त्याधिष्ठितः शश्वत्तच्चिह्नैरपि चिह्नितः ||
मायामयोऽयं सकलो निष्कलः केवलः पुमान् || २४४ ||
ब्रह्मविष्ण्वोरधिष्ठाता जगतः कारणं परं |
गुणत्रयमयी माया शक्तिर्यस्य प्रशस्यते || २४५ ||
वास्तवेन चिदात्मैषा गौरी गिरिवरात्मजा |
रुद्रस्य भार्या कल्याणी शिवोमा पार्वती द्विजाः || २४६ ||
तया क्रीडन्महेशोऽयं महेशस्य कृपाबलात् |
विष्णुब्रह्मादिभिः सेव्यः श्रीकंठाख्यो जगत्पतिः || २४७ ||
अध्यास्ते कार्यकैलासं जंबूद्वीपस्थमात्मना || २४८ ||
इति किल कथितं वः सर्वशास्त्रार्थसारं प्रभुचरितमिदानीं
सृष्टिपूर्वं मुनींद्राः |
पठति परमभक्त्या यः शृणोति त्रिलोक्यां स गुरुकरुणयैव
प्राप्नुयादीप्सितार्थान् || २४९ ||
पृ० ३२) इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां
नैमिषारण्यवर्णनसूतागमनृषिकृतप्रश्नसूतकृतगुरुध्यानतदीयमहि
मानुवर्णनपरमात्मस्वरूपनिरूपणपंचकारणसृष्टिक्रमोपन्यासमहाक
इलासवर्णनप्रारंभगतिर्नाम प्रथमोऽध्यायः ||
पृ० ३३) श्रीकैलासवर्णनम् |
अथ द्वितीयोऽध्यायः ||
ऋषय ऊचुः |
कथितं भवता सर्वं माहात्म्यं परमेशितुः |
महाकैलासशैलस्य प्रभुलीलां वदाऽधुना || १ ||
सूत उवाच |
श्रीसिद्धवीरगुरुपादसरोजभक्त्या निर्धूतसंसृतिभयाः
परमानुभावाः |
शृण्वन्तु सर्वमुनयः श्रुतिसौख्यशीलां भक्ताः पदार्थविमलां
प्रभुलिंगलीलां || २ ||
तया सरस्वतीशक्त्या सह शंभोरनुज्ञया |
ब्रह्मांडसृष्टिमकरोद्ब्रह्मा लोकपितामहः || ३ ||
क्षित्यादिसत्यलोकान्तं पातालाद्यतलान्तकम् |
प्रासादन्यायतो लोकान्ससर्ज स पितामहः || ४ ||
भूतसृष्टिक्रमेणैव पंचीकरणपूर्वकम् |
सृष्ट्वा ब्रह्मांडपिंडांडे संस्थाप्य गिरिशाज्ञया || ५ ||
प्रकृतौ विलयं याता ये जीवास्त्रिविधाः स्मृताः |
गरुडाः किन्नरा यक्षा गंधर्वा मुनयः सुराः || ६ ||
मनुष्या उरगा दैत्याः सोमसूर्याग्नयस्तथा |
स्त्रीपुंनपुंसकाख्या ये जीवसंघास्तथा परे || ७ ||
तेषां भोक्तृपदार्थानां भोग्यानि विविधानि च |
भोगायतनसंघांश्च सृष्ट्वा तत्र चतुर्मुखः || ८ ||
नामरूपाध्वभेदेन षट्प्रकारमिदं जगत् |
पृ० ३४) यत्ससर्ज तदाधारो महामेरुरभूद्द्विजाः || ९ ||
तदूर्ध्वशिखरे यस्तु कैलासाख्यो महागिरिः |
महिमा वर्ण्यते केन तस्याद्भुतनिधेर्महान् || १० ||
सर्वस्य सृष्टिकार्यस्य कर्तैको यः सदाशिवः |
स एव रुद्रो भगवान्भूत्वाऽध्यास्ते गिरिं यतः || ११ ||
मादृशाश्चर्मचक्षुष्काः शक्नुयुर्वर्णितुं कथम् || १२ ||
शुद्धसत्वगुणः सोऽयं रजताकारतां गतः |
देदीप्यमानः प्रभया नयनानन्दकारकः || १३ ||
मूर्तः कैलासशैलोऽभूदमूर्तोऽपि शिवाज्ञया |
तत्र भोगपुरं रम्यमानंदरसनिर्मितम् || १४ ||
वेदैरलभ्यमौन्नत्यं प्राकारस्यास्य भूसुराः |
शास्त्रैरनवगाह्यं तत्खेयगांभीर्यमीर्यते || १५ ||
आगमैरनभिष्वंग्या महाट्टालसमुन्नतिः |
अहर्निशमभेदेन प्रकाशोऽस्याप्यलौकिकः || १६ ||
शुद्धभक्तिर्महाराजवीथी तस्यां विराजते |
सोऽहंतैवमणिप्रोतदिव्यतोरणबंधनम् || १७ ||
सादाख्यसूक्ष्मतत्वानि रम्यहर्म्याणि तत्पुरे |
पृ० ३५) श्रीरुद्रसभावर्णनम् |
ज्ञानवैराग्यसंपत्तिसांद्राणि सदनानि च || १८ ||
गणनातीतमहिमा कैलासोऽयं हरालयः |
निजानंदमयं तत्र महेशस्यास्ति मंदिरम् || १९ ||
तन्मध्ये वृत्तिनिर्मुक्तचित्ताख्यद्वारशोभितम् |
नादबिंदुकलातीतं भाति चास्थानमंडपम् || २० ||
अष्टैश्वर्यकलाजुष्टरत्नकुट्टिमघट्टितं |
अतिरोहितसुच्छायमस्ति तत्रोन्नतं सवः || २१ ||
तत्राष्टमातृविलसत्प्रणवाग्रवेद्यां सुज्ञानयोगसमलंकृतदिव्यपीठे
|
भद्रासनैकरसिकः परमः सदाश्ते रुद्रो निजानुभवयोगसमाधिलीलः ||
२२ ||
नित्यसत्यनिरुपाधिनिरंशः शुद्धबुद्धपरिपूर्णचिदात्मा |
निर्मलो निरुपमो निरवद्यो निर्गुणो निगमगोचर एकः || २३ ||
तद्द्वारदेशमधितिष्ठति धर्मलक्ष्मीस्तद्वाजिगेहमधितिष्ठति
वेदलक्ष्मीः |
तन्मूर्तिभावमधितिष्ठति शान्तिलक्ष्मीस्तन्मूलकोशमधितिष्ठति
मोक्षलक्ष्मीः || २४ ||
प्राणापानौ तस्य बाहू निरीहौ तस्यांघ्री द्वावाद्यनादी प्रसिद्धौ |
मूर्तिस्तस्य श्रीमदोंकारनादप्रादुर्भूतानंकशुभ्रांशुरेखा || २५ ||
पृ० ३६) रुद्रस्य तस्य त्रिगुणांकवामा वामांकपीठीमधिरुह्य माया |
वशीकृता तेन तथाऽपि साऽभूज्जगत्सिसृक्षोरभिमानहेतुः || २६ ||
या संकल्पविकल्पपादयुगला लीलावती स्नेहमोहो-
द्यद्बाहुलता मदोद्धतकटिः स्यात्कामलोभस्तनी ||
ज्ञानाज्ञानविलोचना च ममतावक्त्रा सतां मोहिनी-
मंगीकृत्य विराजते त्रिभुवनीसृष्टिस्थितिध्वंसकृत् || २७ ||
समस्तसौंदर्यनिधेरमुष्याः कनद्विभूषामणिकांतयस्ताः |
तदुल्लसद्भोगिफणामणिश्रीव्रजैर्मिलंति स्म समं समंतात् || २८ ||
महेश्वरापांगविलोकनानि नितंबिनीलज्जितदृग्विलासाः |
परैरदृश्येन पथा मिलित्वा व्रजन्ति तादात्म्यमहो मुनींद्राः || २९ ||
पुरारिचारुस्मितदत्तलज्जा स्मितैः पुरंध्री स्मरमुद्गिरन्ती |
तनोति तेनाशु मनोविकारं विकारशून्यस्य च तस्य चित्रम् || ३० ||
कलंकशून्यस्य सुधाकरस्य कर्पूरसंवासितचंद्रिकेव |
सुवर्णरेखेव सुगंधिसार्दा मूर्तिद्वयी तत्र विराजते सा || ३१ ||
पृ० ३७) किंचापादतलावलंबितजटामूलालवालोल्लस-
द्गंगातुरंगतरंगसंगतमहापीठाख्यकंदांचितः |
रत्नस्यूतविभूषणावलिदलोदन्तप्रसूनस्तया
वल्ल्येवाखिलमूलकारणवटः शंभुः स्वयं राजते || ३२ ||
कैलासे कमनीयकंकणझणत्कारोल्लसच्चामरै-
रन्यैर्बीजनसाधनैरपि पतद्ग्राहैः कराभ्यां धृतैः |
तांबूलाढ्यदुकूलयंत्रनिचयैर्भृंगारुभिश्चारुभिः
सेवंते शिवकन्यकाः पशुपतिं देवं मृडानीधवं || ३३ ||
अन्याश्च रुद्रकन्याः शिवयोः समयोक्तसेवया धन्याः |
सौंदर्यदर्शनोचितदर्पणघटनैश्च तालवृंतैस्तैः || ३४ ||
नवरत्नभद्रपीठे स्थितयोः शिवयोश्च पार्श्वयोरुभयोः |
रुद्राश्च रुद्रकन्या गणनातीता भजन्ति सर्वत्र || ३५ ||
सा शक्तिरात्मदयितं त्रिभिरात्मगुणैश्च सेवितुं सततं |
जनयांबभूव तनयान्विनयावनतानसंख्यातान् || ३६ ||
तेष्वेषु त्रिविधेषु मातुरधिकप्रीत्या महत्वं गता
रुद्राः शुभ्रतनूभृतो हरिजटालालाटनेत्रान्विताः |
पृ० ३८) अर्धांगाकलितांगना धृतवियद्गंगाः कलामौलयो
रौद्रोद्रिक्तरसा भजंत्यगणिताः सांबं सभामंटपे || ३७ ||
किंचोरःस्थितकौस्तुभाः शिवपदध्यानावधानोत्सुका
लक्ष्मीशाः कुसुमासनास्त्रजनकाः पद्मायताक्षाः परे |
सेवंतेऽच्युतकोटयोऽनवरतं सत्वोत्तमाः पुत्रकाः
सांबं सद्गुरुमादिमादिमगिरां तद्वामभागस्थिताः || ३८ ||
वेदानां सदनानि चारुवदनान्युद्यन्ति मंदस्मितै-
र्बिभ्राणाः कनकोपमानतनवो वक्त्रेषु वामाभृतः |
श्रित्वा दक्षिणभागमंबुजभुवः कुर्वंति सेवां विभो-
रीशस्यागणिता रजोगुणयुताः पुत्रास्तृतीयाः परे || ३९ ||
तत्पश्चिमे गरुडकिन्नरयक्षसिद्धगंधर्वसाध्यविबुधैः
सुरनाथसंघाः |
स्थित्वा भजन्ति परितः परिपूर्णभावाः श्रीरुद्रमाद्यमधिपं
जगतामसंख्याः || ४० ||
पुरतः परितः पुटपाकपरिस्फुरदिंदुरमंदहरस्मितरुक् |
भववाहनभावमगाधिवसन् वृषभः शुशुभेऽभिमुखं शिवयोः || ४१ ||
पृ० ३९) तत्र दक्षशिरोगंडशैलायितभुजाबलः |
भद्रकालीपतिर्वीरभद्रो रुद्रं निषेवते || ४२ ||
शिवानंदस्योपमानं शंकराभ्युदयाश्रयः |
गिरिजेशसुखः स्थित्या आलवालो मृडस्य च || ४३ ||
लावण्यपूर्णवदनमुकुरः परमेशितुः |
सत्प्रभावनिधिः साक्षात्सभिकानभिनंदयन् || ४४ ||
भृंगीशोऽप्यंगजारातेर्हृदये मुदमर्पयन् |
प्रागुदग्दिशि देवस्य तनुते नाट्यचातुरीम् || ४५ ||
यां दिशं पश्यति शिवस्तत्रत्या नमिताननाः |
यानाह किंचित्ते सर्वे वदंत्योमोममोमिति || ४६ ||
स्वामिन्महाप्रसादोऽयं प्रसादोऽयमनुग्रहः |
इत्युक्त्वा तानि तान्याशु कार्याणि घटयन्ति च || ४७ ||
महादेवो यथा वक्ति वहन्ति शिरसा तथा |
गोपतिश्रीपतिब्राह्मीपतिगीष्पतयोऽनिशम् || ४८ ||
समुद्रान्सप्त चाचान्तुं न्यंचितुं कांचनाचलं |
ब्रह्मांडभांडकुहरं करेणैव विलोडितुम् || ४९ ||
यमदंष्ट्राः समुद्धर्तुं समर्था ये महाबलाः |
पिशाचभूतवेतालास्ते कृतांजलयोऽनिशम् || ५० ||
पृ० ४०) शिवाज्ञां शिरसा धृत्वा सेवमाना वसन्ति हि |
दुर्गाविनायकौ सप्त मातृकाः कालभैरवः || ५१ ||
परिवृत्य तथाहेलिप्रमुखास्तमुपासते |
स्थिरभक्तिसमायुक्ताः समेत्योभयपार्श्वयोः || ५२ ||
आदित्या वसवो रुद्रा विश्वेदेवास्तथाऽश्विनौ |
गौतमात्रिभरद्वाजकण्वगालवकौशिकाः || ५३ ||
मार्कंडेयवसिष्ठाद्यास्तत्र तत्र शिवाज्ञया |
तद्दर्शनोत्सुका आसन्नानतांगाः समंततः || ५४ ||
गौरीभूषणकान्तयः शिवफणाभृत्कुंडलादित्विष-
स्तन्मंदस्मितचंद्रिकारदरुचो भृंगीश्वरस्योज्ज्वलाः |
रंभाद्यप्सरसां रसार्द्रमनसां हारच्छटाच्छप्रभाः
शक्रादिद्युसदां किरीटरुचयो दीव्यद्दिवादीपभाः || ५५ ||
किंचोद्यत्करदीपिका शतशतच्छायाः समस्ता अमूः
केशाकेशिकथां मिथो विदधति प्रायः सभायां विभोः |
यस्यां साभ्यधिकप्रभासमुदये संलीनसामाजिका
राजद्राजतशैलराजशिखरे ज्योतिर्मयी राजते || ५६ ||
तदा गौरीमंदस्मितवदनसौंदर्यलहरी
विहारित्रैगुण्यस्फुटकलितनेत्रांबुजयुगा |
स्वयं माया सर्वेश्वरमपि वशीकृत्य महिता प्रणम्याह प्रेम्णा
हरमभयदं स्वप्रियतमम् || ५७ ||
पृ० ४१) श्रीगौरीशंकरसंवादः |
गौर्युवाच |
देव सभायां भवतो भावजसंहारसेवमानास्त्वां |
येऽवस्थितास्त एते किं सर्वे चिन्मयास्त्वदात्मानः || ५८ ||
किंवा जन्मविनाशौ भूयो भूयो महेश गच्छन्ति |
उपदिश ममेति कृपया स तया पृष्टः पुनः स्मयन्प्राह || ५९ ||
शिव उवाच |
शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यमिदं वचः ||
यच्छ्रुत्वा मुच्यते जन्तुर्जन्मसंसारबंधनात् || ६० ||
मयि भक्तिर्द्विधा नृर्णां मुख्यगौणविभेदतः |
निष्कामभक्तिर्मुख्या तु गौणी स्यात्कामसंयुता || ६१ ||
नामरूपक्रियास्त्यक्त्वा ये भक्ताः कामवर्जिताः |
मामाश्रयन्ति सततं मामेव प्राप्नुवन्ति ते || ६२ ||
मंदप्रज्ञास्तु ये भक्ता अयुक्ताः फलकांक्षिणः |
उपर्यधश्च ते देवि यातायातं प्रयान्ति हि || ६३ ||
इत्युक्त्वा विररामाशु भगवांश्चंद्रशेखरः |
पृ० ४२) देवी निशम्य मुदिता पुनश्चिंतां चकार सा || ६४ ||
मदात्मकमिदं सर्वं जगत्स्थावरजंगमं |
जाग्रत्यां मयि सर्वत्र ममाज्ञां कोऽनुलंघयेत् || ६५ ||
निष्कामो मोक्षमाप्नोतीत्यक्तं यच्छंभुना वचः |
तत्खपुष्पसमं कामो मत्पुत्रोऽसौ यतोऽधिकः || ६६ ||
शिवोऽपि कामवशगो यतोऽर्धांगं हराम्यहम् |
अहमेव परा शक्तिः सर्वस्याप्यादिकारणम् || ६७ ||
सच्चिदानंदरूपस्य शिवस्य परमात्मनः |
अनादी नामरूपे द्वे संपाद्याहं जयाम्यहो || ६८ ||
सदाशिवादिब्रह्मान्तास्सेंद्राश्चामरपुंगवाः |
मन्मायावशगाः सत्यं सर्वे विग्रहधारिणः || ६९ ||
योषिन्मुखासवासक्तास्तन्मूर्तिध्यानतत्पराः |
तदंगालिंगनासक्ता जीवंत्येव न संशयः || ७० ||
स्त्रीपुंमयमिदं सर्वं मद्रूपं सचराचरम् |
ममाभिमानः स्त्रीरूपे तत्राप्यतिशयेन यत् || ७१ ||
अतोऽहमेव सर्वस्मादधिका सर्वतोमुखी |
इत्यहंकारदुर्वारा सा माया प्रोद्धताऽभवत् || ७२ ||
पृ० ४३) अल्लमशब्दनिर्वचनम् |
अथ तस्या मतिं ज्ञात्वा सस्मारेशोऽल्लमप्रभुम् |
सर्वव्यापिनमीशानं योगेशं सत्यचिद्घनम् || ७३ ||
ऋषय ऊचुः |
सूत सर्वार्थतत्वज्ञ शिवभक्तिसुधांबुधे |
अल्लमप्रभुरित्युक्तः कोऽयं रुद्रेण संस्मृतः || ७४ ||
प्रभुरल्लम इत्येष वाचकोऽयं महामुने |
रूढ्या योगेन वोभाभ्यां व्युत्पत्तिस्तस्य कीदृशी || ७५ ||
अव्युत्पन्नोऽथवा शब्दः श्रौतो वा लौकिकोऽथवा |
श्रोतुमिच्छामहे सर्वे वयं कथय सुव्रत || ७६ ||
सूत उवाच |
शृणुध्वमृषयः सर्वे सावधानेन चेतसा |
प्रभावल्लमशब्दस्य प्रवृत्तिं शास्त्रसंमताम् || ७७ ||
अकारः सर्ववर्णानामादिभूतः सनातनः |
समस्तमंत्रबीजस्य प्रणवस्यादिमोऽप्ययम् || ७८ ||
अमृतत्वादमूर्तत्वादभयत्वादजत्वतः |
अकारः प्रोच्यते ह्यात्मा श्रुतियुक्त्यनुभूतिभिः || ७९ ||
यच्छब्दसंस्कृता बुद्धिर्भवेद्यच्छब्दरूपिणी || ८० ||
तदादिवर्णश्रवणात्तच्छब्दार्थं स्मरेद्ध्रुवम् |
अतोऽकारश्रुतेर्बुद्धिरजाद्यात्मकमीश्वरम् || ८१ ||
पृ० ४४) अव्यक्तं भावयेदर्थमनाद्यंतं परं शिवम् |
अकारः सर्ववाक्सैषा व्यक्ता स्पर्शोष्मभिः परा || ८२ ||
नानारूपा बहुतरा भवतीति श्रुतिर्जगौ |
अक्षराणामकारोऽसौ शिव इत्याह च स्मृतिः || ८३ ||
अनुत्तरस्तथाम्नायो विश्राम्यति पराक्षरे |
प्रणवप्रकृतिः सोऽयमकारो गीयते बुधैः || ८४ ||
सर्वाऽपि मातृका तद्वदकारे जायते पुनः |
लीयते वर्तते तस्मादकारः सर्वकारणम् || ८५ ||
नामरूपप्रपंचस्य ह्यधिष्ठानं चिदात्मकम् |
तद्ब्रह्म लक्ष्यते तस्मादकारेण मुनीश्वराः || ८६ ||
अभिधानं चाभिधेयमेकं हि परमार्थतः |
संविन्मात्रं यतः सत्तालक्षणं ब्रह्म शाश्वतम् || ८७ ||
तस्माच्छब्दार्थयोरैक्यं लाघवात्पंडितोत्तमाः |
एवं सति हि शब्दानामर्थाभिव्यंजका न च || ८८ ||
अपूर्वा कल्प्यते शक्तिः प्रकाशत्वात्परात्मनः |
एकैव सत्तासंबंधिभेदाद्भिन्ना गवादिषु || ८९ ||
जातिः सैव हि शब्दार्थस्तस्यां शब्दा व्यवस्थिताः |
एक एव हि शब्दोऽयमकाराख्यश्चिदात्मकः || ९० ||
पृ० ४५) वाच्यभेदानुसारेण भिद्यते बहुधा स्वयम् |
उपाधिविलये यद्वत्सुवर्णं कुंडलादिकम् || ९१ ||
तथाखिलं शब्दजालमकारात्मकमास्तिकाः |
तदेवैकाक्षरं ब्रह्म वेदान्तेषु विनिश्चितम् || ९२ ||
श्रवणात्तस्य मननाद्ध्यानात्संदर्शनादपि |
ये तदाकारतां प्राप्तास्त एतेंतः प्रकीर्तिताः || ९३ ||
आचरंत्य इवेत्यर्थे क्विबाचारार्थ इष्यते |
तुगागमे च तल्लोपे नुमि रूपं प्रचक्षते || ९४ ||
ते च सिद्धा महाभागा वियन्मात्रशरीरिणः |
तान् लातीत्यनुगृह्णाति या मा साऽस्यास्ति सोऽल्लमः || ९५ ||
मीयते हि यया सा मा ज्ञानशक्तिः प्रशस्यते |
सैव विद्या परानंदा मायानिर्मूलनक्षमा || ९६ ||
विद्यायां रमते नित्यं मायां हेयां श्ववद्रहेत् |
अनेनैव निरुक्तेन वीरमाहेश्वरः स्मृतः || ९७ ||
प्रभुर्विश्वाधिको यस्मात्सोऽल्लमप्रभुरुच्यते |
योगेन रूढ्या चोभाभ्यामल्लमोऽयं सनातनः || ९८ ||
किंचाक्काल्लांबांबिकाद्या अंबार्थाः परिकीर्तिताः |
पृ० ४६) सा माया रुद्रमहिषी सर्वस्याल्ला प्रकीर्त्यते || ९९ ||
सभायां गर्वितां तां प्रत्युक्त्वा तत्राल्लमाल्लमा |
इत्यल्लमाप्रभुरिति प्रोच्यते प्रमथोत्तमैः || १०० ||
प्रोक्ता प्रभोर्दिव्यनाम्नः प्रवृत्तिर्मुनिपुंगवाः |
व्युत्पत्तिश्चाधुना तस्य लीलां शृणुत सादरं || १०१ ||
स्मृतोऽथ रुद्रदेवेन प्रभुर्विश्वाधिको गुरुः |
सुज्ञानसिद्धैः सर्वज्ञैः प्रसिद्धैः सिद्धपुंगवैः || १०२ ||
सेव्यमानो ललाटोद्यत्सितभस्मत्रिपुंड्रवान् |
बहिःप्रसरदंतस्थतेजोराजिलसत्तनुः || १०३ ||
आजानुबाहुः सुशिरा आनंदरसनिर्भरः |
करांघ्रिनखरेखाभिर्ज्ञापयन्तीभिरुज्वलः || १०४ ||
राजयोगैकसाम्राज्यसौभाग्यं सर्वसुंदरः |
मायाकोलाहलमहामायामदविभंजनः || १०५ ||
अविद्यातूलवातूलस्तमःसागरवाडवः |
अज्ञानध्वांतचंडांशुः प्रधानोद्यद्गजांकुशः || १०६ ||
अव्याकृतसमुन्मूलः प्रकृतिप्राणहारकः |
अव्यक्तमूर्धपाषाणस्त्रिगुणारण्यपावकः || १०७ ||
पृ० ४७) शिवसभायाःप्रभुसमागमनम् |
इत्यादिबिरुदांकैः स्वैः संस्तुतो योगिपुंगवैः |
मुनिभिर्मौलिघटितकृतांजलिपुटैःस्तुतः || १०८ ||
सिद्धविद्याधरमरुद्यक्षगंधर्वकिन्नरैः |
कृतपुष्पांजलिकरैस्तत्र तत्र नमस्कृतः || १०९ ||
पल्यंकिकां समारुह्य माल्यैर्मंदारसंभवैः |
अल्लमप्रभुदेवोऽसावाजगामांबराध्वना || ११० ||
स द्रुतं प्रकृतिमुद्रितात्मनश्चिद्रसामृतपदैर्विनिद्रयन् |
भद्रभद्र इव भासयन्दिशो रुद्रसन्निधिमवाप्तवान्प्रभुः || १११ ||
प्रभुमागतं समधिगम्य शंकरः सभया सहैव निजसिंहपीठतः |
अवरुह्य वागमृतधारया स्वयं बहुमानयन्स्वसभिकैरपूजयत् || ११२ ||
इदमर्घ्यमर्घ्यमिदमंघ्रिसेचनं मधुपर्क एष इति शांभवोदितम् |
वचनं निशम्य परिपालयन्दृशा शिवमाससाद तरसा कृपानिधिः || ११३
||
मदनांतकोऽपि हृदये तमर्चयन् गुरुमात्मनोऽपि परमात्मभावितम् |
निजपीठिकार्ध उपविश्य सादरं स्वयमप्यधास वदनेन भावितः || ११४
||
पृ० ४८) अथ तन्महत्वपिहितात्मशांबरीं निजभामिनीमविगणयय
शंकरः |
परिपूर्णतत्वपरमार्थतत्कथाकथनैर्निनाय घटिकार्धमात्रकम् || ११५
||
विहितेष्टगोष्ठिरथ तेन शंभुना प्रभुरन्यगोचरतनुः स्वयंप्रभः |
निरवद्यनिर्मलनिरंजनाद्वयो निरगात्क्षणेन निजयेच्छयैव सः || ११६ ||
महतां निरंजनपदानुषंगिनां महिमा तथैव खलु मौनिसत्तमाः |
भुवनावनाय पुरमाश्रयन्ति ते स्वयमंबरांगणनिरंगसंगिनः || ११७
||
अथ तं महात्मभिरमात्रमात्रकैर्वरयोगिभिः सह तिरोहितं प्रभुम् ||
अवधार्य गौर्यहह कोऽयमित्यसौ हृदि शंकयैव पतिमाह सस्मिता || ११८ ||
हर देवदेव वरचिन्महोदधे गुरुरेक एव भगवान्भवान् स्मृतः |
परिपूर्णसत्यसुखचिद्घनो महान् महतोऽप्यणोरणुतरोऽसि सर्वगः || ११९ ||
मम सर्वतत्वकलिताकृतेः पतिस्त्वमखंडचिद्रसघनो विभावितः |
इतरांस्तु वामचरणांबुजादधः पतितान्करोमि विबुधान्मुनीनपि || १२० ||
अतिचित्रमेतदवगत्य कोऽप्ययं कृतपूजनो मुनिसुरासुरादिभिः |
पृ० ४९) श्रीगौरीशंकरसंवादः |
बिरुदांकनैरविगणयय मां स्तुतः पतिदिव्यपीठमधिरुह्य निर्भयः ||
१२१ ||
भवता किमर्थकलंकवर्त्मना परिपूजितो मधुरवाग्भिरादृतः |
भयभक्तिभागसि तदा तदर्चने वद मे महेश मदमस्य वारये || १२२ ||
वसति क्व वैष जटिलोऽकुतोभयः क्व च वा गमिष्यति पुनः क्व वर्तते |
तव तेन किं किमिदमस्य सेवनं कथमिष्टतेह तव भो विभो वद || १२३ ||
इति पृष्ट एष निजभार्ययार्यया स्मयमानवक्त्रसरसीरुहः शिवः |
निजदन्तकान्तिपरिपूर्णदिक्तटो दयितामुवाच स चमत्क्रियं वचः || १२४ ||
अयि बालिके शृणु मुनिः पुरा पुराविदबोधदूरनिरहंक्रियाभयः |
निजबोधसंपदभिधात्मभार्यया सुचिरं चचार परमाद्भुतं तपः ||
१२५ ||
परमात्मरूपसुतकांक्षया मयि स्थिरभक्तिभाजि सुचिरं तपस्यति |
निरुपाधिकोज्ज्वलतनुर्ममाव्ययो तनयो बभूव दयितेऽल्लमस्तयोः || १२६ ||
महिमानमस्य न हि वेद्मि बालिके मुकुरं विनैव मुखमस्य सत्कृपाम् |
पृ० ५०) अहमप्यनार्यगुणभावितः स्वयं निजकंठरत्नमिव विस्मृतिं
गतः || १२७ ||
स गुरुः समस्तजगतामगोचरो निगमागमार्थनिरवद्यविग्रहः |
मम चात्मबोधजनकोऽल्लमप्रभुः किमुतात्मनामसदृशप्रबोधवान् || १२८ ||
इति शंकरे वदति सातिगर्विता पुनराह देवमहहा किमात्थ भोः |
मम जागरे सति कुतोऽल्लमप्रभुस्त्वनुबोधशब्दजननं जगत्त्रये || १२९ ||
तमहं न वेद्मि किमु सर्वतः स्थिता मम मायया जगदिदं सदावृतम् |
मदनुग्रहो यदि जनेऽप्यकिंचने स तु वेत्ति निर्मलनिजात्मनिश्चयम् || १३० ||
अथवाखिलोऽपि भवतः प्रसादतो मदधीश्वरस्य निजतत्वविद्भवेत् |
किमिदं ममेश पुरतोऽद्य वंचनं क्व नु वाल्लमः क्व नु चिदात्मवेदनं ||
१३१ ||
अमतं मतं ह्यविदितं विदितं श्रुतिवाक्यमेतदहहा बिरुदैः |
कथमात्ववेदनमुदेति यशः किमिहाल्लमस्य कथयस्यधिकं || १३२ ||
पृ० ५१) यदि सर्व एव परतत्वविदः प्रभवंति हंत भुवनेषु तदा |
परितः करीषकृतराशितलेष्वहहा पतेयुरिह वेदशिखाः || १३३ ||
इति पर्वतेंद्रतनयावचनं गिरिशो निशम्य दरहासमुखः |
प्रभुमूर्तिकीर्तिमभितः प्रभया भुवि भानयन्निदमभाषत तां || १३४
||
ऋतमेव वच्मि सति मययधुना तव निष्ठुरोक्तिरथ तावदलं |
यदि सम्यगेव न विचार्य वदेस्तव सन्निधौ न निवसत्ययमाः || १३५ ||
अपि नो बिभेति स मृषालपितान्न वृथारटद्भिरपि संवदति |
दृढबोधनैष्ठिकतयात्मपरो न हि माययैष परिभूयत आः || १३६ ||
भुवि मध्यमोत्तमकनिष्ठजनैर्हृदयेषु तद्वदयमाद्रियते |
सरसीषु यावदुदकं कमलं परिदृश्यते हि परिमाणविदाम् || १३७ ||
परिपूर्णभावमनुभूय चिता कवलीकृताखिलजगद्विभवैः |
अखिलात्मतामनुगतैः शरणैः क्रियते न कुत्र गमनागमनम् || १३८ ||
पृ० ५२) शरणोत्तमस्य हृदयान्तरिदं सकलं विभाति पुरवन् मुकुरे |
स तु नैंद्रजालिकमिदं कलयत्यृतमित्यवाप्तपरमार्थपदः || १३९ ||
शरणः समस्तजगतां शरणं शरणार्थिना हि शरणो वरणः |
शरणो ममापि मुकुटाभरणं शरणं विनाऽस्ति न हि मे शरणम् || १४०
||
न हि नामरूपकृतभेदकथा गिरिजेऽल्लमस्य परमार्थविदः |
गगनायमानतनुरेष महान्प्रभुरव्ययः सकलवेदमयः || १४१ ||
इति शंकरे वदति सा गिरिजा विदिताल्लमप्रभुमहामहिमा |
हृदयं तथाऽपि परिशीलयितुं स्मितपूर्वमाह विनयेन पतिं || १४२ ||
जगदीश तावकवचो न मृषा हृदयं तथाऽपि न हि निश्चिनुते |
मम मायया न चलितो यदि स प्रभुरित्यवैमि परमार्थमिदम् || १४३ ||
तरुणीजनेषु तरलेषु धनेष्वभिलाषदूषितमना हि पशुः |
यदि तेषु तेषु च विरागघनः स तु संमतः पशुपतिः सुतराम् || १४४ ||
पृ० ५३) त्रिगुणा वसन्ति मम योगिमनस्तव चालनाय तव नो विदिताः |
यदि तद्विलासवशगं हृदयं भवेत्तमेव गुरुमाकलये || १४५ ||
वचनं निशम्य युवतेर्गिरिशो दरहासचंद्रकलया कलितः |
पुनराह भामिनि न वेत्ति भवत्यहहाल्लमस्य महिमातिशयम् || १४६ ||
सदसि प्रगल्भवचनानि बहून्यवमत्य बोधरहिता त्वमिह |
किमु वक्षि साक्षिणि परात्मनि ते दुरहंक्रियाल्लमविभौ न भवेत् || १४७ ||
त्यज दुष्प्रतिज्ञमुदितं यदि ते विजिगीषया स्य हृदयं वलते |
परिभूतिमेष्यसि विरागकशादलिता लतेव करितुंडहता || १४८ ||
महिषी निशम्य गिरिशस्य वचो मुहुराह देव निटिलाक्ष विभो |
अलमेतदद्य शपथं कलये कलया तमेककलया विजये || १४९ ||
अथ शांबरीं निजतमोविलसत्तनुमाकलयय पुरतोवनतां |
पृ० ५४) असमानकांतिविजिताप्सरसं सरसं विलोक्य वचनं जगृहे || १५०
||
ललितांगि देवसदसि त्वरया कथितं मया सशपथं गदितं |
विदितं त्वयानुभवती महती मुनिमानसानि मथितुं प्रथिता || १५१ ||
ममतावदत्र महिमोद्धरणे निपुणा त्वमेव नितरां जयसि |
त्वयि दत्तकार्यभरया हि मया सुखमास्यते पुरहरांकतले || १५२ ||
तव हावभावसविलासकलाकलगीतनृत्तसुचमत्कारणैः |
कुसुमास्त्रसायकशरव्यतया वशयाल्लमप्रभुममोघगते || १५३ ||
इति लालिता मृदुमधूक्तिसुधारसनिर्भरेण मनसांबिकया |
अथ शांबरी कृतललाटतटांजलिरंजसाह बहुसाहसिका || १५४ ||
जगदंब देवि तव दासिकया न मयास्त्यसाध्यमवनौ किमपि |
परमात्मनोऽपि भवकल्पिकया कृपया तवाप्यघटनं घटये || १५५ ||
विधिविष्णुरुद्रविबुधेंद्रमुखान्मदनालयैकशरणान् सततम् |
पृ० ५५) मायाविजृंभणं तामसशांबरीभूलोकसमागमनं च |
मम संविधाय महनीयधृतैः कियदल्लमस्य हृदयोद्दलनम् || १५६ ||
परिचारिकां प्रति मृदुप्रियवाक्परिपाटिका किमयि तेऽभिनवा |
भवदाज्ञयैव कृतकृत्यतमाऽस्म्यहमंब मामनुग्रहाण ततः || १५७ ||
भुवि सागरेषु दिवि मेरुगुहास्वथया रसातलबिलेषु सताम् |
हृदि वाल्लमोऽस्ति यदि तं सहसा वशमानयेंऽव तव सत्कृपया || १५८ ||
यदि यत्र कुत्र विलयं कलयेदणिमादिसिद्धिमहिमातिशयात् |
तदहं स्वरूपमनुभूय झडित्यवकृष्य चाल्लममथो वशये || १५९ ||
इति माययोक्तमवधार्य वचो गिरिजानुगृह्य गमनाय भुवम् |
क्रमुकच्छटानुगतनागलतादलपट्टिकामपि ददौ सदया || १६० ||
तदनु गिरिसुताज्ञां तामसी सैव माया |
निजशिरसि वहन्ती निश्चितात्मप्रतिज्ञा |
रजतशिखरिश्रृंगाद्वर्त्मना खेचराणामवनितलमथागादल्लमं
जेतुकामा || १६१ ||
इति निगमशिखोक्तामीप्सितार्थप्रदात्रीं प्रभुशुभगुणलीलां
श्रावयेद्यः शृणोति |
पृ० ५६) स पुनरखिलभोगानैहिकानत्र भुक्त्वा शिवपदमथ लब्ध्वा
जन्ममृत्यु न याति || १६३ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
कैलासवर्णनश्रीरुद्रसभानुभावविभावनगौरीशंकरसंवादप्रयुक्ता
ल्लमशब्दनिर्वचनप्रभुसमागमनमायाविजृंभणतामसशांबरीभूलोकस्
अमागमनप्रतिपादनगतिर्नाम द्वितीयोऽध्यायः ||
पृ० ५७) बि?व?इदेशवर्णनम् |
श्रीनंदिकेश्वरायनमः ||
अथ तृतीयोऽध्यायः ||
सूत उवाच-
श्रीसिद्धेश्वरवीरदेशिकमहासम्राट्पदांभोरुह-
ध्यानानंदविधूतचित्तकलुषा ये सत्यशौचान्विताः |
भक्ता निर्मलनित्यकृत्यनिरता मुक्तिद्रुमूलाश्रिता-
स्ते शृण्वन्तु सदाल्लमप्रभुमणेर्लीलां सुशीलादृताम् || १ ||
हरेण यस्मिन् किल कार्मुकीकृते सुरोरगाः शान्तिमनूंस्तदा पठन् |
विराजते संप्रति तस्य दक्षिणे गिरेः स कर्नाटकदेश आस्तिकाः || २ ||
बि?व?इरिति तत्र प्राकृतैरुक्तनामजनपद इह भाति क्षोणिसीमंतसीमा
|
सकलजनसमूहैः सत्यभाषाभिरामैः शिवगुरुपदभक्तैः सेव्यते
धर्ममार्गैः || ३ ||
आर्यैरनार्यदूरैर्निर्मलशीलैश्च निखिलभूपालैः |
धर्मः पदैश्चतुर्भिर्दुर्मददूरेऽत्र वर्तते देशे || ४ ||
पृ० ५८) तद्देशमध्ये शशिनः कलानां विभाति केलीसदनं विचित्रम् |
महीपुरंध्रीवदनं पुरं तदालेख्यलेख्यं बनवस्यभिख्यम् || ५ ||
तदीयसर्वार्थविशेषवर्णने समर्थ एकः सरसीरुहोद्भवः |
महेशमायागुणचित्रनिर्मितौ रहस्यमेतन्नगरं मुनीश्वराः || ६ ||
घनानि तत्रत्यवनानि भूरुहैः समंततोंऽकूरितपल्लवांकितैः ||
सकुड्मलैः पुष्पशलाटुशोभितैः फलान्वितैर्नित्यवसन्तसेवितैः || ७ ||
जंबीरजंबूफलपूरपूगैः खर्जूरमालूरकपित्थचूतैः |
अशोकरंभापनसैश्च भोज्यैः पुन्नागचांपेयकनारिकेलैः || ८ ||
पुनःपुनः कोकिलशारिकाशुकद्विरेफकेकिध्वनिराजकूजितैः |
सदा स्फुटैः पाटलजाजिमल्लिकाकुरुंटकैः कोरकितैश्च केतकैः || ९
||
स्यामन्तिकाभिः करवीरनन्द्यावर्तैः स्थलाब्जैर्गिरिमल्लिकाभिः |
वासन्तिकाकांचनकेसराद्यैः सर्वेषु कालेषु च पुष्पसांद्रैः || १० ||
सुगंधिपूर्णैर्युतपुष्पवाटीसहस्त्रसंख्यासमलंकृतं तत् |
पुरं महामायिपुरारिभक्तैः सदामहाभोगपरैर्विभाति || ११ ||
पृ० ५९) बनवसीनगरवर्णनम् |
कस्तूरिकालिप्तवितर्दिकाभिर्वीथीषु वीथीषु विशालरम्यम् |
मालासहस्रैर्मणितोरणानां सदोल्लसत्पल्लवतोरणश्च || १२ ||
किंच गंधोदकक्लिन्नशीतलस्थलसंचराः |
लसन्मलयजामोदमेदुराः पुष्पमंजरीः || १३ ||
संताड्य तद्गतास्वादं स्वीकुर्वन्तः समंततः |
फुल्लपद्माकरश्रेणीमार्गेणागत्य निर्गताः || १४ ||
मंदं मंदं मधुस्फूर्त्या समागत्य वधूजनान् ||
परिगृह्य तदीयानि हृदयानि विदार्य च || १५ ||
चालयित्वोत्तरीयाणि कृत्वा परवशात्मनः ||
तदीयप्रणयोत्पन्नकलहान्परिहाप्य च || १६ ||
कलास्थानानि संस्पृश्य चोत्पाद्योत्कलिकां प्रियैः |
पल्लवा इव तत्पुर्यां मलयानिलशावकाः || १७ ||
महेशमायासर्वस्वाः संचरन्ति पदे पदे ||
वेदशास्त्रागमाद्यासु विद्यास्वत्र द्विजोत्तमाः || १८ ||
पृ० ६०) भवन्ति प्रज्ञयांभोजभवव्यासजिगीषवः ||
अबाधयित्वा स्वजनान् परान्साधितुमुद्यताः || १९ ||
विजयं प्राप्य तत्रत्या विस्फुरन्ति महीभुजः |
नवैव संख्यया यस्य निधानानि स किंप्रभुः || २० ||
असंख्यातधनैरेवमुद्धता व्यवहारिणः |
भट्टास्तु विक्रमार्केऽपि प्रेषिता आक्रमन्ति तम् || २१ ||
बलभद्रं हलभृतो ह्रिया धवलयन्ति ते ||
वशीकुर्वन्ति मदनमपि तत्रांगनाः क्षणात् || २२ ||
गजाश्वास्तत्र शक्रस्य ह्रिया पांडुरयन्ति तौ |
दातारमपि याचन्ते तत्रत्या नार्थिनोऽधमम् || २३ ||
दृष्ट्वार्थिनं न दातारस्तूष्णीं गच्छन्ति तद्गताः |
पतिभक्तिविहीना स्त्री नाप्येका तत्र मार्गितुं || २४ ||
सतीसंरक्षणादक्षो नास्ति जाल्मोऽपि तत्पुरे |
तत्प्राकारस्य चौन्नत्यं तत्खेयस्य च निम्नताम || २५ ||
पृ० ६१) मयकारराजवर्णनम् |
विना न केऽपि जानन्ति नाकिनः कूर्मपन्नगान् ||
सौधावलीसमुत्सेधं चर्चितुं तु न केचन || २६ ||
सक्ता गृहाणां सौंदर्यं स्वर्गेऽपि न हि भूसुराः |
मत्तेभबृंहितारावा मणिघंटाकलस्वनाः || २७ ||
बंदिमागधवृंदानां वाग्विलासपरंपराः |
गंधर्वहेषितारावा हृद्यवाद्योदितस्वराः || २८ ||
कोलाहला प्रजानां च व्याप्नुवंति दिशो दश |
रमणीये पुरे तस्मिन् ममकाराख्यभूपतिः || २९ ||
मंडलाधीश्वरस्सोऽयं महाहंकारगर्वितः |
धीरोद्धतपरीवारः कामतंत्रपरायणः || ३० ||
वर्णितुं शक्यते तस्य सौभाग्यं कियदित्यहो |
रतिराड्रूपसौन्दर्ये सुरराड्भोगसंपदि || ३१ ||
ऐश्वर्ये राजराजोऽयं माने स्यात्कुरुराट् स्वयं ||
त्यागेंऽगराजः कः स्तोतुं समर्थस्तं महीपतिम् || ३२ ||
महामायाविलासानामुत्पत्तिस्थानमेव सः ||
खड्गनिर्दलितारातिराजभिन्नार्कमंडलः || ३३ ||
पृ० ६२) स्वमातुलसुतां चारुगात्रीमंबुजलोचनां ||
त्रिजगन्मोहिनीं नाम्ना मोहिनीमप्युवाह सः || ३४ ||
तौ दंपती मदोद्रिक्तौ सन्नद्धौ मदनाहवे |
चिक्रीडतुश्चिरं कालं श्रृंगाररसपोषकौ || ३५ ||
शचींद्राविव तौ नित्यं रमाशार्ऽऽन्गधराविव |
रोहिणींदू इव रतिस्मराविव रराजतुः || ३६ ||
मोहिनीममकारौ तावभिधानोचितक्रियौ ||
मिथुनीभूय सुस्निग्धौ कामपाशेन संयुतौ || ३७ ||
चित्तैकरस्यसंपन्नौ ममतालतिकावृतौ |
दिनानि कामतंत्रेण यौवनस्थौ विनिन्यतुः || ३८ ||
संतानलाभमप्राप्य चिंतापरवशावुभौ ||
रहस्युपरतक्रीडौ विचारं चक्रतुस्तदा || ३९ ||
किं राज्येन सुखेन किं रतिकथाचातुर्यशौर्येण किं
किं वा नूत्नविचित्ररत्नविलसद्भूषाविशेषैः शुभैः |
किं मातंगरथांगतुंगतुरगैरांदोलिकाक्रीडनैः
स्वाद्वन्नैरतुलांबरैरपि तथा संतानहीनो यदि || ४० ||
पृ० ६३) मोहिनीमयकारयोःपुत्रविषयकोपासनादिवर्णनम् |
अपुत्रस्य गतिर्नास्तीत्याहुः शास्त्रविदो बुधाः |
ब्रूते वेदोऽपि नापुत्रस्य लोकोऽस्तीति हि स्फुटम् || ४१ ||
विचार्यैवं ज्योतिषिकान्पृच्छतःस्म मुहुर्मुहुः |
शुश्रूषतस्तथा तद्ज्ञैः शाकुनानि वचांसि च || ४२ ||
अर्कादिवासरेषूक्ततत्तज्जातिग्रहोपरि |
उपश्रुतीः शुश्रुवतुर्विकीर्याप्यक्षतादिकम् || ४३ ||
सामुद्रिकाणां हस्तेषु हस्तं दत्वा सुताप्तये |
रेखास्ति वा नवा ब्रूतेत्यनुयोगं च चक्रतुः || ४४ ||
विप्रश्निकायाः पुरतः स्थित्वा मुक्ताक्षतादिकम् ||
दत्वा शूर्पेऽथ तद्दंडं गृहीत्वा पृच्छतां शुभम् || ४५ ||
आर्योक्तेन प्रकारेण व्रतानि सकलान्यपि |
उपायनप्रदानाद्यैराचरेतुरिमौ द्विजाः || ४६ ||
बहुधार्थव्ययं कृत्वा दंपती पुत्रकाम्यया |
पृ० ६४) मोहिनीममकारौ तौ मोहेन महतावृतौ || ४७ ||
पिण्याकलशुनद्रव्यैर्मातंगीकृतनर्तनैः |
पूजयामासतुर्मद्यमांसाद्यैः क्षुद्रदेवताः || ४८ ||
न शिवं शिवपत्नीं तौ मूढात्मानौ जगत्पती |
शुद्धसत्वकलापूर्णावुपासामासतुः किल || ४९ ||
एवं दिनेषु गच्छत्सु मोहिनी केषुचित्स्वयं |
तामसक्षुद्रशक्तीनां सेवया गर्भमादधे || ५० ||
या तामसी महामाया संदिष्टा शिवभार्यया |
सर्वज्ञयाऽपि देवस्य प्रभोस्तत्वं प्रकाशितुं || ५१ ||
साशाद्य सद्यस्तद्गर्भमभ्रान्तभ्रान्तिभाविका ||
प्रीतिं संपादयांचक्रे तयोरात्मानुरूपयोः || ५२ ||
मायासौन्दर्यसर्वस्वमाकृष्य जनमोहिनी |
मोहिन्याः पुत्रिका भूत्वा जज्ञे विज्ञाननाशिनी || ५३ ||
तदा विविधवाद्यानां हृद्यध्वनिपरंपराः |
शुभदंभोदगंभीराः पुरे तत्र जजृंभिरे || ५४ ||
ममकारो द्विजातिभ्यः सर्वेभ्यो भूरिदक्षिणाः |
प्रसारितकराग्रेभ्यो ददौ संभूय सस्पृहम् || ५५ ||
पृ० ६५) मायोत्पत्त्या मुनीश्वरादीनां मनोविकारादिवर्णनम् |
आशया क्षेत्रवित्ताश्वगजगोरथगोधनम् ||
यद्यत्प्रार्थयते योयस्तस्मै तस्मै ददौ च तत् || ५६ ||
गृहेषु मिथुनीभूय स्थितेभ्यो विषयेच्छया ||
इष्टार्थानर्थिसंघेभ्यः प्रददौ मोहिनीपतिः || ५७ ||
चित्रं समस्तजंतूनां मायोत्पत्तिमहोत्सवे |
रेतांसि सुस्रुवुः सद्यः स्त्रीपुंसानां क्षणे क्षणे || ५८ ||
निर्लज्जया पुमान्नारीं पुमांसं च तलोदरी ||
आलिंग्यौष्ठं समास्वाद्य रहस्यस्थानमस्पृशत् || ५९ ||
ये तु निर्वाणमार्गस्था ग्रामक्षेत्रगृहादिकम् |
त्यक्त्वा घोराटवीः प्राप्य निराहारास्तपस्विनः || ६० ||
गंगादितटिनीतीरेष्वद्रीणां गह्वरेषु च |
सिद्धस्थलविशेषेषु तथा बिल्ववनेषु च || ६१ ||
पंचाग्निमध्यभागेषु हिमान्यां जलमध्यमे |
फलांबुपत्रैः क्षुद्बाधां वारयन्तस्तथान्वहम् || ६२ ||
निरुद्धवृत्तयः स्वान्तर्ध्यायन्तः परमेश्वरम् |
तपः कुर्वंति सततमपरित्याज्यनिष्ठया || ६३ ||
पृ० ६६) तेषां शिवैकतानानि चित्तान्युत्थाय लक्ष्यतः |
संप्राप्य वृत्तिसारूप्यं विषयौन्मुख्यमाप्नुवन् || ६४ ||
वेपमानोत्तमांगानां वृद्धानां च तपस्विनां |
निष्कलानां पलिक्नीनामप्यन्योन्यं रतिर्बभौ || ६५ ||
तरूणां च गिरीणां च लतानां च तृणाश्मनां ||
स्त्रीपुंमयानामन्योन्यप्रीत्या द्रावोऽभवत्तदा || ६६ ||
मृगपक्षिपशुव्रातास्त्यक्त्वापि तृणभक्षणं |
दिवारात्रौ च सततं मिथुनीभूय रेमिरे || ६७ ||
स्थाणुभूतशरीराणां दीर्घकालसमाधिना |
तिरोहितानां वल्मीकैर्युगावृत्तादपीदृशां || ६८ ||
ऋषीणामग्निकल्पानामपि ध्यानोदितस्त्रियां |
अधः स्खलितवीर्याणां चित्तान्युत्कंठितां ययुः || ६९ ||
व्युत्थाय सर्वे मुनयः किमेतदिति विस्मिताः |
चिंताक्रांताश्चिरं ध्यात्वा पुनरासन्बहिर्मुखाः || ७० ||
अहो कष्टमहोकष्टमस्माकं किमियं दशा ||
ययात्मज्ञानमुसृज्य विषयौन्मुख्यमाप्नुमः || ७१ ||
इति चिंतापरवशाः संभूय मुनयोऽखिलाः |
पृ० ६७) श्रीदुर्वाससंप्रति मुनीनां मनोविकारकारणजिज्ञासा |
अमंत्रयन्त तच्छान्त्यै शान्त्यै दान्त्यै च भूसुराः || ७२ ||
तदा दुर्वारसंसारदुःखाद्रिबलभेदनः |
शैवमौनी शिवाचार्यः शिवदीक्षापरायणः || ७३ ||
निराभारमहावीरशैवलिंगैक्यनिश्चयः |
दुर्वासास्तपतां श्रेष्ठ आजगाम शिवेच्छया || ७४ ||
आगतं मुनिमालोक्य मुनयो विगतज्वराः |
पाद्यार्घ्याचमनीयाद्यैर्मधुपर्कैस्तथार्चयन् || ७५ ||
उपवेश्यासने रम्ये महार्हे प्रणिपत्य तं |
कृतांजलिपुटाः प्रोचुर्भक्त्या परमयान्विताः || ७६ ||
महेशकृपयोपात्तत्रिकालार्थावबोधन |
योगींद्र करुणासिंधो ऋषिबंधो गृहीष्व नः || ७७ ||
ब्रूहि किं कारणं चित्तचलनेऽस्माकमीदृशाम् |
वातांबुपर्णवृत्तीनां दृढवैराग्यशालिनाम् || ७८ ||
गुहांतर्धर्ममेघाख्यं ध्यानं व्युत्थानमेति नः |
वशं गच्छति कामस्य चित्तं दुर्विषयातुरम् || ७९ ||
का गतिस्त्वां विनाऽस्माकं शिवज्ञानैकसागर |
पृ० ६८) उपसर्गभयादस्मान् पाहि पाशुपताग्रणीः || ८० ||
विज्ञापितो मुनिगणैरित्थं वाचंयमोत्तमः |
दृष्ट्या विचार्य सुचिरं प्रतीच्या प्रोक्तवान्गुरुः || ८१ ||
श्रूयतां वचनं सम्यगहो तापसपुंगवाः |
ममकाराह्वयो राजा पृथिव्यामस्ति दुर्जयः || ८२ ||
बनवस्याख्यनगरे मोहिनी तत्कुटुंबिनी |
तयोः पुत्रीत्वमापन्ना जाता माया दुराशया || ८३ ||
सांख्यं योगं पाशुपतं ज्ञानानि विविधानि च |
विनाशयितुमुद्युक्ता कलिकालवशात्स्वयम् || ८४ ||
इतः परं क्व वा योगः क्व तपः क्व मुमुक्षुता |
क्व भक्तिः क्व च विज्ञानं यतो मायावशं जगत् || ८५ ||
इति ब्रुवंतं दुर्वासं प्रणिपत्य भयान्विताः |
पुनरूचुर्मुनिश्रेष्ठा निष्ठाचांचल्यनिष्ठुराः || ८६ ||
ऋषय ऊचुः |
माहेश्वरी महामाया नामरूपक्रियात्मिका |
सदसत्त्वाद्यनिर्वाच्या याऽनाद्या श्रूयते श्रुतौ || ८७ ||
यद्रूपमखिलं विश्वं यया संच्छादितं महः |
यदुपाधिवशाज्जीवः स्वयं साक्षान्महेश्वरः || ८८ ||
पृ० ६९) मुनीन्प्रतिदुर्वासकृतमायास्वरूपनिरूपणम् |
पशुपाशविमोचिन्या दीक्षया सा विमोचिता |
यया शिवत्वमायातं कृतकृत्या स्म ते वयम् || ८९ ||
प्रारब्धमपि निर्दग्धं योगज्ञानाख्यवह्निना |
वांतान्नाशनवत्कस्मात्प्राप्तं चलनमीदृशम् || ९० ||
संभ्रष्टबीजकल्पस्य चित्तस्य शमशालिनः |
केयं माया कुतः कुत्र ततोप्यन्या विलक्षणा || ९१ ||
अजेति श्रूयते माया ज्ञाननाश्येति च स्वयं |
जाता पृथिव्यामित्युक्ता नष्टायाश्च कुतो जनिः || ९२ ||
विलक्षणायाः किं रूपं तन्निवृत्तिर्नवास्ति वा |
सर्वं कथय नो विद्वन् रक्षास्माञ्छरणागतान् || ९३ ||
एतत्प्रार्थयमानास्ते मुनयो विनयोर्जिताः |
महर्षेरंघ्रिनिकटे निपेतुर्दंडवद्भुवि || ९४ ||
तानुत्थाप्य महातेजा दुर्वासा भगवान्स्वयम् |
माभैष्टेति समाश्वास्य पुनः प्रोवाच सस्मितम् || ९५ ||
या माया त्रिगुणा चेति वेदान्तेषु प्रशस्यते |
सा द्विरूपा ह्यविद्येति मायेति च निगद्यते || ९६ ||
तमःप्रधाना मलिनसत्वा विद्या द्वयोस्तयोः |
शुद्धसत्वमयी माया निर्मला दर्पणोपमा || ९७ ||
पृ० ७०) जीवोपाधिरविद्याख्या मायोपाधिर्महेशितुः |
सैषा विचित्रा सुदृढा बह्वंकुरसमन्विता || ९८ ||
गुणभिन्नाप्यंकुरेषु तेषु भिन्ना गुणैः पुनः |
नामरूपात्मिका बह्वी तूलाविद्या निगद्यते || ९९ ||
प्रतिबिंबा अनेकाः स्युस्तत्र तत्तारतम्यतः |
देवतिर्यऽऽन्मनुष्यांडजोद्भिज्जस्वेदजादयः || १०० ||
जीवाः शिवमया एव यतश्चैतन्यबिंबिताः |
तथाप्यल्पाश्च किंचिज्ञा यातायातं प्रयान्ति हि || १०१ ||
ईश्वरस्तु महामायी यतस्तत्प्रतिबिंबितः |
वशीकृत्य स तां देवः क्रीडते स्वेच्छया द्विजाः || १०२ ||
तत्रापि गुणपर्वाणि तारतम्येन संश्रितः |
ब्रह्मा विष्णुश्च रुद्रेशौ सदाशिव इतीर्यते || १०३ ||
प्रभुः सर्वाधिकः प्रोक्तो निरंजनपदांचितः |
स एक एव नो याति मायाया वशमास्तिकाः || १०४ ||
अन्ये तु ब्रह्मविष्ण्वाद्याः कदाचित्तद्विमोहिताः |
पृ० ७१) मुनीन्प्रति दुर्वासकृतमायाप्रभाववर्णनम् |
पुनः प्रभोः करुणया प्रबुध्यन्ति यथातथम् || १०५ ||
अविजेया ततो माया येन केनापि सुव्रताः |
जिता मयेति येनेयं विश्वस्ता स जितो भवेत् || १०६ ||
अतो मायाजये सम्यग्जागर्तव्यं बुधैरपि |
मायापाशनिबद्धानां जीवानां का कथा पुनः || १०७ ||
जीवः पशुरिति प्रोक्तः शिवः पशुपतिः स्मृतः |
पाशबद्धो यतो जीवः पाशमुक्तो महेश्वरः || १०८ ||
पशुपाशविमोचिन्या दीक्षया गुरुदत्तया ||
भाग्येनानुगृहीतो यः स जीवः शिवतामियात् || १०९ ||
अन्यस्तु कर्मतंत्रेषु बद्धः पशुरधोमुखः |
प्रयाति सततं मोहाज्जन्ममृत्युपरंपरां || ११० ||
न विद्याभिजने हेतू दीक्षायां मोक्षसाधने |
अनुग्रहः प्रभोरेव श्रीगुरोस्तत्र कारणम् || १११ ||
सैषैव माया दुर्धर्षा तामसी सर्वमोहिनी |
कामतंत्रप्रधानैका ममकारात्मजाऽभवत् || ११२ ||
अजातापि च मोहिन्यां जाता कार्यार्थमास्तिकाः |
पृ० ७२) तत्र हेत्वन्तरं वक्ष्ये संशृणुध्वं समाहिताः || ११३ ||
कदाचिद्राजते शैले देवर्षिगणसेविते ||
सभायां योगपीठस्थं रुद्रं पप्रच्छ पार्वती || ११४ ||
सा शक्तिः सर्वलोकानां शिवाऽनन्या चिदात्मिका |
स्ववशीकृत्य तां मायामभिमानेन पश्यति || ११५ ||
स्वमायया जगत्सर्वं मोहयन्ती स्वयंप्रभा |
सृष्ट्यादिकार्येष्वीशस्य साहाययं तनुते तराम् || ११६ ||
ततो रजोगुणोद्रिक्ता तमसा सात्विकीं कलाम् |
तिरोधाय हरं दृष्ट्वा प्रश्नमेनं चकार सा || ११७ ||
देवादिदेव भूलोके यो वा को वा महेश्वर |
अस्ति किं सहजानंदसौंदर्यरसनिर्भरः || ११८ ||
परवैराग्यसंपन्नं तं ममाचक्ष्व शंकर |
परीक्षेत्तन्मनोदार्ढ्यमित्युक्तः शंभुरब्रवीत् || ११९ ||
देवि साक्षात्परं ब्रह्म सच्चिदानंदविग्रहः |
अल्लमप्रभुरेकोऽस्ति गुरुर्मम जगत्त्रये || १२० ||
इत्यास्थानीस्थितैः सर्वैराश्चर्येणावधारितम् |
पृ० ७३) मायाविलासवर्णनम् |
वचनं देवदेवस्य श्रुत्वा मंदस्मितानना || १२१ ||
आः किमेतत्कियदिति न्यक्कारेण रजोन्विता |
देवी कृतनृचित्कारा ह्याराद्रुद्रमभाषत || १२२ ||
देव्युवाच |
किमिदं भाषसे देव मम माया दुरत्यया |
यद्यल्लमप्रभुस्तस्या अवशः स्यात्तदोच्यताम् || १२३ ||
इत्युक्त्वा तामसीं मायां स्वीयामाकृष्य सुन्दरी |
मोहिन्याः पुत्रिकां चक्रे प्रभुमप्यभिकायितुं || १२४ ||
साप्यजातापि जातेव भूमौ बनवसीपुरे |
ममकारस्य तनया बभूव त्रिजगन्मयी || १२५ ||
तस्या गुणकथा वक्तुं को वा शक्नोति मानवः |
तथापि कांश्चिद्वक्ष्यामि शृण्वन्तु मुनिसत्तमाः || १२६ ||
यक्षकिन्नरगंधर्वसिद्धविद्याधरामरान् |
गरुडोरगमर्त्यादीन् बहुना किं महामुनीन् || १२७ ||
अपांगदामभिर्बद्धान्मेषानिव निमेषतः |
योषितां किंकरीभूतान्करोत्येव स्वलीलया || १२८ ||
किंचैषा त्रिगुणा माया भुवनानि चतुर्दश |
स्वयं ग्रसति भूयोऽपि निष्ठीवति विनिष्ठुरा || १२९ ||
पृ० ७४) स्वयं महाप्रभावेण(न) मायामयमिदं जगत् |
संहृत्य सत्वसंपूर्णो यो रुद्रोऽभूत्स्वयंप्रभः || १३० ||
तस्यापि वक्षसि सदा या माया कामवर्द्धनी |
रुद्राणीं स्थापयत्येव तस्याश्चित्रं चरित्रकम् || १३१ ||
मूर्तिपंचकमप्येवं स्त्रीनेत्रविवशीकृतं |
करोति तस्मादधिकः को वास्ति जगतां त्रये || १३२ ||
तस्मान्नजयया केनापि माया वेश्याविलासिनी ||
अविचारितसिद्धेयमसद्भावोपकल्पिका || १३३ ||
श्रुतमप्यश्रुतं दृष्टमप्यदृष्टं वितन्वती |
विभीषिका जगत्कृत्स्नं मायेयं भ्रामयत्यहो || १३४ ||
भ्रान्तस्य पुरुषस्यास्य जननी तनया स्वसा |
स्नुषा भार्या स्वयं भूत्वा विकारयति मोहिनी || १३५ ||
जिगीषा यदि युष्माकं तस्याः कूटक्रियात्मनः |
उपायमेकं वक्ष्यामि रहस्यं शृणुत द्विजाः || १३६ ||
निरंजनो महादेवो गुरूणां परमो गुरुः |
सर्वज्ञः सर्वसाक्षी यः सोऽल्लमप्रभुसंज्ञितः || १३७ ||
सोऽयं चिद्गगनाकारो व्यापकोऽपि महेश्वरः |
पृ० ७५) मनुष्यचर्मणा बद्धो गूढः पर्यटति क्षितौ || १३८ ||
यः स्मरत्यनिशं चित्ते तत्र सन्निहितो गुरुः |
मायामुन्मूल्य सहसा शिवज्ञानं प्रयच्छति || १३९ ||
ततोऽल्लमप्रभुं नित्यं स्मरत श्रद्धयान्विताः |
तन्नाममंत्रं तन्मूर्तिं पठत ध्यायतानिशम् || १४० ||
स सर्वसाक्षी ध्यातृर्णां चित्ते साक्षाद्भविष्यति |
तेन दिव्यप्रभावेण माया निर्मूलिता भवेत् || १४१ ||
उपदिश्यैवमेकान्ते दुर्वासास्तपतां वरः |
जगाम मेरुशिखरं स्वेच्छयैव महामनाः || १४२ ||
मुनयोऽपि तथा कृत्वा प्रभोश्चरणचिंतनं |
मायामुन्मूल्य चित्तानि न्यरुंधन् व्यत्थितान्यपि || १४३ ||
ममकारनृपस्तत्र मोहिनी च कुटुंबिनी |
मायायां प्रेमभरितौ बालायां सुखमापतुः || १४४ ||
मानुषावप्यनिमिषौ सदातद्दर्शनोत्सुकौ |
क्वचिन्निमीलिताक्षौ तद्रूपं दध्यतुरद्भुतम् || १४५ ||
पृ० ७६) उरस्यादाय सस्नेहमालिलिंगतुरंजसा |
प्रेम्णा समाहितस्वान्तौ न विचालयतः स्म तौ || १४६ ||
अंकप्रदेशे संस्थाप्य न वियोजयतः क्षणम् |
तद्विलासेक्षणेनैव क्षुत्तृष्णादिविवर्जितौ || १४७ ||
मायैवेयं न मत्पुत्रीत्याश्चर्याविष्टमानसौ |
मायेति नाम दधतुस्तस्यास्तत्पितरावुभौ || १४८ ||
ततो धात्र्यः स्तनं दत्वा कृत्वाभ्यंगं सुगंधिभिः ||
अभ्यषिंचन्नंजलिभिर्मंदं मंदोष्णवारिभिः || १४९ ||
अनार्द्रीकृत्य मृदुलैर्धौतैरंके निधाप्य च ||
मंडैर्हैययंगवीनैश्च पयस्तामप्यपाययन् || १५० ||
अलंकृत्यांजनैर्नेत्रे ललाटे भूतिरेखया |
धौतकौशेयपुत्रेषु शाययामासुरादरात् || १५१ ||
मंदं मंदं हस्ततलैः संस्पृशन्त्यो विलासिनीं |
अगायन्मधुरालापैरुलूलुध्वनिभिः शुभैः || १५२ ||
जय बाले जगल्लीले शुभशीले गुणावले |
जय शृंगारसर्वस्वे माये मधुरनिस्वने || १५३ ||
इति तद्गुणगीतानि गायन्त्यो जयनिस्वनैः |
आरार्त्तिकादिभिस्तस्याश्चक्रुर्मांगलिकोत्सवं || १५४ ||
पृ० ७७) सौवर्णरत्नदोलायां यावन्निद्राति बालिका |
तावत्तिष्ठन्ति दोलाग्ररज्वाकर्षणतत्पराः || १५५ ||
अथ सा जाग्रती बाला दोलामंचमणिव्रजे |
आत्मच्छायास्समालोक्य मेने सह विहारिणीः || १५६ ||
सा ता हसन्ती हस्ताभ्यामालिंगितुमथोद्यता |
क्रीडतिस्मः पितुः कक्षे मातुः कक्षे क्वचित् क्वचित् || १५७ ||
मातुर्हस्तात्पितुर्हस्तं गत्वा चालिंग्य कन्धरां |
मुखं मुखेन संयोज्य प्रमोदमुदपादयत् || १५८ ||
मंजीरकिंकिणीपुंजे पदयोर्ध्वनति स्फुटं |
मंदं मंदं तत्र तत्र पदन्यासांश्चकार सा || १५९ ||
रत्नाऽऽन्गुलीयकस्तोमे कांचने कंकणद्वये ||
काचवल्ली पुरोभागे रोचमाने समन्ततः || १६० ||
मुक्तास्यूतांचलाग्रायां सक्तायामलिकोपरि |
अश्वत्थपत्ररेखायामालोलायां मुहुर्मुहुः || १६१ ||
कनत्कनकशृंगारकरवीरदलस्रजा |
जाम्बूनदघटीदाम्ना शोभितायां तनौ भृशं || १६२ ||
स्खलद्गतिविशेषैः सा चलन्ती रत्नकुट्टिमे |
पृ० ७८) लीलया सह बालाभिः खेलति स्म मुदान्विता || १६३ ||
पित्रोर्धात्रीषु सर्वासु वयस्यासु च सादरं |
हृष्टचित्तासु मायाया बाल्यलीला व्यजृम्भत || १६४ ||
उत्कंठितेषु सर्वेसु नागरेषु जनेषु च ||
स्तुवत्सु चारुतां तस्या अतिचक्राम शैशवं || १६५ ||
ततः कौमारवेलायां सा माया सर्वमोहिनी ||
शिक्षाचार्याऽभवद्गत्यां हंसांनां हस्तिनामपि || १६६ ||
कोकिलानां कलध्वाने शुकानां मृदुभाषणे ||
तथाभूताऽथ तारुण्ये सा माया शुशुभे तरां || १६७ ||
भावो मनसि वाचायां प्रसादो दृक्प्रसारणे |
स्यान्मर्म हस्तसंज्ञायां कीलकं भृकुटौ च रुट् || १६८ ||
मानोन्नतिस्तथा बुद्धौ सर्वमन्यद्भ्रमावहं |
बभूव यौवने तस्यास्त्रिजगन्मोहनाकृतेः || १६९ ||
दृष्ट्वैतद्भावशाबल्यं मूढः क्लीबोऽरसोऽथवा |
मुनिर्वा मोहमाप्नोति किमुतान्ये रसाधिकाः || १७० ||
पृ० ७९) मायासौंदर्यवैभववर्णनम् |
इत्थं शृंगारसर्वस्वतारुण्यरसनिर्भरा ||
त्यक्त्वा मुग्धात्वमध्यात्वे क्रमात्प्रौढात्वमागता || १७१ ||
तन्नाट्यश्रीस्तद्विलासानुभूतिस्तच्चातुर्यं तत्कलाकौशलं च |
तद्गाम्भीर्यं तद्गतिस्तत्पदोद्यज्जंघाजानूरुद्वयी श्रोणिनाभी || १७२ ||
तन्मध्यं तज्जघनफलकं तन्नितम्बः कुचौ तौ पीनौ
कार्कश्यगुणनिलयौ तद्गलस्तन्मुखश्रीः |
तन्नासाक्षिद्वयमधरदन्तावलिभ्रूललाटश्रोत्रं तत्कैशिकरुचिरता
तत्तनोः सौष्टवं च || १७३ ||
असदृशमहिमायायां मायायामेव जगति नान्यत्र ||
यत्तद्विलासलेशाल्लोकत्रययुवतिसौंदर्यं || १७४ ||
ममकारोऽन्वर्थोऽभूत्तस्यां स्वान्तर्गताखिलांडायां |
पुत्रीभूतसुतायां निजभाग्यनिधानमाननीयायां || १७५ ||
राजाऽथ हेमरत्नप्रततिमहार्हाणि सोपबर्हाणि ||
आस्थानमण्डपादीन्यगणितगेहानि विरचयांचक्रे || १७६ ||
सौधप्रासादसालान्तरकलितमणिस्तम्भसाहस्रदीव्य-
द्गेहान्तर्दासदासीपरिजनविबुधामात्यभृत्यालिवर्गैः |
पृ० ८०) मायां संवेश्य तत्तादृशविविधकला पांडितीसत्प्रवीणैः
सम्यक्शिक्षां परीक्षावधि निजतनयां कारयामास मोहात् || १७७ ||
काव्यानि नाटकान्यथ वैयाकरणोचितप्रबन्धांश्च |
संगीतभरतवीणाछन्दःकोक्कोकरत्नशास्त्राणि || १७८ ||
द्यूतानि बहुविधान्यपि कुक्कुटमेषादिलावुकान्तानि |
अतिदीर्घाभ्रंकषवेण्वादिस्तम्भाग्रनृत्यकृत्यानि || १७९ ||
भूम्यन्तरिक्षदिक्तटनटनाभ्यासांश्च कारयांचक्रे |
नागरकर्नाटान्ध्रद्राविडभाषाश्च पाठयामास || १८० ||
माया स्वयं या सकलप्रपंचव्यष्ट्या समष्ट्या च विराजमाना ||
तस्याः कियद्वर्णनमेतदेवं मानुष्यवेषाश्रयणाद्यदुक्तं || १८१ ||
ममकारनृपस्ततः सुताया हृदि पाणिग्रहणक्रियां विधातुं ||
कुलशीलकलावयस्सु रूपैरनुरूपं सुगुणं वरं निदध्यौ || १८२ ||
विचार्य सुचिरं राजा वर्तमानमहीपतीन् |
तत्रैकमपि नो मेने मायायाः सगुणं वरं || १८३ ||
पृ० ८१) पितृकृतमायाविवाहविषयकवरजिज्ञासा |
एतस्मिन्नंतरे तस्य राज्ञः कुलगुरुर्महान् |
अहंकाराह्वयः साक्षादहंकार इवाययौ || १८४ ||
तदा प्रीतमना राजा तस्मै पाद्यार्घ्यपूर्वकं |
पूजां दत्वा स्वमात्मानं कृतकृत्यममन्यत || १८५ ||
भक्त्या प्रणम्य पार्श्वस्थं पप्रच्छ कुशलं नृपं |
आम्रेडितोक्त्याहंकारः शिष्यं विनयभूषणं || १८६ ||
राजा पुनर्नमस्कृत्य कृतांजलिरथाब्रवीत् |
गुरो युष्मत्करुणया सर्वं कुशलमेव नः || १८७ ||
किंतु पुत्र्या विवाहार्थं चिंतयामि निरंतरम् |
एषा कुमुदपत्राक्षी स्मरप्रदरकेकरा || १८८ ||
कामचापभ्रूविलासा नीलचामरकुंतला |
चतुर्थीचंद्रनिटिला नासाचंपकभासुरा || १८९ ||
दाडिमीबीजदन्ताढ्या कपोलजितदर्पणा |
श्रीकारकर्णा बिंबोष्ठी कंबुग्रीवा कलावती || १९० ||
बिसकाण्डभुजादण्डा सुवर्णकलशस्तनी ||
सिंहमध्या पृथुश्रोणी नितम्बजितसैकता || १९१ ||
पृ० ८२) करभोरुस्मरक्रीडा निषंगसमजंघिका |
कूर्मोपमानांघ्रिपृष्ठा नक्षत्रनखरोज्वला || १९२ ||
रक्तारविंदांघ्रितला रंभारतिजयोद्यता |
त्रिजगन्मोहनाकारा मदीयकुलपावनी || १९३ ||
मायैषाऽस्या वरः को वा पाणिग्रहणमर्हति |
प्रत्यहं चिन्तयाम्येतद्दयालो गुरुसत्तम || १९४ ||
विचार्याज्ञापय स्वामिन् शिष्योऽहं साधु शाधि मां |
एवमभ्यर्थितो राज्ञा मायामहिमकोविदः || १९५ ||
मायावच्छन्नमेवेशं जानन्नतु निरंजनं |
धन्यो गुरुरुवाचेदमहंकारो महीसुराः || १९६ ||
कोकिलेव रसालस्य पुष्पस्येवालिसुंदरी |
हंसीव पद्मकाण्डस्य शिवस्यार्हा तवात्मजा || १९७ ||
तस्यैव मोहिनी सेयं नान्योऽर्हति महीपते |
स एवास्या महामायी शिवोऽर्हति न संशयः || १९८ ||
श्रुत्वैतद्वचनं राजा विचिंत्य क्षणमात्मनि |
प्रणम्य दण्डवद्भूमावाचार्यं पुनरूचिवान् || १९९ ||
पृ० ८३) मायाकृतशिवोपासनाप्रकारवर्णनम् |
ममकार उवाच-
शम्भुः सर्वजगत्कर्ता वेदान्तेष्वप्यगोचरः |
कथं सुलभतां यायात्क्षुद्राणां मादृशां गुरो || २०० ||
मादृशां मलबद्धानामहंकारमहागुरो |
कथं प्रत्यक्षतां यायादनुगृह्णातु वा कथं || २०१ ||
मदीयकन्यां स्वीकृत्य स्पृशेद्वा कथमंजसा |
संबंधितां कथं यातः सामरस्यं कथं व्रजेत् || २०२ ||
यथेष्टमुपभोगाय कथमंगीकरोत्विमां |
इत्युक्तवन्तं भूपालं शिष्यं प्रोवाच देशिकः || २०३ ||
यथार्थमेतत्त्वद्वाक्यं हरः सर्वजगद्गुरुः |
विना भक्त्या हरिब्रह्मप्रमुखानामगोचरः || २०४ ||
कथा केवलमर्त्यानां कैव सत्यं महीपते |
किंतु ब्रवीमि वेदान्तरहस्यं शृणु सन्मते || २०५ ||
यस्य भक्तिर्दृढा जाता श्वपचस्यापि शंकरे |
सत्यं तमनुगृह्णाति शिवो हृदयसंस्थितः || २०६ ||
ततस्त्वं भक्तियोगेन समाराधय शंकरम् |
अंगीकरोति विश्वेशो भवन्तं नात्र संशयः || २०७ ||
इत्याज्ञप्य महीपालं समाश्वास्य मृदूक्तिभिः ||
ययौ मायामणिगृहं ततः स तदनुज्ञया || २०८ ||
पृ० ८४) अहंकारो रहस्यस्यै शैवं धर्ममुपादिशत् |
शिवार्चनाविधानं च भक्तेर्माहात्म्यमुत्तमं || २०९ ||
उपदिष्टा ततो माया गुरुणेष्टार्थसिद्धये |
अष्टमूर्तिधरं देवं मधुकेश्वरमाश्रयत् || २१० ||
विनष्टसंशया निष्ठागरिष्ठाऽष्टविधार्चनैः ||
अष्टोपचारसंगत्या सावधाना तमर्चयत् || २११ ||
चंदनाक्षतधूपस्रग्दीपनैवेद्यवाद्यकैः ||
चंद्रानना तमानर्चत्त्रिकालं विधिपूर्वकं || २१२ ||
हृत्पुण्डरीकमध्यस्थं शिवं सर्वेश्वरेश्वरं ||
कामयन्ती प्राणनाथं नित्यं व्रतपराऽभवत् || २१३ ||
इति परमरहस्यं सूतपुत्रस्य वाक्यं भृगुतनयमुखास्ते सम्यगाकर्ण्य
तुष्टाः ||
भवभयविनिवृत्यै भावितं हि त्वयोक्तं प्रभुचरितमिदानीं ब्रूहि
सूतेत्यपृच्छन् || २१४ ||
यः शृणोति शिवसंनिधौ सदा माययाऽऽचरितमीश्वरार्चनं ||
पृ० ८५) मायाकृतशिवार्चनश्रवणफलम् |
तस्य नाशमुपयाति सा भृशं चिन्मयस्य कृपयाऽल्लमप्रभोः || २१५ ||
इत्यार्षभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
मायाविलासतदुपासनाप्रकारवर्णनगतिर्नाम तृतीयोऽध्यायः || ३ ||
पृ० ८६) श्रीनंदिकेश्वराय नमः ||
अथ चतुर्थोऽध्यायः ||
सूत उवाच-
श्रीसिद्धवीरगुरुपादसरोजयुग्मे भक्त्या विनिर्जितमहोर्जितमोहपाशाः ||
मुक्तीच्छया परविरक्तिपथं प्रयाताः शृण्वंतु सन्मुनिवराः
प्रभुलिंगलीलां || १ ||
अहंकारेऽथ मायाया उपदिश्य गते नृपे ||
तथैव निश्चितस्वान्ते माया शिवरताऽभवत् || २ ||
एतस्मिन्नंतरे विप्राः सर्वानुग्राहकः प्रभुः ||
अल्लमः सच्चिदानंदो महामहिमसागरः || ३ ||
माया दुर्वारगर्वस्य निर्वापणकरोद्यमः ||
अमूर्तोऽपि समूर्तोऽभूत्तदुपास्त्युचिताकृतिः || ४ ||
ह्रीकरं कुसुमास्त्रस्य श्रीकरं ध्यायतां हृदि ||
दधावत्यद्भुतं रूपं शृंगाररससीकरं || ५ ||
प्रसार्य पश्यतां दृष्टिमनिमेषत्वदायकं ||
तद्वर्तुलत्वसौंदर्यं को वा वर्णयितुं क्षमः || ६ ||
विवृते वदने किंचिद्दन्तकान्तिच्छटाः परं ||
सम्पूर्णपूर्णिमाचंद्रचंद्रिकाः प्रहसन्ति हि || ७ ||
पृ० ८७) बनवसींप्रत्यागतप्रभोरवयवसौन्दर्यवर्णनम् |
किंचिदुन्मीलिते नेत्रे वर्षतो जलजस्रजः ||
कुलालचक्रवत्ता नो निमीलन्ति निमीलने || ८ ||
हस्तपादतले रेखा अकस्मात्पश्यतां नृणां ||
श्रेष्ठं हरिविरिंचिभ्यां कथयन्त्येनमीश्वरं || ९ ||
उदितानुदितश्मश्रुरेखाननसुधाकरे ||
कलंकरेखेवाऽऽभाति जनताश्चर्यकारिणी || १० ||
षोडशाब्दीयवयसा जगन्मोहनकारकः ||
पुपोष वेषमुतलं योषाजनमनोहरं || ११ ||
सुवर्णकांचीसन्नद्धं कांचनांचलरंजितं ||
अन्तरीयं बबन्धायं लंबितैकपुरोंचलं || १२ ||
द्विपटीमुपमाशून्यां तपनीयांचलांचितां ||
सूक्ष्मांशुनिर्मितामेकांचलमूर्ध्वं प्रसार(काश)यन् || १३ ||
उरःस्थले यथा नूत्नरत्ननिष्कं प्रकाशते ||
यज्ञोपवीतन्यायेन दधौ शृंगारवारिधिः || १४ ||
यत्र पादनखच्छायाः प्रसरन्ति महीतले ||
पृ० ८८) पद्मरागमणिश्रेणी धागधग्येन सा बभौ || १५ ||
मुक्ताकुण्डलकान्तीनामत्युल्बणपरंपराः ||
घनीभवन्त्यभिनवा गण्डयोरुभयोरपि || १६ ||
तिर्यक्सुवर्णघुटिकादीप्यमानस्रजोर्द्वयं ||
कूर्परोर्ध्वस्थले बाह्वोरलंचक्रेऽतिसुन्दरं || १७ ||
जगद्बिरुदपांचालिकोल्लसत्पादहंसकौ ||
स्पर्धेते तदधः क्षुद्रकिंकिणीभिः समन्ततः || १८ ||
ईषद्वक्त्रशिखालग्नपुष्पमाल्योपशोभितं ||
सूक्ष्मोष्णीषांचलस्यूतस्वर्णकूर्चद्वयं बभौ || १९ ||
एकांगुलिशिखादत्तं वर्तुलं तिलकोत्तमं ||
मायाकल्पितवैचित्र्याः शून्यचिह्नमिवाबभौ || २० ||
नक्षत्रराजसत्कान्तिन्यक्कारिशुभलक्षणाः ||
नक्षत्रमालाप्रमुखा हारा वक्षःस्थले बभुः || २१ ||
साक्षरांगुलिमुद्राभिर्विराजितकरांगुलिः ||
पादांगुलीयकमणिप्रभाभासितपादुकः || २२ ||
विटवेषधरः साक्षाच्छृंगार इव सोऽल्लमः ||
पृ० ८९) मधुकेशालये प्रभोर्मृदंगवादनचातुरीवर्णनम् |
पुरीं बनवसीं प्राप तत्रत्यैरभिनंदितः || २३ ||
संघीभूतैर्जनैस्तत्र परमाश्चर्यसंयुतैः ||
चक्षुश्चषकपीतास्यसुधाकरसुधाझरः || २४ ||
मधुकेशालयं गत्वा मुखमण्डपमाश्रितः ||
तत्रत्यमतुलाकारं प्रमाणातीतमद्भुतं || २५ ||
अशक्यं वादितुं येन केनापि शिवनिर्मितं ||
ददर्श मर्दलं प्रांशुं विद्याजीविगलार्गलं || २६ ||
गृहीत्वा बाहुदण्डाभ्यां निमेषाल्लघुतूलवत् ||
निधाय चोरुफलके सज्जीचक्रे यथाविधि || २७ ||
दर्शयन् वाद्यचातुर्यं साक्षान्नंदीव सोऽल्लमः ||
चतुर्दण्डिप्रतिभया सप्रमाणं सतालकं || २८ ||
वादयन् भरतन्यायैर्यथाशास्त्रं सुखावहं ||
श्रावयामास वाद्यज्ञैः सर्वैरद्भुतमीक्षितः || २९ ||
कलाभिज्ञास्तु तत्रत्याः सर्वाश्चर्यमनोहरं ||
दृष्ट्वाध्येत्यहहेत्याहो अहो इति तथा ब्रुवन् || ३० ||
पृ० ९०) स्याद्भ्रातः स्यारूत्तंस हे विद्याधिप हे पितः ||
अंग मार्दंगिक स्वामिन् भो महामहिमन्निति || ३१ ||
न श्रुतं न च वा दृष्टं विद्वद्रत्नं क्ववेदृशं ||
साधु साधु समीचीनं सम्यगित्याहुरास्तिकाः || ३२ ||
गणनामात्रपर्याप्ता वयं विद्याधिका इति ||
त्वत्पदाब्जपरागैकलेशेनाति च नो समाः || ३३ ||
अस्मद्भाग्येन दृष्टोऽयं लोकोत्तरगुणोत्तरः ||
अदृष्टपूर्वः पुण्यात्मेत्यस्तुवन् बहुधा प्रभुं || ३४ ||
श्रुत्वाऽथ माया वार्तां तां सन्निधौ मधुकेशितुः ||
ध्यानवृत्तिमपि त्यक्त्वा सखीः प्रोवाच सुन्दरी || ३५ ||
मायोवाच ||
आल्यः किमेतदाश्चर्यं श्रुत्वैतद्वाद्यनिःस्वनं ||
मयूरीव घनध्वानमहं नर्तितुमुत्सहे || ३६ ||
तरलाक्ष्यः कदा वापि पुरे तद्वाद्यकौशलं ||
श्रुतं किमेष सर्वज्ञो विद्याधिकशिखामणिः || ३७ ||
महापुरुष इत्येष मम चित्तं प्रसीदति ||
गत्वा तमेनं संप्रेक्ष्य यूयमायात सत्वरं || ३८ ||
पृ० ९१) प्रभोर्मायाकृतविद्यासौन्दर्यवर्णनम् |
इत्याज्ञप्तास्तदा सख्यः समेत्य मुखमण्डपं ||
प्रभुं प्रेक्ष्य कृतार्थाः स्म इति चित्तेषु मेनिरे || ३९ ||
आश्चर्येण ततो गत्वा सख्यस्तां भर्तृदारिकां ||
प्रणम्य पूजा फलिता तवेत्याहुः स्मिताननाः || ४० ||
तस्य सौंदर्यचातुर्यसौमनस्यवयांसि च ||
श्रृंगाररसभूयिष्ठान्यादरादाचचक्षिरे || ४१ ||
आकर्ण्य कर्णामृतमंबुजाक्षी तद्रूपरेखादिविलासवृत्तं ||
संद्रष्टुकामा समुपेत्य शीघ्रं निध्याय तन्मूर्तिमवाप मोहं || ४२ ||
कुसुमायुधगर्वभंजनं तत्सुकुमारं वपुरद्भुतं यदेतत् ||
करुणामयमीक्षणं प्रसूते परमानंदसुधानिधिं समंतात् || ४३ ||
विद्याऽस्ति यत्र विनयो न हि तत्र लोके यद्यस्ति सा विनयसंपदहो न विद्या ||
विद्याविशेषविनयाविह पुण्यमूर्तौ विद्याधिके विमतहस्तिमृगाधिपे स्तः ||
४४ ||
एवं निध्याय निध्याय माया हर्षाश्रुलोचना ||
कंचुकीकृतरोमांचा सखीमुखमवैक्षत || ४५ ||
विज्ञाय चित्तं तन्वंग्या विनयेन विचक्षणाः ||
पृ० ९२) पप्रच्छुरल्लमं सख्यः प्रगल्भवचसा प्रभुं || ४६ ||
भो विद्वन् भव्यसंचार कस्माद्देशादिहागतः ||
को वा जनपदो युष्मत्पदाम्भोजपवित्रितः || ४७ ||
कत्यक्षरं भवन्नाम किमणूकं कियत्पदं ||
कं देशं प्रति गन्तव्यमस्मास्वेव किमादरः || ४८ ||
शिव एव किमार्यायाः प्रसन्नोऽस्मत्सखीमणेः ||
सर्वं यथार्थमाचक्ष्व श्रोतुमिच्छाऽस्ति नः प्रभो || ४९ ||
एवमुक्तोल्लमः प्रोचे स्मयमानमुखांबुजः ||
वृत्तान्तमात्मनः सम्यगर्थगम्भीरया गिरा || ५० ||
देशो मदीयोऽयमिति नास्त्येको भुवि निश्चितः ||
किंतु सर्वेषु देशेषु संचरामि निरंतरं || ५१ ||
परदेशतया ख्यातो विद्याबलसमन्वितः ||
जगदाश्चर्यबिरुदपांचाल्यंचितपादुकः || ५२ ||
यो वा को वा प्रतिद्वंद्वी विद्यायां मम भूतले ||
निर्वापयामि तद्गर्वमलं मेति वचोऽवधि || ५३ ||
पृ० ९३) प्रभुंप्रति सखीकृतमायाविद्यानैपुण्यकथनम् |
ततोऽल्लमाल्लमा चेति प्राकृतैरभिधा कृता ||
अल्लमः शिव एवेति साधुभिः समभिष्टुतः || ५४ ||
विचराम्येक एवाहं निर्भयो निरहंकृतिः ||
सुखगोष्ठी भवेद्यत्र तत्र तावद्वसाम्यहं || ५५ ||
नास्ति यत्र सुखास्वादो निर्यास्यामि क्षणात्ततः ||
चर्येयं मम कल्याण्य इत्युक्ताः पुनरब्रुवन् || ५६ ||
भो विद्वन् कमलाक्षीयमस्माकं भर्तृदारिका ||
मायाख्या ममकारस्य महाराजस्य नंदिनी || ५७ ||
अशेषविद्यानिपुणा मुहुर्वितरणाधिका ||
शुद्धदेशीयमार्गेण शिक्षिता नृत्तगीतयोः || ५८ ||
एतस्या नृत्यचातुर्यमवलोक्य भवादृशाः ||
शिरःकम्पं प्रकुर्वन्ति साक्षाद्रंभेति पण्डिताः || ५९ ||
पठितं भारतं शास्त्रं वीणानैपुण्यमार्जितं ||
विचित्रयति गीतानि गात्रवद्यंत्रसूत्रतः || ६० ||
नानाविधैरभिनयैरर्थं व्यंजयति स्फुटं ||
शब्दनाटककाव्यानि समभ्यस्तानि भूरिशः || ६१ ||
रचयत्यष्टभाषाभिः काव्यानि विविधान्यपि ||
बहुशास्त्रार्थतात्पर्यं सूक्ष्मदृष्ट्यावबुध्यति || ६२ ||
बहुना किं समस्तासु विद्यासु निवसत्यसौ ||
पृ० ९४) वाणी नृत्यति जिह्वाग्रे बालापि प्रौढतां गता || ६३ ||
तृणवत्पश्यति धनं गुणमेव धनं सखे ||
अनुपाधिकसौहार्दा मार्दंगिक गुणाधिके || ६४ ||
तरलाक्षीमिमां नित्यमाश्रित्य यदि तिष्ठसि ||
मणिः सुवर्णकणिकामिव त्वं शोभसे तरां || ६५ ||
ददाति च यथाकामं निर्वेशं निर्विवादतः ||
दिव्याम्बराणि धौतानि वारंवारं प्रयच्छति || ६६ ||
भूषणानि समस्तानि वांछितान्यमितानि ते ||
षड्रसायनसारान्नपानीयानि प्रदास्यति || ६७ ||
एनामेणायताक्षीं त्वं समाश्रित्य वसाऽत्र भो ||
भोगायतनमेतत्ते यथार्थय कुशीलव || ६८ ||
राज्ञो विज्ञाप्य भवतो विद्याकौशलमीदृशं ||
तेनापि बहुमानेन गौरवं कारयिष्यति || ६९ ||
कारयित्वा सूत्रधारं नाट्यशालाधिनायकं ||
नृत्यद्युवतिशिक्षायां मारिषं कर्तुमिच्छति || ७० ||
गतिं त्यज हितं श्रुत्वा मिलित्वा मायया सह ||
भुक्त्वा स्रक्चंदनादीनि सौख्यानि शुभमाप्नुहि || ७१ ||
इत्युक्त्वोपरते कान्ताजनेऽसावल्लमप्रभुः ||
पृ० ९५) राज्ञा प्रभुप्रदत्तपारितोषिकनाट्याचार्यताकथनम् |
किमप्यनुक्त्वा गाम्भीर्यात्तूष्णीमास्त महामतिः || ७२ ||
इंगितज्ञेव तत्रैका भोगिनी नाम तत्सखी ||
हेमपात्र्याथ ताम्बूलं दापयामास मायया || ७३ ||
स्वीकृत्य वीटिकां सोऽपि सिद्धवेषधरो युवा ||
क्षणाज्जहार तच्चित्तं स्वविलासावलोकनात् || ७४ ||
ततः सखीभिः सा माया प्रणिपत्य महेश्वरं ||
तत्प्रसादात्कृतार्थेव सानन्दा प्रभुमैक्षत || ७५ ||
आगत्य पार्थिवं वेगात्प्रभुणा तस्य सन्निधौ ||
संस्थाप्याल्लममानन्दाद्ववन्दे राजनन्दिनी || ७६ ||
अथ प्रभोर्महाश्चर्यात्सभ्यैरनिमिषेक्षणैः ||
बहूकृतस्य माहात्म्यं प्राज्ञा राज्ञे व्यजिज्ञपत् || ७७ ||
एषोऽल्लमो महाराज महामहिमवल्लभः ||
सर्वासामपि विद्यानां प्रभुरीशानसन्निभः || ७८ ||
इत्येतद्वचनं श्रुत्वा राजा स्वस्थानसंस्थितैः ||
परीक्ष्य विद्यास्तास्सर्वाः सन्तोषाद्बह्वमानयत् || ७९ ||
भूषणाम्बरताम्बूलजाम्बूनदविहापितैः ||
संभाव्य नृत्यशालायामाचार्यं तं न्ययोजयत् || ८० ||
संप्रेष्य स्वात्मजां राजा स्वगृहं प्रभवे स्वयं ||
समस्तवस्तुभिर्भव्यं दिव्यं भवनमादिशत् || ८१ ||
पृ० ९६) माया स्वमंदिरं प्राप्य सानन्दं ससखीजना ||
आस्थानमण्डपे प्रोद्यन्मुक्तापीठान्तिकं ययौ || ८२ ||
तत्रासीना निःश्वसन्ती मनोरथसमं मुहुः ||
अत्युत्कण्ठावशेनैव रसोदयमसूचयत् || ८३ ||
सखीः प्रोवाच तन्वंगी साकांक्षं भावगर्भितं ||
भो सख्यः शृणुताश्चर्यं दृष्टमस्माभिरद्य यत् || ८४ ||
हरनेत्रानलज्वालास्पर्शहीनांगमंगलः ||
मार्दंगिकोऽयं कल्याण्यो मदनः स्यान्न संशयः || ८५ ||
अन्यथा रूपसौंदर्यममानुषमिदं भुवि ||
कथं सम्पद्यमानं स्याद्यस्य कस्यापि सांप्रतं || ८६ ||
हृद्यता पादतलयोः श्लाघ्यता जंघयोर्द्वयोः ||
चारुतोरुद्वयस्याऽपि कटेश्च कमनीयता || ८७ ||
मनोहरत्वं मध्यस्य नाभेर्गाम्भीर्यमद्भुतं ||
वलीनां वलनं तद्वद्रोमावल्याः सुरूपता || ८८ ||
वक्षःस्थल्या विशालत्वमौन्नत्यं भुजयोरपि ||
दैर्घ्यं बाह्वोश्च सौंदर्यं ग्रीवायाश्चुबुकाकृतिः || ८९ ||
ओष्ठयोः सौकुमार्यं च दन्तपंक्त्योश्च कान्तता ||
पृ० ९७) स्मरव्याकुलमायायाः प्रभुविषयकचिन्ता |
श्मश्रुरेखा विलासश्च नैगनिग्यं कपोलयोः || ९० ||
सुषुमत्वं नासिकाया नेत्रद्वंद्वस्य रम्यता ||
लीला ललाटपट्टस्य भ्रुवोर्युग्मस्य वल्गुता || ९१ ||
रुचिरत्वं चालकानां शक्यते केन वर्णितुं ||
सौंदर्यसारसर्वस्वमूर्तेरस्य महात्मनः || ९२ ||
इत्युक्त्वोत्पन्नशृंगारविप्रलम्भरसाप्लुता ||
अभूद्रत्याख्यभावेन घनीभूतमनोभवा || ९३ ||
आलंबनोद्दीपनाख्यविभावविवशीकृता ||
तस्थौ मुहुस्तदीयांगसौंदर्यध्यानतत्परा || ९४ ||
हृदयस्थितसंकल्पादुन्मनीकृतचेतना ||
बभूव स्थैर्यराहित्या त्यक्तस्नानप्रसाधना || ९५ ||
न भुंक्ते नापि चाचामत्यहहा दुर्दशां गता ||
माया मायावशं नीता महामायाविनः प्रभोः || ९६ ||
शययायामुपबर्हस्था हस्तेनैकाकिनी क्वचित् ||
चिन्तयामास सुचिरं स्मरव्याकुलितेंद्रिया || ९७ ||
करं कपोले संधाय विचारयति सा क्वचित् ||
पृ० ९८) गणयत्यात्मना स्वस्य दशां शुभफलप्रदां || ९८ ||
क्वचिन्मदनखेदेन नेत्रयोरश्रुपूर्णयोः ||
निःसारयामास तदा नखाग्रैर्वारि सर्वतः || ९९ ||
पादांगुष्ठेन भूपृष्ठे लिलेख च मुहुर्मुहुः ||
सखीं प्रेषितुकामा तं लज्जयोपरतिं गता || १०० ||
अशक्ता स्थापितुं चित्तमेका गन्तुमनाः स्वयं ||
संचुकोच पुनर्माया मदने मर्मभेदके || १०१ ||
एवं विरहतापेन तप्यमाना निरंतरं ||
अवस्थातुमशक्ता सा नयोपायं व्यचिंतयत् || १०२ ||
काश्चित् प्रज्ञावतीरात्मसमाना मानशालिनीः ||
कर्पूरगंधीः सौंदर्यवतीराहूय चाब्रवीत् || १०३ ||
विद्याधिकोऽल्लमः प्राज्ञस्तस्य कुत्र निवेशनं ||
दर्शितं किल सम्यक् तज्ज्ञातं युष्माभिरालयः || १०४ ||
इति प्रश्नच्छलेनैव वयस्यास्तन्मनोरथं ||
अल्लमायत्तमित्येवं ज्ञात्वा प्रोचुरिदं वचः || १०५ ||
किं पिधाय सखि ब्रूषि यथार्थं वद सांप्रतं ||
वक्षि चेत् तत्क्षणेनैव पूरयामो मनोरथं || १०६ ||
पृ० ९९) मायामनोरथनिरूपणचिन्ता |
संशयं त्यज हृद्ग्रन्थौ मौनं जहिहि मानिनि ||
वाचं देहीति विज्ञप्ता मनस्येवं व्यचिंतयत् || १०७ ||
मयोच्यमाने महति मधुरे मन्मनोरथे ||
अपराधत्रयं नूनं भविष्यति न संशयः || १०८ ||
यद्येषा बालिका कन्या कार्यं साहसिकं महत् ||
निर्भीका कर्तुमुद्युक्ता कियद्धूर्तेति वाग्भवेत् || १०९ ||
प्रथमो ह्यपराधोऽयं परिहर्तुं न शक्यते ||
यतो महाकुलीनाऽहं किंच राज्ञः प्रियात्मजा || ११० ||
यद्येतादृशदुर्बुद्धिर्न युक्तास्या इतीरणा ||
भविष्यति द्वितीयोऽयमपराधो न संशयः || १११ ||
यदि निष्कामपुरुषं सिद्धं निर्मलचेतसं ||
अकामनीयं कामित्वाद्भ्रांत्या व्यर्थमनोरथा || ११२ ||
एवंविधाभिलाषो हि चंद्रपाणिग्रहोपमः ||
भवेदुन्मत्तचित्तानां न प्राज्ञानां कथंचन || ११३ ||
स्वैरिणी भावतः सेयं वारणीयेति चेरणा ||
स्याच्चेत्तच्छ्रवणं नूनमपराधस्तृतीयकः || ११४ ||
पृ० १००) एवं विचार्य बहुधा चिंतापरवशात्मनि ||
न स्पष्टमूचे सा माया हृदिस्थं स्वमनोरथं || ११५ ||
भावं विज्ञाय मायायास्ततस्ता वामलोचनाः ||
दृक्संज्ञया तदान्योन्यं गत्वाऽन्यत्र व्यचिंतयन् || ११६ ||
कथमस्मत्सखी माया दह्यते विरहाग्निना ||
न जानीमो वयमिति स्वान्तस्थं गूहतेतरां || ११७ ||
स्वकीयनृत्तगीतानि स्वव्याहारामृतानि च ||
स्वचेतसि विचारांश्च स्वसंदिग्धपदानि च || ११८ ||
स्वनिश्चयकथाश्चापि कदाचिन्नोपगूहते |
अस्मत्प्राणसमा सेयं माया किमनुतप्यति || ११९ ||
आबाल्यादपि विज्ञातमस्माभिस्तन्मनोगतं |
किमर्थं गोपयत्येषा ज्ञातमेव हि नः खलु || १२० ||
एवमुक्तवतीमालिं कलाख्यां सकलाभिधां |
तथेत्युवाच ते चोभे प्रोचतुर्मधुमानिनीं || १२१ ||
तत्सर्वं सा ततो ज्ञात्वा युवाभ्यां स्थीयतामिह |
चिन्तानिवृत्त्यै मायाया उपायं चिन्तयाम्यहं || १२२ ||
अहं मायावधूं गत्वा श्रुत्वा तद्वृत्तमान्तरं |
ज्ञात्वा गमिष्याम्येकैवेत्युक्त्वा मायान्तिकं ययौ || १२३ ||
पृ० १०१) सखींप्रति मायामनोरथनिरूपणम् |
आलिंग्य तां प्रियालापैरादरान्मधुमानिनी |
स्वेदोदकमथोन्मृज्य चुचुंब चुबुकं मुहुः || १२४ ||
अक्क मह्यं समाचक्ष्व न्यक्कुरुष्व वृथा श्रमं ||
हृदयस्था तवाद्धाहं गोप्यं किमिह ते मयि || १२५ ||
आवयोरन्तरं किंचिन्नास्तीति प्रियवादिनी |
बिभेद चित्तं सा तस्या उपायेनैवमास्तिकाः || १२६ ||
एवं सा भिन्नहृदया प्रोन्नमयय शिरो भृशं |
अपश्यन्मधुमानिन्या निमेषरहिता मुखं || १२७ ||
दृष्ट्वा मनोगतं गोप्यं वक्तुं समुपचक्रमे ||
उपक्रम्यावरुद्धाऽथ ह्रिया तूष्णीं स्थिताऽभवत् || १२८ ||
तस्याः स्थितेश्च चलने विस्मयं प्राप्य हा भृशं |
शिरःकम्पं विदधती मुहुर्दैवं निनिंद सा || १२९ ||
मुहुर्वेपथुमारेभे भूयो भूयो भयाकुला ||
हुसूर्हुसूरिति प्राणमुच्छ्वसित्यंतराविला || १३० ||
कथंचिद्धृतलज्जा सा वक्तुं किंचित्समुद्यता |
कंठे गद्गदिते तत्र तूष्णींभूताऽभवत्तदा || १३१ ||
गायन्तीभिः सखीभिः सा न किंचिदपि गायति ||
पृ० १०२) न पश्यति तथा क्रीडाशुकं मधुरभाषिणं || १३२ ||
न धत्ते भूषणान्यंगलतिकायां कदाचन ||
माधुर्यमार्दवस्यूतान्युदितानि न भाषते || १३३ ||
निषेधति तथा हारं श्लक्ष्णं मधुरमप्यहो |
विगानेऽपि सखीपाठे न निवारयति स्वयं || १३४ ||
इति दुर्दशया तस्यां क्लिष्टायां मधुमानिनी ||
मायां प्रोवाच मर्मोक्त्या मनोभेदनतत्परा || १३५ ||
चन्द्रानने किमर्थं त्वमेतामाप्नोषि दुर्दशां ||
हैययंगवीने हस्तस्ये वृथा क्रोशसि सर्पिषे || १३६ ||
सुधाधारामये वर्षे नित्यं पतति मूढधीः |
क्षुत्तृष्णाजयमज्ञात्वा यथा कृषिपरो भवेत् || १३७ ||
तथैवाल्लममानन्ददायिनं त्वमजानती |
क्लिश्नासि किं तमाश्रित्य नित्यसौख्यपरा भव || १३८ ||
इत्थं माया स्वचित्तस्यमर्थं सम्यक् तदीरितं ||
श्रुत्वोत्थाय तदाश्चर्यमवाप्यातीव हर्षिता || १३९ ||
मर्मज्ञानप्रकोप्येयं सर्वज्ञेति विचार्य सा |
अगोपयित्वा स्वात्मानं स्पर्शयित्वा ब्रवीत्सखीं || १४० ||
पृ० १०३) प्रभुंप्रति मायया सखीसंप्रेषणम् |
येन केनाप्युपायेन ह्येतदेव प्रयोजनं |
मद्रक्षणार्थमद्यैव साधनीयं त्वया सखि || १४१ ||
न साधयसि यद्येवं दोषः स्यात्तव सुव्रते |
मित्रद्रोहात्परं नास्ति पापमित्याह चागमः || १४२ ||
मनोहरवचोगुंभमाधुरीसारवाग्झरी |
त्वमेव मद्वयस्यानामग्रणीर्मधुमानिनि || १४३ ||
त्वमेवाधिकवेगेन गत्वाल्लमनिकेतनं ||
तस्मै विज्ञाप्य मद्वृत्तं कुरु तत्संमतिं सखे || १४४ ||
न चालयामि मच्चित्तं प्रभौ क्व च गुणाधिके |
आनयेह महोपायैरानंदय ममान्तरं || १४५ ||
तथेत्युक्ताऽथ सा मायामाश्वास्य मधुमानिनी |
कलां च सकलां प्राह युवाभ्यां स्थीयतामिह || १४६ ||
अप्रकाशितगोप्यार्थे वर्तेथां सकलाकले |
मायायाः सन्निधावेव मर्मसंरक्षणोद्यते || १४७ ||
युवां विश्वस्य यास्यामीत्युक्त्वा ते सकलाकले |
तत्रैव स्थापयित्वा सा जगामाल्लममंदिरं || १४८ ||
घुमघुमायमानोद्यत्पुष्पगुच्छमुपायनं ||
पृ० १०४) तां गृहीत्वाऽऽगतां प्राज्ञो ददर्श मधुमानिनीं || १४९ ||
अथोत्थायाल्लमः पीठात्प्रत्युद्गम्य शुचिस्मितः |
अत्यन्तविनयात्साधुर्धूर्तां धूर्तक्रियां व्यधात् || १५० ||
कुत्र गच्छसि पद्माक्षि गच्छ गच्छ तवाऽधुना ||
मार्गदर्शी भवामीति सचमत्कारमब्रवीत् || १५१ ||
इत्युक्तवन्तं सा प्रोचे परिहासं त्यजाभिक |
गच्छ गच्छ गृहं वार्तामाहरामि तव प्रियां || १५२ ||
एवमुक्तवती तेन सहाभ्यन्तः प्रविश्य सा |
प्रसूनस्तबकं तस्मै ददौ स्नेहादुपायनं || १५३ ||
मुकुलीकृत्य हस्तौ सा विलासेन कृतानतिः |
प्रोचे मधुरया वाचा वाचाला वाग्विदां वरं || १५४ ||
निवेशनगृहेणानेनालं तव महाप्रभो |
मायाऽस्माकं प्रियसखी भवज्जालान्तरं गता || १५५ ||
त्वामेव स्मरति सदा तवैव वार्तामालप्य स्तुतिशतमातनोति तावत् |
स्वं स्वं ते भवति सखे भवद्वियोगं शक्नोति क्षणमपि सा न
सोढुमार्या || १५६ ||
पृ० १०५) प्रभुंप्रति मायाविरहवर्णनपूर्वकमधुमानिनीप्रार्थना |
अस्मानप्यसुसदृशीर्न संस्मरंत्यास्त्वययेव स्वकमखिलं समर्प्य सा स्वं
|
त्वत्पादद्वयमिह संस्पृशामि नूनं त्वं त्राता भव मम भाव
भावसख्याः || १५७ ||
अस्माकं स्वामिनी सा सकलगुणवती सर्वसौंदर्यसारा
माया तस्यास्तु भूत्वा तदनुगुणगुणस्त्वं सुधीः प्राणनाथः |
अस्मानेताः समस्तास्त्वदधिगतनिजस्वामिभावानुभावाः
पाहि श्रीमत्कटाक्षप्रसरदमृतधारासहस्रैरधीश || १५८ ||
आगन्तुकोचितमिदं सदनं विसृज्य न्यक्कृत्य कृत्यभिहितं
त्रिदशेंद्रभोगं |
संक्रीडितुं निरुपमानसुखामृताब्धौ मायागृहं मणिमयं
प्रविशार्यवर्य || १५९ ||
इत्युक्तो मधुमानिन्या मंदस्मितमुखांबुजः |
अज्ञात्वेव तदाकूतं प्रभुः प्रोवाच सांजलिः || १६० ||
परदेशा वयं प्राज्ञे प्रभ्व्यो यूयं गुणाधिकाः |
राज्ञः प्रियकुमारी सा माया भुवनमोहिनी || १६१ ||
पृ० १०६) यूयं युवतयः कान्ते विटवेषधरा वयं |
कथं नु युज्यतेऽस्माकं युष्मासु स्थातुमीदृशां || १६२ ||
किंचाश्रित्य प्रवृत्तानामस्माकमुपजीवने |
दूर एव सदा स्थित्वा सेवनीया भवादृशाः || १६३ ||
इति ब्रुवन्तं स्मितपूर्वमारात्तमल्लमं द्राऽऽन्मधुमानिनी सा |
पुनर्बभाषे रसिकाग्रगण्य प्रभो किमेतद्वचनीयमात्थ || १६४ ||
उक्त्वाभिनीयप्रतिपादनं तन्मिथ्येव भातीति किमत्र चित्रं |
युक्त्वा त्वयैव ह्यवलोकनीया मायागुणास्ते महिताः समस्ताः || १६५ ||
यत्प्रौढनायकशिरोमणिना युवत्याः शृंगारसारहृदयोर्जितमोहलौल्यं
|
स्थित्वा पदे पद इहार्य विभावनीयं तत्सर्वमद्य फलितं तव भाति
सख्याः || १६६ ||
इति किल मधुमानिन्युक्तमत्यन्तसूक्ष्मं रसभरितमुदारं वाक्यमाकर्ण्य
साधुः |
अविदिततदभिप्रायेंगितः सन्निवेदं पुनरपि च बभाषे सोऽल्लमः
सर्वगोऽपि || १६७ ||
श्रुतं भवत्या वचनं समस्तं मया यथास्वानुभवं च बुद्धं |
पृ० १०७) अल्लममधुमानिन्योरन्योन्यसंवादः |
तथाऽपि मन्मानसगोचरं तद्वदामि सत्यं शृणु सावधाना || १६८ ||
अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति |
मलये भिल्लपुरन्ध्री चंदनतरुकाष्ठमिंधनं कुरुते || १६९ ||
अधिपतिषु तावदधिकस्पृहयाभ्याशं समेत्य कृत्येषु |
उपजीविनामुपस्थितिरपराधायेति विबुधवार्तेयं || १७० ||
अतेव सेवकानां दूरेऽवस्थानमार्जवं समये |
सेवार्थमंतिकस्थितिरुचितमिदं खलु नृणां शुभोदर्कं || १७१ ||
श्रुत्वैतद्वचनं भूयः प्राह सा मधुमानिनी |
अलमल्लम बह्वीभिर्वृथा वाग्भिः कथंचन || १७२ ||
प्राज्ञस्यैतादृशी बुद्धिर्न योग्या समयासमा |
निश्चयं शृणु मायायाः प्रियसख्या मम प्रभो || १७३ ||
त्वामेव नायकं कृत्वा नित्यसौख्यसुधार्णवे |
रसानुभवलीलायां सदा क्रीडितुमिच्छति || १७४ ||
जानुश्रिय इवाऽकुंच्य मुग्धः पश्चाद्गलत्तनुः |
पृ० १०८) रस्ये विरसवाक्यं त्वं त्यक्त्वा गच्छ यथासुखं || १७५ ||
आकर्ण्य प्रभुरिदमाह तां मृगाक्षीमस्मासु प्रियसवयास्तवाश्रितेषु |
आदध्याद्यदि हृदयं तथाप्यधस्तात्तां कर्तुं वयमनुमन्महे कथं
भोः || १७६ ||
अज्ञात्वा हृदयं प्रभोरनुचरस्तेनोन्नतस्थापित-
स्तावन्मात्रभवन्मदान्धहृदयो दृप्येत चेन्मानवः |
तस्याधःकृतमस्तकस्य पतनं शृंगादिवाद्रेर्भवे-
देतां नीतिकथां विसृज्य स कथं वर्तेयमत्याहिते || १७७ ||
तस्मान्न युक्तमस्माकं मर्यादोल्लंघनं घने |
कथामेतादृशीं भूयो न विस्तारयितुं क्षमा || १७८ ||
इति ब्रुवन्तं प्रौढिम्ना विजृंभितगुणोन्नतिं |
प्रभुं प्रभाकरद्योतं प्राह सा मधुमानिनी || १७९ ||
उपसंहर वाक्यानि वंचनार्थानि मादृशां |
किमज्ञातमिहास्माभिरस्ति वृत्तं भवादृशां || १८० ||
हृदयं तव मायाया रक्तं विटशिखामणे |
अन्यथा सा कथं कुर्यात् त्वयि स्वात्मसमर्पणं || १८१ ||
मायायास्तव चास्त्येव संबंधोऽनादिरल्लम |
पृ० १०९) किं क्लेशयसि मे चित्तमनुगृह्णीष्व भो विभो || १८२ ||
देवासुरमनुष्येषु सिद्धविद्याधरादिषु ||
को वा मायामतिक्रम्य वर्तेत पुरुषो यदि || १८३ ||
एवं दुर्दिनवर्षाभवाक्परंपरया तया ||
पुनः पुनः प्रेर्यमाणः स वाचालितुमक्षमः || १८४ ||
स्वप्रभावेण तां मायामायासयितुमुद्यतः |
अंगीकुर्वन्निव तदा प्राह स्म स्मितपूर्वकं || १८५ ||
वक्तव्यमुक्तमस्माभिस्तूष्णीमास्म ततः परं |
त्वमेव वेत्सि मायायास्त्वदीयाया हृदि स्थितं || १८६ ||
नारोपणीयो युष्माभिरपराधो मयि क्वचित् ||
इतः परं मया किंचिदपि नोत्तरमीर्यते || १८७ ||
इत्युक्तवन्तं सा प्रोचे हर्षगद्गदितं वचः |
किमेतावदहो मां त्वं परितापितवानभूः || १८८ ||
नारिकेलसमं तावद्धृदयं तव गायक ||
अवद्यं मम चाभेद्यं विद्याविनयशेवधेः || १८९ ||
विज्ञाप्य मम मायायै त्वदाचरितमीदृशं |
भवन्तं कारयिष्यामि बुद्धिमन्तं न विस्मर || १९० ||
भाव भाग्यवतां मध्ये भवानेव धुरि स्थितः |
अथवाऽवश्यविद्यायां सिद्धो मन्त्रौषधादिभिः || १९१ ||
पृ० ११०) कस्मिन्मुहूर्ते त्वद्यात्रा दैवज्ञेन निरूपिता |
केषु वा शाकुनेषु त्वं पन्थानं प्राप्तवानसि || १९२ ||
यतस्त्रिलोकमोहिन्या मायाया हृदयं भवान् |
स्ववशं कृतवानद्धा दिनेनैकेन शीघ्रतः || १९३ ||
इत्यानुकूल्यं प्रापयय स्वेनैव मधुमानिनी |
कृतार्थयन्ती स्वात्मानं ययौ मायांगनां प्रति || १९४ ||
तत्र मायावधूट्यास्तु ररंज हृदयं स्वयं |
जुजृंभिरे तथांगानि कला ववृधिरे क्षणात् || १९५ ||
यतश्चकंपे वामाक्षिभुजोरुस्तनमेकधा |
अभीप्सितार्थलाभः स्यादिति निश्चितवत्यभूत् || १९६ ||
तदा मुखविकासेन सखीं सा मधुमानिनीं |
दृष्ट्वा समागतां हर्षादालिंग्य विवशाऽभवत् || १९७ ||
अथ पुलकितगात्री प्राह तां राजपुत्री सुमुखि गमनकार्यं किं फलं
वा शलाटुः ||
इति कृतबहुमाना जीवयन्ती वयस्यां प्रियसखि फलमेवेत्याह
निष्कृष्टमर्थं || १९८ ||
पृ० १११) मधुमानिन्या मायादत्तपारितोषिककथनं |
ततः क्रमादल्लमवाक्यरीतिमथ स्वकीयोत्तरचातुरीं च ||
तदानुकूल्योचितनैपुणीं स्वां जगाद तस्याः पुरतः सखी सा || १९९ ||
श्रुत्वा वृत्तान्तमेषा सकलमभिमतं सौख्यसिन्धौ निमग्ना
मायाऽस्यै षोडशोद्यच्छतसहितसहस्राढ्यसौवर्णमुद्रा |
दीव्यत्कौशेयपट्टांबरमणिवलयस्वच्छमुक्ताललामा-
न्याशापूर्णं ददौ वाऽऽन्मधुरतरसुधाधारया प्लावयच्च || २०० ||
तत्रत्यस्त्रीकदम्बं मधुयुवतिमथो तुष्टुवे बुद्धियुक्ती
त्वन्निघ्ने द्वे यतस्त्वं युवयुवतिजनद्वंद्वसौख्यानुकूल्ये |
निष्णातेति प्रभूतं कलकलमथ तं तत्र तासां निवार्य
क्ष्माभृज्जानाति चेत्स्याद्विपदिति सकला गोपयामास सर्वं || २०१ ||
तस्मिन्प्रसऽऽन्गे सकलावधूटी चातुर्यसंक्षेपितपूर्वरंगे |
उदर्कलाभोदितसौख्यसांद्रा रात्रिं कथंचिद्विनिनाय माया || २०२ ||
अथापरेद्युः स्मरबाणतप्तां सुखापयित्वा चटुवाग्भिरालिं |
पृ० ११२) तया नियुक्ता मधुमानिनी सा ययौ निशायां गृहमल्लमस्य || २०३
||
मधुरतरवचोभिस्तं प्रभुं प्रीणयित्वा रहसि कृतसपर्या
भोज्यवस्त्रानुलेपैः |
अविदितनिजवृत्ता येन केनापि तन्वी शयनगृहममुष्या जारभावान्निनाय
|| २०४ ||
अथ मायां दिव्यांबरभूषणमाल्यानुलेपतिलकाद्यैः ||
विरचितसदलंकारामानीय तदंकमाश्वलंचक्रे || २०५ ||
सख्यस्तत्तत्सेवाव्याजेनेतस्ततस्ततो जग्मुः ||
केलीसदनकवाटं स्वयमथ मधुमानिनी पिधायागात् || २०६ ||
अथ सा माया मन्मथभूतावेशाद्विजृंभितस्वान्ता ||
अल्लममालिंग्य हठादियेष पुरुषायितक्रियां कर्तुं || २०७ ||
तदा प्रभुर्नीलपयोदमध्ये विद्युल्लतेव द्युतिमात्ररूपः ||
शक्यः समालोकितुमेव गाढं नालिंगितुं किंचिदपि स्म शक्यः || २०८ ||
नीलं नभ इति लोकप्रवाद इव भाति सोऽस्तितामात्रात् ||
तस्यां केलिरिरंसौ सगुणोऽपि स निर्गुणो यथार्थतया || २०९ ||
पृ० ११३) प्रभौ रिरंसुमायानैपुण्यनैष्फल्यकथनम् |
कुंदरदनारदांकुरनिष्पीतस्तदधरो मृषाभूतः ||
तस्याश्चकार लज्जां निजमुखफूत्कारकारितामात्रात् || २१० ||
हस्तेन हस्तमस्यामादित्सौ सोऽपि शून्यतां याति ||
गगनग्रहणसदृक्षो भवति समक्षं तदा तदारम्भः || २११ ||
दृढपीनकुचघटाभ्यां तदुरः संघट्टितुं यतेत यदा ||
अम्बरपरिरंभणमिव स तदा दुःखाकरोति तां यत्नः || २१२ ||
इति मदनमदान्धा भावितानेकबन्धा विरचितरतिनृत्या व्यर्थकृत्यैव
साऽभूत् ||
अखिलजगति पूर्णोऽप्यल्लमो व्यक्ततीर्णो न
विकृतिमुपलेभेऽनंगतंत्रेऽतिरेफे || २१३ ||
एषोऽल्लमस्य महिमा कथितो मुनींद्राः सर्वात्मनः सकलवेदशिखामयस्य
||
शृण्वन्ति ये सततमेतमुदारभावास्ते यान्ति बन्धरहितं परमं पदं
तत् || २१४ ||
पृ० ११४) इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां मायाविलासवर्णनगतिर्नाम चतुर्थोऽध्यायः ||
पृ० ११५) अंल्लमवशंगतमायायाश्चिंतावर्णनम् |
|| श्रीनंदिकेश्वराय नमः ||
पंचमोऽध्यायः ||
सूत उवाच-
श्रीसिद्धवीरगुरुमण्डलचक्रवर्तिपादाब्जभक्तिनिरताः परिभूतमायाः
||
मोक्षार्थिनः परिहृतोर्जितकाममोहाः शृण्वन्तु सन्मुनिवराः
प्रभुलिंगलीलां || १ ||
अहो चिदम्बरतनुः परेशः परमः पुमान् ||
कथं क्रियासु किंचिज्ज्ञ इव मज्जति भो द्विजाः || २ ||
वशीकृताखिलजना माया दुर्घटकारिणी ||
वशं गतांऽल्लमस्यैवं परितापमवाप सा || ३ ||
दृगादिगोचरास्तस्यास्तस्य देहेंद्रियादयः ||
मायाया अपि मायात्वं गता हिमकला इव || ४ ||
अथ संतप्तसर्वांगी भृंगीव कनकस्पृहा ||
चिन्तामवाप तन्वंगी नितान्तान्तरदाहिकां || ५ ||
भीरुर्वीरेण कलहे सन्नद्ध इव मन्दधीः ||
पराजिताल्लमेनाहं वृथाभ्रमणमन्थरा || ६ ||
हस्तेन हस्तमोष्ठाभ्यामोष्ठं पादं पदेन च ||
देहेन देहं संबध्य न गृहीतुं क्षमाऽस्म्यहं || ७ ||
अहो बत बतेत्युक्त्वा ग्लानाननसरोरुहा ||
पृ० ११६) मुहुर्मुहुर्निःश्वसन्ती माया मूर्च्छामवाप सा || ८ ||
ततो मोहाद्विनिष्क्रम्य क्रमान्निद्रामवाप्य सा ||
तत्र स्वप्नमिवालोक्य प्रातः प्रबुबुधे ततः || ९ ||
केलिगृहाद्विनिष्क्रम्य सखीनां पुरतः स्थिता ||
खिन्ना विचलितापाऽऽन्गा जगाद स्वप्नमास्तिकाः || १० ||
विलोक्यमाने पुरतः पुरा रूपमिव स्थितं ||
प्रेम्णालिंगितुमुद्युक्तौ नास्त्यभिज्ञानमालयः || ११ ||
अप्रज्ञानेन मनसि प्रतिकूले कथंचन ||
मां न संगच्छते तावदाशैव मयि तस्य न || १२ ||
सर्वावस्थासु मामेवमल्लमः स्थापयत्यलं ||
किं करोमि क्व गच्छामि का गतिः प्राणधारणे || १३ ||
एवमुक्तवतीं मायामाश्वास्याल्यः प्रियोक्तिभिः ||
साधयामस्तवेष्टार्थमिति स्वप्नार्थमूचिरे || १४ ||
अल्लमोऽयं महाभागो धीरोदात्तगुणोत्तरः ||
वशं गमयितुं शक्यो नास्मादृशवधूशतैः || १५ ||
किं तु भाग्यवशात्पुण्यामनुगृह्णाति चेत्स्वयं ||
पृ० ११७) मायासख्योरुक्तिप्रत्युक्तिकथनम् |
न लिप्यते पापकेन पद्मपत्रमिवांभसा || १६ ||
अतः साहसिकं त्यक्त्वा तदनुग्रहकांक्षया ||
प्रतीक्षणीयः समयस्ततः सोऽयं प्रसेत्स्यति || १७ ||
वक्तृतात्पर्यसामर्थ्याल्लोके स्वप्नः फलिष्यति ||
किंच स्वप्नोदितं सर्वं जाग्रति प्रातिकूल्यभाक् || १८ ||
अतस्तात्पर्यमर्यादा तव स्वप्नस्य भामिनि ||
त्वययाशा तस्य पूर्णास्ति स त्वां संगच्छतेतरां || १९ ||
विस्रंभादस्मदुक्तार्थे स्थिरा भव वरानने ||
इति तासां वचः श्रुत्वा माया प्रोवाच ताः पुनः || २० ||
अलौकिकनटस्यास्य मायानाट्यं न वेद्म्यहं ||
कथं वा ज्ञायते लोकैरलौकिककथेदृशी || २१ ||
गृहीत इव दृश्यते न खलु गृह्यतेऽसौ कथं वशं गत इवेक्षते न
खलु कस्य वा प्रश्रितः ||
विमोहित इवोह्यते सकलमोहकोऽस्मादृशां न मुह्यति सदेहवन्नटति हा विदेहो
ह्ययं || २२ ||
पृ० ११८) स्मरवदनन्यस्तपदः स्मरकलया पूरितेन रूपेण ||
स्मरबाणतप्तचित्ता वराननाः कर्तुमुद्यतो मायी || २३ ||
त्रिदिवादिवावतीर्य क्षितितलमकलंकतेजसा नूनं ||
चरति सुरयोनिरवनौ नहि नृर्णामीदृगद्भुतं नटनं || २४ ||
अथवा पुरहर एष स्मरवैरी सिद्धपुरुषसम्राड् वा ||
अहहा तथाऽपि कामो मामिह चूर्णीकरोतु बत तूर्णं || २५ ||
इति माया कुसुमायुधमायागाढांधकारपतिताऽर्ता ||
विलपन्ती क्रोशन्ती मूर्छन्तीति स्मरन्त्यदः सकलं || २६ ||
बुध्यन्ती स्थास्यन्ती निपतन्ती भ्रमवशाद्वृषस्यन्ती ||
विलुठन्ती चकृशन्ती भृशं तिरस्तत इतोपि धावन्ती || २७ ||
एवं संकल्पाद्यैर्दशाविशेषैस्तताप सा माया ||
तत्परितापनिवृत्त्यै सख्योऽल्लममेव भावयन्ति स्म || २८ ||
द्वित्रा दिवसा एवं गतास्ततश्चावगम्य तद्वृत्तं ||
गूढसखीमुखतस्तज्जननी मोहिन्यवाप तद्गेहं || २९ ||
पृ० ११९) विदितवृत्तान्तया मात्रा कृतमायागर्हणम् |
अर्धरात्रसमये समवेत्य प्रेक्ष्य तां निजसुतां प्रतपन्तीं ||
विस्मिता बत बतेति जुगुप्सामाप्य लालनवचोभिरुवाच || ३० ||
बाले किमित्थमौचित्यं विहाय विहसन्मुखं ||
संशोष्य स्मरतप्तेव प्रलपन्ती कृशस्यऽहो || ३१ ||
विनालंबनमुद्दीप्तिर्नोद्दीपनमृते रतिः ||
नानुभावो रतिं हित्वा कुतः स्यात्सात्विकोदयः || ३२ ||
अथवा जारभावेन कस्मिन् वा पुंसि ते मतिः ||
लग्ना चेन्मानहानिः स्यादादौ मम ततस्तव || ३३ ||
किंच त्वज्जनको राजा ममकारमहीपतिः ||
न सोढुं शक्यते तेन ख्यातेनापयशोलवः || ३४ ||
अंडीरे मण्डलाधीशपुत्रिके कुत्र ते गतः ||
विवेकः कीरवाक्तुल्या विद्या तव कथं सहे || ३५ ||
मादृशीषु महासाध्वीष्वहं लज्जाभरात्कथं ||
मुखं पूर्णेन्दुसदृशं कलंकीकृतमावहे || ३६ ||
किंचिद्वा यदि जारत्वमस्ति चेत्तद्बहिः स्फुरेत् ||
पृ० १२०) न हि गोपयितुं शक्यं निंदिष्यंति समं समाः || ३७ ||
त्वं किं करोषि किंकर्यः स्मरविद्योपदेशिकाः ||
सख्यस्त्वां भ्रंशयन्त्येताः स्वयं भ्रष्टाः कथं सहे || ३८ ||
इत्युक्त्वा तन्मुखी भूत्वा हंजे कथमिमां कथां ||
उपदिश्य स्मरस्यास्यै कुतो निर्भीकतां गताः || ३९ ||
अहो विटविटीद्वंद्वसंधानकृतनैपुणीं ||
अभ्यस्य कुट्टिनीभावादुट्टंकितकलाकथाः || ४० ||
रतिमुत्पाद्य कस्मिंश्चिद्रसपोषणतत्पराः ||
कन्यां मदीयामन्यायात्प्रभ्रंशयितुमद्यताः || ४१ ||
विदितं यदि किंचिदपि प्रभुणा भवतीरवती किमियं नु सखी ||
श्रुतिना समदः कथमस्ति कथा मनुतिष्ठतु दुष्टतरालिजनाः || ४२ ||
विद्यावन्तोऽपि भूपालाः काले माद्यन्ति निश्चितं ||
कुपितश्चेदतो राजा स्त्रीवधं नावमन्यते || ४३ ||
सकले सकलं ज्ञात्वा ग्राम्यकक्ष्यां किमाश्रिता ||
परिहासादपि भ्रंशं शास्त्रान्न सहते विधिः || ४४ ||
पृ० १२१) मोहिनीं प्रति सकलानामसखीवचनम् |
इति सकलास्ताः सकलामविशेषविशेषतो रुषाऽऽक्षिप्य ||
निह्नुवतीं मोहवतीं मोहिनिकामप्युवाच तां सकला || ४५ ||
देवि त्वदुक्तमेवं तथापि तावन्न कुप्यसि त्वं चेत् ||
कथये कुमारिकाया वृत्तं वृत्तस्तनोरुजघनायाः || ४६ ||
नास्माकमत्र मन्तुः सन्तानस्यापि केन चागन्तुं ||
मधुकेशालयशालामध्ये दध्यो दृशाऽल्लमं बाला || ४७ ||
अर्चावसाने मम माययाऽसौ दृष्टो यदा त्वत्तनया तदादि ||
विस्मृत्य सर्वं स्मरकार्मुकेभ्यः समर्पयामास निजं शरीरं || ४८ ||
मर्मस्वशेषेषु कठोरमारप्रक्ष्वेलनक्षोदितसर्वगात्री ||
प्राणान् बहिष्कृत्य निमेषमात्रप्रस्थापितानुच्छ्वसितीव माया || ४९ ||
इत्थं व्यथासागरवारिमग्नामुद्धर्तुकामाहमभीरभीकां ||
चकार गोप्यं स्मरकार्यसंधिं हठात्कथं वा कुरु मोहिनि त्वं || ५० ||
भयं परित्यज्य भणामि सत्यं शृणुष्व राशि त्वमिहात्मजायाः ||
पृ० १२२) मुखं कथं पश्यसि तावदेतत्कार्यं मया यद्यननुष्ठितं चेत्
|| ५१ ||
एवं परिज्ञातवधूस्वभावा सा मोहिनी तत्सकलामुखाब्जात् ||
आकर्ण्य पुत्रीविपदं हृदार्ता प्रेम्णा वयस्याः पुनराह तस्याः || ५२ ||
हे अक्का यन्मयोक्तं कठिनतरवचस्तत्सहध्वं कुमारी-
द्रोहिण्या युष्मदीया खलु मम तनया येन केनापि तस्याः ||
चातुर्येणाल्लमस्य स्मरसमरसुखं साधु सम्पादनीयं
मा भैष्टेष्टानुकूल्यान्मम दुहितृमणेः प्राणरक्षैव कार्या || ५३ ||
शृणुध्वं महिलाः सर्वाः पशुपक्षिमृगादिषु ||
उत्पाद्योत्पाद्य भाग्येन केनचिन्नरजन्मभाक् || ५४ ||
नरजन्मसहस्रेषु दारिद्र्यं प्राप्य तत्पुनः ||
केनचिद्राजपुत्रीत्वं प्राप्यते पुण्यकर्मणा || ५५ ||
तत्र पुण्यविशेषेण योग्यभोगानुभावनं ||
अस्ति चेज्जगतीमध्ये तत्स्याज्जन्मफलं महत् || ५६ ||
अतो मत्प्रेमतनयामसंत्यज्य यथासुखं ||
रतिसौख्यसुधावार्धौ संक्रीडयत सादरं || ५७ ||
पृ० १२३) प्रभोरंगीकारे समायासर्वसखीनामन्योन्यविचारः |
इत्युक्ता सकला राज्ञीं कृतांजलिरभाषत ||
समयज्ञा मनस्तस्याः समाधापयितुं नयात् || ५८ ||
अस्मत्सख्यास्तु मायायास्त्वया राज्ञा च चिंतितं ||
यत्कार्यं तत्स्वतः सिद्धं भाग्यं सर्वत्र कारणं || ५९ ||
श्रुत्वैतन्मोहिनी भूयः स्मितपूर्वमभाषत ||
रहस्यमेतत्कर्तव्यं युष्माभिर्भावितात्मभिः || ६० ||
निशायामेव सम्बन्धः कार्यो मायाल्लमार्ययोः ||
न ज्ञायते यथा राज्ञा तथा चातुर्यमीर्यतां || ६१ ||
इत्युक्त्वा सा ययौ माता ततोऽल्लमविभोः क्रियां ||
विचित्रां फलसम्बंधरहितां तां विचार्य ताः || ६२ ||
दृढाश्मताडनात्पाणिपीडान्यायाद्भयान्विताः ||
मायया सह संमन्त्र्य रहस्यन्योन्यमूचिरे || ६३ ||
भयलज्जे परित्यज्य विहर्तुं स्वेच्छया सदा ||
कांक्षयास्माकमेवैष प्रयत्नो नाल्लमस्य हि || ६४ ||
लक्ष्यालक्ष्यस्वरूपोऽयमल्लमो जनयन्रुचिं ||
कामं न पूरयत्यद्धा सख्यः किं करवाम वै || ६५ ||
पृ० १२४) क्व वावधिरभाग्यस्य पापः कामो हि दुर्भरः ||
इति चिंताकुलास्वासु प्रौढवाचाऽल्लमोऽब्रवीत् || ६६ ||
यूयं संघीभूय भूयो युष्मास्वेव किमण्यहो ||
संमन्त्रयथ वक्तव्यं यथेदं ज्ञायते मया || ६७ ||
तमूचुस्ताः सखे सर्वं ज्ञातमेव त्वया ननु ||
तथाऽपि कथयिष्यामः श्रुत्वा प्रतिकृतिं वद || ६८ ||
त्वदधीनात्मजेत्येतमर्थं श्रुत्वा तु मोहिनी ||
मायाया जननी रात्राविंगितज्ञा समागता || ६९ ||
प्राणप्रियामपि सुतामाक्षिप्य बहुधा च नः ||
मन्दाक्षीकृत्य मायायाः पुरतो गर्हणोक्तिभिः || ७० ||
जुगुप्सिता सुता प्रेम्णा गोपयध्वमिति क्रुधं ||
उपसंहृत्य धिक्कृत्य गताऽस्माकं कथं रहः || ७१ ||
अल्लमोऽपि सखीवाक्यं श्रुत्वा लौकिकवन्नटन् ||
जगाद ननु भामिन्यः कथं मां गोपयिष्यथ || ७२ ||
केनोपायेन मायाया अपराधो न भाव्यते ||
राज्ञैव ज्ञायते चेद्वो रहस्यं सोढुमक्षमं || ७३ ||
पृ० १२५) मायाविषये प्रभुसकलयोरुक्तिप्रत्युक्तिः |
विचार्य साधु सकलं ब्रूत मां यद्धितं वचः ||
इत्युक्ता सकलज्ञा सा सकलाऽल्लममब्रवीत् || ७४ ||
भ्रातृभिर्भगिनीभिर्वा भार्याभिरथ वात्मजैः ||
पुत्रिकाभिरथान्यैर्वा त्याज्या नीतिर्न भूपतौ || ७५ ||
क्षोणीपतिं विना सर्वैर्विदितं कार्यमेव नः ||
न रहस्यमिदं कर्तुं शक्यते येन केन वा || ७६ ||
अतस्त्वयि गृहस्थे तु प्रियसख्या मम प्रभो ||
यथा कथंचिद्राजाऽपि ज्ञास्यत्येव न संशयः || ७७ ||
बहिर्निवेशनं गत्वा यथापूर्वं स्थिते त्वयि ||
आह्वयिष्यामहे काले तदाऽऽगच्छ यथासुखं || ७८ ||
भुक्त्वा मायां तोषयित्वा पुनर्गत्वा स्वमंदिरे ||
एवं प्रवर्तसे चेत्त्वं गोपयिष्यामहेऽखिलं || ७९ ||
इति ब्रुवाणास्तास्सर्वाः स्मयन्नाहाल्लमः पुनः ||
विज्ञातुं तदभिप्रायं मायामपि विमोहयन् || ८० ||
सकले न मृषा वच्मि विलासार्थमपि क्वचित् ||
सत्यं ब्रवीमि सर्वज्ञे निश्चयं शृणु मे सखि || ८१ ||
मायां विना न शक्नोमि किंचिद्वा वक्तुमंजसा ||
पृ० १२६) स्वरूपमेव मे वेत्तुं न किंचिदपि शक्यते || ८२ ||
न पाणिपादचलनं न श्रुतिः श्रोत्रवर्त्मना ||
न कुत्राप्यस्ति शक्तिर्मे मनोदेहेन्द्रियादिषु || ८३ ||
बहुना किं तनुर्नैव तिष्ठति प्राणमारुतः ||
न संचरति तां त्यक्त्वा केवलात्मन्यवस्थिते || ८४ ||
अमृत्वा मृतवद्भामि किं करोमि शुभानने |
अतस्तामनुसृत्यैव वर्तनीयं सदा मया || ८५ ||
इति तत्वार्थवक्तारमज्ञात्वा काममोहितं ||
विज्ञाय सकला मोहात्पुनरल्लममब्रवीत् || ८६ ||
किमिदमल्लम दैन्यवचोऽधुना मनसि धैर्यमवाप्नुहि मा कृथाः ||
समयलंघनमिष्टफलं नृणां भवति भाग्यवशात्स्वयमंजसा || ८७
||
मायायास्तव च भवेदृणानुबन्धो यद्येवं मुहुरुभयोः समागमः स्यात् ||
तावत्त्वं मधुपतिभोगिनीसमाजे संतिष्ठ स्फुटमभिवादयन्मृदंगं
|| ८८ ||
संकेतं तव च वदामि तत्र नित्यं मायेयं मधुपतिसेवने समेत्य ||
सान्निध्ये तव किल शिक्षया नटन्ती सानन्दं रसकलया करिष्यते त्वां
|| ८९ ||
पृ० १२७) मधुकेशालये प्रभोः स्थितिकथनम् |
यदि भवति रिरंसा मादनोन्मादहेतोः परमरहसि कृत्वा तत्र
तत्रोपभोगं ||
विषयसुखसमुद्रे डोलयात्मानमेकं मम हि कुशलता ते साधनं
सर्वकार्ये || ९० ||
प्रभुरिति सकलायास्तावदाकर्ण्य वाक्यं शुभमिति मधुकेशस्यालयं
प्राप्य तस्थौ ||
अथ नरपतिपुत्री साऽल्लमस्नेहपाशग्रथितहृदयकोशा तद्वशं प्राप
माया || ९१ ||
मायाविलासकथनं श्रुतमेतदार्यास्सर्वं भवद्भिरनुमोदिततत्वभावैः
||
शृण्वन्ति ये सततमीश्वरदत्तचित्तास्ते यान्ति शांभवपदं प्रविमुच्य
मायां || ९२ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
प्रभुकृतमायाविलासनिरसनचातुर्यवर्णनगतिर्नाम पंचमोऽध्यायः |
पृ० १२८) श्रीनंदिकेश्वराय नमः ||
षष्ठोऽध्यायः |
सूत उवाच-
सिद्धवीरेश्वराचार्यसार्वभौमपदाम्बुजे ||
भक्ताश्चिदमलस्वान्ताः प्रभोः शृण्वन्तु सत्कथां || १ ||
इत्थं प्रभोर्वशं गत्वा माया दुर्घटकारिणी ||
नृत्यव्याजेन तं नित्यं प्रावर्तत समाश्रिता || २ ||
एवं स्थितायां रुद्राणी कदाचिद्विमलाभिधां ||
आहूयेष्टवयस्यां तामुवाच वचनं रहः || ३ ||
सखि मे तामसी माया प्रभुमल्लममात्मनः ||
विलासैर्विषयासक्तं करिष्यामीति गां गता || ४ ||
तत्राल्लममहिम्नेयं स्वयमेव वशीकृता ||
विभीषयितुमुद्युज्य स्वयं भीतेव भाति मे || ५ ||
स्वकार्यं सर्वमुत्सृज्य विस्मृत्यात्मानमेव सा ||
अस्मदाज्ञामिवोल्लंघ्य वृथा तद्वशगाऽभवत् || ६ ||
अतस्त्वं भूतलं गत्वा विमले संप्रबोध्य तां |
त्वया सहैव मन्मायां समानय ममान्तिकं || ७ ||
एवं गिरिजयाऽऽज्ञप्ता बाढमित्यभिवाद्य तां |
संकल्पात्प्राप नगरीं ममकारमहीपतेः || ८ ||
पृ० १२९) पौरजनकृतविमलासौंदर्यवर्णनम् |
तत्र सा विमला तन्वी सौंदर्यरसशेवधिः |
अदृष्टपूर्वा ददृशे पौरैरायतलोचनैः || ९ ||
नैल्यसर्वस्वधम्मिल्लं चपले चारुलोचने |
सुधास्रावार्द्रमधरं भुजकल्पलते मृदू || १० ||
विद्युन्निभामंगयष्टिं समपीनपयोधरौ |
ऋज्वीं रोमावलिं लक्ष्यां वेपमानावलग्नकं || ११ ||
नितम्बबिंबं कंदर्परथांगजयमंगलं |
रंभास्तम्भोपमावूरू जंघे मदनकाहले || १२ ||
रज्जत्किसलयोल्लासि पदद्वंद्वं कनन्नखान् |
दृष्ट्वा तस्याः पुरजनाः कौतुकं प्राप्य तुष्टुवुः || १३ ||
अहो जगदतीतेयं का वा कमललोचना |
वियुक्ता पंचबाणेन प्राप्ता वा भूतलं रतिः || १४ ||
अलौकिकी वा कान्तेयमचंचलतडिल्लता|
भूचरी वाथ कल्याणी पूर्णेन्दो रुचिरा कला || १५ ||
चेतनेयं पताका वा स्त्रीरूपा पुष्पधन्वनः |
प्रमदाकृतिमापन्नः शृंगाररस एव वा || १६ ||
पृ० १३०) इति स्तुवन्त्यां सा पौरजनतायां विलोकिता ||
मायया मधुकेशस्य निन्ये निजगृहं गृहात् || १७ ||
विविधैरुपचारैस्तामभ्यर्च्य विनयान्विता |
विमलां तोषयामास माया विमलया गिरा || १८ ||
कस्मादागमनं देशात्किं नाम तव मंगलं |
किमेष्यन्तीह संप्राप्ता मदीयाद्भाग्यगौरवात् || १९ ||
प्रियसख्या इव तव स्वान्तं स्निह्यति दर्शनात् ||
इत्युक्ता विमला प्रोचे मायां संबोधयन्त्यलं || २० ||
माये रहस्यवचनं सावधानेन मे शृणु |
अस्मदीयजना एव तिष्ठन्त्वत्र तवांतिके || २१ ||
शिवस्तुरीयः सर्वज्ञो भूमावल्लमनामतः ||
स्वच्छन्दमवतीर्यार्ये वर्ततेऽत्र शिवालये || २२ ||
अलौकिकचमत्कारैः संवादयति मर्दलं |
तद्वशीभूय माया मे कार्यं विस्मृतवत्यभूत् || २३ ||
अनिर्वाह्यप्रतिज्ञाऽपि त्यक्तलज्जा निराकुला |
तत्रैव वर्तते भूयो नागच्छति ममान्तिकं || २४ ||
पृ० १३१) अज्ञातस्वकार्यांमायामुद्दिश्य विमलोक्तिनिरूपणम् |
अतस्तत्सन्निधिं गत्वा संप्रबोध्य विवेकतः ||
मत्सन्निधिं प्रापय तामित्याज्ञप्ताऽहमंबया || २५ ||
तत्प्रेषणवशादेव त्वामानेतुमिहागता |
इत्युक्ता विमलां प्राह माया विस्मितमानसा || २६ ||
क्वाऽहं क्वचांबिका देवी क्वानुगृह्णाति मानुषीं |
अल्लमस्य वशं नीतां कथं जानाति मां स्वयं || २७ ||
आश्चर्यमिव मे भाति सर्वं ब्रूहि यथार्थतः |
उक्तेत्थं विमला प्रोचे मायामज्ञातनिष्ठुरां || २८ ||
अचिंत्याद्भुतशक्त्या त्वं प्रभोरीशस्य मायया |
तिरोहितात्मविभवा सर्वं विस्मृतवत्यसि || २९ ||
कियती त्वं हरिब्रह्मशक्राद्याश्च शिवाज्ञया |
अवतीर्य क्षितौ पूर्वमज्ञातनिजशक्तयः || ३० ||
प्राकृता इव भार्यादिवियोगैरखिदन् खलु |
स्वात्मानमेव नाजानन् बहुना किं शृणु प्रिये || ३१ ||
न ज्ञायते यदि स्त्रीभिः स्वरूपं किं तदद्भुतं |
इत्युक्त्वाऽऽत्मप्रबोधार्थं मायायाः स्पष्टमाह सा || ३२ ||
शिवे सभायामात्मेशमल्लमप्रभुमादरात् |
पृ० १३२) सर्वोत्तमत्वभावेन संस्तुवत्यद्रिनंदिनी || ३३ ||
असूयया कियांस्तस्य महिमेति निरस्य तं |
मदीयया माययैव विजित्याकर्षयामि तं || ३४ ||
इति प्रतिज्ञयाऽत्र त्वामानिनाय महेश्वरी ||
विस्मृता किं स्मर स्वान्ते वार्तामेतामतिस्फुटं || ३५ ||
जातिस्मरत्वं संप्राप्य तावन्मात्रेण सा सखीं |
विमलां तां बहूकृत्य प्रीत्या प्रोवाच भो द्विजाः || ३६ ||
विमले विमलात्मा त्वं त्रिमलक्षयकारिणि ||
यतो भवत्संगमतो ममाज्ञानं विनश्यति || ३७ ||
कलाभिर्वर्धमानं हृत्कमलं मम रोचते |
स्थितिश्च चलनं हित्वा निश्चला भवति प्रिये || ३८ ||
अन्तश्चिन्तास्समस्ताश्च विनष्टा भ्रांतयो गताः |
किमाश्चर्यकरं सर्वमिदं सज्जनसंगतेः || ३९ ||
यदा सज्जनसंगः स्यात्स्वरूपं ज्ञायते तदा |
अतो मज्जननी साक्षात्त्वमेव न तु भामिनी || ४० ||
आस्तां तावत्प्रभोस्तस्य कथां कथय भामिनि |
पृ० १३३) मायामुद्दिश्य विमलोक्तवल्लिगावीनगरवर्णनम् |
तत्स्वरूपप्रभावादीन् श्रोतुं कौतूहलं हि मे || ४१ ||
इति संप्रार्थिता प्रोचे विमलाऽल्लमसत्कथां |
यथाक्रमं यथाशास्त्रं पूर्वैः पूर्वतरश्रुतां || ४२ ||
विमला-
शृणु माये वनवसी वल्लिगावी पुरद्वयं |
क्षोणीवध्वाः स्तनद्वंद्वमिव संशोभतेतरां || ४३ ||
वल्लिगावी तयोः कल्पवल्लीवेष्टार्थदायिनी |
भोगभाग्यावहा नृर्णामनौपम्यगुणाधिका || ४४ ||
सकलसुजनसेव्या सम्पदौन्नत्यभव्या निगमनियमनश्रीदानसेवाधुरीणैः
|
द्विजपदजसमाजैरंचिता पूर्णकामैः सुचरितवननीवी शोभते
वल्लिगावी || ४५ ||
तत्राखिलश्रीनिलयौ महेशध्यानावधानोदितदिव्यभावौ |
अकामनिष्कामसदाप्तकामनिजात्मकामौ मुनिदम्पती स्तः || ४६ ||
पुरुषो निरहंकारः सुज्ञानाम्बा तदंगना |
तयोः को वेत्ति माहात्म्यं नाम्नैव ज्ञायते बुधैः || ४७ ||
पृ० १३४) तौ दम्पती
सकलसम्पदनूनभोगभाग्यानुभूतिभिरुपात्तविरागभावौ |
सन्तानहैन्यजनितांतरनंतचिन्ताक्रान्तौ परस्परममंत्रयतां निशान्ते
|| ४८ ||
मानहीनवनिता न गणेया दानहीनधनिताऽपि तथैव |
ज्ञानहीनजनमूढसपर्या ध्यानहीनजपिताऽपि तथा स्यात् || ४९ ||
तद्वदेव सुतहीनजनश्रीश्चंद्रिका वनगतेव निरर्था |
सूनुना सुमतिना भवितव्यं नौ ततो भवति नौः स हि तर्तुं || ५० ||
अपुत्रस्य न लोकोऽस्तीत्याह च श्रुतिरादरात् |
इत्युक्तवन्तं भर्तारं सुज्ञानाम्बा ततोऽब्रवीत् || ५१ ||
भर्तः क एवं एष संकल्पः प्राज्ञस्य तव जायते |
मृगतृष्णायितानंतजगज्जालैकसंसृतेः || ५२ ||
सुतैः सतीभिर्धनराशिभिर्वा गृहैर्गजाश्वैर्मणिभूषणैर्वा |
असंगचैतन्यनिरंकुशस्य पुंमात्ररूपस्य चिदात्मनः किं || ५३ ||
मृषा विलासाः खलु मायिकास्ते प्रपंचरूपाः परमार्थतो न |
अनित्यता तेष्वखिलैश्च दृष्टा नित्याऽनवद्या शिवभक्तिरेका || ५४ ||
पृ० १३५) पुत्रार्थं सुज्ञानांबानिरहंकारकृतानुष्ठाननिरूपणम् |
अनादिमायान्धतमिस्रलेपात्स्वरूपविज्ञानपथे विनष्टे |
स्वकण्ठचामीकरवच्छिवत्वं जीवो न जानाति गतः पशुत्वं || ५५ ||
अतः शिवज्ञानमवाप्य कामैर्भक्तिः शिवे संततधारयैव |
धार्या न चान्यत्समपेक्षणीयं पुत्रादिकं सर्वमिदं वृथान्ते || ५६ ||
श्रुत्वा साध्वीवचनं निरहंकारोऽपि लोकरक्षार्थं |
तनयं विज्ञानघनं कलये शिवमित्यमन्यत स्वान्ते || ५७ ||
अथ तपसा सर्वेश्वरमाराध्य तमेव पुत्रयिष्यामि |
देवाश्चायन्नग्रे तपसा तामेव देवतामिष्टां || ५८ ||
ऋषयः स्वरन्वविंदन् तपसाऽरातींस्तथानुदन् पूर्वे ||
सर्वं प्रतिष्ठितं तपसीति श्रुतिराह परमता बुद्ध्या || ५९ ||
इति संकल्प्य महात्मा जपयज्ञं तन्निदानमित्यालोच्य |
संध्याजपनयमपसृज्यैकान्तं प्राप भार्यया सह सः || ६० ||
तत्रागमोक्तविधिना परिशोध्य भूमिं व्याघ्राजिने कुशगते
सशितोर्ध्वचित्तौ |
पृ० १३६) तौ दंपती समुपविश्य शिवव्रतस्थौ पद्मासनं
रुरुहतुर्नियमैर्यमैश्च || ६१ ||
बुद्ध्या निरुद्ध्य सहसाखिलचित्तवृत्तीर्भूतानि पंच परिशोध्य
तदीयबीजैः |
जित्वेंद्रियाण्यथ करस्थनिजेष्टलिंगे दृष्टिं निधाय
परमात्मपदात्तलक्ष्यौ || ६२ ||
आकर्ण्य नादमथ चित्प्रणवान्तराले संधाय बुद्धिमपहाय विचित्रनादान्
|
प्राणं त्वपानमरुता सह योजयित्वा संबोध्य सुप्तकुलकुण्डलिनीं
त्रिकोणे || ६३ ||
तस्माद्विभिन्नमुखपश्चिमनाडिकान्तर्मार्गेण षट्कमलभेदकृतोर्ध्वगत्या
|
स्थैर्येण वायुमुपवेश्य रहस्त्रिवेणीशृंगाटकान्तरमनःकमले
घटित्वा || ६४ ||
उत्कील्य तत्र हृदयं बहिरंतरात्तं विस्मृत्य भेदमथ
पूर्णसुधाम्बुराशौ |
सच्चिद्घने परशिवायितदिव्यभावे स्वानंदकेलिरसतृप्तिमवापतुस्तौ || ६५
||
सौख्येन तेन परिपूरितयोस्तयोः क्षुत्तृष्णाविमोहमृतिशोकजरा न च स्युः
|
रात्रिंदिवं च न हि नो गणरात्रबोधः सर्वात्मभावितधियां हि न
भेदगन्धः || ६६ ||
पृ० १३७) श्रीमदल्लमप्रभोरवतरणवैचित्र्यवर्णनम् |
इत्थं तयोः परशिवात्मजकांक्षयैव लोकोत्तरव्रतपरायणयोस्तदानीं
|
आरूढयोगपथयोः करपद्मसंस्थलिंगप्रभेव हृदये स्म घनीबभूव
|| ६७ ||
इत्युत्प्रेक्षाविषयमभितः प्रस्फुरत्सर्वतेजो जेतृब्रह्माभिधमभयदं
शुद्धतेजः समग्रं |
दंपत्योर्हृत्कमलकुहरे सद्गुणं निर्गुणं तत्प्रादुर्भूत्वा
स्फटिकविशदं सर्वपूर्णत्वमाप || ६८ ||
तदनुविमलतेजस्तत्तयोरग्रभागे बहिरहह मिलित्वा प्रस्फुरद्विग्रहं सत् |
पृथगिव ददृशे स्म प्राप्तनिद्रान्तभाजोः सुत इति
मतिमात्मन्यावहद्दीप्यमानं || ६९ ||
सुज्ञानाम्बानिरहंकारौ दृष्ट्वा महाद्भुतं तेजः |
सुततामवाप शिव इति परमानंदामृतांबुधौ मग्नौ || ७० ||
देवाः प्रसूनवृष्टिं दिष्ट्या कल्पद्रुमोद्भवां ववृषुः |
नेदुः सुरदुंदुभयो ननृतुर्गन्धर्वकन्यकाप्सरसः || ७१ ||
प्रमथाः प्रमदोत्कर्षात्पेठुः सिद्धान्तहृद्यगद्यानि |
हरिविधिशक्राद्याश्च स्वात्मानुभवेन हर्षमाणाः स्युः || ७२ ||
प्रभौ समस्तस्य तदावतीर्णे जगद्धितायाखिलभूमिभागे |
पृ० १३८) स्थाणुव्रजाः पल्लविता बभूवुर्वंध्याश्च गावो
दुदुहुर्घटोध्न्यः || ७३ ||
उन्मील्य चक्षुर्निरहंक्रियाख्यो मुनिर्गुहेशं स सुतायमानं |
दृष्ट्वा निजान्तः पुनरप्यवेक्ष्य विभावयामास तयोस्तदैक्यं || ७४ ||
अथात्मजायामखिलान्तरस्थं निजात्मजीभूतमवेत्य चित्ते ||
सुविस्मितां प्रेक्ष्य समाहितात्मा चिरं निजानंदमयो बभूव || ७५ ||
अयं किमात्मातपतीक्ष्णभावं विसृज्य सद्मागतपद्मबंधुः |
किमिंदुरुत्सृज्य हिमं सुधात्मा किमग्निरानंदमयोऽस्त्यदाहः || ७६ ||
इत्थं मुनिः स्वात्मगतं विचिंत्य शिवात्मतामात्मनि निश्चिकाय |
पतिव्रता सा तनयं विभाव्य शिवं स्रवत्क्षीरकुचा बभूव || ७७ ||
अथ पुलकितगात्र्यां पुत्रमालिंग्य कक्षे कलयितुमुपसृत्योत्कंठितायां
जनन्यां |
करचरणमुखांगोपांगसंगीव बालः सुललितमुपदृष्टः
सूर्यकोटिप्रभावान् || ७८ ||
तदनु मृदुलहस्तांभोजयुग्मं प्रसार्य प्रमुदितहृदि
लीलाबालमाराद्गृहीतुं |
पृ० १३९) भार्यांप्रति निरहंकारकृताल्लमामानुषबालगुणवर्णनं |
गगनमिव न किंचित्स्प्रष्टुमासीत्स शक्यः किमिव पुनरवाप्तुं
गाढमालिंगितुं वा || ७९ ||
किमिदमिति तया सुज्ञानया सोऽनुयुक्तः पतिरधिगततत्वः प्राह तां
स्मेरवक्त्रः |
सुत इव परमात्मज्योतिराभाति यन्नौ नहि सति सुतमात्रं विद्धि
सर्वान्तरस्थं || ८० ||
न शक्यते वर्णयितुं प्रियेऽयं साकार इत्येव निराकृतिर्वा |
स्वयंप्रभोऽसावकलः कलावाननादिरादिः पुरुषः पुराणः || ८ ||
नाजात इत्याद्रियते न जातो न हेतुदृष्टान्तसमन्वितः स्यात् |
न निर्गुणो नापि गुणी परात्मा बालो न चाबाल इति प्रतीतः || ८२ ||
न भूमिरापोऽप्यनलोऽनिलो द्यौः स्प्रष्टुं क्षमन्ते परमार्थमेनं |
नावच्छिदः कालदिगादिभिः स्यादस्यात्मनामात्मन ईश्वरस्य || ८३ ||
अणोरणीयान्महतो महीयान् यः कारणं कार्यमपि स्वयं स्यात् |
तथा स्वयं कारणकारणाख्यो बोद्धुं न शक्यो न न बुध्यते च || ८४ ||
संतीव तस्याप्यखिलेंद्रियाणि न चेंद्रियार्थेषु गुणास्तदीयाः |
पृ० १४०) न माययाऽसौ क्रियते स्ववश्यो मायां वशीकृत्य जयत्यसऽऽन्गः
|| २५ ||
मर्माणि सर्वाण्यपि वेत्ति योऽसौ तन्मर्मवेत्ता न हि योऽपि कोऽपि |
सौंदर्यसारः स्वयमीक्षणीयः स्प्रष्टुं न शक्यो गगनायमानः || ८६
||
वेदैरनेकैरखिलैश्च शास्त्रैर्वेत्तुं न शक्यो न हि तैरवेद्यः |
अजाच्युतेंद्रादिसुरैरसाध्यस्तैः साध्वि सोऽसाध्यतयैव साध्यः || ८७ ||
जितेंद्रियाणां नियमेन नित्यं तपस्यतामेष मुनीश्वराणां |
संलक्ष्यते कीलितवन्मनःसु न कील्यते सर्वगतो गुहेशः || ८८ ||
स्तनंधयाण्डीरशकृत्करा ये सुतास्तु योनिद्वयसन्धिलग्नाः ||
भवन्ति लोके शतशः पशूनां षडूर्मिबद्धाः सुखयन्तु तांस्ते || ८९
||
सुतोऽयमस्माकमलौकिकत्वान्न यस्य कस्यापि च भूतभावि |
कृतार्थतायै गुरुरावयोस्तु प्रत्यक्षतामेति दृशोर्गुहेशः || ९० ||
इति प्रियामात्मभुवः स्वभावं निवेदयामास पतिस्ततस्तौ |
पृ० १४१) प्रभोर्नाममीमांसा |
स्तुत्वा शिखाभिर्निगमागमानां प्रणेमतुर्भक्तिरसानुभावात् || ९१ ||
ततो निजानंदमयाम्बुराशौ निमज्य चोन्मज्य सतीपती तौ |
अनुज्ञया तस्य कुमारजिष्णोः पुत्रोत्सवं श्रावयतः स्म पुर्यां || ९२ ||
अथागतेभ्योऽखिलयाचकेभ्यो यथेष्टमिष्टार्थचयं वितीर्य |
माता पिता चास्य सुतस्य नाम कर्तुं मनस्येवममंत्रयेतां || ९३ ||
न नामरूपे न तनुक्रिया वा प्रभोरमुष्यास्ति किमस्य नाम |
भवेत्त्रिलोकव्यवहारयोग्यं श्रुतिप्रसिद्धं श्रुतिमौलिमौलेः || ९४ ||
संसारिता नास्य विचार्यमाणे नासावसंसारिपदेन सिद्धः |
सदा शरण्यः शरणार्थिनां यद्वात्सल्यशाली शरणेषु नित्यं || ९५
||
मर्त्यो न चायं महितोऽपि मह्यां यतो न वर्णाश्रमपाशबद्धः |
निवारणीयाः खलु सर्वधर्माः श्रुत्या परे ब्रह्मणि केवलेऽस्मिन् || ९६ ||
तस्मादलं शब्दनिषेधकार्थमाशब्दयोगाच्च भवेदलंमा |
संज्ञाप्यलंमाप्रभुरित्यजस्रं भूयाज्जनाज्ञाननिरोधिकेयं || ९७ ||
पृ० १४२) यद्वाऽल्लमोऽयं प्रथितः सभायां
भूयादकाराक्षरभावभाजां |
अनुग्रहः श्रीकलनान्महेशो गुहेश्वरः श्रीगुरुरूपधारी || ९८ ||
हठाद्य एषोऽल्लम इत्यमोघं पठेत नामाक्षरमादरेण |
कठोरसंसारगिरिं विभिद्य लुठन्निजानंदनिधौ सुखी स्यात् || ९९ ||
इति विचार्य गुरू त्रिजगद्गुरोर्दधतुरल्लम इत्यभिधां शुभाम् |
प्रभुरथाल्लमदेवमहेश्वरः शिशुरिवाप तथाविधखेलनं || १०० ||
नटति कुत्र च कुत्र च गायति क्व च विलासवशात्परिधावति |
क्व च निमील्य दृशौ भृशमीक्षते क्व च परामृशते निखिलं जगत् ||
१०१ ||
क्व च बुधप्रकरैः स्वयमीक्ष्यते स्तुतिभिराद्रियतेऽधिकगौरवात् |
क्व च कलाकुशलैरनुभाव्यते क्व च पितृप्रमुखैरुपलाल्यते || १०२ ||
क्व च बुधाननुगत्य सकृच्छ्रुतिस्मृतिपुराणशुभागमसत्कलाः |
क्षणमधीत्य पठत्युचितस्वरैः स्वयमपाठयदन्यवटुव्रजान् || १०३ ||
पृ० १४३) प्रभोरलौकिकबाललीलावर्णनम् |
सकलनूत्नपुरातनसत्कृतिव्रजमधीत्य तदर्थमवेत्य सः |
अपि च शास्त्रिगणान् पुरमागतानुगतः परिशीलयति स्म तान् || १०४ ||
जगति शास्त्रमतोऽधिकमस्ति वा किमथवात्र न चेति विचार्य तैः |
न परमित्युदितोऽल्पमिति ब्रुवन् पितृकृताद्भुतशान्तिरभूत्प्रभुः || १०५ ||
अहह दृष्टिरभूदिति मातृका तमभिनीय गृहान्तरडोलनं |
निटिलकेऽस्य मषीतिलकं दधौ त्रिरपि भूतिमधूलयदंगके || १०६ ||
अथ शिशूननुसृत्य विभुः स्वयं शिशुरिवाप्रतिमानविहारवान् |
अभिनयन्निगमार्थमथाऽऽत्मनां क्वचिदगोचरगोचरतां ययौ || १०७ ||
अथ फणीन्द्रपुरं प्रविशन् क्षणात्फणिफणाग्रमणीन् प्रतिगृह्य सः
|
पुनरुपेत्य निजार्भकखेलने द्युमणिभाः फणति स्म च तैः प्रभुः || १०८
||
तदनु शक्रपुरं प्रविशन्क्षणात्तदुपकण्ठवने कुसुमादिकम् |
समनुभूय मरुत्सरिदाप्लुतस्तदणिमादिगुणैः पुनराययौ || १०९ ||
पृ० १४४) क्व च रवीन्दुयुगं परिगृह्य तद्रचिततालमनृत्यदयं प्रभुः |
लसदुरोद्धृतवर्तुलतारकाकलितमौक्तिकहारललद्गलः || ११० ||
क्व च सुमेरुगिरिं परिवर्तयन् करयुगे नवनीतघटीमिव |
धृतकुलाचलकन्दुककेलिभिः स विजहार महाद्भुतवैभवः || १११ ||
क्व च न पुष्पवदुज्वलमण्डलद्वयमसौ परिगृह्य सुमेलयन् |
फणिपतिं परिवेष्ट्य तदंतरे रचितचाक्रिककेलिरभूत्प्रभुः || ११२||
अयमहो ननु बालक इत्यलं त्रिभुवनाद्भुतलीलतया प्रभुः |
सकलकारणकारणमीशितेत्यमनुताखिललोकजनावलिः || ११३ ||
श्रुतिमूलकंदमृषिवृंदचिरभाग्यं हृदयारविंदगतमिंदुधरमाद्यं
|
हृतनादबिंदुकलमूर्ध्वचिदभिन्नं परिपूर्णमेतदिति भावयत तेजः ||
११४ ||
इति विद्वदीरितमुदारमधुरार्थं वचनं निशम्य पितरौ मुदितभावौ |
कृतकृत्यभावमुपगत्य हृदयाब्जे निजभागधेयमिति तुष्टुवतुरेनं || ११५
||
पृ० १४५) सुज्ञानांबानिरहंकारकृताल्लमस्तुतिनिरूपणम् |
जय जय जयाल्लम भवाब्धितरणे नौर्जय जय जयाल्लम कृतार्थय सदा
नौ |
जय जय जयाल्लम जगद्विनुतकीर्ते जय जय जयाल्लम चिदात्मनिजमूर्ते ||
११६ ||
जय जय जयाल्लम परेश्वर सदात्मन् जय जय जयाल्लम परात्पर चिदात्मन्
|
जय जय जयाल्लम परामृतसुधाब्धे जय जय जयाल्लम
कृतैक्यशुभलब्धे || ११७ ||
जय जय जयाल्लम सुभक्तमणिसिन्धो जय जय जयाल्लम विरक्तजनबन्धो |
जय जय जयाल्लम चिदंबरसुधांशो जय जय जयाल्लम हृदम्बुजरिरंसो
|| ११८ ||
मज्जनक मत्सनक मत्कनकराशे मद्धृदय मत्सदय मद्गुरुवरेण्य |
मद्विरद मद्वरद मज्जननमौले मद्विभव मत्प्रभव मत्प्रभुवतंस || ११९
||
पृ० १४६) मत्करुण मत्करण मत्कमलभानो मद्वदन मत्सदन मद्विदित सूनो
|
मन्मुकुर मन्मुकुट मन्मनसिजारे मत्कुतुक मत्कतक मत्कथित सूरे || १२० ||
मन्नाथ मद्गुरुस्वामिन् मदभीष्टप्रदायक |
मल्लिंगमूर्ते मत्कीर्ते प्रसीदास्मान्प्रभोऽल्लम || १२१ ||
इति संस्तुत्य संस्तुत्य जननीजनकावुभौ |
नत्वा सद्भक्तिभावेन प्रार्थयामासतुः सुतं || १२२ ||
अज्ञानध्वान्तमखिलमपसार्य कृपानिधे |
प्रदर्श्य सुज्ञानपथं रक्षास्मान् शुभलक्षण || १२३ ||
इति विज्ञापितो भक्त्या पितृभ्यां जगतः पिता |
अनुकम्पावशादेतावल्लमप्रभुरब्रवीत् || १२४ ||
हे मातर्हे पितः श्रुत्या युक्त्या च हृदि निश्चितं |
रहस्यमेतत्तत्वार्थं श्रूयतामवधानतः || १२५ ||
इष्टलिंगे स्थिरां दृष्टिमधिष्ठायान्यनिस्पृहः |
दुष्टसंसारविभ्रान्तिमपजह्याद्दृढव्रतः || १२६ ||
पृ० १४७) पित्रोः प्रभुकृतत्रिविधलिंगाराधनोपदेशः |
प्राणलिंगे दृढं भावं स्थिरीकुर्यात्प्रयत्नतः |
प्राणायामसुखस्वापे प्लवमानो निरंतरं || १२७ ||
भावलिंगे शिवाद्वैतपरितृप्त्योन्मना भवेत् |
इयमेव परा काष्ठा परमार्थानुभावने || १२८ ||
इत्युन्मनीकीलकमल्लमेशः प्रीत्या पितृभ्यामुपदिश्य सारं |
सुज्ञानबोधामृतसिन्धुमग्नौ कृत्वा गुरू सर्वगुरुश्चचार || १२९ ||
इति गिरितनयायै शंकरः पंकजास्यै सकरुणमुपदिश्य प्रीणयामास
धन्यां |
तदवगतमिहोक्तं यन्मया सर्वमेतत्कलय मनसि भद्रे कार्यमीषत्करं नो
|| १३० ||
वच इति विमलायाः स्पष्टमाकर्ण्य माया कथमिति
निजकार्यव्यर्थतायास्तताप |
पुनरपि मुनिवर्याः शम्भुमायावृता सा वशयितुमिममाशापाशबद्धा
बभूव || १३१ ||
प्रभुचरितममोघं यन्मया श्रावितं वस्सकृदपि दृढभक्त्या ये
पठन्त्यामनन्ति |
पृ० १४८) इह सकलसुखानामाश्रयीभूय भूयः प्रमथपदमथान्ते
प्राप्नुवन्त्येव सिद्धं || १३२ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां प्रभुलीलावतारवर्णनगतिर्नाम षष्ठोऽध्यायः
||
पृ० १४९) मायां प्रति विमलोक्तहितोपदेशः |
|| श्रीनंदिकेश्वराय नमः ||
सप्तमोऽध्यायः ||
सूत उवाच-
सिद्धवीरेश्वरानर्घ्यचरणाम्भोजभक्तितः |
कृतकृत्या मुनिश्रेष्ठाः शृण्वन्तु प्रभुसत्कथां || १ ||
अथ माया प्रभोर्दिव्यमाहात्म्यं विमलोक्तिभिः |
विज्ञाय विमलां प्राह त्रिमलक्षयकारिणीं || २ ||
विमले त्वदुपन्यस्तः प्रभुः साक्षात्परः शिवः |
उपास्यमानः सोऽस्माकमभीष्टं किं न यच्छति || ३ ||
विमला प्राह तां मायां शृणु त्रैलोक्यसुंदरि |
जेतुकामस्य मायायाः प्रभोस्तस्य महात्मनः || ४ ||
चित्तानुवृत्त्या सेवन्ते ये तेषां किं नु दुर्लभं |
भक्तिर्विशुद्धा देवेशे भुक्तिमुक्त्युभयप्रदा || ५ ||
महाराज्येऽभिषिक्तस्य ग्रामणीत्वं यथाऽधमं |
तद्वत् प्रभुपदाम्भोजभक्तस्य कियदैहिकं || ६ ||
आकर्ण्य माया तां प्रोचे प्रत्यक्षीकरणे प्रभोः |
उपायं ब्रूहि विमले कृतार्थीकुरु मां सखि || ७ ||
पृ० १५०) विमला प्राह तन्वंगीं शिवं सम्पूज्य भक्तितः |
तेन पुण्येन सद्गोष्ठीं लभेत्तादृऽऽन्महात्मनां || ८ ||
तस्मात्त्वमपि सर्वज्ञं नीलग्रीवं त्रिलोचनं |
पूजयस्व सदा भक्त्या प्रसीदति ततः प्रभुः || ९ ||
मायां प्रोवाच विमले मधुकेशमहर्निशं |
उपास्य नालभं किंचिदपि तस्य फलं ततः || १० ||
इतः परं न वक्तव्या कथेयमिति वादिनीं |
उवाच मायां विमला माऽस्तु तेऽयं दुराग्रहः || ११ ||
पतित्वाऽनवधानेन स्वयं भूमिं निनिंद या |
तन्न्यायं त्यज दुर्बुद्धे वृथा निंदसि शंकरं || १२ ||
विशुद्धबुद्धयः शम्भुं निजभक्ता भजन्ति ये |
तेषां स्वर्णं मधुशिवः करस्थं स्वमनर्घ्यकं || १३ ||
अंगणे निधिराच्छन्नवस्त्रग्रथितकांचनं |
कामधेनुः कल्पवृक्षश्चिंतामणिरिति श्रुतः || १४ ||
तं महादेवमाराध्य निजाभीष्टार्थसंततिं |
को वा न लभते मर्त्यः किमत्राश्चर्यमीर्यते || १५ ||
पृ० १५१) मायां प्रति विमलोक्तेश्वरार्चनविधाननिरूपणम् |
ज्ञात्वाऽनुष्ठानकर्तृर्णां सद्यः फलति शंकरः |
अज्ञात्वाऽनुष्ठितं कर्म निष्फलं भवति ध्रुवं || १६ ||
अतः शास्त्ररहस्यं ते वक्ष्याम्युत्पललोचने |
यच्छ्रुत्वा तदनुष्ठाय प्राप्नोत्युभयतः फलं || १७ ||
आदौ सद्गुणसम्पन्नं गुरुनाथमुपाश्रयेत् |
गुरूपदिष्टा विद्यैव सद्यः श्रेयः फलिष्यति || १८ ||
असेवितगुरुं तेनानुपदिष्टार्चनाविधिं |
भक्तिर्याति परित्यज्य हस्तिनीव मृगाधिपं || १९ ||
आगमोक्तविधानेन पात्रद्रव्याणि शोधयन् |
अंगहस्तमुखादीनि ज्ञात्वा संपूजयेच्छिवं || २० ||
अविज्ञाय प्रमादेन शास्त्राचार्योपदेशने |
मूढस्तामसपूजाया नैष्फल्यमधिगच्छति || २१ ||
रसनायां यथा शब्दं श्रवणे च रसं यथा |
रूपं घ्राणे दृशि स्पर्शं त्वचि गन्धमिवार्पयन् || २२ ||
अविवेकेन मूढात्मा पूजाऽऽभासं करोति यः |
निष्फलं तद्भवेत्तस्य न प्रसीदति शंकरः || २३ ||
पृ० १५२) तस्मान्मुखानि विज्ञाय मृडस्य परमात्मनः |
विवेकेनार्पयद्धीमानिति शास्त्रार्थनिर्णयः || २४ ||
प्राकृतैः सहसाङीय बलात्पत्रादिकं नरः |
लिंगाग्रे पातयित्वाथ नीचपक्वान्नमर्पयन् || २५ ||
विश्वासहीनो यः कुर्याद्राजसार्चनमीशितुः |
तस्यार्चनं न गृह्णाति प्रीत्याऽसौ राजशेखरः || २६ ||
यो दानधर्मविमुखो ज्ञानविज्ञाननिंदकः |
श्रीगुरूक्तागमविधिं विसृज्य स्वेच्छया पुनः || २७ ||
करोति तामसीं पूजां तां न जिघ्रति शंकरः ||
अतः शिवज्ञानशास्त्रपुराणागमसंहिताः || २८ ||
उपदिश्य तदीयार्थान् यो बोधयति सद्गुरुः |
कृपार्द्रचित्तं भावज्ञं विद्वांसं तं गुरुं श्रयेत् || २९ ||
तदाज्ञया स्थिरीकृत्य भक्तिं जंगमसंयुतः |
निरुद्धचित्तः सर्वेशं पूजयेद्विधिपूर्वकं || ३० ||
एकाग्रचित्तः सर्वेशमुपास्ते यो महामतिः |
निष्कामो मुक्तिमाप्नोति सकामो भुक्तिमाप्नुयात् || ३१ ||
पृ० १५३) मायाय विमलोक्तशिवपूजोपदेशः |
न दद्याद्भुक्तिदा मुक्तिं न भुक्तिं मुक्तिदायिनी |
भुक्तिमुक्तिप्रदा सेयं शिवपूजा तु सात्विकी || ३२ ||
उपास्य शंकरं सर्वे हरिब्रह्मादयः सुराः |
तत्तल्लोकाधिपत्यानि प्राप्नुवन् वैभवैः सह || ३३ ||
हस्तपादादियुग्देहं जीवहीनं सलक्षणं |
यथा श्रीगुरुकारुण्यविहीनः कुजनस्तथा || ३४ ||
चतुःशीतं समाकृष्य सीरेणापास्य कत्तृणं |
हल्या भूमिं समीकृत्य पर्जन्येऽप्यर्धवर्षति || ३५ ||
आर्द्रायामपि सार्द्रायां भूमौ जामित्वमाश्रितः |
यो बीजं न वपत्यस्य सुक्षेत्रं वा कुतः फलेत् || ३६ ||
एवं विज्ञाय विधिवद्गुरोः सम्पाद्य सत्कृपां |
दीक्षाविशुद्धहृदयो यजेत परमेश्वरं || ३७ ||
त्यक्त्वा भूतगुणान्सर्वान् पूजयेद्यदि शंकरं |
कथं न स्यादभीष्टार्थलाभस्तस्य महात्मनः || ३८ ||
हस्तसंस्थेऽप्यथादर्शे यथान्धः स्वं न पश्यति |
पृ० १५४) तथोपदेशहीनोऽपि न सिद्धिं लभतेऽर्चकः || ३९ ||
माये यदि त्वया शम्भुः पूजितः सद्विधानतः |
पूजाफलं कुतो न स्यादुपदेशविधिर्न वा || ४० ||
न गृहीतोऽथवा सम्यऽऽन्मंत्रो जाप्यविधिर्न किं |
न ज्ञातो वा यथाशास्त्रं भक्तिः पर्याप्यते न वा || ४१ ||
नास्ति वा तत्र ते श्रद्धा पूजायां सांप्रदायिकी |
यद्यस्ति पूर्णसामग्री न भवेत्कामितं कुतः || ४२ ||
इत्युक्तवत्यां सद्युक्त्या विमलायां मदोत्कटा |
माया विभवगर्वेण लघूकृत्येदमब्रवीत् || ४३ ||
एवंविधोपदेशादिप्रयासो मास्तु भामिनि |
स्वेच्छयैव जगत्कृत्स्नं साधनीयं न चान्यथा || ४४ ||
श्रुत्वैतद्वचनं साध्वी संत्यज्य विमला तदा |
तथाविधां कथां माया मग्ना दुर्भवसागरे || ४५ ||
केनोपायक्रमेणैनामुद्धरिष्यामि संकटात् |
इति संचिंत्य मनसा युक्तिमेकां विचार्य च || ४६ ||
पृ० १५५) रहसि मायाविमलयोरुक्तिप्रत्युक्तिः |
संस्मृत्य जगदंबायास्तामाज्ञां दुरतिक्रमां |
स्नेहेनाभिमुखीकृत्य मायां वचनमब्रवीत् || ४७ ||
अनादिसिद्धा मैत्रीयमावयोर्नहि नूतना |
त्वं वेत्सि किल पृच्छामि वाक्यमेकं वरानने || ४८ ||
न वंचयितुमर्हाऽहं वंचयिष्यसि चेच्छृणु |
आज्ञा तव मया गौर्या दत्ता त्वं मा त्रपां वह || ४९ ||
यथार्थं ब्रूहि कल्याणि सत्यं हि नियमोत्तमं |
इति तां सुदृढीकृत्य पप्रच्छ विमला रहः || ५० ||
वनिते लतिकातुल्या तवेयं तनुरुत्तमा |
मनोजबाणभिन्नेव मर्मसंधिषु लक्ष्यते || ५१ ||
कथं दशेयं कल्याणि कस्मिन् जाता रतिस्तव |
ब्रूहि तत्प्रतिकारं ते वक्ष्यामीत्युदिताऽब्रवीत् || ५२ ||
कथयिष्यामि विमले कामो मूर्त इवापरः |
स्तवनीयगुणः कश्चिदस्ति विद्याधिकोत्तमः || ५३ ||
नाम्नांऽल्लम इति ख्यातो गम्भीरोदारविग्रहः |
सर्वविद्यासु निपुणो धीरोदात्तगुणोत्तरः || ५४ ||
तन्मायापंजरे लग्ना रतिराजवशं गता |
त्यक्ताभिमाना दुश्चित्ता चिन्ताक्रान्ता चलन्मतिः || ५५ ||
पृ० १५६) गतसत्वा धैर्यहीना वर्जिताखिलसंस्मृतिः |
तूलायमाना गेहान्तःशालायां तूलिकागता || ५६ ||
सखीभिः सह संच्छन्ना छिन्ना मारशरालिभिः |
पतिता दुर्दशामेतामभूवं लघुतां गता || ५७ ||
अथ सा विमला प्रोचे मायां चंद्रानने शृणु |
सत्यं तव मनोहर्ता साक्षादल्लम एव सः || ५८ ||
प्रभुर्विश्वाधिकः साक्षी मायां वश्यां चकार यत् |
नान्यो भवति मान्योऽयं नित्यमुक्तो निरंजनः || ५९ ||
न विद्धि मार्दंगिकमात्रमेनं विद्याधिकत्वं स्वत एव सिद्धं |
ब्रूते श्रुतिश्चापि समस्तविद्याऽधीशं महेशानममुं गुहेशं || ६० ||
सोऽयं प्रभुः कपटनाटकसूत्रधारः
सृष्टिस्थितिप्रलयकृज्जगताममीषां |
कोऽयं कुतः क्व च कदा च न केन चेति विज्ञातुमल्लमगुरुर्निगमैरशक्यः
|| ६१ ||
यस्य प्राञ्चो न जानन्ति सरूपारूपभावनां |
स केन वा प्रकारेण वर्तमानो न लिप्यते || ६२ ||
आकर्ण्य माया तां प्राह विमले किं त्वयोच्यते |
पृ० १५७) मधुकेशालये अल्लममायाविमलानां संगमः |
किं वेत्ति भवती वाक्यैरलंस्तावकमात्रकैः || ६३ ||
परमात्मैव स प्रोक्तः प्रभुरल्लमसंज्ञितः |
अयं नटविटैस्तुल्यो मम मार्दंगिकोऽल्लमः || ६४ ||
तस्य चास्य कियद्दूरं न समीकुरु तेन तं |
अंगारेणेव भास्वन्तं ह्रदेनेव महोदधिं || ६५ ||
इत्थं मायाविमलयोरुक्तिप्रत्युक्तिनालिका |
आसीत्तयैव संगत्या मधुकेशालयं गते || ६६ ||
तत्राभ्यर्च्य महेशानं बहिर्निर्गत्य भामिनी |
राजसेन विलासेन रंगमध्यं विवेश सा || ६७ ||
अल्लमोऽपि स तां दृष्ट्वा नृत्योद्युक्तां शुचिस्मितः |
विद्याधिकैर्विस्मयेन तत्रत्यैरभिनंदितः || ६८ ||
अद्यैव वाद्यविद्याया जेया माया मयेति सः |
तस्यां नटंत्यां चातुर्याद्वादयामास मर्दलं || ६९ ||
तद्दत्तचित्तां नृत्यन्तीं मायां मदनविह्वलां |
विमला तां तदालोक्य चिन्तयामास मानसे || ७० ||
अत्र नृत्यं स्पृहा तत्र वागत्र ममता ततः |
रीतयोऽत्रादरस्तत्र दृष्टिरत्र रतिस्ततः || ७१ ||
पृ० १५८) अहो सुमहदाश्चर्यं माया नाटयतेऽखिलान् |
मायां नाटयते सोऽयमल्लमः पल्लवाकृतिः || ७२ ||
जपाकुसुमसान्निध्याल्लोहितस्फटिको यथा |
तथैव मायासान्निध्यात्प्रभुर्दृष्टो गुणान्वितः || ७३ ||
स्फटिकः कुसुमापाये यथा शुद्धोऽभिलक्ष्यते |
विसृज्य मायामगुणो निर्मलः सर्वदैव सः || ७४ ||
इति निध्याय विमला मायामन्वीक्ष्य सा पुनः |
दर्शयित्वाऽल्लमं दृष्ट्या स्वमात्मानं प्रदर्श्य च || ७५ ||
अभिनीयोभयोरैक्यं स्वयोस्तस्य पृथक्स्थितं |
प्रणामकरणं तस्मै सूचयन्ती दृशैव सा || ७६ ||
पृथिवीं गगनं चापि क्रमात्संभाव्य भामिनी |
संज्ञयैवाब्रवीत्तस्यै स्वकर्तव्यं तदास्तिकाः || ७७ ||
तूष्णीं तिष्ठति यत्रायं निधाय भुवि मर्दलं |
पादोपसंग्रहव्याजात्तदाऽऽवाभ्यां प्रगृह्यतां || ७८ ||
पृ० १५९) प्रभोः पुरतः मयानृत्यनैपुण्यवर्णनम् |
नायं प्रभुरिति ज्ञेयो ग्रहीतुं शक्यते यदि |
ग्रहीतो व्योमवच्छून्यो यदि स्यात्प्रभुरित्ययं || ७९ ||
इत्थं विमलयाऽऽदिष्टा माया नयनभाषया |
स्वयं तथाऽस्त्विति तथैवासूचयदिमां पुनः || ८० ||
अहो दृष्ट्यैव पुरुषानार्द्रयन्ति किलांगनाः |
दृष्ट्या माधुर्यकलया नम्रीकुर्वन्ति तान्पुनः || ८१ ||
दृष्ट्यैवानंदधुरया क्षणाद्गृह्णन्ति तद्धनं |
दृष्ट्यैव विरहाग्नीनामाचरंति समिंधनं || ८२ ||
अहो चपलचित्तानां स्त्रियः पुंसां हि वागुराः |
दृग्बाण एव नारीणां साधनं पुंपराभवे || ८३ ||
दृशो मूलधनं स्त्रीणामवलंबनमप्यहो |
इति तत्रत्यरसिकाश्चेष्टां दृष्ट्वा मिथोऽब्रुवन् || ८४ ||
मायानट्याः प्रभौ दत्तचित्ताया विरहाग्निना |
तप्तायाः सकलांगानि विकलान्यभवन् द्विजाः || ८५ ||
पृ० १६०) अवधानं जहौ चेतश्चचाल मतिरप्यहो |
तालमानं विहायैषा ननाट विषमक्रमं || ८६ ||
मेलसंघट्टनं चास्या अत्यरिच्यत नर्तने |
गीतं विजातीयगिरा स्पृष्टं विषमता गतं || ८७ ||
तदानीमल्लमः सर्वं तस्या विज्ञाय चेष्टितम् |
वृथानटनमेतन्मे किमनेनेत्यमन्यत || ८८ ||
रंगमध्ये विहायोच्चैर्मर्दलं महदद्भुतं |
निष्क्रम्य नगरात्तूर्णं ययौ स्वच्छन्दमीश्वरः || ८९ ||
मायाऽथ दशमावस्था प्राप्तेव बहु दुःखिता |
विनष्टधैर्यहृदया पपात भवि मूर्च्छिता || ९० ||
कथंचिदथ विज्ञाय हा हाल्लम बतात्र मां |
विहाय क्व गतोऽसीति तताप मुहुरात्मनि || ९१ ||
न बबन्ध गलन्मौलिं पिदधे न च कंचुकं |
सख्य एवोत्तरीयादि सज्जीचक्रुः समभ्रुवः || ९२ ||
तदानीं विमला मायामभ्येत्यासांत्वयद्द्विजाः |
क्लिश्नासि किं वृथा बाले निर्बन्धः कस्तवाऽधुना || ९३ ||
येनाल्लमप्रभुर्यातस्तेन मार्गेण सत्वरं |
पृ० १६१) प्रभुमन्वेष्टुं विमलादिभिः सह मायायाः पुराद्बहिर्गमनम् |
सखीभिः सह सर्वाभिरावाभ्यामनुगम्यतां || ९४ ||
यथा सूचीमनुगतं सूत्रं तद्वत्प्रसर्पति |
तथानुऽसृत्य तन्मार्गं यास्यामस्तद्वदंगने || ९५ ||
द्यावापृथिव्यावन्विष्य यत्र तिष्ठति सोऽल्लमः |
गृहीत्वा तत्र तं भद्रे वशयिष्यामहे ध्रुवं || ९६ ||
गमिष्यामस्त्यजालस्यं यावद्द्रक्ष्यामहे प्रभुं |
तावन्मनोजवं माये गृहीत्वोत्तिष्ठ सांप्रतं || ९७ ||
चिंतां त्यज गृहाणाशु धैर्यमित्युदितार्यया |
बाढमित्युररीचक्रे सा मायोत्कंठिता भृशं || ९८ ||
ततो विमलयाऽन्याभिः सखीभिः सह भामिनी |
पिधाय पौरचित्तानि गन्तुं समुपचक्रमे || ९९ ||
अहो मनुजनाथस्य पुत्री मर्दलवादकं |
अनुसृत्य गतेत्येवं बभूवाऽथ जनश्रुतिः || १०० ||
इत्थं मिथो भाषमाणा न निवारयितुं क्षमाः |
स्थाणुभूताः स्थिताः सर्वे माया श्रुत्वैव सा ययौ || १०१ ||
पृ० १६२) कदा द्रक्ष्येऽल्लममिति चिन्तयन्ती पदे पदे |
त्यक्त्वा मंदगतिं माया शीघ्रेणाधावदास्तिकाः || १०२ ||
तीव्रगत्या प्रधावंत्यास्तस्याः पादौ व्रणोल्बणौ |
शुष्कीभूताऽऽतपेनाश्हु लतेव तनुरुज्ज्वला || १०३ ||
क्वचिद्विपथगा माया लतावलयवेष्टिता |
पादांगुल्योऽश्मभिश्छिन्नाः सुस्रुवुर्लोहितं बहु || १०४ ||
भूमावातपतप्तायां ददाहांगारवद्रजः |
तृष्णया कण्ठनालोऽस्याः शुशोषास्तिमितो द्विजाः || १०५ ||
गच्छन्त्यां संभ्रमेणास्यां मोहिन्यां सकलात्मनां |
तत्राश्ह्रमस्था मुनयः केचिद्दृष्ट्वा चकंपिरे || १०६ ||
सौंदर्यसारसर्वस्वामालोक्येंदुमुखीं द्विजाः |
दृष्ट्वा मृगयुमायान्तं मृगा इव यतव्रताः || १०७ ||
कामः कवलयत्येव का वा गतिरिहेति ते |
विचाल्य शंकितस्वान्ता दिशो दश पलायिताः || १०८ ||
पृ० १६३) वने मायासखीकृताल्लमगर्हणम् |
योगदण्डान् योगपट्टान् लिंगसम्पुटिकास्तथा |
काषायाम्बरवैययाघ्रचर्मभस्मफलानि च || १०९ ||
रुद्राक्षमालाजालानि पुस्तकानि कमण्डलून् |
कराभ्यां कवलीकृत्य भीत्याऽनार्दोष्ठसंपुटान् || ११० ||
पलायमानांस्तान्दृष्ट्वा प्रभुः सर्वेश्वरोऽल्लमः |
कारुण्यायत्तचित्तोऽथ स्त्रीभ्यः संरक्षितुं मुनीन् || १११ ||
स्थिरीकृत्य मनांस्येषां मुनिवेषधरो गुरुः |
प्रत्यक्षीभूय तान्सर्वांश्चक्रे निश्चलमानसान् || ११२ ||
भूयो मायानटो भूत्वा योगीशो विटवेषधृत् |
पूर्ववद्वंचितुं मायामाजगामान्तिकं स्त्रियाः || ११३ ||
तं दृष्ट्वा वनितास्सर्वा निधिं लब्ध्वेव दुर्विधाः |
सन्तुष्टचित्ताः प्रणयाद्रोषावेशाद्बभाषिरे || ११४ ||
अहो धूर्ताल्लम विभो मायामस्मत्सखीं प्रियां |
क्लेशयित्वा त्वदायत्तां किं फलं लब्धवानसि || ११५ ||
राजपुत्रीमिमां बालां जातीमिव मृदुत्वचं |
हसंतिकायां संताप्य सारस्यं हतवानसि || ११६ ||
भो हंसतूलिकातल्पनिद्रार्हायाः कथं शठ |
पृ० १६४) शर्कराऽर्हति यानाय पद्भ्यां शरफलोपमा || ११७ ||
सिंहासने वयस्याभिः सेवनीया कथं सखी |
कुशविष्टरमारोढुं वनेऽर्हति वरानना || ११८ ||
हेमपल्यंकिकारूढा वीज्यमाना सखीजनैः |
व्यजनैर्याति या तस्या अटव्यामटनं कथं || ११९ ||
नवरत्नमये गेहे क्रीडन्ती लीलया कथं |
स्थातुं कुंजकुटीरेषु सार्वभौमसुताऽर्हति || १२० ||
वयमेवापराधिन्यो नापराधस्तवाऽत्र भो |
यतोऽविज्ञाय ते स्वान्तमदाम हृदयं तव || १२१ ||
अविचार्य कृतं कार्यमपहासाय कल्पते |
रूपं न कारणं पुंसां श्रुतिं विश्वस्य वंचिताः || १२२ ||
हृदयालुरिवैतावत्कालं बालां विमोहयन् |
तिरोधायात्मकौटिल्यं रतिमुत्पाद्य लीलया || १२३ ||
कंसरीत्या विभेद्याद्य हार्दं घोराटवीं कथं |
कृतज्ञत्वं परित्यज्य कितवत्वं समागतः || १२४ ||
पृ० १६५) मायासखीभ्योऽल्लमवचननिरूपणम् |
पुंमक्षिकार्भकस्यापि प्रवेष्टुं तावदक्षमम् |
प्रेम्णा प्रविशितोऽसित्वं तरुणीमणिमंदिरम् || १२५ ||
समर्पितात्मसर्वस्वः सख्याऽस्माकं गृहाधिपः |
भूत्वाऽन्ते क्लेशयस्येनामहो कीर्तिः कियत्यसौ || १२६ ||
अपख्यातिरियं भाव त्वया संपादिता ननु |
त्वद्वियोगे कुतोऽस्याः स्यान्मनः कंसोपमस्थिरं || १२७ ||
इत्युपालम्भवाक्यानि श्रुत्वाऽल्लमविभुः स्मयन् |
मायावयस्याः संप्रेक्ष्य वचनं चेदमब्रवीत् || १२८ ||
वृथा निष्ठुरभाषाभिरलं गच्छथ बालिशाः |
किं वा प्राऽऽन्मायया साकं संबन्धोऽभिमतो मम || १२९ ||
किं वा साप्तपदीनेन मायां संगतवानहं |
किं वाऽद्य कलहं कृत्वा निष्क्रान्तोऽहं त्वदाश्रमात् || १३० ||
मामुदासीनभावेन स्थितं दृष्ट्वा शिवालये |
स्वयं कामयमानेयं भ्रान्ता मदनविह्वला || १३१ ||
त्यक्ताभिलाषे च मयि तदा भावमजानती |
किमर्थं प्रकटीचक्रे सखीनां पुरतो रतिं || १३२ ||
स्वयमेव वृथा रत्या जारभावेन भामिनी |
पृ० १६६) लोकापवादमतनोदहो मयि विरागिणि || १३३ ||
विकारयतु मां कामं कामुकी न हि विक्रिये |
तयाऽहं न हि कीटेन तृट्यते दीप्तमुल्मुकं || १३४ ||
स्त्रियो धूर्ता इति धिया तूष्णींभावेन संस्थितिः |
अपराध इव ज्यायानहो दुःसंगसंकटं || १३५ ||
नार्यः किमेतत्कापेयमपराधं भवत्कृतं |
मययारोप्य वृथा मोहादटवीमागता हठात् || १३६ ||
भो भो नारीसमूहा इह सकलमहीमण्डले चण्डभानुः
स्फूर्त्या रीत्या कया वा विहितपरिकरश्चारुश्रृंगारवेषः |
काषायालंबनो वा कनकमणिगणालंकृतो वाऽनपेक्षो
रुद्राक्षालंकृतो वा विषयविरहितः स्वैरमेकश्चरामि || १३७ ||
सर्वं मययेव जातं मयि सकलमिदं वर्तते लोकजातं
लीनं मययेव पश्चादहमखिलगतः सूत्रवन्मौक्तिकेषु ||
न स्पृष्टो येन केनाप्यहमभिसरता गन्धलेशेन पाश-
च्छेदार्थं भक्तिभाजां सगुण इव जनैर्लक्षितः संचरामि || १३८ ||
पृ० १६७) वने मायाकृताल्लमावहेलनम् |
योगित्वं प्राप्य लोके प्रकटयितुमहं पारहंस्यानुभावं
शैवे सर्वोत्तमत्वं श्रुतिभिरभिनुतं शाम्भवीं चापि दीक्षां ||
धृत्वा वेषं तदीयं जगद्वनकृतौ वर्तमानः स्वतन्त्रः सोऽहं
मायाविधेयो विषमविषयभुक् कूटकारी कथं स्यां || १३९ ||
इत्थं प्रभौ वदति सा परिमुह्य माया त्यक्त्वा ह्रियं
स्मरवशादविबुद्धतत्वा |
भूयोऽपि तं त्रिभुवनैकगुरुं जगाद कामातुरस्य हि विवेककथा न जन्तोः
|| १४० ||
भो धूर्त कामुकतया हृदयं प्रविश्य पूर्वं ममाश्रुतरतिः
कृतहार्दभावः ||
उत्पाद्य वश्य इति विश्वसनं न लीनं किं वाऽपदिष्यसि निरस्य वचोऽधुना
त्वं || १४१ ||
उन्मत्तता न हि ममाद्य न वंचनीया त्वां नोत्सृजामि शपथं कलये
त्वदंघ्र्योः |
वाग्ब्रह्मवादमपसार्य विचार्य पूर्वं मामल्लम प्रतिगृहाण
तवैकजायां || १४२ ||
पृ० १६८) कापट्यशाबरजपानृतवेषभाषा
योषावशीकरणनर्तनगीतवादाः |
तारुण्यरोधकुहनौषधकूटकृत्यसोल्लुण्ठनभ्रमणकौत्सितकौचमाराः
||
द्यूतेन्द्रजालमथमायिकतापहासकौटिल्यलौल्यकरलाघववंचनानि |
पुंसां प्रसिद्धिमुपयान्त्यथ योषितां वा धर्मा इति त्रिभुवनेऽपि विदन्ति
सर्वे || १४४ ||
इत्युक्तवत्यां भुवनैकरत्यां प्रभुः प्रतिद्वंद्वितया किमस्याः |
वादान् ममेति प्रहसन्विरेमे सैव च्छलादल्लममाह माया || १४५ ||
अहो मया लौकिकतामुपेत्य समर्पिते स्वात्मनि मामुपेक्ष्य |
भवानुपन्यस्यति केवलत्वं निजं तथा चेच्छृणु मत्प्रभावं || १४६ ||
अहं हरिब्रह्महरादिदेवान् महाप्रभावान् विदधाम्यधीरान् |
महर्षिवर्यान् स्खलदूर्ध्ववीर्यान् कुर्वैऽगनालिंगनसंगतांगान् || १४७
||
उरोहमाक्रम्य हरेर्वसामि हरस्य वामार्धतनुं हरामि |
पृ० १६९) वने स्वोत्कर्षन्तीं मायां प्रति प्रभुदेवस्योक्तिः |
करोमि वाग्बंन्धनमब्जसूतेः परे कियन्तो मम वासवाद्याः || १४८ ||
आदित्यदैत्योरगसिद्धसाध्यान् गन्धर्वविद्याधरकिन्नराद्यान् |
भृत्यान्विधाय प्रविचालयामि भवान्कियानल्लम मां विरोद्धुं || १४९ ||
अतस्त्वयैषाल्लम धूर्तचर्या विशेषतोऽस्मत्पुरतो न कार्या |
मर्यादया मद्वचनं विधेहीत्युक्तः प्रभुः साग्रह एवमूचे || १५० ||
अरे जरद्वारविलासिनीव पुराकथानां कथनैर्वृथा किं |
करोषि वाचालतया विवादं परापवादान्न विभेषि मूर्खे || १५१ ||
यदि स्वसामर्थ्यमथापि माये सदात्मतत्वानुभवार्थवादैः |
मदीयविद्यां चिदचिद्विवेकास्पदोक्तियुक्त्या विजयस्व तावत् || १४२ ||
अखण्डपाण्डित्यबलेन युक्तीर्विखण्ड्य मां स्वीकुरु तावकीनं |
सुखार्थिनी मौर्ख्यबलेन चेन्मे नखाग्रमात्रं च न चालयस्याः || १५३ ||
हराच्युतब्रह्ममुखांश्च लेखान् पराभवं प्रापयितुं क्षमेति |
दुराग्रहोक्तं वचनं न लक्षीकरोमि यत्साहसिका वधूट्यः || १५४ ||
पृ० १७०) त्वया विबुद्धस्त्वयि सन्निविष्टः स्वयं सदा प्रेरयते क्रियासु |
य ईश्वरस्तत्करुणा यदि स्याज्जयेस्तदा मान्यतया भवारिं || १५५ ||
इत्यल्लमोक्तं वचनं निशम्य प्रत्युत्तरं दातुमसावशक्ता |
अत्यन्तखिन्नात्मनि किंचिदोह्य सत्यात्मकं स्वामिनमाह माया || १५६ ||
केनाविबुद्धः क्व नु सन्निविष्टः को वा स्वयं प्रेरयते क्रियासु |
क ईश्वरस्तत्करुणा कुतः स्यात् कथं जये मान्यतया न वेद्मि || १५७ ||
त्वदीयसूक्ते प्रतिवक्तुमेषा कथं विभो निष्ठुरतां प्रयातु |
मयोच्यते चेदरुचिर्हृदि स्यान्मनोरथो मेऽस्तु यथा कथंचित् || १५८ ||
पुरोन्नमादौ परिवेष्य कंसे क्षुधातुरस्यापहृतिः किमर्हा |
कियत्यहं भाषितुमग्रतस्ते गृहाण मामल्लम पल्लवोष्ठीं || १५९ ||
इतीरितां वाचमनादरेण निरस्य हस्ताभिनयेन तस्याः |
पृ० १७१) वने स्वोत्कर्षन्तीं मायां प्रति प्रभोरुक्तिः |
हुंकारपूर्वं पुनराह मायां मायातिगो देशिकचक्रवर्ती || १६० ||
माये किमित्थं गदितुं तवार्हं श्रुत्वापि मां कामलतालवित्रं |
भ्रान्तेर्गतोक्तौ मुसलेन शीर्षं संवेष्टयेत्युक्तिसमं भजेति || १६१ ||
आपाततः स्युर्मधुरा हि कामाः स्रक्चंदनादौ विषये विषाभे |
स्वीकृत्य तान्मूढजना इवाहो कथं विनंक्ष्यन्ति शिवैकतानाः || १६२
||
ये दीक्षिताः के च न योगतंत्रे त्यक्तुं दुरन्तान्विषयानसक्ताः |
वदन्ति जयया अनुभूतिपूर्वमित्येवमेते नहि संमता मे || १६३ ||
अग्नौ हुते प्रज्वलिते यथाज्ये न शाम्यति प्रज्वलति द्विरुच्चैः |
तथानुभूते विषये न शाम्येद्विवर्धते यद्द्विगुणं तदाशा || १६४ ||
जग्ध्वा सर्षपसस्यानि वृषो न त्यजति क्षुधां |
किं तु तस्योदरं शुष्येदुष्णिम्नाऽग्निप्रकोपतः || १६५ ||
अतो विषयसंगत्या सुखलेशो न विद्यते |
जन्तोर्विवेकहीनस्य कथंचिदपि बालिशे || १६६ ||
पृ० १७२) उल्लासेन गृहं दग्ध्वा कुत्र तिष्ठेन्मदोद्धतः |
हत्वा विवेकं कामेन कथं मायां तरेज्जडः || १६७ ||
इत्यल्लमप्रभोरुक्तीरनादृत्याविवेकतः |
माया दुराग्रहावेशाद्वक्तुं समुपचक्रमे || १६८ ||
प्रसार्य वाग्मितां धूर्त ममाग्रे किं प्रभाषते |
बहिर्विरागमात्रेण कृतकृत्यो भवानिव || १६९ ||
वाचः परा च पश्यन्ती मध्यमा वैखरीति याः |
ताः सर्वा मत्पदाम्भोजघट्टनेनोदयं गताः || १७० ||
वामपादादधः सर्वे वाग्विलासा मम स्थिताः |
त्यक्त्वा मायिक वाग्जालं भुंक्ष्व भोगान्मया सह || १७१ ||
अल्लमोप्याह भो माये किं न श्रुतमिदं त्वया |
पूर्णिमा यावदेतस्यास्तावद्भोग इतीरितं || १७२ ||
वृथा किं जल्पसि भ्रान्ते हित्वा लज्जां ममांतिके |
दुराशापाशमुत्सृज्य गृहं याहि सखीयुता || १७३ ||
आकर्ण्य वाक्यमथ सा वनिताल्लमस्य निश्चित्य भावमहहेति
रुदत्यभीक्ष्णं |
भूयोऽपि धैर्यमवलंब्य कथंचिदीशं निंदंत्युवाच वचनं
पुरतोऽल्लमस्य || १७४ ||
पृ० १७३) वने मायां प्रति प्रभोरुक्तिः |
येनापि केन विधिना परमेश्वरस्य पूजा फलिष्यति कृताखिलकामितार्थान्
|
इत्यादिसूक्तिरनृताऽभवद्य नूनं येनाहमर्चितवती शिवमेव मासं || १७५
||
भक्त्या समर्प्य सकलं मधुकेश्वरस्य संप्रार्थ्य पूजितवती तव
भावबन्धं |
नित्यं स दैवतगुरुर्हृदयेऽनुकम्पामुत्सृज्य खेदयति मामहहा कथं स्यात्
|| १७६ ||
श्रुत्वैतदल्लमविभुः प्रहसन् बभाषे किं निंदयाऽद्रिधनुषः
फणिभूषणस्य |
ये पूजयन्ति नियमेन जितारिवर्गास्तेषां ददाति गिरिशः
परिपूर्णसौख्यं || १७७ ||
ये तामसेन हृदयेन निजेच्छयैव शास्त्रोपदेशरहिताः शिवमर्चयन्ति |
तेनांगहीनभजनेन न लब्धकामा निंदंति दैवतगुरुं भुवि पामरास्ते
|| १७८ ||
सौवर्णमेतदपमुद्रितमित्यभिज्ञेनोक्ते वृथा कलहकृत्किमु साधयेत्तत् |
माये तथा त्वमपि मामथ वा महेशं निंद त्वया किमिह
साध्यमबुद्धतत्वे || १७९ ||
पृ० १७४) का त्वं कुतर्कजटिले मम संगतिस्ते
वैराग्यभाग्यपरमार्थनिधेः क्व योग्या |
गच्छ त्वमात्मनगरीमटवीं क्व वाऽथ कोऽयं सुनिश्चितमतेरभिमान
एषः || १८० ||
श्रुत्वा तदुक्तमथ सा मनसाऽतिखिन्ना कामातुरा सबलमात्मभुवं
विनिंद्य |
निःश्वस्य शश्वदुरगीव निरुद्धवीर्या पर्याकुला निजसखीहृदये पपात
|| १८१ ||
तप्तामिवार्ककिरणैः कुमुदश्रियं तां दृष्ट्वा सखीं
स्मरशरज्वरतापखिन्नां |
वाचा सुधामधुरया विमला रसज्ञा प्राहाल्लमप्रभुमणिं
प्रणतार्तिनाशं || १८२ ||
आधार सर्वजगतां भजतां शरण्य सर्वज्ञ
सद्गुण षडूर्मिकथातिदूर |
सत्यात्मक त्रिमलसंक्षय सर्वसाक्षिन् विज्ञापयामि कृपया मयि
पालयेमां || १८३ ||
माया पुरा करुणया परिपाल्य पश्चात्त्यक्ताधुना कथय जीवति सा
कथं नु |
ग्रामोऽथ वा भवतु ते निलयोऽटवी वा तत्रैव तावकपदं
श्रयतामियन्नः || १८४ ||
पृ० १७५) वने विमलां प्रति प्रभुराजस्योक्तिः |
यद्वा कृपां समवलंब्य महानुभाव मायां पुनर्बनवसीं नगरी
समेत्य |
आच्छाद्य सर्वमनुगृह्य दिनानि कानि यात्रां करोतु भगवानथ को नु
दोषः || १८५ ||
इत्थं कृतांजलिपुटा विनयेन नम्रा विज्ञापनां विनुतिपूर्वकमाचचार
|
तामल्लमोऽपि विमलां निजतत्त्ववेत्रीं प्राह स्मिताधरपुटः
प्रभुसार्वभौमः || १८६ ||
सत्यापयेत्यभिहिते भुवि कूटवादान् शक्नोति को नु जगति व्यवहर्तुमेतैः |
मायां भजेति कथिते शिवयोगिनस्तामस्मादृशास्तदहिताः कथमाश्रयन्ते
|| १८७ ||
आतंचनेन दधितां पय एव याति नो जातु याति हि पयः कपटोक्तिजालैः
|
चापल्यमेति विषयेष्वबुधो न विद्वान् सम्यग्विचार्य विरमस्व तमःप्रबोधात्
|| १८८ ||
इत्यल्लमस्य वचनं विमला निशम्य भूयस्तमाह भवता कृपया गृहीता |
प्रागेव तेन सुकृतेन तवैव योग्या यत्स्पर्शवेधिखचितं कनकायतेऽयः ||
१८९ ||
पृ० १७६) तामल्लमोऽथ वचनं जगृहे त्वदुक्तं सत्यं तथापि न हि
लोष्टमहो सुवर्णं |
मानुष्यमेत्य परमार्थपदं न किंचिद्या वेत्ति सैव खलु
लोष्टसमांतरं न || १९० ||
इत्यल्लमे हृदि निरस्य वदत्यथैषा निश्चित्य तस्य परमार्थविरागभावं
|
भूयस्तमाह विमला विनयेन सख्या दुर्मानभंगभयमात्मनि सूचयन्ती ||
१९१ ||
निर्दोष सन्मुनिमनोहर भक्तपोष विज्ञानसागर कृपानिलयाऽल्लमार्य |
मायां मम प्रियसखीं यदि न त्यजेथाः वाग्वैखरी न हि रुचिष्यति
हैमवत्याः || १९२ ||
हेमादिशून्य भवतः किमियं जुगुप्सा देवः शिवोऽपि शिवया सुखकेलिमेतु |
दोषो न चायमकलंकशशांककीर्तेस्संतोषणं हि शिवयोस्तव
मुख्यकृत्यं || १९३ ||
स्त्रीपुंसयोर्यदि जयापजये प्रतिज्ञा तत्र स्त्रियं विजयमाकलयन् हि
धुर्यः |
शंभोर्न हैन्यमपि किंचिदनेन विद्वन्नालोच्य पश्य मनसेत्यथ तां स
ऊचे || १९४ ||
पृ० १७७) वने विमलां प्रति प्रभूक्तमायागुणदूषणम् |
ज्ञातं मयाऽद्य विमले हृदये त्वदुक्तं स्याद्वा तथा हृदि विरागघने
पूराऽस्याः |
मायारतिं हि चकमे विषयाभिलाषान्नो नित्यसौख्यपदवीमविवेकनिम्ना ||
१९५ ||
माया तमःपरिणता किल तामसीयं बीजं यदीयमवनौ निहितं स
वृक्षः |
स्वप्नेऽपि सा विषयवासनयैव भुंक्ते स्वात्मोचितं तनुसुखं परमार्थ
एषः || १९६ ||
सत्यं ब्रवीमि जलधौ सकलांबु सौधं मेरोः शिखाः क्षितितलं परितो
लताभाः ||
सर्वे द्रुमा यदि च कल्पमहीरुहाः स्युर्माया तथाऽपि न लभेत
निजात्मबोधं || १९७ ||
साऽऽहाल्लमोक्तममृतं श्रवणेन पीत्वा देवस्य चित्तमथ भाग्यबलं
वधूट्याः |
को वेत्ति मादृशजनाः किमु भाजनानि युष्मान्पुनः पुनरनात्तभयाः
प्रवक्तुं || १९८ ||
इत्यंघ्रिपद्मयुगले निटिलं निधाय भक्त्या प्रणम्य विरतां विमलां
प्रसाद्य |
मायां विलोक्य हृदयं तदनादरेण कर्तुं निरीहमिदमाह विभुश्चिदात्मा
|| १९९ ||
पृ० १७८) क्वांधं तमः क्व च रविः क्व च कामदर्पः क्वात्मा
परोक्षजनिका परतत्वचिंता |
क्वाधः स्थितं क्षितितलं क्व च नाकपृष्ठं क्व त्वं क्व
निर्मलशिवाद्वयबोधवृत्तिः || २०० ||
तत्प्राप्तये समुचितं पदमाशु याहीत्युक्ताल्लमेन सुदती हृदि दह्यमाना |
आहो मयाखिलजगद्विदितं मिलित्वा बह्व्यो निशाः क्व न गमिष्यसि चेत्युवाच
|| २०१ ||
स्वप्ने मयाऽपि बहुशो रतिकेलिकासु संक्रीडितोऽसि हृदयं तव
संश्रिताऽस्मि |
त्यक्त्वाऽद्य मां तव गतस्य व्यथा कथंचिद्भ्रांतिर्न यास्यति सदेत्युदितो
जगाद || २०२ ||
स्वप्ने त्वमाहितविषाहिरदालिदष्टा खेदेन तत्र रुदती प्रतिबुध्य पश्चात्
|
भूयोऽपि रोदिषि यदि त्वदवाप्तकामो भ्रान्त्या चलामि न हि चेन्मम
नापवादः || २०३ ||
त्वं मोहपाशविवशा सुरतभ्रमेण कष्टं गता किल वृथैव
विनावलंबं |
पृ० १७९) वने हठाद् भाषन्तीं मायां प्रति प्रभोरुक्तिः |
निःसंगनिस्पृहतया मयि निर्विकारे किं नावबुध्यसि तदा मदनाकुलत्वं
|| २०४ ||
तस्मात्कुचेष्टितवचोभिरलं तवेति प्रोक्ताऽल्लमेन तरुणी तमुपेत्य माया |
आहेदमद्भुतपदैः कृतकायमानस्त्वं यातु काम इव भासि कुतोऽपि कामं
|| २०५ ||
त्वां नोत्सृजामि शपथं कलये बलाद्वा संगृह्य यामि नगरं
मृतिरंततो वा |
प्रख्यातिरस्तु भुवि शैलसुताप्रतिज्ञा निर्वाहमेतु न हि चेदहमंगना न
|| २०६ ||
इत्थं विकत्थनवचः प्रभुराकलयय प्रोचे प्रहस्य नयनेन भवद्गृहे प्राक्
|
आलिंगनाय मदनातुरया त्वया मे गात्रं गृहीतमगृहीतमहो न वेत्सि ||
२०७ ||
अंगांगसंगतिमपेक्ष्य चिरं गलंत्या कामांधया कलितमप्यणु वा
मदंगं |
हस्तांघ्रिलिंगमथवाऽधरवत्सकंठं नास्पृष्टमित्यह ह वेत्सि कुतो
भ्रमोऽयं || २०८ ||
गच्छाश्हु गेहमिति तद्वचनं निशम्य मायाऽक्षिसंज्ञितसखीनिवहैः
सहैनं |
मौर्ख्यादियेष निखिलात्मगतं गृहीतुं श्रीमानदृश्यपदवीं प्रययौ
स देवः || २०९ ||
पृ० १८०) इति सकलमुनींद्राः श्रावितं वः समस्तं
प्रभुचरितमविद्याकर्मनिर्मूलनाढ्यं |
पठति परमभक्त्या यः पुमान् दोषदूरः स भजति परतत्वं
सर्वसाम्राज्यसौख्यं || २१० ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां
विमलागमनतत्कृतप्रभुमहिमानुवर्णनतदीयलीलावतारकथनमायापराज्
अयप्रतिपादनगतिर्नाम सप्तमोऽध्यायः ||
पृ० १८१) वने विलपन्त्याः सुताया अन्तिकं पित्रोरागमनम् |
|| श्रीनंदिकेश्वराय नमः ||
अष्टमोऽध्यायः ||
सूत उवाच-
सिद्धवीरगुरुभक्तिरसार्द्रा अल्लमप्रभुकृपाजितमायाः |
आदरेण मुनयः प्रभुलीला श्रूयतां प्रमथसंततिगुप्ता || १ ||
अल्लमेऽन्तर्हिते माया शोकाब्धौ प्रविमज्जती |
आलोक्य विमलां प्राह खिन्ना गद्गदितं वचः || २ ||
कथं यास्यामि विमले पार्वत्या अहमंतिकं |
सा मामन्वीक्ष्य विफलां कथं यातु शिवान्तिकं || ३ ||
अहो कष्टमहो कष्टं प्रतिज्ञातं वृथा गतं |
हसिष्यंति सभां मध्ये सर्वे सामाजिकाश्च मां || ४ ||
इत्युक्त्वाऽऽत्मनि खेदेन विलपन्ती सखीजनैः |
मुहुर्मुहुर्निःश्वसन्ती पपात भुवि मूर्च्छिता || ५ ||
अथ राजा सुतां द्रष्टुं ममकारो बलैः सह |
आगत्य वनमन्विष्य कुत्रचित्तां ददर्श ह || ६ ||
सखीभिः सह तां क्लान्तां चिंताक्रान्तां सुतां तदा |
दृष्ट्वा तत्पितरौ खिन्नौ समीपं प्रापतुर्द्विजाः || ७ ||
पृ० १८२) हस्ताभ्यां तां समालिंग्य प्राहतुर्मोहिनीनृपौ |
चिंतां त्यज सरोजाक्षि चित्तविभ्रमणं कुतः || ८ ||
मंडलाधिपतेः पुत्रे त्वामद्योद्वोढुमीच्छति |
अनुसृत्याटवीं प्राप्ता कथं मार्दलिकं सुते || ९ ||
अहो कुमुदपत्राक्षि दुरवस्थामिमां कथं |
अनुभावयते सोऽयं शिवस्त्वां बत निर्घृणः || १० ||
अर्धरात्रे समागत्य माता तव मनस्विनी |
बोधयामास तन्वंगि कथं न श्रुतवत्यसि || ११ ||
अन्यमूर्धाभिषिक्तानामहं भर्तेति विश्रुतः |
तादृशं मामनादृत्य कथं वैयात्यमागता || १२ ||
सांप्रदायिकमर्यादां कथं वा त्यक्तुमुद्यता |
कथं साहसिका पित्रोराज्ञामुल्लंघितुं क्षमा || १३ ||
किमनेन स्थितस्यैव चिंतनीया गतिः किल |
गताम्बुसेतुबन्धोक्तन्यायेन किमतः परं || १४ ||
पृ० १८३) वने मोहिनीराज्ञोः समक्षं विमलामाययोर्भूमेस्स्वर्गगमनम् |
मयैष क्षमितो मन्तुः शीघ्रमुत्तिष्ठ बालिके |
पल्यंकिकां समारुह्य गम्यतां मंदिरं प्रति || १५ ||
इत्युक्तवन्तं राजानमवलोक्य शुभानना |
विमला प्रौढया वाचा विस्पष्टमिदमब्रवीत् || १६ ||
त्यज राजन् सुताभ्रान्तिं मायैषा दुहितुर्गिरेः |
सन्निधौ देवदेवस्य प्रतिज्ञामतनोत्किल || १७ ||
मदीयहावभावाद्यैरल्लमप्रभुवल्लभं |
वशयित्वा हरिष्यामीत्यद्रींद्रसुतया समं || १८ ||
बहुधा वंचितोऽप्येष प्रभुः सर्वजगन्मयः |
निर्जित्य गतवान् मायां प्रतिज्ञाऽस्या हताऽमुना || १९ ||
कैलासमावां गच्छावः कार्यं नास्ति महीतले |
राजन्विषादं संत्यज्य नगरीं गच्छ मा चिरं || २० ||
इति नृपमथ पत्नीमीरितैः सांत्वयित्वा निजनियममहिम्ना निर्गते
भूमिमार्गात् |
सुरपथि विमलेयं सुंदरी साऽपि माया क्षणमुपरि मिलित्वा जग्मतुः
शंभुशैलं || २१ ||
राजाऽथ पत्नीसहितो महार्त्या क्लिश्नन्वदन्हा बत हा बतेति |
पृ० १८४) भूमौ पतन्मूर्ध्नि रजो निषिंचन् लुठन्रुदन् पुत्रि कुतो गतेति ||
२२ ||
क्रुशंस्तपन्नाः किमिति प्रशुष्यन् भुग्नोभवन्नात्मनि वेपमानः |
स्खलञ्छ्वसन् स्थातुमशक्नुवानश्चिखेद पुत्रीवीरहेण विप्राः || २३ ||
तच्चारुता तत्पटुता विलासास्ते वा कथं स्युर्भुवि गोचरा नः |
कथं नु विस्मर्तुमिमान्क्षमाः स्मः स्त्रिया सहेत्थं विललाप राजा || २४
||
तदा गुरुस्तस्य समेत्य तूर्णं श्रीमानहंकार इति प्रसिद्धः |
विवेकबोधं कृतवानहो किं वृथाऽऽत्मखेदेन गतां प्रतीति || २५ ||
आज्ञां शिवस्याखिलवल्लभस्य विलंघितुं कः प्रभुरत्र जन्तुः |
मायाऽस्मदीये सदने ह्युषित्वा भूयो गता केन च कारणेन || २६ ||
जन्मादि तस्याश्चरितं विचित्रं प्रत्यक्षमस्माकममानुषं तत् |
एतावदेवर्तमियं न पुत्री श्रुत्वाऽप्यबुद्धो विमलोदितं किं || २७ ||
पृ० १८५) वने ममकाराय अहंकारगुरूक्तराजनीतिः |
अतो न दुःखं भज राजमौले त्वया हि नीतिर्न विचालितासीत् |
अन्वेषणार्थं वनमद्य यातं यतो न चेद्भ्रश्यतु नीतिमार्गः || २८ ||
प्रभोस्तिरोधानमवेक्ष्य माया स्वयं शरीरेण सहैव यायात् |
जगत्स्विदं संशयकारणं स्याद्विटेन नीता नृपपुत्रिकेति || २९ ||
इतोऽपि नीतिर्नविचालनीया त्वया प्रवेश्या ननु राजधानी |
पुनश्च नो यास्यसि ता यदि त्वं मनस्सु नृर्णां किल संशयः स्यात् || ३०
||
राजा हि सर्वत्र पिता च माता राजा गुरुर्बंधुजनः प्रजानां |
दुष्टान्सदा दंडयितुं च शिष्टान् जागर्ति यः पालयितुं स राजा ||
३१ ||
यो वा निरर्थं व्यसनाभिषंगी धर्म्यात्प्रजाः पालयितुं न शक्तः |
संत्यज्य तं सर्वजनाः प्रयांति धर्मार्थयुक्तान्यनृपालराज्यं || ३२
||
अतोऽस्मदीया भवता वियुक्ताः पुरोहितामात्यपुरोगमाश्च |
सर्वेऽपि यास्यंति नृपालमन्यं राज्यं च नश्येत्त्वयि संकटस्थे || ३३ ||
पृ० १८६) इति चित्तं समाधाय नृपस्याहंक्रियाह्वयः |
पुरं प्रापयय मोहिन्या निजास्थाने न्यवेशयत् || ३४ ||
ममकारोऽपि भूपालो मोहिन्या सह लीलया |
पालयन्नखिलं राज्यं सुखेनोवास भूसुराः || ३५ ||
तत्र सा विमला गत्वा माया च भुवनेश्वरीं |
तत्पादांबुरुहद्वंद्वे शिरः सांजलि चक्रतुः || ३६ ||
अथ मायां गिरिसुता लिखन्तीमवनौ शिरः |
अधःकृत्य स्थितां दृष्ट्वा मेने व्यर्थीकृतक्रियां || ३७ ||
मत्वाऽल्लमं जेतुमशक्यमंबाप्युल्लासहीना हृदि निःश्वसन्ती |
पत्युः सभां गन्तुमवाप्तलज्जा सेहे न गेहेऽपि तिरोहितेव || ३८ ||
श्रुत्वा वृत्तान्तमेतत्पुररिपुरपि तत्पार्वतीमंदिरान्तः-
शालामभ्येत्य लीलावपुरथ कृपया प्रीणयन्सान्त्ववादैः |
भूयोऽप्यस्यास्त्वहंतामपि शिथिलयितुं ख्यापयन्नल्लमस्य
प्रज्ञामज्ञानहर्तुः सकलसुरगुरोरित्थमार्यां बभाषे || ३९ ||
पृ० १८७) अंतःपुरे गौरीशंकरयोरुक्तिप्रत्युक्तिः |
अशनिशतमपि स्याच्छक्यमुद्भिद्य पक्तुं गरलभृदपि घोरः शक्यते वा
गृहीतुं |
अयि सुनिशितदंष्ट्रोद्घाट्यते वापि मृत्योर्विकलयितुमशक्यं गौरि
चेतोऽल्लमस्य || ४० ||
क्व माया क्व प्रभोर्धैर्यमविमृश्य कृतं त्वया |
तथापि मानसे चिन्तां परित्यज धरात्मजे || ४१ ||
श्रुत्वा पत्युर्वचः प्रोचे किंचिल्लज्जानतानना |
स्त्रीस्वभावाच्छलोक्त्येव गौरी गिरिवरात्मजा || ४२ ||
प्रेषितां यन्मया मायां मन्मयीमवनीतलं |
त्वमल्लमतया स्थित्वा जितवानसि भो विभो || ४३ ||
प्रतिज्ञातं निरूढं ते निर्जिताऽस्मि त्वयाप्यहं |
इति ब्रुवाणां तामीशोऽप्यभिमानितयाऽब्रवीत् || ४४ ||
त्वदीयं तामसगुणं स्त्रियं कृत्वा महीं प्रति |
प्रेषयंत्या त्वयैव त्वं निर्जिताऽसि वृथा श्रमात् || ४५ ||
सहजानंदसौंदर्यसर्वस्वनिधिमल्लमं |
मनुष्यमात्रं विज्ञाय मायां प्रेषितवत्यहो || ४६ ||
पृ० १८८) प्रभोर्निरंजनस्याग्रे स्थातुं वा शक्नुयात्कथं |
मायेयं मनुजस्येव किंचिज्ज्ञस्य जडात्मिका || ४७ ||
नास्य कायगुणाः सन्ति सर्वज्ञस्य महात्मनः |
न चेंद्रियार्थसंबंधो न संकल्पादिकाः क्रियाः || ४८ ||
अविज्ञाय चिदात्मानमल्लमं सर्वसाक्षिणं |
कृतो किंचित्करो मोहाज्जेष्यामीति दुराग्रहः || ४९ ||
एवं ब्रुवति देवेशे भूयो भूयो जुगुप्सिता |
देवी विभुमुवाचेत्थं किं ताडयसि वाक्शरैः || ५० ||
छित्वा नासां तदुपरि दातव्यं किं नु दर्पणं |
अलं मदपराधानां गणनेन कियत्यहं || ५१ ||
कारुण्यांभोनिधे शंभो क्षांत्या मां परिपालय |
इति विज्ञापितो देवो जगादांबां शुचिस्मितः || ५२ ||
सुस्थिरा भव कल्याणि चिन्तां नैतावता कुरु |
पृ० १८९) शिवोक्त्या पार्वतीप्रेषितसात्विककलावतारः |
यथा कथं चित् त्वद्दैन्यं निवारयतु स प्रभुः || ५३ ||
तच्छ्रुत्वा पार्वती देवी दंडवत् प्रणिपत्य सा |
कथं निवृत्तदैन्या स्यामिति संप्रार्थितोऽब्रवीत् || ५४ ||
सात्विकी निर्मला देवी मदभिन्ना चिदात्मिका |
ध्येया योगिहृदब्जेषु या कला त्वयि वर्तते || ५५ ||
तां कर्मरहितां कृत्वा भक्तिवैराग्यनिर्भरां |
स्त्रीरूपां प्रेषय भुवं तस्या वश्यो भवेत्प्रभुः || ५६ ||
यत्र भक्तिः प्रभुस्तत्र भक्तिः सत्वे च निर्मले |
अतस्त्वत्सात्त्विककलामनुगृह्णाति स प्रभुः || ५७ ||
निजस्वरूपं कृपया दर्शयित्वा महान्प्रभुः |
आह्लादयिष्यति चिरं भवत्याः सात्विकीं कलां || ५८ ||
इत्युक्ता सा महादेवी प्रसादोऽयं महानिति |
प्रेषयामास धरणीं स्वकीयां सात्विकीं कलां || ५९ ||
तदानंदभरादम्बा पुषोषांगानि निर्भरं |
तां दृष्ट्वा वृषभेशान ईशानं तावदब्रवीत् || ६० ||
एतावत्किमियं गौरी खिन्नांगेषु कृशाऽभवत् |
अधुना किं प्रहृष्टात्मा पुपोषांगानि सर्वतः || ६१ ||
पृ० १९०) वृषभेंद्रवचः श्रुत्वा तात्पर्यं चावगाह्य सः |
महात्माऽयमिति ज्ञात्वा सर्वेषां पुरतोऽब्रवीत् || ६२ ||
महात्मन् वृषभश्रेष्ठ कल्याणगुणभाजन |
त्वयाऽस्ति समता कस्य यतस्त्वं समताश्रयः || ६३ ||
समर्थस्त्वं जगद्भर्तुं भर्तुं मामधिको यतः |
इति पाठकवद्देवस्तुष्टाव वृषभेश्वरं || ६४ ||
श्रुत्वा सामाजिकाः केचिन्निनिंदुस्तमसूयया |
श्रुत्वोपालंभवाक्यानि ताटस्थ्यं जगृहे वृषः || ६५ ||
ततोऽप्यतीव हृष्टात्मा स्मरारिः सद्गुणप्रियः |
बहुमान्यावलोक्याऽथ निंदकांस्तानुवाच ह || ६६ ||
युष्माभिरीर्ष्याविवशैः कृतानि श्रुत्वाप्यसौ दूषणभाषणानि |
मुक्ताफलं छन्नमिवाध्युदास्ते मानेन किं वा न वदत्यहो वः || ६७ ||
महामुनीनामपि शान्तिरेषा न विद्यते तावदयं हि धन्यः |
पृ० १९१) भूमाववताराय नंदिने शंकर वचनम् |
इतीश्वरस्तानुपदिश्य धर्मस्वरूपमाहूय वृषेन्द्रमाह || ६८ ||
नंदिन्महानंदकरस्त्वमेषां वृंदारकाणामपि वंदनीयः |
मंदाधिकारेण कलौ मनुष्या वंदारुतां मत्पदयोस्त्यजन्ति || ६९ ||
मानुष्यमुद्धर्तुमतो महीयान् मन्मूलमूर्तिः परशंभुरेव |
सुज्ञानदेव्यां निरहंक्रियस्य पुत्रो बभूवाल्लम इत्यमेयः || ७० ||
त्वं सत्वशुद्धोन्नतपुण्यराशिर्भक्तान्वये भूमितलेऽवतीर्य |
वर्तस्व तत्रानुभवैकगोष्ठ्या द्राक् सावधानोऽप्यनवद्यभक्त्या || ७१ ||
तत्राल्लमस्त्वन्निकटं समेत्य तुभ्यं स्वयं भक्त्यवधानमार्गं |
रहस्यविज्ञानमपि प्रसाद्य चित्तं समाधास्यति तावकीनं || ७२ ||
तवात्मनश्चाथ निवार्य भेदं कृतार्थयिष्यत्यचिरात्प्रभुस्त्वां |
भवान् कृतार्थोऽपि जगत्समग्रं कृतार्थयेति स्वयमादिदेश || ७३ ||
शिवाज्ञयोमित्यृषभेश्वरेऽस्मिन्नंतर्हितेऽथात्मगणान्समीक्ष्य |
उवाच शंभुः प्रभुनंदिनोर्या भविष्यति स्वानुभवैकगोष्ठी || ७४ ||
पृ० १९२) तां यूयमप्याश्ववधार्य मत्या चित्तेषु ये संशयशंकवस्तान्
|
उन्मूल्य विज्ञानसुनिश्चितार्था भक्तिं विधत्त प्रथितां पृथिव्यां || ७५
||
इति किल गणनाथानीश्वरस्तत्र मुख्यान्सकरुणमुपदिश्यान्तःपुरं प्राप
गौर्याः |
प्रमथकुलपतीनां सप्ततिः सप्तशत्या सह धरणिमथागादीश्वराज्ञा
ह्यलंघ्या || ७६ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
मायानिर्याणशिवकृतगौरीसमाधानचित्कलावतारलीलाप्रेरणवृषभेश्व्
अरमहिमानुवर्णनतदवतारप्रारंभसूचनप्रमथगणभूलोकसमागमनप्र्
अतिपादनगतिर्नामाष्टमोऽध्यायः ||
इति प्रथमभागः समाप्तः ||
ओं
वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला |
ग्रंथ ७ वा
(भविष्यत्पुराणांतर्गत)
प्रभुलिंगलीला
भाग २ रा
हा (महाराष्ट्रतात्पर्यासह)
वेदमूर्ति मणूरमठाध्यक्ष मल्लिकार्जुनशास्त्री
यांनीं पुणे येथें
रावजी श्रीधर गोंधलेकर यांचे जगद्धितेच्छु छापखान्यांत
छापवून सोलापूर येथें प्रसिद्ध केला |
शके १८२५, सन १९०३
पृ० १) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायां द्वितीयभागप्रारंभः |
अथ नवमोऽध्यायः |
सूत उवाच
वीरेश्वरांघ्रिभजनाभिरता मुनींद्रास्सारं कथासमुदये
प्रमथावतारं ||
व्यासोपदिष्टमधिकृत्य वदामि यूयं श्रुण्वंतु भक्तरसिकाः
प्रभुलिंगलीलां || १ ||
आज्ञयाथ गिरिजाधिपतेस्ते प्रज्ञया परमया प्रमथेंद्राः ||
वीरशैवविमलात्मसु जातास्तत्र तत्र पृथिवीमधिरूढाः || २ ||
विजयते वसुधारमणीशिरोमणिवदुज्वलसालसमुन्नता ||
उडुतटीनगरी नगरीतिभिः कनकसौधगृहैरुपशोभिता || ३ ||
तस्यामगण्यगुणसन्मणिरोहणाद्रिर्नाम्ना बभूव विमलो विमलस्वभावः ||
भार्या च तस्य सुमतिः पतिदेवतानामग्रेगणेयमहिमा बहुमाननीया || ४
||
सा सात्विकी गिरिजया प्रहिता कलेमामात्मोदयोचितशुभाचरितां विचार्य ||
पृ० २) तद्गर्भशौक्तिकपुटे पिहिताथ जज्ञे मुक्तेव
मुक्तिदमहेश्वरभक्तिसांद्रा || ५ ||
तां चित्कलामिव विलोक्य विलोकनीयां तद्बंधुवृंदमहहा गिरिजैव
साक्षात् ||
सत्वं शरीरमनुगृह्य धरातलेऽस्मिऋन्नाविर्बभूव शिशुरित्यभितो
ननंद || ६ ||
दीक्षाभिषेकसमयोचितपट्टिकावत्फाले पिता विरचयन् सितभूतिरेखां |
तस्या बबंध गलपीठतटेऽथ लिंगं हस्ते शिरस्यपि समर्प्य
समर्चनीयं || ७ ||
सुज्ञानभक्तिपरिपूर्णमना भव त्वमित्याशिषा सह रहस्युपदिश्य कर्णे
||
पंचाक्षरं परमपावनमादरेण माहेश्वरानुपचचार महानुभावः ||
८ ||
कला महेशभामिन्यास्सात्विकीयमिति स्वयं ||
महादेवीति नामास्या विदधे विबुधोत्तमः || ९ ||
नामोचितार्यता हृद्या विद्येव विनयान्विता ||
आरूढभक्तिः शुशुभे सारूढा संप्रदायिनां || १० ||
अन्ये प्रमथनाथास्ते तत्र तत्र स्थले स्थले ||
पृ० ३) श्रीसिद्धराममाचार्ययोरवतारकथनम् |
भक्तान्वयेषु संजाता भक्तिनिष्ठामधिष्ठिताः || ११ ||
नीरागा निर्मलाचारा निर्भया निरुपद्रवाः ||
न्यायसंपादितानर्थान् जंगमेभ्यः समर्पयन् || १२ ||
वर्णनीया धरास्थल्यां स्वर्णलाख्या महापुरी ||
स्वर्णगर्यधिका भाति पूर्णा सर्वसमृद्धिभिः || १३ ||
मुग्धाख्यो मुग्धभक्तोऽभूत्तत्रैको मुग्धया स्त्रिया ||
लिंगजंगमयोः कुर्वन्नाराधनमतंद्रितः || १४ ||
तस्यात्मजोऽभूत्प्रमथः प्रबुद्धः श्रीसिद्धरामाभिधया प्रसिद्धः ||
वृद्धोऽभवन्भक्तिविरक्तिबोधैः श्रद्धालुरुद्यच्छिवयोगतंत्रे || १५ ||
परिमलिकाह्वयनगरे हरभक्तकुलाग्रणीर्महाविद्वान् ||
मणिवालमाचय इति प्रथितः प्रमथः परापराभिज्ञः || १६ ||
परवादिमत्तदन्तिप्रकरमहासिंहबिरुदविख्यातः ||
वरमाहेश्वरपट्टाधीश्वर इत्येष विश्रुतो जयति || १७ ||
भविनामपि शिवभक्तिं सुविमलदृष्ट्या ददाति यः पुंसां ||
संशोध्य भक्तहृदयान्यवतीत्येतत्किमद्भुतं जगति || १८ ||
पृ० ४) शिवभक्तगणैः सततं शिवशास्त्रविचारमेव कुर्वाणः ||
शिवयोगी स विरेजे भुवि माचय एव माचयो विदुषां || १९ ||
कर्नाटदेशे नगरी मतल्लीवल्लीव गोशाखिनि भागवाटी ||
तस्यां प्रसिद्धो वसुधामरेंद्रो भक्ताग्रणीर्मादनमंत्रिनामा || २० ||
तस्योत्तमाचारवती वधूटी मादांबिका नाम पतिव्रताशीत् ||
तयोः समाराधयतोः सुतार्थं नंदीश्वरोऽभूत्तनयः प्रसन्नः || २१
||
वर्षत्रयं गर्भगतस्स तस्यास्समाधिमास्थाय शिशुः ककुद्मान् ||
जज्ञेऽथ लोकत्रयरक्षणाय स्वर्भेरिकानिःस्वनपुष्पवर्षैः || २२ ||
उन्मील्य चक्षुर्मुकुलीकृतांगः शिशुर्न चांचल्यमवाप किंचित् ||
यदा तदाऽभ्येत्य तु संगमेशो दधौ तदंगे सहजेष्टलिंगं || २३ ||
स्वभक्तिसाम्राज्यमहाधिपत्ये पट्टाभिषेकं हृदयेन कुर्वन् ||
धृत्वा ललाटे भसितं सुदीप्तं नाम्नाथ चक्रे बसवं तमीशः || २४
||
तन्मस्तके हस्ततलं निधाय मायां निरस्योपदिदेश कर्णे ||
पृ० ५) श्रीबसवराजस्य संगमेशकृतलिंगधारणदीक्षाकथनम्
पंचाक्षरं सप्रणवं सतत्वं सकीलकं सार्थमथो महेशः || २५ ||
अंतर्धिमाप स्मरशासनोऽथ स्वान्तानि तत्रत्यवधूजनानां ||
उन्मीलितानीव निमीलितानि स्थित्वापि भूत्वाऽथ सुविस्मितानि || २६ ||
दयानिधिः शंकर एव साक्षादागत्य पुत्रस्य महाद्भुतस्य ||
संजातमात्रस्य दधार लिंगं कंठे तदा क्वापि न दृष्टपूर्वं ||
२७ ||
अन्योन्यमेवं ब्रुवतीषु तासु स्त्रीषु क्षणेनैष शिशुः ककुद्मान् ||
विचालयामास करांघ्रिमुख्यान्यंगान्यथोन्मीलितचक्षुरासीत् || २८ ||
पितापि संस्कृत्य सुतेष्टिनाम निष्क्रान्तिभक्ताशनजालकैस्तं ||
तत्तत्क्रियोक्तोचितकाल एव पुत्रायितं नंदिनमेव मेने || २९ ||
महेशदत्तं बसवाभिधानमाकर्ण्य पित्रापि तथैव चक्रे ||
दिने दिने सोपि कुमारचंद्रश्चंद्रः कलावानिव वृद्धिमाप || ३० ||
अध्यापकाध्येतृसमाजमेत्य सकृत्तदीयश्रवणेन बालः ||
समस्तवेदागमशास्त्रजालं गृहीतवान् सार्थपदं सलीलं || ३१ ||
पृ० ६) शास्त्रागमानामथ वेदाराशेर्वेदांतराशेरपि निश्चयेन ||
तात्पर्यतः सार बभुत्सुतायां भक्तिर्महेशे परमेति दध्यौ || ३२ ||
अथ गर्भाष्टमे काले दंपती हृष्टमानसौ ||
बसवस्योपनयनं कर्तुकामौ बभूवतुः || ३३ ||
तद्विज्ञायाऽथ बसवः पित्रा संवाद्य निस्पृहः ||
नागाम्बिकां स्वभगिनीं प्राह स्म स्वानुरागिणीं || ३४ ||
उपाध्यायो गुरुः स्वामी ममाचार्यश्च देशिकः ||
अल्लमप्रभुरेवैकः स हि मामुपनेष्यति || ३५ ||
ममोपनेता नास्त्यन्यः प्रभुं सर्वेश्वरं विना ||
गृहान्निष्क्रमणं योग्यमक्कास्माकं शिवात्मनां || ३६ ||
इत्युक्त्वाऽथ तया साकं बसवः स शिवोपमः ||
निष्क्रम्य मंदिरात्तूर्णं ययौ कर्पटिसंगमं || ३७ ||
तत्र श्रीसंगमेशस्य समाराधनतत्परः ||
भक्तैः कतिपयैः साकं न्यवसत्कान्यहान्ययं || ३८ ||
वृषभेंद्रं महेशाने प्रेषयत्यवनीं प्रति ||
ये वैरस्येन तत्रोचुर्विश्वासरहितं वचः || ३९ ||
तदा तत्प्रांतदेशेषु ते सर्वे परवादिनः ||
जाता बौद्धादिवंशेषु तत्रापि कलहोद्यताः || ४० ||
तेषु मुख्यतमो धूर्तो बीजलो नाम भूपतिः ||
पृ० ७) कल्याणपुरीम्प्रति बसवराजागमनकथनम्
शशास कल्याणपुरं सर्वकल्याणकारणं || ४१ ||
तत्रालये महेशस्य शिलाशासनमुन्नतं ||
स्थापितं येन केनापि लिपिर्न ज्ञायतेऽद्भुता || ४२ ||
बीजलस्तां लिपिं दृष्ट्वा विभेदयितुमक्षमः ||
लिपिज्ञान् भूतले सर्वान्समाहूयाप्यदर्शयत् || ४३ ||
तैरप्यबुद्धस्तल्लिप्यां शिलायांबीजलो नृपः ||
भूयः प्रतिज्ञामकरोद्भेरीवादनपूर्वकं || ४४ ||
यो वा को वाऽद्भुतामेतां लिपिं वाचयति क्षितौ ||
स्वराज्याधिपतिर्भूयात्सप्रधानाग्रणीरिति || ४५ ||
बलदेवोऽथ तन्मंत्री वीरशैवान्वयोत्तमः ||
बसवस्याधिकां प्रज्ञां श्रुतवानतिथिव्रजैः || ४६ ||
राज्ञे विज्ञाप्य मंत्रींद्रो गत्वा कर्पटिसंगमं |
बहुधा तं समाधाय ह्यानिनाय पुरं प्रति || ४७ ||
गीतवादित्रनृत्यादिवैभवैरागतं नृपः ||
प्रत्युज्जगाम बसवं माहेश्वरगणावृतं || ४८ ||
प्रापयय नगरीं स्वीयां राजा देवालये स्थितं ||
शासनं दर्शयित्वाऽस्मै वाचयेति व्यजिज्ञपत् || ४९ ||
पृ० ८) पपाठाऽभ्यस्तवत्तूर्णं बसवो दिव्यशासनं ||
अवगाह्यास्य तात्पर्यं राजा लेभे महानिधिं || ५० ||
धनानां दशकोटीनां लाभात्संतोष्य पार्थिवः ||
संप्रार्थ्य बसवं चक्रे मंत्रिपट्टाधिनायकं || ५१ ||
दंडनाथोऽस्य संप्रीतो बलदेवो नृपाज्ञया ||
गंगाम्बिकां सुतां तस्मै ददौ प्रार्थनपूर्वकं || ५२ ||
उद्वाह्य वीरशैवोक्तमार्गेण बसवेश्वरः ||
राज्ञः प्रार्थनया सर्वां वसुधां पालयन् स्थितः || ५३ ||
दृऽऽन्मात्रेण जगत्सर्वं सृजत्यवति हन्ति च ||
वोढुस्तस्य कियान्भारो भूखण्डवहने द्विजाः || ५४ ||
बाह्याभ्यन्तरतौल्येन समाधिं सर्वदा भजन् ||
कटाक्षानुगृहीतैः स्वैः पालयामास मेदिनीं || ५५ ||
माहेश्वरैरसंख्यातैर्नित्यं कृतशिवार्चनः ||
प्रसादान्नानि भुंजानो वीरशैवं व्यवर्धयत् || ५६ ||
भगिनी तस्य नागाम्बा बसवस्योत्तमाशया ||
तेनोपदिष्टमार्गेण शैवं धर्ममपालयत् || ५७ ||
पृ० ९) श्रीचन्नबसवाभ्युदयकथनम् |
ब्रह्मचर्यव्रतपरा परवैराग्यनिर्भरा ||
परापरविभागज्ञा परमं शैवमाश्रयत् || ५८ ||
कदाचिद्बसवः श्रीमान् जंगमप्रवरैः सह ||
आराध्य बुभुजे भक्त्या प्रसादान्नं महेशितुः || ५९ ||
तद्भुक्तिकाले बसवस्य वक्त्रात्प्रसादशिक्थानि तु पंचषाणि ||
दैवात्पृथिव्यां चलितानि दृष्ट्वा नागाम्बिका निश्चलभक्तिनिष्ठा || ६०
||
स्वयं समुद्गृह्य शिवेच्छयैव संस्पर्शयंत्यंजलिनेक्षणे द्वे ||
भक्त्याऽवधानेन समाहितात्मा प्रसादबुद्धया बुभुजे कृशांगी || ६१ ||
तेनैव पुण्येन गृहीतगर्भा साक्षात्कृतेनाथ शिवेन तन्वी ||
निवृत्तसंदेहपदा यथार्हं च्छन्नाभिधं सा सुषुवे तनूजं || ६२ ||
स बालेवेश्वरचिह्नितानि वहन् शरीरे जगदद्भुतात्मा ||
तिरोदधे लौकिकरक्षणाय भूयस्ततछन्न इति प्रसिद्धः || ६३ ||
बसवोपमसौशील्यभक्तिज्ञानगुणोदयैः ||
स च्छन्नबसवो नाम्ना ख्यातो माहेश्वरोत्तमः || ६४ ||
अधीत्य सर्वशास्त्राणि सर्वान्वेदागमानपि ||
बसवादेव तच्छिष्यश्छन्नोऽभूद्दंडनायकः || ६५ ||
पृ० १०) षट्स्थलक्रमविज्ञानी समर्पणविधानवित् ||
सावधानलसद्भक्तिस्सर्वमंत्ररहस्यवित् || ६६ ||
अशेषशैवतंत्रार्थसिद्धान्तज्ञानपारगः ||
वेदांतशास्त्रं व्याचष्ट स्पष्टं शिष्टैरभिष्टुतः || ६७ ||
अधीत्य बुध्वाऽनुष्ठाय भक्तेभ्यः शास्त्रविस्तरं ||
संक्षिप्योपदिदेशैष सारमुद्धृत्य सर्वतः || ६८ ||
प्रतिभूर्भक्तरक्षार्थं भक्तो बसवयोगिनः ||
स च्छन्नबसवो रेजे प्रच्छन्न इह षण्मुखः || ६९ ||
प्रादुर्बभूव बसवस्य कुमाररत्नं रत्नाद्रिचापवरभक्तकिरीटरत्नं ||
तं संगमेश्वर इति प्रथितं पुपोष गंगांबिका शुभगुणा
गुहमंबिकेव || ७० ||
लोके प्रसिद्धिमगमद्बसवो महेशः पाषाणपादपपशुत्वनिवृत्तयेऽस्य ||
चिंतामणिं मनसि कल्पतरुं कराब्जे गेहांगणे समवयत्सुरभिं तथेति
|| ७१ ||
पृ० ११) बसवशब्दनिर्वचनपूर्वकं तस्यवितरणवैचित्र्यकथनं |
वस्वाख्ययाऽष्टवसवोऽष्टविभूतिनाथाः स्वर्णानि दिव्यमणयश्च भुवि
प्रसिद्धाः ||
तान्वाति गंधयति गच्छति चेति नाम्नाप्यन्वर्थकेन वसुवो वबयोरभेदात् ||
७२ ||
तस्माद्वसूनि सुबहूनि च यस्य सन्ति संकल्पमात्रबशगा मणयश्च सर्वे
||
भृत्या इवाष्टबसवो निधिदर्शने स्युस्तस्यार्थ्यभीष्टफलनाय कियान् हि
भारः || ७३ ||
शंभुः समस्तजगदुद्धरणाय तस्मै संप्रेषणावसर एव धरां प्रति
स्वं ||
ऐश्वर्यवीर्यनिजबोधविरागकीर्तिश्रीषट्कमेव भगवान्प्रददौ समग्रं
|| ७४ ||
राज्यं च बीजलनृपालमणेः समग्रं स्वायत्तमेव स तु भृत्यसमो
बभूव ||
तस्मान्निरंतरमसावखिलार्थिदाता भक्त्या चकार
गुरुजंगमलिंगपूजां || ७५ ||
विद्वत्कविद्विजभटावलियाचकानां यद्यत्सुवर्णमणिवस्त्रगजाश्ववृंदं
||
गोभूमिधान्यशयनासनगेहकन्यापल्यंकिकाप्रभृति तत्तदभीष्टमादात्
|| ७६ ||
नित्यं चरार्चनपरो निजयोगनिष्ठो निर्वाणमार्गनिरतो नियमव्रतस्थः ||
पृ० १२) निःसंगभक्तिभरितो निगमांतवेत्ता निर्मायिकान्तरसवो बसवो
रराज || ७७ ||
भक्तौ विरक्तौ बसवः स एकः प्रसिद्ध इत्यम्बुधिवेष्टितोर्व्यां ||
श्रुत्वास्य कीर्तिं शिवयोगिवर्यास्संद्रष्टुकामाः समुपाययुस्तं || ७८ ||
बहिर्जनकरस्पृष्टभांडेष्वग्राह्यताधिया ||
विशेषनियमैर्युक्ता व्रतस्थाः केचिदागताः || ७९ ||
अदीक्षितगृहद्रव्यपाके विमुखतां गताः ||
मुख्यव्रतसमाचाराः केचिदाजग्मुरास्तिकाः || ८० ||
हस्तेन परपाकान्नमस्पृशन्तो दृढव्रताः ||
स्वहस्तपाकनिरतास्समाजग्मुः समेत्य तं || ८१ ||
भरितार्पणनिष्ठा ये भव्यशीला महोन्नताः ||
भक्त्या बसवमंत्रींद्रं द्रष्टुकामाः समाययुः || ८२ ||
आगलाच्छादनरताः सर्वांगाच्छादकाः परे ||
पादुकव्रतनिष्ठा ये घ्राणाच्छादनिकव्रताः || ८३ ||
दर्शनस्पर्शनालापैर्बहिर्जनपराऽऽन्मुखाः ||
सूर्यांशुदूषितांभोभिरनर्चनपराः परे || ८४ ||
पृ० १३) कल्याणंप्रत्यनेकदेशवास्तव्यवीरमाहेश्वरागमनकथनं |
अकृष्टपच्यान्नरताः कृष्टपच्यपराऽऽन्मुखाः ||
स्वयमानीतपुष्पाद्यैः शिवार्चनरताः परे || ८५ ||
कृतकद्रुमसंजातपत्रपुष्पपराऽऽन्मुखाः ||
विना जंगमलिंगस्य पूजामनशनव्रताः || ८६ ||
एवभुक्तोपवासादिचांद्रायणपरायणाः ||
क्षीराहारा मिताहारा अष्टग्रासाशनाः परे || ८७ ||
अधः शयननिष्ठाश्च ब्रह्मचर्यव्रताः परे ||
अर्चनावधिजिह्वांबुगिलने विमुखाः परे || ८८ ||
विनार्चनांगमन्यत्र पानीयविमुखाः परे ||
तांबूलचंदनालेपस्रगादिविमुखाः परे || ८९ ||
शिखासूत्रादिरहिता लिंगैकनियताः परे ||
कालत्रयार्चकाः केचिच्चतुष्कालार्चकाः परे || ९० ||
षाट्कालिकार्चनरताः स्थिरार्चाविमुखाः परे ||
सर्वांगोद्धूलितसदाभसितव्रतवर्तिनः || ९१ ||
पृ० १४) केचित्सर्वस्वसमयसदाचारसमन्विताः ||
इष्टलिंगमनोनिष्ठा द्विस्त्रिरष्टविधार्चकाः || ९२ ||
अन्ये च शिवशास्त्रोक्तमहाव्रतपरायणाः ||
ते सर्वे बसवेशस्य मंदिरं द्रष्टुमागताः || ९३ ||
तांस्तान्समीक्ष्य संतुष्टो बसवो वसुवासवः ||
तत्तदर्हक्रमैर्न्यायादर्चयामास सादरं || ९४ ||
तत्कारितात्मसेवाभिर्हृष्टचित्ताः परस्परं ||
स्तुवन्तो बसवाधीशमाशीर्वचनपूर्वकं || ९५ ||
नीत्वा दिनानि कतिचिच्छास्त्रश्रवणतत्पराः ||
शिवानंदामृताम्भोधिमग्नास्तत्रैव संस्थिताः || ९६ ||
स्वस्वकार्याणि विज्ञाप्य केचिद्याचनतत्पराः ||
तद्दत्तममितद्रव्यमादाय स्वदिशं गताः || ९७ ||
निर्लज्जा निर्भया धूर्तास्तत्र ये विटजंगमाः ||
बहुद्रव्याणि याचन्ते तेषां संख्या न विद्यते || ९८ ||
वादार्थं तत्र ये याता बहवः परवादिनः ||
तान्सर्वानन्नपानाद्यैर्निवेश्य भवनेषु सः || ९९ ||
प्रत्यहं वादशालायामाह्वयन्नुचितासने ||
पृ० १५) बसवेशकृतपरवादिनिरसनकथनम् |
बहूकृत्य स्वकीयैस्तान् वादयामास पंडितैः || १०० ||
स्वयं माध्यस्थ्यमास्थाय तत्परान् वा पृथऽऽन्नयान् ||
युक्तिमेव बहूचक्रे न तु वाग्जालमास्तिकाः || १०१ ||
वैदिकैरथ संवादे प्राप्ते समयमर्मवित् ||
कदाचित् स्वयमेवायं चक्रे वादमहोत्सवं || १०२ ||
मुखभंगं विधायान्ते न्यायेन परवादिनां ||
अद्यास्तु श्वः परश्वो वा विचार्योत्तरमीर्यतां || १०३ ||
इत्युक्त्वा तावदेतेषामन्नपानादि दापयन् ||
जितास्मो दीक्षयेत्यस्मानुक्तो भक्तांश्चकार तान् || १०४ ||
पंडितानामभीष्टार्थान् दत्वा शिवरतात्मनां ||
गजाश्वांदोलिकाछत्रचामरैः पर्यपूजयत् || १०५ ||
भक्तानाराध्य बसवो विनयेन विचक्षणः ||
ब्रुवंस्त्वदीयोऽहमिति स्वात्मार्पणपरोऽभवत् || १०६ ||
हृद्यहंकाररहितो मूर्तः शांतरसो यथा ||
शिवभक्तिमयं चक्रे जगत्स्थावरजंगमं || १०७ ||
तत्काले मनुजाः शिवैकनिरताः सर्वेऽपि मोक्षार्थिनः
पृ० १६) कल्याणे तरवो यथा सुरभिलाः श्रीचंदनोन्मिश्रिताः ||
अन्ये चंदनतां भजन्ति वयमप्येवं प्रभोः संगते-
र्मुक्तास्तत्कृपया भवेम कथमित्यन्तः सदा मेनिरे || १०८ |
कदा वा कल्याणे कनकमणिसौधेऽल्लमविभुं
वयं दृष्ट्वा सद्यः परमशिवसायुज्यपदवीं ||
भजेमेति स्वातीजलधरपयः शुक्तय इव
प्रसादं वांच्छन्तः सकलशिवभक्तास्तदुषिताः || १०९ ||
इति सकलमुनींद्राः शौनकाद्या धरण्यां प्रमथजनिचरित्रं यन्मया
सम्यगुक्तं ||
तदपगतरजस्का ये पठन्ति प्रभाते त इह जननमृत्यू नैव गच्छन्ति
धन्याः || ११० ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
बसवादिप्रमथावतारवर्णनगतिर्नाम नवमोऽध्यायः ||
पृ० १७) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ दशमोऽध्यायः
सूत उवाच-
सिद्धवीरेश्वरस्वामिपादभक्तिपरायणाः ||
श्रुण्वन्तु मुनयः सर्वे प्रभुलीलां शुभावहां || १ ||
अथ तस्या महादेव्या अक्काया अखिलात्मनां ||
अंगानि बाल्यमुत्सृज्य क्रमाद्यौवनमाश्रयन् || २ ||
कोमले वयसि हेमलतांग्याः कामजिच्चरणभक्तिरिवासीत् ||
रामणीयकविनीलकचालिर्व्याममानमतिरिच्य सुदीर्घा || ३ ||
ईक्षितुं हरमिवाधिकहर्षादीक्षणे च सकलाननपूर्णे ||
अर्चितुं प्रमथनाथमिवास्तां तत्करौ विकसितोल्ललिताब्जे || ४ ||
युग्मसाम्यमिव बोधविरागौ जग्मतुः सपदि तत्कुचकुंभौ ||
ज्ञप्तिवृत्तिरिव साक्षिणि लक्ष्ये सौक्ष्म्यमाप युवतेरवलग्नं || ५ ||
पृ० १८) वर्धमानमभवद्गुरुभक्त्या सार्धमेव वनितोरुनितंबं ||
चित्तवृत्तिरिव चालनमस्याः शीघ्रतां पदगतिर्विससर्ज || ६ ||
यौवनेन पितरौ जितरंभांतामवेक्ष्य तनयां पतिरस्याः ||
रूपशीलसुगुणैरनुरूपं को नु वेति हृदि चिन्तयतः स्म || ७ ||
एकदा विजितकौशिकसंपत्कौशिकस्तदनुराडुडुतट्याः ||
आययौ मदगजोपरि राजा राजवीथिषु विहारपरः सन् || ८ ||
हेमवेत्रधरमागधवृंदैर्दण्डकोरुबिरुदावलिगद्यैः ||
स्तूयमानमभितः प्रभुमीक्षांचक्रिरे पुरजनाः परितस्तं || ९ ||
यावदेव विमलस्य सुताक्कां तं विलोकितुमिवेषददृश्या ||
वीथिमागतवती किल दैवात्तावदेव सुदतीं स ददर्श || १० ||
मन्मथोऽपि परमर्मविभेदी कौसुमेषुमधिपे समयुंक्त ||
भामिनीदृगिषुभिन्नशरीरे रन्ध्रमेव मृगयन्ति हि दुष्टाः || ११ ||
मूर्च्छितोऽथ नृपतिर्हृदये तां भावयन्मुहुरपि प्रतिबुद्धः ||
बाह्यमार्गमपसृज्य निवृत्तः स्वं गृहं प्रतिययौ स्मरवश्यः || १२ ||
तत्र कस्य दुहिता मम दृष्टा कामिनी मदनकल्पलतेव ||
पृ० १९) महादेवीमुद्वोढुमनःकौशिकस्य तद्विषयाप्तैस्सह जिज्ञासा |
तां विचार्य कथयेति रहस्ये चारमाह नृपतिर्हृदयज्ञं || १३ ||
सोऽपि तत्र सुविचार्य नगर्यां भूय एव नृपतिं समुपेत्य ||
देव सा हरधरान्वयभर्तुर्नंदिनीति विमलस्य जगाद || १४ ||
अथ राजा विचार्यान्तः कथं साधयितुं क्षमा ||
सैषेत्याप्ततमैः साकं मंत्रयामास मंत्रिभिः || १५ ||
तैर्यद्यदुक्तं तत्सर्वं विचार्य प्रियवादिभिः ||
स्वयं सिद्धान्तयामास नीतिज्ञ इव भूपतिः || १६ ||
आनीयेत बलात्सा चेद्दृऽऽन्मनःप्रीतिपूर्वकं ||
न संगमिष्यते मां तद्रसभंगो भविष्यति || १७ ||
प्रजाश्च क्षोभमेष्यंति मर्यादां त्यक्तवान्नृपः ||
इत्यपख्यातिरपि मे वज्रलेपायते ध्रुवं || १८ ||
तस्मात्तत्पितरावर्थैरसंख्यातैरभीप्सितैः ||
प्रीणयित्वा यथान्यायं संग्राह्या कन्यकामणिः || १९ ||
इति निश्चित्य राजन्यैरप्युपश्लोक्य भूषितः ||
पृ० २०) असिक्नीराह्वयित्वाह सादरं समयोचितं || २० ||
हरधृद्विमलार्यस्य कन्यां कमललोचनां ||
मदीयां न्यायतः कर्तुं भारो हि भवतीर्गतः || २१ ||
साम्ना दानेन भेदेन चातुर्येणैव केवलं ||
स्त्रियो वशयितुं शक्या न दण्डेन कदाचन || २२ ||
इत्याज्ञप्य रसावेशात्तासां तद्गमनोचितं ||
ताम्बूलाम्बरभूषादि दापयामास भूपतिः || २३ ||
राजन्महाप्रसादोऽयमिति ता मुदिताननाः ||
जग्मुर्विलासवैखर्या हरधृद्विमलालयं || २४ ||
विमलेनाऽऽदृताः सत्यो यथोचितमथांगनाः ||
इष्टगोष्टीप्रसंगेन प्रीणयित्वा तमब्रुवन् || २५ ||
राजाऽस्माकं तव सुतां महादेवीसमाह्वयां ||
राज्यलक्ष्मीसमां कर्तुमस्मान्प्रेषयति स्म वः || २६ ||
रत्नहेमाम्बरग्रामगजाश्वादीनि भूरिशः ||
अभीष्टवस्तुजातानि युष्माकं दास्यति प्रभुः || २७ ||
यावत्पर्याप्तमतुलं यौतकं प्रार्थ्यते त्वया ||
ददाति तत्तदखिलमुदर्कश्च भविष्यति || २८ ||
पृ० २१) विमलस्य सन्निधावन्तःपुरचारिणीनांसंदेशनिरूपणम् |
कृताभिषेकां त्वत्पुत्रीं सर्वालंकारशोभितां ||
सर्वस्वकर्त्रीं कृत्वांऽके स्थापयिष्यत्यसंशयः || २९ ||
सर्वराज्याधिपत्येऽस्य प्राधान्यं भज सांप्रतं ||
मण्डलाधीश्वरायाऽद्य दत्वा पुत्रीं महामते || ३० ||
इत्युक्तो विमलस्ताभिर्हसित्वा पुनरब्रवीत् ||
अलं राज्ञे सुतां दत्वा कुलं त्यक्तुमनुत्तमं || ३१ ||
कथमाजन्मशुद्धानां प्रमथानां कुलोद्भवः ||
बहिर्जनवदर्थार्थी राज्ञे दास्यामि नंदिनीं || ३२ ||
विक्रीय जननीं दासीं क्रीणन्निव कथं कुलं ||
विहत्य धनमाशासे विद्वानपि दुराशयः || ३३ ||
विक्रीयेत प्रभोश्चित्तं यदि त्यक्षामि नीवृतं ||
विपुला पृथिवी देशो विशालोऽस्ति शिवात्मनां || ३४ ||
विमलस्य वचः श्रुत्वा विहस्य सुदतीजनाः ||
सुमतीं तत्प्रियां दृष्ट्वा वचनं चेदमब्रुवन् || ३५ ||
आर्ये नृपालतिलकाय सुतां समर्प्य संप्राप्तभाग्यविभवो विहरन् सुखेन
||
पृ० २२) स्थातुं न वांच्छति विसृज्य समृद्धिमेतां कुत्राप्यसौ
जिगमिषत्यथ को विवेकः || ३६ ||
राजा रिरंसत इहैव बलाद्यदीमां को निग्रहीतुमिममार्यतमं समर्थः
||
ज्ञात्वेति संमततया स्वयमेव तस्मै नो दातुमिच्छति पतिस्तव को विवेकः ||
३७ ||
इति प्रकारैर्बहुभिः प्रजल्पिता वधूरिमौ वीक्ष्य शिवः सतां गुरुः ||
स सर्वसाक्षीति तदा तदुत्तरं प्रदाय किं वा कुरुतामिति स्थितौ || ३८ ||
अथ स्त्रियस्ताः पुनराहुरात्मजां समाह्वय स्वां यदि साऽस्मदुक्तिभिः ||
समाहिता चेदनुमन्यतां त्वया न चेद्गमिष्याम इमा यथागतं || ३९ ||
निशम्य वाचं विमलस्तथेति तास्सुतामनःप्रीतिकरो यतःस्वयं ||
तदंतिकं प्रेषयति स्म सांत्वयन्निदं रहस्येव विचार्यतामिति || ४० ||
अथ किमिति ततस्तास्तद्गृहं प्राप्य देवीं मृदुलमथुरवाचा प्रोचुरक्कां
रहस्ये ||
नरपतिहृदि वांच्छां तस्य सौंदर्यरेखां सरससुगुणसंपत्साधुतां
प्रौढतां च || ४१ ||
पृ० २३) महादेवीं प्रति दूतीकृतकौशिकगुणवर्णनम् |
अयि मगधकलिंगावन्तिवंगांगचोलप्रमुखनृपतिकन्या भूपतेरस्य देव्यः
||
तदधिकगुणमान्या त्वं महच्छब्दपूर्वा भव भवनपतित्वं प्राप्य
देवीति धन्या || ४२ ||
अपि च तव समंताद्बांधवास्सर्वसंपद्विजितदिविजनाथा भोगभाजो
भवन्तु ||
त्वमपरिमितभाग्या वर्णितुं केन शक्या शपथमिह वदामः पादयोः
पार्थिवस्य || ४३ ||
इदमपि च रहस्यं ते वदामः क्षितींद्रो मदगजमधिरुह्योद्गृह्य
बाह्यालिमार्गं ||
त्वयि गतनृपवीथ्यां त्वां तदाऽऽलोक्य सद्यः स्मरशरदलितात्मा स्वं
च किंचिन्न वेत्ति || ४४ ||
त्वयि सुतनु नृपोऽयं दत्तचित्तो न जातु स्मरति विहितकार्यं
किंचिदप्यप्रमादात् ||
न कलयति कथं वा भोजनादौ प्रसक्तिं परिजनविदितोऽपि प्रेक्षते
निर्निमेषं || ४५ ||
स्मरति किमपि हस्तेनादधानः कपोलं हितजनपरिपृष्टो नैव
किंचिद्ब्रवीति ||
पृ० २४) ह्रियमनुसरतीव त्वत्कथां वक्तुमन्तः समय इह भवत्यास्तं
वशीकर्तुमार्ये || ४६ ||
अलमिह बहुवाग्भिस्त्वं महादेवि चित्ते स्वहितमनुसरैतद्यद्वयं
चोपदिष्टाः ||
कलमधुरनिनादान् को वदेत्कोकिलानां पदगमनविलासान् वक्ति को
हंसिकानां || ४७ ||
इह सकलजनानां बंधुरात्मात्मनो हि त्वमपि कुरु यथेष्टं सम्यगालोच्य
बाले ||
इति युवतिजनैः सा लालिता नैव तूष्णीं भवितुमिह ममार्हो यत्प्रमादः
स्वकानां || ४८ ||
इति किल सकलज्ञा चिंतयन्ती तदाक्वा हृदि किमपि निधाय प्राह ता
राजदूतीः ||
मम हितमिदमार्यास्तद्वचस्तावदेनं नरपतिमिह किंचित्
प्रष्टुकामाऽहमस्मि || ४९ ||
तदधिपमतिशीघ्रं यूयमत्रानयध्वं मम वचनममुष्मै रोचते
चेत्तदूर्ध्वं ||
भवतु च भवितव्यं तद्भवेद्यत्तु भावीत्यविदितकृतिवाचः किं भवत्यो
महत्यः || ५० ||
वचनमथ सुदत्या राजदूत्यो निशम्य प्रतिवचनमनुक्त्वा
च्छोटिकामात्रकालात् ||
नरपतिमुपनीय स्थापयन्ति स्म तस्यास्सविधमधिपतिस्तां प्राह
मंदस्मितास्यः || ५१ ||
पृ० २५) महादेवीकौशिकराजयोरुक्तिप्रत्युक्तिकथनम् |
सुमुखि तव यदिष्टं तत्करिष्यामि नूनं तव वचनमकृत्वा दुष्कृतं
प्राप्नुवानि ||
शपथमिह वदामि त्वत्पदांभोजयोरित्युदितमथ निशम्य प्राह बाला
नृपालं || ५२ ||
विनयवचनजालैः किं वृथा राजमौले मम हि वचनमेकं
यत्त्वयाऽवश्यकार्यं ||
यदि तु तदभिमत्या सप्रतिज्ञं विदध्यास्त्वमखिलमपिकार्यं नः
प्रतिज्ञातमेव || ५३ ||
यदि विमतमतिः स्यान्मद्वचस्यास्तदानीं नृपतिलक भवन्तं रंतुकामं
विसृज्य ||
विहतविषयरागाऽहं गमिष्यामि वेगात्क्वनु मुनिहितवेषेत्युक्त ऊचे
पुनस्तां || ५४ ||
संदेहं त्यज मानिनि स्वहृदये यद्वाक्यमूरीकृतं
तन्निर्वर्त्य यथार्थमेव सदये चित्तं समाधाय ते ||
पश्चात्त्वद्रतिकेलिकासुखमहं लप्स्ये बलाच्चेद्यदि
प्रायश्चित्तशतैर्ममास्ति वनिते पापस्य नो निष्कृतिः || ५५ ||
अनृतं मद्यपानं च मातापित्रोर्विरोधनं ||
वृथा सर्वप्राणिहिंसा स्त्रीणां बंदीनिवेशनं || ५६ ||
पृ० २६) परबाधा परस्त्रीणां रिरंसा गुरुदूषणं ||
स्वार्थं परार्थहननं गोप्यापहरणं तथा || ५७ ||
पत्योः पैशुन्यकरणं विशिष्टद्रोहवर्तनं ||
उपकर्तर्यपकृतिस्तथा प्रत्यनुपक्रिया || ५८ ||
दत्तस्य पुनरादानं दाने प्रत्यूहचिंतनं ||
बहिष्कर्तव्यताहेतुकृतघ्नत्वमिति प्रिये || ५९ ||
निषिद्धा चरणान्येतत्कर्तृर्णां या गतिर्नृणां ||
सैव भूयान्मम तव प्रतिज्ञातार्थभंजने || ६० ||
सत्यं पश्य महादेवि न कार्या कालयापना ||
अन्तःपुरं ममाऽद्यैव गन्तव्यं शुभचिंतया || ६१ ||
इति संप्रार्थिता राज्ञा देवी वचनमब्रवीत् ||
गम्यतां भवता राजन् आगमिष्याम्यतः परं || ६२ ||
पितरौ संमतौ कृत्वा सुतरामितरानपि ||
चतुरत्वेन यास्यामि न तु रोधो भवेद्ध्रुवं || ६३ ||
इति राजानमाजानपरिशुद्धा निवर्त्य तं ||
आराध्य भक्त्या देवेशं स्वात्मार्पणमथाकरोत् || ६४ ||
शिवनिष्ठागरिष्टां तां सकलज्ञां निजात्मजां ||
पृ० २७) महादेव्याः कौशिकगृहगमनकथनम् |
विज्ञाय पितरौ तूष्णीं बभूवतुरनिंदितां || ६५ ||
अथ राजा गृहं गत्वा भूषणानि महान्ति सः ||
दिव्याम्बराणि चानिन्ये सौवर्णानि निजांतिकं || ६६ ||
पल्यंकिकां रत्नमयीं रम्यां ताम्बूलपेटिकां ||
पतद्ग्रहं च भृंगारं शृंगाररसपूरितं || ६७ ||
चामरं व्यजनादर्शछत्रचित्रकपात्रिकाः ||
किंकरीस्तानि बिभ्राणाः सज्जीचक्रे महीपतिः || ६८ ||
अन्तःपुरे मणिमये सौधे केलिकथोचितं ||
प्रसूनमंडपं दिव्यं कारयामास शिल्पिभिः || ६९ ||
गुरुणा कुसुमास्त्रेण धृतप्रतिसरो नृपः ||
प्रेषयामास तन्वंगीमानेतुं सर्ववैभवैः || ७० ||
आहूता ताभिरब्जाक्षी प्रतिश्रुत्य तथेति सा ||
अलंकृतांगी प्रययौ भूषांबरविशेषकैः || ७१ ||
दिव्यमाल्यानुलेपाढ्या सर्ववैभवसंयुता ||
पल्यंकिकां समारुह्य राज्ञोऽन्तःपुरमाविशत् || ७२ ||
अवलोक्य स्त्रियः सर्वा दृष्ट्वा श्रियमिवागतां ||
पृ० २८) मंगलारार्तिकाद्यैस्तामुपचारैः समर्चयन् || ७३ ||
राजा विनयसम्पन्नो भर्महर्म्यं प्रवेश्य तां ||
तत्र गारुत्मतमये पीठे समुपवेशयत् || ७४ ||
रंभामिवोरुविजितरंभां कुंभस्तनोन्नतां ||
पश्यन्मदविकारेण नृपतिस्तामथाब्रवीत् || ७५ ||
महादेवि समागच्छ मम शययां विभूषय ||
सोढुं कथमहं शक्नोम्येवं तिष्ठसि चेत्पृथक् || ७६ ||
इति ब्रुवन् यदा राजा ग्रहीतुं तावदुद्यतः ||
तदैव देवी सा राजंस्तिष्ठ तिष्ठेति चाब्रवीत् || ७७ ||
विस्मृतं वा त्वया पूर्वमुक्तं मद्वचनं मम ||
प्रदाय त्वत्प्रतिज्ञातं ततो मां स्प्रष्टुमर्हसि || ७८ ||
निवार्यमाणो भूपालो ग्रहीतुं तावदक्षमः ||
हृदिस्थं वद मे देवि करोमीति तथाऽब्रवीत् || ७९ ||
प्रजानाथं महादेवी प्राह पार्थिववल्लभ ||
मत्समः शिवभक्त्या चेत्तदा मां स्प्रष्टुमर्हसि || ८० ||
श्रुत्वैतत्प्राह तां राजा सा मे मास्तु कदाचन ||
मदनस्यैव भक्तोऽहं न भक्तस्तद्रिपोः क्वचित् || ८१ ||
इति ब्रुवन्तं निध्याय ध्यायन्ती हृदि शंकरं ||
पृ० २९) शैवदीक्षाविमुखं कौशिकं प्रति महादेवीकृतगर्हणकथनम् |
लक्ष्यीकृत्य तृणं मध्ये महादेवी तमब्रवीत् || ८२ ||
अहो मूढजनो लोके शिवभक्तिविवर्जितः ||
जिह्वया नैव गृह्णाति भोज्यमन्नं रसाप्लुतं || ८३ ||
स्नानानुलिप्तोऽपि पुमान्भूषांबरविभूषितः ||
शिवभक्तिविहीनश्चेद्दारुप्रतिकृतिर्हि सः || ८४ ||
अतस्त्वं पृथिवीपाल शिवदीक्षाविवर्जितः ||
लिंगांगसंगहीनश्चेत्कथमंगीकरोम्यहं || ८५ ||
त्वययेव त्वद्वचो लीनं मयि मद्वचनं स्थितं ||
अहं शिवार्पितस्वान्ता गमिष्यामि यथासुखं || ८६ ||
इत्युक्तवत्यां श्रीमत्यां सुदत्यां स महीश्वरः ||
चकमे रतिमेवान्तः केवलं न रतिं शिवे || ८७ ||
यथाऽर्कतेजो घूकस्य मूकस्य वचनामृतं ||
मक्षिकायाश्च सौरभ्यं शान्तिः कोपाकुलात्मनः || ८८ ||
नारिकेलमलर्कस्य च्छिन्ननासस्य दर्पणं ||
औषधं रोगदुष्टस्य न रुच्युत्पादकं भवेत् || ८९ ||
तथैव नरनाथस्य विषयासक्तचेतसः ||
शिवभक्तिर्मुक्तिहेतुः सती नाभिमताऽभवत् || ९० ||
अत एव महादेवीमहीपालकयोस्तयोः ||
संप्राप्तकेलिग्रहयोस्संबंधः समभज्यत || ९१ ||
पृ० ३०) अथ देवी शिवावेशान्निःसंग इव संयमी ||
जांबूनदांबराण्यंगे धृतानि प्रत्यमोचयत् || ९२ ||
दृष्ट्वा तदद्भुतं राजा भूताविष्टा किमंगना ||
भ्रान्ता पैत्याधिका चित्तविकला वेत्यचिंतयत् || ९३ ||
अथोचे भामिनि भ्रान्ते निरस्य श्रियमंघ्रिणा ||
कुत्र वा गन्तुमुद्युक्ता लोके दृष्टचरी नृणां || ९४ ||
इत्युक्तवन्तं राजानमनन्वीक्ष्य महामनाः ||
देव्यपस्मारिणी वाद्धा स्वैरं त्यक्तत्रपाऽभवत् || ९५ ||
हस्तेन लिंगं सुदृढं गृहीत्वा सर्वांगमुद्धूल्य विभूतिपुंजैः ||
आपार्ष्णिदीर्घाधिककेशपाशीराच्छादयद्दिव्यशरीरमक्वा || ९६ ||
स्वर्भानुवक्त्रादिव राजबिंबं निष्क्रम्य गेहादथ गन्तुकामां ||
रामां समुद्वीक्ष्य नृपस्य कामः कामोऽपि कामं हृदयाच्चचाल || ९७ ||
व्यामोहमुत्सृज्य विवेकिरीत्या भाषां स्वकीयां हृदि चिंतयानः ||
तूष्णीं बभूवेव महाप्रभावात्तस्याश्चिरं भीतमना नृपालः || ९८
||
देवी विनिष्क्रम्य गृहान्नृपस्य वीथिं गता तत्र च बंधुवर्गैः ||
पृ० ३१) महादेव्यास्तत्पित्रोरुक्तिप्रत्युक्तिकथनम् |
मातापितृभ्यां च समागताभ्यां संप्रार्थिता स्वात्मगृहं प्रवेष्टुं
|| ९९ ||
उद्वाहसम्पत्कलया समेतां त्वां द्रष्टुमस्माकमहो न भाग्यं ||
वैराग्यवेषेण मुनिव्रता वा गेहेऽस्मदीये सुखमास्व बाले || १०० ||
घोराटवीशैलगुहाः प्रवेष्टुं कथं नु शक्नोषि महानुभावे ||
अंतःशिवध्यानरता गृहे वा वर्तस्व नः पालय तावकीनान् || १०१ ||
इत्थं वदत्सु निजबंधुषु सा हसन्ती प्राहोपतापकथया किमु
मुग्धमिश्राः ||
साऽहं भवत्तनुभवा न भवामि यूयं चैषाऽस्मदीयशिशुरित्यमतिं
त्यजध्वं || १०२ ||
देहं मदीयमिदमर्पितमीश्वराय नाथो गुरुः प्रभुरिति प्रथितस्त्रिलोक्यां
||
अन्वेषणार्थमिह याम्यहमस्य साक्षात्कृत्यैव तत्करुणया शिवतामुपैमि
|| १०३ ||
श्रुत्वैतदद्भुतवचः पितरौ प्रहृष्टौ संस्तुत्य साधु तनये
सरसीरुहाक्षि ||
वैराग्यसंपदधिकाऽवहिता न किंचित्कन्यात्वतोऽसि विहता यशसावृतेति ||
१०४ ||
अस्मद्गृहे हरधरान्वयसंप्रदाये जाता शिवं धवयतीति मदीयभाग्यं
||
गच्छ त्वदीयमहिमोचितदेशिकेंद्रमाविश्य चेति गृहमापतुराप्तवर्गैः ||
१०५ ||
पृ० ३२) इत्थं पितृप्रमुखबंधुजनांच्छिवात्मा तत्वोपदेशवचनैर्हृदि
तोषयित्वा ||
अक्वाऽथ तेन वपुषा शिवसामरस्यप्राप्त्यै ययो मृगयितुं गुरुवर्यमार्या
|| १०६ ||
गत्वाऽटवीषु कुलपर्वतगह्वरेषु पुण्यस्थलीषु कमलाकरमंडलेषु ||
भक्ताश्रमेष्वथ नदीनदसैकतेषु देवालयेषु च विभुं मृगयांबभूव
|| १०७ ||
कुत्रापि वारिनिधिवेष्टितभूतलेऽस्मिन्नन्वेषयंत्यखिललोकगुरुं मृगाक्षी
||
वाताशनैव विचचार जनैः समस्तैस्संस्तूयमानविभवा विमलार्यपुत्री
|| १०८ ||
इति कथितमशेषज्ञानविद्यानिधानं दुरिततरुलवित्रं
चित्कलायाश्चरित्रं ||
पठति परमभक्त्या पाठकाद्वा शृणोति श्रियमयमिह भुक्त्वा
मुक्तिमाप्नोति चान्त्ये || १०९ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां
महादेवीलीलावतारप्रशंसनतदीयवैराग्यमहिमानुवर्णनगतिर्नामदश
मोऽध्यायः ||
पृ० ३३) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ एकादशोऽध्यायः |
सूत उवाच ||
श्रीसिद्धेश्वरवीरदेशिकवरश्रीपादुकासंश्रिता
भक्त्या दुर्विषयेंद्रियारिजयिनः पापौघदूरस्थिताः ||
कालातीतमहाप्रभावविदिताः कालांतकार्चोदिताः
मौनींद्राः श्रुणुताल्लमप्रभुमुनेर्लीलां सुशीलादृतां || १ ||
अथाल्लमो भक्तजनालिमानसेष्वबोधगाढांधतमिस्रमामृजन ||
प्रकृष्टविद्योपदिदिक्षुरादरात्तनुं निजानंदमयीं दधौ गुरुः || २ ||
चिदंबरात्माऽपि निजेच्छया तनुं जगद्धितार्थं परिगृह्य सोऽल्लमः ||
जगाम कल्याणपुरं शिवार्थिभिः प्रपूरितं तद्बसवेन पालितं || ३ ||
विलोकयामास पथि प्रभुः स्वयं सरोवरं फुल्लसरोजमंडितं ||
दिवानिशायां कुमुदैर्विकस्वरं क्रमेण सूर्यैंदुकरोपलालितं || ४ ||
निपीय भृंगाः कमलासवं सदा मदाद्भुजंगा इव वार्क्षमासवं ||
पृ० ३४) अशक्नुवन्तो गमनाय कुत्र वा भ्रमन्ति तत्र भ्रमरा यतोऽभवन् ||
५ ||
स्वभावसिद्धा ननु संगतिर्द्वयोर्निबद्धपद्मासनहंसयोः सदा ||
इति प्रकाशीकृतये सदाशते तदीयपद्माशिषु हंसपंक्तयः|| ६ ||
त्रिलोककान्ताकुचवर्तुलाकृतेर्जयाय तत्रैव रथांगपंक्तयः ||
तपः समाधाय दिवातपाहतास्समाश्रिताश्चक्रसमाह्वयं भुवि || ७ ||
तदीयकल्लोलविशालडोलिकास्वितस्ततः क्रीडनतत्पराः सदा ||
निजार्थकप्रत्यायिनो हि सारसा भजन्ति सत्यां सरसाभिधानतां || ८ ||
तदीयरम्योभयपार्श्वविस्तृतं वनं मनोहारि विराजते परं ||
लवंगमालूररसालचंदनैरशोकभूर्जासनकैतकीवटैः || ९ ||
तथाऽतिमुक्तक्रमुकार्जुनागरुद्रुमैश्च जंबूपनसेक्षुचंपकैः ||
कपित्थखर्जूरकदल्युदुंबरैरथद्रुपुन्नागमुखैश्च शोभितं || १० ||
तदन्यशाखिप्रकरैश्च वल्लिभिर्विशालशाखोल्ललितोरुपल्लवैः ||
पृ० ३५) वने कृषिपरं गोगार्यं दृष्ट्वा प्रभुकृततदीयकर्मनिरसनम् |
प्रसूनसौगंध्यनिरांध्यवैभवैः फलोज्वलैः कोरकितैश्च शोभितं ||
११ ||
शुकैः पिकैः केकिगणैरलिव्रजैर्ध्वनद्भिरत्यन्तमनोहरस्वरैः ||
सुखश्रुतिक्ष्मारुहभूरिसंकुलं विराजते दोहदधूपधूपितं || १२ ||
वनस्य संरक्षयिताऽस्य सज्जनो बभूव गोगाह्वयभक्तपुंगवः ||
निजेष्टलिंगार्पितसर्वसत्क्रियो विनिष्ठितो जंगमलिंगपूजने || १३ ||
तदैव गोगः कदलीः सरस्तटे वने प्रतिष्ठापयितुं ससाधनः ||
भुवं समुत्क्रष्टुमुपक्रमक्रमात्समुद्यतस्तं प्रददर्श सोऽल्लमः || १४ ||
विचिंतयामास हृदि प्रभुर्जना अहो प्रखिद्यन्ति वृथा क्रियापराः ||
श्रमस्तु तेषां ग्रहणार्थमुंदुरोर्महागिरेः खात इव भ्रमोदितः || १५
||
श्रमेण कर्माणि करोति मानवस्ततश्च लोकान्तरभोगलंपटः ||
पुनस्तदन्ते जनिमाप्य कर्मठः प्रपद्य मृत्युं पुनरेति जन्म सः || १६ ||
बिभेति नो जातु जनो यदेतयोः परंपराया अपि दुःखभाजनः ||
पृ० ३६) इति स्मरन् गोगमवाप रक्षितुं प्रदिश्य तस्मै शिवभक्तिगोपितं ||
१७ ||
समीपगस्तच्छरणार्थितां ब्रुवन्पुनस्तथोक्तः शरणेन तेन सः ||
शरण्य कुत्राऽगमनं कुतो गतिस्तवेति पृष्टः पुनराह तं प्रभुः || १८
||
श्रयन्ति यन्निश्चलभक्तिनिष्ठिताः शिवैकतानाः स्थलमत्र ते वयं ||
समेत्य भिक्षां शिवभक्तिलक्षणां सदाऽर्थयन्तो विचराम विष्टपे ||
१९ ||
अहं हि नाम्नाऽभवमल्लमप्रभुर्न यत्र कुत्रापि कुटीरमस्ति मे ||
न च क्रिया वा न तपो न साधनं न संस्थितिश्चेत्युदितोऽवदत्स तं || २०
||
प्रभो महात्मन् नटलिंगविग्रह त्वमेव भावज्ञ इति प्रसिद्धिमान् ||
भवादृशां पर्यटनं किमीदृशं प्ररोचते पैत्यविकारिणामिव || २१ ||
सुभक्तदत्तोचितकांचनादिभिस्समर्च्य भक्त्या गुरुलिंगजंगमान् ||
ततः प्रसादान्नभुजां किमासनं न युज्यते भक्तकथाप्रसंजनैः || २२
||
सदा धरापर्यटनैः किमार्जितं पुनः किमार्जिष्यत इत्युदीरितः ||
प्रभुर्विहस्याह च को भवानहो यथार्थवादीति पुनस्तमाह सः || २३ ||
पृ० ३७) गोगार्यं प्रति प्रभुकृतकृषिकर्मनिरसननिरूपणम् |
प्रभो दयालो श्रुणु वर्तनं मम स्वकायिकप्राप्तधनैः समाचरन् ||
यथोचितं जंगमलिंगपूजनं भजे तदीयामृतशिक्थमादरात् || २४ ||
करोमि नित्यं चरलिंगभाषितं तदीयधर्मं शिरसा वहन्नहं ||
जनैः श्रुतो गोग इति प्रसीद मे त्वदीयभृत्योऽस्मि कृतस्वयंकृषिः || २५
||
प्रकृष्टविज्ञाननिधिर्भवान्गुरुः समस्तलोकस्य चराचरात्मनः ||
प्रदिश्य मेऽज्ञस्य रहस्यमैश्वरं दयाम्बुधे रक्ष भयाद्भवोदितात् || २६
||
तमेनमव्याजकृपानिधिः प्रभुः शशास गोगं व्यवसायतत्परं ||
शिवार्थिनां नार्हमिलाप्रकर्षणं खनित्रकुत्कीललवित्रधारणं || २७
||
कृषिक्रियाया ननु जीवहिंसनं शिवो नु गृह्णाति न जीवहिंसकं ||
अनुग्रहं तस्य विना न मोक्षणं भजेत पाशात्पशुतां प्रयाति सः ||
२८ ||
बहिर्जनानामिव भक्तिशालिनां न युक्तमेतद्व्यवसायवर्तनं ||
परं सदुद्योगवतां यथार्थतः प्रवर्तनेनैव धनार्जनं शुभं || २९
||
यथोक्तलाभेन समार्जिताद्धनाद्विधाय नित्यं गुरुजंगमार्चनं ||
पृ० ३८) फलं परित्यज्य धिया शिवार्पणात्समेति कैलासमतोऽपुनर्भवं
|| ३० ||
फलाभिलाषी गुरुलिंगजंगमान् समर्च्य सालोक्यमपि प्रपद्य सः ||
पुनः पुनर्जन्ममृती समश्नुते ततो रहस्यं कथयामि केवलं || ३१ ||
श्रुणुष्व गोगार्य सुनिश्चलात्मना यथैति कैवल्यपदं निरामयं ||
अकर्मभक्त्या शरणः परायणं सकीलकं तत्वरहस्यमंजसा || ३२ ||
नरो निहंत्येव निजात्मघातुकं हरींद्रमुख्याश्च सुरास्तथाविधाः ||
निहत्य तैः कांश्चिदपि स्वयं हता न घातुकं यो हतवान् न वेद्मि तं
|| ३३ ||
निहन्ति यः प्राणिगणानघातुकांत्स्वघातुकानामपि तं महेश्वरः ||
स एव शिक्षत्यखिलात्मनां गुरुस्ततो न हिंस्याद्भुवि यं च कं च न ||
३४ ||
मनोवचःकायकृतस्य कर्मणः शुभाशुभस्यानुभवाय कल्पते ||
शरीरिणोऽवश्यतया फलद्वयं हरस्य गर्भेऽपिहितस्य वा श्रुतेः || ३५ ||
ततो नराः कर्मरताः पुनः पुनः फलानुभूत्यै जनिमृत्युसंततिं ||
पृ० ३९) गोगार्यानुग्रहाय प्रभुदर्शितसमाधिस्थलनिरूपणम् |
समाश्रयन्ते सति तद्विनाशने किमीशभक्त्या कृपयाऽथवा गुरोः || ३६ ||
न नश्यति द्राग्यदि भोगवासना चरप्रसादानुभवेन किं फलं ||
विरक्तिशून्यो यदि भक्ततां व्रजेन्न तं विमूढं शरणा हसन्ति किं ||
३७ ||
कुतो भजन्तो गुरुलिंगजंगमानुपाधिशून्यैकसपर्यया जनाः ||
अवाप्य भक्तिं परमां स्थिरीकृतां भजन्ति निर्वाणपदं न बालिशाः
|| ३८ ||
इति प्रभौ गोगमकारणप्रिये परापदेशेन हितोपदेष्टरि ||
उवाच गोगः प्रभूमीश मादृशां कथं कथाऽयश्चणकोपमेदृशी ||
३९ ||
अथाल्लमस्तं कृपयाभिरक्षितुं विचिंत्य दृष्टान्तपुरःसरं चिरं ||
अतींद्रियज्ञाननिधिः समाधिना ददर्श तत्रैव रहस्यमद्भुतं || ४० ||
इदं प्रदर्श्याद्य समाधिनिष्ठितं विधाय च प्राणसमाख्यलिंगके ||
प्रयासकृत्यानि निरस्य पालयाम्यथेति संकल्प्य पुरोऽस्य तस्थिवान् || ४१ ||
निधेहि गोगार्य खनित्रमत्र ते विलोक्यतेऽधः शिखरं हिरण्मयं ||
विचित्रमत्रास्ति दृढं निखन्यतामिति प्रभूक्त्या स ददर्श तत्तथा || ४२
||
ससंभ्रमं चख्नतुरत्र तावुभौ क्रमात्समीक्ष्याथ समाधिमंडपं ||
पृ० ४०) मनोहरं दीप्तिभिरंतरं ततः प्रविश्य तत्रत्यमवेक्ष्य विस्मितौ
|| ४३ ||
बहिः सुविस्मृत्य समौनमुद्रया दृशा निदिध्यासनयाऽनिमेषया ||
विरागसुज्ञानशमादिसंपदा समाहितं पूरुषरत्नमुत्तमं || ४४ ||
तदंतरंगं सुपरीक्ष्य वीक्षितुं प्रविश्य चांतर्गृहमादरादुभौ ||
विलोकयामासतुरंगलिंगयोश्चिदैक्यभावेन गुणातिगं गुरुं || ४५ ||
तथा महालिंगमयासुलीनसन्मनोंऽगमप्यंगगुणैरसंगतं ||
मनुष्यपांचालिकया समाकृतिं प्रभुः स मेनेऽनिमिषार्यदेशिकं || ४६ ||
स गोगमाहाल्लमदेवसत्प्रभुस्सुभक्तिनैश्चल्यनिदर्शनं त्विदं ||
शिवो न संतुष्यति पामरार्चनैर्विनैकधा निश्चलभक्तिमीदृशीं || ४७
||
न शक्यते कर्तुमियं निराकुला जनैः परैर्नैष्ठिकभक्तिरुज्वला ||
कथंविधाऽहो स्थिरता कथंविधा सुभक्तिनिष्ठाऽस्य कथंविधा
धृतिः || ४८ ||
कथंविधाऽस्याद्भुतशक्तिरुत्तमा कथं हि गांभीर्यमहो कथं स्थितिः
||
कथं हि लिंगैक्यसुखानुभावनं कथं शिवाद्वैतरहस्यमद्भुतं || ४९
||
पृ० ४१) गोगार्याय प्रभुप्रदर्शितसन्मार्गनिरूपणम् |
इति प्रभोस्तन्महिमानुभावनं निशम्य गोगः परिपूर्णमानसः ||
अनेन रूपेण समेत्य भृंगिराट् स एव साक्षात्कृत इत्यमन्यत || ५० ||
नमः समस्तप्रमथान्वयेंदवे समाधिसाक्षात्कृतचंद्रमौलये ||
तिरस्कृताशेषजगद्विभूतये नमो नमस्तेऽनिमिषाय भृंगिणे || ५१ ||
इति स्तुवन्तं प्रभुराह गोगमप्यहो नु सद्भक्तिपथं किलेदृशं ||
सदेष्टलिंगैक्यपदप्रदायकं सुगोप्यमस्माकमिदं निदर्शनं || ५२ ||
इदं हि लोकद्वयसौख्यदामलप्रकृष्टविज्ञाननिदानकीलकं ||
इदं हि गोगार्य दुरिंद्रियेभहृन्मदस्य निर्वापणहेतुरंकुशं || ५३ ||
अनेन मार्गेण यतव्रता जना भवन्ति नित्यानुभवामृताप्लुताः ||
अमुं परित्यज्य भजन्ति भो जना जनिं मृति दुर्व्यवसायवर्तिनः || ५४ ||
न वेषमात्रान्निजभक्तिवर्जिता भजन्ति लिंगैक्यपदं क्रियापराः ||
यदिक्षुसाम्यात्प्रचरन्न वेणुकं निवारयेत्कुक्षिगतां क्षुदुष्णतां || ५५
||
पृ० ४२) अहो नु भाग्यं मम दुर्विधो निधिं
यथाक्षदृक्पंगुरिवांघ्रिमप्यहं ||
भजामि लब्ध्वाऽनिमिषार्यदर्शनं कृतार्थतां गोग भवत्समागमात् ||
५६ ||
यथा समन्वेष्य लताऽध्वनि स्थिता हठात्पदेऽन्वेषयितुः सुवेष्टिता ||
तथाऽद्य भूमौ चरतः शिवात्मनां दिदृक्षया मेऽनिमिषोऽवलोकितः || ५७
||
इति स्वसामर्थ्यमचिंत्यवैभवः पिधाय संभाव्य नटन्मनुष्यवत् ||
गुरुर्गुरूणां गुरुशिष्यवर्तनं प्रकाशयंच्छिष्यवदेष तुष्टुवे || ५८
||
जगद्गुरो मद्गुरुनाथ सन्मुने कृपानिधे भक्तनिधे शमांबुधे ||
महानुभावानुगृहाण तावकस्वरूपदृष्ट्याऽनिमिषार्य मां शिशुं ||
५९ ||
कृतार्थयैनं घनलिंगनिष्टयेत्यसौ गुरुः शिष्य इवेममर्थयन् ||
दिदेश गोगाय गुरौ स्थिरां रतिं जना हि शिष्टाचरणानुवर्तिनः || ६०
||
अथाल्लमस्यानिमिषार्यसद्गुरोः करात्समुत्प्लुत्य समीपवर्तिनः ||
लगत्ययस्कान्तशिलेव सूचिकां समुज्वलं हस्ततलं प्रसर्पणं || ६१ ||
पृ० ४३) गोगार्यकृताल्लमसंयमिसंस्तवनिरूपणम् |
प्रभोश्चिदानंदखनेः कलैव यद्बभूव मूर्त्याऽनिमिषस्य तत्पुनः ||
तदिष्टलिंगेन सहैव दृग्गताप्यवाप तत्प्राणकलैक्यमल्लमे || ६२ ||
विलोक्य गोगोऽनिमिषाल्लमावुभौ सुविस्मितोऽचिंतयदात्मनि स्वयं ||
अहो महत्वं सुविचित्रमेतयोरिमौ सुधींद्रौ विदतुर्नचापरः || ६३ ||
हरोऽथवायं प्रभुरल्लमः स्वयं नरो न येनानिमिषेष्टलिंगकं ||
प्रभौ महेशे परिपूर्णचिद्घने ययौ किलैक्यं किमहो बहूक्तिभिः || ६४ ||
इति स्तुवन्नल्लममेत्य दण्डवत्प्रणम्य गोगः परिपूर्णभक्तिमान् ||
व्यजिज्ञपत्सद्गुरुनाथ तावकस्वरूपवेत्ता न जगत्त्रयोदरे || ६५ ||
त्वमेव निःसंगनिरंजनोऽद्वयो यदैक्यमंगेऽनिमिषस्य लिंगकं ||
तवाप तस्मान्निजरूपमव्ययं भवानहो वेत्ति न चान्यगोचरः || ६६ ||
अनुग्रहाद्देव तवाद्य दृष्टवान् महानुभावानिमिषार्यदेशिकं ||
यदीक्षणादीश्वरभक्तिरुज्वला ह्युदेति साक्षात्करणैकसाधनं || ६७ ||
इदं सुनिष्पन्नममेयमंगलं ममाविरासीत्सुकृतं पुरातनं ||
त्वदात्मनां मूर्तममूर्तमादरादमुं शिशुं रक्षितवान् प्रभो भवान् ||
६८ ||
पृ० ४४) कदापि नो विस्मरणीय एष मे महोपकारो विहितस्त्वया मुने ||
क्षितौ सदीक्षं खलु भक्तरक्षणे भवादृशामागमनं महात्मनां ||
६९ ||
इति स्तुतः प्रीतमनाः प्रभुः स्वयं सकीलकं तस्य च लिंगसंगतिं ||
प्रबोध्य चांचल्यमुदस्य चेतसः शिशु कृपापात्रममन्यतात्मनः || ७० ||
वरं वृणीष्वेति वदत्ययं प्रभौ प्रणम्य गोगः पुनराह सांजलिः ||
गुरोऽस्मि गर्भीकृतसर्वकल्पनं प्रदिश्य लिंगांगसुखं कृतार्थितः ||
७१ ||
इतः परो नास्ति वरो ममेप्सितस्तथापि याचे गुरुनाथ सांप्रतं ||
गृहाण वेषं गुरुजंगमोचितं सुभक्तरक्षार्थमितःपरं क्षितौ || ७२
||
ममाभिलाषोऽयमिहांगलिंगयोः पृथक्त्वमैक्यं च यथार्थतः स्फुटं
||
स्ववाक्यमात्रेण निबोद्धुमक्षमं प्रदर्श्य साक्षादुपदिश्य रक्ष नः ||
७३ ||
महाजनाचारपरंपरागतं शिवेन सिद्धान्तितमागमादिषु ||
स्वयं सदाचार्यसमाचरन्विधिं निदर्शनेनैव जगद्धितं कुरु || ७४ ||
पृ० ४५) प्रभुकृतगोगार्यप्रशंसाकथनम् |
इदं नु मत्प्रार्थनमित्युदीरितः प्रभुर्मुदा गोगमवेक्ष्य सस्मितः ||
उवाच साधो विषयान्परित्यजन् कृतार्थतामेषि परार्थसाधनः || ७५ ||
त्वमेव निष्कामतया महान्गुरुर्यदद्य भक्तावनमात्रतत्परः ||
वरं वरं याचितवान्नचावरं परोऽसि भक्तेषु हरस्य सन्मते || ७६ ||
क्षितौ दरिद्रा धनमाप्य सादरं किमु प्रयच्छन्ति दरिद्रकोटये ||
परं तु कुत्रापि निधाय गोपितं स्वयं च भोक्तुं न हि शक्नुवन्ति ते || ७७
||
भवांस्तु निष्ठां शिवभक्तिलक्षणामवाप्य तृप्तोऽनुभवामृताप्लवैः
||
समस्तभक्तावलिरक्षणोद्यतो वरं वरेण्यं वृतवानहो महान् || ७८ ||
यतो नु गोगार्य विरागसंपदो गुणाधिको लोकहितप्रवर्तनः ||
गुरोर्गुरूणामपि मे गुरुर्भवानिति स्म दत्तात्मवरोऽसि निश्चितं || ७९ ||
इति ब्रुवन्नल्लमदेवदेशिको दधौ महिम्ना शरणोचितं वपुः ||
समस्तभक्तावलिरक्षणोद्यतं शिवार्थिनां प्रत्ययकारणं परं || ८०
||
बभौ करे लिंगमथांगसंगतं सितत्रिपुण्ड्रस्मितभस्मलेपनं ||
पृ० ४६) कटीतटीसूत्रकषायरंजितप्रफुल्लकौपीनकमल्लमप्रभोः || ८१
||
निजेष्टलिंगाहितदृष्टिरान्तरे निमेषशून्या दृशि सन्मनःस्थितिः ||
मनःस्थितौ कीलितसन्मरुद्गतिर्निरंजनस्यास्य रराज सद्गुरोः || ८२ ||
विनिद्ररुद्राक्षसुकंठमालया दधन्महाजंगमदेशिकाकृतिं ||
जगाम भक्तावनदीक्षयाऽनिशं प्रभुः शिवध्यानसुखानुभावनः || ८३
||
अथ गुरुशरणोक्त्या त्याजितायासकृत्यो दृढतरशिवभक्त्या मंदिरं
प्राप्य गोगः ||
समुचितशुभवृत्याऽऽराधयन्भक्तलोकानभजत निजलिंगे पूर्णदृष्ट्या
समाधिं || ८४ ||
इति शिवशरणानामिष्टनिष्ठैकसारं चरितमघविदूरं
गोगभक्तान्वयेन्दोः ||
पठति मनति चित्ते यः शृणोति प्रपत्या प्रभुरिह परसौख्यं
प्राज्यमस्मै ददाति || ८५ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
गोगदेवोपदिष्ठलिंगैक्यरहस्यमहिमानुवर्णनगतिर्नामैकादशोऽध्यायः
||
पृ० ४७) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ द्वादशोऽध्यायः
श्रीवीरेश्वरसिद्धदेशिकमणिश्रीपादपद्मार्चना-
सक्त्यान्तर्दृढबोधसम्पदुदितास्संत्यक्तबाह्योत्सवाः ||
च्छिन्नानित्यशरीरमोहलतिका धैर्येण मृत्युंजया
भक्ता मुक्तिवधूमनोहरकलाः शृण्वन्तु लीलां प्रभोः || १ ||
अथाल्लमप्रभुर्भक्तान्भवाब्धेः प्रापयंस्तटं ||
वारयन् विषयास्वादविषपानाच्चचार सः || २ ||
अभ्यासयंच्छिवज्ञानशर्करास्वादमन्वहं ||
पूर्णविज्ञानभरितांश्चकार शरणान् क्रमात् || ३ ||
योऽभूत्प्रमथसंतानकलशांऽभोधिचंद्रमाः ||
ब्रह्मणोऽपि गणेयत्वादजगण्य इति श्रुतः || ४ ||
केन चित्कारणेनासौ भूमौ मानुष्यमाश्रितः ||
एकान्तभक्तिनिरतः कंचित्कालं निनाय सः || ५ ||
धन्यानामन्वये जातो विहृत्यान्ते स्वलीलाया ||
लिंगसंगविलीनांगो बभूव प्रमथाग्रणीः || ६ ||
पृ० ४८) तस्याग्रजाऽथ मुक्तायी शिवाचारसमन्विता ||
अनुजादर्शनक्लेशाद्विललापातिदुःखिता || ७ ||
तद्विज्ञाय प्रभुः सोऽयं प्रत्यग्दृष्ट्या कृपानिधिः ||
मुक्तायीमात्मशरणां भक्तां सान्त्वयितुं ययौ || ८ ||
तया विनम्रशिरसा क्लिश्यंत्या प्रणतः प्रभुः ||
तामुवाचाल्लमः स्वामी किं दुःखस्येति कारणं || ९ ||
मुक्तायी तमुवाचेत्थं प्रभोऽल्लम निबोध मे ||
वृत्तान्तं नगरेऽन्यत्र मातुलो मेऽस्ति दूरतः || १० ||
तस्यास्ति पुत्रिका काचिन्नवयौवनशालिनी ||
शिवभक्तं विना नान्यं भजे पतिमिति स्थिता || ११ ||
विचार्य तत्पिताऽऽगत्य मद्गृहं भ्रातरं मम ||
अजगण्यं समालोक्य प्रार्थयामास मातुलः || १२ ||
भागिनेय मदीयेन भाग्येनागत्य मद्गृहं ||
ऊढ्वा मत्तनयां साध्वीं गार्हस्थ्यं परिपालय || १३ ||
ममापि पुत्रो नान्यस्ते शिवैक्यं पितरौ गतौ ||
अतो निवस मद्गेहे मदीयं स्वं तवैव तत् || १४ ||
भगिनी तव मुक्तायी भक्तिव्रतपरायणा ||
गेहे तिष्ठतु भक्तानामाराधनपरान्वहं || १५ ||
पृ० ४९) अल्लमं प्रति मुक्तायीकृतस्वानुजवृत्तांतकथनम् |
श्रुत्वैतन्मातुलवचो वक्तुमुत्तरमक्षमः ||
मुखमालोकयामास मम भ्राता सहोदरः || १६ ||
अहं विभिन्नहृदया तमवोचं कथं सहे ||
वियोगं तव सोदर्य स्थातुं वा कथमुत्सहे || १७ ||
अन्योन्यं शक्यते ज्ञातुं कथं वृत्तान्तमावयोः ||
हानिवृद्ध्यादिकं सर्वमित्युक्तः प्राह मां प्रभो || १८ ||
अग्रजे किमु ते भ्रान्तं चित्तं विस्मृतमेव वा ||
मयोपदिष्टं विज्ञानं स्त्रीस्वभावादुताऽधुना || १९ ||
नापेक्ष्यं शिवभक्तानां संयोगजनितं सुखं ||
वियोगजनितं वापि दुःखं क्व च न विद्यते || २० ||
अपेक्षणीयं भक्तानां सर्वदा सर्वथाऽपि नः ||
ज्योतिर्मये महालिंगे शिवजीवैक्यमंजसा || २१ ||
तादृग्विधैक्ये संप्राप्ते क्व वा मम हठाद्भुवि ||
अक्क मुक्तायि ते वच्मि प्रज्ञानं किंचिदात्मनः || २२ ||
विशीर्णं त्वयि मध्नंत्यां दधिभांडं भविष्यति ||
यदा तदैव मे विद्धि शिवैक्यमिति निश्चितं || २३ ||
इति चित्तं समाधाय मम गत्वा स मातुलः ||
उद्वाह्य तत्सुतां तस्थावजगण्यस्तदालये || २४ ||
पृ० ५०) गुप्तभक्तिपरो विद्वान् केनाप्यविदितक्रियः ||
मनःपूर्णशिवानंदोऽप्यसौ लौकिकवत्स्थितः || २५ ||
अहो मम कथं भर्ता शिवभक्तो न रोचते ||
भग्नप्रतिज्ञा जातेति तद्भार्या चिंतिताऽभवत् || २६ ||
एवं स्थितायां भार्यायां चिंतयंत्यामहर्निशं ||
दैवात्कदाचिद्द्वारेऽस्य ललाटं दारुणा हतं || २७ ||
तदा नमः शिवायेति तन्मुखोदीरितं वचः ||
निशम्य सुदती भर्तुर्गुप्तभक्तिं बुबोध सा || २८ ||
अथाजगण्यो मद्भक्तिर्मानुष्ये प्रकटीकृता ||
न मया स्थेयमत इत्यदृश्यत्व ययौ किल || २९ ||
तदैव दधिभांडं मे व्यशीर्यत यदृच्छया ||
श्रुतं च पथिकैरित्थं कथं जीवितुमुत्सहे || ३० ||
मत्प्राणपदमुत्कृष्टं मत्सप्तपुरुषाश्रयः ||
मद्भ्रातृरत्नं मद्ज्ञानप्रदायकमहो गतं || ३१ ||
उपदेक्ष्यति मे को वा सविशेषचरार्चनं ||
शिवभक्तिरहस्यं वा शीलव्रतपरंपरां || ३२ ||
को वा करुणया नित्यं कारयिष्यति सत्क्रियाः ||
पृ० ५१) मुक्तायीं प्रति प्रभुकृततत्वोपदेशः |
गुरुः स्वामी मम गतो रक्षको मां विहाय सः || ३३ ||
इति तस्याः सकरुणं वचः श्रुत्वा दयानिधिः ||
परितापं परिहरन् बोधयामास तां प्रभुः || ३४ ||
अलं मुक्तायि हृदये परितापेन मानिनि ||
बोधयामि यथाशास्त्रं तत्त्वं दुःखापहं श्रुणु || ३५ ||
केन चित्कारणेनोर्व्यामवतीर्य गणाधिपाः ||
स्वस्य कार्याणि निर्वर्त्य कैलासं यान्ति ते पुनः || ३६ ||
न ते भवन्ति कस्यापि भ्रातरोऽवरजास्सुताः ||
लीलामानुष्यमास्थाय भ्रामयन्त्यबुधान्जनान् || ३७ ||
अस्तु तावदिमे सर्वे जन्तवोऽपि जगत्त्रये ||
मितान्यहानि विधिना स्थित्वोर्ध्वं यान्ति तत्क्षणात् || ३८ ||
महेश्वराज्ञया सर्वे चलन्ति प्रपतन्ति च ||
तदाज्ञां न विना किंचिज्जगत्स्थावरजंगमं || ३९ ||
प्रायेणावसरे प्राप्ते जंतूनां न हि शक्यते ||
निमिषं निमिषार्धं वा स्थातुं विश्वंभरास्थले || ४० ||
हरिब्रह्मादयो देवा अपि स्वस्वमितायुषः ||
न प्राप्तकालाः स्थास्यन्ति घटिकार्धमथापि वा || ४१ ||
पृ० ५२) यावदायुर्ललाटेऽस्य पूर्वकर्मानुसारतः ||
लिखितं तावदेतेन स्थीयते न ततःपरं || ४२ ||
येन केन निमित्तेन युद्धरोगव्रतादिना ||
मृत्युर्यस्य विनिर्दिष्टः स तेन म्रीयते ध्रुवं || ४३ ||
सृष्टिस्थितिप्रलयकृत्स एव परमेश्वरः ||
नान्योऽस्ति कस्य चित्कश्चिद्व्याजोऽन्यश्च तदिच्छया || ४४ ||
अतोऽलं चिंतया प्राज्ञे किं वृथा तां परित्यज ||
इत्युक्ता प्राह मुक्तायी मुक्तायनमथाल्लमं || ४५ ||
अस्मद्वंशेऽवतीर्णोऽयमजगण्यो ममानुजः ||
अस्मान् संरक्ष्य बहुधा नास्मदीयः कथं भवेत् || ४६ ||
त्वदुक्तवाक्यतात्पर्यं त्वयैव ज्ञायते प्रभो ||
न किंचिदपि मे ज्ञातमित्युक्तः प्रभुरब्रवीत् || ४७ ||
श्रुणु मुक्तायि तत्सर्वं विवृणोमि तवाऽधुना ||
क्व वंशः क्व च संबन्धो यातायातं प्रपद्यतः || ४८ ||
जन्तोरनेकवंशेषु तत्तत्कर्मानुसारतः ||
कस्य वा सुखदुःखादि कोऽन्योऽनुभवितुं क्षमः || ४९ ||
म्रीयते केन वा सार्धं कोऽन्यो भ्राताऽथ वा सुतः ||
इहान्यत्रापि सर्वत्र स्वात्मैव सवात्मनो हितः || ५० ||
पृ० ५३) अन्यस्मिन्नन्वये जातो दीयतेऽन्यस्य कस्य चित् ||
जन्मवंशं परित्यज्य वंशोऽन्यस्तेन गृह्यते || ५१ ||
इहैव सर्वथा स्त्रीणां सर्वत्राप्यन्वयच्युतिः ||
वंशांतरगृहीतिश्च दृश्यते सर्वसंमतं || ५२ ||
संयोगश्च वियोगश्च कर्मायत्तावुभौ नृणां ||
दम्पत्योः सुतपित्रोर्वा भ्रात्रोश्च मरणावधि || ५३ ||
पोष्यपोषकभावश्च बाध्यबाधकता तथा ||
कर्मणैव भवेन्नृर्णां तस्मात्कर्म परित्यजेत् || ५४ ||
कर्मणा कर्मणां नाशो न हि ज्ञानं विना क्व चित् ||
शिवैकतानता नृर्णां ज्ञानं कर्मौघनाशनं || ५५ ||
अतः साधनसम्पत्या शिवज्ञानं समाश्रयेत् ||
साधनानि च चत्वारि शास्त्रेषु विहितानि हि || ५६ ||
नित्यानित्यविवेकः स्यादिहामुत्र फलारतिः ||
शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति श्रुतेः || ५७ ||
शमो दमः फलत्यागस्तितिक्षाश्तिक्यमेव च ||
ततश्चित्तसमाधानमिति षट्कं प्रकीर्तितं || ५८ ||
नित्यमात्मसुखं सर्वमनित्यं स्वर्गमानुषं ||
नित्यानित्यविवेकाख्यं प्रथमं साधनं त्विदं || ५९ ||
अतेव स्वर्गमर्त्यसुखवैराग्यमीर्यते ||
पृ० ५४) द्वितीयं शांतिदांत्यादि तृतीयं तेन जायते || ६० ||
ततो मुमुक्षुता तुर्यं शिवैक्योत्कृष्टता मतिः ||
एवं साधनसम्पन्नो ज्ञानं माहेश्वरं श्रयेत् || ६१ ||
एक एव महेशोऽयं मायाविद्याद्युपाधितः ||
ईश्वरत्वं च जीवत्वं स्वयमेवाप्तवान्प्रभुः || ६२ ||
अनादिसिद्धा मायेयं बहुरूपा प्रवर्तते ||
रजस्तमःसत्वगुणा सैवाविद्या प्रशस्यते || ६३ ||
गुणांशभेदाद्भिन्नेयं नानारूपा भवेद्ध्रुवं ||
समष्टिव्यष्टिरूपेण तत्रेशः प्रतिबिंबितः || ६४ ||
स्थूलं सूक्ष्मं कारणं च देहत्रयमुदाहृतं ||
जीवस्य चेश्वरस्यापि व्यष्ट्या चैव समष्टितः || ६५ ||
पंचीकृतमहाभूतसंभवं स्थूलमीर्यते ||
अपंचीकृतभूतोत्थं सूक्ष्मं मायाऽत्र कारणं || ६६ ||
विराट् समष्टिस्थूलात्मा व्यष्ट्यात्मा विश्व उच्यते ||
हिरण्यगर्भः सूक्ष्मात्मा व्यष्टिस्तैजस उच्यते || ६७ ||
ईश्वरः कारणात्मा स्याद्व्यष्टिः प्राज्ञ इति स्मृतः ||
देहत्रये विलीने स्यादैक्यं जीवेशयोर्ध्रुवं || ६८ ||
ततः पाशुपतं ज्ञानं देहबंधविमोचकं ||
दीक्षया गुरुणा सम्यक् बोधितः शिवतामियात् || ६९ ||
पृ० ५५) अनाद्यविद्यया बद्धो जीवः संसारितां व्रजन् ||
अन्तःकरणसंबंधात्तत्खेदात्खिद्यति स्वयं || ७० ||
घटसंवृतमाकाशं नीयमाने घटे यथा ||
दृश्यते नीयत इव तद्वज्जीवो नभोपमः || ७१ ||
अन्तःकरणसंबंधात्कर्मणां तारतम्यतः ||
जरायुजांडजोद्भिज्यस्वेदजत्वं प्रपद्यते || ७२ ||
यथाऽर्करश्मयो भेदात्प्रसरंतीह सर्वतः ||
तथा शिवोऽपि सर्वत्र हेयोपादेयवर्जितः || ७३ ||
जीवः शिवः शिवो जिवः इति निघ्यायतां सदा ||
प्रयच्छति महेशानः शिवत्वमिति हि श्रुतिः || ७४ ||
शिवो ब्रह्मादिदेहेषु सर्वज्ञ इति भासते ||
देवतिर्यऽऽन्मनुष्येषु किंचिद्ज्ञस्तारतम्यतः || ७५ ||
किंचिद्ज्ञत्वं च सार्वज्ञमुपाधिपरिकल्पितं ||
उपाधिविलये साक्षी चिन्मात्रोऽयं सदाशिवः || ७६ ||
देही नित्यः शिवानन्यो जरामरणवर्जितः ||
पृ० ५६) अध्रुवं देहमित्येतल्लोकसाधारणं मतं || ७७ ||
आस्तां तावच्छास्त्रचर्चा रहस्यं श्रुणु शांभवं ||
माहात्म्यं शिवभक्तानां शक्यते केन वर्णितुं || ७८ ||
येषामाशौचगन्धोऽपि नास्ति जातमृतागतः ||
तेषां जन्ममृतिप्राप्तं सुखदुःखं कथं भवेत् || ७९ ||
लिंगैक्यप्राप्तिरेवैषां मंगलानां च मंगलं ||
न प्राकृतवदेतेषां रोदनादि कथं च न || ८० ||
हृद्यवादित्रताम्बूलनृत्यगीतादिभिः सह ||
समाधियात्रा कर्तव्या माहेश्वरकुलोद्भवैः || ८१ ||
विशेषतोऽजगण्योऽयं प्रमथानां कुलाग्रणीः ||
न जातो वा पुरा शून्यो न मृतोऽन्ते तनुं त्यजन् || ८२ ||
चिन्मयो गगनाकारः सदाऽस्त्येव निरामयः ||
त्यक्तलौकिकसख्योऽयमैक्यमाप गुहेश्वरे || ८३ ||
न चिंतनीयो मुग्धांब सोऽजगण्यः शिवैक्यभाक् ||
निराकारोऽन्तरात्माश्ते त्वयि मययखिलात्मसु || ८४ ||
अजगण्ये विभुत्वेन स्थिते सर्वत्र मानिनि ||
पृ० ५७) केयं वियोगचिन्तेति प्रोक्ताऽल्लममथाब्रवीत् || ८५ ||
भवन्तोऽपि महान्तोऽत्र ते च सन्तो निरंतराः ||
एकरूपास्ततो यूयं वित्त सूक्ष्मां भवद्गतिं || ८६ ||
विदन्तु सर्पाः सर्पाणां गतिमन्ये विदन्ति किं ||
महान्तो महतां तद्वदात्माऽस्माकं न तुष्यति || ८७ ||
अथाजगण्ये सर्वज्ञे कृतार्थत्वं गते प्रभो ||
गतमोहगतिः का वा ममेत्युक्तोऽब्रवीत्प्रभुः || ८८ ||
उडुपेनेव पुरुषो नदीं भक्तो महेशितुः ||
तीर्त्वा कर्मांबुधिं धैर्याद्ज्ञानतीरं प्रयाति सः || ८९ ||
श्रुत्वैतदथ मुक्तायी प्रभुमल्लममब्रवीत् ||
शंकोदेति मम स्वान्ते च्छित्वा तामनुशाधि मां || ९० ||
कथमुत्पत्तिशिष्टानि शक्यन्ते त्यक्तुमल्लम ||
बाह्यानि जडकर्माणीत्युक्तस्तां पुनरब्रवीत् || ९१ ||
अक्क मुक्तायि श्रुणु मे वचनं सांप्रदायिकं ||
स्तन्यमेव हि बालानां जीवनं जन्मनोदितं || ९२ ||
तान्पुनः क्षीरपानेन वशयित्वा शनैः शनैः ||
विस्मारयन्ति तत्स्तन्यं जनन्यः पुत्रवत्सलाः || ९३ ||
ततः क्रमाद्गुडक्षीरपाचितं मृदुलं हविः ||
पृ० ५८) अभ्यासयित्वा क्षीराणि विस्मारयति मातृका || ९४ ||
ततः शनैः शनैरन्नं यथाऽभ्यासयते शिशून् ||
तथैव श्रीगुरुकृपा भक्तं पालयते क्रमात् || ९५ ||
चित्तं निधापयित्वाऽऽदौ शिवकर्मसु संततं ||
बाह्यानि जडकर्माणि त्याजयंतीह देशिकाः || ९६ ||
त्यक्तसंसारकर्माऽसौ भक्त्या कर्माणि सूक्ष्मयन् ||
ज्ञानेन सर्वकर्माणि नाशयित्वैक्यमाप्नुयात् || ९७ ||
इत्यल्लमोक्तमाकर्ण्य मुक्तायी भक्तवल्लभम् ||
प्रणम्य विनयेनेत्थं पप्रच्छ स्मितपूर्वकं || ९८ ||
ग्रन्थानधीत्य विद्वांसो देहभाजोऽस्मदादिवत् ||
विचार्य युक्त्या तात्पर्यं प्रौढिम्नोपदिशन्ति ते || ९९ ||
श्रोत्रं प्रसार्य वाग्जालं तेषां श्रुत्वाऽन्यदेहिनः ||
हा हेति परितुष्यन्ति किं ते लिंगांगिनो नराः || १०० ||
अल्लमः प्राह तां साध्वि शिवैक्यप्राप्तिसाधनं ||
बोधोपदेशं श्रुणु मे सावधानेन चेतसा || १०१ ||
ऐक्यं मुक्तिः सामरस्यं कैवल्यं ब्रह्मभूयकं ||
सायुज्यमिति पर्याया मोक्षस्य श्रुतिसंमताः || १०२ ||
जीवद्विदेहभेदेन मुक्तिः सा द्विविधा मता ||
जीवंस्तनुगुणत्यागाज्जीवन्मुक्तिरितीर्यते || १०३ ||
पृ० ५९) तनुत्रयं परित्यज्य शिवैक्यं प्राप्य निर्गुणः ||
विदेहमुक्त इत्युक्तः प्रारब्धान्ते न संशयः || १०४ ||
ज्ञानेन निश्चलीभूता भक्तिर्ध्यानेन निर्मला ||
क्षयित्वा वासनाः सर्वाः प्रयच्छत्युन्मनीं शुभां || १०५ ||
तत्रैकं कीलकं वच्मि श्रुणु मुक्तायि सांप्रतं ||
रहस्यं योगशास्त्रे च सूत्रितं परमार्थतः || १०६ ||
अस्मादृशांस्त्यक्तगुणान्गुरून्भावय निर्मलान् ||
सदाऽऽत्मनि दृढं भक्त्या चित्तं भवति निर्मलं || १०७ ||
सद्भावभावनावेशात्सदा भ्रमरकीटवत् ||
त्यक्वा तनुगुणान्साध्वि निर्मलज्ञानमाप्नुहि || १०८ ||
मुक्तायी प्राह सर्वात्मन्नल्लमप्रभुवल्लभ ||
कथं तनुगुणांस्त्यक्त्वा तन्वा जीवन्प्रवर्तते || १०९ ||
प्रभुराह यथा भ्रष्टबीजं दग्धपटं तथा ||
त्यक्तकायगुणः काये वर्तते मुक्त एव सः || ११० ||
यथा संभ्रष्टबीजानि न सस्योत्पत्तये भुवि ||
न रुच्युत्पादकान्नाय न बंधायागुणा तनुः || १११ ||
पृ० ६०) यथा दग्धपटस्यापि नामरूपं च दृश्यते ||
सम्यग्विचार्यते कस्याप्यर्थस्य न भवेत्क्षमं || ११२ ||
तथा शिवज्ञानवह्निदग्धकर्मपरंपराः ||
तनुत्रयविनिर्मुक्ताः प्राप्नुवन्ति परं पदं || ११३ ||
प्रभुं पप्रच्छ मुक्तायी यूयं निर्देहिनः कथं ||
यतस्ताल्वोष्ठसंधानाद्वक्त्रान्निःसरति ध्वनिः || ११४ ||
प्रभुराह पुनः स्नेहादहं सगुणनिर्गुणः ||
यतो वदन्नप्यवदन्न लिप्ये तद्गुणागुणैः || ११५ ||
आहतोऽनाहतश्चेति द्विविधः शब्द ईर्यते ||
आहतो भूतगगनेऽनाहतः स्याच्चिदंबरे || ११६ ||
चिदंबरमयांगानां जीवन्मुक्तशरीरिणां ||
न च केनापि संबन्धो निर्मलत्वाददेहिनां || ११७ ||
यदि देहगुणः शब्द इति चेत्पृथिवी तनुः ||
तदन्यस्मिन्नपि कथं गगने गर्जितध्वनिः || ११८ ||
आकाशस्य गुणः शब्द इति चेत्तच्छरीरि किं ||
नीलं नभ इति भ्रांत्या रोचते तच्छरीरिवत् || ११९ ||
पृ० ६१) अतो न शंकितुं शक्यं मादृशेषु चिदात्मसु ||
सर्वसाधारणं वक्ष्ये रहस्यं विद्धि तत्तथा || १२० ||
मायामेघो जगन्नीरं वर्षत्वेष यथा तथा ||
चिदाकाशस्य नो हानिर्न वा लाभ इति स्थितिः || १२१ ||
इति वेदान्तसिद्धान्तरहस्यं प्रभुणोदितं ||
अवधार्य मनस्यार्या प्रणम्योत्थाय तुष्टुवे || १२२ ||
नमोऽल्लमाय प्रणतार्तिहारिणे नमोऽस्तु भक्तालिमनोविहारिणे ||
मदन्तरंगावनभव्यकीर्तये नमोऽस्तु साक्षात्कृतलिंगमूर्तये || १२३ ||
भवद्गुणान्वर्णयितुं कियत्यहं यदादिमध्यान्तपरीक्षणक्षमाः ||
भवन्ति वेदागमशास्त्रकोटयो भयाकुलाः कंपनकर्षणादिभिः || १२४ ||
ममाजगण्यस्य वियोगजं प्रभो विहाय दुःखं निजसौख्यवारिधौ ||
विहर्तुमात्मैक्यविनिश्चलस्थितिं कृपानिधे मामुपदिश्य पालय || १२५ ||
इति प्रपन्नां शरणं प्रभुः स्वयं प्रसन्नचेताः करुणारसान्वितः ||
पृ० ६२) अथानुजग्राह स वेधदीक्षया
शिरःस्पृशन्दिव्यकटाक्षवीक्षया || १२६ ||
दिदेश वाचाऽपि न चालय क्व वा सुशान्तिदान्तिभ्रमसंततिं त्यज ||
अहंममत्वेन कदापि संस्पृश स्थिरत्वसाम्येन वियोजय क्व चित् || १२७ ||
न जातु कामाद्यरिषट्कमात्मना परामृशोन्मूलय सर्वथाऽपि तत् ||
विवर्धयैतां निजभक्तिमेव सा ददाति मुक्तिं परमंब नास्त्यतः || १२८
||
इति तनुगुणजालं सर्वमुन्मूल्य सम्यऽऽन्निरुपमनिजबोधानंदतत्त्वोपदेशात्
||
निजचरणसरोजध्यानदत्तावधानामतनुत शिवचिन्तामार्यमुक्तायिकां
तां || १२९ ||
अथ कचमुपगृह्येवारुरुक्षुर्महीध्रं प्रभूगुरुकृपयैव
ब्रह्मरन्ध्रात्क्षणेन ||
बहिरमितचिदभ्रं प्राग्विनिर्गत्य गत्या तदभजत शिवैक्यं तत्र
मुक्तायिकान्ता || १३० ||
सुखममितमवाच्यं तत्र सा याममात्रं स्वविदितमनुभूय
श्रीगुरोराज्ञयैव ||
पुनरपि बहिरन्तर्मध्यमध्यास्त तन्वी करधृतनिजलिंगे
दृक्कलामुद्गिरंती || १३१ ||
अथ सकलममुष्यै बाह्यमन्तश्च लक्ष्यान्न हि परमिति बुद्धिं रोचयामास
देवः ||
पृ० ६३) प्रभुकृततत्वोपदेशेन मुक्तायया ज्ञानप्राप्तिः |
अमनुत कृतकृत्यामात्मनाऽऽत्मानमेषा
प्रभुचरणमहिम्नाश्वादितैक्यानुभावा || १३२ ||
इत्थं प्रभौ पदनखांशुकणैरमुष्या हार्दं तमोऽपहरति
क्षितिमण्डले सा ||
भक्तव्रजैरभिनुताऽखिलपावनीति लीलेव तस्य जयति स्म गुरोः सुशीला ||
१३३ ||
इति मुनिहितमुक्ताययंबिकायाश्चरित्रं
कथितमखिलशास्त्रप्रक्रियासारचित्रं ||
पठत मुदितचित्ताः शौनकाद्या मुनींद्राः
सकलसुजनचित्तानंदसंधानपात्रं || १३४ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
मुक्ताययात्मविद्योपदेशवर्णनगतिर्नाम द्वादशोऽध्यायः ||
पृ० ६४ खाली है|
पृ० ६५) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ त्रयोदशोऽध्यायः |
सूत उवाच-
मुनीश्वराः सिद्धगुरुप्रसादतः समाहिताखंडितखंडसंविदः ||
अखंडविज्ञानपदप्रतिष्ठितास्सुखेन लीलां श्रुणुताल्लमप्रभोः || १
||
तदनु सोऽल्लमदेशिकसत्तमः क्षितितले शिवभक्तगणान्बहून् ||
परमशांभवबोधसुधाप्लुतान्विरचयन्विचचार निजेच्छया || २ ||
प्रभुरयं स्वयमद्वय एव सन्गुरुमहेश्वरजंगमरूपधृत् ||
सगुणनिर्गुणभावमगोचरः प्रकटयन्विजहार महीतले || ३ ||
या स्वर्णला नाम पुरी धरण्यां तस्यां प्रसिद्धः खलु सिद्धरामः ||
आराध्य भक्त्या गिरिजाधिनाथं स्वराज्यसाम्राज्यसुखं प्रपेदे || ४ ||
किंचालिके नेत्रमभेद्यगात्रं निध्यादिसिद्धिं जगति प्रसिद्धिं ||
अभीप्सितार्थानखिलागमार्थाऽनन्ते च कैलासमनंतसौख्यं || ५ ||
स कृत्तिवासोवरदानगर्वितो भटाश्वमुख्यैर्बहुभिर्बलैर्वृतः ||
पृ० ६६) धनव्ययायैव शिवालयान्मठान् बहुप्रकारैर्भुवि चित्रयन्
स्थितः || ६ ||
सखंडसंविद्वशगः समीहितः स्वपिण्डविज्ञानकलैकमात्रतः ||
अखण्डबोधामलभक्तिवर्जितः कृतार्थतामेत्य बहुक्रियापरः || ७ ||
न वेदशास्त्रागमचिन्तयाऽथ वा न योगसांख्योचितसाधुनिष्ठया ||
निनाय कालं क्व चिदप्यसौ महान्प्रयासशिल्पक्रिययैव केवलं || ८ ||
प्रभुर्दयालुस्तदयोग्यवर्तनं समाधिनाऽऽलोक्य शिवैक्यचिन्तया ||
समुद्धरिष्यामि तमेनमित्यसौ ययौ क्षणार्धेन सुवर्णलापुरीं || ९ ||
पुरोपकण्ठं समुपेत्य तद्गणैरपारसंभारततिं सुसंभृतां ||
ददर्श सेतुं लवणार्णवे पुरा निबद्धुकामैरिव रामकिंकरैः || १० ||
मृच्चूर्णदारूपलशर्कराणां तथेष्टकानां सिकताततीनां ||
राशीन्समालोक्य गुरुस्तदीयैः संपादितान्कंपितमौलिरूचे || ११ ||
प्राप्तं क्व कर्मेदृगमुष्य सूरेर्द्वासप्ततिस्यूतसहस्रनाडीः ||
संशोध्य तन्मारुतपूरणोत्थं कफादिदूरीकरणं किमेतत् || १२ ||
पृ० ६७) प्रभुकृतसिद्धरामकर्मावहेलनम् |
यद्वा नियम्यासुगतिं विभिद्य ग्रंथित्रयं बन्धसमीकृतिः किं ||
किं निर्मलाखंडितपूर्णदृष्ट्या खंडोपलब्ध्यैक्यविभावनं वा ||
१३ ||
वोढुः परादिक्रिययैष राशीन् कृत्वा मृदाद्यैर्भुवि कीर्तिकामः ||
जाड्येन बद्धः स्वविचारशून्यो व्यर्थं कदध्वोपगतः स रामः || १४ ||
सिद्धोऽहमित्येष कलत्रमात्रं त्यक्त्वाधिकां संसृतिमाप चित्रां ||
उत्सृज्य कार्पासजसूत्रबन्धं हैमीं दृढां शृंखलिकामिवाहो || १५
||
अत्यल्पसंसारमसौ विसृज्य बाह्यक्रियालंपटतामवाप ||
तं सिद्धरामाभिधया प्रसिद्धमाकर्ण्य सिद्धा न हि लज्जिताः किं || १६
||
आश्रित्य संसारभयान्महेशं हा कष्टसंसारमवाप रामः ||
भीतो यथा माहिषपादघातात्प्राप्तोऽपसृत्येव गजांघ्रिदेशं || १७ ||
निंदन्तमित्थं स्वगुरुं कटूक्त्या तं देशिकेंद्रं चरलिंगमूर्तिं ||
पृ० ६८) दृष्ट्वा तदीयाः परिचारिवर्गा निवारयामासुरतीव रोषात् || १८
||
निवारितस्तैरपि सोऽल्लमप्रभुः पुनः पुनस्तन्निकटे निनिंद तं ||
तदीयभृत्याः परिवृत्य सत्वरं प्रभुं गृहीतुं परितः समुद्यताः ||
१९ ||
अहो किमेष प्रलपत्यमंगलं निगृह्यतामद्य निबध्य शिक्ष्यतां ||
शिलाभिरुद्यल्लगुडैश्च ताड्यतां स्थिते तु तूष्णीमधिकं प्रजल्पते ||
२० ||
पितामहश्रीपतिवासवादयोऽप्यशक्नुवाना भृशमीक्षितुं दृशा ||
महोन्नतं मद्गुरुनाथमेष किं प्रदूषयत्यागतभिक्षुजंगमः || २१ ||
वृथोपहासोक्तिचणः कुचेष्टितैरयं गुरुस्वामिसमो भवेत्कथं ||
शशी कलंकीति हसन् बकः क्व वा जगत्त्रयानंदकरो भविष्यति || २२ ||
इति प्रगल्भोक्तिभिरात्मनिग्रहे समुद्यतानुग्रभयंकरान्प्रभुः ||
समीक्ष्य तद्रक्षणतत्परो मुहुर्विहस्य मर्मस्पृशमादधे गिरं || २३ ||
भवद्गुरोर्ज्ञानमहो वृथा गतं शिलामृदायत्तमयं प्रमोषकः ||
पृ० ६९) सिद्धरामान्तेवासिनां पुरतः प्रभुकृततत्कर्मावहेलनम् |
स्वयं विनष्टः परनाशको हठात्क्रियोपदेशाद्भवतोऽप्यवंचयत् || २४
||
अंधेन नीताः पतिता यथान्धाः कूपे तथैवास्य च शिष्यवर्गाः ||
यूयं क्रियाम्भोधिजले निमग्नाः प्रबोधहीनाः पतिता ह्यधोऽधः || २५ ||
प्रत्यग्ज्योतिर्मयमनुपमं सच्चिदानंदलिंगं
साक्षात्कृत्य प्रशमितभिदास्तन्मयावस्थयाऽन्तः ||
जीवन्मुक्त्या सुखितुमकलाः प्राप्य तादात्म्यसिद्धिं
भ्रान्ता व्यर्थं ग्रथितमतयो बाह्यकर्मण्यजस्रं || २६ ||
ज्योतिर्मयं द्युमणिभास्वरमात्मलिंगं मृद्दारुलोहसिकताश्मसु
सन्निधाप्य ||
प्रासादकुंडगृहगोपुरमंडपादिनिर्मित्सया फलमहो शिवयोगिनां किं ||
२७ ||
युष्माकमीदृगवबोधकथा कथं स्याद्युष्मद्गुरुं सपदि गच्छत
सिद्धरामं ||
आहूय तं मम पुरः प्रणिधत्त तूर्णं पाण्डित्यमस्य यदि तर्हि
भवेत्प्रसंगः || २८ ||
यद्युत्तरं किमपि दातुमशक्नुवानः कोपेन शेषमथ पूरयितुं यतेत ||
किं नो वदेम वयमुत्परराम इत्यास्तावद्गुरुस्तु भवतां भवताद्गिरिर्वा ||
२९ ||
पृ० ७०) इत्युक्तवत्युदितरोषकषायितास्तच्छिष्याः
कटीतटनिबद्धपटीदृढांगाः ||
देवं गृहीतुमुपचक्रमुरल्लमेंद्रं पादैः पदौ करतलैश्च करौ
निपीड्य || ३० ||
आहाल्लमो गगनवत्क्व च तैरगृह्यो हा सिद्धरामगुरुशिष्यगणा भवन्तः
||
युष्माकमौपयिकमेव हि युद्धतत्त्वं सस्यादिनीं न खलु गां विसृजन्ति
वत्साः || ३१ ||
युष्मद्गुरोरपि कथा कलहैकनिष्ठा तद्वन्मयेह कलहाय पदं भवन्तः
||
कर्षन्ति सत्फलमहो गुरुसेवयाऽऽप्तं युष्माभिरित्यभिहिता जगदुः पृनस्ते
|| ३२ ||
आहो भवान् परिहृतोऽपि पलायनार्थं किं भिक्षुकाधम पलायति
नोच्चनीचैः ||
त्यक्त्वा पुनः पुनरपि प्रतिवादिरीत्या मन्नाथमेव बत दूषयतीव भाति
|| ३३ ||
गच्छाशु तुच्छवचनानि विसृज्य तूर्णं नो गच्छसीह यदि मूर्खतयैव
भिक्षो ||
व्यर्थं व्यथामनुभविष्यसि कोपशीलैरस्माभिरित्यभिहितः
प्रभुरब्रवीत्तान् || ३४ ||
युष्माभिरर्भकतमैर्न हि साहशिक्यं शक्येत कर्तुमिह वः
पृथुवोद्रुरामः ||
पृ० ७१) अल्लमं निर्बन्धितुं सिद्धरामशिष्याणामनेकप्रयत्नप्रसक्तिः |
आहूयतां बलवता कलहोऽपि योग्यः शीघ्रं प्रयात तमिति
प्रभुणोदितास्ते || ३५ ||
अत्याग्रहेण दृढमल्लमनिग्रहाय सज्जीकृता जगृहुरेनमिवातियत्नात् ||
स्वामी बभूव गगनायितमूर्तिरार्ता व्यर्थप्रयासमभजन्किल
रामशिष्याः || ३६ ||
ते विस्मिताः पुनरपि ग्रहणाय सर्वे संभूय चक्रुरतियत्नमथाल्लमस्तैः
||
दृष्टो गृहीत इव दूरगतो जहास भूयोऽपि रूपमुपदर्श्य समीपमागात्
|| ३७ ||
तैर्व्यामसंयमपरैरवलंबितांगाः पार्श्वस्थितस्तदनु तैः
परिवर्त्यमानैः ||
दृष्टो हसन्सविधगैः पुनरप्यदृष्टो दूरेऽवतिष्ठति ततोऽन्यत एव
भूयः || ३८ ||
इत्थं बहुप्रसरणैर्वलयावधानैः स्वामी चकार
हतशक्तितयाऽलसांस्तान् ||
तैः सिद्धरामगुरुशिष्यगणैर्गृहीतुं शक्यः क्व चापि न बभूव
बहुप्रकारैः || ३९ ||
अथ कुपितमनस्का रामशिष्याः समेताः
प्रलयसमयधाराघोरपाषाणवर्षैः ||
पृ० ७२) इममिह गुरुनिंदादूषितास्यं निहत्य श्रवणजनितदोषं
वारयामेति मत्वा || ४० ||
प्रभुतिलकमवर्षन् बालिशाः शैलवृष्टिं दिशि दिशि परिवार्य
प्राकृता दुर्मदान्धाः ||
क्षितितलमगमत्सा नाल्लमं प्राप किंचिद्गगनमिव समन्ताद्व्यापकं
निर्विकारं || ४१ ||
अथ पुनरपि रोषात्कुंतबाणासिशूलक्षुरपरिघमुखातिक्रूरघोरायुधानि
||
नरपशुभिरमुष्मिन्सच्चिदानंदमूर्तौ प्रणिहितपतितानि प्राप्नुवन्
व्यर्थभावं || ४२ ||
यत्पांचभौक्तिकतनुर्न गुरुर्गुरूणां चिन्मात्रमूर्तिरतेव न लोभजालैः
||
पाषाणवृष्टिभिरशक्यतया प्रहर्तुं व्यर्थीचकार
हतविक्रमरामशिष्यान् || ४३ ||
दुष्टानपि प्रभुरसावथ तानवेक्ष्य शांतिं चकार हृदये न तु
कोपलेशं ||
निर्वैरघातसमघातनिहंत्रघाता यन्नीचमध्यममहोत्तमलोकधर्माः ||
४४ ||
यद्यप्यधीशितुरिहेदृशदुर्मदान्धा दण्ड्यास्तथाऽपि यदि
कोपकृशानुलेशः ||
पृ० ७३) सिद्धरामस्य सेनाभिस्सह प्रभोर्युद्धवैचित्र्यकथनम् |
जायेत तेन भवनत्रयमेकधैव दह्येत मूषकरुषा गृहदाहवत्तत् || ४५
||
इत्थं विचार्य जगतां गुरुरल्लमेंद्रस्तूष्णीं बभूव पुनरप्यथ
रामशिष्याः ||
गत्वा निवेद्य कलहोन्मुखमाशु चक्रुस्सैन्याधिपं
शतसहस्रमहाबलाढ्यं || ४६ ||
तस्याज्ञयैव
चतुरंगबलान्यसंख्यान्युत्पातवच्चरणधूतधरापरागैः ||
आच्छाद्य बिंबमरविंदसखस्य तूर्णं पूर्णं विनिर्ययुरमुं प्रति
राजधान्याः || ४७ ||
दृष्ट्वा सैन्यशतानि सोऽल्लमविभुः स्वस्मिन्पुरा पातित-
प्रोच्चप्रस्तरपर्वतोपरि हसन्नारुह्य पश्यंस्थितः ||
सेनास्तं परिवव्रुरात्तपरशुप्रासासिकुंतादिकै-
स्सन्नद्धास्सकलायुधैरथ गजैरश्वैरसंख्यैर्युताः || ४८ ||
आलोक्याथ समीपगान् प्रभुमणिस्तांस्तान्महासैनिका-
न्नेकोऽपि प्रथितात्मवैभववशात्तत्तत्समानाकृतीन् ||
बिभ्रत्पूरुषविग्रहांच्छतसहस्नानेकलक्षाधिकां-
श्चक्रे तैः सह वीररौद्ररसिकैर्युद्धं विचित्रक्रियः || ४९ ||
पत्तिं पदातिवदसौ रथिनं रथीव सादीव सादिनमथो गजिनं गजीव ||
पृ० ७४) एकैकशः पृथगुपेत्य विहाररीत्या चिक्रीड भीकरवपूः
सुचिरं रणाग्रे || ५० ||
तत्तत्प्रयुक्तनिखिलायुधजालमाशु च्छित्वा क्षणेन न हि
तान्हतवान्महात्मा ||
वाग्भर्त्सनेन सकलानजयद्विचित्रं मातेव पुत्रकलहोद्यतपाणिरेषः || ५१
||
अन्तर्मदं सकलमप्यपहाय तेषामप्येकमत्र न जघान दयांबुराशिः ||
हन्याद्धरिः पुरहरोऽपि सुदर्शनेन नायं सुदर्शनगुरुर्हतवान् रिपूंश्च
|| ५२ ||
योगीश्वरस्यास्य महामहत्वं नो भूतभाव्येष रणे सपत्नान् ||
अहिंसयन्नेव जिगाय चित्रं कुत्रापि नास्तीति ननंदुरार्याः || ५३ ||
तच्छिष्यवर्गास्त्वसहिष्णवस्तत्सामर्थ्यमन्वीक्षितुमप्यनीहाः ||
विज्ञाप्य रामाय सुशिक्षणीयो भिक्षुर्हठादित्यनुजग्मुरेनं || ५४ ||
ते दण्डवत्तं प्रणिपत्य भूमौ व्यजिज्ञपन् प्राजंलयोऽथ रामं ||
यः कश्चिदस्मन्निकटं समेत्य त्वां जंगमोऽदूषयदेकवीरः || ५५ ||
पृ० ७५) युद्धोद्धतप्रभोःपुरतः सिद्धरामस्य स्वोत्कर्षोक्तिकथनम् |
तेनाथ नाथाः कलहाय गत्वा रोषाद्वयं भग्नमनोरथाः स्मः ||
वक्तुं न युक्तं तदवाप्तदैन्यं जानातु युष्मच्चरणारविंदं || ५६ ||
त्वां वोढृरामाभिध इत्यनर्हं यज्जंगमोऽत्रापजहास गर्वात् ||
तदेव नः खेदयति प्रभोऽस्मान् यन्निंदयामास ततो न खेदः || ५७ ||
श्रुत्वा तदीयं वचनं स रामो विहस्य को वा मयि हास्यकारः ||
ब्रह्मा हरिर्वा बलभेदनो वा किं वालिकाक्षो न हि जंगमोऽयं || ५८ ||
भिक्षाटने पर्यटतः कुतो वा किं जंगमस्यास्त्यपहासचेष्टा ||
इत्थं ब्रुवंच्छीघ्रगतिः स रामस्तस्थौ समागत्य पुरोऽल्लमस्य || ५९ ||
क्रोधारुणाक्षोऽल्लममाह रामः को वा भवान् दैवहतः कुभिक्षो ||
विनिंद्य मां लोकगुरुं कथं वा विच्छिन्नजिह्वोऽनुचरैर्न भूयाः || ६० ||
अहो कथं जंगम इत्युपेक्ष्य स्थिते मदीयैः किल तान् प्रताड्य ||
मामप्यनादृत्य करोषि धौर्त्ये ह्युन्मूलये सावटुनाडिजिह्वां || ६१ ||
पृ० ७६) इति ब्रुवन्तं स्वनिपातनाय रुषा समुद्यन्तममुं समीक्ष्य ||
प्रभुः स्मयन्सर्वजनाभिनंद्यः समत्वसौंदर्यखनिस्तमाह || ६२ ||
सिद्धान्वयोद्धारक साधु साधु स्वरूपमेतद्धि भवादृशानां ||
तपस्वियोग्यं सहनं विसृज्य किं साहसं कर्तुमुपक्रमेथाः || ६३ ||
पिपीलिकादिक्रिमिकीटहिंसाभयात्पदं वर्त्मनि दृष्टिपूतं ||
न्यस्यन्ति रागादिभयात्सदैव चित्तं निरुंधन्ति शिवैकतानाः || ६४ ||
इत्यल्लमे वक्तरि साधुवाचां रोषादश्रुण्वन्निदमाह रामः ||
अविद्यमाने मयि साहसिक्यं सैन्ये मदीये कृतमास्त्वयाऽहो || ६५ ||
साधारणानां यमिनां पुरस्ताद्वक्तव्यमेतत्कपटोक्तिजालं ||
न शक्यते मन्निकटेऽभिधातुं दह्येत लोको दलितेऽलिकेक्ष्णि || ६६ ||
रामोक्तिमाकर्ण्य विभुस्तमूचे विहस्य साधूक्तमहो त्वया प्राक् ||
नेत्राग्निकीलैः कति वाऽत्र दग्धाः किमाततायित्वमिदं बुधार्हं || ६७ ||
भो सिद्धरामार्य तव प्रसिद्ध हिंसैव सिद्धा ननु संप्रदाये ||
पृ० ७७) प्रभुकृतसिद्धरामपराभवपरिपाठी |
अहो न दृष्टाश्रुतपूर्वचर्या युष्मादृशाः कुत्र च योगिवर्याः || ६८ ||
पापौघराशिर्भवता गृहीता कोपो धनत्वेन न योगिनस्ते ||
अर्हन्ति गोष्ठीं भवपाशबद्धान् विहाय राशीकृतपापकोपान् || ६९ ||
श्रुत्वाऽल्लमोक्तं हृदि सिद्धरामः कोऽसावविज्ञातमदीयशक्तिः ||
ब्रूते छलोक्तीरिति फालनेत्रं चित्रं नटद्भ्रूकुटिरुन्मिमेष || ७० ||
जाज्वल्यमानो निटिलात्तदाऽग्निर्निर्गत्य गन्वाऽल्लमपादमूलं ||
स्प्रष्टुं न शक्तः परिवृत्य सर्वान् ददाह तत्रत्यजनांच्छिखाभिः ||
७१ ||
कोलाहलस्तत्र बभूव सर्वे रुदन्त इत्थं जगदुस्तदोच्चैः ||
हा हाऽयमज्ञातपरात्मशक्तिः प्रभुं द्विषन् दाहयति स्म सर्वं || ७२ ||
निजोष्ठनाशाय दरिद्रकोपो भवेदिति प्राकृतसिद्धमेतत् ||
आलातमादाय निजोत्तमांगं कण्डूयते को नु जगत्यभिज्ञः || ७३ ||
कोपोल्बणं सोढुमशक्नुवानो नीव्रे निधायोल्मुकमुज्वलं तं ||
पृ० ७८) गेहं दहंतं परितः कृशानुं को वा पुनस्तं
शमयेद्विमूढः || ७४ ||
नेत्रं पुरा दर्शयितुर्ललाटे पादे पुनर्दर्शयिताऽधिकोऽस्ति ||
दंदह्यमानां चटुलाग्निकीलैः सुवर्णलां यः शमयेत् स योगी || ७५ ||
इत्थं प्रजाऽऽक्रोशवचांसि श्रुत्वा तूष्णीमशक्त्यैव बभूव रामः ||
आकर्ण्य संरक्षितुमल्लमेंद्रो दयार्द्रचित्तः प्रशमोन्मुखोऽभूत् || ७६ ||
अंभोनिधेस्तन्मथनात्समुत्थं लोकत्रयीदाहककालकूटं ||
उग्रो यथैवाशमयत्प्रभुस्तं सुवर्णलादाहकमाशुवह्निं || ७७ ||
तदद्भुतं वीक्ष्य स सिद्धरामः श्रीसिद्धवीरेश्वर एव साक्षात् ||
समागतो रक्षितुमस्मदादीनित्यागतोऽभूद्विनयात्समीपं || ७८ ||
मां बुद्धिहीनं शरणं प्रपन्नं पाहीति भक्त्या पदयोः पपात ||
न ह्युत्थितोऽभूत्सदयो गुरुस्तं हस्तेन धृत्वोत्थितमाशु चक्रे || ७९ ||
तमाह किं राम शिवव्रतानामस्मादृशामीदृगकार्यमर्हं ||
पृ० ७९) श्रीसिद्धरामकृताल्लमस्तुतिकथनम् |
पूजायशोलाभनिमित्तमाहो किमात्मलाभस्मरणं प्रशस्यं || ८० ||
इति ब्रुवन्तं परिपूर्णभावं प्रणम्य भक्त्या च भयेन रामः ||
तुष्टाव दुष्टावनमिष्टदं तं शिष्टाग्रगण्यं बहुधा विनीतः ||
८१ ||
स्मरारिरिति भावना न हि तवोचिता सद्गुरो
यदर्धकृतदेहया गिरिजयाऽसि नालिंगितः ||
मुरांतक इतीरणा न तव युज्यते मायिक-
स्तमःप्रचुरनिद्रया स्वपिति सो हि शययां गतः || ८२ ||
स्वरूपमुपमीयते जगति केन वा तावकं
निरंजनमनामयं निरुपमाद्वयं निर्गुणं ||
अमेयमहिमोदयं प्रशमविक्रमोपाश्रयं
भवन्तमिह भावये कपिलसिद्धयोगीश्वरं || ८३ ||
सदैव निजपोषकं यदनुयाति मेषोऽप्यहो
भवन्तमखिलात्मनां गुरुमहं क्रियानिष्ठुरः ||
उपेक्ष्य गतवानहं विबुधनिंदितां द्रोहितां
कृपानिलय मां प्रभो कृपणमीदृशं पालय || ८४ ||
पृ० ८०) ददौ मम महेश्वरो विधिवशाल्ललाटे दृशं
तया खलु खलात्मतामनुभवन्भृशं गर्वितः ||
प्रबोधविधुरो धुरा दुरितमाचरन् दुष्करं
तदद्य विनिवर्त्य मामुपदिशाऽऽत्मबोधं गुरो || ८५||
स्तुवन्निति स पादयोः प्रभुमणेः पपातांचित-
स्तनौ पुलकराजिभिर्नयनयोश्च बाष्पांबुभिः ||
तदंतरमथाल्लमः समधिगम्य तापात्पुनः
सुनिर्मलमिति स्मयन्नभिदधे स तं रक्षितुं || ८६ ||
अहो तव मुखोदितैः कटुवचोभिरुच्छ्रुंखलैर्न
किंचिदपि मे मनः सुविमलं शिशो कुप्यति ||
कृपैव मम जायते यदबुधेषु तिष्ठेदिति
प्रसह्य निजपाणिना प्रणतमभ्युदस्थापयत् || ८७ ||
अथोत्थिततनुर्ह्रिया स्वयमधो मुखः स्वामिना
किमार्य हृदि चिंतया तव हितोपदेशाय मां ||
समागतमवेहि मा मुखमधः कुरु श्रावये
रहस्यमिति भावितः क्षणमथोन्मुखस्तुष्टुवे || ८८ ||
समस्तजगतां पते सकलकारण श्रीगुरो
भवान्प्रभुरपि स्वयं सपदि जंगमाकारभृत् ||
समागतितीदृशी कथमुदेति बुद्धिर्मम
प्रतारितमतेस्तया त्रिगुणमायया सर्वतः || ८९ ||
पृ० ८१) सिद्धरामं प्रति प्रभूक्तसल्लक्षणनिरूपणम् |
प्रभुः पुनरुवाच तं बहुविधैरहो भूतले
चरन्ति विबुधोत्तमाः कृतकवेषभाषादिभिः ||
न तेषु हृदि शक्यते रचितुमुच्चनीचात्मकं
विकल्पनमणु क्वचिच्छरणसेवकानां नृणां || ९० ||
क्षितावपि च केवलं हृदि विभावयेज्जंगमा-
कृतिं स्ववयवोज्वलां सगुणलिंगमूर्तिं परां ||
समुन्नतसुवेषभृज्जगति वंचको वर्तते
न वेषपरिपूर्णता भवति पूर्णविज्ञानिनः || ९१ ||
ततोऽत्र न हि कारणं महति वेषभाषादिकं
प्रबोधकलनैव सा हृदयसंधिलग्ना परा ||
अतींद्रियतयान्यहृन्न खलु शक्यते बोद्धुमि-
त्यतः कमपि दूषयेन्न हि तदेव दोषार्जनं || ९२ ||
एकं प्रदूष्य पुनरेकतरं प्रभूष्य वैषम्यवर्तनमिदं शरणस्य
नार्हं ||
किं त्वीषितैककलया सकलं सदैव व्याप्नोति सर्वसमदृष्टिरतो हि योग्या
|| ९३ ||
गोब्राह्मणप्रततये शुभमस्तु नित्यं लोकास्तथैव सुखिनः सततं
भवन्तु ||
इत्याशिषं हि सुजनाः प्रवदन्ति सर्वे नाकर्णितं नु भवता ननु
सिद्धराम || ९४ ||
पृ० ८२) श्रुत्वाल्लमस्य वचनं विनयेन रामः प्रोवाच देव बत मे
गतवासरेषु ||
नो मध्यमाधममहाजनभेदचिंताजीर्णा कदापि तत एव न बोधदृष्टिः
|| ९५ ||
युष्मत्पदाम्बुरुहदर्शनपुण्यलब्धा प्रज्ञा ममापि
कलयत्यखिलात्मसाम्यं ||
नातः परं प्रविचलामि मतेरमुष्यास्सोऽहं यथेत्थमनुशाधि
कृपांबुराशे || ९६ ||
विज्ञापयन्तमिति तं प्रभुराह रामं वैराग्यभाग्यमवलंब्य दिने
दिनेंऽग ||
अभ्यासदार्ढ्यमवधारयतः क्रमेण चित्तं स्थिरं भवति
सात्विकसेवनेन || ९७ ||
चित्ते स्थिरे भवति शान्तिरपारसौख्यसंपादिका शमवतो न हि
भेदबुद्धिः ||
भेदभ्रमेऽथ शिथिले निखिलांतरस्थं ज्योतिः परं स्वयमुदेति समं
समन्तात् || ९८ ||
तस्यैकरूप्यमरिमित्रजनावियातां योषिच्छिले गृहवने स्वपरौ स्वलोष्टू
||
हीनाधिके च हठराजपदैकनिष्ठो यः शान्तिमाप हृदये
निजसौख्यहेतुम् || ९९ ||
तावत्त्यजेन्न हि पुमान् हठराजयोगं नापि त्वरेत सहसाऽऽत्मनि योगसिद्धौ
||
व्यग्रोऽलसोऽपि न भवेत्परिवर्द्धयेच्च मर्यादयैव समतां न भजेत यावत्
|| १०० ||
पृ० ८३) स्वोद्धारार्थं सिद्धरामकृतप्रभुमहिमानुवर्णनम् |
इत्थं प्रयासमपहाय विरागहीनो यो योगसिद्धिमभिवांछति शीघ्रगत्या
||
भ्रष्टोविनष्टधिषणः स भवेत्ततोऽस्य श्रीमद्गुरूपसदनेन
कृतार्थता स्यात || १०१ ||
गुरूपदेशेन विना न योगो न बोधवैराग्यतपोबलानि ||
गुरूपदेशेन विना न किंचिच्छ्रयेत्ततः श्रीगुरुनाथमादौ || १०२ ||
प्रभोर्निशम्य श्रुतसारवाक्यं प्रणम्य तं प्रांजलिराह रामः ||
गुरुर्गुरूणां परमो दयालो त्वमेव मां श्रीगुरुनाथ शाधि || १०३ ||
त्वत्तोऽधिको वा न गुरुः समो वा योगीन्द्र विद्याविभवेन लोके ||
लिंगावधानं सुलभोपदेशात्त्वमेव संभावयिता न चान्यः || १०४ ||
गुरो भवद्दर्शनमेव मे भवंत्यमोघदिव्याखिलयोगसिद्धयः ||
भवत्पदस्पर्शनमेव सांप्रतं समत्वमित्याशु गृहाण मां प्रभो || १०५
||
मुक्तिस्तवैव करुणार्द्रकटाक्षदृष्टिः स्वामिन् कृतार्थयितुमेहि मठं
मदीयं ||
मल्लेश्वरं करुणयैव विलोक्य लिंगं मामुद्धराशु
गुरुमण्डलसार्वभौम || १०६ ||
पृ० ८४) श्रुत्वैतदल्लमविभुः पुनराह रामं योगीश्वरस्य न हि
सर्वगतस्य भेदः ||
ग्रामे वने वरगृहे गिरिगह्वरे वा चक्रांगतूलशयनेऽथ शिलातले वा ||
१०७ ||
सद्बोधकानि निखिलानि वचांसि तस्य तद्वर्तनं च सकलं
शिवभक्तिमार्गः ||
स्थैर्यं सुनिर्मलतपश्चरणं तदीयं तच्चिंतनं च
परतत्वकलानुभूतिः || १०८ ||
रामो व्यजिज्ञिपदमुं विनयाभिरामः स्वामिन् कियांस्तव पुरः
प्रतिवक्तुमेषः ||
यत्रैव तत्र भवतः प्रसरेन्निजेच्छा तद्वेद्मि दिव्यपटमूलसभानिकायं
|| १०९ ||
श्रीमत्पदाम्बुजपरागकणः क्षणं वा यत्र स्थिरो लगति सैव
भवेत्सुधर्मा ||
स्थित्वा मनीषितनिजाश्रयपुण्यदेशे शिष्यस्तवास्म्यनुगृहाण दयाम्बुधे
मां || ११० ||
त्वत्सेवकं करुणया जनमेनमेनो निर्द्धूय सद्गुरुविभो कुरु दीनबंधो ||
पादाम्बुजप्रसरदेकरजःकणेन देहीश सद्गतिमनुग्रहदृक्कणेन || १११ ||
दुष्टोऽप्ययं तव कटाक्षवशादिदानीं शिष्टो भवत्वखिललोकगुरो
गृहाण ||
पृ० ८५) प्रभुसिद्धरामयोरुक्तिप्रत्युक्तिः |
लोहं रसेंद्रकणवेधवशात्क्षणेन प्रत्यक्षतः किमिह तत्कनकायते न
|| ११२ ||
इत्थं वदन्तमभितः शरणागतं तं बोधाधिकारिणमथ प्रतिपद्य
चित्ते ||
स्वामी तथापि गुरुशिष्यपथप्रचारं लोके प्रकाशयितुमाह स
सिद्धरामं || ११३ ||
अन्तर्मुखं स्थिरतया सह योजयित्वा चित्तं प्रमत्तकरणानि विधेयभावं
||
नीत्वोत्तमाचरणवच्छरणेषु संविद्बीजं वपेन्न हि बहिर्जनतोषरोर्व्यां
|| ११४ ||
बीजं प्रधानमपि धीनिधिना समुप्तं सुक्षेत्र एव फलतीह न चेतरत्र
||
यद्याशया वपति दुष्टतले तदेव नश्येदिति स्म गदितः पुनराह रामः ||
११५ ||
भो आदिनाथ न बहिष्कुरु मामनाथं नाथो भवाह्नि जगतां
भवदंघ्रिसेवा ||
जन्मान्तरार्जितमदुत्कटपुण्यलब्धा किं वा विधूय दुरितं चरितं न
दध्यात् || ११६ ||
भो श्रीगुरुस्वामिपदाभिषिक्त त्वत्पादसेवोदितदिव्यधाम्ने ||
न खण्डसंविन्न च कर्मकांडः प्ररोचतेऽतः परमीश मह्यं || ११७ ||
अतःपरं मे परमार्थबन्धो गतिस्तवैवांघ्रिसरोजयुग्मं ||
पृ० ८६) श्रुतिस्मृतिश्चापि न वाक्यतस्ते गतः प्रपत्तिं त्वयि रक्ष रक्ष
|| ११८ ||
इति ब्रुवन्नश्रुपरीतनेत्रो रोमांचितैः कंचुकिताखिलांगः ||
पपात रामो भुवि दण्डवत्तत्पादाम्बुजाश्लिष्टकराब्जयुग्मः || ११९ ||
अथाल्लमगुरुः कृपाभरितदिव्यचित्तान्तरो
निधाय करपंकजं शिरसि तं समुत्थापयन् ||
समीपमुपनीय सन्मधुरवाक् पितेवात्मजं
जगाद परिलालयन् निजकृपांबुधौ लोलयन् || १२० ||
ये संत्यहो चतुरशीतिगणेयलक्षसंख्यातभेदघटिता भुवि
जंतुवर्गाः ||
तेषां स एव शिवयोगिवरो मुमुक्षुर्यत्त्विंद्रियाणि परिशिक्षयितुं
समर्थः || १२१ ||
रामः कृतांजलिरुवाच तुरींद्रियाणि रूपाधिरूढविषयाननुसृत्य
यांति ||
श्वानः शशानिव तदीयजयः कथं स्यात् स्वामिन्कृपानिलय
मामनुशाधि सम्यक् || १२२ ||
आहाल्लमः श्रुणु मनः सकलेंद्रियाणां राजा
तदीयविषयोन्मुखतानिरोधे ||
पृ० ८७) आत्मोन्मुखं ह्यनुसरन्ति तदिंद्रियाणि श्रेष्ठं यथा मधुकरं
सरधास्तथैव || १२३ ||
रामः श्रीगुरुमाह देव यदि तच्चित्तं निजव्यापृते-
र्व्यावृत्तं न भवेत्तदा धनचयं संपाद्य दारान्सुतान् ||
पुष्णन्नर्थिजनेष्टदः क्रतुतपोदानादिधर्मांश्चरन्
देवागारवनीतटाककृतिभिः पुण्यैर्न किं श्रेयसे || १२४ ||
श्रुत्वाऽऽहाल्लम एष लौकिकनृणां पंथा हि साधारणो
नो लिंगैक्यसुसावधानमनसां कैवल्यसिद्धिप्रदः ||
किंतु क्लेशकरः कृषीवलसमास्ते कर्मठाः कर्मणां
बीजावापसधर्मणां फलमहो सस्योपमं भुंजते || १२५ ||
लिंगानुसंधानसमाधिभाजां नो जातु धर्मैकरतिः प्रशस्ता ||
देवालयारामतटाकमुख्या ध्यानस्य सर्वाः कृतयोंऽतरायाः || १२६ ||
न नित्यसौख्यानुभवस्य हेतुः क्रिया यशोलाभनिमित्तभूता ||
पूजादिकामैः कृतकर्मदंभा नार्हंति तद्ध्यानकलैकमात्रं || १२७ ||
मांसाशयाऽयःकृतयंत्रशंकुं मीनो ग्रसित्वा मृतिमेति मूढः ||
पृ० ८८) ब्रह्मादिजीवो विषयाभिलाषात्प्राप्नोति तद्वज्जनिमृत्युदुःखं ||
१२८ ||
अतः परित्यज्य समस्तकर्माण्यखण्डचिज्ज्योतिषि लीनचित्तः ||
शिवानुसंधानसमाधिशाली समाप्नुयान्निर्विषयैकसौख्यं || १२९ ||
ध्यानावधानी यदि बाह्यकर्मा स्मरेन्मनाग्वा तदवाप्य वृद्धिं ||
आच्छादयेद्ध्येयकलां यथैव धान्यौषधीं दुष्टतृणं विवृद्धं ||
१३० ||
चिल्लिंगमूर्तेरवलोकनं यः प्रत्यक्षतः स्वानुभवैकसिद्धं ||
उत्सृज्य कर्माऽऽचरते फलार्थी पिधाय नेत्रे निपतेत्स कूपे || १३१ ||
ध्याताऽपि कर्माचरणे प्रवृत्तो ध्यानं न सिध्येद्दृढमत्यभावात् ||
मध्ये यदा मृत्युहतः स योगी भ्रष्टः कथं वा भविता न जाने || १३२
||
श्रुत्वाथ रामो गुरुनाथ विद्वन् लोके यथा मृत्युमतीत्य मर्त्यः ||
जीवेत केनापि पथा स सूक्ष्मो यद्यस्ति तं ब्रूहि ममेत्युवाच || १३३ ||
स्वाम्याह चार्द्रावसरे सुकृष्टे क्षेत्रे तृणानामिव बीजवापं ||
चित्ते स्थिरे कर्मरतिं विहाय तत्वैकदृष्टिर्विधिनाप्यवध्यः || १३४ ||
ब्रह्मावलोकनपरं परिहृत्य कर्म सर्वान्तरायजयसाधनयोगनिष्ठं ||
पृ० ८९) श्रीसिद्धरामायाल्लमकृततत्वोपदेशः |
ब्रह्मादयोऽपि न विचालयितुं समर्थाः काले कदाऽपि
दिविजास्सुविनिश्चितोऽयं || १३५ ||
किं चेषदंगविकलं भुवि कर्मतंत्रं नो किंचिदस्य फलतीति हि
शास्त्रनिष्ठा ||
मूर्तिश्च भोगरहिता विहितप्रतिष्ठा न्यूनातिरेकवशतः खलु
देवतायाः || १३६ ||
विज्ञाय चैवमिह सज्जति कर्मकाण्डे को वाऽवबुद्धगुणदोषकथो मुमुक्षुः
||
वेदाभिमानजटिलो यदि कर्मनिष्ठस्तस्य क्व चापि न भवेत्परतत्वलाभः
|| १३७ ||
अस्त्यंतरं बहिरिति द्वयमस्य जन्तोस्सर्वस्य चांतरखिलानुभवैकवेद्या ||
विज्ञानदीपकलिका विलसत्यमोघा संदृश्यते बहिरशेषमृषाप्रपंचः
|| १३८ ||
तस्माद्बहिः प्रवहणं हृदयस्य भंक्त्वा विज्ञानदीपकलिकोन्मुखमेव
चित्तं ||
अंतःपथाकलितवृत्तिपरः सदैव कुर्वीत धीनिधिरहो श्रुणु सिद्धराम
|| १३९ ||
भो सिद्धराम बहिरंतरपि द्विरूपा हृन्मारुतस्य गतिरत्र तु रेचकाख्या
||
पृ० ९०) बाह्यान्तरंगविषया ननु पूरकाख्या ते द्वे हृदब्जनिलये
विदधीत लीने || १४० ||
अभ्यासरुद्धपवनद्वयमध्यनाडीमार्गेण मेरुशिखरं प्रतिपद्य योगी ||
ज्योतिः परं य इह पश्यति दिव्यलिंगं साक्षात्स एव कृतकृत्यतमो
महेशः || १४१ ||
लिप्तो विषेण बहिरप्यनवाप्तमृत्युस्तद्वद्बहिर्विषयसंगतिरागसेन ||
पीत्वा विषं तु न हि जांगलिकेन रक्ष्यो न ब्रह्मणोऽपि विषयानुभवी
तथैव || १४२ ||
रामेह के च न गता ननु साधकत्वं मोहाद्दुरन्तविषयानपरित्यजन्तः ||
संपाद्य दोषमिव योगमणिप्रभाया भ्रष्टा भवंत्युभयतः पतिता
दुरीहाः || १४३ ||
ये घोरसंसारदवाग्निमध्ये पापच्यमानाः शरणं प्रपन्नाः ||
श्रेयःपदं योगमहो न तेषामर्हः पुनर्दुर्विषयाभिलाषः || १४४ ||
कुक्षिंभराः के च न योगिवेषं संधाय काषायकमंडलाद्यं ||
मंत्रौषधाद्यैः किल वंचयंति संभाषणं वाऽप्युचितं न तेषां
|| १४५ ||
विषयेंद्रियाणि विषमाण्यपरित्याज्यान्यपि स्वयं त्यक्त्वा ||
शिवयोगिनः कृतार्था निजसुखनिरता न यांति वैकल्यं || १४६ ||
पृ० ९१) श्रीसिद्धरामायाल्लमकृततत्वोपदेशः |
पतितः पंके करिराडवलंब्य बलं स्वकीयमेव दृढं ||
स्वयमुत्थितः श्रयेत्तटमितरः कः शक्नुयात्तमुद्धर्तुं || १४७ ||
त्वं राम शैवदीक्षाप्रक्षीणरजस्तमोविमोहोऽपि ||
त्यक्तान्तर्निजमार्गः कर्मपथे बहिरहो प्रवृत्तोऽसि || १४८ ||
निगमागमान्तनिष्ठस्त्वमिह परित्यज्य कर्मतंत्राणि ||
परिभवहेत्वरिजयतस्सद्यो मुक्तिं भजस्व रामार्य || १४९ ||
ज्ञानाज्ञाने द्वे इह हेतू मोक्षस्य बंधनस्यापि ||
भक्तिर्ज्ञानं कर्माज्ञानमकर्मैव मुक्तिरित्युक्ता || १५० ||
ज्ञानेन कर्मनाशे मुक्तिः फलितैव सहजसिद्धा सा ||
कण्ठे चामीकरमिव नास्मिन्नर्थेऽस्तु संशयः कश्चित् || १५१ ||
ज्ञानी कर्मासक्तो यदि भवति शुने ददत्स पक्वान्नं ||
पूतिश्रोणापानं कुरुते मूढो विवेकराहित्यात् || १५२ ||
लिंगानने सकलवस्तुचयं समर्प्य भुंजन् रसार्पणपरो हृदि तत्प्रसादं
||
पृ० ९२) निष्कर्मतां समुपयाति स एव मायाभर्तेति राम विदितो बहुना
किमत्र || १५३ ||
सर्वेंद्रियाणि बलवंति यदा तदैव मृत्योर्जये मतिमुपेत्य निरस्तमोहः ||
ध्यानावधाननिरतः परिहृत्य बाह्यं सच्चित्सुखात्मपरिणाममुपैति राम
|| १५४ ||
भ्रान्तिं विसृज्य विभवेषु निरस्तकर्मा निर्मायिको
निरतधारणयात्मनिष्ठः ||
ऐक्यं विभाव्य शिवजीवकलाद्वयस्य निर्लेपरूपपरमो भव सिद्धराम ||
१५५ ||
चित्तं वृत्तिसहस्त्रसंकुलमिदं कृत्वैकवृत्याश्रयं संस्थाप्येष्टपरे
दृढं सुविमलं तत्प्राणलिंगे पुनः||
संबध्य स्थितधीर्दृशं सुनिपुणां संधाय लक्ष्यात्मिकां तृप्तिं
प्राप्नुहि भावलिंगकलनात्संगं समस्तं त्यजन् || १५६ ||
लिंगांगसंबंधपदार्थबोधाल्लिंगांगसंबंधपदैक्ययोगात् ||
लिंगं त्वमेवासि न चास्ति भेदः सत्यं सदा साधय सिद्धराम || १५७ ||
लोके कशाताडनपार्ष्णिघातघेंकारशब्दाः खलु दुष्कुलस्य ||
पृ० ९३) श्रीसिद्धरामायाल्लमकृतवीरशैवदीक्षादिनिरूपणम् |
कुलीनवाजी मुखरज्जुकृष्ट्या चित्तानुवृत्या प्लवतेऽधिपस्य || १५८ ||
श्रीवीरशैवागमदीक्षितः सन्ब्रह्मानुसंधानपरो भवेद्यः ||
स एव योगी न गुरुर्गुरूणां सुनिश्चितोऽयं सकलागमार्थः || १५९ ||
सिद्धराम निगमागमशास्त्रप्रक्रियापटलवक्रतयाऽलं ||
श्रीगुरूक्तशिवतत्वसमुद्यद्योगमार्गनिपुणो भव नित्यः || १६० ||
इत्युदीर्य कृपया गुरुवर्यस्तत्र चिद्यवनिकां परिकल्प्य ||
आसने समुपवेश्य रहस्ये दीक्षया तमकरोत्कृतकृत्यं || १६१ ||
फालपट्टलिखितं परिमृज्य स्वांघ्रिणाऽथ भसितैः कृतरेखः ||
मस्तकोपरि निधाय च हस्तं दृष्टिपूतमकरोद्वपुरस्य || १६२ ||
श्रीशांभवीं समुपदिश्य च दिव्यमुद्रां वेधेन चिन्मयतनुं विरचयय
रामं ||
देहेंद्रियादिरहितं सहितं विबोध्य लिंगे निमग्नहृदयं सदयं चकार
|| १६३ ||
इत्थं स जीवपरमैक्यहितोपदेशं तस्मै ददौ प्रभुरमुष्य हृदि क्षणेन
||
अर्चांचितेव सुदृढं स्थिरतामवाप ज्योतिःकलैव निजनिर्मलबोधरूपा ||
१६४ ||
तस्याथ मानससरो विललास तूर्णं हंसोऽपि तत्र विहरन् परितृप्तिमाप
||
पृ० ९४) सौषुम्नसीम्नि विकसन्नवचक्रवीथीमुल्लंघ्य चिद्गगनसौख्यमवाप
रामः || १६५ ||
अन्तः समाधिमधिगत्य शिवैक्यनिष्ठामास्वाद्य हृद्यनुपमामथ
सिद्धरामः ||
विस्मृत्य बाह्यमखिलं विनिनाय कं चित्कालं प्रभोः करुणया
परमामृताब्धौ || १६६ ||
भूयो बहिः करतलस्थनिजेष्टलिंगे सद्भावलिंगनिलयादसुलिंगमेत्य ||
दृष्टिं स्थितानुभवसौख्यमसौ विभाव्य हर्षात्पपात पदयोः
प्रभुलिंगमूर्तेः || १६७ ||
हर्षाश्रुपूर्णनयनः पुलकांकितांगस्सर्वं शिवात्मकमिदं जगदेव
पश्यन् ||
भक्त्या प्रणम्य रभसादथ कंपमानः प्राह प्रभुं
प्रतिकृतांजलिरेष रामः || १६८ ||
भावत्कपादसरसीरुहसन्मरंदसेवावशादवगता शिवयोगसिद्धिः ||
अज्ञानगाढतिमिरं सकलं विनष्टं विज्ञानदीपकलिकेह चकास्ति चित्ते
|| १६९ ||
पूतोऽस्मि सत्करुणया तव देशिकेंद्र जाता प्रभोऽद्य हि
ममाभिमतार्थसिद्धिः ||
नीतो वशं तव जगत्त्रितयैकबंधो बंधो न मे निजकलानवबोधहेतुः ||
१७० ||
पृ० ९५) श्रीसिद्धरामायाल्लमकृतमंगलाशीर्वचनम् |
प्रभुसिद्धरामयमिनोस्संवादं द्रष्टुमागतास्सिद्धाः ||
अन्तर्धाय तदानीमित्थममन्यंत चेतसा सर्वे || १७१ ||
क्व गतं नु सिद्धराम स्वान्ते जटिलं समग्रमौद्धत्यं ||
निर्यातः केन पथा गर्वस्सर्वंकषस्तथाऽखर्वः || १७२ ||
कर्माकांक्षा क्व नु वा संक्षिप्ता कीर्तिकामना तद्वत् ||
लीना कुत्राऽसहनं कुत्र च शिथिलं क्षणादहो चित्रं || १७३ ||
अथ वा सज्जनसंगतिमहिमाखिलसिद्धिकारणं पुंसां ||
संगौषधं हि सन्तः कृतकृत्योऽयं प्रभोर्यतः संगात् || १७४ ||
अथ विनयेन कृतांजलिमेनं प्रभुरादरात्समालिंग्य ||
स्वयमनुजग्राह वरान् वचसा मधुरेण चेतसा सदयं || १७५ ||
चेतःशुद्धिः शंकरे भक्तिनिष्ठा ज्ञानस्थैर्यं योगसिद्धिः समग्रा
||
वांच्छासिद्धिः कायसिद्धिर्गुरूणां कारुण्याप्तिः सन्तु ते सिद्धराम ||
१७६ ||
इत्यल्लमप्रभुवरे कृपयेष्टसिद्धीराज्ञापयत्यवनमयय शिरोऽथ रामः
||
बाढं कृतार्थ इति सौख्यसुधांबुराशौ मन्नो बभूव
परिपूर्णशिवैक्यभावः || १७७ ||
इति सकलमुनींद्राः सिद्धरामस्य चित्रं चरितमभिहितं वः
श्रोत्रभीष्टार्थदायि ||
पृ० ९६) इह मुदितमनस्का ये पठन्त्यामनन्ति प्रभुरधिकमभीष्टं
सिद्धिसौख्यं ददाति || १७८ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां सिद्धरामोपदेशगतिर्नाम त्रयोदशोऽध्यायः ||
पृ० ९७) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ चतुर्दशोऽध्यायः
श्रीवीरेश्वरसिद्धदेशिकमहासम्राड्पदांभोरुह-
ध्यानासक्तहृदंबुजाश्चरगुरुश्रीलिंगपूजारताः ||
संदष्टेंद्रियदुर्विकाररहितास्सद्भोगमोक्षार्थिनः
पुण्या भक्तगणाः प्रमादरहिताः शृण्वन्तु लीलां प्रभोः || १ ||
सद्भक्तिं बसवाधिपस्य बहुशः श्रुत्वा सुधीभ्यः प्रभु-
स्संतुष्यान्तरचिंत्यवैभवघनस्तं द्रष्टुमुत्कंठितः ||
निर्यन् स्वर्णलिकापुरान्निजपदश्रद्धान्वितेनान्वितो
रामेणाथ ययौ तदीयनगरं कल्याणनाम्ना श्रुतं || २ ||
मध्येमार्गमनर्गलार्ककिरणैरप्राप्यगर्भस्थला-
नारामान्पनसाम्रपूगकदलीजम्बीरजंबूवटैः ||
तालाशोककपित्थपाटलमुखैरन्यैरनन्योपमान्
वापीकूपसरांसि च प्रतिपदं कुल्याश्च पश्यन्ययौ || ३ ||
पृ० ९८) क्रीडोद्यानतटाकपुष्करनदीशालीक्षुरंभावली-
र्जाजीकुंदकुरंटकादिसुमनोवाटीः पृथक्कल्पिताः ||
रुदाक्षागरुनारिकेलबदरीखर्जूरवाटीः पुनः
पश्यंच्छीतलचंदनाद्रिमरुतां व्रातैर्ययौ सेवितः || ४ ||
मार्गे मार्गे पुष्पवाटीषु वाताः पांथश्रान्ति वारयन्तः समंतात् ||
सेवन्ते स्म स्वामिनं श्रीगुरूणां मंदं मंदं स्वागताश्चंदनाद्रेः
|| ५ ||
कस्तूरीभिर्लिप्तवेदिस्थलानि स्वादूशीरैः कल्पितैः कायमानैः ||
रम्याणि स्युस्तत्र चित्राणि मार्गे पांथस्वान्तानंदसंधायकानि || ६ ||
मध्ये मध्ये धर्मशाला विशाला मार्गस्थानां सन्निवेशाः प्रदेशाः ||
स्थातुं योग्याः षड्रसान्नादिपूर्णा रेजुश्चित्रं सत्रशालाः प्रपाश्च
|| ७ ||
बालानां नवनीतदुग्धकलशैर्डोलाशतैः पालिका
याश्शालाः शिशुकान्प्रपोष्य सुखितान्कृत्वाऽथ तत्र स्वयं ||
भुक्त्वाऽभीष्टरसायनान्नममलं पानीयमास्वाद्य
तत्पर्यंकेषु महाटवीषु च सुखं संविश्य पान्थाः स्थिताः || ८ ||
प्रातः संगवमध्यसायसमयेष्वन्तस्तथा रात्रिषु
प्रीत्याह्वानरवास्सदाऽतिथिगणानव्याजमैत्रीजुषां ||
पृ० ९९) प्रभुकृतबसवेशपालितदेशवर्णनम् |
अश्रूयन्त वने वने प्रतिपदं भुक्त्यर्थमिष्टाशनै-
स्सन्तुष्टानुपचारवाऽऽन्मधुरिमा नो शक्यते भाषितुं || ९ ||
आहो श्रीबसवेशभाग्यमहिमाधर्मस्वरूपः स्वयं
भूत्वा भूमितले कलिं परिहरन् कृत्वाऽदिमं सद्युगं ||
पुण्यात्मा निजपादपद्मभजनान्निर्धूतदोषात्मनां
सर्वेषामुभयत्र सौख्यकलनां सद्यः स्वयं यच्छति || १० ||
इत्यागन्तुकवाग्धुनीमनुपमां शृण्वन्प्रभुः सर्वगः
पश्यंस्तद्बसवेशधर्मविभवं नेत्रोत्सवं भावयन् ||
वाण्यानंदसमग्रया शुभगुणांस्तस्याधिकं वर्णयन्
हा हा श्रीबसवेशदिव्यमहिमेत्यत्यादरं तुष्टुवे || ११ ||
आनंदात्प्रभुरस्य कीर्तिमतुलां गायंच्छिरःकंपनै-
रालप्यानुभवादिवाथ रचयन्नाट्यं समन्तात्स्तुवन् ||
रामं प्रत्युपपादयन्ननुपदं मत्तोऽधिको भक्त
इत्याहो श्रीबसवेशभक्ततिलकेत्यन्तः परं तुष्टुवे || १२ ||
भक्तानां महिमा पितामहमुखैर्नो वर्णितुं शक्यते
किंचिन्नांतरमस्ति भक्तशिवयोर्भक्तोऽधिको वा शिवात् ||
पृ० १००) भक्तानामपि मुक्तिदः स्वयमयं सच्चित्सुखात्मा यतो
धर्मः श्रीबसवेश्वरोऽखिलगुरुर्वेदान्तकल्पद्रुमः || १३ ||
स्वाम्येवं बसवेशभक्तिमतुलां रामाय संबोधयन्
कल्याणालयमाजगाम नगरं कल्याणनाम्ना श्रुतं ||
तत्प्राकारबहिःप्रदेशनिकटे क्रोशद्वयीमात्रतः
सांद्रास्तत्र ददर्श रम्यसुमनोवाटीः समन्तात्प्रभुः || १४ ||
तद्गारुत्मतरत्नकुट्टिमतलान्याकीर्णमुक्तामणि-
श्रेणीतुल्यमशोकपादपगलत्पुष्पोज्वलानि प्रभुः ||
किंचानंगनिषंगरंगदतुलस्निग्धाम्रमालूरस-
न्मंदारप्रमुखानुदारविटपिस्तोमान्ददर्शाल्लमः || १५ ||
चित्रं तत्र जगाम स त्रिभुवनश्रीदेशिकेंद्रः स्फुटं
कल्याणोपवने द्विजैः शुकमुखैस्सर्वागमान्तःस्थितैः ||
नादब्रह्मपरं गृणद्भिरुदितान्याकर्णयन्नीश्वर
श्रीशंभो शिव शंकरेति सततं प्रोच्चस्वरैः सर्वतः || १६ ||
गन्धाकर्षणचातुरी न भवतां किं गंधवाहत्वमि-
त्याक्रोशत्स्विव झंकृतैरलिगणेष्वानंदसंधायिनः ||
आकृष्टाखिलपुष्पसौरभघनाः कर्पूररंभावटा-
पृ० १०१) कल्याणनगरवर्णनम् |
स्तत्राध्वश्रमपश्यतोहृतिचणाश्चेरुर्मरुड्डिंभकाः || १७ ||
पदे पदे योगमठा हठार्थिनां मठे मठे शिष्यगणा गुणाधिकाः
||
गुणे गुणे शांभवशास्त्रचिंतना प्रभोरतन्वन्नधिकं मुदं हृदः ||
१८ ||
समस्तकल्याणनिधानमीदृशं दृशाऽनुजग्राह जगद्गुरुः स्वयं ||
प्रभुः स कल्याणपुरं पुरंदरत्रपाकरं प्रोन्नतहेमगोपुरं || १९ ||
विशालशालोन्नतिमस्य भानुमद्रथाश्वमुख्याः प्रविदन्ति नेतरे ||
द्विषन्मृगस्तोमभयंकरायते यदुज्वलद्व्याघ्रमुखाख्यगोपुरं || २० ||
हरस्य वास्तव्यगृहायते पुरं यतः सुराद्रिः शिवदर्शनोत्सुकः ||
समागतस्तिष्ठति हाटकोज्वलत्कवाटसौधोन्नततोरणच्छलात् || २१ ||
प्रविश्य तद्द्वारमतीत्य तद्गणं सुवक्रधारावलयैर्विशंकते ||
जनः पुनर्निष्क्रमणाय शीलितोऽप्यहो नवीनः किमु तत्प्रवेशने || २२ ||
पृ० १०२) न पण्यवीथीगणभाग्यवैभवं बृहस्पतिर्वर्णयितुं क्षमो
भवेत् ||
यदुद्यदभ्रंकषरत्नराशयो हसन्ति मेरुं गिरिशेन कुंचितं || २३ ||
युगः कलिर्येन कृतः कृताह्वयः पुरं चिरं तद्बसवेन पालितं ||
न वर्णितुं शक्यमहो महीशितुः सुभक्तिनिष्ठेव तदाकृतिः स्फुटं ||
२४ ||
न हि प्रवेष्टुं परवादिभिः क्षमं परैश्च यत्तत्परिखा दुरत्यया ||
महोत्पलं तत्र च पंकजायितं रसातलस्त्रीकुचयक्षकर्दमैः || २५ ||
राजन्ते बसवेंद्रचातकमुखे सौख्याप्तये वर्षितुं
सत्कारुण्यरसं प्रभुर्घनतरः सोऽयं समायास्यति ||
द्रष्टुं तत्र विमानपंक्तिरमरैस्संप्रेषितेतीव त-
त्पुर्यट्टालकपर्वतेषु परितश्चैत्यानि हैमान्यहो || २६ ||
वादार्थागतबादरायणमधः कुर्वन्ति तत्र द्विजा
राजानो न हि रूढितो रिपुजयं युद्धेष्वकृत्वा पुनः ||
वैश्यास्तु व्यवहारभारसमयेऽप्यव्याकुला धर्मत-
स्सर्वेऽन्येऽपि च शूद्रकादिनिवहा न्याये स्वके निष्ठिताः || २७ ||
पृ० १०३) बसवालयं प्रति प्रभोरागमनम् |
मातंगाश्वजवः पुरे गणयितुं न ब्रह्मणा शक्यते कामो वेत्ति
पटुस्तनोन्नतिमतीं बिंबाधरीणां द्युतिं ||
सर्वत्र व्रतनिष्ठया नियमिनां सज्जंगमानां
गृहाण्यावासाशनदाननिर्जितमहामेरूणि चारूण्यभुः || २८ ||
तत्पत्तनं निजपदांबुजघट्टनेन चित्रं पवित्रितजगत्त्रितयो विवेश ||
स्वाम्यल्लमस्तत इतश्चरणांगुलीषु विन्यस्तमस्तकसमस्तजनः कृपावान्
|| २९ ||
घंटापथे परमजंगमलिंगमूर्ते रामस्य हस्तमवलंब्य महानुभावः
||
आगत्य तद्बसवगेहसमीपशालामभ्याययौ सविनयं भजमानभक्तः || ३०
||
तद्द्वारमण्डपगतौ प्रभुसिद्धरामावालोक्य तावमनुताखिलयोगिवर्गः ||
नत्वा शिवः सगुणनिर्गुणरूपधारीत्यत्रागतः प्रथयितुं
बसवेंद्रभक्तिं || ३१ ||
अत्रांतरे हठपदार्पणनामधेयो भक्ताग्रणीः प्रभुमवंक्ष्य
तदंघ्रिमौलिः ||
गत्वा व्यजिज्ञिपदमुं बसवेश्वराय लिंगार्चनैकरतये गणसंघमध्ये
|| ३२ ||
पृ० १०४) श्रुत्वाऽल्लमं स्वगृहमागतमार्यमिश्रो
ब्रह्मावलोकनसुधांबुनिधौ निमग्नः ||
साक्षादमन्यत शिवं करपीठपूजासंतुष्टमागतममुं
चरलिंगमूर्त्या || ३३ ||
प्रोवाच तं बसवमंत्रिवरोऽर्पणार्य साक्षात्सदाशिवगुरुः
प्रभुलिंगमूर्तिः ||
अत्राऽऽगतः करुणयैव वयं कृतार्थाः शीघ्रं प्रयाहि तमिहानय
देशिकेंद्रं || ३४ ||
श्रुत्वा वचो हठपदार्पणभक्तमौलिस्तस्यागतः प्रभुमणिं
रचितप्रणामः ||
भक्त्या व्यजिज्ञिपदमुं शरणार्थितोक्त्या स्वामिन् विशांतरिति तं
पुनराह देवः || ३५ ||
क्वान्तः क्व वा बहिरहो सकलात्मभावसंतुष्टनिर्मलधियां
शरणोत्तमानां ||
नास्माकमागमनमौपयिकं प्रभूणां लोकाभिमानबहुता महतां
गृहाणि || ३६ ||
आकूतगर्भितमिदं वचनं निशम्य च्छेकोर्पणः सविनयं
भयभक्तिनम्रः ||
स्थित्वा स्वयं सविध एव गुरूत्तमस्य संप्रेष्य तत्स बसवं त्वरितं
चकार || ३७ ||
लिंगार्चनं लघुतया सुसमाप्य विद्वानुत्थाय तत्र बसवो
भयकंपितांगः ||
पृ० १०५) प्रभावपराधिनो बसवस्य माचयस्य चोक्तिप्रत्युक्तिः |
चिंतां चकार हृदि हा विधिदुर्विपाकाद्गर्वांधतामनुगतोऽस्मि
कृतापराधः || ३८ ||
यद्वा पुनः किमपि वक्तुमनास्तदन्यद्वक्ताऽस्मि किं विकलितो गुरुभक्तियुक्त्या
||
हा हाऽल्लमप्रभुवरो मम देशिकेन्द्रो नांगीकरोति सदनं सदयं
प्रवेष्टुं || ३९ ||
भक्तिर्गता क्व नु ममाऽद्य जगद्गुरूणां जाता मनस्यरुचिरित्थमहो मयीति
||
चिंताविलं बसवमंत्रिवरं समीक्ष्य जानश्नुवाच हृदयं
मणिवालभक्तः || ४० ||
अत्रागतः करुणयाऽल्लमदेशिकेन्द्रो भक्तावनैकचतुरः स्वयमेव साक्षात्
||
विज्ञाय चैवमधुना बसवार्य तूर्णं प्रत्युद्गमं न
कृतवान्यदयुक्तमेतत् || ४१ ||
तं प्राह सोऽथ बसवो मणिवालसूरे भो माचयार्य वचनं तव सत्यमेतत्
||
मद्रीतिरब्धितरणोद्यतसाहसिक्ये विस्मृत्य देहमविचालितपाणिकल्पा || ४२ ||
नष्टं विवेकनयनं दुरदृष्टतम्या प्रत्युद्गमं न कृतवानविलंबितं
यत् ||
क्रुद्धे शिवे गुरुरवत्यभवो न रक्षेत्क्रुद्धे गुरौ तु शिव एव गुरुस्तु सोऽयं
|| ४३ ||
इत्थं ब्रुवन्सभयसंभ्रमवेपमानस्सर्वैर्गणैः प्रभुसमीपमुपेत्य
साकं ||
स्वामिन् क्षमस्व करुणांबुनिधेऽल्लमेंद्र श्रीमद्गुरो प्रभुवरेति पदोः
पपात || ४४ ||
पृ० १०६) सर्वापराधकृतमेनमनाथबन्धो
नाघ्रातशास्त्रनिगमागमगंधलेशं ||
दीनं भवत्पदयुगं शरणं प्रपन्नं मां पाहि पाहि दयया
जगदेकवंद्य || ४५ ||
अज्ञानसागरगतोऽयमहं विशुद्धविज्ञानरत्ननिधिरेष भवान्महात्मा ||
विश्वस्य रंजकतयाऽहमिह प्रवृत्तस्त्वं निर्मलात्मघन एष निरंजनोऽसि
|| ४६ ||
सोऽहं पशुः पशुपते भवपाशबद्धः पत्युर्हि निघ्नमवनं
त्रिजगत्पशूनां ||
आलोकितुं मम गुणानलमार्तबन्धो रक्ष त्वदीयगुणमद्य गुरो वितीर्य ||
४७ ||
इत्थं स्तुवन्स बसवोऽल्लमपादपद्मद्वंद्वे पतन्निजगणैस्सह नोदतिष्ठत्
||
स च्छन्नवीरबसवः समये विधिज्ञो विज्ञापनां समतनोत्प्रभवे
प्रभूणां || ४८ ||
पुत्रेषु कुत्र जननीजनकौ जगत्यामागस्विषु प्रतिपदं त्यजतः कृपां
तां ||
माता पिता गुरुरधीश्वर इष्टबन्धुर्दाता त्वमेव बसवस्य
सदाऽल्लमेंद्र || ४९ ||
तस्मादमुष्य जगदेकगुरोऽपराधान्सर्वान्क्षमस्व कृपयेति स भक्तिनम्रः
||
पृ० १०७) प्रभोः पुरतः माचयार्यकिन्नरार्ययोः प्रार्थना |
पादाभिषेचनविधिं प्रमदांबुपूरैरोमांचकंचुकितसर्वतनुश्चकार ||
५० ||
अत्रान्तरे स मणिवालकमाचयार्यो दंडप्रणामशतकैः प्रभूमर्चयित्वा
||
भक्त्या व्यजिज्ञिपदमुं बहुयुक्तियुक्तं मौलौ कृतांजलिपुटो
महनीयवाचा || ५१ ||
युद्धे परित्यजति चेत्करलाघवं तद्दोषाय साधनचणः सुगुरोः पुरस्तात्
||
अभ्यासदार्ढ्यसमये खुरलीगृहान्तर्भ्रंशे तु बोधनममुष्य गुरोर्हि
युक्तं || ५२ ||
बालो हि देव बसवः किल भक्तिमार्गे युष्मद्बलं समवलंब्य पटुः
प्रवृत्तौ ||
ज्ञानक्रियाविमलभक्तिपथान्प्रबोध्य भक्तावमुं स्थिरयितुं भवतां हि
भारः || ५३ ||
इत्थं प्रवक्तरि गुरोर्धुरि माचयार्ये तत्रान्तरे
सकलभक्तगणाभिनंद्यः ||
विज्ञप्तिमाचरदमुं प्रति किन्नरार्यः सर्वेश्वरं
प्रभुमथाल्लमदेवदेवं || ५४ ||
यन्निश्चयो निजतनुस्तनुरित्यजस्रं लिंगस्य तद्वदपि जंगम एव जीवः ||
स्वस्येति तस्य बसवस्य भवत्पदाब्जद्वंद्वस्य न क्वचन भेदकथा प्रभो
स्यात् || ५५ ||
स्वामिंस्तथापि यदि तत्र भवान्यतेथाः भक्तिं परीक्षितुममुष्य
दृढां त्वमित्थं ||
पृ० १०८) तत्कारणं भवदमोघकृपार्द्रदृष्टेर्हैन्यं न जातु बसवस्य
जगद्धितार्थिन् || ५६ ||
बालस्य देव जननी हनुताडनेन भूयोऽपि पाययति किं न पयस्तदस्य ||
संरक्षणाय न भवेत्किमु तद्वदेषा शिक्षाऽपि रक्षितुममुं
निजभक्तिदार्ढ्यात् || ५७ ||
विज्ञापयत्यथ गुरुं प्रति किन्नरार्ये सर्वे गणास्तमनुसृत्य
कृतप्रणामाः ||
विन्यस्तमस्तकनिजांजलयो विशुद्धाः प्रस्तावयोग्यवचनं
बभणुस्तमीशं || ५८ ||
आम्नायशास्त्रनिगमागमसंहिताद्या विद्या भवत्पदयुगं न विदन्ति
साक्षात् ||
ज्ञातुं तथा न मुनयो मनवो महत्वं कारुण्यलेशमपहाय गुरोः
समर्थाः || ५९ ||
ये तर्ककर्कशविवादचणा भवन्तं ते शक्नुवन्ति न करस्थमपि गृहीतुं
||
यत्रास्ति भक्तिरमला परमेश्वरस्य तत्रैव तिष्ठति भवानतिगोप्यरीत्या
|| ६० ||
सांख्याः प्रधानमिति योगचणाः पुमानित्याम्नायिनो नियतिरित्यथ
पांचरात्राः ||
वैकुण्ठ इत्यभिदधत्यखिलागमान्तसिद्धान्तसारहृदयास्तु शिवं
भवन्तं || ६१ ||
पृ० १०९) प्रभोः पुरतः सिद्धरामस्य प्रार्थना |
तादृग्विधः सकलकारणमीशिता त्वं यन्निर्गुणोऽपि गुणवानिव
शुद्धसत्वः ||
भूमाववातर इदं बसवार्यमौलेस्संरक्षणाय खलु लोकगुरो महात्मन् ||
६२ ||
स्तुत्वैवमीश्वरगणेषु नतोत्तमांगेष्वंगानुषंगिपुलकांकितकंचुकेषु
||
रामः प्रणम्य वचनं विनयाभिरामः प्राहाल्लमप्रभुवरं
प्रकृतोपयुक्तं || ६३ ||
लोके समस्तनिजभक्तगणावनाय धृत्वा स्वयं सुलभजंगमलिंगलीलां
||
आगत्य राजसपराजिततेजसामप्यस्मादृशां विमलबोधपदप्रदोऽसि || ६४ ||
युष्मत्पदैकशरणांच्छरणानमूंस्त्वं संरक्षितुं किल समागतवान्
दयालो ||
भूयस्तवास्य बसवेश्वरभक्तिनिष्ठा न्यूनातिरेकगुणदोषकथा कथं
स्यात् || ६५ ||
मानावमानसुखदुःखगुणागुणाद्यं यन्नास्ति देव तव सर्वविकल्पजालं
||
तस्मादनेन नटनेन किमेनमेनः संक्षाल्य देव बसवं परिपाहि भक्तं
|| ६६ ||
नाहं ब्रवीमि बसवादितरत्र किंचित्क्षन्तव्यमाग इति तत्पदयोः पपात ||
उत्थाप्य पाणिकमलेन स सिद्धरामं प्राहाल्लमप्रभुवरः
पशुपाशहन्ता || ६७ ||
पृ० ११०) राम त्वया न विदितं जगतीह भक्तैर्विक्रीयतेऽन्यदपरं
ग्रथितं हि कक्षे ||
वाचा वदन्ति परमार्थपदानि किंचिन्नैवाचरन्ति वचनार्थसमं स्वयं तु
|| ६८ ||
आर्याः किमप्युपदिशन्ति गृहं प्रयाते यज्जंगमे सविनयं तमनर्चयन्तः
||
यत्नेन केवलकरस्थितलिंगपूजां भक्तिच्छलेन कुरुतेति विरुद्धबोधान् ||
६९ ||
वाचं निशम्य बसवो जगदेकबंधोर्भक्त्या गृहीतचरणः शरणं
भवेति ||
प्रोवाच देव भवतामवतारलीला भक्तावनाय खलु संप्रति बद्धदीक्षा
|| ७० ||
मायां विधूय भवता परिपालितोऽभूद्गोगः कृषीवलतया किल गां गतो
यः ||
आयासकृत्यमपहाय बभूव गोगो लक्ष्यं गतः शिवपुरात्पृथिवीं
गतोऽपि || ७१ ||
मुक्ताययपाकृतजगद्विषयात्मबोधान्मुक्ताऽभवत्किल भवत्कृपयैव देव ||
एषोऽपि रामशरणः समताप्तजीवन्मुक्तिः समाहितमतिः समभूत्त्वयैव
|| ७२ ||
इत्थं त्वन्महिमानुभावमतुलं श्रुत्वाहमुत्कंठितो
भक्तेभ्यः क्व नु वागमिष्यति गुरुर्मुक्तोऽखिलैः संशयैः ||
जीवामि क्व नु तत्कृपामृतरसैरित्यंबुदं चातकः
पृ० १११) प्रभुं प्रति श्रीबसवेशप्रार्थना |
पक्षीव स्पृहया स्थितोऽद्य भवतः पादाम्बुजं दृष्टवान् || ७३ ||
कारुण्येन समेत्य मामिह यदि श्रीमान्परित्यक्ष्यसे
का वा मेऽत्र गतिर्विचित्रमहिमन् किं स्पर्शवेधीरसः ||
संपश्यत्ययसो गुणं मम तनुः सर्वापि राशीकृता
दोषैः किं शितिमास्ति वा मृगयितुं पिण्याकशाके प्रभो || ७४ ||
मा निंदन्त्वथ ताडयन्तु बहुलं कुप्यंतु वा संप्रति
श्रीमत्पादयुगं त्यजामि न कदेत्यानन्दबाष्पोद्गमैः ||
च्छन्नश्रीबसवेन वीरबसवं पादौ गृहीत्वा दृढं
भक्तैरप्यखिलैः स्तुवन्तम धिकं प्रोवाच देवोऽल्लमः || ७५ ||
वाक्येषु स्फुटमीक्षितेऽत्र भवतां भक्तिर्न वृत्तौ क्वचि-
त्तत्साम्यं न हि यत्र वर्तनवचः सद्भावनासु स्थिरं ||
तत्र क्वापि च न प्रसीदति शिवो युष्मादृशां भक्तित-
स्साक्षी सर्वजगद्गुरुस्सहि सदा सर्वान्तरंगस्थितः || ७६ ||
इत्युक्त्वोपरतं प्रभुं स बसवो भक्ताश्च संतुष्टुवुः
स्वामिन् सत्करुणारसार्द्र भगवन्भक्तिं स्थिरां देहि नः ||
संप्राप्तुं गुरुलिंगजंगमकृपां तत्कीलकानुग्रहा-
दस्मानद्य कृतार्थयोपदिश नः शैवं रहस्यं गुरो || ७७ ||
पृ० ११२) प्रभुरिति बसवेशप्रार्थनां निश्चितार्थां
सकलजनहितार्थं स्वात्मनीनां निशम्य ||
सदयमथ तदीयस्वस्तिकान्तः प्रवेष्टुं
सकरुणमुपदेष्टुं स्वान्तरंगीचकार || ७८ ||
इति कथितमृषीन्द्रास्साधुकल्याणपुर्यां
प्रभुचरितममोघं सर्वकल्याणहेतुं ||
पठति परमभक्त्या यः शृणोति प्रभाते
प्रभुरधिकममुष्मै भोगमोक्षौ ददाति || ७९ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
प्रभुकल्याणागमनबसवसंदर्शनतदनुग्रहौन्मुख्यप्रतिपादनगतिर्नामच
तुर्दशोऽध्यायः ||
पृ० ११३) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ पंचदशोऽध्यायः |
सूत उवाच-
श्रीसिद्धेश्वरपादसेवनरता लिंगैक्यनिष्ठापरा
बाह्यान्तःकरणप्रचाररहिताश्शेषप्रसादार्थिनः ||
मौनींन्द्राः प्रभुलिंगमूर्तिमुरलीश्रीशंकरब्रह्मणो-
स्संवादामृतदिव्यशांभवकला लीला प्रभोः श्रूयतां || १ ||
स्थित्वाप्यस्थिरतां गतं स्थिरंहृदं भूत्वा भवं कारणं
गत्वा चाप्यगतं पवित्रचरितं व्याप्यं पुनर्व्यापकं ||
भक्तानां सुलभं तथाप्यसुलभं तं देशिकेंद्रं प्रभुं
स्तुत्वाऽन्तर्गृहमल्लमं स बसवः प्रावेशयद्भक्तितः || २ ||
भक्तिं भावयतां मनस्सु बसवस्यानादिसिद्धां स्थिरां
भक्तानां प्रगुणैर्गणैः परिवृतः कक्षान्तरं प्राविशन् ||
तत्रापश्यदसौ प्रसादविलसत्कुंडाख्यवाप्यास्तटे
तिष्ठन्तं मुरलीरवश्रुतिकलासंधायिनं शंकरं || ३ ||
सारे प्रसादकुण्डस्य तीरे परमपावने ||
पृ० ११४) दूरे दुरितगन्धस्य य आस्ते भवनाशने || ४ ||
तं दिव्यमूर्तिं दलिताखिलार्तिं महाप्रभावं परमैक्यभावं ||
प्रभुश्चिरं शंकरसिद्धवर्यं मुमोद पश्यन्मुरलीविधिज्ञं || ५ ||
सर्वं जगन्मरुसमं हृदि लाति योऽयं तद्वन्मृषामरुमरीचिवदार्यवर्यः
||
के चित्ततो मरुलशंकरदेवनामेत्याचक्षते तमथ लोकगुरुर्ददर्श || ६ ||
तं दिव्यपुरुषरत्नं यत्नात्प्रभुरीक्ष्य हर्षभरितोऽभूत् ||
सोऽपि माहत्मा चाल्लममवलोक्य पदाम्बुजं हृदा दध्यौ || ७ ||
उत्थाय योगपीठाद्भयभक्तिभ्यां समीपमागत्य ||
दण्डप्रणाममकरोत्प्रभुपदयोर्मरुलशंकरो योगी || ८ ||
स्तुत्वाऽथ सिद्धरामं प्रति शरणार्थ्यहमिति ब्रुवन्विनयात् ||
शृण्वत्सु निखिलभक्तेष्विदमूचे प्रभुमुदारधीर्मरुलः || ९ ||
अद्य श्रीगुरुमूर्तिमाहतरजःस्फूर्तिं श्रुतिख्यातस-
त्कीर्तिं निर्गतजूर्तिमाश्रितमनःपूर्तिं समस्तार्तिहं ||
अस्मत्कल्पतरुं जगत्त्रयगुरुं श्रीमत्प्रभुं दृष्टवा-
नाहो निर्गलितापवर्गसरणौ भ्रान्तिर्ममात्यन्तिकी || १० ||
पृ० ११५) श्रीसिद्धरामं प्रति प्रभुकृतमुरलीशंकरमाहात्म्यम् |
इत्युक्तं प्रभुराकलयय वचनं प्रोचे पुनः शंकरं
त्यक्त्वा ब्रह्मकपालमैंदवकलां वैयाघ्रचर्मांबरं ||
भोगीन्द्राभरणं मृगं डमरुगं साक्षात्कृतं शंकरं
वेद्मि श्रीमरुलाभिधानपिहितं त्वामेव सच्चिद्धनं || ११ ||
रामं प्राह तदाऽल्लमः शृणु सखे साक्षादयं शंकरो
नैनं वेद महान्तमेष बसवो नित्यं स्वगेहे स्थितं ||
भक्तिज्ञानविरागपूर्णकलशस्सोऽयं प्रसादाव-
धान्येषः श्रीगुरुरीश्वरो विजयते गूढः क्षितौ पर्यटन् || १२ ||
रूपं शब्दरसौ च गन्धमतुलं स्पर्शं च तैरिंद्रियैः
पंचैताननुभूयमानविषयानिच्छानुभूतिं विना ||
एष स्वानुभवैकनिश्चलधिया लिंगार्पितान्भावय-
न्पूर्णात्मा कुरुते प्रसादभजनं नित्यावधानो गुरुः || १३ ||
बाह्याचारपरैरगम्यमहिमा क्षीरेषु सर्पिर्यथा
सोऽयं भाति तिलेषु तैलवदहो लोको न जानात्यमुं ||
यो वा कोऽपि जनो विनैव मथनं भक्ता हि नैतादृशा
पृ० ११६) ज्ञायन्ते परितश्चरंति धरणावुन्मत्तवन्मूकवत् || १४ ||
सन्त्येके बहवः स्वभूषणपरा ये वेषभाषान्विता
लोके स्वोदरपूरणैकनिरताः कापट्यधौर्त्योदिताः ||
प्रायस्तानधुनाऽर्चयंति न मुनीन् विज्ञानिनो दांभिकाः
पूजाडंबरता हि तामसधियां नान्तर्विशुद्धिर्नृणां || १५ ||
केनेशानमुपास्यतामिह पथा वर्तेत मुक्तिः करे
संपद्येत कथं नु साधकतमा सा सावधानस्थितिः ||
इत्थं हृद्यविचार्य भक्तिसरणिं सर्वाधिकां प्रेप्सतां
रीतिः सागरशैवलोपरि पदं न्यस्येव पारं गतिः || १६ ||
रजस्तमोवृत्तिसरूपभाजश्चरभ्रुवास्तीर्णभवाः कथं स्युः ||
कथं गुणान्वाऽथ तनोस्त्यजन्ते न नाममात्राच्छरणः शरण्यः || १७
||
इति ब्रुवन्तं प्रभुदेवदेवं स सिद्धरामो विनयादुवाच ||
प्रभो समाराधयितुं विदित्वा वयं विमूढाः कथमीश्महे त्वां || १८
||
पशून् भवन्तं कारणं प्रपन्नाननुग्रहीतुं बिरुदस्त्वदीयः ||
पृ० ११७) मुरलीशंकरविषये प्रभुसिद्धरामयोस्संलापः |
तमेव गर्भाकृतसर्वमन्तोर्विचार्य नः पालयितुं तवार्थः || १९ ||
भवत्कृपालाभकथैव निष्ठा भवेद्गरिष्ठा नियमव्रतानां ||
त्वदीयकारुण्यविहीनजन्तोस्समस्तपुण्यानि च नो फलंति || २० ||
स्वयं निजानंदरसैकपूर्णं हृदन्तरस्थाननटन्महेशं ||
बहिः सदोन्मादिवदेव लक्ष्यं कथं वयं स्मो मरुलं प्रबोद्धुं || २१ ||
मरुलब्रह्ममहत्वं परिशीलयितुं क ईशते मनुजाः ||
हरिदश्वकिरणसरणिं कथमिव घूका निरीक्षितुं शक्ताः || २२ ||
अथ सिद्धरामवचनं प्रभुराकलयन्पुनः स्मयन्नूचे ||
रामार्य साधु सूक्तं भवता भवतापहारिणा भजतां || २३ ||
आगत्य सहाऽस्माभिर्लब्ध्वाप्यस्मच्छिवैक्यविज्ञानं ||
त्यक्त्वाऽस्मद्वाग्रीतिं दृढसमरसभक्तिमेव बध्नासि || २४ ||
दृढभक्तिबंधनिपुणो मामनुकूलयसि युक्तियुक्तपदैः ||
समता समाधिसरणिस्फुरणं तव जातमेतदेव वरं || २५ ||
ग्राह्यं हि युक्तियुक्तं वचनं बालेन भाषितं वाऽपि ||
पृ० ११८) त्वमधीतसकलतंत्रो मम हि स्पृहणीयवाक्यसारोऽसि || २६ ||
रामः प्रभोरुदारामर्थगभीरां गिरं समाकर्ण्य ||
तच्चरणनिहितनिटिलो भयविनयाभ्यां व्यजिज्ञपद्देवं || २७ ||
प्रभुसार्वभौम मामिह गौरवसारेण पातयन्नित्यं ||
किमिति प्रभूषयस्यलमाश्रितमेनं कृपानिधे पाहि || २८ ||
महिमाऽस्य मरु?शंकरयतिराजन्यस्य देवमान्यस्य ||
श्रवणामृतायमानो भवता गुरुनाथ वर्ण्यतां तावत् || २९ ||
इति विनयावनतं तं पतिरिदमूचे जगद्धितं वचनं ||
शृणु सावधानहृदयो मरु?आर्यस्यास्य दिव्यमहिमानं || ३० ||
जानामीति ज्ञानमुत्सार्य बाह्यं ज्ञानान्तस्थं ज्ञानमेनं निबोध ||
प्रत्यग्दृष्टिः प्रत्ययौघे विलीने यस्य स्थैर्यं यात्यहो नित्यलिंगे || ३१
||
ऐक्यं यो यातीष्टलिंगेन साकं दृष्ट्या स्थैर्ये ज्ञानमयया य ईष्टे
||
जन्मस्थानं शांतिदांत्योस्तमेनं विद्धि भ्रान्त्युच्चाटने धीरचित्तं ||
३२ ||
क्रीडोद्यानं शैवधर्मोत्कराणां स्वांगैः श्रीलिंगप्रसादावधानी
||
हिंसाभीत्या कुक्षिपूर्त्युद्यमांस्तांत्सर्वांस्त्यक्त्वा मौनमुद्रां
दधाति || ३३ ||
पृ० ११९) मरु?शंकरविषये प्रभवे बसवेशवचनम् |
गत्वा नित्यं जंगमाराधकानां लिंगश्रीगुर्वर्चकानां गृहाणि ||
भुक्त्वा तेषामेष शेषप्रसादं धत्ते देहं तुल्यधीर्लोष्टहेम्नोः || ३४
||
हैन्यं दैन्यं क्वापि वा नास्त्यमुष्मिन् कामक्रोधौ स्थातुमारादशक्तौ ||
धत्ते सोऽयं प्रातिशौक्र्यं मदास्थाव्यामोहानां लोभमात्सर्ययोश्च || ३५
||
कौत्सित्योद्यद्वृत्तिसन्तानपालेर्मूर्धांगोद्यत्प्रोच्यपाषाणपातः ||
सिद्धोऽयं सर्वांगलिंगप्रसादी नैनं किंचिद्वेंद्रियार्थाः स्पृशन्ति
|| ३६ ||
इत्थं प्रभौ सपदि वक्तरि सिद्धरामं श्रुत्वा सुविस्मितमना
बसवाधिनाथः ||
निध्याय तं मरु?शंकरमल्लमेंद्रं प्रत्याह तत्र
भगवान्परमार्थदृष्टिः || ३७ ||
यद्वद्विवस्वदुदये कमनीयरत्नच्छाया दृशोऽपि सविशेषतया प्रसर्पेत् ||
तद्वद्भवच्चरणदर्शनलब्धपुण्याद्देदीप्यमानतनुमेनमपश्यमार्यं ||
३८ ||
पश्यामि शंकरमुनिं त्रिविधप्रसाददीक्षाधुरंधरममुं
करुणापयोधिं ||
पृ० १२०) यद्येव देव भवदीयकटाक्षदृष्ट्या सोऽहं कृतार्थतम एव
महानभूवं || ३९ ||
इत्युक्तवन्तमथ तं बसवं जगाद देवोऽल्लमः श्रुणु सखे बसवार्य
विद्वन् ||
भक्तो भवादृगिह कुत्र च नास्ति लोके मत्तोऽधिकस्त्वमसि भाग्यनिधे
महात्मन् || ४० ||
चित्तं परीक्षितुमियत्समयं मया त्वं नानाप्रकारवचनैरवमानितोऽसि ||
आहो तथाऽपि न चलत्यणु वा त्वदीयं चेतो मरुत्प्रसरणैर्मणिदीपिकेव ||
४१ ||
उच्छ्रुंखलानि वचनानि मयैव तावत्त्वामीरितानि न भवान् प्रतिवक्ति किं
चित् ||
दान्तिक्षमाधृतिदयाशमसौमनस्यविज्ञानभक्तिभयकल्पतरुस्त्वमेव || ४२
||
इत्थं वदन्तमवदद्बसवोऽल्लमेंद्रं श्रीमत्प्रभो न भवतः
स्तुतिपात्रमेषः ||
अत्युन्नतोपरि निवेशनमल्पजन्तोर्जायेत केवलमधः पतनाय नूनं || ४३ ||
त्वं यंत्रधार इह लोकगुरोऽहमेकं यंत्रं भवत्करधृतेषु
बहुष्वधीश ||
यंत्रक्रिया हि सकला भुवि यंत्रिनिघ्ना स्तोत्रं तवार्हति जडो न
चिदात्मनोऽयं || ४४ ||
पृ० १२१) प्रभवे सिद्धरामोक्तबसवेशवर्णनम् |
तं प्रत्युवाच सगुरुर्बसवार्य नूनं च्छायाश्रयो हि तव
भक्तितरोरमीषां ||
दीक्षावतां यदविमुक्तगयाप्रयागकेदारपुष्करघनं भवनं तवेदं
|| ४५ ||
वाक्यं प्रभोस्तदवधार्य स सिद्धरामः प्राहाल्लमं जगदधीश्वर
सत्यमेतत् ||
उक्तं त्वयैष बसवो गुणरत्नराशिर्नैतस्य कोऽपि सदृशोऽस्ति जगत्त्रयेऽपि
|| ४६ ||
स्वामिंस्तवाद्य कृपया पुनरेष धन्यः सामोदहेमसदृशः प्रतिभाति
मान्यः ||
लीलावतारफलमस्य सुसिद्धमासीत्काले भवंति खलु भाग्यवतां
शुभानि || ४७ ||
श्रीमन्महेश्वरपदांबुजभक्तिभाजामाद्यो यदेष बसवः
प्रमथव्रजानां ||
तत्स्मो वयं च कृतिनः स्मितपुष्पमालासंदर्भतः शिरसि धार्यत एव
मुस्ता || ४८ ||
अद्यप्रभृत्यखिललोकपवित्रचर्या धुर्या भवेत्प्रमथसंततिरस्मदीया ||
यच्छंभुभक्तिपरिपूर्णमहासमुद्रो भद्रो विभाति बसवो भवतः
कटाक्षात् || ४९ ||
इत्थं स्तुवत्यनुपमात्मनि सिद्धरामे प्राह प्रभुः श्रुणु सखे
बसवेश्वरस्य ||
पृ० १२२) स्तोतुं गुणानसमदृऽऽन्न समर्थभावं प्राप्नोति के वयममी
जगदेकदेशाः || ५० ||
तावत्सखे मरुलशंकरयोगिमौलेर्लिंगैक्यनैष्ठिकधृतिं कथयामि
किंचित् ||
आकर्णयावहितमानसपद्मसद्मा यच्छृण्वतां हृदि पदं निदधाति
शंभुः || ५१ ||
आमद्यैंद्रियजालमाशु विषयानाच्छिद्य सद्यः परं
जित्वान्तःकरणं क्षणेन सकलां चिन्ताशतानां ततिं ||
उन्मूल्योर्ध्वचिदभ्रलिंगममलं धृत्वान्तरंगे पुन-
श्च्छित्वा भ्रान्तिपरंपरां विजयते श्रीमानयं शंकरः || ५२ ||
यो निद्रामपसार्य कुण्डलमयीं देवीं परां चित्कला-
मुत्थाप्यानृजुतां विहाप्य विलसच्चिद्बिंदुना स्वोन्मुखीं ||
कृत्वा ग्रंथिविभेदनेन कमलान्युत्क्रम्य घण्टारवं
शृण्वन्योजयते चिदभ्रकमले श्रीलिंगमूर्त्यैव तां || ५३ ||
एकीकृत्य दुरत्ययांस्तनुमनःप्राणानतीतांहसो
लिंगे संगरसः पुमानविकलं स्वात्म्यैक्यमुद्भावयन् ||
पंचब्रह्मकलामयं प्रणवमप्यान्तं विलीनं स्मरन्
पृ० १२३) श्रीबसवादिप्रमथकृतप्रभुस्तवनम् |
शान्तान्ते चिरमुन्मनीसुखमयं प्राप्तो गुहेशप्रियः || ५४ ||
इत्थं श्रीमरुलाख्यशंकरयतेर्लिंगैक्यनिष्ठां परां
शृण्वन्तो बसवादिभक्तनिवहास्संजातकौतूहलाः ||
आश्चर्येण पुनःपुनः प्रभुवचश्चित्तेऽनुसन्धाय तं
प्रोचुः प्रांजलयो विनम्रशिरसो गीर्भिस्तुवन्तो गुरुं || ५५ ||
भो श्रीमत्प्रभुसार्वभौम भवतो लीलां जगत्पावनीं के वा वर्णयितुं
क्षमास्त्वमधुना सर्वेश्वरोऽप्यादरात् ||
कांश्चिल्लालनया वचोभिरमृतैराप्लाव्य कांश्चित्तथा
कांश्चिद्भावनया बलेन कतिचिद्गृह्णासि कांश्चाशिषा || ५६ ||
अस्मान्भक्तजनाननुग्रहदृशा संभाव्य निर्धूय तां
मायां संप्रति सावधानहृदयान् कर्तुं चिदात्मा भवान् ||
लीलाविग्रहमावहन्विजयते को वा परिच्छेत्तुम-
त्रेष्टे तावकशक्तिमद्भुतकथामिच्छां स्वतंत्रां विभो || ५७ ||
एवं स्तुवत्यखिलभक्तगणे तदीयसौगुण्यवर्णनमिषेण महाप्रभुस्तं ||
प्राग्जन्मकोटिजनिताखिलपुण्यलभ्यलिंगांगसंगविदुषं मरुलं चकार
|| ५८ ||
भाग्येन सत्प्रभुकृपामवलंब्य निष्ठो लिंगांगसंगपदतत्वमवाप्य
चित्ते ||
नैर्मल्यमाप निगमान्तपदार्थबोधाच्छ्रीमानसौ
मरुलशंकरमौनिचंद्रः || ५९ ||
पृ० १२४) इति मरुलयतीन्द्रानुग्रहोद्योगरम्यं प्रभुचरितमिदानीं
श्रावितं यन्मयैतत् ||
पठति लिखति चित्ते भावयत्याश्रुणोति प्रभुरखिलममुष्मै
वांच्छितार्थं ददाति || ६० ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
मरुलशंकरमहिमानुवर्णनगतिर्नाम पंचदशोऽध्यायः ||
पृ० १२५) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ षोडशोऽध्यायः
सूत उवाच-
श्रीमद्वीरेशसिद्धान्वयगुरुचरणाम्भोजसेवाधुरीणाः
स्वेष्टप्राणैक्यभावान्वितहृदयगुहापूर्णभक्तिप्रवीणाः ||
कर्मभ्रान्तिं विसृज्य स्फुटतरविमलज्ञाननिष्ठा गरिष्ठा
भक्ताः श्रुण्वन्तु लीलां प्रभुगुरुमहिमानंदसंधानशीलां || १ ||
इत्थं स्तुवन्मरुलशंकरदेवचर्यामार्यः प्रभुस्सकलभक्तमनांसि कुर्वन्
||
संविस्मितानि बसवेंद्रगृहं प्रविश्य स स्पर्शवेधिमयवेदिमथारुरोह ||
२ ||
भक्त्या सहैव बसवस्य विनूत्नरत्नसिंहासने समुपविश्य तदीयपूजां ||
पाद्यार्घ्यमाल्यमधुपर्कमुहुःप्रणामस्तोत्रोपचारसहितां जगृहे
कृपावान् || ३ ||
तं भक्तिनम्रशिरसा मनसा प्रसन्नं देवं प्रणम्य
बसवेश्वरदण्डनाथः ||
सन्तुष्टुवे सकलशिष्टजनान्तरंगसन्तुष्टिहेतुमधुरार्थपदैर्वचोभिः
|| ४ ||
त्वां नित्यनिर्मलनिरंजननिर्विकल्पनिर्वाणनिर्गुणपदैरुदितं स्वभावात्
||
पृ० १२६) भक्तावनाय सगुणाश्रयमाश्रयामि सर्वार्तिहं
भुवनपावनदिव्यमूर्तिं || ५ ||
स्वामी गुरुः प्रभुरभीष्टकरः शरण्यः प्राणेश्वरः प्रमथराट्
परमार्थदाता ||
त्राता सखाप्तवचनः सविता सवित्री बंधुस्त्वमेव सकलं मम देवदेव
|| ६ ||
स्तोतुं कियानहमहो भगवन्तमाद्यं वेदैरवेद्यविभवं मनसाऽप्यगम्यं
||
स्वेच्छाविलासपरिकल्पितनामरूपचित्रप्रपंचकलनं शिवमद्वितीयं || ७
||
इत्थं स्तुवन्प्रभुकटाक्षनिरीक्षणेन मत्वा कृतार्थतममेष
महानुभावः ||
स्वात्मानमाह परमार्थपदाप्तशंकाप्रोन्मूलनाय गुरुमाहितभक्तियुक्तिः
|| ८ ||
जात्यंधहस्तविलसन्मुकुरेण मूकस्वप्नानुभूतकुशलेन च साम्यमेति ||
युक्तिप्रबोधरहिते मयि वर्तमाना भक्तिः शिवेऽपि भगवन्ननुशाधि मां
त्वं || ९ ||
श्रीमद्गुरुप्रभुवरेण्य कटाक्षदृष्ट्या वृष्ट्येव मामनुगृहाण
परामृतस्य ||
पृ० १२७) विज्ञापयते श्रीबसवाय प्रभोरादरोक्तिः ||
सेयं क्रियेयमिह भक्तिरयं प्रबोध इत्यादरादुपदिश त्रितयं विविच्य ||
१० ||
विज्ञापयंतमथ तं बसवं प्रपन्नं स्वामी प्रसन्नहृदयोऽल्लम
इत्युवाच ||
वेदागमस्मृतिपुराणकलारहस्यः प्रश्नः कृतो हि भवता
प्रमथाग्रगण्य || ११ ||
चिन्मूर्तिरप्यहह कारणपूरुषस्त्वं दिव्यां तनुं
निजविलासवशाद्बिभर्षि ||
मां प्रष्टुकाम इव लोकहितार्थमासीस्त्वययेव नित्यसुखबोधतनौ समस्तं
|| १२ ||
अज्ञातांशोऽस्ति किं ते त्रिभुवनभवने वाऽऽन्मये वा प्रपंचे
विद्यास्थाने समस्ते त्रिपुटितकलया रोरवीषि त्वमेव ||
धर्मः श्रुत्यैव साक्षाद्वृषभ इति परं स्तूयसे सर्वसाक्षिन्
पृच्छामच्छामकार्षीस्त्वमिह शुभमते मां बहूकर्तुमेतां || १३ ||
अप्यग्नेः क्षुन्निवृत्यै किमिह मम सखे पाकयत्नेन भाव्यं
किं वा द्रष्टुं विभाव्यं दिनमणिमधिकस्फूर्तिमद्दीपदीप्त्या ||
दिव्यज्ञानैकराशेर्बसवबुधमणेर्भक्तिमर्मातिरिक्त-
न्यूनत्वे शोधनीये किमिह ननु मया शक्यते वा कथं तत् || १४ ||
पृ० १२८) इत्युक्तो बसवस्तमाह स गुरुं स्वामिन्बहूकृत्य मा-
मित्थं किं त्यजसि त्वया परिहृतो यास्यामि वा क्व न्वहं ||
दासोऽहं तव दासदासपदयुग्दासानुदासात्मनां
कारुण्याम्बुनिधे त्वमेव भगवन्मां पाहि पाहि प्रभो || १५ ||
आर्द्रायां भुवि बीजावापसमये बीजानि तत्रोचिता-
न्युप्त्वा प्रावरणं विधाय परितः संरक्ष्य पश्वौघतः ||
सस्यांकूरचयं समृद्धमचिरादुत्खाय संपश्यतः
किंचिद्वास्ति कृषीवलस्य फलितं किं मंदबुद्धेः प्रभो || १६ ||
तस्मादस्मदबोधगाढतिमिरं दूरेऽवसार्य प्रभो
विज्ञानांकुरमुत्थितं करुणया देवस्य संरक्षितुं ||
स त्वं तत्वपदालवालवलये बोधोपदेशामृतं
संसिंचन्ननुभूतिसत्फलभुजं कृत्वानुगृह्णीष्व मां || १७ ||
इति विज्ञापयन्तं तं बसवं प्रभुरात्मना ||
अनुगृह्य कृपादृष्ट्या वक्तुं समुपचक्रमे || १८ ||
यथामृतात्परं नास्ति भोग्यवस्तु महत्तरं ||
तथा सहजलिंगैक्यादन्यो मोक्षपथो न हि || १९ ||
भवाम्बुधौ निमग्नानां शोकमोहहतात्मनां ||
अपारजन्ममृत्यूनां जन्तूनां गणनैव का || २० ||
पृ० १२९) श्रीबसवराजाय प्रभुकृततत्वोपदेशः |
चतुःसंख्याधिकाशीतिलक्षभिन्नशरीरिणां ||
सर्वेषां पुण्यपापे द्वे मर्त्यानामेव केवलं || २१ ||
लब्ध्वा मनुष्यतां यावन्नांगवैकल्यमाश्रयेत् ||
दुर्वासनाः परित्यज्य शिष्टवर्त्म विवेकतः || २२ ||
प्रबोध्य झडिति स्वप्नादज्ञानाख्यादहो बत ||
वृथा जन्मेदृशं जातं विरज्येत ममेत्ययं || २३ ||
साधये साधुसंगेन संवित्पदमिति स्थिरां ||
धृतिं यः साधयेन्नित्यं स भवेत्साधकोत्तमः || २४ ||
संपद्दशायां संपाद्यौ त्यागभोगौ विवेकिना ||
मरुत्प्रसारसमये विवेच्या धान्यतस्तुषाः || २५ ||
तद्वत्करांघ्रिमुख्यांगदार्ढ्यकाले मनीषिणा ||
यत्नः कालजयोपाये कर्तव्यो गतिमिच्छता || २६ ||
निगमागमशास्त्रार्थं तस्माद्विज्ञाय तत्पथं ||
अचालयित्वाऽनुष्ठाय भूयाद्गुरुकृपास्पदं || २७ ||
स्वकीयतां तनुमनोधनेषु प्रथमं त्यजेत् ||
च्छिंद्यान्मदं यथा भूयो न प्ररोहेत्कथंचन || २८ ||
संप्राप्तः सदसद्विवेककलनां दृष्टेष्टलिंगं पुर-
श्चेतोलिंगतया दृशा परमया पश्येत्प्रतीच्या यतः ||
पृ० १३०) तद्विज्ञाय गुरुप्रसादघटितश्रीमुद्रया मर्मभृ-
द्बाह्यान्तर्द्युतिरैक्यमेव कलयेत्प्राणेष्टयोः पूर्णदृक् || २९ ||
लिंगं हस्ततले यदैव घटितं तस्मिन्क्षणे तत्तनुं
लिंगेऽस्मिन्विदधीत नैव मृगयेद्वस्त्रं बहिच्छादने ||
चित्पुष्पार्चनमेव तस्य कलयेन्नो बाह्यपुष्पार्चनं
यो वा वस्त्रयते तनुत्रयमिदं लिंगस्य स स्याद्गुरुः || ३० ||
श्रुणु बसवार्य लिंगवसनत्वमुपैति तनु-
त्रितयमिदं यदि स्फुरितलिंगनिमग्नमनाः ||
स भवति विस्मृतात्मतनुरात्मरतिः सततं
परसुखपारवश्यपरमार्थपदात्तगतिः || ३१ ||
सहजसमाधिसौख्यमनुभूय निरस्तजग-
द्व्यवहृतिरैक्यभावपरिभूतपरात्मभिदः ||
यदि न समर्थतां स्थिरयितुं हृदयं लभते
बसव समाचरेत्स शिवलिंगसदापचितिं || ३२ ||
सविशेषलिंगपूजामवधारय भावनात्मिकां दिव्यां ||
अवधानेन हृदब्जे भवपाशच्छेदनार्थिभिर्वेद्यां || ३३ ||
पृ० १३१) सकलचराचरविततेः क्वचिदपि हिंसा यथा न संभवति ||
कृपया तथैव वर्तनमभयदमभवस्य मज्जनं भवति || ३४ ||
एतेऽन्येऽमी स्वीया इति भेदभ्रान्तिवर्जनाच्चित्ते ||
वहनं हि परमशान्तेर्महतो देवस्य चंदनालेपः || ३५ ||
कर्मफलसंगवर्जनमर्म ज्ञात्वा सुनिर्मले शैवे ||
कर्मण्यशुक्लकृष्णे निर्ममतावृत्तिरक्षताश्शम्भोः || ३६ ||
अश्रान्तवृत्तिसंततिमालिन्यविशोधनेन चित्तस्य ||
नैर्मल्यादवधानं समुचितपुष्पोपहार ईशस्य || ३७ ||
देहत्रयदुष्टगुणान् ज्ञानाग्नौ प्रक्षिपन्परामृश्य ||
दग्ध्वा तद्गतधूपैः सद्वासनयैव धूपयेल्लिंगं || ३८ ||
तापत्रयवर्तियुतं तनुपात्रे तामसाख्यतैलाक्तं ||
दीपं महेश्वराय ह्रीश्रीपतये समर्पयेद्विबुधः || ३९ ||
स्वात्मानं सुखदुःखवर्जितमुमाधीशस्य नैवेद्यमि-
त्यार्याः साधु वदन्ति के चिदथ वा मत्या स्थिरीभूतया ||
भक्त्या कल्पितरत्नपात्रनिहितस्वाद्वन्नपानादिभि-
र्देवस्यानुपमैः पदार्थरचनैर्नित्योपहारं जगुः || ४० ||
पृ० १३२) आनन्दबाष्पैः परिकल्प्य शम्भोर्हस्तोदकं सत्वरजस्तमांसि ||
अस्पृश्य वृत्तिस्त्रिगुणान्सदैव ताम्बूलमित्याहुरधीश्वरस्य || ४१ ||
इत्थं मुख्यार्पणं नित्यं कुर्वतां शिवयोगिनां ||
प्राणलिंगांगसंबंधानुभवः सुलभो भवेत् || ४२ ||
श्रुण्वैतद्बसवार्य निश्चलधिया यत्प्राणलिंगं सदा धार्यं
तद्वसनायितत्रितनुभिः प्रावेष्ट्य धृत्वा दृढं ||
संवित्सूत्रनिबद्धमेतदनिशं निर्वाणसिद्धस्थले धृत्वा
भक्तिविरक्तिपूर्णहृदयो जागर्ति धन्यो जनः || ४३ ||
तनुत्रयं तच्छिवसूत्रबंधाद्यथा न विश्लेषमुपैति नित्यं ||
तथेष्टलिंगं स्थिरयत्यजस्रं स एव शिष्टः शिवयोगिवर्यः || ४४ ||
संवेष्ट्येष्टप्राणभावाख्यलिंगान्यंगेषु त्रिष्वंशुकीभावितेषु ||
स्थूले सूक्ष्मे कारणे च क्रमेण ह्येकैकस्मिन्भावयेद्ग्रंथियुग्मं || ४५ ||
इत्थं षड्भिर्ग्रंथिभिः सांद्रबंधं नो चांचल्यं याति
लिंगत्रयं च ||
बाह्ये स्थूले ग्रंथियुग्मं दृढं चेच्चत्वार्यन्तःस्थानि तानि स्थिराणि
|| ४६ ||
वस्त्राण्यंगान्यंग तद्ग्रंथयोऽपि प्रोक्तान्यार्यैः षट्
स्थलान्यात्मविद्भिः ||
पृ० १३३) ग्रंथौ ग्रंथौ भावशुध्या स्थिरात्मा पूर्वं जित्वा तत्परं
याति धन्यः || ४७ ||
भक्तमाहेश्वरौ तद्वत्प्रसादिप्राणलिंगिनौ ||
शरणैक्यगतौ चेति स्थलषट्कं जगुर्बुधाः || ४८ ||
स्थूलांगग्रथितेष्टलिंगकलितौ तौ भक्तमाहेश्वरौ
सूक्ष्मप्राणगतं प्रसादिसहितं तत्प्राणलिंगिस्थलं ||
संप्राप्तं शरणैक्यसुस्थलयुगं भावाह्वयं कारणे
तद्द्वंद्वं बसवार्य यः स्थिरतया प्राप्तः स भक्ताग्रणीः || ४९ ||
बसव तनुत्रयांशुकदृढग्रथितस्थलषट्कबंधुर-
स्थिरतरलिंगसूत्रपरिशीलितचित्कलयाऽवधानतः ||
सततसमाहितोऽर्चयति यः शिवमद्वयमात्मसात्कृतं
स हि शिवयोगिराट् सकललोकगुरुः परिपूर्णभावनः || ५० ||
मोक्षार्थितामुपगतः शिवलिंगमेव प्राणो ममेति यदि
शास्त्ररहस्यवित्स्यात् ||
मांगल्यसूत्रघटितां शिवलिंगमूर्तिं नांगे कदापि विरहेत्बसवार्य
सोऽयं || ५१ ||
पूजाक्रियासु बसवार्य निजेष्टलिंगे रूपं पदार्थनिचयस्य समर्प्य
पश्चात् ||
तत्प्राणलिंगभरितां रुचिमस्य कृत्वा तृप्त्यर्पणं च कलयेदथ
भावलिंगे || ५२ ||
यो नित्यमंग गुरुलिंगचरप्रसादपादोदकैः परमपावनतां प्रयाति ||
पृ० १३४) सोऽयं विशुद्धशिवभक्तिरसाधिकारी ब्रह्माच्युताद्यसुलभं
लभते शिवैक्यं || ५३ ||
इष्टलिंगाय हृदयं स्वेष्टश्रीगुरवे तनुं ||
इष्टाय जंगमायार्थमर्पयेद्भक्तिमांश्छिवे || ५४ ||
दृढयित्वा स्थिरां वृत्तिं श्रद्धया जंगमार्चकः ||
निरुद्धचित्तवृत्तिर्यस्स ज्ञानी शुद्धभक्तिमान् || ५५ ||
समस्तसत्क्रियास्वेष्टलिंगे धीरः समर्पयन् ||
मायां विलासान्ममताहंतादीन्परिमार्जयेत् || ५६ ||
यद्येवं प्राणलिंगस्य ध्यानधारणयोः क्षमः ||
नो चेदनीशस्तद्धर्तुं विद्वानपि हृदंबुजे || ५७ ||
आराधयेद्बहिस्तस्मादिष्टलिंगं सदा बुधः ||
सर्वसिद्धिकरं यस्मात्प्राणलिंगं स्थिरं भवेत् || ५८ ||
मोक्षार्थी बसव स्वेष्टलिंगाराधनमुत्सृजन् ||
प्राणलिंगं यदि ध्यायेदामकुंभजलं हि तत् || ५९ ||
केवलप्राणलिंगार्चा न निश्चलति मानसे ||
वाऽऽन्मात्रेण वृथा ध्यायी नश्येद्बसव तद्ध्रुवं || ६० ||
अतः प्राणलिंगं दृढीकृत्य सत्यप्रबोधप्रमोदप्रपूर्णांबुराशौ ||
स्वयं क्रीडितुं यस्सदेच्छत्यसौ तत्समाराधयेज्ञ्ज्ञानवानिष्टलिंगं
|| ६१ ||
पृ० १३५) इदं साधनं मुख्यमेकं प्रशस्तं सदा
ज्ञानिनामप्यभीष्टार्थदायी ||
परं मंगलं मंगलानां यदेतत्करे स्वेष्टलिंगार्चनं शुद्धभक्त्या
|| ६२ ||
ततः सावधानेन तत्प्राणलिंगे समीकृत्य कृत्यानि विस्मृत्य मत्या ||
महायोगसाम्राज्यपट्टाभिषिक्तो भजेदात्मनो लिंगतादात्म्यसिद्धिं || ६३
||
अविज्ञाय यो लिंगतादात्म्यमेवं बहिः पूजनैर्भिन्नभावं त्यजेन्न ||
स केन प्रकारेण वाराध्य देवं न सद्भक्तिसन्मार्गसौख्यं लभेत || ६४
||
स चानादिसंसारमोहांबुराशिं न तर्तुं क्षमेत क्रियामात्रतृप्तः ||
अतः सामरस्यानुभूत्यै रहस्यं विजानीत सद्भक्तगोष्ठिप्रसंगात् || ६५
||
कुर्याद्गुरूपसदनं शिवभक्तितत्वं विज्ञातुमेव शिवभक्तगणान्भजेत
||
भुंजीत भक्तिभरितः शिवभक्तशेषं तद्दास्यमेव कलयेद्बसवार्य
नित्यं || ६६ ||
यस्यैव भक्तचरणोदकतत्प्रसादतद्वंदनार्चनतदीयपथप्रचारान् ||
नित्यं न संश्रयति संसृतिपाशबंधान्मुक्तिं न याति बसवार्य स
दंभभक्तः || ६७ ||
पृ० १३६) विश्वासमुत्सृजति जंगमपादतीर्थशेषप्रसादभजने यदि
वर्जनीयान् ||
कांश्चिद्विवर्ज्य न हि वर्जयतीह कांश्चिद्दंभक्रियः स न शिवे
दृढभक्तिमेति || ६८ ||
सत्यं च शौचमथ शान्तिदमावहिंसां नित्यव्रतस्थिरधिया न
दृढीकरोति ||
यो न त्यजेत मदमत्सरलोभमोहक्रोधादिकं स बसवार्य न शीलवान् स्यात्
|| ६९ ||
नोत्सृज्य जन्ममरणाध्वगतिप्रसक्तकर्माटवीपटलपर्यटनं न जित्वा ||
मायां च निर्मलचिदंकुरितांगलिंगसंबंधतत्वरहितो बसवार्य
बाह्यः || ७० ||
कुक्षिंभरेर्बसव शीलवतां च मध्ये तद्वेषधारणचणस्य मदाविलस्य
||
वाग्ब्रह्मवादचतुरस्य दुराग्रहस्य भक्तिः शिवे दृढतरं घटिता
कथं स्यात् ? || ७१ ||
यस्येष्टलिंगभजनारतिरस्ति नित्यं रीत्या कयाऽस्य सुमतेरथ
भावशुद्धौ ||
चित्प्राणलिंगचरणस्फुरणं स्वतः स्याद्यत्पूर्वभूमिविजयेन जिता परा
स्यात् || ७२ ||
पृ० १३७) तदिष्टलिंगार्चनमंजनं स्यादन्तर्महालिंगनिधेः प्रकाशे ||
इति ब्रुवन्तं बसवः प्रभुं तं विलोक्य पप्रच्छ विनीतभावः || ७३ ||
श्रीमद्गुरोऽनेकविधप्रचारस्त्वया य आचार्यविधिर्ममोक्तः ||
असौ न पर्याप्ततमः क्वचिद्वा कृतः प्रबोद्धः परमार्थतः किं || ७४ ||
सदा क्रियासक्तमतेः कदा स्यात् प्रबोधचिंता भुवि साधनेन ||
सदा खुरल्यां रटतः कदा वा भवेत्स वीरप्रथनप्रसंगः || ७५ ||
निशम्य वाचं बसवस्य देवः प्रसाददृष्ट्या प्रभुरेवमूचे ||
यैः कैश्चिदुक्ता बहुभिः क्रियास्ताः श्रुताश्च नाभ्यासमृते फलन्ति ||
७६ ||
क्रियाफलं भक्तिरियं विशुद्धा ज्ञानं भवेच्छांभवमद्वितीयं ||
ज्ञात्वाप्यनुष्ठानविवर्जितश्चेन्न साधवस्तं बहुमानयन्ति || ७७ ||
आलस्यमुत्सृज्य सदार्चयेत्तं महेश्वरं सत्क्रिययैव भक्तः ||
निर्विघ्नमीशप्रणिधानमेव प्रोन्मूलयिष्यत्यरिवर्गमन्तः || ७८ ||
आशां तनौ शान्तमतिर्विहाय धृतिं समास्थाय सदेष्टलिंगे ||
निष्ठां दृढीकर्तुमशक्नुवानो यदि त्यजेत्तं विरसेन भक्तिः || ७९ ||
पृ० १३८) भक्तिं स्थिरीकर्तुमना यदि स्यात्कुर्वीत सर्वा अपि सत्क्रियास्ताः
||
धनानि सर्वाणि समर्प्य देवे तद्भक्तिवृन्देऽनुचरेत्स भक्तः || ८० ||
कामेन लोभस्तत एव जातः क्रोधस्ततस्तान्परिवृत्य धीरः ||
सर्वार्पणं सत्क्रिययैव कृत्वा वैराग्यभाग्येन भजेत भक्तिं || ८१ ||
श्रुत्वैतदूचे बसवोऽल्लमेंद्रं स्वामिंस्तथा चेदवधारणीयं ||
मद्वर्तनं वाक्यगतापराधं सर्वं क्षमित्वा जगदेकबन्धो || ८२ ||
सुवर्णसंघे कणसंमितं वा सुवस्त्रवृन्दे गुणसंमितं वा ||
सुधान्यराशावणुसंमितं वा न वंचितं स्यान्मम सद्गणेषु || ८३ ||
यदि गुरुषु मदीयो वंचितश्चेद्धनांशश्चरणकमलयोस्ते दूरतामेष
यातु ||
इति बसवमुखोत्थं धीरमाकर्ण्य वाक्यं सशपथमिदमूचे तं
पुनस्सोऽल्लमेन्द्रः || ८४ ||
रजतगिरिसुमेरूभूतयोऽष्टौ सुरद्रुस्सुरभिरमररत्नं दुग्धसिन्धुश्च
सर्वं ||
शिवशिवगणनिघ्नं वस्तुजातं त्वदुक्तं बसव न खलु युक्तं दीयते
यन्मयेति || ८५ ||
पुनरपि बसवस्तं सद्गुरुं प्राह युक्तं गुरुवर भवदुक्तं वस्तुतोऽहं
तथापि ||
पृ० १३९) श्रीबसवराजाल्लमार्ययोरुक्तिप्रत्युक्तिपरिपाटी |
व्यवहृतिमवलंब्य स्वामिनोऽग्रे वदामि स्वमतिनिहितमर्थं सर्वथा
निश्चयेन || ८६ ||
केनापि रूपेण समेत्य देवो गणोऽथ वा याचितुमुत्सहेत ||
किं वा ददाम्येव तनुं मनोऽर्थं नो चेदहं स्यान्न भवत्कृपार्हः || ८७
||
श्रुत्वाह भूयः स्मयमानवक्त्रः प्रभुः किमेतद्बसव ब्रवीषि ||
भ्रमादुताहंक्रिययाऽपनीत्या तनुं मनोऽर्थं प्रददामि चेति || ८८ ||
कुतस्तवैते तनुमानसार्थाः महेश्वरावास्यमिदं हि सर्वं ||
अहो विवेकं परिहृत्य भक्तेर्विरुद्धमेतद्बसव ब्रवीषि || ८९ ||
तस्मादहंकारगुणं विसृज्य निर्मायिको निर्मलभक्तिमार्गं ||
यदि स्थिरीकर्तुमनास्तदादौ विधेहि लक्ष्यं बहिरिष्टलिंगं || ९० ||
सदाभिमुख्येन निजेष्टलिंगे निधाय दृष्टिं बहिरंतरस्थं ||
भजैकधैवाष्टविधार्चनेन प्रवेष्टसिद्ध्यष्टकमाशु भूयात् || ९१ ||
निशम्य वाचं बसवोऽब्रवीत्तं प्रभो त्वयोदीरितमिष्टलिंगं ||
समर्च्य सद्भक्तिमवाप्नुहीति प्रागत्र तस्याष्टविधत्वमुक्तं || ९२ ||
न कर्मजाड्येऽभिरतिर्ममास्ति न शुष्कतर्कोऽस्ति परंपरायां ||
अतः प्रभो भक्तिरहस्यमेव प्रसीद तत्साधनमर्चनं मे || ९३ ||
पृ० १४०) यदिष्टलिंगार्चनयैव देव प्रपद्यते भक्तिरहस्यमन्तः ||
ततः शिवज्ञानितया कथं स्याच्छिवः स्वयं वानुगृहाण तन्मे || ९४ ||
प्रभुस्तमूचे बसवार्य वक्तुं न शक्यते कौसुमसौरभं तत् ||
द्विरेफवद्भावनयाऽनुभाव्य भजेत्स्वयं भक्तिरसं रसज्ञः || ९५ ||
अन्तर्बहिर्मध्यगतत्रिलक्ष्यभावेष्टसत्प्राणकलैक्यभावः ||
निरंतरं भक्तिरसैकमग्नो भजेष्टलिंगं परमार्थमेकं || ९६ ||
पूर्वार्जिता चेद्दृढमेव भूमिः प्रकाशते चोत्तरभूमिका सा ||
व्युत्पन्नसद्भक्तिसमग्रभावः स्वयं शिवः स्यात्परमः पुमान्यः || ९७ ||
श्रुणुष्व सम्यग्बसवार्य पूर्वं दण्डेन संसाध्य चिरं खुरल्यां ||
ततः प्रविष्टः समरं तरस्वी जयेद्रिपून्प्रासगदासिमुख्यैः || ९८ ||
तथेष्टलिंगांगसदानुषंगाद्विज्ञाय तत्कीलकमादधीत ||
भक्तिं स्थितां ज्ञानपथानुषक्तामहो गरीयान्बसवैष पन्थाः || ९९
||
अहो न सामान्यमिदं त्रिलोक्यां महेशसाक्षात्करणं हि साध्यं ||
तदर्थमाचारविधिं विधेहि ब्रुवन्तमित्थं बसवोऽब्रवीत्तं || १०० ||
गुरो समास्वाद्य सुधां रसज्ञा रसान्तरास्वादकथां न हीच्छेत् ||
पृ० १४१) तथैव युष्मत्करुणारसाब्धौ मज्जन्नहं नास्मि जडक्रियार्हः
|| १०१ ||
वृथा कालक्षेपं न कुरु गुरुभूमण्डलपते कृपापात्रं कृत्वा कलय
निजलिंग्यैक्यशरणं ||
अमुं युष्मत्पादांबुजसमरसानंदमिति तद्वचः श्रुत्वा देवः
स्मितवदनपूर्णेन्दुरवदत् || १०२ ||
मनोवृत्तिं तावत्तव बसव विज्ञातुमियता प्रबन्धेनावोचं न खलु
मणिदीपो मरुदरैः ||
चलत्यंग त्वंगत्त्वदुरुतरलिंगैक्यकलने समस्त्रैलोक्ये वा न भवति
महात्मन्ननु सखे || १०३ ||
कलामिंदोर्धर्तुं शिरसि शिव एवार्हति परं परो नार्हस्तद्वत्त्वमपि
निजलिंगैक्यकलनात् ||
महाकैवल्याख्यामृतरसपरानंदभरितस्त्वदन्यो यः को वा न हि
बसवयोगिंस्त्रिभुवने || १०४ ||
भवन्नामैवैतद्बसव इति वर्णत्रययुत्तं त्रिवृत्कृत्या युक्तं
त्रिपुटमिदमाह त्रिभुवनं ||
त्वदैश्वर्योद्भूतं प्रकटयदशेषाश्रय विभो
बलित्वात्सुज्ञानाद्वरवितरणात्त्वं हि बसवः || १०५ ||
भवन्नाम स्तुत्वा भवदुरुगुणाकर्णनचणो भवन्मन्त्राभ्यासे
भवदमलसंकीर्तनपरः ||
भवद्रूपं ध्यात्वा भवदभवभक्तिं विशदयन्भवाम्भोधिं तीर्त्वा
बसव शिवसायुज्यमयते || १०६ ||
पृ० १४२) करेण भूताडनवच्छरेण गिरौ शरव्येऽभ्यसनक्रियावत् ||
हरे परे ब्रह्मणि दिव्यदृष्टेश्चिरं प्रसारस्तव नेंगतेऽयं || १०७ ||
यदा शिवो मामवनीप्रदेशं प्रति प्रयातुं हृदयेऽर्थयत्सः ||
तदैव लोकोद्धरणाय नंदिंस्त्वां प्रेषयामास महीं महेशः || १०८ ||
वस्वष्टकं सकलरत्नचयं धनानि सर्वाणि कान्तिनिवहं त्वयि
सन्निवेश्य ||
नंदिन् भवन्तमवतारयदीश्वरस्तत्त्वन्नामधेयमभवद्बसवस्त्रिलोक्यां ||
१०९ ||
त्वययागते क्षितितलं बसवार्यमौले माया तदैव चलिता भयकंपितांगी
||
आहो गता भगवता विजितं शिवेन देवी च सात्विकगुणा शुभतां प्रयातु
|| ११० ||
प्रभुरिति बसवेंद्रं भावयित्वा वचोभिस्सकलगणसमूहान्भावयामास
धन्यान् ||
श्रुतमिह मुनिवर्याः स्वेष्टलिंगैक्यसारं कलिकलुषशतघ्नं
भावयन्तां भवन्तः || १११ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां इष्टलिंगावधानगतिर्नाम षोडशोऽध्यायः ||
पृ० १४३) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ सप्तदशोऽध्यायः |
सूत उवाच-
श्रीसिद्धेश्वरदेशिकेन्द्रपदपद्माराधनादिष्टलिं-
गार्चाधीनविशिष्टशीलसहिता प्राणं त्वपाने स्थिरं ||
संयम्यास्तसमस्तवृत्तिनिवहाश्चित्प्राणलिंगांगिनो
भक्ता मुक्त्यभिलाषिणो गतभवाः श्रुण्वन्तु लीलां प्रभोः || १ ||
अथाक्वा सा देवी प्रभुगुरुमशेषावनितले
विचिन्वत्येकाकी न्यखिलमुनिपुण्याश्रमकुले ||
बिलेष्वद्रींद्राणां विपिननिवहे योगमठिका-
स्वपश्यन्ती भूयोप्यहह मृगयामास बहुधा || २ ||
तनौ कार्श्यं पीडां चरणतलयोरस्मृतवती
क्षणं वा कुत्रापि स्थितिमलभमाना निरशना ||
अहोरात्रं वृष्ट्यातपहिमविभागं न दधती
गलन्निद्रालस्या प्रतिनगरमागान्मृगयितुं || ३ ||
ततो दैवान्मार्गे बसवनगरायातशरणैः
प्रभोर्वृत्तं श्रुत्वा हृषिततनुरेषा धृतिमती ||
हृदब्जान्तर्ज्योतिर्बहिरपि च साक्षाद्भवति
मे कृतार्थास्मीत्यस्मादविशदथ कल्याणनगरं || ४ ||
पृ० १४४) महादेवी दीव्यद्बसवभवनं प्राप्य सहसा
सभायां चिन्तामण्यभिरचितसिंहासनगतं ||
गुरुस्वामीश्रीमच्छरणचरणांभोजयुगलं
विलोक्यानंदाश्रुस्फुरितनयनाऽभूत्पुलकिता || ५ ||
अहो चित्रं तत्र भ्रमर इव चांपेयकुसुमं
महामोदस्फूर्त्या निरुपममसाधारणरसं ||
महादेवीचेतः प्रभुपदयुगं प्राप्य सहसा
समाक्रष्टुं शक्यं न तदभवदत्रैव खचितं || ६ ||
तदा देवी चित्ते क्षुधितमनुजस्यामृतनदी
यथा लब्ध्वांऽधस्येक्षणततिरभूद्रोमविततिः ||
तथैवान्तस्तापप्रशमकरदिव्यौषधमिदं
पदद्वंद्वं साक्षादभवदिति भाग्यादमनुत || ७ ||
अथ ब्रह्मावेशादखिलपुरुषार्थैकभरणं
शरण्यं लोकानां शरणजनचित्तैकशरणं ||
स्वयं दृष्ट्वा दृष्ट्या गुरुमपि गुरूणां प्रभुगुरुं
पपाताक्वा भूमौ चरणनिकटे दण्डवदियं || ८ ||
प्रणम्य देवी चरणांबुजाधः क्षणं समास्थाय समाहितात्मा ||
पृ० १४५) महादेवीकृतप्रभुस्तुतिपरिपाटी |
पुनस्समुत्थाय गुरुं विलोक्य विलोक्य पश्चात्प्रणनाम भूयः || ९ ||
उत्थायोत्थाय भूयः प्रभुवदनसुधाधामपीयूषधारां
पायं पायं प्रणामप्रचरणनिपुणा श्रीगुरोर्दिव्यमूर्तिं ||
ध्यायं ध्यायं हृदब्जे समुदितपरमानंदसंदोहमग्ना
दिष्ट्या दृष्टो गुरुर्मे प्रभुरिति सुदती तुष्टुवे हृष्टचित्ता || १० ||
प्रभवे विभवे मनोभुवे ते करवै श्रीगुरवे नमो नमोऽस्मै ||
शरणं करुणानिधे भवास्याः परिपूर्णोऽसि परायणः परात्मन् || ११
||
निगमागमशास्त्रवाग्विलासा महिमानं न हि शक्नुवन्ति यस्य ||
कथितुं तमगम्यदिव्यरूपं कलये संप्रति भाग्यगौरवेण || १२ ||
प्रभुः परायणं परं प्रभुः परायणं परं प्रभुः परायणं
परं पुनः पुनर्वदाम्यहं || १३ ||
प्रभुरेव समस्तजगज्जनिता प्रभुरेव जगत्परिपालयिता ||
प्रभुरेव जगत्परिमार्जयिता प्रभुरेव तुरीयपरात्मगुरुः || १४ ||
प्रभुरेव गुरुः प्रभुरेव शिवः प्रभुरेव निरंजननित्यगुरुः ||
प्रभुरेव विधिः प्रभुरेव हरिः प्रभुरेव शिवः प्रभुरेव परः || १५ ||
पृ० १४६) प्रभुता भरिता भुवनत्रितये प्रभुता शिवता शिवता प्रभुता
||
प्रभुता शिवता गुरुतैकरता प्रभुरेव शिवः शिव एव गुरुः ||
इति स्तुवन्ती परितश्चरन्ती पुनर्नटन्ती शरणान्नमन्ती ||
शरण्य पाहीति मुहुर्वदन्ती तदन्तिके सा प्रणनाम भूयः || १७ ||
अथाल्लमस्तामबलायमानां विशुद्धभक्तिं कृपया विलोक्य ||
अनुग्रहेणात्मनि संविभाव्य प्रभुस्तमूचे बसवेंद्रमार्यं || १८ ||
इयं महादेव्यवधारयैनां प्रमाणतः सप्तवितस्तिकायां ||
विशुद्धभक्तिस्फुरणं त्वपारं विजृम्भतेऽहो बसवार्य पश्य || १९ ||
लज्जाभिमानौ परिहृत्य धीरा हृन्मोहपाशच्छिदियं विमुच्य ||
बंधानशेषानरिजैत्रशीला दिगंबरी भाति विरागपूर्णा || २० ||
इत्थं प्रभुस्तं बसवं प्रबोध्य स्वयं ततश्चेतसि सन्निधिस्थां ||
संभाषणीयेयमिति प्रसादादाह स्म देवीमखिलैकनाथः || २१ ||
तारुण्यलावण्यसुरूपरेखा विराजते तन्वि तवांगयष्ट्याम् ||
पृ० १४७) अल्लममहादेव्योस्संवादः |
अनंगलीलाधनुरुज्वलायां तथापि धैर्यं तव किं विरागे || २२ ||
स्त्रीणामपूर्वं हि दिगंबरीत्वं विवस्त्रभावाद्भुवि वर्तनं यत् ||
विलोक्य लोका भवतीं हसन्ति किमर्थमित्थं सद आगतासि || २३ ||
आकर्ण्य वाक्यं जगदेकबन्धोरक्वा महादेव्यवदद्गुहेशं ||
संपूर्णभावस्य परात्मनोऽहं सती किमर्थं मम वस्त्रबंधात् || २४ ||
संबंधो मम किं मनस्तनुधनासंगक्रियाया ह्रिया
का मे कामकथा त्रिनेत्रचरणांभोजद्विरेफात्मनः ||
दुरापास्तसमस्तचित्तविकृतेर्वेषेण वा किं मम
स्वामिन्वेत्यखिलं भवानिति तया प्रोक्तोऽब्रवीदल्लमः || २५ ||
दृश्या त्वं न हि दृश्यते पशुपतिर्दृग्रूप एवेष्यते
दृश्यादृश्यतया विरुद्धपथयोस्तेजस्तमस्तुल्ययोः ||
संबद्धः कथमज्ञता यदि भुवि स्त्रीणां तथा त्वं न हि
प्रायो लोकविरुद्धभावकलिता वाग्ब्रह्मवादिन्यसि || २६ ||
देवी प्राह गुरो विमर्श्य कलया साकारया संवृतो
पृ० १४८) नीरूपोऽपि परप्रकाशचरणस्साकारवद्भाति यत् ||
तत्साकारनिराकृतिद्वयमिदं संवित्स्वरूपं महः
संविज्ञाय शिवैकरस्यकलया वृत्तास्मि मूर्त्ताप्यहं || २७ ||
निराकारं यद्वत्सततमपि साकारघटितं
तथा साकारं तन्निरवयवचैतन्यघटितं ||
विचाराद्ब्रह्मान्यन्न खलु सकलं कीलकमिदं
विशेषेण ज्ञात्वा तदुभयगताहं समरसात् || २८ ||
श्रुत्वा तद्वचनं प्रभुः पुनरपि प्रोवाच बाले वृथा
क्षीरे सर्पिरिव प्रकाशचरणं मययेव भातीति यत् ||
उक्तं तन्न हि संगतं समरसश्रीभक्तिनिष्ठां विना
निर्लज्यं कुतले दिगंबरतया संचारमात्रेण किं || २९ ||
आकर्ण्य प्रभुणोदितं तमवदद्देवी प्रणम्यादात्स्वा-
मिन्नल्लमसार्वभौम हतदुर्मायांधकारावृते ||
युष्मद्दिव्यपदाब्जदर्शनवशात्सान्निध्य एवास्ति
तज्ज्योतिर्लिंगपरात्ममूर्तिरमलेत्येषा मनीषा मम || ३० ||
इत्थं नित्यमनन्यभावहृदयां त्वामेव सर्वेश्वरं
ध्यायन्तीं भवदीयदिव्यचरणश्रीपादुकासंश्रितां ||
पार्थक्येन विलोक्य वाक्यशठनैर्भीतिं समुत्पादयन्
पृ० १४९) तत्वविषयेऽल्लममहादेव्योस्संवादः |
किं वा त्यक्ष्यसि दूर एव कियता कालेन वेत्सीति तत् || ३१ ||
दूरेस्त्येव समीपतो न हि शिवः कालेन तद्भूयसा
ज्ञातव्यः परमप्रयासविधिनेत्येवं प्रकारान्तरात् ||
मामुच्चाटयसि प्रभो कथमहं कं वा गुरुं प्राप्य
तज्जाने ब्रह्म परात्परं परशिवं त्वत्पादपद्मादृते || ३२ ||
इत्यालपन्तीं कृपया गुहेशस्तां वीक्ष्य देवीं पुनरप्युवाच ||
यस्यामतं तस्य मतं न वेद प्रतीपमेतद्भुवि वेत्ति योऽसौ || ३३ ||
अतः शिवे भक्तिरतीव दूरेत्युक्तेव सत्याशु समीप एव ||
समीपगा भक्तिरितीरणे स्यादत्यन्तदूरे बसवो हि तज्ञ्ज्ञः || ३४ ||
लोके प्रसिद्धः कृतकृत्यभावादेषोऽधिकःस्याद्बसवो महात्मा ||
तस्मात्त्वमेतन्मुखतस्तमर्थं जानीहि देवीत्युदिताऽब्रवीत् सा || ३५ ||
देवाधिदेव बसवो मम सद्विवेकश्छन्नाह्वयस्तु बसवो गुरुरिष्टलिंगं ||
स्वामिंस्त्वमेव मम जंगम एव रामः
श्रीमान्मदंगमभवन्मणिवालनाथः || ३६ ||
तस्मादनन्यसुलभं मम सौख्यमेतल्लोकेऽल्लमप्रभुगुरो तव दासदासाः ||
पृ० १५०) एतत्पदांबुरुहसेवकदासदास्याः कैवल्यसिद्धिरमला
करसंस्थिता मे || ३७ ||
संदर्शनेन शरणांघ्रिसरोरुहाणामुत्सारिताः करणदुष्टगुणा
मदीयाः ||
श्रीमच्छरण्य शरणार्थितया निरस्ता माया पुनर्जननमृत्युकरी विहेया
|| ३८ ||
नित्यं महेशशरणांच्छरणं भजामि नातः परं हृदि
बिभेम्यरिवर्गतोऽहं ||
इत्थं निरस्तममता निरहंक्रिया सा नैर्मल्यभक्तिपरिपाकवती बभूव ||
३९ ||
दुर्भ्रान्तिसन्ततिमधः पदयोर्निपात्य शुद्धान्तरंगभरितां
विमलार्यपुत्रीं ||
देवीं विलोक्य हरभक्तगणास्समस्ताः स्वान्ते परामिव कलां बहु
मानयन्तः || ४० ||
स्त्रीजन्म बोधरहितं खलु तत्प्रपद्य त्यक्त्वा विकारमखिलं मदनं
समूलं ||
उन्मूल्य निश्चलतया समचित्तवृत्तिस्सौंदर्यसारखनिरप्यहहा विरक्ता ||
४१ ||
तारुण्यपूर्णवयसा विलसत्स्वरूपा लज्जाकरे सविधवेश्मगतौ च काले ||
इत्थं मनस्तनुधनेष्वभिलाषशून्या मान्या विराजति सुविस्मृतलोकभावा
|| ४२ ||
पृ० १५१) महादेव्यै प्रभूक्ततत्वोपदेशः |
जीर्णांगसंगिपलितैः परिवेपमानशीर्ष्णा च नास्ति हि नृणां भुवि
वृद्धभावः ||
नैश्चल्यचित्तपरिपाकबलप्रयुक्तं वृद्धत्वमाकृतिशिशोरपि
शास्त्रसिद्धं || ४३ ||
कालं कियन्तमपि जीवनमज्ञभावाद्व्यर्थं पशोरिव जनस्य
विमूढसाम्यात् ||
तस्मादनश्वरमहेश्वरसामरस्या देवीति तुष्टुवुरलं बसवादयस्तां ||
४४ ||
ज्ञात्वाऽल्लमो हृदि मुदैव तदीयचित्तविश्रान्तिमद्भुततमां मयि
भक्तिनिष्ठां ||
तत्तत्वनिर्णयबुभुत्सुतयागतेमां संबोधयामि तमिति प्रभुराह देवीं ||
४५ ||
ज्ञानं तवाद्य वरवर्णिनि पूर्णमासीन्माहेश्वरं
शरणपुंगवदर्शनेन ||
आयत्तमात्रसुगुणात्मबला यदैव स्वायत्ततां गुरुकृपाऽपि तदैव याति ||
४६ ||
एतद्द्वयीमपि सुसाधयितुं क्रमेण घोराटवीपटलपर्यटनं गतासि ||
इत्थं विरागभरिता भुवनेऽखिलेऽस्मिंश्छक्नोति को नु भवतीव तपो
विधातुं || ४७ ||
आर्ये किमत्र बहुना वचनेन सम्यक् क्षीरं श्रुतं ननु विधाय सुकौशलेन
||
आतंचनेन दधितां यदि भावयेत तस्माद्धृतं न पयसो भुवि केवलात्तत्
|| ४८ ||
पृ० १५२) तद्वद्विवेकसरणेः क्रमशो
विरागस्वभ्यासतोऽवगमयन्परिपाकमन्तः ||
दीक्षावशादयमहं त्वमिति भ्रमोत्थं भेदं व्यपोह्य
कलयेच्छिवतत्वबोधं || ४९ ||
तत्सावधानसमनिश्चलयोगदृष्ट्या ज्योतिः परं हृदि विभाव्य
निरंतरायं ||
निध्यायतः स्फुरति तत्परमप्रकाशलिंगं स्वतोऽधिगतनिर्मलधर्ममेघं
|| ५० ||
देवि त्वमद्य तव निर्मलभावभूमौ बीजं समुप्य शिवतत्वमयं निषिच्य
||
तद्धर्ममेघसलिलैः प्रणवांकुराग्रज्योतिः सुमाहितशिवैक्यफलं
गृहाण || ५१ ||
अंगान्तरस्थितसुलिंगमखंडभासा बाह्यान्तरस्थमखिलं ग्रसति
प्रपंचं ||
तद्देवि विस्मृतनिजांगकथा तदैव चिद्दिव्यलिंगसहजैक्यमवाप्नुहि त्वं ||
५२ ||
इत्यल्लमप्रभुगुरुस्तनुचित्तवायून्देव्याश्चिदग्निवलये हृदि हावयित्वा ||
सर्वातिशायि निजनिर्गुणनित्यतत्वे लीनं चकार शिवजीवविकल्पमाशु || ५३
||
इति निरुपमलीलानित्यनिर्वाणनिष्ठा धृतिपरमुपदेशं
देशिकेन्द्रात्प्रपद्य ||
अय इव कनकत्वं स्पर्शवेधिप्रभावाद्भवलवमपहाय प्राप तेजोविभूतिं
|| ५४ ||
पृ० १५३) प्रभूपदिष्टाया महादेव्याः श्रीगिरिं प्रति गमनम् |
शरणजननमस्यां भावयन्ती नमन्ती पुनरपि पदपद्मं
श्रीगुरोस्संस्मरन्ती ||
पुलकितमृदुगात्री नेत्रयोर्बाष्पपूर्णा प्रभुतिलकमथाक्वा भक्तिनम्रा
ववन्दे || ५५ ||
तदनुमतिमवाप्य श्रीमती निर्ययौ सा तदनु बसवगेहाद्भक्तचित्तैः
सहैव ||
रहसि कृतसमाधिर्नाशये दुष्टमायामिति हितमतिरागाच्छ्रीगिरिं
योगनिष्ठा || ५६ ||
अथ गिरिशिखरेन्द्रे सिद्धपीठे विशुद्धे स्थिरमतिरधिरुह्य श्रीगुरुं
सर्वपूर्णं ||
हृदयकमलमध्ये भावयन्ती
समन्ताद्दृढतरशिवयोगादंगलिंगैक्यमाप || ५७ ||
इति सकलमुनीन्द्राः श्रीमहाक्वांबिकायाः
प्रभुपरिचितजीवन्मुक्तिनिष्ठा कथेयं ||
श्रवणपुटनिपीता भक्तियोगं प्रसूते सुरतरुलतिकेवाभीष्टमप्यातनोति
|| ५८ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
महादेव्यागमनतदनुग्रहवर्णनगतिर्नाम सप्तदशोऽध्यायः ||
ओं
वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला |
ग्रंथ ८ वा.
(श्रीव्यासकृतभविष्यत्पुराणांतर्गत)
प्रभुलिंगलीला
भाग ३ रा.
हा (महाराष्ट्र तात्पर्यासह)
वेदमूर्ति, मणूर मठाध्यक्ष मल्लिकार्जुनशास्त्री
यांनीं मुंबी येथील
शके १८२६, सन १९०४
पृ० १) || भविष्यत्पुराणे प्रभुलिंगलीलायां ||
तृतीयभागप्रारंभः |
|| श्रीनंदिकेश्वराय नमः ||
अष्टादशोऽध्यायः ||
सूत उवाच-
श्रीसिद्धवीरेशपदाम्बुजेहा भक्त्या महेशस्य विनष्टमोहाः |
त्यक्ताशयाः श्रीगुरुसत्कृपायाः शृण्वन्तु धीराः प्रभुलिंगलीलां
|| १ ||
अक्कामहादेव्यमलान्तरंगं देवः समाधाय शिवात्मबोधात् |
भक्तिस्थलं ज्ञानपथोपदेशात्कर्तुं स्थिरं हृद्बसवस्य मेने || २ ||
अथाल्लमस्तं बसवं विलोक्य प्रसाददृष्ट्या परतत्वनिष्ठां |
उपादिदृक्षुः स्वयमेव साक्षाद्गुरुः परात्मा वचनं बभाषे || ३ ||
सदेष्टलिंगं भजतः सुनिष्ठया दृढा हि भक्तिर्गुरुलिंगजंगमे |
त्रिलिंगभक्तेर्दृढभावतः स्थिरा मनोगतिः प्राणसुलिंगसंगता || ४
||
चित्प्राणलिंगार्पितचित्तवृत्तिं शक्नोति न स्प्रष्टुमियं हि माया |
अत्येति मायां तु यदा तदैव निर्वाणमार्गो बसवार्य भाति || ५ ||
पृ० २) श्रुत्वा गुरूक्तं बसवस्तमूचे प्रभो महात्मन् परिहाप्य मायां ||
चित्प्राणलिंगांगविवेकतो मे कैवल्यमोक्षक्रममादिशेति || ६ ||
दीक्षागुरुस्तं प्रभुराह भूयो लीक्षा वसन्तूधसि दीर्घकालं |
ताः क्षीरलेशं न पिबन्ति तद्वद्दाक्षायणीशं बहिरर्चयन्तः || ७ ||
अन्तः परं ज्योतिरमेयलिंगं सन्तः शिवं संततमर्चयन्ति |
लिंगावधानाय सदान्तरंगे भक्तिर्मृषा सैव न या क्षमेत || ८ ||
द्रुमेषु पुष्पाणि सरस्सु वारि शैलेषु पत्राण्यटवीषु गन्धाः |
धान्यानि नैवेद्यकृते वसन्ति सस्येषु बाह्यार्चनतत्पराणां || ९ ||
एतानि संपादितुमर्चनायै यद्यापयेत्केवलमेव कालं |
तत्सर्वधा भेदधियोऽस्य जन्तोरैक्याय जायेत न भक्तिदार्ढ्यात् || १० ||
स्वायत्तमेतत्खलु सर्वजन्तोर्यत्केवलं साधनसंविधानं |
गुरोः कृपायत्तमथान्तरंगे लिंगार्चनं तन्नहि दंभभक्त्या || ११ ||
पृ० ३) बसवस्योपदिशन्तमल्लमं प्रति सिद्धरामस्य वचनम् |
न दांभिकानां बहु मानयेऽहं भक्तिं प्रवातस्थितदीपकल्पां |
पारं न यात्येव तदीयभक्तिर्वैराग्यहीनस्य यतेः कथेव || १२ ||
रुध्वा केवलकुंभकेन मरुतः कायं वशीकृत्य यः
क्षुत्तृष्णादिरिपून्निहत्य सहसा जित्वेंद्रियाणां गणं |
चित्तं वृत्तिविवर्जितं पय इव क्षीरे समारोपयेल्लिंगे स्वात्मनि
सिद्धरामवदसौ ज्ञानं लभेच्छांभवं || १३ ||
श्रुत्वा तद्वचनं प्रभोर्विनयतस्तं सिद्धरामोऽब्रवीद्देव
श्रीगुरुसार्वभौम कथमित्याज्ञापयेस्त्वद्भटं |
उर्व्यां त्वत्पदकिंकरेषु समतां नो शक्नुयां केन वा प्राप्तुं मेरुतृणे
तृणामरगिरी त्वन्निग्रहानुग्रहात् || १४ ||
स्वामिन्मे बसवार्य एव परमाचार्यो गुरुः स्यान्मम च्छन्नाख्यो
मणिवालमाचयघनो मज्जंगमोऽहं शिशुः |
भक्तानां परमेश्वरस्य विमलज्ञानैकसंधायिनां तस्मादत्र
कियानहं भगवतो देवस्य वाग्गारैवे || १५ ||
पृ० ४) इत्युक्तः प्रभुरभ्यधात्प्रगुणयंस्तं साधु साध्वित्ययं बुद्धं
संप्रति सिद्धराम भवतो वात्सल्यमत्यद्भुतं |
भक्तेष्वित्थमुमाधवस्य महिमा शक्येत केनोदितुं वेदाद्यैश्च न वेद्य एव
बसवाद्यासंख्यभक्तावलेः || १६ ||
यस्य श्रीपदपद्मवर्णनचणा वेदादयो वाग्गणा जाने स
प्रमथाग्रणीर्बसव इत्याख्यां जगत्पावनीं |
नंदीशः स्वयमुद्वहन्क्षितितले भक्तिं शिवे निर्मला ख्यातां
कर्तुमवातरत्कलिजनैराच्छादितां तुच्छकैः || १७ ||
इति प्रभुस्तद्बसवेंद्रसद्गुणानभिष्टुवन्राममुखान्गणान्प्रति |
पुनस्तमूचे प्रणतं कृतांजलिं तदाभिमुख्याद्विकसन्मुखांबुजः || १८
||
वदामि युक्तिं बसवावधारय प्रवृष्टसद्भक्तिपथानुभावने |
मनुष्व लिंगांगमिदं स्वमंगकं तदुज्वलल्लिंगमभेदतोऽर्चय || १९ ||
लिंगोपभोगभरितः परमप्रसादी संसाधयाशु निरुपाधिकचित्समाधिं |
पृ० ५) श्रीबसवाय प्रभुकृतप्राणलिंगतत्वोपदेशः |
तत्साधनत्रितयमात्मनि बोधबीजं ध्यानं तदादि मननं श्रवणं
तदादि || २० ||
वाक्यार्थबोध इति हि श्रवणं तदर्थयुक्तिप्रसाधनमिदं मननं वदन्ति
|
यत्प्राणलिंगविषयं सगुणप्रधानं तद्ध्यानमित्यभिहितं
निरवद्यकीर्ते || २१ ||
एष प्रपंचविषयः खलु पूर्वयोगस्तत्ते ब्रवीमि परमुत्तरयोगतंत्रं |
तत्साधनं श्रुतिमिमां बसवार्य तुर्यावस्थां वदन्ति मननं शृणु
मौनमुद्रां || २२ ||
ध्यानं तु निर्गुणनिरंजननिर्विकारवृत्तिः सदैव फलितं
परमात्मलिंगे ||
संधिः स्थिरा मतिरहो जपयज्ञ इष्टस्सोऽहं तमेव भज
पूर्णसमाधिमेकं || २३ ||
वाक्कायहृत्त्रयमिदं स्ववधानमत्या कृत्वैकगत्यविकलं
घनलिंगमूर्तेः |
ध्यानालयी भवनगोप्यमिदं विदित्वा यो भक्तिमान्विजयते स परं
स्वतंत्रः || २४ ||
तस्यात्मलिंगनिरतार्चनतत्परस्य तत्वत्रयं गुरुचरेष्टपदं निजान्तः |
दीव्यत्प्रसादचरणाम्बुविधानशीलान्यत्रैव संति सकलानि च साधनानि
|| २५ ||
पृ० ६) चिद्रूपसाधनचयैः परमात्मलिंगं संपूज्य यः
समरसस्त्रिपुटीं निरस्य |
लिंगांगसंगपरमार्थशिवैक्यभावादानंदमेव भजतः किमु
बाह्यतन्त्रैः || २६ ||
अन्तस्थचिन्मयपरात्परदिव्यलिंगं यो वा न वेद बसवार्य स मां न वेत्ति
|
तद्बाह्यकर्म परमात्मनि सन्निवेश्य निष्कामतोऽन्तरमलं मृगयेत लिंगं
|| २७ ||
श्रीलिंगजंगमगुरूत्तमतत्प्रसादपादोदकानि परिपूर्णतयाऽन्तरंगे |
यावन्न भांति करसंगिनिजेष्टलिंगं तावद्भजेत
परमार्थपदाभिलाषी || २८ ||
तत्साधुबोधितपदार्थगतिर्निरस्तव्याध्यादिरात्मनि समः स्तुतिनिंदयोश्च |
दुःखे सुखेऽप्यविकृतिः समतां दधानो भक्तो भजेद्बसव
तद्भवबंधमोक्षं || २९ ||
पंचेंद्रियाणि विषयेषु मनो विहारद्वाराणि तान्यथ विरागबलान्निरुध्य
|
तेभ्यो निवर्त्य हृदयं परमात्मलिंगे संधाय निश्चलसमाधिरयं हि
भक्तः || ३० ||
यावन्मनः प्रचलनं न जहाति तावन्नात्मानुभावमवगच्छति तेन भक्तिं
|
पृ० ७) श्रीबसवाय प्रभुकृतप्राणलिंगतत्वोपदेशः |
नो याति भक्तिरहितो गिरिशं न पश्येत्तद्दर्शनोत्सुकमृते न हि मुक्तिमेति ||
३१ ||
वल्गानिरोधनवशात्तुरगः स्थिरत्वं वायोर्निरोधनवशान्मनसः
स्थिरत्वं |
तद्वायुरोधनवशेन निरुद्धचित्तो देहस्थकारणमियाद्भुवि वीरशैवः ||
३२ ||
माया नाम मनो मनःपरिणतिर्वायुः स वायुः परं
कायोभून्मनसः स एव सततं कायं स्वयं पीडयन् |
भक्त्यंकूरसमुद्गमं न सहते कुत्रापि वा तत्क्रमा-
ज्जेता तस्य भवेद्यदीह बसवः क्षोण्यां स भक्ताग्रणीः || ३३ ||
चेतश्चित्रपतत्रिणो निजदृशौ पादाविडापिंगला-
नाडीसंस्थितमारुतद्वयमिदं पक्षत्रयं प्रोच्यते |
प्राणापानसमाह्वयं नयनयोर्दृष्टिद्वये स्थापिते
नैश्चल्येन मरुन्न याति चलनं चित्तं स्थिरं स्यात्ततः || ३४ ||
चित्ते निश्चलतां गते निरुपमं चिद्बिंदुरत्नं स्फुर-
त्यस्मिन्सुस्थिरतां गते विजयते तत्कालकर्मादिकं |
कार्यं तस्य च मूलकारणमियं माया समुन्मूलिता
नश्येद्विश्वसनीयमार्य बसव स्थैर्यं भजात्मन्यलं || ३५ ||
उप्त्वा लिंगनिमित्तमन्नविलसद्बीजं सदंगस्थले
पृ० ८) संसिच्योदकपानतः सह सदा तद्धातुभिः सप्तभिः |
संवर्ध्योर्जितबीजभूरुहफलं बिंद्वात्मनावस्थितं
यो दत्वांगगुणाय लिंगमनयल्लिंगावधान्येव सः || ३६ ||
भित्त्वाऽऽधारप्रमुखविलसच्चक्रषट्कं क्रमेण
ज्ञात्वा तत्र स्फुरितमनसा षट्स्थलान्यात्मयोगी |
क्षित्यम्ब्वग्नीन् पवनगगने चित्तमत्र प्रयोगा-
न्षड्विज्ञायाप्यविकृतमना भक्तिमान्यस्तटस्थः || ३७ ||
चेतःषष्ठानि भूतान्यथ बसवमुने दैवतानां च षट्कं
षड्वर्णानक्षराण्यप्यमलशिवमहामंत्रगोप्यानि तेषु |
षट्चक्रेषु प्रबुध्वा तदुपरि गमने यस्समर्थः कृतार्थः
सोऽयं पारं गतः स्यात्परशिवविमलज्ञाननिर्वाणभक्तेः || ३८ ||
वदामि तत्वं गुरुलिंगसंगतस्थलानि विद्वन्गुदगुह्यनाभयः |
तदूर्ध्वनाभिर्हृदयं गलाम्बुजं त्रयं तदेतच्चरलिंगमंदिरं || ३९
||
भ्रुवोः सुमध्यं ह्यविमुक्तसंज्ञितं ततः परं ब्रह्मबिलं च तद्द्वयं
|
महेशलिंगस्थलमित्यवेत्य तत्प्रसादवान्स्याद्बसवार्य भक्तिमान् || ४० ||
पृ० ९) श्रीबसवायाल्लमकृतप्राणलिंगतत्वोपदेशः |
सुवस्तु तद्बिंदुमयं गुरूल्लसन्मुखानले पक्वमथार्य पूरयन् |
तदात्मविज्जंगमलिंगसंमुखे महेशलिंगाय समर्पयेत्ततः || ४१ ||
तदीयशेषामृतमात्मसात्कृतं स्वयं समास्वाद्य बहीरसांस्त्यजन् |
चिरं निजानंदनिमग्नमानसः समाधिरूढो बसवार्य भक्तिमान् || ४२ ||
भूम्यम्ब्वग्निसमन्वितो गुरुसुतो विद्युन्मरुद्व्योमगः
श्रीमज्जंगमसंविधानभरितश्चित्तात्मसंधानवान् |
श्रीलिंगैक्यसुभक्तिमांन् स्थितिमिमां जानाति यः पुण्यवा-
नेष श्रीबसवाग्रणीस्त्रिविधसद्भक्तो भवेत्सांप्रतं || ४३ ||
भूम्यम्बुस्थलवांस्तु कर्मभरितो भक्तोऽग्निवायुस्थल-
स्थायी तद्गगनस्थलान्वितमनास्सुज्ञानवानित्यलं |
ज्ञात्वा भक्तमहेश्वरादिपदवीमारुह्य तीर्त्वा परं
यः प्राप्नोति निरंजनं स बसव ज्ञेयो गुरूणां गुरुः || ४४ ||
शक्तिस्थानमपानगुह्ययुगलं भक्तिस्थलं नाभिहृ-
द्द्वंद्वं मुक्तिकलास्थलं किल गलभ्रूमध्ययुग्मं ततः |
ज्ञात्वेत्थं परिहृत्य शक्तिगुणमप्यालिंग्य भक्तिं दृढां
भावज्ञो बसवार्य मुक्तिमतुलां गच्छेत्तदूर्ध्वं स्वयं || ४५ ||
पृ० १०) आत्मानं स्वयमात्मनैव यदि वेत्त्यात्मस्थिता शक्तिर-
प्यात्मन्येव च भक्तिरात्मनि दृढा मुक्तिश्च तत्कारणं |
ज्ञप्तिश्चात्मनि तस्य भाति तदयं यः स्वात्मनैवात्मवि-
न्मान्यः स्याद्बसवार्य चेतसि मया भक्ताग्रणीर्लिंगवान् || ४६ ||
इत्यल्लमप्रभुगुरुर्बसवाधिपस्य तत्पूर्वपश्चिमविधानरहस्यसिद्धं |
योगोपदेशमतुलासनलक्ष्यमुद्राभ्यासोचितं समनुगृह्य जगाद भूयः ||
४७ ||
भक्तिं संततमात्मनैव खचितां कृत्वा वियुक्तां न कु-
र्वात्मज्ञैः सह युक्तिमद्भिरतुलां गोष्ठीमजस्रं भज |
नाधःस्रोतसि धेहि वृत्तिकलनं चेतस्तदूर्ध्वाध्वना
संगृह्याशु निरंजनस्थलमिदं स्थैर्येण संप्रापय || ४८ ||
चिन्तां संत्यज दिव्यलिंगभरितां दृष्टिं स्थिरीभावय
स्वात्मन्येव परामृतैक्यलहरीसाम्राज्यलक्ष्मीं भज |
अस्मद्वागुपदिष्टतत्वमधुना मा विस्मरारूढवा-
नूर्ध्वं तस्य वदामि सारमतुलं लिंगैक्यतत्वं महत् || ४९ ||
पृ० ११) यत्रेशांघ्रिसरोजभक्तिभरितास्तत्पारकांक्षान्विता-
स्तिष्ठंत्यप्रतिमानुभावकलनागोष्ठीप्रसंगात्सदा |
गत्वा तत्र तदीयभक्तिसरणेर्मर्मोपदेशाद्भवं
निर्माष्टुं बसवार्य मुक्तिगतये यास्याम्यहं लीलया || ५० ||
इति सकलगणानां शृण्वतामल्लमेन्द्रस्सदसि बसवनाथं प्राह
कारुण्यसांद्रः |
भजत मुनिवरेण्याः प्राणलिंगांगयोगं
प्रभुचरणसरोजध्याननिष्ठाश्च यूयं || ५१ ||
पठति परमभक्त्या प्राणलिंगांगयोगप्रकटनपटुसारं सच्चरित्रं
प्रभोर्यः |
श्रुतमपि बुधवक्त्राद्धारयेद्वा स्थिरात्मा सुलभतरममुष्य
प्राणलिंगैक्यसौख्यं || ५२ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
प्राणलिंगानुसंधानगतिर्नामाष्टादशोऽध्यायः ||
पृ० १२) || श्रीनंदिकेश्वराय नमः ||
एकोनविंशतितमोऽध्यायः ||
सूत उवाच-
सिद्धश्रीगुरुवीरनाथपदपद्माराधका निस्पृहाः
सिद्धा वृद्धितधातुबद्धकुतनोर्दोषैर्निषिद्धात्मनः |
रुद्धानर्थरजस्तमोगुणभरा बुद्धात्मतत्वाः कृत-
श्रद्धा मुक्तिकथासु भक्तिरसिकाः शृण्वन्तु लीलां प्रभोः || १ ||
प्रभुरप्यथ भक्तसन्ततिं बसवेंद्रं च कृपाविलोकनैः |
अनुगृह्य स गन्तुमिच्छया वचनं प्राह हितं मिताक्षरं || २ ||
बसवप्रमुखा गणाधिपा गमनेच्छा मम जायते भुवं |
अथ यूयमपि स्थिरां मतिं कुरुतास्मत्कथितात्मभावने || ३ ||
गुरुलिंगचरार्चनक्रमैस्सततं साधुसमागमोत्सवैः |
परमार्थपदानुभावनैर्हृदि कालं नयतात्मवित्तमाः || ४ ||
इति वाक्यसुधापयोनिधिप्रसरैस्ताननुभावयन्प्रभुः |
प्रमदाम्बुविलोचनैर्गणैः प्रणतोऽभूत्पुलकांकुरांकितैः || ५ ||
पृ० १३) गमनसमयेऽल्लमस्य बसवादिभ्य आशीर्वचनम् |
विनयान्वितसिद्धरामसन्मुनिमादिश्य सुवर्णलापुरीं |
गमनं कुरु साधकोत्तमेत्यमनस्काधिपतिर्ययौ क्षणात् || ६ ||
अनुसृत्य सहागतान्पुनर्गमनेच्छारहितान्गणान्प्रभुः |
अवलोक्य पथि स्थितश्चिरं कृपया प्राह निजांघ्रिसंश्रितान् || ७ ||
भुवि भक्तगणानशेषतः समयानुग्रहणेन रक्षितुं |
अवतीर्य वयं क्व च स्थले न वसामो दिवसाधिपो यथा || ८ ||
अभवस्य निरंजनस्य मे भवतामेष कृते तनूद्यमः |
अनुसंधिविधौ हि चेतसो न बहिर्योगवियोगसंभ्रमः || ९ ||
अहमेव हि जंगमाकृतिर्न भिदा जंगमलिंगयोस्ततः |
मम रूपमवेश्य जंगमं भजताश्वेव भवेन्ममागमः || १० ||
इति भक्तमनांसि भावयन्प्रभुदेवः सुसमाहितान्यलं |
भवतां भवभक्तिरूर्जिता भवतादाशिषमित्यमन्यत || ११ ||
समुपेत्य च नित्यसत्यतां सततं जंगमलिंगभृत्यतां |
पृ० १४) कृतकृत्यतमा भवन्त्विति प्रभुराशीर्वचनं जगाद सः || १२ ||
विनिवर्त्य गणाधिपान्पुरं बसवादीनसमानवैभवः |
प्रययौ जयवानुदग्दिशास्थितभक्तावनतत्परो गुरुः || १३ ||
बसवादिगणाश्च सद्गुरुस्मृतिनिर्धूतरजोगुणा गृहान् |
प्रतिपद्य पुनः पुराधिकं चरलिंगार्चनतत्परा बभुः || १४ ||
पुनरागमनप्रतीक्षणे प्रभुदेवस्य सदा समाहिताः |
दिवसानि नयन्त ईश्वरे परमोत्कंठितया गणा स्थिताः || १५ ||
तदनु प्रभुराट् पथि व्रजन्सुदृशा यानवलोकयेद्गिरीन् |
त इमे कनकाचलायितास्सुरकल्पद्रुलताद्रुवीरुधः || १६ ||
अमृतांबुधयः सरोवरप्रकराः स्पर्शसुवेधिनो धराः |
खनयो मणिसूनवः स्वयं बभुरुत्कृष्टगुणाद्भुतं जगत् || १७ ||
अथ देशगतास्तमागतं प्रभुमाकर्ण्य सुभक्तिसंयुताः |
सह वाद्यरवेण भस्मसत्फलतांबूलभृतः समाययुः || १८ ||
पृ० १५) श्रीशैलवर्णनम् |
पदयोः प्रणतान्कृपानिधिर्हृदि लिंगैक्यमथानुभावयन् |
अनुगृह्य च तैस्समं ययौ शिवगोष्ठीकथनैर्यथातथं || १९ ||
पथि यत्र निषेदिवान्प्रभुः शिवभक्तैः सह तत्र तत्र सः |
दिवि दुंदुभिनिःस्वनैस्समं सुमवृष्ट्या भरितोऽभवद्भृशं || २० ||
अमृतोपमसारवन्त्यलं तदुपस्पृष्टसरोजलान्यभुः |
दिनमेकमथोषितं परं प्रयतः क्षेत्रमभूद्धरास्थलं || २१ ||
सदुघेध्वनिरध्वनि व्रजन् प्रभुदेवः परमेश्वरालयं |
स ददर्श समस्तसिद्धिदं प्रथितं श्रीगिरिराजमंजसा || २२ ||
यदमेयगुणान्प्रशंसितुं न हि शक्नोति फणाधरेश्वरः |
तपसा किल पर्वतेश्वरः स्वयमैश्वर्यविजृंभितो बभौ || २३ ||
रसवादवयोनिरोधने जगदाकर्षणमंजनौषधे |
यददर्शनवश्यतादिकं सकलं सिध्यति तत्र मंत्रिणां || २४ ||
जगदद्भुतमूलिका क्रियाऽमृतसंजीवनिकाद्यमौषधं |
पृ० १६) सकलार्थसुसिद्धयस्सुधारसकुण्डानि च तत्र संति हि || २५ ||
सुरधेनुनिधानकल्पकद्रुमचिंतामणिमुख्यसिद्धिदः |
असमानतया शिवागमे जयति श्रीगिरिरेव भूतले || २६ ||
महिमा खलु पर्वतेशितुर्लतिका यत्र नटंति भूरुहः |
प्रहसन्ति शिला वदन्त्यहो तरवः पुष्टतराः फलंत्यरं || २७ ||
गिरिशृंगगता महाह्रदाः प्रददत्यम्बुनिषेवणान्नृणां |
तनुसिद्धिमथाभिषेचनाद्भुवि जातिस्मरतां विशेषतः || २८ ||
इतरेतरवैरमुत्सृजन् सततं चित्रमृगव्रजोद्भुतः |
विचलत्यचलेंद्रमौलिषु प्रमदं द्रष्ट्टदृशां विभावयन् || २९ ||
अपि सन्ति विचित्रमद्रिराट्शिखराण्यश्वधियाऽऽरुरोह यः |
गमयन्ति तमाशु यानि तन्मनसा चिन्तितमुज्ज्वलं स्थलं || ३० ||
गिरिराजि लसन्ति सर्वतः प्रविशज्जन्तुततेर्निमेषतः |
अतलादिपथप्रदर्शकान्यहहा दिव्यबिलान्यसंख्यतः || ३१ ||
पृ० १७) अल्लमप्रभुगोरक्षयोः समागमः कुशलप्रश्नं च |
बहुना किमु साधकोत्तमाः किमु वा साधितुमुद्यता भुवि |
गिरिराजमुपेत्य निष्ठया प्रतपंतीप्सितमाप्नुवन्ति ते || ३२ ||
अथ तत्र गिरौ समस्तसिद्धीरहमाप्तोऽखिलयोगवान्किलेति |
वसति स्म समाययौ प्रभुस्तं हृदि गोरक्षमुनिं परामृशन् सन् || ३३ ||
रोगार्तसन्निधिमिवामृतमादिनाथस्संजीवनीव लतिका व्यसुसन्निधानं ||
गोरक्षनाथनिकटं प्रभुराप शीघ्रं
सुज्ञानसंपदुदयोर्जितपुण्यराशिः || ३४ ||
तं देवमागतमवेक्ष्य ससंभ्रमोऽयं गोरक्षनाथमुनिरात्महितं
विचिंत्य |
उत्थाय सांजलिपुटः प्रणतोर्घ्यपाद्याद्यभ्यर्चनं
समतनोद्विनयोक्तिसारैः || ३५ ||
बृश्यासने समुपवेश्य सुभक्तिनम्रः पप्रच्छ देव कुत आगमनं कुतो वा |
गन्तव्यमद्य भवदागमनस्य किं वा स्यात्कारणं मम कृपानिलयाभिधेहि
|| ३६ ||
युष्माकमागमनमद्य मदीयभाग्यादित्यौचितीपरिचितं वचनं निशम्य |
मायां निरस्य तरसाऽनुजुघृक्षुरेनं प्राचुर्यधुर्यवचसा प्रभुराह
देवः || ३७ ||
पृ० १८) गोरक्ष भो वयममी भुवि जन्ममृत्युत्रस्तान्सुसाधकतमान्
घनचिन्मयांगान् |
लिंगैक्यबोधकथया सुधया विधातुं वेदागमोक्तविधयाऽविरतं चरामः
|| ३८ ||
इत्याकलयय वचनं प्रभुलिंगमूर्तेर्यल्लौकिकोक्तिभिरयं परमार्थमाह |
मां ज्ञातवानिव पुरेत्यथवा गुरुः स्याद्गोरक्षनाथ इति चिंतितवान्
हृदन्ते || ३९ ||
पप्रच्छ च प्रभुमसावनघ त्वदीयं दृष्टं पुरेव न हि सम्यगवैमि
रूपं |
भात्यन्यवन्नहि पुरातनवेषभाषा नैसर्गिकीं तव न वेद्मि विशिष्य
वृत्तिं || ४० ||
आस्तां हृदन्तरविवेककथा कथंचिद्विज्ञाय बाह्यमथ पूजयितुं हि
योग्यः |
लोके जनोऽल्लम इतीरितमस्य बुद्ध्वा गोरक्षमाह सहसा प्रहसन्मुखाब्जः ||
४१ ||
स्वात्मानमेव न हि वेत्ति तमोभरेण योऽसौ परस्य हृदयं कथमत्र विद्यात्
|
क्षुद्बाधया प्रतिगृहं भुवि पर्यटेद्यः क्षुण्णाशनौषधमयं
कथमेव दद्यात् || ४२ ||
पृ० १९) गोरक्षं प्रति प्रभोः सांकेतिकवचनम् |
अन्धस्य हस्तभरिते मुकुरेऽपि किं स्यात्साध्यं तथैव बहिरक्षियुगे
स्थितेऽपि |
विज्ञाननेत्ररहितस्य फलं किमस्ति साधारणं विषयवर्तनमाः
पशूनां || ४३ ||
वाक्चातुरीप्रकटनैकपरा हि धूर्तास्तेषां प्रबोधगरिमा कथमभ्युदेति
|
देहात्मवाद इव भाति शरीरमेव संसाधनीयमिति मूढमतिः पशूनां
|| ४४ ||
काये स्थिरे सति हि साध्यतमा विमुक्तिः काये कदाऽपि शिथिले नहि
मुक्त्युपायः |
तत्कायसिद्धिरधिकेति तदर्थचिन्ता कापालिकं मतमिति प्रवदन्ति तज्ज्ञाः
|| ४५ ||
त्वऽऽन्मांसमज्जरुधिरास्थिशिरालिमेदोबीभत्सदुर्भरमिदं मलमूत्रसिक्तं
|
देहं मदीयमिति तत्र कृताभिमानः कापालिकस्य निजभक्तिरसः कथं
स्यात् || ४६ ||
श्रुत्वाऽल्लमोदीरितमत्युदारं गोरक्षनाथः पुनराह देवं |
शृणुष्व सिद्धांतविधिं महात्मन्यत्साधकाः सिद्धिसुखं प्रयान्ति ||
४७ ||
पृ० २०) अभ्याससंपत्तिवशेन कायो यस्य स्थिरः स्यात्तमुदारशक्तिं |
माया न संस्प्रष्टुमपि क्षमेत मृत्युः पुरःस्थातुममुष्य भीतः || ४८
||
प्राप्नोति कायोऽक्षरतां निकामं वयं तु वाग्जालकथां न विद्मः |
तत्कायसिद्धिं तव दर्शयामः पश्येति चोक्तः प्रभुराह भूयः || ४९ ||
गोरक्ष किं वक्षि तनोः स्थिरत्वे किं नित्यता स्यादवशिष्टशक्तिः |
माया कथं वा विजिता भवेत्सा मोक्षः कथं वाऽस्तु मृतेरभावः || ५०
||
क्षरं समस्तं किल भूतजातं कूटस्थ एवाक्षर इत्युदीर्य |
क्षराक्षरेशो हरशब्दवाच्यस्तद्भक्तिमानेष्यति मोक्षलक्ष्मीं || ५१ ||
तस्मात्तनोरक्षयतां न विद्धि भ्रांत्या तनुर्नंक्ष्यति तावकीना |
इत्युक्तवन्तं प्रसमीक्ष्य देवं गोरक्षनाथः सहसाऽब्रवीत्तं || ५२ ||
कथां परित्यज्य बहुप्रकारां गृहाण तूर्णं निशितं कृपाणं |
निधेह्यवष्टभ्य बलं त्वदीयं मदीयकायेऽत्र तदीयधारां || ५३ ||
पृ० २१) योगसिद्धिपरीक्षायां प्रभुगोरक्षयोः संवादः |
मदीयकाये यदि रोममात्रं त्रुट्येत चेत्तर्हि न कायसिद्धिः |
अहं च लोके न भवामि सिद्धस्सत्यं ब्रुवे प्रत्ययमाशु पश्य || ५४ ||
गोरक्षमालोक्य वदन्तमित्थं प्राह प्रभुश्छेदनभेदनाद्यैः |
परीक्षणं ह्यासुरमामनन्ति मतं न चास्मद्गुरुसंमतं तत् || ५५ ||
छिद्येत चेत्तावकमंगमेतत्तदा कथं स्याद्भुवि सिद्धिमान्कः |
एवंविधोक्तिः सुविवेकजा किं सद्धर्ममार्गः किमु मृत्यभावः || ५६ ||
अस्मादृशानां पुरतो न चेत्थं वक्तव्यमात्मा मरणादिधर्मैः |
न स्पृश्यते संगतयेति चोक्तो गोरक्षनाथः प्रभुमाह भूयः || ५७ ||
संदेहवार्तो परिमुच्य सद्यस्संताडयैनं मम वज्रकायं |
खड्गेन मे नास्ति विनाशलेशः सिद्धिं प्रकाशीकुरु मामकीनां || ५८ ||
ममाभिलाषं परिपूरयैनं न खड्गधाराहतिमंतरेण |
चेतो नु तुष्येदिति मामकीनं निर्बध्यमानो हठयोगिनाऽभूत् || ५९ ||
एतस्य चित्तं विकलं न भूयात्खड्गं शरीरे निदधामि बाढं |
पृ० २२) मृतो यदि स्यादसिना विभिन्नः स्रक्ष्यामि गोरक्षयमीन्द्रमन्यं ||
६० ||
इति प्रभुस्तत्करदत्तखड्गं स्वीकृत्य दृष्ट्वा निशितं विधाय |
मुष्ट्यात्सरौ तस्य दृढं गृहीत्वा धारां विधून्वन् निदधौ तदंगे
|| ६१ ||
तदाहतिस्फूर्जितघोरशब्दाच्चचाल भूरद्रिगणश्चकम्पे |
नाच्छिद्यतांगे क्व नु लोममात्रं रराण वज्राहतशैलवत्तत् || ६२ ||
नाथो जगाद यमिनं न हि सिद्धिरेषा माया प्रपंचजटिलीकरणं
तनोस्ते ||
संपादितं खलु वृथा यदयं रराणशब्दोऽस्ति यत्र मृतिरत्र
यथार्थमेतत् || ६३ ||
किं वाक्सहस्रकथनैः प्रलयं विजित्य कायस्य सिद्धिरिति या स मृषा
प्रवादः |
इत्यल्लमः करतलस्थितखड्गमुष्टिं त्यक्त्वा न्यपातयदमुं
प्रहसन्पृथिव्यां || ६४ ||
हा सिद्धयः कथमिमाः प्रलयार्त्युदर्कास्तत्तत्प्रमाणविधयास्त्यखिलस्य
कालः |
यत्कायसिद्धिपदशब्दितमस्ति वस्तु तत्तद्ब्रवीमि शृणु वेदशिखारहस्यं
|| ६५ ||
पृ० २३) अल्लमोपरि गोरक्षस्य खड्गप्रहारकथनम् |
वातातपाग्न्यशनिवृष्टिहिमैरपीड्यो यो रुग्जरामरणवर्जितदिव्यदेहः |
संबंधवर्जनधियात्मन ईश्वरस्य पूर्णं समाधिमधिरुह्य स एव योगी
|| ६६ ||
भूतानि तद्गतगुणांश्च विजित्य बाह्यस्पर्शेष्वसक्तहृदयः
समहेमलोष्टः |
दृष्टोऽपि दैहिकगुणैर्ह्रिदि तैरजुष्टो यः कायसिद्धिभरितोऽस्ति स एव
योगी || ६७ ||
इत्थं वदन्तमवलोक्य गुरुं गुरूणां गोरक्षनाथमुनिरस्य
वचःप्रणाली |
काचित्तदद्य धृतिदार्ढ्यमहं परीक्ष्य संभावयामि महनीयतयेति मेने
|| ६८ ||
संगृह्य तं सुनिशितं करवालमुद्यद्धाराविधूननचणः करलाघवेन
|
सव्यापसव्यविधयाशु बिभेद मूर्तिं सर्वत्र चित्रगतिरेष विभोर्नभोवत् ||
६९ ||
तेनाहतं गगनवत्प्रभुदेहमासीदीषत्क्षतेरपि तदा विषयं सुरूपं |
निःशब्दमप्रतिमकान्तिविकारशून्यं दृष्ट्वा यमी स बहुधा विचचार
भूयः || ७० ||
पृ० २४) उत्प्लुत्य मूर्धनि निपत्य पदद्वयेऽपि पार्श्वस्थितो
भुजकटीयुगलेक्ष्णयापि |
सर्वत्र चित्रगतिरात्तविधूतखड्गो रोम्णां च संधिषु चकार
करप्रसारं || ७१ ||
पक्षीव निश्चलतया गगनप्रदेशे स्थातुं पुरा बहुलकंपितपक्ष्मयुग्मः
|
उत्प्लुत्य खे पुनरपि प्रणिपत्य भूयश्चोत्प्लुत्य पार्श्वचलितः स्थिरतां
प्रपेदे || ७२ ||
आश्चर्यमेतदिति तस्य महामहत्वं विज्ञाय संयमिवरो भयभक्तिनम्रः |
नत्वाल्लमेंद्रमपसृज्य करस्थ खड्गं संताडयन्निजकपोलयुगं
बभाषे || ७३ ||
गुरुस्वाम्यस्माकं भवसि न हि चेत् सिद्धिरतुला तनोरित्थंरूपा भवति
भुवने कस्य यमिनः |
न चैतावन्मात्रो भजति जगदाश्चर्यकृदिदं महत्वं
वेदान्तप्रथितपरमाद्वैतफलितं || ७४ ||
मद्देहमेतदसिखंडितमाशु चक्रे निर्घोषणं खणिति निर्दलिताण्डभित्ति
|
पृ० २५) अल्लमं प्रति गोरक्षस्य पुनरुक्तिः |
देव त्वदंगमिदमंबरवद्विभाति निःशब्दमेव कथमद्य ममाभिधेहि || ७५
||
गोरक्षमाह गुरुराट् शृणु सावधानः काये घनीभवति सापि घनैव
माया |
एतद्द्वयेपि सुघने भवति प्रपंचच्छाया स्थिरा क्व नु तदा तनुसिद्धिरेषा
|| ७६ ||
तस्मान्निरस्यति यदा हृदि कायमायेच्छाया विनश्यति तदा खलु सिद्धिरेषा
|
कैवल्यलक्षणवती भवति प्रसिद्धेत्युक्तः प्रणम्य पुनरल्लममाह योगी
|| ७७ ||
भो आदिनाथ मम कारणदेशिकेंद्र दातुं ममाप्रतिमसिद्धिरहस्यमेतत् |
अत्यादरादनुगृहीतविलासभाषावेषस्त्वमागत इति स्म न वेद्मि किंचित् ||
७८ ||
देव क्षमस्व कृपयाऽद्य ममापराधं दासोऽस्मि तेऽहमिति तत्पदयोः पपात
|
उत्थाप्य तं प्रभुरनुत्थितमस्य चित्तं कृत्वा
शिवानुभवपूर्णमथाब्रवीच्च || ७९ ||
लोहं यथैव पुटपाकवशाद्विभाति तद्वद्विरागपरिपाकवशात्फलाप्तिः
|
गोरक्षनाथमिति सत्कृपयाल्लमेंद्रे पश्यत्यनुग्रहदृशा विचचाल रागः
|| ८० ||
पृ० २६) तेनैव सार्धमभिदुद्रुवुरस्य
तावन्मात्सर्यदंभमदमुख्यमहोपसर्गाः |
संभाषणादपगतौ तदबोधगर्वौ तद्धस्तमस्तकतयाऽपससार माया ||
८१ ||
संप्रार्थयत्प्रभुमपारकृपाम्बुराशिं गोरक्षसंयमिवरो जगदेकबन्धो |
धन्योऽस्मि तावकपदाब्जपरागलेशसंस्पर्शनादधिकमप्यहमद्य याचे || ८२
||
आज्ञापयोत्तमगतिं मम भक्तबन्धो बन्धो हि सिद्धपदवीरितकायसिद्धिः |
इत्यर्थयन्तमनुगृह्य परार्थवेषस्तोषं पुपोष वचनामृतधारयास्य ||
८३ ||
गोरक्ष साधु शृणु किं बहुनोदितेन यावन्न संत्यजति मायिककायसंगं
|
आत्मा न तावदुदयात्तनुसिद्धिरेका बोधस्य केवलमसाधनमेव जन्तोः || ८४
||
यद्युत्सहेत हृदयं तनुसिद्धिमोक्षं सत्साधनद्वयमिदं सममेव लब्धुं
|
पृ० २७) योगसिद्धिपरीक्षायां प्रभुगोरक्षकयोः संवादः |
तर्हि द्वयोरपि गती परिहृत्य भक्त्या श्रीमद्गुहेश्वरपदाम्बुरुहे भजस्व
|| ८५ ||
शीतापनोदमिव पाककथाप्रवृत्तो भक्तो गुहेशपदयोस्तु समस्तसिद्धिं |
आप्नोषि तं परिचरेति गुरूपदिष्टो निष्ठामवाप्य हृदये गुरुमाह योगी
|| ८६ ||
स्वामिन् गुहेश इति कोऽयमपूर्व उक्तस्सोऽयं क्व वा वसति खेलति
किंप्रकारः |
तं केन वात्र विधिना यमहं भजेयं ब्रूहीति तेन
विनयादुदितोऽब्रवीत्तम् || ८७ ||
गोरक्ष संशृणु गुहेश्वरशब्दवाच्यो नान्यो मदस्ति भुवनत्रितयेऽपि
नूनं |
निःसंशयो भव मनस्यकलंकवर्त्मा मामेव भावय सदाऽऽत्मसमाहितोऽसि
|| ८८ ||
नाम्ना गुहेति परमात्मनिवासभूमिस्तस्यां सदा पतिरहं निवसामि नूनं
|
तन्नाम मामकमिदं कुहनानृमूर्त्या सर्वत्र साधु विहरामि बुधावनाय
|| ८९ ||
तस्मादहं सकलभूतहृदंतराले तिष्ठामि वल्लभतयेति भजन्ति ये
मां |
तेषां च निर्मलधियां मम नास्ति भेदस्सोऽहं तथैव सततं हृदि
भावयस्व || ९० ||
पृ० २८) मायाप्रपंचकलनं सकलं त्विदंता
तत्संगतोपहितजीवचितिस्त्वहन्ता |
सोऽहंतया द्वयमिदं प्रविलाप्य पूर्णाहंतामये शिवपदे
स्थितिरित्युपास्तिः || ९१ ||
इत्थं निरंतरमुपास्तिरता हि जीवन्मुक्तिं भजन्ति भुवि
केवलभक्तिनिष्ठाः |
तस्माद्गुहेश्वरमुपास्व निजात्मबुद्ध्या कैवल्यमाप्नुहि
बुधेत्युदितोऽब्रवीत्सः || ९२ ||
अध्यात्मशास्त्रकृतवासनयाऽलमार्य त्वं चेद्गुहेश्वर इदं किमु
लिंगमंगे |
चिज्ज्योतिषस्तव निरंजननिर्गुणस्य भेदोऽस्ति किं भ्रमकृतो निकृतोपयुक्तः
|| ९३ ||
गोरक्षमाह गुरुरस्म्यहमद्वितीयो भक्तेष्वनुग्रहदृशा धृतविग्रहः सन् |
चित्प्राणलिंगमपि हस्ततले बिभर्मि
श्रेष्ठैरनुष्ठितमिहान्यजनोऽनुतिष्ठेत् || ९४ ||
लोकोपकारकृतये बहिरिष्टलिंगं धृत्वा चरामि न भिदा मम तावता
स्यात् |
पृ० २९) योगसिद्धिपरीक्षायां प्रभुगोरक्षकयोः संवादः |
अन्तर्बहिःस्फुरितदिव्यपरप्रकाशलिंगैक्यसंगतिमुदा हरतः स्ववेषात् ||
९५ ||
विज्ञानभक्तिसुविरक्तिमतां मतानि विच्छेदकान्यखिलसंशयबन्धनानां
|
सोऽहं पुरा रचितवान्यदसीति कोटिसंख्यायुतानि वचनानि जगद्धितार्थं
|| ९६ ||
तानि श्रुतिस्मृतिपुराणशुभागमार्थतात्पर्यसंग्रहतया सुविभावितानि |
शृण्वंति ये त इह साधनतारतम्यान्मुक्तिं प्रयान्ति हतकिल्बिषचेतनास्ते
|| ९७ ||
धात्र्यां खुरल्युदितसाधनसाधकार्थो नानाविधायुधधरो हि
परोपकृत्यै |
तद्वन्ममापि समयोचितवेषभाषानैश्चल्यभंजनकृते न भवन्ति योगिन् ||
९८ ||
येषां यथा हृदयवृत्तिरहं तथैव तेषां विमुक्तिपथमाशु
समादिशामि |
तद्वन्ममापि समयोचितवेषभाषास्संतीव वस्तुत इमा न निरंजनस्य || ९९
||
धात्र्यामहं सकलभक्तविरक्तचित्तक्षेत्रेषु भक्तिशिवबोधसुबीजराजिं |
पृ० ३०) वप्तुं दधामि शरणोचितयोगमुद्रां गोरक्ष तेन मम भेदकथा
कुतः स्यात् || १०० ||
के वागताः क्व नु कथं किमिति स्वचित्ते स्याच्चेद्विकल्पकलनं कथमस्य
भक्तिः |
सर्वं मयीति शिवसौख्यसुधाब्धिमग्नो भक्तिं भजेत परमां
गुणगंधशून्यां || १०१ ||
सोऽहं तदेतदिति तद्वदहं ममेति नोदेति यद्वदभिमानलवस्तथैव |
वर्ते जलान्तरसरोरुहपत्ररीत्या निर्लेपतामनुभवामि सदैव योगिन् || १०२ ||
ये त्वंगलिंगयुगसंगतिबोधनिष्ठास्तेषां हि षट्स्थलविवेकितया
मतोऽस्मि |
संगं विसृज्य परिपूर्णशिवैक्यभावा ये चिन्मयाश्चिदहमेव भवामि
तेषां || १०३ ||
ज्ञेयो मदीयमहिमैष न संशयोऽत्र स्याच्चेत्तवाद्य स परीक्ष्य
समाधिमेहि |
उक्त्वेति नीलजलदान्तरविद्युदुद्यल्लिंगे विलीनहृदयोऽथ समाहितोऽभूत् ||
१०४ ||
गोरक्षयोगिनि तदा प्रभुहस्तलिंगं स्वीकर्तुमिच्छति करेण बलाद्गृहीत्वा
|
पृ० ३१) गोरक्षं प्रत्यल्लमकृततत्वोपदेशः |
स्पृश्यं न दृश्यमपि तद्गगनायमानमासीत् सविस्मितमनाः प्रभुमाह
भीतः || १०५ ||
युष्माकमीश महिमा निगमैरवेद्यः कोवाल्पधीरयमहं परिशीलनेऽस्य |
साम्यं भजेत गजदन्तपरीक्षयेदं तन्नाथ मामनुग्रहाण हितोपदेशात्
|| १०६ ||
शिष्यो हि सद्गुरुवरेण परीक्षणीयो नो जातु शिष्यबटुकेन गुरुः
परीक्ष्यः |
तद्रक्ष मां प्रभुगुरो शिवदीक्षयेति गोरक्षनाथविनुतोभवदक्षरेशः
|| १०७ ||
दीक्षाममुष्य कृपयान्तरनुग्रहीतुं शिक्षाक्रमैस्तमथ लक्षविधैः
परीक्ष्य |
प्रक्षीणसिद्धिजडिमग्रथनाय तस्मै मोक्षप्रदं
समदिशद्गुणशून्यतत्वं || १०८ ||
गोरक्षकः प्रभुगुरोरुपदेशमात्रात्सामोदहेमसदृशो विरराज विप्राः |
किंचाल्लमांबुधिकृपामृतपानतृप्तः सिद्धीस्तदैव सकलाः
शिथिलीचकार || १०९ ||
मायां निहत्य निजकायगुणान् विजित्य स्थूलं च सूक्ष्ममुभयं क्रमशो
ग्रसित्वा |
पृ० ३२) स्थित्वाथ कारणतनौ विससर्ज वज्रकायभ्रमं चिदमलाभ्रतनुः
स योगी || ११० ||
गोरक्षको भ्रमरकीटनयेन सद्यः कारुण्यतः प्रभुगुरोरुपलब्धविद्यः |
मुक्तो बभौ परशिवाद्वयबोधसिद्ध्या जीवन्नपि
प्रतिनिवृत्तमृषाप्रपंचः || १११ ||
संगं विसृज्य भविभिर्भवबंधमुक्तश्चिह्नानि शैवविहितानि तनौ
गृहीत्वा |
अद्यापि तिष्ठति रसातलमाश्रितोऽयं गोरक्षसंयमिवरः
शिवभक्तियुक्तः || ११२ ||
इति भृगुसुतमुख्याः सुव्रताः श्रीगिरींद्रे
प्रभुकृतशिवदीक्षादक्षगोरक्षचर्या |
श्रवणपुटनिपीता भुक्तिमुक्ती प्रसूते तदधिकरुचि यूयं धारयध्वं
शृणुध्वं || ११३ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
गोरक्षानुग्रहवर्णनगतिर्नामैकोनविंशोऽध्यायः ||
पृ० ३३) श्रीनंदिकेश्वराय नमः ||
अथ विंशोऽध्यायः ||
सूत उवाच-
श्रीसिद्धवीरशरणा लिंगजंगमदेहिनः |
मुमुक्षवो मुनिगणा लीलां शृण्वन्तु सत्प्रभोः || १ ||
इत्थं गोरक्षनाथस्य सारविद्योपदेशनात् |
संपाद्य कृतकृत्यत्वं सिद्धनाथपदं ददौ || २ ||
तेन श्रद्धान्वितेनाथ सत्कारैः परिपूजितः |
तदाश्रमाद्विनिष्क्रम्य ययावन्यत्र भूसुराः || ३ ||
लोकैकपावनीं लोलतरंगां मंगलप्रदां |
पातालगंगामुत्संगे ददर्श श्रीगिरेः प्रभुः || ४ ||
तस्यास्तटभुवि प्रोद्यत्पर्णशालाविराजितं |
मुन्याश्रमं ददर्शाग्रे धन्यैर्मान्यतमं महत् || ५ ||
रसालसालपनसखर्जूरार्जुनकेसरैः |
किंशुकप्रमुखैर्नानाद्रुमैरत्यन्तशोभितं || ६ ||
पुण्ये तत्राश्रमे व्याघ्राः क्रीडन्ति हरिणैः समं |
चुंबन्ति बभ्रुवदनं मूषकास्तैश्च चुंबिताः || ७ ||
करिणस्तत्र पंचास्यैस्सख्यं कुर्वन्ति संततं |
पृ० ३४) मार्जारैः कीरशिशवो हास्यलीलां वितन्वते || ८ ||
सहैव निवसन्त्यत्र मयूराश्च भुजंगमाः |
अन्ये प्रतीपजातीयास्सजातीया इवासते || ९ ||
समागतं प्रभुं दृष्ट्वा तेन मार्गेण भूसुराः |
प्रत्युद्गम्य कृतार्थाः स्म इति चित्तेषु मेनिरे || १० ||
मुनयोऽल्लममर्घ्याद्यैः पूजयित्वोन्नतासने |
उपवेश्य स्तुतिशतैः स्तुत्वा स्तुत्यं तमूचिरे || ११ ||
प्रभो सर्वज्ञ भाग्येन जातं त्वद्दर्शनं हि नः |
रक्षणीया वयं सर्वे त्वया सद्गतिदर्शिना || १२ ||
परीक्ष्य गोरक्षयतिं दीक्षां दत्वा सुरक्षितं |
कृतवानिति विज्ञाय त्वां द्रष्टुं तावदुत्सुकाः || १३ ||
प्रतीक्षमाणास्सततं भवदागमनं वयं |
तदाद्युत्कंठितस्वान्ता निवसामोऽत्र सद्गुरो || १४ ||
अनुग्रहोऽयं भवतां यदत्रागमनं शुभं |
फलितं हि तपोऽस्माकमद्यैवानुगृहाण नः || १५ ||
स त्वं तत्वरहस्यार्थमुपदिश्य कृपाम्बुधे |
शिष्यत्वेनानुगृह्णीष्व मुनीनस्मान्भवार्दितान् || १६ ||
पृ० ३५) अल्लमस्य सर्वैऋषिभिस्साकं संभाषणम् |
इति संप्रार्थितः सर्वैर्मुनिभिर्जातकौतुकः |
प्रभुः प्रसन्नहृदयो बभूवानुग्रहेच्छया || १७ ||
तेषां प्रार्थयतां प्रभुर्यमवतां कायाम्बुधौ संस्थितं
चेतोदिव्यमणिं तदूर्ध्वपदवीमानीय लिंगाह्वये |
शाणे साधु निघृष्य तत्र जनयन् ज्ञानप्रकाशं परं
सन्निष्ठाह्वयवज्रसूचिभिदया चक्रे बिलं तस्य सः || १८ ||
संधायात्र च बुद्धिसूत्रममलं तल्लोलतां वारय-
न्भेदं चाहमिदं त्वमित्यनुसृतं प्रोल्लंघ्य तं प्रापयन् |
पश्चात्पश्चिमवाहिनीं स्थलकुलेष्वाज्ञातमास्थापय-
न्मौनींद्रान्प्रणवानुसंधिसुखितान्कृत्वाऽब्रवीदल्लमः || १९ ||
इमामशुक्लकृष्णाख्यामविज्ञाय क्रियां हृदि |
कृपां न लभते शंभोश्चिदम्बरनटेशितुः || २० ||
विना महेश्वरकृपामन्तरंगं न शुध्यति |
अन्तः शुद्धिमृते भ्रान्तिर्न नश्यति मुनीश्वराः || २१ ||
अनुत्सृज्य मनोभ्रान्तिं न शिवज्ञानमर्हति |
तद्विना नहि मोक्षोऽस्ति श्रुतियुक्त्यनुभूतिभिः || २२ ||
पृ० ३६) तच्छ्रुत्वा मुनिवर्यैस्तैः प्रार्थितः शिवदीक्षया |
कृतार्थीकृत्य तान्सर्वान्पुनर्वचनमब्रवीत् || २३ ||
कैवल्यमुक्तेर्मौनींद्राः कीलकं साधकोचितं |
सदैव हृदि लिंगैक्यसावधानतया स्थितिः || २४ ||
इत्थमाज्ञाप्य तैर्भक्त्या पूजितो गुरुरल्लमः |
ददर्श पुरतो गच्छन्महाविपिनमग्रतः || २५ ||
भानुमद्दीप्तिलेशस्याप्यप्रवेश्यं यदंतरं |
लतापटलसंस्यूतनीरन्ध्रतरुमण्डलं || २६ ||
तत्कुंजाः कुंजरौघानां विहारावासतां गताः |
चरन्ति यत्र सिंहाश्च व्याघ्रखड्गादयो मृगाः || २७ ||
तिर्यग्भिरपि तैर्देवः सेव्यमानो व्रजन्पथि |
अग्रे ददर्श मृगयुं क्रूरमाकारनिष्ठुरं || २८ ||
दारुकोटरयंत्राणि वैययाघ्रशकटानि च |
ग्रंथिकीलितसूत्राणि श्येनबभ्रुशुनां गणान् || २९ ||
तथा शशकजालानि शिक्यानि यवनीपटान् |
पृ० ३७) व्याधं प्रति अल्लमस्य हितोपदेशः |
मृगयासाधनान्यन्यान्यानयन्तं महावलं || ३० ||
नेत्रपात्रोरुगात्राणां मृगाणां चित्रवर्त्मनां |
गणानाशु जघानैष पत्रिणैकेन लुब्धकः || ३१ ||
करिणः सिंहवत्सिंहांस्तथा शरभवच्छरैः |
मारयामास बहुधा मृगानिव मृगादनः || ३२ ||
अन्यानि जन्तुसन्तानान्येकैकेन शरेण सः |
जघान लीलयाऽटव्यां किरातः कालमृत्युवत् || ३३ ||
तं वीक्ष्य राक्षसाकारमल्लमो हृद्यमन्यत |
अनेन जन्तुविततिर्हतासावन्तकातिथिः || ३४ ||
वीक्ष्योपेक्ष्य कथं यास्यामेतत्कार्यं कथंचन |
निवार्यमनुगृह्यैव क्रौर्यमस्येत्यथाब्रवीत् || ३५ ||
अहो किमिदमुत्सृज्य मृगयासौख्यमान्तरं |
वृथा क्लिश्नासि बहुधा बहिर्मृगयुतां गतः || ३६ ||
प्रभोर्वाक्श्रवणेनैव तद्दर्शनहतैनसः |
तस्याभून्मतिरुत्कृष्टा महत्संगो हि तादृशः || ३७ ||
उवाच स प्रभुं हर्षात्प्रणम्य पदपद्मयोः |
पृ० ३८) भक्त्या परमया युक्तस्त्यक्तशस्त्रः कृतांजलिः || ३८ ||
मामन्तर्मृगयासौख्यमुपदिश्य कृपानिधे |
कृतार्थयेति विज्ञप्तः प्रभुः प्राह कृतानतिं || ३९ ||
कायः काननमत्र तिष्ठति मृगोऽहंकारनामा शुन-
स्तद्ग्रासैकचणान्मनो निगलतो बध्वेंद्रियाण्यत्यजन् |
नीत्वा वायुनिरोधजालवलयं सुज्ञानदृक् तं मृगं
धृत्वा धैर्यधनुर्विवेकमृगयुस्तद्वेधदक्षो भवेत् || ४० ||
सोऽहंभावशरं शरासनगुणे संधाय तं पातयं-
स्तेन ज्ञानधनंजये सुरुचिरं पक्त्वा शिवस्यार्पयन् |
भक्षेदित्युपदिश्य सद्गुरुवरस्तेनापि तत्कारय-
न्नानंदामृतसिंधुमग्नहृदयं चक्रे किरातं क्षणात् || ४१ ||
इत्थं किरातमनुगृह्य ततोऽवरुह्य श्रीपर्वतादथ तदुत्तरदेशमार्गे |
गच्छन्प्रभुर्निजपदांबुजदर्शनेन संक्षीणपूर्वकलुषान्
व्यतनोदशेषान् || ४२ ||
ये मानिनीस्तनभराहितदृग्विलासाः कामस्य किंकरजना
रतिसौख्यलुब्धाः |
ते चापि तं प्रभुमवेक्ष्य विवेकनिम्नाः सन्मानतः सुगतिमेव
ययाचिरेऽद्धा || ४३ ||
पृ० ३९) नानाजनपदगतजनानामल्लमकृतनानाविधोपदेशः |
तानल्लमोऽप्यतनुतान्तरकुण्डलिन्याः शक्तेः प्रबोधनवशाद्युवतेः
शुभांग्याः |
गोष्ठ्या विरक्तिभरितान् विकसद्विहारानानन्दमग्नहृदयानवनौ विचित्रं
|| ४४ ||
अन्यांस्तथानुसरतो रससिद्धिकामानात्मीयबिंदुमयदिव्यरसं निरुध्य |
अन्तर्दृढं भजत सिद्धिसुखं तदीयमित्यादिदेश
भगवानखिलांतरात्मा || ४५ ||
संप्रार्थितो रसघुटीपटुसिद्धिमन्यैः प्राह प्रभुः स्मितमुखो रस एव
बिंदुः |
निष्पंदवायुरतुलौषधमात्मचित्तं मूषाऽग्निरेव मणिपूरपदं विदन्तु
|| ४६ ||
धृत्यैव तस्य परिपाकवशेन जाता सैवोन्मनी रसघुटी
स्फुटमात्मसिद्धा |
लब्ध्वैव तां हरमहेशसदाशिवोर्ध्वस्थानाप्तिरेव निजसिद्धिरियं हि
नित्या || ४७ ||
इत्यल्लमः क्षितिजनानुपदिश्य सारं संरक्ष्य तानथ गतः पुरतो
ददर्श |
अन्यत्र वन्यफलपुष्पसमग्रमग्र्यं मुन्याश्रमं
श्रमनिवारकमाश्रितानां || ४८ ||
पृ० ४०)
माकंदचंदनकपित्थरसालसालमालूरचंपकमुखाखिलशाखिसांद्रं |
सत्यव्रतैः समयिभिः कृतनित्यकृत्यनैमित्तिकादिनियमैः परितः परीतं
|| ४९ ||
यत्राह्वयन्ति विरुतैरतिथीनिवासन्माकंदशाखिषु पिका मधुरैः
समंतात् |
आगच्छतात्त
पिबताध्वमखण्डसौख्यास्सत्कंदमूलफलसाररसान्मदीयान् || ५० ||
तृष्णां निवारयत निर्मलवारिपूरैरागच्छतेति सरसीषु समाह्वयन्तः
|
आभान्ति हंसकलहंसरथांगरंगत्क्रौंचादिपक्षिनिवहा
ललितैर्निनादैः || ५१ ||
वृद्धेषु तापसवरेषु गृहीतकीशहस्तावलंबनपरेषु नदीनदादीन् |
गच्छत्सु तत्र तदुपर्यनुयान्ति कीराश्छायार्थमेव
विकसन्निजपत्रसांद्राः || ५२ ||
यस्मिंस्तपःकृशमुनींद्रजटाभरैस्तैः
संताडितोच्छ्वसितभोगिगणश्रमाम्भः |
प्रोत्सादयन्ति मदहस्तिघटाः स्वकीयश्रोत्रछलव्यजनवीजनतः समन्तात्
|| ५३ ||
पृ० ४१) वनपशुकृतमुनिसेवनवर्णनम् |
मासोपवासमुखघोरतरव्रतस्थान् यत्रासनस्थिरतया रहितान् विलोक्य |
तिष्ठंति पृष्ठत उपेत्य बलार्थमेषां व्याघ्राः
स्वपृष्ठभृततत्तनवो महान्तः || ५४ ||
पंचाग्निमध्यतपसा परितप्यमानान् दृष्ट्वा मुनीनिभगणः
करपूरिताम्भः |
आनीय तत्सविधदेशमहो समन्तात्संसेचयत्यनुदिनं विनयेन नम्रः || ५५
||
वाचंयमेषु जरठेष्वथ यत्र मौंजीनिर्मित्सयोद्यतकरेषु
गृहीतदर्भाः |
आगत्य तांस्तदुपयुक्ततया विदार्य यच्छंति तत्करतले स्वयमच्छभल्लाः
|| ५६ ||
हंसाश्च यत्र बिसकाण्डचयं विभज्य
चंचूभिरंचदतिसूक्ष्मतदीयतंतून् |
आकृष्य ऋष्यधिपभावितयज्ञसूत्रकृत्यै ददत्युदितभक्तिरसास्तदानीं
|| ५७ ||
छात्रेषु यत्र समिदाहरणालसेषु नश्येद्बताग्निरिति वृद्धकपिव्रजोऽपि |
आनीय तत्र समिधः स्वयमादधाति बर्ही स्वबर्हविसरैर्ज्वलितं करोति ||
५८ ||
यत्रावधाननिपुणाः शिवयोगनिद्रां संप्राप्नुवन्ति मुनयो
हतकर्मपाशाः |
पृ० ४२) तत्पर्णवेश्मनिकटे सततं मृगेंद्रा रक्षार्थमेव निवसन्ति हि
जागरूकाः || ५९ ||
वेदत्रयं पठति यत्र तदर्थबोधमभ्यस्यति स्फुटमुपन्यसनं च
वाग्भिः |
तर्कादिशास्त्रसमितेर्विदुषां समूहे कुर्वत्यनूच्चरति कीरगणस्समन्तात्
|| ६० ||
मंत्रागमार्थरसिकोदितसामगानैः
श्रौषड्वषट्प्रमुखतांत्रिकघोषणैस्तत् |
आलिंपताचरत रंगलतां विधत्तेत्यर्घ्यादिशोधनमुदाररवैश्च रेजे ||
६१ ||
किंचातिथीन् कुतपकालसमागतांस्तानभ्यर्च्य मृष्टमशनं प्रयता
ददध्वं |
इष्टं व्रतिभ्य इति चार्चयतेति भिक्षूनश्रूयतात्र बटुकान् प्रतिगौरवी
वाक् || ६२ ||
रुद्राक्षभस्मविलसद्वपुषां मुनीनामत्यद्भुतांतरतपस्सु समाहितानां
|
कर्षन्ति तानवयवान्हरिणा निजांगैर्हर्षेक्षणाम्बु च पिबन्ति
शुकीशुकाद्याः || ६३ ||
पृ० ४३) मुनीन् दृष्ट्वाऽल्लमस्य स्वमनसि विचारः |
एवंविधं मुनिवनं रुचिरं विलोक्य हृद्यल्लमोऽमनुत तेषु कृतानुकम्पः |
आहो प्रयासबहुलाल्पफलं हि कर्म कुर्वन्त्ययोमयविभूषणवद्वृथाऽमी
|| ६४ ||
ग्रामान्गृहाणि च विसृज्य महाटवीषु
स्थित्वाप्यथेश्वरपदाम्बुजयोरकृत्वा |
ध्यानं प्रबोधरहितास्तृणपर्णभाजो यज्ञादि कर्म बहुलं पटतां
प्रयान्ति || ६५ ||
आहो न सन्ति शयनासनभोजनादौ घोराटवीषु रमणीयगृहाण्यमीषां
|
नाच्छादनाय कमनीयदुकूलशाट्यो वल्कानि कर्कशतराणि तु कष्टमेतत्
|| ६६ ||
धर्तुं न रत्नखचितोज्ज्वलभूषणानि रुद्राक्षतामरसबीजसरान् विना
स्युः |
नित्याग्निहोत्रकृतभूतिमृतेन चैषां
श्रीचंदनागरुमृगीमदमुख्यगन्धाः || ६७ ||
क्षुत्तृष्णयोः प्रशमनाय तरुहदादीनाश्रित्य घोरतपसा किमु
साध्यमेषां |
स्वर्लोकसौख्यमनुभूय तु भूय एव क्षोणीं गताः किमु पुनर्न पतंति
मायां || ६८ ||
पृ० ४४) मायाऽऽत्मतत्वविदुषा प्रथमं हि जेया
तत्साधनौपयिकदिव्यकलामबुध्वा |
एतद्भयानकजडाधिककर्मपाशैर्बंधं स्वयं द्रढयितुं प्रमदः
किमेषां || ६९ ||
स्नानं यदि त्रिषवणं भुवि मुक्तिहेतुर्मीनादयो जलचराः किमु
मुक्तिभाजः |
नश्येद्भवः स्वयमधःकरणेन शीर्ष्णस्तर्हीदृशी हि जतुका किमु
बंधमुक्ता || ७० ||
किं मौनमात्रविजिता भवतीह माया मीनग्रहाय न बकः किमु मौनमास्ते
|
शास्त्राण्यधीत्य सकलानि किमार्जितव्यं कीराः पठन्ति न
किमप्युदितानुसारात् || ७१ ||
किं वायुभक्षणपरो भुवि मोक्षमेति व्याला ग्रसन्ति पवनं न किमास्तथा
चेत् |
तत्कर्मजाड्यभरितादपसर्पतीयं माया कदापि नहि तेन विना न बोधः
|| ७२ ||
ज्ञानं विना न खलु कर्मशतैश्च मोक्षो मायापसारणमृते नहि
बोधलेशः |
माया क्रिया हि तदिदं रभसादबुध्वा भ्रान्त्या
क्रियामनुसरन्त्यविवेकनिम्नाः || ७३ ||
पृ० ४५) मुनीन् प्रत्यल्लमस्य तत्वोपदेशः |
वापीतटस्थितशिशुर्हि कृपान्वितेन ग्राह्यस्तथैव मुनयोऽपि मुमुक्षवोऽमी
|
तत्वोपदेशविधिनैव नयान्मयानुग्राह्या इति प्रभुरवोचत तान् विलोक्य || ७४
||
किं संकटेन भवतामृषयः क्रियाया नानंत्यमस्ति फलितस्य
बहुप्रयासात् |
मोक्षाप्तये सुलभमेव वदाम्युपायं श्रद्धान्विताः शृणुत
भाग्यवशान्मदुक्तं || ७५ ||
श्रुत्वा प्रभोर्वचनमुत्कलिकाधिरूढैस्संप्रार्थितोऽथ
मुनिभिश्शुभकांक्षिभिस्तैः |
आज्ञापयात्महितमार्य वयं हि शिष्या मोक्षैकसाधनमिति प्रभुराह
भूयः || ७६ ||
येनापि केन विधिना भजतामहिंसामुख्यं विमुक्तिगतिसाधनमामनंति |
तत्कर्मयोगघटिता भवतां हि हिंसा त्याज्या सदैव खलु सा
शिवयोगिवर्यैः || ७७ ||
हिंसंति ये जगति संप्रति जन्तुवर्गांस्तानंतकस्तदनु सत्यमिदं हिनस्ति
|
तत्कर्मजाड्यमिदमुत्सृजतान्तरंगे विज्ञानकर्मकृतिमर्म वदाम्यमोघं ||
७८ ||
पृ० ४६) अन्तर्यागविधीरितः पशुरहंकारो मरुत्पूरणं
रज्जुर्यूप इतीर्यते मन इदं विज्ञानमग्निः सुधा |
चांद्री सोमलतारसो ग्रहगणाः सौषुम्नचक्राण्यमू-
न्यात्मासौ यजमान ईप्सितफलं मोक्षैकसिद्धिर्भवेत् || ७९ ||
इत्यन्तर्मखतत्वबोधघटिताः कर्माणि निर्मूल्य ते
भूयो निर्मलशैवयोगभरितज्ञानाख्ययज्ञे दृढं |
दीक्षां प्राप्य गुरुप्रभोः करुणया निर्धूतहृत्संशया
मायापाशमतीत्य नित्यपरमानंदाम्बुधौ रेमिरे || ८० ||
संध्याजपश्रवणशास्त्रविचारयोगनिष्ठाग्निहोत्रनिगमाध्ययनार्यपूजा
ः |
सर्वाः क्रियाः परशिवे परिपूर्य पूर्णास्तेऽन्तर्विचारपरमा मुनयो
बभूवुः || ८१ ||
प्रभुगुरुकरुणापांगेक्षणैरीक्षितास्ते सपदि
विगतबन्धास्संप्रदायैकनिष्ठाः |
परशिव इति देवं पंडितास्ते विदित्वा पुनरपि कृतपूजाः प्राहुरेनं
मुनींद्राः || ८२ ||
गुरुवर भुवि मायोत्पत्तिकाले मुनीनां सकलनिगमकृत्येष्वाहतेषु त्वमेव |
पृ० ४७) मुनिकृतप्रभुस्तुतिवर्णनम् |
हृदयकुहरवासी तावदस्मानरक्षीरिदमपि विदितं नः साधु दुर्वासैव
|| ८३ ||
परमपुरुष युष्मत्सेवयाऽद्वैतमुक्तिः करतलकलिता न कारणं
भाग्यमत्र |
इति मुनिभिरधीशः स्तूयमानः समन्तादनुमतिमथ दत्वा
स्वान्तरन्तर्हितोऽभूत् || ८४ ||
अथ पुनरपि भक्तान्रक्षितुं तत्र तत्र स्वयमपि
परिदृश्यस्साधुचित्तैक्यवश्यः |
चरगुरुशिवलिंगाराधनं साधकानां प्रतिपदमुपदिश्य श्रीगुरुः
संचचार || ८५ ||
त्रिपुरभिदनुमत्या ये गणा भूमिभागे विदितसकलवृत्ताः
पूर्वविज्ञानयुक्ताः |
इह जनिमलभन्त ब्राह्मणाद्यन्ववायेष्वधिकृतशिवदीक्षास्ते प्रभुं
प्राप्य हृष्टाः || ८६ ||
प्रमथकुलमिदं नः पावनं लोकरक्षाकरधृतशिवदीक्षं नास्ति
भेदोस्य किंचित् |
अकुलमपि कुलानामग्रतः पूजनीयं भवतु मधुवशादित्यब्रवीद्देवदेवः
|| ८७ ||
अधिगतशिवदीक्षा अन्यकर्मस्वसक्ता
जगदवनधुरीणाश्चारुगार्हस्थ्यधर्माः |
पृ० ४८) दृढपरमविरागा ये निराभारदीक्षा यतिमुनिमतरीत्या ते
भवन्तीत्युवाच || ८८ ||
चरगुरुशिवलिंगाराधनार्थं स तेषां प्रतिदिनमखिलार्थानार्जितुं
कायिकानि |
तदनुगुणविधानि स्वैरमाज्ञाप्य देवो भुवनमखिलमेतद्वीरशैवं चकार
|| ८९ ||
व्यवहृतिमवलंब्याप्येष भक्तान्ववायो मम
चरणसरोजध्याननिर्धूतदोषः |
भवतु हृदयनिष्ठां तामसीं तां च जित्वा चरगुरुशिवलिंगाराधने
जागरूकः || ९० ||
इति गुरुरुपदिश्य स्वात्मतत्वोपदेशं शिवमतहितरीत्या
स्वान्तरन्वग्रहीत्तान् |
तदनु तदनुमत्या ते परं शीलवन्तस्सततमभवभक्त्या वर्द्धमाना
बभूवुः || ९१ ||
कथितमखिलमेतत्साधकानुग्रहार्थं प्रभुगुरुचरितं वः शौनकाद्या
मुनींद्राः |
पठति परमभक्त्या यः शिवाराधनान्ते प्रभुरधिकममुष्मै
वांच्छितार्थं ददाति || ९२ ||
इत्यार्षे श्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
साधकानुग्रहवर्णनगतिर्नाम विंशोऽध्यायः |
पृ० ४९) नंदिकेश्वराय नमः ||
अथ एकविंशोऽध्यायः ||
श्रीसिद्धेश्वरवीरदेशिकपदाम्भोजार्चनातत्पराः
श्रुत्वा भक्तिरहस्यमेव गुरुणा तेनोपदिष्टं महत् ||
नंदीशो बसवाह्वयः समतनोद्यच्छून्यसिंहासनं
तच्छ्रोतुं रसिकाः प्रभोश्चिदमला लीलाऽनुसंधीयतां || १ ||
अथात्र कल्याणपुरेऽल्लमप्रभोर्महोपदेशात्प्रतिभासमृद्धिमान् ||
प्रवृत्तिमार्गं बसवः परित्यजन्निवृत्तिमार्गैकरसो बभूव सः || २ ||
ततोऽस्य कामाद्यरिनाट्यवैभवं विभग्नमासीद्गलिता गुणोद्धतिः ||
दृगिंद्रियाणां प्रमदो लयं गतो मदास्तथाष्टौ दलिताः पलायिताः
|| ३ ||
षडूर्मयः स्थातुमितो भयान्वितास्तथैव कर्मेंद्रियधैर्यमाहतं ||
गतोऽस्य षड्भावविकारसंभ्रमो मनस्तु तस्य स्तुतिनिंदयोः समं || ४ ||
तदंतरंगं शिवयोगसत्क्रियासदासमभ्यासधुरीणतां ययौ ||
जितोपसर्गस्य गुरोरनुग्रहाद्बभूव संतोषसमृद्धिरात्मनः || ५ ||
पृ० ५०) स्वयं ततोऽन्तर्मुखमार्गमाश्रितः प्रबोध्यतां कुण्डलिनीं
क्रमादयं ||
क्षणादृजूकृत्य तदीयवक्रतां ययौ तदाधारमहागृहांगणं || ६
||
ततोऽस्य तद्द्वारकवाटबाह्यतो निहत्य कामं जितकालतां गतः |
प्रविश्य तत्रोपरि हृत्सरोरुहे भवभ्रमोच्चाटनतत्परोऽभवत् || ७ ||
तदूर्ध्वगो भ्रूयुगमध्यमण्डले सुबिंदुरत्नं स्थिरतामवापयन् |
निजानुभूत्या बसवोऽन्वभूच्चिरं प्रबोधसाम्राज्यसुखं हृदन्तरे || ८ ||
अथैष योगः सगुणो वशंगतः कथं पुनर्निर्गुणयोगसाधनं |
गुरुः कदाऽऽगत्य ममोपदेशनं करिष्यतीत्यंतरचिंतयच्चिरं || ९ ||
कदाऽल्लमोऽमेयमहाप्रभाववान् गृहं समायास्यति भाग्यतो मम |
कदा मदीयान्तरसंशयच्छिदा प्रभूपदेशादचिराद्भविष्यति || १० ||
मदन्तरंगस्थितमीदृशं सुखं कदा भवेद्वा सहजं कृपावशात् |
पृ० ५१) शून्यसिंहासननिर्माणोपक्रमः |
चिदंबरेशस्य महानटात्मनः कथं निरालंबतया प्रवर्तनं || ११ ||
स केन वेषेण कयाऽपि भाषया क्व केन रूपेण गुरूद्वहः स्वयं |
समागमिष्यत्यथ तद्विभावने ममास्ति किं वा सदुपायचिन्तनं || १२ ||
मयाऽप्रमत्तेन सदाऽवधार्यमित्ययं कृतोहः प्रभुणा पुरात्मनः ||
अनुग्रहोक्तं गुणयोगमाश्रयन्नुपासनामेव दृढीचकार सः || १३ ||
स इत्थमात्मन्यवलोक्य शांभवीप्रपंचमभ्यंचितभद्रपीठवत् |
विभाव्य तत्राल्लमसद्गुरूत्तमं निवेश्य सद्भक्तिरसादपूजयत् || १४ ||
हृदन्तरस्थं सुदृढं विभाव्य तद्बहिश्च पूजार्थममुष्य सद्गुरोः |
स शून्यसिंहासनमेकमद्भुतं सुशिल्पिना कारयितुं समुद्यतः || १५ ||
स तप्तजांबूनदराशिमुज्ज्वलं महार्घरत्नौघचयं समानयन् |
क्षितौ क्रियाकौशलवत्सुशिल्पिनस्समाह्वयामास विचार्य पंडितैः || १६ ||
तदाज्ञया निर्ममिरे सुशिल्पिनः सुधांशुकान्तोपलकुट्टिमं पुरः |
तथास्य सोपानततीर्हरिन्मणीसुहीरगोमेधिकवालवायजैः || १७ ||
पृ० ५२) क्रमेण तस्योपरि यत्ननिर्मिता सुवर्णरत्नालिभिरुन्नतोन्नताः |
पृथग्यथान्यायमवेक्ष्य शिल्पिभिः प्रदीप्तसप्तावरणोरुभित्तयः || १८
||
तदन्तरालेषु धगद्धगायिताः प्रकीलिताः स्युर्नवरत्नपंक्तयः |
अनन्यसामान्यमशोभताद्भुतं चिदभ्रपीठं बसवेन निर्मितं || १९ ||
बहिर्नवद्वारसुशोभितं पुरं तदन्तरे द्वारचतुष्टयोज्ज्वलं |
तदुन्नतद्वारयुगान्तरालयं रराज तद्द्वारमथोर्ध्वमेककं || २० ||
तदन्तराधारसुलिंगनाभिहृद्विशुद्धिसद्भ्रूयुगमध्यचित्रितं |
क्रमेण षट्चक्रपथं निधाप्य तच्छिरस्यधुर्ब्रह्मबिलाख्यचक्रकं || २१
||
धराम्बुबर्हिर्मरुदभ्रमण्डलान्युपर्यधो जीवपरौ न्यधापयन् |
सुभक्तमाहेश्वरमुख्यषट्स्थलान्यनुक्रमात्पीठवरे न्ययोजयन् || २२ ||
क्षितौ तु काठिन्यमथाम्बुनि द्रवं सदौष्ण्यमग्नौ चलनं प्रभंजने |
पृ० ५३) शून्यसिंहासनरचनावर्णनम् |
तथावकाशं गगने च शून्यतां विचित्रमात्मन्यपि स न्यधापयन् || २३ ||
इडोत्तरे दक्षिणतश्च पिंगला सुषुम्नया मध्यगया प्रकल्पिते |
तयोर्द्वयोश्चंद्रदिवाकरावुभौ यथा स्वयं संचरतस्तथाहि तौ || २४ ||
रराज वीधीपुरि तालुमूलसत्पदोत्तरद्वादशिकान्तभूमिगा |
चिदंबरं तच्छिखरोपरि स्फुरन्महार्हसिंहासनमुन्नतं बभो || २५ ||
सुशून्यसिंहासनमध्यमे महान्सदाशिवाख्यस्तरुरस्ति निस्तुलः |
यदस्य मूलं प्रणवः परः स्वयं लतास्तु पंचाक्षरदिव्यचित्कलाः ||
२६ ||
सुमानि वर्णानि पदानि सत्फलान्यमुष्य नादो हि विमुक्तिदो रसः |
स्वरः प्रकाण्डस्सकलार्थदायको महाद्रुमो रत्नमयो विराजते || २७ ||
महाद्रुमस्यास्य लतेव संगता फणींद्रमूर्धन्यमणिद्युतिर्यथा |
बभौ स्वयं ज्योतिरमेयचित्कलाशिखेव दीव्यच्छिवतत्वभूरुहः || २८ ||
अहो समस्तानि च साधनान्ययं स्वयं प्रपेदे बसवो विमुक्तये |
पृ० ५४) स पंचभूतोर्ध्वमहाचिदंबरे चतुर्दशामूनि जगन्त्यवासयत् ||
२९ ||
समस्ततत्वोपरि शून्यपीठिकां जगन्नुतां कारयति स्म सोद्भुतां |
अहो विचित्रं सकलाश्च देवता यथातथं स्थापयति स्म तत्पुरे || ३० ||
यदत्र नाडीस्सकलाश्च तद्गता मरुन्मयी कुण्डलिनीः सशक्तिकाः |
निधापयामास सुभक्तिसत्कलास्तथा क्रियाज्ञानकलाश्च मर्मवित् || ३१ ||
सबीजनिर्बीजसमाधियोगयोर्महारहस्योचितकोणनिर्मितिं |
स्वयं यथादृष्टमकारयन्महानसौ शरण्यो बसवो जगत्त्रये || ३२ ||
भिदा न पिण्डाण्डयुगस्य केवलं विमृश्यतां साधुभिरित्ययं बुधः |
विकासयामास बहिर्निजान्तरं ययेत्थमस्तूयत सोऽखिलैर्जनैः || ३३ ||
चिदभ्रसिंहासनमीदृशं महत् गुहेश्वराराधनदिव्यसाधनं |
निजात्मरूढं बसवो विनिर्मितं विभाव्य संतुष्टमना बभूव सः || ३४
||
पृ० ५५) शून्यसिंहासनं दृष्ट्वा बसवेश्वरस्य विचारः |
यदत्र चित्रं सकलं हृदि स्थितं नयेन विज्ञाय धियाऽधिरोहणे |
समर्थ एकः प्रभुरेव नान्य इत्यमन्यतानंदनिमग्नमानसः || ३५ ||
य एव धीरः स्वयमेत्य मद्गृहं महत्वमस्य प्रतिबुध्य निर्भयः |
समाधिरोक्ष्यत्ययमेव मे प्रभुः स्वरूपबोधेऽयमुपाय एव नः || ३६ ||
इति प्रतिज्ञाय मतौ व्रती भृशं बुधैकगोष्ठ्या समयं नयन्नयम् |
समागतानां विदुषां प्रदर्शयंश्चिदभ्रपीठं बसवाधिपः स्थितः
|| ३७ ||
गतिर्हि लिंगं भुवि मानसौकसः स्वरो हि लिंगं मधुरो पिकस्य सः |
शुकस्य वाग्लिंगमनूदिताक्षरा प्रभोस्तु लिंगं यदिहाधिरोहणं || ३८
||
विना न सूर्यद्युतिमक्षिगं तमो विनश्यति क्षोणितले यथा तथा |
विना प्रभोर्दर्शनमीश्वरस्य मे न जातु माया कुटिला विनश्यति || ३९ ||
पृ० ५६) इति स्वयं चेतसि निश्चयं गतः प्रतीक्षमाणः स्वगुरोः
समागमं |
पुरेव भक्त्या चरलिंगपूजनं समाचरन्नास्त स दण्डनायकः || ४० ||
तत्काले बसवाधिपस्य भवनं भुक्त्यर्थमेके गता
केचिद्वेषधराश्च याचनपराः केचित्तु वेश्यारताः |
तद्योग्यांबरभूषणादि बसवादाकृष्टुमप्यागता
ये तेषां गणनैव नास्ति नियता लक्षोपलक्षाधिकाः || ४१ ||
तेष्वेकोऽपि न दिव्यपीठममलं द्रष्टुं न शक्नोति त-
त्पृष्टस्तत्र स येन केन बसवो वेत्तीति वक्ति स्फुटं |
तेनैतत्कथमद्भुतं नियमितं ज्ञातुं कथं शक्यते
लोके दृष्टचरं जनैरनुभवज्ञानं विनेति ब्रुवन् || ४२ ||
आहो चिद्गगनासनं निरुपमं ब्रह्मादिभिर्वा कथं
ज्ञातुं चेतसि वा निमज्य बहुधा शक्येत लोकोत्तरं |
एको वेत्ति बुधाग्रणीस्स बसवो यद्वाऽल्लमो देशिक-
स्सर्पा एव विदंतु तद्गतिमिति प्रोचुश्च सर्वे चराः || ४३ ||
मंत्रे नादलये हठे परिचितास्सद्यंत्रतंत्रोर्जिता
वेदान्तेष्वधिकास्तथैव कुशलाः षड्दर्शनज्ञानिनः ||
पृ० ५७) बसवस्य प्रभोरागमनविषयकोत्कण्ठावर्णनम् |
ये दृष्ट्वांऽबरपीठमद्भुततमं दूरान्नमस्कृत्य ते
दुर्ज्ञेयो बसवेश्वरस्य महिमेत्यूचुः शिरःकंपनैः || ४४ ||
क्व नु गृहमधिगत्य श्रीगुरुर्मे दयालुर्ललितगगनपीठं
तावदारोक्ष्यतीति |
तदमलनिजमूर्त्तिध्याननिष्ठागरिष्ठो बसवविबुधमौलिः
स्वान्तरुत्कंठितोऽभूत् || ४५ ||
इति कथितममोघं शून्यपीठीमहत्वं पठति परमभक्त्या यस्सदा
सन्मुनीन्द्राः |
प्रभुगुरुकृपयैव प्राप्तसर्वार्थसिद्धिस्स महितशिवभक्तिः
स्थैर्यमायाति धन्यः || ४६ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
शून्यसिंहासनमहिमाऽनुवर्णनगतिर्नाम एकविंशोऽध्यायः ||
पृ० ५८) श्रीनंदिकेश्वराय नमः ||
अथ द्वाविंशतितमोऽध्यायः ||
सूत उवाच ||
श्रीसिद्धवीरेश्वरदेशिकेंद्रश्रीपादुकाभक्तिरता मुनींद्राः |
निर्देहतत्वस्य यतींद्रमौलेः प्रभोरमेयस्य कथां शृणुध्वं || १ ||
प्राणेश्वरे दूरगते सुसाध्वी यथा सपुष्पा फलकांक्षिणी स्त्री |
रत्युल्बणं सोढुमशक्नुवाना चिंतां तदीयागमने करोति || २ ||
तथा प्रभोरागमनेऽनुभूतिस्सुखाभिलाषी बसवाधिनाथः |
सबीजयोगोदितभक्तिपूर्णश्चिंतां दुरन्तां हृदये ततान || ३ ||
अहो तदारोहणयोग्यमुद्यच्चिदभ्रपीठं रचितं मयैतत् ||
गतास्ततो द्वादशवत्सराश्च प्रभुर्महात्मा न समागतोऽभूत् || ४ ||
प्राणेश्वरेऽस्मिन्ममता मदीया नो याति पारं कथमप्युदीर्णा |
आगत्य वैकल्यमदो निरस्य चित्तस्य देवः क्व दयां करोति || ५ ||
अर्चावदीशश्शिवयोगमर्म स्वान्ते मदीयेऽधिगमयय सम्यक् |
पृ० ५९) बसवेशस्य प्रभोरागमनविषयकचिंतावर्णनम् |
अनुग्रहिष्यत्यखिलान्तरात्मा कदा नु संधास्यति वा मुदं हृत् || ६ ||
प्रज्ञाबलान्मत्कृतदिव्यपीठं राज्ञा यथाज्ञातसुभृत्य कृत्यं |
तथाऽल्लमेन्द्रानधिरोहणेन वृथा कथं स्यादथवेश्वराज्ञा || ७ ||
इत्थं हृदन्तर्बसवो विचिंत्य स्वयं बहिःस्थातुमनौचितीति |
एकान्तमासाद्य यथोपदेशं प्राणान् रुरोधासनबन्धधीरः || ८ ||
अर्थेभ्य आहृत्य दशेंद्रियाणि तानि क्रमात्स्थूलतनोर्वियोज्य |
लिंगानुसंधैक्यपदे सुसूक्ष्मे संस्थापयामास समाधिनिष्ठः || ९ ||
जिता यतः पूर्वसबीजभूमिः प्रभोः कृपायास्तत एव धीरः |
अवाप्तनिर्बीजसमाधिभूमिश्चिरं निजानंदमयो बभूव || १० ||
समाधिसौख्यानुभवेन नित्यं व्युत्थानकालेऽपि जगत्समस्तं |
लिंगात्मकं नान्यदिति स्थिरात्मा पुनःपुनश्चापि समाहितोऽभूत् || ११ ||
कदाचिदागत्य समाधिकाले सुनिर्मलेऽन्तर्मुखदर्पणेऽस्य |
प्रभुः स्फुरन्प्रीतमना विभूतिं दधौ स्वयं निर्मलतत्वरूपां || १२ ||
पृ० ६०) महाप्रसादोऽयमिति प्रभोस्तद्विभूतिमादाय स दण्डनाथः |
आनंदबाष्पांचितनेत्रपद्मो बभूव भक्त्या पुलकांकितांगः || १३ ||
अन्तर्हितोऽभूत्प्रभुरल्लमोऽथ व्युत्थाय सद्ध्यानसमाधियोगात् |
विस्फूर्जदत्यूर्जितदक्षनेत्रभुजांगयष्टिर्बसवो बभूव || १४ ||
स भागिनेयं सुगुणाभिधेयं छन्नाह्वयं सज्जनताविधेयं |
स्वयं समाहूय समाधिदृष्टं विस्पष्टमस्मै कथयांबभूव || १५ ||
यो वेदशास्त्रादिभिरप्यवेद्यस्सोऽयं परं ज्योतिरनादिराद्यः |
परः शिवोऽस्मत्प्रभुरागतोऽस्मान्नानंदयिष्यत्यचिरेण देवः || १६ ||
इत्थं तदाज्ञापितमात्मनीनं छन्नाभिधोऽयं बसवो निशम्य |
आनंदलीलामृतपारवश्यात्प्रत्युद्गमोद्युक्तमना बभूव || १७ ||
उत्कण्ठितस्तत्क्षण एव सोऽयमाहूय तान्कर्मकरानशेषान् |
प्रसाधनायास्य पुरस्य शीघ्रमाज्ञापयामास विभुः समन्तात् || १८ ||
पुरीमलंचक्रुरिमे समन्तात्संमार्ज्य धूलीः परवीथिकासु |
पृ० ६१) कल्याणनगरस्वच्छताकरणम् |
सत्कृत्य गन्धोदकसेचनेन पुष्पाणि सर्वत्र तथोपजह्रुः || १९ ||
प्रासादसौधोपरि गोपुरेषु सालेष्वथाट्टालकतोरणेषु |
सुवर्णकुंभोपरि दर्पणोद्यद्ध्वजावलीसन्नहनं प्रचक्रुः || २० ||
तदुत्सवं पौरजनाः समन्तादाकर्ण्य तत्तद्भवनांगणेषु |
कस्तूरिकाम्भोभिरथानुलिप्य व्यचित्रयन्मौक्तिकरंगवल्लीः || २१ ||
भित्तीरलंकृत्य विचित्रजालैस्सर्वत्र रत्नोज्ज्वलहेमदण्डान् |
संस्थाप्य तत्रोपरि दीप्यमाना वितानपंक्तेः परितो बबन्धुः || २२ ||
मुक्तावलिस्वच्छगुलुच्छरेखाः सन्नह्य तद्वन्मणिमालिकाश्च ||
मध्ये कनद्वर्तुलदर्पणालीर्वितानगर्भेषु विनिन्युराढ्याः || २३ ||
रंभोज्ज्वलस्तंभविराजितानि द्वाराणि जांबूनदवस्त्रकूर्चैः |
सपल्लवैस्सन्मणितोरणैश्च विभूषयामासुरभूतपूर्वं || २४ ||
गृहे गृहे प्रोन्नतकेतनानि प्रबध्य वीथीषु च वाद्यघोषैः |
यथेनरश्मिः प्रसरेन्न किंचित्तथा बबन्धुर्मणितोरणानि || २५ ||
पृ० ६२) घुमंघुमामोदलसत्प्रसूनप्रवालरत्नावलिभिः समन्तात् ||
धूपैश्च कस्तूरिसुगंधिलेपैरलंप्रचक्रुः पुरि पण्यवीथीः || २६ ||
कल्याणमेतन्नगराधिराजं समस्तकल्याणगुणाभिरामम् |
लक्ष्मीसरस्वत्युपलाल्यमानं लक्ष्यं बभूवामरपुंगवानां || २७ ||
महोत्सवस्तद्बसवाधिपस्य गृहे सुधर्माधिपतेरिवासीत् |
उघे हरेति ध्वनिभिर्गणानां लघूकृतोऽभून्मथितांबुराशिः || २८ ||
तदाऽल्लमो मे प्रभुरागमिष्यत्यहो कदा कैस्सह किं प्रकारः |
न बुध्यते संप्रति कुत्रवीथ्यामिति स्म दध्यौ बसवो हृदब्जे || २९ ||
स्थातुं न युक्तं सदने विधेयः प्रत्युद्गमो द्रागिति भक्तसंधैः |
स दण्डनाथः सकलैः सभायां विनिर्ययावल्लमदत्तचित्तः || ३० ||
प्रत्युज्जगाम बसवो मणिवालनाथश्रीमाचयार्यवरकिन्नरसंयमिभ्यां |
सच्छन्नवीरबसवः प्रभुलिंगमूर्तेरासेवितो हठपदार्पणसूरिणा सः
|| ३१ ||
पृ० ६३) बसवस्य प्रभोः प्रत्युद्गमनवर्णनम् |
अन्यैरनन्यहृदयैरभितो गजाश्वारूढैर्गणैः परिवृतो
गणनातिगैस्तैः |
भण्डारिवीरबसवः प्रययौ नृपालवृन्दैरमंदविभवैरपि
पृष्ठभागे || ३२ ||
संसेवितो नवभिरात्मसमप्रधानैरन्यैर्भटप्रकरमागधबंदिवृन्दैः |
संस्तूयमानबिरुदावलिगद्यपद्यो हृद्यल्लमांघ्रियुगुलं कलयन्ययौ सः
|| ३३ ||
तत्रोन्नताकृतिभिरुज्वलवेत्रहस्तैर्विज्ञाततत्तदवनीधवतारतम्यैः |
आहो प्रयात धुरि तिष्ठत सावधानं दूरे तथाऽपसरतेति
वचोऽभ्यधायि || ३४ ||
संबाधवारणपरैः परिसेव्यमानः
संचाल्यमानरणदंदुककुन्तहस्तैः ||
उत्पत्य तानुपनिगृह्य कृताट्टहासैरुक्त्वा स्वनाम पटुवीरभटैर्ययौ
सः || ३५ ||
खेटैः ससंभ्रमतया धृतखड्गखेटैर्भूयः कृतांजलिपुटैश्च
निजाभिमुख्यात् |
दूरस्थितैः सविधगैश्च विनम्रकायैः पृष्टैर्नटद्गतिगतैश्च
भटैर्ययौ सः || ३६ ||
पृ० ६४)
अर्काश्वसंयमपरैर्जवनैर्महाश्वैरैरावणस्फुरणवारणवारणौघै.
ह् |
संख्यातिगैरतुलपुष्परथैरनेकैस्साकं ययौ बसवमंत्रिवरो मनस्वी ||
३७ ||
चित्रांबराणि रमणीय तराणि धृत्वा भक्तस्त्रियः
कलशदर्पणपाणिपद्माः |
सद्भूषणा निटिलभास्वरभूतिरेखा जग्मुः पुरो बसवमंत्रिवरस्य
बह्व्यः || ३८ ||
भावप्रबोधनिपुणाः कवयस्तथैव तत्राशु
कल्पितगुणाद्भुतकाव्यपाठैः |
अप्रीणयन् हृदयमस्य तथा रसज्ञा
नाट्यक्रमैर्भरतशास्त्रकलाप्रवीणाः || ३९ ||
छत्रैर्विचित्रकलशैः
सितचामरौघैर्देदीप्यमानवलयैर्व्यजनालवट्टैः ||
वर्णानुरंजितमुहुर्मुहुरास्तृतां च संवीज्यमानपटकूर्चशतैर्ययौ
सः || ४० ||
रामाः पुरंदरवधूविजयाभिरामसद्रामणीयकनिजावयवाभिरामाः |
पृ० ६५) बसवस्य प्रभुं प्रति प्रत्युद्गमनवर्णनम् |
नीराजनोद्यतकराहितहेमपात्राश्चित्रं विचेरुरुभयत्र पुरोऽस्य मार्गे || ४१
||
पादौ सरोरुहजितौ पदकंकणान्तर्मुष्टेरपूर्णमवलग्नमभूच्च यासां
||
ता निर्भरोरुजघनस्तनभारधुर्या
धैर्याद्ययुर्विधृतसाधनपाणिपद्माः || ४२ ||
चंचन्मदालसदपांगदृशः स्मितास्याश्चेष्टाविलासभरिताः
सरसोक्तिसाराः ||
मिथ्यावचःकपटसत्यमृषाप्रमोहा वाराऽऽन्गनाश्च बसवं
पुरतोऽनुजग्मुः || ४३ ||
इत्थं महाविभवनिर्जितराजराजे प्रत्युद्गमोद्यतगतौ बसवाधिराजे |
ये तत्र संति कतिचित्परवादिबौद्धास्ते तद्विभूत्यसहनादभजन्जुगुप्सां
|| ४४ ||
गत्वाऽथ बीजलनृपं परवादिनस्ते कानि प्रकल्प्य वचनानि मृषैव
धूर्ताः |
ज्ञातप्रभूद्गमनवार्ततया तदीयमुन्मादिवर्तनसमं कथयांबभूवुः
|| ४५ ||
स्वप्ने विलोक्य परिपक्वफलानि वृक्षे तस्मात्प्रबुध्य पुनरत्तुमिहेच्छतीव |
पृ० ६६) दृष्ट्वा हठेन शुभसूचनमात्रमेष भ्रान्त्या तनोति
जगदद्भुतदांभिकत्वं || ४६ ||
राजा निशम्य वचनं स्वमताभिमानात्किंचित्प्रकुप्य हृदये पुनरप्युवाच |
आहो मदीयनगरे मयि वर्तमाने त्यक्त्वा ममानुमतिमेष कथं विधत्ते || ४७
||
स्वप्ने तु किंचिदिह भस्मनि दीयमाने भ्रान्तिं धराधरसमां बसवः
प्रपेदे |
भक्तोऽथवा भजतु लोकविरुद्धमर्थं सत्यं स एव भवतां किमु तेन
हानिः || ४८ ||
वेत्ति स्वमेव महिमानमसौ स्वकीयं नो जात्वलौकिकमिदं वयमत्र विद्मः ||
विज्ञायते च सकलैः पुनरेतदन्ते दृष्ट्वैव तावदधुना ननु भिद्यतां
सः || ४९ ||
उक्त्वेत्थमेव नृपतिः पिशुनान्स्वकीयांस्तूष्णीं बभूव
मनसाऽऽहितरोषपूरः ||
विज्ञाय तन्नृपतिचित्तमसौ महात्मा चिन्तां चकार महतीं
बसवाधिनाथः || ५० ||
पृ० ६७) कुत्सितरूपेण प्रभोः कल्याणनगरं प्रत्यागमनम् |
नायाति किं मम गुरुः प्रभुरल्लमेन्द्रो लोकेऽपहास्यचरितोऽस्म्यथवा
महेशः ||
सर्वत्र चास्ति मयि किं निगमागमानां कर्ता स एव भगवान्परवादिजेता
|| ५१ ||
इत्थं विचिंतयति भक्तकुलावतंसे हंसोल्लमोन्तरमवेत्य तदा तदीयं ||
शीघ्रं न यामि यदि भूमिविभुर्जनाश्च भक्तं हसन्ति न तथास्त्विति
साधु मेने || ५२ ||
मत्वेति चिन्मयवपुः स्वयमप्यधीशः प्रोन्मत्तवेषभृदयं
गुरुमण्डलेन्द्रः ||
साक्षाद्बभूव बसवादिगणाधिनाथैर्ज्ञेयो न
पामरजनैर्विषयैकलुब्धैः || ५३ ||
ह्रस्वांगसंगततनुः कुटिलांघ्रिरीषच्छ्मश्रूः कषायितकचो
गडुवक्रकण्ठः ||
क्षुभ्यत्कटिर्बहुलरोमततिः
कुदृष्टिराक्रोशवाक्चलगतिर्विकृताट्टहासः || ५४ ||
नीलापसारविकसद्व्रणराजिरन्तर्ध्यायन्रुदन्परिहसन्कृशलंबकर्णः ||
लालाक्षरन्मुखबिलः प्रभुराजगाम भुंगीश्वरः
स्वयमिवाश्रितवत्सलोऽसौ || ५५ ||
पृ० ६८) इत्थं प्रभुर्नगरमेत्य विनिंदतोऽपि
कांश्चिज्जनान्प्रतिवदन्स्वयमाशिषैव ||
कांश्चित्प्रताडनपरान् स्तुतिमेव चक्रे गायज्जनान्प्रति जगौ नटतो
ननाट || ५६ ||
कांश्चिच्च भूषणपरान्प्रतिभूष्य तत्र
कांश्चिन्नियुद्धचतुरान्प्रतियुध्य धीरः ||
कांश्चिन्नमस्कृतिपरान्प्रति नम्रमूर्धा कांश्चिद्विकारवदनान्विकृतिं
चकार || ५७ ||
बालान्विलोक्य पुरि बालवदेव देवश्चिक्रीड कुत्र च पपात धरातलेऽसौ ||
उत्थाय शीघ्रमभवोऽर्भकवच्च केषां केषां च
वृद्धवदभूत्परिदृश्यमानः || ५८ ||
दृष्टः कदा रसिकवत्क्व च मूढतुल्यो दृश्यः कदा गगनवत्क्व च
निर्विकारः ||
दूरे क्वचित्क्व च समीपगतः कदाचित्सर्वत्र सर्वग इति प्रथयन्स्वशक्तिं
|| ५९ ||
इत्थं प्रभोर्विहरतो महिमावबोधः कस्यापि नाभवदथो बसवेश्वरस्तं
||
पृ० ६९) अल्लमप्रभोर्दर्शनोत्सववर्णनम् |
गूढं निधिं भुवि यथांजनसिद्धयोगी तद्वत्सुनिर्मलधियाऽल्लममेव
मेने || ६० ||
उत्कण्ठितः स हृदये पुलकांकितांगः
स्वानंदबाष्पलहरीपरिपूर्णनेत्रः ||
भक्तैः समं सविधमेत्य निधाय भस्मताम्बूलमाल्यनिचयं पदयोर्ननाम
|| ६१ ||
भक्तांगना विनयभक्तियुतास्समेत्य दीव्यन्निजाभरणदीप्तिभिरुल्ललत्सु ||
दन्ताक्षिहस्तरुहरश्मिषु चारुगीतैर्नीराजनानि विदधुः
प्रभुलिंगमूर्तेः || ६२ ||
वाद्यध्वनिस्फुरणमत्यधिकं बभूव
चाटुप्रबंधमपठद्भटबंदिवृंदं ||
पौरास्समेत्य विनयेन ववंदिरेऽमुं भंगं मुखेषु परवादिगणाः
प्रपेदुः || ६३ ||
कल्याणपट्टणमिति प्रथितं पृथिव्यां
यद्द्वादशप्रथितयोजनविस्तृतं तत् ||
सर्वं प्रभूत्तमसमागमने बभूव कल्याणदीपकरपौरसतीसमेतं || ६४
||
भक्तव्रजे प्रमुदिते शरणार्थितोक्त्या भक्त्या कृतांजलिपुटे परितः
स्तुवत्सु ||
पृ० ७०) पौरव्रजेषु धृतचामरसत्पताकाचित्रातपत्रवलयैः
प्रभुराजगाम || ६५ ||
प्रत्युन्नतांसपरिवर्तनचातुरीषु नारीषु संभृतविलोकनसंभ्रमासु ||
संवर्धितत्रिभुवनाद्भुतवैभवं तद्गेहं विवेश बसवस्य
गुहाधिनाथः || ६६ ||
गंगांबिकाप्रभृतितद्रमणीमणीषु भक्त्या प्रणम्य
जयमंगलशब्दपूर्वं ||
आरार्तिका विदधतीषु गृहं प्रविश्य
देवश्चिदभ्रमणिपीठसमीपमागात् || ६७ ||
दृष्ट्वा प्रहृष्य गुरुरात्मनि शून्यपीठं सर्वान्निवर्त्य च
समागतपौरसंघान् ||
शिष्यप्रभावमधिगम्य गणेषु पश्यत्स्वारोहणाय विदधे
मतिमल्लमेंद्रः || ६८ ||
सर्वात्मनः सगुणनिर्गुणयोगसंविद्रूपस्य तस्य भुवनत्रयसंविधातुः
||
चित्रं किमल्लमगुरोरिति भक्तसंघेष्वन्तः स्तुवत्सु गुरुरासनमारुरोह ||
६९ ||
द्वासप्ततिप्रथितनाडिसहस्रबद्धं बुध्वा नरांगमिह कीलितपुत्रिकावत्
||
यो नाटयेत्किमिदमस्य तथापि लोके प्रख्यापनाय बसवाधिपदिव्यकीर्तेः ||
७० ||
पृ० ७१) प्रभोः शून्यसिंहासनोपर्यधिरोहणोपक्रमः |
आधारभूतमिदमेव हि षट्स्थलानामित्यभ्रपीठमुपदर्श्य गुरुस्तदीयं
||
सत्कीलकं समुपदिश्य गणाधिपेभ्यस्तन्मूलपीठमवलंब्य समारुरोह ||
७१ ||
तत्रस्थगोप्यमुपदिश्य ततः परस्तादेकैकभूमिमधिरुह्य गुरुः क्रमेण ||
तत्तद्रहस्यमपि ताननुभाव्य दीव्यत्सिंहासनाग्रमभवः स्वयमाविवेश ||
७२ ||
षड्भूतषट्कमलषट्स्थलषड्विधांगषड्भक्तिषट्चरणषड्विधव
र्णमालाः ||
षट्छक्तिषड्द्युतिषडंबरषट्प्रयोगान्सम्यग्दिदेश
शिवभक्तगणानधीशः || ७३ ||
तत्तन्निवेशनविधानचमत्क्रियायां भक्ताग्रगण्यबसवस्य निवेदितायां ||
देवेन ते शिवगणाश्चलदुत्तमांगा नासाग्रदत्तनिभृतांगुलयो बभूवुः
|| ७४ ||
शक्त्याऽन्वितानि परिहृत्य स
कुण्डलिन्याश्चण्डांशुपावकसुधाकरमण्डलानि ||
आसेदिवानकुलचक्रघने सुषुम्नाद्वाराग्रजाग्रदतुलांबरपीठशृंगे ||
७५ ||
तत्रागमान्तचरणे प्रणवोपधाने वाक्यैश्चतुर्भिरपि निर्मितपट्टबन्धे
||
पृ० ७२) सद्ब्रह्मपंचकसकंचुकहंसतूले पंचार्णमंचफलके
प्रभुराविवेश || ७६ ||
श्रीमत्प्रभोः समुपवेशनतस्तदैव सर्वाः क्रमेण निहिता बसवेन
पूर्वं ||
तास्ताः सचेतनतयाऽखिलशक्तयोऽत्र
स्वांगैश्चलद्भिरभजन्जगदीशमेनं || ७७ ||
अत्यद्भुतं तदवलोक्य भयेन केचिद्दूरं गताः कतिचनात्मविदो विधिज्ञाः
||
साक्षाच्छिवोऽल्लम इति प्रणता बभूवुः स्वात्मन्यवाप बसवः परमं
प्रमोदं || ७८ ||
भूयः प्रणम्य बसवो निगमान्तवाक्यैस्तुष्टाव भक्तिभरितो
गुरुसार्वभौमं ||
सच्छन्नवीरबसवः परमावधानी स्वात्मार्पणं समतनोत्प्रभवे
प्रभूणां || ७९ ||
अत्रान्तरे हठपदार्पणमाचयार्यौ भूमौ प्रणेमतुरमुं
प्रतिपारवश्यात् ||
अन्ये च किन्नरमुखा भयभक्तिनम्रा दण्डप्रणामशतकैश्शरणं
प्रपन्नाः || ८० ||
पृ० ७३) अल्लमप्रभोः शून्यसिंहासनोपर्यधिरोहणम् |
येऽन्ये प्रभोर्विरचितं बसवेन पीठं द्रष्टुं पुरीमधिगताः
शिवभक्तसंघाः ||
कल्याणपट्टणनिवासिगणाश्च सर्वे तत्रागतास्सपदि
जंगमलिंगवर्याः || ८१ ||
संचार्य भूमिमखिलां समुपागता ये ते दण्डनाथबसवेन
कृतोपचाराः ||
नित्यं वसन्ति रमणीयमठेषु वृद्धाः श्रद्धान्विताः
प्रभुमुपाययुरुत्सवेन || ८२ ||
सर्वे च ते कृतनमस्कृतयः पुरोऽस्य स्थित्वा प्रभोः स्तुतिशतान्यभितो
वितेनुः ||
हर्षेण केचिदथ गीतपदैरगायन् नाट्यं प्रचक्रुरपरे कृतहस्ततालाः
|| ८३ ||
विद्याः श्रुतिस्मृतिपुराणमुखास्समस्ता यस्यादिमध्यचरमान्न
विदन्त्यतीतः ||
यो नादबिंदुकलिकास्तमधीशमेनमारोहयद्गगनपीठमसौ महात्मा || ८४
||
को वेत्ति दिव्यमहिमानममुष्य लोके सर्वोत्तमस्य बसवस्य जगद्धितस्य ||
इत्यन्तरंगपरिपूर्णपरप्रमोदास्सर्वे प्रतुष्टुवुरुघे जयशब्दपूर्वं ||
८५ ||
स्वामी तदाऽल्लमगुरुर्बसवाधिनाथं संवीक्ष्य निश्चलदृशो
भयसामरस्यात् ||
पृ० ७४) अन्तस्तरंगितसुखानुभवानुरागादाह स्म भक्तनिवहेषु मिषत्सु
सत्सु || ८६ ||
लिंगार्चनप्रतिभया विमलान्तरंगध्यानावधानपरिशीलननिष्ठया च
||
सज्जंगमार्चनविधानसदैकरीत्या लोकोत्तरो बसब एव घनो न चान्यः ||
८७ ||
आहो जयिन् बसव भक्तितनो महात्मन्नाहो फलिन् बसव भक्तमनःप्रसन्न ||
आहो महिन् बसव सद्गुणरत्नधामनाहो वशिन् बसव भाग्यवतां वरेण्य ||
८८ ||
इत्यल्लमे स्तुवति सद्गुरुसार्वभौमे भक्त्या ह्रिया च बसवः
प्रणतोत्तमांगः ||
साष्टांगदण्डनतिभिः स्तुतिभिः प्रभुं तं स्तुत्यं
विचित्रपदवाक्फणितिर्नुनाव || ८९ ||
भक्तेषु चित्रलिखितेष्विव विस्मितेषु तत्पारवश्यकलया बसवे स्थितेऽस्मिन् ||
स्थानान्यतीत्य सकलानि गुरुर्गुरूणां संविन्मयो गगनपीठगतो बभूव
|| ९० ||
इति सकलमुनीन्द्राः शून्यसिंहासनोद्यच्चरितमखिलमेतच्छ्रावितं
शास्त्रासारं ||
पृ० ७५) कथानकश्रवणपठनफलम् |
पठति परमभक्त्या नित्यमेकान्तनिष्ठः श्रवणपथगतं वा
भावयेद्यः स धन्यः || ९१ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां
प्रभुसमागमनतदीयशून्यसिंहासनाधिरोहणवर्णनगतिर्नाम
द्वाविंशोऽध्यायः ||
पृ० ७६) श्रीनंदिकेश्वराय नमः ||
त्रयोविंशोऽध्यायः ||
सूत उवाच ||
श्रीसिद्धिवीरगुरुमण्डलचक्रवर्तिपादाम्बुजातभजनाभिरता मुनीन्द्राः
||
नित्यव्रताचरणनिर्मलशीलवन्तः शृण्वन्तु भक्तिभरिताः
प्रभुलिंगलीलाम् || १ ||
गगनपीठशिखाग्रचिदम्बरस्थगितयंत्रलसद्दहरान्तरे ||
अधिवसन्तमनंतगुणाश्रयं प्रभुमगाद्बसवो भयभक्तिमान् || २ ||
सविधमेत्य तमर्चितुमुद्यतो विविधसाधनसंभृतितत्परैः ||
निजगणैर्भजमानहृदंबुजैः प्रभुमपूजयतागममार्गतः || ३ ||
अपचितिं बसवे प्रभुमूर्तये सपदि कुर्वति तद्भगिनीसुतः ||
बसवतुल्यगुणः शिवयोगिराडतनुताखिलसाधनसंभृतिं || ४ ||
हठपदार्पणकिन्नरमाचयास्सुजनमौलिगमारघनादयः ||
अपि च भाचरसाधुमुखा गणा विनयभक्तियुताः परिवव्रिरे || ५ ||
क्षितितलस्थितभक्तगणेऽखिले दधति विस्मयमर्चनगौरवात् ||
पृ० ७७) सर्वेषामल्लमचरणांतिके सन्निवेशनम् |
विभवनिर्जितवासववैभवः स बसवः प्रभुमूर्तिमपूजयत् || ६ ||
अथ तदीयमहार्चनवैभवं पुरि विलोकितुमुत्सुकतां गताः ||
अनुययुर्बसवाधिपमंदिरं शिवगणाः प्रगुणा गणनातिगाः || ७ ||
य इह वेश्मनि तस्य दिने दिने घनरसायनभोजनतत्पराः ||
बहुलजंगमलिंगगणाश्च ते समधिगम्य गुरून्समलोकयन् || ८ ||
भसितभूषितसल्ललितांगसंगतहराक्षसरा मननव्रताः ||
कपिलवर्णजटाभरबंधुरा धृतसितातपवारणपाणयः || ९ ||
विमलशीलयुताश्च विलंबितश्रुतिपुटाः पटुदीप्तितनूभृतः ||
करकमण्डलुजाप्यमणिस्रजश्चरगणा धृतकंबलकंधराः || १० ||
निरुपमानहरप्रतिविग्रहास्समुपगत्य चिदंबरविष्टरे ||
स्थितगुरोश्चरणासनसन्निधौ विनयतोऽन्यवसन्बसवाग्रतः || ११ ||
बसवदण्डपतौ प्रभुगोष्ठिभिश्चरगणार्चनभोजनसत्क्रियाः ||
सपदि विस्मरति क्षुधिताश्च ते विकलिताः स्वयमात्मसु मेनिरे || १२ ||
पृ० ७८) अहह धीरमतिर्बसवः कथं गतविवेकतयाऽस्मदुपेक्षणं ||
वितनुते बत भक्तिरियत्यभूत्स्थितमतिक्षतिवत् पठनोद्यमे || १३ ||
उदितचित्तविकारवदैंद्रजालिकममुं विकटासनसंस्थितं ||
भ्रमवशादवलोक्य वशं गतो वसतु तेन सहायमिदं कियत् || १४ ||
इति विशंक्य मनःसु चरव्रजे झडिति तत्रगते बसवेश्वरः ||
हृदि विचार्य चिरं स्फुरदुल्मुकन्यसनवानिव तापमुपाययौ || १५ ||
क्व नु गता मतिरद्य ममापि वाक्च्युतिरभूदबुधोऽस्म्युदरे मदात् ||
विघसकामनयाऽऽगतजंगमाः प्रतिगताः कथमेष समाह्वये || १६ ||
अहह किं नु निधाय मुखं पुनः प्रतिसमाह्वयितुं प्रयतेय तान् ||
मम महानपराध इयान् कियानिति कथं कथितुं बत शक्यते || १७ ||
इयदनेहसि मद्रचितं वृथाजनि चरामरपूजनमन्ततः ||
व्रतशतं सुकृतं ननु भज्यते क्वचिदपि व्यभिचारवशाद्यथा || १८ ||
भ्रमणमुल्बणमाप मदंतरं किमिति जीवनमेतदपार्थकं ||
पृ० ७९) जंगमागतैति चिंतितबसवेश्वराय प्रभुकृतसमाश्वासनम् |
इति विचिंत्य गुरोः पुरतश्चिरं सभयगद्गदमाह सभांगणे || १९ ||
महित षण्णवतीष्टसहस्रभूर्यधिकलक्षगणार्हमिदं कृतं ||
सकलरस्यपदार्थकदंबकं पुरभिदेऽर्पयितुं क्व गणान् ह्वये || २० ||
इति वचो बसवस्य मिताक्षरं स्मितमुखः प्रभुरेव निशम्य तं ||
प्रतिजगाद शिशो हृदि चिन्तया किमुदितं तव साधु समर्थये || २१ ||
अहमपूर्णसहस्रचतुष्टयद्विगुणलक्षगणाधिकतृप्तये ||
अलमहो क्षुधितोऽस्मि नियच्छ मे कवलमद्मि ततो विजयी भवान् || २२ ||
इति निपीय गुरोर्वचनामृतं स बसवो भयसंभ्रमसंभृतः ||
वनितया बलदेवतनूजया सह यथोचितमर्चितवान् प्रभुं || २३ ||
स्वरमणीरमणीयकरद्वयीघटितहेमघटात्तहिमांबुभिः ||
प्रभुगुरोः पदयोरभिषेचनं प्रविदधे बसवो वसुवासवः || २४ ||
विमलमर्घ्यजलं करपद्मयोः प्रतिनिधाय तथाऽऽचमनं मुखे ||
सुरभिचंदनसत्कुसुमाक्षतैः श्रुतिपदैः सममर्चितवान् प्रभुं || २५ ||
पृ० ८०) घुमघुमायितधूपमथार्पयन् कपिलधेनुघृताक्तसुवर्तिभिः ||
धगधगायितकांचनपात्रकैरभिदधे धुरि दीपसहस्रकं || २६ ||
तदनु दीव्यदमूल्यमणिस्फुरच्चरणवर्तुलकांचनविष्टरे ||
उपदधे पुटपाकसमुल्लसत्कनकनिर्मितभोजनभाजनं || २७ ||
कनकरत्नविनूत्नधगद्धगच्चषकपंक्तिमुपास्य समन्ततः ||
वनितया परिवेषमकारयत्प्रभुगुरोर्बसवो लसदाननः || २८ ||
तनुतरोज्ज्वलशालिसुतण्डुलान्परिविमृश्य दृगुत्सवकारिणः ||
अमिलितप्रतिशिक्थमनुष्णिकं परिणतं मृदुलान्नमसौ न्यधात् || २९ ||
अनतिशीतलषड्रसपूरितं ललितशाकचयं प्रियया समं ||
स परिवेषयति स्म सपायसं सकलभक्ष्यगणैः सह चोष्यकैः || ३० ||
तदनु हस्तजलं स्वयमाज्ञया ददति तद्बसवे प्रभुवल्लभः ||
गुरुतरान् कवलानगिलत्क्षणात्स परिगृह्य न किंचिदशेषयत् || ३१ ||
स च विलोक्य तदा बसवो मुदा परिकरैः सह संभृतमोदनं ||
पृ० ८१) अल्लमस्याद्भुतभोजनप्रकारवर्णनम् |
दयितया परिगृह्य रयादयं परिविवेष पुनः पुनरश्नतः || ३२ ||
अथ विबुध्य हृदा बसवेश्वरः पृथुलकांचनपात्रचतुष्टयं ||
धुरि निधाप्य बहूनि महौदनान्यविकलं प्रणिनाय स तान्यलं || ३३ ||
स चतुरः करलाघववज्जनान्प्रतिनियम्य ततः परिवेषणे ||
सपदि मध्यगतः स्वयमाहृतान्युपनिनीय मुहुस्तमभोजयत् || ३४ ||
समधिकं त्वरया परिभुंजति प्रभुगुरावथ दण्डपतिः स्वयं ||
विपुलधौतपटोपरि संदधे बहुलसत्कदलीदलविस्तृतिं || ३५ ||
कति च नात्र महौदनसंहतेः प्रतिसमाहरणे परिवेषणे ||
कति च नोज्ज्वलशाकसमुन्नये कति नियोजयति स्म गणान्स्वकान् || ३६ ||
कति च नोद्यदपूपनिधापने कति च सूपरसाद्यधिरोपणे ||
कति च फाणिततेमनमर्जिकारससमानयने विनियुक्तवान् || ३७ ||
फलरसाज्यपयोमधुदध्युरुस्फुटघटानयने कति चार्पणे ||
परिनियम्य तदा हृततद्गणं प्रभुमभोजयदात्मनि भक्तिमान् || ३८ ||
श्रमजलाप्लुतधावनतत्परैर्गणशतैरुपनीतमयं प्रभुः ||
पृ० ८२) सकलभोज्यपदार्थगणं क्षणात् प्रबुभुजे जगदद्भुतवर्तनः ||
३९ ||
अपि च माषवटान् घृतपाचितानतिरसान्सरसान्यवपिष्टकान् ||
तिलगुडात्तघुटीवटुकान्बहून्हृदयमोदकमोदकमंटपान् || ४० ||
मृदुलवर्तुलसूपसुपूपकान् जलघटोपरि पक्वघुटीगणान् ||
मधुरसार्कशलाटुसमाह्वयान्सुखिवटून् घृतभावितपिष्टकान् || ४१ ||
सुगुणभूरिगणान्सरसक्तुकान्रुचिरचक्रिलपैठरफेनिकान् ||
गरगरध्वनिकान्वरकार्पणान्घृतपयःक्वथनात्तघुटीव्रजान् || ४२ ||
अपि च भक्ष्यगणान्बहुचित्रितान् पृथुलवैणवपात्रशताहृतान् ||
पृथगुपाहितपर्वतसन्निभान् स बुभुजे क्षणमात्रत ईश्वरः || ४३ ||
वसुकटाहशतैरथ राजतैर्धगधगायितदीप्तिसमुज्ज्वलैः ||
बहुभिराहृतगोघृतपायसान्युपनिगृह्य करेण पपौ प्रभुः || ४४ ||
कटुरसाम्लघटान्मधुदुग्धदध्यमितसत्कलशांश्च निपीय सः ||
पृ० ८३) बहुलचित्रविधान्नरसायनानयमभुंक्त विभुर्निमिषार्धतः || ४५
||
लवणशाकशलाटुसुलेह्यसल्ललितचोष्यपदार्थकदंबकं ||
सकलमाशु विघस्यबुभुक्षया पुनरपि प्रभुरेनमलोकयत् || ४६ ||
मनसि विस्मयसंभ्रमसंभृतस्स बसवश्चलनं किल नाप्तवान् ||
अथ जगाद महानसनायकान् सकलवस्तु समानयतेत्ययं || ४७ ||
हृदयमस्य विबुध्य च पाचका बहुचमत्क्रिययाच्छुटिकार्धतः ||
सकलभोज्यततिं परिपाच्य तत्प्रभुगुरोः परिवेषणमाचरन् || ४८ ||
गिरिसमानपदार्थचयं पुनः परिसमाप्य पलाशमरिक्तयत् ||
प्रभुरसौ बसवस्तु समादिशद्विपणिवीथिचयं परिचारकान् || ४९ ||
अनुगतास्त इमाः कदलीफलान्यतुलचूतफलानि बहूनि च ||
पनसलांगलिकर्कटिगोस्तनीप्रमुखसत्फलसंततिमानयन् || ५० ||
अपि च खण्डशितामधुशर्कराद्यखिलभोज्यपदार्थचयं क्रमात् ||
निजपुरापणिसंस्थितमाहृतं प्रभुरथाहृतवान्क्षणमात्रतः || ५१ ||
पृ० ८४) तदनु हस्तविलेहनतत्परं गुरुवरं प्रसमीक्ष्य भयाकुले ||
बसवमंत्रिवरे गणपुंगवास्त्वरितमात्मगृहान्प्रतिपेदिरे || ५२ ||
बसवकार्यसमर्थनतत्परास्सपदि भक्तगणाः स्वगृहस्थितान् ||
सकलभोज्यपदार्थगणान्बहून्गुरुवरान्तिकमाशु विनिन्यिरे || ५३ ||
कवलमात्रमभूत्प्रभुभोजने[जेमने] सकलभक्तकुलाहृततत्कुलं ||
सदसि वीक्ष्य जना हृदि विस्मिताः कलकलध्वनिभिः स्वयमूचिरे || ५४ ||
गगनचुंबिमहोन्नतजिह्विकाप्रसरणेन गुरुः किल विश्वभुक् ||
हरिविधींद्रमुखैरपि शक्यते किमशनं कृततृप्तिनिवेदितुं || ५५ ||
बसवनाथ इदं किमकारयद्भ्रमवशादिव हात्र कथं भवेत् ||
इति वदत्सु जनेषु निशम्य तत्सदसि दण्डपतिः पुनरुद्यतः || ५६ ||
नरपतेः प्रभुतैव निजा यतस्तदखिलानपि कर्मकरान् ह्वयन् ||
नगरधान्यचयं समुपानयत्सकलमप्यनिवर्तितवर्तनः || ५७ ||
पृ० ८५) सुमनषष्टिकशालियवाश्वणुप्रथिततोक्यसुतंडुलपर्वतान् ||
अपि च कोद्रवकंगुधराधरांश्चणकमाषमसूरकलार्यकान् || ५८ ||
तिलमयष्टकयावकमुद्गकान् वरकबर्बरखल्वगवेधुकान् ||
अपि च साम्यकुलुत्थकयावनालकगणानलसंदमुखान् बहून् || ५९ ||
त्वरितपाककृतौ विनियोजयन्नयुतलक्षगुणाधिकपाचकान् ||
अपि सुपक्कमपक्वमधाशयत्प्रभुवरं बहुलौदनपर्वतं || ६० ||
सकलवस्तुचये समुपाहृते प्रभुवरेण तदा बसवेश्वरः ||
परवशो बहुधान्यसमृद्धिमन्नृपतिकोशचयं च समर्पयत् || ६१ ||
अहह चित्रमभून्मनसार्पितान्यगणितान्यपि सर्वगतः प्रभुः ||
पुरि महान् बुभुजे तुषवर्जितं स्वयमुपाश्रित एव चिदंबरं || ६२ ||
रसफलौदनधान्यविवर्जितं पुरमभूत्सकलं निमिषार्धतः ||
अथ विलोक्य गणा बभणुः प्रभुं क्षुदनिवृत्तिविदीर्णनिजाननं || ६३ ||
पृ० ८६) अहह यः क्षुधितः प्रलये पुमान् न परितृप्तिमवापमहाप्रभुः ||
कमलजाण्डशतैरपि सांप्रतं स कथमेष्यति तृप्तिमियत्त्वदैः || ६४ ||
सकलपूर्णपरात्परसद्धनप्रमदनित्यनिरंजनसंविदः ||
प्रभुगुरोः क्षुधितस्य कियत्पुरं परिमितं प्रभवेत्परितृप्तये || ६५ ||
भवति वाडववह्निसमिंधने जगति वापि जलैः शमयेत्कथं ||
किमथ वा करकांबुकदंबकैः प्रभुगुरोः क्षुदपीह तथौदनैः || ६६
||
श्रुतिशतैः स्तुत एष हि विश्वतोमुखतया ननु विश्वत ईक्षणः ||
अपि च विश्वकरः किल विश्वतः पदतलोऽखिलविश्वभुगीश्वरः || ६७ ||
कथममुष्य भवेज्जगदीशितुर्जगति वस्तुचयैः परितर्पणं ||
इति गणेषु वदत्सु भिया ह्रिया स बसवोऽभवदानतमस्तकः || ६८ ||
बहुविचारभराविलमानसे बसवमंत्रिवरे समये तदा ||
पृ० ८७) बसवकृतमाचयसमयज्ञताकथनम् |
तमवदन्मणिवालकमाचयस्सदसि तद्भगिनीसुतसंमतः || ६९ ||
असदृशं समरांगणमागतो भटवरः किमु गच्छति पृष्ठतः ||
तनुमनोधनसाधुसमर्पणात्त्वमपि तर्पय तद्वदमुं गुरुं || ७० ||
हुसुहुसूरिति किं परितप्यसे हृदि शुचा क्व गता प्रतिभा तव ||
इति स माचयदेववचोबलाद्बसवराट् बुबुधे समयोचितं || ७१ ||
विदितकृत्यतयोल्लसदाननस्त्रिकरणैक्यसमाहितमानसः ||
स बसवो मणिवालघनं स्तुवन् समपदद्धितवागुपदेशकं || ७२ ||
अयि जयिन् मणिवाल दयानिधे जय जयामलभक्तिसुधांबुधे ||
अघनिवारणकारण यद्भवान् मम हितार्थमिलां त्रिदिवाद्गतः || ७३ ||
उपगतोऽस्यथ वैव शिवाज्ञया प्रमथनाथ पुरात्परमेशितुः ||
हितवचः समये मम संकटे त्वमुपदेष्टुमकारणवत्सलः || ७४ ||
पृ० ८८) त्वमथवा मयि रक्षकतां गतो मम भरस्त्वदधीनतया स्थितः
||
त्रिसमयेषु च जन्मनि जन्मनि प्रमथनाथ भजामि कृतार्थतां || ७५ ||
इति वदन्निजदेहमधीशितुर्निरुपमित्युपहारवदास्तिकाः ||
अमनुतात्मनि कल्पयितुं तथा स च युवा बसवस्तदनुव्रतः || ७६ ||
सितमुभौ भसितं दधतौ मुदा धृतहराक्षमणिस्रगलंक्रियौ ||
असदृशींद्रियसंयमतत्परौ रुरुधतुर्दशवायुगती क्षणात् || ७७ ||
तनुगुणान्परिहृत्य शिवात्मताकलिततत्वसुवासनयान्वितौ ||
दलितवृत्तिसुचित्तमथान्तरस्फुरितमार्गनिरर्गलमापतुः || ७८ ||
बसवदण्डपतिस्तदनु प्रभोस्सविधदेशमुपेत्य कृतांजलिः ||
उपनिषद्वचनैरुपबृंहणैस्सह नुतिं विदधे परमास्तिकः || ७९ ||
त्वयि समस्तमिदं जगदत्र च त्वमखिले परिपूर्णतया स्थितः ||
पदमिदं तव सर्वपदादधस्तव शिरस्तु तथोच्छ्रितमुच्छ्रितात् || ८० ||
पृ० ८९) बसवकृतप्रभुस्तवनम् |
तव न चादिरधीश न मध्यमं न चरमं निगमागमसंहतिः ||
परिविमृग्य न वेत्ति भवत्पदं न मनसापि विचिंतयितुं क्षमं || ८१ ||
दिश इमा दश दीर्घभुजास्तव द्युमणिवह्निसुधाद्युतयो दृशः ||
मरुत उच्छ्वसितान्युदरं नभः पदयुगं पृथिवीति निगद्यते || ८२ ||
अहमहं क्रिययाद्य भुजिक्रिया घटिततृप्तिकृते तव चागुरुं ||
अकरवं कथितुं नहि शक्यते मम महानपराध इयानिति || ८३ ||
कमलजाण्डशतानि तवोदरे कमलकेसरसन्निभतां ययुः ||
क्षुदपनोदनमोदनपूरणात्कथमहं करवै परमेशितुः || ८४ ||
यदशनं निदधामि तवेति तद्वचनमल्पमधीश सहस्व मे ||
करुणया तव भैक्ष्यतयाऽद्य नौ परिग्रहाण तनुद्वयमल्लम || ८५ ||
यदि भवेदशनीयमिहावयोस्तनुयुगं ननु तर्हि भवेव तौ ||
करणदोषनिराकरणात्पुनर्मरणजन्मजितौ सुखनिर्वृतौ || ८६ ||
इति वदत्ययमल्लमवल्लभो बसवमंत्रिवरे पुनराह तं ||
पृ० ९०) स्मितमुखो नहि वाच्यमिदं त्वया श्रुतिविदा मयि पूर्णनिरंजने ||
८७ ||
क्षुदसुधर्मतया तृडपि स्फुटा नहि चिदात्मन ईशितुरस्ति मे ||
अथ कुतो व्यसनानि निराशिषः किमुत कामकथा स्मरवैरिणः || ८८ ||
बसवनाथ जगद्विदितां भवच्छरणदासतया स्थितिमूर्जितां ||
इह निशम्य भवन्तमवेक्षितुं ननु समागत इत्यवगच्छ मां || ८९ ||
न किमपि त्वयि दातरि याचितुं गृहमवाप्नुवमद्य महामते ||
अनितरोपमभक्तिविजृंभणं तव निरीक्षितुमागतवानहं || ९० ||
स्वमुखमेव सुनिर्मलदर्पणे बसवनाथ यथा पृथगीक्षते ||
मयि च तद्वदपेक्षितमीक्षते तव हृदा शरणाञ्छरणार्थिना || ९१ ||
इति निशम्य गुरोर्वचनं पुनर्बसवराडिदमाह महाप्रभो ||
क्व जडबुद्धिरहं क्वनुचित्तयस्त्वमखिलात्मसु जीवनतां गतः || ९२ ||
चरणभक्तिरतेषु जगद्गुरो तव कियानहमल्पविहायितः ||
पृ० ९१) अल्लमकृतबसवप्रशंसनम् |
पदपरागतया स्थितिरेव मे भुवि कटाक्षवशादनुगृह्यतां || ९३ ||
मयि दया यदि देव समर्पितां तनुमवापय भोज्यपदार्थतां ||
यदि न तादृशभाग्यममुष्य चेत्किमपि तंत्रमिहास्ति न मे स्वतः || ९४ ||
इति वदन्तमवेक्ष्य गुरुश्चिरं स्थिरहृदं बसवं स्मयदाननः ||
अभिदधे गुरुपुत्र महामते न भवतास्ति समो भुवनत्रये || ९५ ||
तनुमनोधनमामकतां त्यजन्गुरुचरेशपदार्चनतत्परः ||
निरुपमामलभक्तिरसाप्लुतस्त्वदितरो न भवेद्भुवनत्रये || ९६ ||
परिहृताष्टमदः क्रिययेष्टहृद्विमललिंगरतोंऽगगुणांस्त्यजन् ||
गतभवो विषयेंद्रियनिर्जयी त्वमभजो ममभोज्यपदार्थतां || ९७ ||
अहह साधुहृदार्पणमात्रतः सपदि तृप्तिरभून्मम सन्मते ||
न कुरु संशयमत्र निधीयतां बसवहस्तजलं त्वरया त्वया || ९८ ||
पृ० ९२) इति गुरोर्वदतः स्वयमुत्तरं सदसि वक्तुमयं भयसंयुतः ||
कलशमानयतात्मसतीयुतः परिमलोदकपूर्णहिरण्मयं || ९९ ||
अथ वितीर्य जलं प्रभुमूर्तये मुखकरांघ्रिविशोधनपूर्वकं ||
सुरभिवीटिकया मुखवासनामरचयद्बसवो भयभक्तिमान् || १०० ||
स्रगनुलेपसुधूपनिरूपणैर्जयजयध्वनिवाद्यरवैः समं ||
रचितमंगलदीपशतैः प्रभुं स्तुतिनमस्कृतिभिर्बसवोऽर्चयत् || १०१ ||
हृदि मुदा तदनु प्रभुरब्रवीद्बसवनाथ भवद्भवनान्तरे ||
प्रतिदिनं विघसार्हगणाः परं क्षुधमवापुरमूंस्तरसाऽऽह्वय || १०२
||
सुपरिपक्वमथान्नमवारितं बसव भोजय तान्स्वयमश्नुहि ||
परिजनैः श्रम आशु निवार्यतामिति नतोऽभिहितो विनयान्वितः || १०३ ||
अथ गतो बसवो गणसन्निधिं प्रणिपतञ्छरणार्थितया पुरः ||
उपनिधाप्य विभूतिसुवीटिका विनयपूर्वमभाषत भूसुराः || १०४ ||
पृ० ९३) चरगणैः साकं बसवस्योत्तरप्रत्युत्तरं च |
शिवगणाः क्षुधिताः स्थ यतः परं मम महानपराध इहागतः ||
अवत मामनुगृह्य गृहागतास्सकरुणं कृतनित्यशिवार्चनाः || १०५ ||
अभिहिता बसवेन चराः पुनर्जगदुरार्य सषड्रसमोदनं ||
उदरपूर्णमपूर्वमिवासिताः परमसौख्यमवाप्नुम सांप्रतं || १०६ ||
बसव नाद्यवदन्यदिने क्व वाप्यधिकतृप्तिरियत्यनुभाविता ||
अयमहो महिमैव तवाथवा प्रभुगुरोर्महिमा नहि गोचरः || १०७ ||
गलमरुत्किल जीर्णकृदद्य नः सुरभिगन्धयुतः प्रसरत्ययं ||
तदपि पूर्णतया परितृप्तितः क्षुदपनोदकृतं मुदमाप्नुमः || १०८ ||
अथ घुमंघुमिताल्लममूर्तिसल्ललितगन्धसुवासितदिक्तटाः ||
चरतनोरधिगम्य विजृंभिताः स बसवो हृदि विस्मयमाप्तवान् || १०९ ||
विदिततद्गणतृप्तिरपि स्वयं सविनयं बसवः पुनरब्रवीत् ||
पृ० ९४) चरगणा गृहमेत्य कृपान्विता भजत भोजनमाशु यथा पुरा ||
११० ||
इति वदन्तमवेक्ष्य कृतांजलिं चरगणा बभणुर्बसवाग्रणीं ||
क्षुधमपोह्य भवन्महिमैव नः किमु करोति विलज्जितमानसान् || १११ ||
भवतु वा महिमा जगदद्भुतः प्रभुगुरोर्भुवि साधनतैव नः ||
चरगणेषु य एव महोन्नतो महिमवान्स गुरुर्भुवनत्रये || ११२ ||
तमखिलेश्वरमेकगुरुं प्रभुं यदभजस्त्वमिदं भजनं हि नः ||
स जठरे जननीव सुतं जगत्त्रयमिदं परिरक्षति पूर्णदृक् || ११३ ||
तदनुभूतपदार्थरसार्पणादुदरगा वयमस्य च तर्पिताः ||
तदिह तस्य विभोरशनार्पणं भवति सर्वचरार्पणमीदृशं || ११४ ||
यदिह तृप्तिरभूत्प्रभुसद्गुरोस्सकलजंगमतृप्तिरियं हि सा ||
न हि कथानुभवोऽयमहो महान् करधृतस्य मणेर्मुकुरेण किं || ११५ ||
प्रथममानमिहेंद्रियकं स्फुटं तदनुमानमुखं ह्यनुजीवति ||
पृ० ९५) चरगणात्प्रत्यागतस्य बसवस्य प्रभोरुपदेशेनाद्वयसुखानंदः
|
वचनमात्रमिदं बसवेंद्र नो विदितसारघनो हि भवान्बुधः || ११६ ||
इति निशम्य चरोक्तिमयं पुनः प्रभुसमीपमुपेत्य कृतानतिः ||
तदुदितं विनयात्तमजिज्ञिपन्मुहुरपि प्रकृतौपयिकं जगौ || ११७ ||
घनदयांबुनिधे चरदेशिकैस्तव न भेदकथा कियति प्रभो ||
मयि तु निष्ठुरतोभयमध्यगे भवतु वा चरणं शरणं व्रजे || ११८ ||
इति निशम्य गुरुर्बसवोदितं पुनरुवाच यथार्थमिदं शृणु ||
न हि भिदाऽस्ति मम क्व च जंगमैः सममतौ त्वहमेव भवान् सखे || ११९
||
मतिभिदैव भिदां परिकल्पयत्यमलचित्तु कदापि न भिद्यते ||
तदिह नौ नहि भेदकथा क्वचित्सुखमुपास्व चिदैक्यमखंडितं || १२० ||
इति तदाल्लमदेशिकसत्तमे समुपदेष्टति मंत्रिकुलोत्तमः ||
मुकुलिताक्षियुगोऽद्वयभावनासुखमुपास्त चिरं पुरतः प्रभोः || १२१ ||
प्रभुमथ बसवेन्द्रं प्रेक्ष्य भक्ताः समन्तात्समुदितशिवभावास्साधु
साध्वित्यवोचन् ||
पृ० ९६) महति महसि तस्मिन्भेरिभांकारघोषैर्जयजयनिनदोऽभूद्भो उघे
इत्यपूर्वः || १२२ ||
इति कथितमृषींद्राः श्रीगुरोर्यन्महत्वं सकलनिगमसारं
रक्षकस्येश्वरस्य |
पठति परमभक्त्या यः शृणोति स्थिरात्मा प्रभुरधिकममुष्मै
वाञ्छितार्थं ददाति || १२३ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां
बसवेश्वरकृतप्रभुसमाराधनतदीयभोजनमहिमानुवर्णनगतिर्नाम
त्रयोविंशोऽध्यायः ||
पृ० ९७) अथ चतुर्विंशोऽध्यायः ||
|| श्रीनंदिकेश्वराय नमः ||
सूत उवाच ||
सिद्धश्रीवीरनाथेश्वरचरणयुगध्याननिर्धूतदोषा
भाषावेषाद्यनीहा गुरुचरपुरभिल्लिंगशृंगार्चनांगाः |
मुक्त्यर्थाः शुद्धभावाः स्वतनुधनमनोरागशून्या विरक्ता
भक्ताः शृण्वन्तु लीलां प्रभुशरणगुरोः सत्कथाभिर्विशालां || १
||
ततः सकलशांभवप्रकरमंघ्रिपीठांतिक-
स्थितं समवलोक्य तं शिवरहस्यबोधाप्तये |
जगद्गुरुवाच भोः शृणुत शास्त्रसारं परं
मनोविलयनं विना नहि शिवैक्यसिद्धिर्नृणां || २ ||
मनः सृजति सर्वमप्यथ च वर्द्धयत्येव
तद्घनीभवदहंक्रियामुकुरबिंबितं मूर्तिमत् |
तदेव ननु कारणं जगति बंधमोक्षद्वये
दृढं च शिथिलं क्रमात्तदिह नाशयेत्सर्वथा || ३ ||
मनोविलयनं विना नहि शिवात्मबोधोदयः
शिवानुभवमन्तरा नहि भजेत माया क्षयं |
पृ० ९८) शिवाद्वयसुखं तमस्ततिसमूलघातं विना
न सिध्यति विबुध्यतां शिवगणैरिदं शांभवं || ४ ||
निशम्य गुरुणोदितं बसवमंत्रिराडब्रवी-
त्प्रभोऽल्लम समस्तसंशयनिवृत्तयेऽमी गणाः |
भवच्चरणसेवया शिवरहस्यतत्वं परं
प्रबोद्धुमभितो वसन्त्युपदिशानुगृह्णीष्व नः || ५ ||
वचो बसवसूरिणः प्रभुगुरुर्निशम्यादरा-
द्रदद्युतिदरस्मितच्छुरितदिक्तटः सोऽब्रवीत् |
तनुः परमपावनी प्रभवतीष्टलिंगार्चना-
न्मनः सुविमलं सदासुमयलिंगसंधानतः || ६ ||
गणेंद्र भवतां महाव्रतमिदं सुशीलादृतं
विमुक्तिकरमस्ति किं परमिहोपदेश्यं मया |
यदिष्टमिह दृष्टमात्मनि तथा स्मृतं वाखिलं
शुभं भवतु सर्वदा शिवकृपावशादेव वः || ७ ||
इति प्रभुगुरुर्गणप्रततये कृताशीर्वचा
विहृत्य समटाट्यया पुनरथागमिष्याम्यहं |
ब्रुवन्निति गतोद्यतोऽभवदुपेत्य वेगात्ततः
स दण्डपतिरग्रहीत्प्रभुपदाब्जयुग्मं दृढं || ८ ||
पृ० ९९) बसवेशप्रार्थनां श्रुत्वा प्रभोः प्रीतिपूर्वं गणानुद्दिश्य
भाषणम् |
जगाद भयभक्तिमान्गुरुकृपांबुधेऽस्मन्मनः-
प्रबोधपदसंशयानिह निवार्य संरक्षितुं |
दुरन्तभववारिधेर्गमयितुं च पारं भर-
स्तवैव तदमी वयं शरणमागताः श्रीगुरुं || ९ ||
विमुक्तिपथमादरादनुगृहाण नान्यद्गुरो
श्रियैव सह वर्द्धते हतधियां हि माया भृशं |
क्रियाऽपि खलु यावती फलमभीप्सता दीयते
जनेन ननु भुज्यते जडधियैव तावच्चिरं || १० ||
अतो विभवसंपदा फलदकर्मणा वाप्यलं
चिदंग शिवलिंगनिर्मलनिरंतरध्यानतः ||
निधाप्य पथि पश्चिमे पदमचंचलं सद्गुरो
गमागमकृतां व्यथां धुरि निवार्य संरक्ष नः || ११ ||
प्रार्थयति बसवनाथे प्रभुरथ कृपया गणान्समन्वीक्ष्य |
अधिकारिण इति मत्वा तत्वज्ञानोपदेशने प्राह || १२ ||
यूयं भक्तिक्रिययोः पारं गत्वा कृतार्थतां याताः |
नैष्कर्म्यसिद्धिमतुलां प्रार्थितवन्तः परं पदं प्राप्तुं || १३ ||
पृ० १००) भवतामधिकारवतां शिवतत्वरहस्यमेव वक्ष्यामि |
शृणुतावहितस्वान्ता इति संबोध्याशु वक्तुमारेभे || १४ ||
प्रभुरुवाच-
मृषा दृश्यं विश्वं यदि हृदि मृषैवेति कलये-
च्छ्रुतेर्माया नश्येत्तदनु स भवेदिंद्रियजयी ||
व्यथायां नष्टायां करणजनितायां विषयदु-
र्व्यतीहारो नश्येद्गतविषयगंधो जितरिपुः || १५ ||
तुषाद्युत्सादान्ते पुनरपि विवेकेन नु शिला-
निरासे संशिष्येत्स्वयमिह यथा तण्डुलचयः |
तथा दुःसंकल्पप्रकटितमनोवृत्त्यपचये
ततो वृद्धिं यायाद्विमलतरसुज्ञानविभवः || १६ ||
प्रबोधे संपूर्णे हतविषयगंधस्य महतो
भिदा नश्येद्ध्येयं त्विदमिदमुपादेयमिति सा |
विकल्पानां हेतुः किल मन इदं तस्य विजये
प्रपंचो मिथ्या स्यादयममृतसाम्राज्यमयते || १७ ||
अवस्थास्तिस्रस्तास्तिसृषु तनुषु त्रीनपि गुणा-
नजस्रं जीवांस्त्रीनधिगमयदावर्तयति यत् |
पृ० १०१) गणान् प्रति प्रभुकृतशिवतत्वरहस्योपदेशः |
महासंसारे स्वर्नरकसुखदुःखादिबहुले
मनस्तज्जेता स्यात्त्रयमिदमतीतः परशिवः || १८ ||
मनो यावद्बाह्यप्रसरणचणं तावदखिलः
प्रपंचः सत्योऽयं भवति नहि मुक्तेः क्व च कथा |
सुरत्वं मर्त्यत्वं सृजति ननु तिर्यक्त्वमपि त-
त्कदा वा निश्चेष्टं न भवति जये तद्बसवराट् || १९ ||
बहिर्द्वास्संचारं त्यजदखिलमन्तर्हृदतया
मनः प्रत्यक्तत्वे यदि भवति लीनं स्थिरपदं |
जगन्मिथ्याभूतं भवति हि तदानंदभरितः
स्वयं सुज्ञानी स्याद्बसव स गुरूणामपि गुरुः || २० ||
प्रतीयेत स्वान्ते स्मृतमिदमशेषं यदि जग-
द्बहिर्दृश्याकारं भवति मन एवानृतपदं |
तदन्तस्थं कर्तुं यदि परमशक्तस्तदनुगो
भवेत्स्वेच्छाचारी बसव नृपशुं विद्धि तमिमं || २१ ||
अहो मायापाशो भवति यदि हाशा यदि तया
मनश्चेत्संबद्धं भवति सकलः क्लेशनिचयः |
पृ० १०२) भवोऽयं तद्बद्धो भयमधिकमाप्नोति विजयी
य आशायास्सोऽयं बसव गतदोषो हतभवः || २२ ||
इदं मे स्यान्मा स्यादिदमिति विकल्पोपकलितं
स्वसंकल्पं जीवस्त्यजति न हि यावत्पशुतया |
न तावच्छुऽऽन्मोहाद्यरिनिकरपीडाक्षयमिया-
त्ततस्तत्त्यागे स्याद्बसव स हि नित्यः पशुपतिः || २३ ||
क्षणार्धं कुत्रापि स्थितिमलभमानं मन इदं
सदा सर्वार्थान्संस्मरति न हि पर्यायगणना |
स्वभावोऽयं तस्य प्रभवति हि तेनैव सकल-
प्रपंचव्यासंगप्रतिफलितगंधव्यतिकरः || २४ ||
यद्वासनाभिरभिवृद्धिमवाप्य कामं संचालितो भ्रममुपैत्ययमन्तरात्मा
|
तन्मानसं ग्रसति यः स्थिरधीर्निगृह्य धन्योऽयमेव
बसवेत्युदितोऽब्रवीत्सः || २५ ||
बसव उवाच-
मनो ग्रसेदित्युदितं भवद्भिः कथं मनोग्रासचणं मनः स्यात् |
गुरो यदि स्यात्परिहृत्य लौल्यं तन्निश्चलत्वं ग्रसनं तथास्तु || २६ ||
पृ० १०३) बसवेश्वराय प्रभोः प्रत्युत्तरं |
यद्यन्य एव ग्रसतीति चेतः स्वामिंस्तथा चेत्स किमेष जीवः |
किमन्तरात्मा किमु वा परात्मा ममादिशेत्युक्त इदं स ऊचे || २७ ||
प्रभुरुवाच-
आत्मान्तरात्मेति तथा परात्मेत्येको महेशः कथितो न चान्यः |
आत्मा त्रयोऽन्तःकरणानुकारी स्वाध्यस्त तद्धर्मतया स जीवः || २८ ||
स एव निष्कृष्टतयान्तरात्मा शुद्धो मनोग्रासचणो यदा स्यात् |
तदा परात्म्यैक्यमवाप्य पूर्णः स्वयं शिवानंदघनो विभाति || २९ ||
मनो न यावद्वशमेति तावद्यत्नेन तन्निग्रहणाय भाव्यं |
मनो ग्रसामीति मनः प्रयत्नात्स्वयं ग्रसेत्तद्बसवार्य नूनं || ३० ||
मायामयैर्वृत्तिशतैर्मिलित्वा तत्साधकान्खेदयति ह्यवश्यं |
अतस्तदाहत्य वितुष्य धैर्याद्भ्रमान्निवृत्तिर्ग्रसनं हि तस्य || ३१ ||
मनो ग्रसेद्यो महितप्रभावो विकारदूरः स हि साधुरूपः |
वक्तुं न शक्योऽयमिति प्रभूक्तिं श्रुत्वाऽब्रवीच्छन्नमनीषिवर्यः || ३२
||
पृ० १०४) छन्नबसव उवाच-
गुरो मनो नाशयितुं तदेतल्लक्ष्येण भाव्यं ननु साधकस्य |
तादृग्विधं लक्ष्यमिहोपदिश्य कृतार्थयास्मान् प्रभुचक्रवर्तिन् || ३३ ||
प्रभुरुवाच-
छन्नोक्तिमाकर्ण्य गुरुस्तमूचे प्रश्नस्त्वदीयो न हि सारभूतः |
तथापि शाखाग्रशशीव लक्ष्यो बालप्रबोधार्थमुपाय एषः || ३४ ||
लक्ष्यप्रभेदा बहुधोपदिष्टाश्शास्त्रेषु योगागमशांभवेषु |
यल्लक्ष्यतेऽन्तर्बहिरन्तरेषु तत्स्यात्प्रतीच्छायतयैव गौणं || ३५ ||
लक्ष्योक्तिभिर्लक्ष्यमिदं न लक्ष्यं लक्ष्यं हि निर्लक्ष्यतयैव लक्ष्यं
||
सच्चित्सुखानंदघनैकलक्ष्यं मायां निरस्यात्मतयैव लक्ष्यं || ३६ ||
कटाक्षदृष्ट्याऽमृतसूक्तिसारैरन्वग्रहीच्छन्नघनं गुहेशः ||
आरादयस्कान्तमणेरिवासौ सूचीपरत्या बसवो युवाशीत् || ३७ ||
अत्रान्तरे माचयदेवनाथः श्रीनाथपादाब्जयुगं प्रणम्य ||
पृ० १०५) माचयाय प्रभोः प्रत्युत्तरम् |
भक्त्या नतांगः सुविनीतवेषः प्रश्नं प्रचक्रे प्रतिबुद्धतत्वः || ३८
||
मणिवालमाचयदेव उवाच-
यत्तत्वं श्रुतिवागगोचरतमं यद्भावनादुर्लभं यद्ध्यानाविषयं
यदंगरहितं यत्स्याददृश्यं दृशां ||
तच्छून्यं परतत्वमीश्वर कथं बुध्वा महाभक्तितो नित्यत्वं लभते
वदेत्यभिहितः प्रोचे गुरुर्माचयं || ३९ ||
प्रभुरुवाच-
सत्यज्ञानसुखस्वरूपममलं पूर्णं परं ब्रह्म तत्सर्वत्रास्ति तथापि
बाह्यकरणैर्बोद्धुं न शक्यं क्वचित् ||
मायाजाड्यभरोऽस्ति यावदखिलो देहाभिमानो महांस्तावन्नास्ति कथैव
वस्तुविषये दृश्यं हि नश्यं जगत् || ४० ||
जाग्रत्स्वप्नसुषुप्तयस्त्रितनुषु प्रोतास्त्यवस्थास्सदा
स्वात्मज्ञानविवर्जितं विदधते संभ्राम्य जीवं मुहुः ||
दुःसंकल्पविकल्पजालविवशः संसारनिद्रां गतो नश्येत्सोऽयमतो
जयेन्नियमवान्नादाववस्थात्रयं || ४१ ||
पृ० १०६) तुर्याह्वयेन सहजेन सदाधिरूढो यो नाशयेत्त्रयमिदं
पशुतानिदानं ||
सोऽयं महेश्वरतयात्मनि बोधपूर्णस्तत्वं प्रयाति
परमात्मसुखानुभूत्या || ४२ ||
देहत्रयं स्वयमिति भ्रममुज्जिहानश्चिन्मात्र एव परिशिष्यति यः
शिवार्थी ||
वेदान्ततत्वमतिसूक्ष्मतमं विदित्वा नित्यत्वमेति स पुमानहमेव विद्वन् || ४३
||
श्रुत्वा गुरूक्तमथ माचयदेवचित्तं तत्रैव कीलितमभूत्परमार्थतत्वे
||
तद्वासनास्ति सकलाः परिहृत्य सत्यज्ञानात्मसौख्यमनुभूय समाहितं
सत् || ४४ ||
चंद्राशुसंघटितचांद्रशिलेव सांद्रस्वानंदसारसुखितं
मणिवालचेतः ||
विज्ञाय तत्र बसवादिगणास्समस्ता
निःसंशयार्थमवदन्गुरुसार्वभौमं || ४५ ||
बसवादिप्रमथगणा ऊचुः-
स्वामिन्मृषा तनुमनःकरणादि सर्वं यद्यात्मनो नहि घटादिव देव
बाह्यं ||
तर्ह्यस्य को नु परिहारविधौ प्रयत्नो व्यर्थो विदेहनिजमुक्तिकथाप्रसंगः
|| ४६ ||
पृ० १०७) बसवादिगणेभ्यो प्रभुदत्तप्रत्युत्तरम् |
यन्नास्ति बाह्यकरणादिकमेव सर्वं बध्येत तर्हि किमनेन पुमानसंगः ||
बन्धो न चेत्कथममुष्य मुमुक्षुता स्याद्ब्रूहीति तैरभिहितः प्रभुराह
भूयः || ४७ ||
प्रभुरुवाच-
शृण्वन्तु भक्तनिवहा न हि युक्तिसाध्या माया दुरन्तपिशुना
सदसद्विलक्षा ||
सा कल्पयन्त्यविरतं ह्यसतोऽपि भावान्निःसंगमेव पुरुषं स्ववशं
करोति || ४८ ||
तत्कार्यभूतमखिलं किल दृश्यजातं स्वापप्रपंचसदृशं नहि
वस्तुतोऽस्ति ||
यावत्प्रबोधमिदमस्तिवदेव भाति शुक्तौ यथैव रजतं तदिदं
मृषात्वं || ४९ ||
तस्मादनादिजटिलभ्रमवारणाय भक्तिं महेश्वरपदांबुरुहे भजेत ||
सोऽयं त्रिपात्प्रणवशृंगगतः परात्मा पादोऽस्य
विश्वभुवनोदरभूतजातं || ५० ||
पृ० १०८) आहो वसंतमिव चंदनमंदवाताः सर्वे गणा
बसवमंत्रिणमाश्रयन्तः ||
सुज्ञानयोगवशगाः स्वयमर्थयन्ते लिंगैक्यमेव न पदांतरमंतरंगे
|| ५१ ||
वाग्ब्रह्मवादचतुरान्न जहाति माया नाद्वैतसिद्धिरभवस्य कृपां
विनास्ति ||
भक्तिं विना परशिवो न दयां करोति चित्तस्य निश्चलतया न विनास्ति
भक्तिः || ५२ ||
तस्मात्प्रसह्य सहसा विजयेत रागद्वेषौ स्थिरा भवति धीस्तत एव
भक्तिः ||
तां सुस्थिरां कलयितुं न
भजेद्विकल्पसंकल्पजालमणिवास्थितधीर्मुनींद्राः || ५३ ||
नान्तर्भावं नामरूपक्रियाणां लिंपेल्लुंपेत्तामहंतां दुरन्तां ||
इत्थं देहप्राणचित्तादिधर्मांस्त्यक्त्वा मोहांभोधिमत्येति विद्वान् || ५४ ||
आस्तां तावद्बसव भवता लोकरक्षार्थमेव
प्रश्नव्याजात्प्रकटितमभूद्वेदसिद्धान्ततत्वं ||
त्वं सर्वज्ञस्त्रिभुवनगुरुस्त्वत्समो नास्ति लोके
लिंगैक्यश्रीसमरसकलानिष्ठया विश्वबंधो || ५५ ||
पृ० १०९) प्रभुकृत बसवेशप्रशंसा बसवप्रत्युत्तरंच |
बसव भवदीयपरमार्थशिवनिष्ठामसदृशतया क इह वर्णयितुमीष्टे
||
वसति सकलं त्वयि चिदात्मनि महात्मन् लससि गुणवानिव
गुणैरनभिभूतः || ५६ ||
इत्यल्लमप्रभुगुरोर्वचनं निशम्य तत्पादपद्मयुगुलं शिरसा प्रणम्य ||
भक्त्या कृतांजलिपुटः पुनराह देवं किंचिद्विनम्रवदनो
बसवाधिनाथः || ५७ ||
किंचिज्ज्ञेऽस्मिन्नवगुणगणे श्रैष्ठ्यमारोप्य किंवा संसाराब्धौ
पुनरपि महामोहगर्ते निपात्य ||
यातायातं परिकलयितुं श्रीगुरो नैव युक्तं सम्यग्दृष्ट्या समरसय
मां साधु तत्वोपदेशात् || ५८ ||
यन्नारिकेलमिह खण्डितुमप्यशक्यं दन्तैस्तदेव गिलितुं द्विरदेन जीर्णं
||
तद्वत्त्वमेव कवलीकृतसर्वतत्वो देहीव सन्नपि विदेहतया विभासि || ५९ ||
सर्वे वयं हि पशवस्तव पाशबद्धा देवो भवान्पशुपतिः पुरुषः
पुराणः ||
जीवो भवत्करुणयैव महेश्वरत्वं प्राप्नोति सद्गुरुवरेत्युदितोऽब्रवीत्सः
|| ६० ||
पृ० ११०) प्रभुरुवाच-
अध्यात्मविद्यामूर्तिस्त्वमधिकारीव वर्तसे ||
संप्रदायप्रकाशार्थं लोके श्रीगुरुशिष्ययोः || ६१ ||
विधिवत्कथिता विद्या हृद्या वेदान्तसम्मता ||
खचितास्तु सदा स्वान्ते शान्ते बसव तावके || ६२ ||
तुष्यत्यात्मा ममात्यन्तं तवांतिकगतो यतः ||
न स्तोत्रपरिपाटीयं मर्म जानामि यत्तव || ६३ ||
पंचाक्षरीमनननिर्जितपंचभूततत्तद्गुणप्रकरसंचितपंचकोशाः ||
त्वामाश्रयन्ति सततं शरणाः शरण्यं मौलिर्भवाह्नि
शशिमौलिमहागणानां || ६४ ||
त्वद्भावनैव बसवार्य गुरुं करोति लिंगं करोति च तथा तव भावनैव
||
सा जंगमं च कुरुते शपथं करोमि त्वययेव नूनमभवस्य भवान् हि
मूर्तिः || ६५ ||
अक्वैव सा तव मनःस्मृतिरात्मनीना सच्छन्नवीरबसवो मणिवालनाथः
||
ज्ञप्तिः स भाचरसुधीः प्रथितो विवेकः शीलं तथार्पणमुनिस्तव
किन्नरोंगं || ६६ ||
पृ० १११) बसवेशाल्लमयोः परस्परप्रार्थनाश्ह्वासनं च |
मूर्तिः समस्तशिवभक्तगणात्मनिष्ठा चैतन्यमेव हि भवान्बसवार्य
नूनं |
शक्नोति को नु भवदीयमहाप्रभावं स्तोतुं भुवीत्यभिहितो
बसवोऽब्रवीत्तं || ६७ ||
बसव उवाच-
प्रभोऽल्लम भवत्पदांबुरुहसेवनामात्रतो
भवत्करुणयैव संप्रति कृतार्थतामाश्रये ||
वृथा भवति किं भवद्वचनमागमान्ताधिकं
परंतु शरणार्थ्यहं कमपि देव याचे वरं || ६८ ||
जगत्यखिलभक्तसंततिमिमां कटाक्षश्रिया-
ऽनुगृह्य शुभदीक्षया परमशंभुजीवैक्यतः ||
जनुर्मृतिपरंपरां परमपोद्य रक्ष प्रभो
प्रसीद परमेश्वरेत्यभिहितोऽभ्यधात्तं गुरुः || ६९ ||
प्रभुरुवाच-
बसव तथास्तु तावक महाप्रतिभाविभवै-
र्विहितशुभोदयाञ्छिवगणान्सुगुणानुगुणान् ||
विमलशिवैक्यतत्वमुपदिश्य कृतार्थयतो
मम हि भवेत्प्रयत्न इव हेमसुगंधिकृतः || ७० ||
पृ० ११२) स्वप्ने दुःखानुभूत्या विकलितमनसः सौख्यदायी प्रबोधो
यद्वत्तद्वत्पंचप्रकटितजडधीवासनासंवृतानां ||
बोधान्निर्वाणमार्गो भवतु करुणयेत्यादिशंस्तांश्च सर्वां-
श्चक्रेऽन्तेवासिनः श्रीगुरुरथ बसवप्रार्थितोनुग्रहार्थं || ७१ ||
यस्य यस्य हृदये यथा यथा रोचते तदनुसारतः क्रमात् ||
साधु तत्तदधिकारमामृशन् बोधयन्नुपदिदेश सद्गुरुः || ७२ ||
देहचित्तधनमोहसंगतिं त्याजयन्विमलभक्तिबोधयोः ||
स्थापयन्नतनुतांगलिंगयोः सद्विवेकपरमोपदेशनं || ७३ ||
लिंगैक्यलीनहृदयान्सदयं चकार भक्तव्रजांस्त्वमहमित्यपसार्य
भेदं ||
ब्रह्माद्वयं श्रुतिशतैरनुभावयित्वा साक्षाच्चकार हृदि
वेधवशात्परोक्षं || ७४ ||
ज्ञानादिरूपघटितत्रिपुटीनिरासे द्रष्टुं च वक्तुमवलोकितुमप्यशक्यं
||
यत्पूर्णनिर्मलनिरन्तरनित्यसत्यं तद्ब्रह्मतत्वमनुभावयति स्म तांस्तान्
|| ७५ ||
निर्मायिके निरुपमे परमे पदेऽस्मिन्स्वामी न्यधापयदमुं बसवाधिनाथं ||
पृ० ११३) शिवगणानां लिंगैक्यसौख्यवर्णनम् |
तस्मिन्क्षणे शिवगणाः सहजानुभूत्या लिंगैक्यसौख्यमभजन्
प्रभुसत्कटाक्षात् || ७६ ||
वृक्षस्य मूलजलसेचनतो विवृद्धिं शाखाः प्रयान्ति हि यथा
बसवेंद्रमूलात् ||
तद्वद्गणाः प्रभुकृपामवलंब्य तूर्णं पूर्णं
समाधिमभजन्परतत्वनिष्ठाः || ७७ ||
नानाविधा बहुलवर्णभृतोऽन्तरिक्षे नीरंध्रमेघनिवहाः पवमानवेगात्
||
यद्वत्प्रयान्ति हृदयेषु तथैव माया देवोपदेशविभवाद्विलयं प्रयाता
|| ७८ ||
भंडारिवीरबसवाधिपमाचयार्यनागाम्बिकाहठपदार्पणकिन्नरार्याः
||
छन्नादयः शिवगणास्समवाप्य जीवन्मुक्तिं प्रभोः करुणया
न्यवसन्सुखेन || ७९ ||
इति सकलमुनीन्द्रा मोक्षलक्ष्मीविलासप्रकरणमुदितं वः श्रीगुरोः
सच्चरित्रं ||
पृ० ११४) पठति परमभक्त्या शुद्धचित्तः पुमान्यः प्रभुरधिकममुष्मै
वांछितार्थान् ददाति || ८० ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां मनोलयोपदेशगतिर्नाम चतुर्विंशोऽध्यायः ||
पृ० ११५) अथ पंचविंशोऽध्यायः ||
श्रीनंदिकेश्वराय नमः ||
सूत उवाच ||
श्रीसिद्धवीरेश्वरपादसेवानिष्ठाः शिवज्ञानरता मुनीन्द्राः ||
अज्ञानदूरा हरभक्तिसान्द्राः शृण्वन्तु लीलां प्रभुलिंगमूर्तेः || १
||
इत्थं भक्तगणान्सर्वान्प्रभुर्लिंगैक्यनिष्ठया ||
कृतार्थीकृत्य तैस्साकं कंचित्कालं निनाय सः || २ ||
ततः कल्याणनगराद्विनिष्क्रम्य महागुरुः ||
भक्तानुग्रहणार्थाय चचार पृथिवीमिमां || ३ ||
सर्वेभ्यो भक्तसंघेभ्यो लिंगैक्यानुग्रहात्प्रभुः ||
निवर्त्य मायां दुर्ज्ञेयां ददौ मोक्षं कटाक्षतः || ४ ||
सद्भक्तमानसोदंचत्कमलाकरसंततौ ||
हंसो बभूव भगवान्नल्लमप्रभुवल्लभः || ५ ||
तत्र कैलासशैलेंद्रे श्रीमानिंदुकलाधरः ||
वृत्तान्तमखिलं तस्यै महादेव्यै न्यवेदयत् || ६ ||
श्रुत्वा प्रभुकथावृत्तमशेषं शेषभूषणात् ||
देवी प्रमुदितस्वान्ता तमेनं पर्यपृच्छत || ७ ||
पृ० ११६) प्राणनाथ तवादेशात्सा कला सात्विकी मम ||
तावकं शुद्धचैतन्यमनुसंप्रेषिता मया || ८ ||
तद्वृत्तं मम न ज्ञातं सम्यगाज्ञापय प्रभो ||
इति संप्रार्थितस्तस्यै कथयामास शंकरः || ९ ||
आकर्णय सरोजाक्षि तावकी सात्विकी कला ||
अक्वा महादेव्यभवत्प्रभावर्पितमानसा || १० ||
प्रभुस्तु शुद्धचैतन्यं ममात्मा मूलकारणं ||
समभूल्लोकरक्षार्थमल्लमो नाम योगिराट् || ११ ||
तदनुग्रहसंप्राप्तलिंगैक्यज्ञाननिर्वृता ||
अक्वा महादेव्यगमच्छ्रीगिरिं योगिसंश्रितं || १२ ||
येंऽशाः प्रमथनाथानां ते च्छन्नबसवादयः ||
अवतीर्णाः प्रभौ दत्तचित्तास्ते पृथिवीतले || १३ ||
तत्तद्वंशेषु संभूतास्ते ते प्रमथनायकाः ||
प्रभूपदिष्टलिंगैक्या बभूवुर्मोक्षकांक्षिणः || १४ ||
तत्तत्कायिकसंप्राप्तधनैर्गुरुचरेश्वरान् ||
समर्चयन्तः सततं जीवन्मुक्तिमवाप्नुवन् || १५ ||
द्वितीयशंभुः सर्वज्ञः श्रीनंदीशोऽस्मदाज्ञया ||
मह्यां मद्भक्तिमुद्धर्तुं मादाम्बानंदनोऽभवत् || १६ ||
पृ० ११७) शिवकथितबसवेशचरितम् |
मादनाराध्यपुत्रोऽसौ बसवाख्यो महामतिः ||
कल्याणनगराधीशमंत्रिसाम्राज्यमाप्तवान् || १७ ||
स्पर्शवेधिकरस्सोऽयं परवादिमतापहः ||
वीरशैवान्वयोद्धर्ता बभूव परमास्तिकः || १८ ||
मद्भक्तनायकमणिस्सोऽर्थ्यभीष्टार्थदायकः ||
भक्ताधीनानि कृतवान्मनस्तनुधनान्यलं || १९ ||
असंख्यातैश्शिवगणैस्सुखगोष्ठीप्रसंगतः ||
कालं नयन्नयं धीरस्तस्थौ कल्याणपट्ट(त्त)ने || २० ||
आगंतुकैर्यतिवरैः प्रभोर्माहात्म्यमद्भुतं ||
श्रुत्वा तद्दत्तहृदयो बभूव बसवाधिपः || २१ ||
कदा यास्यति मद्गेहमल्लमप्रभुवल्लभः ||
कदा हृत्संशयाः सर्वे च्छेत्स्यन्ते तत्प्रसादतः || २२ ||
कदा गुरुचरेशार्चारहस्यक्रममुत्तमं ||
प्राणलिंगांगसंबंधं चोपदेक्ष्यति सद्गुरुः || २३ ||
इति भक्तगणैस्साकं बसवेशो विधूदयं ||
चकोर इव सोत्कण्ठं चकमे प्रभुदर्शनं || २४ ||
पृ० ११८) अथाल्लमेशो वात्सल्याद्गौर्वत्समिव तं हृदि ||
संस्मृत्य कल्याणपुरीमाजगाम जगद्गुरुः || २५ ||
बसवप्रमुखैर्भक्तैः कृतपूजाविधिः स्वयं ||
अनुजग्राह भगवानात्मज्ञानमचंचलं || २६ ||
अनिर्वाच्यं परं तत्वमनुभाव्य गणान्गुरुः ||
चिल्लिंगलीनसद्भावांश्चक्रे सम्यक्प्रबोधनात् || २७ ||
वीरशैवोल्लमविभुर्लिंगे सर्वं प्रदर्शयन् ||
सारं समनुजग्राह बसवादिगणेश्वरान् || २८ ||
इत्युक्तवति देवेशे गिरिराजन्यकन्यका ||
पप्रच्छ जनिताशंका शंकरं लोकशंकरं || २९ ||
देवाल्लमः सर्वमयो नामरूपादिवर्जितः ||
मतानि षट् सामान्यस्य वीरशैवे कथं रतिः || ३० ||
शिवः प्राह महादेवीं शृणु मत्प्राणवल्लभे ||
जानीहि परमाद्वैतं वीरशैवस्य वैभवं || ३१ ||
रौद्रवैष्णवदौर्गार्कस्कांदगाणेश्वरात्मकं ||
मतषट्कं पृथग्भिन्नं तांत्रिकैरुपपादितं || ३२ ||
पृ० ११९) मतषट्के वीरशैवमतस्य प्राधान्यम् |
द्वैतप्रधानं वेदान्तविरुद्धमसमंजसं ||
धर्मार्थकामफलदं तत्तल्लोकैकसाधनं || ३३ ||
पुनरावृत्तिहेतुत्वान्न मुक्तिः सा कथंचन ||
परंतु बंधहेतुः स्यात्तत्तल्लोकगतिर्नृणां || ३४ ||
न कर्मफलमुत्सार्य निर्मलामृतसाधनं ||
मतषट्कं भवेद्देवि भेदज्ञानप्रधानकं || ३५ ||
मीमांसकमतं यत्तु कर्मकाण्डमनिंदिते ||
हिंसाप्रधानं तत्स्वर्गनरकादिफलप्रदं || ३६ ||
दुर्मदान्धाः प्रकुर्वन्ति हिंसां स्वर्गार्थिनो नराः ||
न जीवहिंसकान्मूढाननुगृह्णाति शंकरः || ३७ ||
अनुग्रहं विना शंभोः कृपा न प्रसरेत्प्रिये ||
विना शिवकृपां मुक्तिर्दूरापास्ता न संशयः || ३८ ||
अतो नैष्कर्म्यसिद्ध्यैव वीरशैवे रतिर्भवेत् ||
वीरशैवं हि वेदान्तसिद्धं मोक्षैकसाधनं || ३९ ||
पृ० १२०) यावद्भेदमतिस्तावत्संसारो नैव नश्यति ||
भेदबाधकमद्द्वैतं वीरशैवाख्यमद्रिजे || ४० ||
अंगलिंगैक्यसंबंधाद्वीरशैवो भवेन्नरः ||
जीवोंऽगलिंगमीशः स्यात्तयोरैक्यं हि संगतिः || ४१ ||
शिवजीवैक्यविज्ञानमज्ञातार्थो हि लौकिकैः ||
अज्ञातार्थे फलवति श्रुतेस्तात्पर्यमीर्यते || ४२ ||
श्रुत्येकगम्यमद्वैतं वीरशैवाख्यमंगने ||
भेदस्त्वाबालगोपालविदितो लौकिको मतः || ४३ ||
तस्माद्वेदान्तविज्ञानसुनिश्चितधियां नृणां ||
महात्मनां विरक्तानां वीरशैवे मतिर्भवेत् || ४४ ||
वीरशैवोदिताद्धर्माल्लिंगैक्यज्ञानमाश्रिताः ||
मोक्षं प्रयांति परमं पुनरावृत्तिवर्जितं || ४५ ||
इत्युक्तवन्तं प्राणेशमवलोक्य गिरींद्रजा ||
स्नेहात्कृतांजलिपुटा नमस्कृत्येदमब्रवीत् || ४६ ||
अद्वैतिनो वीरशैवास्त्वहंब्रह्मेति निश्चिताः ||
आराधयन्ति वा ते त्वां तूष्णीं तिष्ठन्ति वा विभो || ४७ ||
पृ० १२१) वीरशैववर्तनक्रमस्वरूपवर्णनम् |
यथा निःसंशयं चेतस्तथा कुरु ममेश्वर ||
इति पृष्टो महादेवो जगाद वरवर्णिनीं || ४८ ||
वीरशैवक्रमं धर्म्यं शृणु कल्याणि सांप्रतं ||
येन विज्ञातमात्रेण शिवजीवैक्यमाप्नुयात् || ४९ ||
भावाद्वैतं क्रियाद्वैतं वीरशैवे प्रशस्यते ||
अद्वैतं भावयेच्चित्ते क्रियायां द्वैतमाश्रयेत् || ५० ||
बाह्यकर्माणि संत्यज्य ममार्चनविधीरिताः ||
सत्क्रियास्सकला नित्यं वीरशैवः करोत्यलं || ५१ ||
मययेव सकलं कर्म समर्प्य दृढभावनः ||
नाकांक्षति फलं किंचिद्वीरशैवो विरागवान् || ५२ ||
मनस्तनुधनाकांक्षां त्यजन्नात्मसतीसुतान् ||
समर्पयति यो मह्यं वीरशैवस्स उच्यते || ५३ ||
यस्तु पंचेंद्रियभ्रान्तिं त्यक्त्वान्तकमलक्षयन् ||
न शिवान्यदिति ज्ञानी स वीरः शैव उच्यते || ५४ ||
एकमेव परं ब्रह्मेत्यन्यदेवाननर्चयन् ||
पृ० १२२) लिंगैक्यमेव यः पश्येद्वीरमाहेश्वरः स वै || ५५ ||
मतोद्धरणवेलायां दृष्टप्रत्ययपूर्वकं ||
यः सिद्धान्तयते तत्वं स वीरः शांभवः स्मृतः || ५६ ||
भक्त्या मां पूजयत्येव न वांच्छति फलं क्वचित् ||
मद्दत्तमपि नादत्ते वीरशैवः स योगिराट् || ५७ ||
गृहीतं न त्यजत्यार्ये व्रतं प्राणात्ययेऽपि च ||
लिंगैक्यज्ञानसंपन्नः स भवेद्वीरशाम्भवः || ५८ ||
सदांगे कीलयेल्लिंगं संगदोषविवर्जितः ||
इष्टप्राणैक्यभावेनस योगी वीरशैवराट् || ५९ ||
जातकं मृतकं वापि सूतकं यस्य नोभवेत् ||
सदाशिवसमावेशात्स योगी वीरशाम्भवः || ६० ||
शिवोद्देशकृतं पाकं भविनां नैव दर्शयेत् ||
बहिर्जनेभ्यो नो दद्याद्वीरशैवो महेश्वरि || ६१ ||
आचारो वीरशैवस्य वर्णितुं केन शक्यते ||
गिरा गीष्पतिना वापि ब्रह्मणा विष्णुनाऽथवा || ६२ ||
पृ० १२३) वीरशैवस्य माहात्म्यवर्णनम् |
इत्युक्त्वोपरते कान्ते शांकरी विस्मयान्विता ||
पुलकांकितगात्री तं पुनः प्रोवाच शंकरं || ६३ ||
मन्नाथ वीरशैवास्ते सततं लिंगधारिणः ||
सालम्बा इव भासन्ते निरालम्बाः कथं वद || ६४ ||
कथं तनुमनोर्थेषु ममता नास्ति तादृशां ||
आज्ञापयेत्यभिहितो गिरिजां गिरिशोऽब्रवीत् || ६५ ||
माहात्म्यं वीरशैवस्य शृणुष्वावहिता सती ||
तनुत्रितयसंसक्तां मनोवृत्तिपरंपरां || ६६ ||
दीक्षात्रयेण संत्यज्य त्रिलिंगानां त्रिभिः क्रमात् ||
अंगैरैक्यं पुनश्चैक्यं तेषां संभाव्य धीरधीः || ६७ ||
भक्तमाहेश्वरादीनां सोपानानां परंपरां ||
समारुह्यांगलिंगास्यहस्तज्ञानपुरस्सरं || ६८ ||
सर्वाश्शक्तीः समीकृत्य लिंगैक्यसरणीं भजन् ||
अब्धौ पतत्करकवद्व्योमव्याप्तसमीरवत् || ६९ ||
वह्नौ मिलच्चंद्रकवत्स्वात्मलीनतनुत्रयः ||
पृ० १२४) तादात्म्यसिद्धिं लभते गुरोः करुणया बुधः || ७० ||
वस्तुज्ञानात्तस्य नास्ति संगो देहेंद्रियादिभिः ||
पार्श्वर्स्थैर्दृश्यमानोऽपि जीवन्मुक्तस्य योगिनः || ७१ ||
इति शम्भोर्वचः श्रुत्वा नत्वा गिरिवरात्मजा ||
ज्ञात्वा भावरहस्यं तत्कृतार्थाऽस्मीत्यमन्यत || ७२ ||
दण्डवत्प्रणमन्तीं तां खण्डेंदुधर ईश्वरः ||
बाहुभ्यां सम्परिष्वज्य प्रीणयामास भामिनीं || ७३ ||
मायाजयकृतामीर्ष्यां परित्यज्याल्लमप्रभौ ||
जगद्गुरुरयं साक्षादित्यमन्यत पार्वती || ७४ ||
अस्मद्भक्तगणान्सर्वानरक्षीदल्लमप्रभुः ||
मोक्षं दत्वेत्युमाशंभू हृदये मुदमापतुः || ७५ ||
गौरीमहेश्वरौ रम्ये कैलासशिखरीश्वरे ||
अल्लमानन्दभरितौ सुखगोष्ठ्या स्थितौ द्विजाः || ७६ ||
अत्राल्लमस्तरुणवृद्धजनान्नृपालान्बालान्दरिद्रनिवहान्धनिकान्सुशीलान्
||
गोब्राह्मणानखिलजंतुगणानशेषश्रेणीरनुग्रहवशात्सततं पुपोष ||
७७ ||
पृ० १२५) सूतं प्रति मुनीनां रहस्यतत्वविषयकप्रश्नः |
जगदखिलमधीशः शांभवानंदपूर्णं सकलफलसमृद्ध्या
सौख्यसंपत्समेतं ||
सकरुणमनुगृह्य श्रीगुरुः स्वेच्छयैव प्रकटितगुणमूर्तिः पावयामास
भूमिं || ७८ ||
इयमखिलमुनीन्द्राः श्रीगुरोर्दिव्यलीला गणचरितविशाला
व्यासमौनिप्रसादात् ||
हृदयकमलवासिश्रीमहेशाज्ञयोक्ता प्रभवतु पठितृर्णां
भोगमोक्षानुकूला || ७९ ||
सूतोक्तं प्रभुलिंगमूर्तिचरितं श्रुत्वा मुनीन्द्राः परं
ब्रह्मानंदसुधांबुधौ चिरतरं संपाद्य डोलायिताः ||
सानंदैकरसास्तमेनमभितः स्तुत्वा प्रणम्यादरात् जीवन्मुक्तिमवाप्नुवन्
परशिवे सर्वं समर्प्यांजसा || ८० ||
श्रुत्वा चित्रं चरित्रं पुनरपि मुनयः सूतपुत्रं विलोक्य स्वामिन्
विस्पष्टमस्मन्मतिखचितमिदं प्रष्टुकामा रहस्यं ||
वक्तव्यं तत्त्वयाऽपि प्रकटितकृपया लोकसंरक्षणार्थं शास्त्रार्थं
स्वात्मनीनं सकलमपि मनस्याकलययेत्यपृच्छन् || ८१ ||
पृ० १२६) चतुर्मुखः सर्वमिमं प्रपंचं ससर्ज सर्वेशितुराज्ञयेति ||
त्वयोक्तमादौ श्रुतिभिश्च सूक्तं पुरेव धातासृजतात्मनेति || ८२ ||
तदीयसृष्ट्यां सुरमानुषाद्याः समस्तजीवास्सुखमोक्षकामाः ||
श्रयन्ति सर्वेश्वरमेव सर्वे किमर्थमन्येऽधिपतिं महात्मन् || ८३ ||
पुराणभागेषु भवन्मुखेन श्रुतेषु सर्वेषु च तत्र तत्र ||
विधींद्रविष्ण्वादिसुराश्रितानां पृथऽऽन्नयानां कथिताः कथास्ताः
|| ८४ ||
तथा द्विजक्षत्रियवैश्यशूद्राः सलोमजाताः प्रतिलोमजाश्च ||
श्रुतास्तथैवाश्रमिणश्च तेषां विभिन्नधर्माः पृथगर्थभाजः ||
८५ ||
शिवैकतानाः शरणाः प्रसिद्धाः श्रुतास्तथा तेषु महानुभावाः ||
गृहीतवर्णाश्रमधर्मनिष्ठास्तथा निराभारपदाभिषिक्ताः || ८६ ||
प्रभुस्तु सर्वं जगदेतदीशश्चकार साक्षादिह वीरशैवं ||
श्रुतिर्हि सर्वत्र गतौ प्रमाणं तदेकरूप्यं कथमीश भाव्यं || ८७ ||
इदं हि सर्वं परिमृश्य विद्वन्समस्तशास्त्रेष्वविरुद्धतत्वं ||
पृ० १२७) शिवकृत सृष्टिविषयकवर्णनम् |
त्वयोपदेश्यं करुणांबुराशे मनस्समाधातुमिहास्मदीयं || ८८ ||
मुनीनिति प्रार्थयतो विलोक्य प्रसाददृष्ट्या शिवयोगिवर्यः ||
समस्तशास्त्रार्थरहस्यतत्वं प्रकाशयन्नाह गुरूपदिष्टं || ८९ ||
अहो मुनीद्राः परतत्वनिष्ठाः शृणुध्वमात्मन्यवधानयुक्ताः ||
भवत्कृतं प्रश्नमिमं भवान्या समाददे * * * * [टीप- ताडपत्री
पुस्तकांत तीं अक्षरें फाटून गेलीं होतीं सबब न समजल्यामुलें
तेथें फुल्या घातल्या आहेत |] क्तं || ९० ||
कालो ह्यनादिः शिवसृष्टमेतत्प्रपंचजातं सकलं हृदैव ||
तदाज्ञयावान्तरसृष्टयस्ताः कृताः क्वचिद्विष्णुविधातृमुख्यैः || ९१
||
अनंतवेदेष्वपि तत्र तत्र पुराणभागेषु तथागमेषु ||
निरूप्य तत्तत्कृतसृष्टिभेदान् प्रधानतः शांभवसृष्टिरुक्ता || ९२
||
महेश्वराज्ञामवलंब्य सर्वे सृजन्तु धात्रादय ईश्वरस्तान् ||
शिवोऽनुगृह्णाति ततो महेशं स्वकारणं तेऽपि समाश्रयन्ते || ९३ ||
विश्वाधिको रुद्र इति श्रुतिश्च ब्रूते प्रभुं स्वात्मनि विश्वसेव्यं ||
करोति तस्मै श्रुतिरेव साक्षात्सदा नमस्कारसहस्रजातं || ९४ ||
पृ० १२८) अतः शिवे भक्तिरचंचलैव समस्तलोकस्य विमुक्तिहेतुः ||
मायाविमुक्तिः खलु मुक्तिरुक्ता प्रभुं विना तां विजयेत को वा || ९५ ||
उपास्य सर्वे प्रभुमेव देवाः प्रकृष्टलिंगैक्यपदं प्रपन्नाः ||
अनुग्रहाद्विष्णुमुखाश्च देवास्समाश्रिताः कैश्चिदमुष्य शंभोः || ९६
||
पदं प्रयच्छन्ति पदार्चकेभ्यः स्वकीयमेवाब्जभवाच्युताद्याः ||
न तत्र लिंगैक्यसुखे ततोऽमी पुनः प्रयात्येव जनिं मृतिं च || ९७ ||
य ईश्वरांशत्वधिया श्रयन्ते स्वकर्मशक्तेरिह विष्णुमुख्यान् ||
प्रपद्य ते तद्भवनं तदुक्तेर्महेश्वरोपास्तिरता भवन्ति || ९८ ||
सदाशिवैक्यानुभवैकगोष्ठ्या तदीश्वरेणैव समाहितास्ते ||
प्रपद्य दीक्षां प्रलये प्रसक्ते भजन्ति तेनैव सहेश्वरत्वं || ९९ ||
ये तु स्वतंत्रानिह मुक्तिहेतूनाश्रित्य तान्विष्णुमुखान्भजन्ति ||
गत्वापि ते तत्पदमाशु नष्टाः पुनः प्रयांत्येव भवांबुराशिम् || १००
||
जितेंद्रियास्ते यदि सात्विकेन हृदाभजन् विष्णुमुखानबुद्ध्वा ||
पृ० १२९) शिवमहत्ववर्णनम् |
आवृत्य तत्तत्पदतोऽपि तेऽमी बुध्यन्ति संस्कारवशान्महेशं || १०१ ||
ते जन्मजन्मन्यथ शैवनिष्ठाः क्रमाद्भविष्यन्ति हि वीरशैवाः ||
पदं प्रयास्यन्ति शिवैक्यमन्ते समस्तवेदान्तनिगूढमेतत् || १०२ ||
ये निंदकाः शांभवशंभुभक्तेर्दुराग्रहाद्विष्णुमुखान्भजन्ते ||
त्यक्ताश्च ते तैः प्रविशन्ति सत्यं तमोऽन्धमेवात्र न संशयः स्यात् ||
१०३ ||
पुराणभागेषु तु विष्णुमुख्याः प्रकाशिताश्शंभुपदाब्जभक्त्या ||
महानुभावाः खलु तेऽपि धन्याः प्रसीदतीशः खलु भक्तभक्त्या || १०४
||
क्वचिद्यदा भागवतादिभागे न्यूनत्वमुक्तं हरिपद्मजाभ्यां ||
रुद्रस्य तज्ज्ञेयमसंख्यरुद्रेष्वेकस्य कस्याऽपि गुरुप्रसादात् || १०५ ||
तमोगुणाधिक्यवशेन विष्णुब्रह्मादिदेवा अपि शंभुमीशं ||
क्वचिद्विरुध्येशहतास्तदेषां न दूषणं यद्गुणमाश्रयन्ति || १०६ ||
पृ० १३०) प्रभोस्तु तस्याखिलकारणस्य प्रमत्ततत्तन्निजभृत्यसंघान् ||
विशिष्य संशिक्ष्य विवेकदानं कर्तव्यमेवार्तिहरस्य तेषां || १०७ ||
अतो महान्तो बहुजन्मपुण्यप्रभावलब्धाधिकभाग्ययोग्याः ||
महेश्वरं कारणकारणं तं समाश्रयन्त्येव सदाशिवाख्यं || १०८ ||
तदीयभक्तत्वधिया हरींद्रविधातृमुख्यानपि भावयन्ति ||
महेश्वरे सर्वमखण्डदृष्ट्या लीनं प्रकुर्वन्ति समाधिनिष्ठाः || १०९
||
महात्मनां शंकरभक्तिनिष्ठा तदंशसाम्याद्भुवि मध्यमानाम् ||
अथाधमानामितरत्र भक्तिर्भवेन्नृणां कर्मवशान्मुनीन्द्राः || ११० ||
वर्णाश्रमाश्चापि शिवाज्ञयैव श्रुत्योदितास्सर्वजगत्प्रसिद्धाः |
देहस्य धर्माः खलु सर्व एते न ह्यात्मनः सर्वगताद्वयस्य || १११ ||
आज्ञा श्रुतिस्तस्य महेश्वरस्य स्वयं विधत्तेऽखिलकर्मजालं |
पृ० १३१) जनानविद्यादिमतोऽधिकृत्य शुक्लं निषेधत्यपि कृष्णकर्म || ११२
||
भक्तिं विरक्तिं तदशुक्लकृष्णं दीक्षां विधत्ते च मुमुक्षुसंघान् |
विरक्तिदार्ढ्ये सकलं विहाय शिवैक्यनिष्ठां परमां विधत्ते || ११३ ||
यथाधिकारं प्रसमीक्ष्य विद्वान् गुरूपदिष्टः श्रुतिसिद्धमर्थं |
समाश्रयेत्सत्क्रियया विशुद्धौ चित्तस्य विज्ञानपथं प्रयायात् || ११४ ||
आज्ञापि नोल्लंघयितुं हि शक्या कर्मत्यजेदित्यपि सैव सिद्धा |
अतो विरक्तः शिवदीक्षितोऽसौ प्रसाध्य भक्तिं विसृजेत कर्म || ११५ ||
यद्ब्राह्मणो मुख्यतया प्रसिद्धः सर्वेषु वर्णेषु शिवस्तथैव |
सर्वोत्तमो ब्राह्मण इत्युपास्यस्तद्ब्राह्मणैर्ब्राह्मण एव सोऽयं || ११६ ||
जात्या प्रकृत्या द्विविधः स वेद्यो यो ब्राह्मणो ब्राह्मणभक्तियुक्तः |
तद्भक्तिशून्यो न हि जातिमात्रात्स ब्राह्मणो ब्राह्मणमत्र मानं || ११७ ||
यो ब्राह्मणः स्याद्विमलः प्रकृत्या स एव शास्त्रेष्विह जंगमः स्यात् |
पृ० १३२) द्विजस्तु जात्या शिवतत्वहीनो न संमतो ब्राह्मण इत्ययं नः ||
११८ ||
यथोक्तकर्माचरणैकमात्राद्द्विजः स पित्रादिगतिं प्रयाति |
अकर्मशैवोऽन्यसुरेषु भक्तस्तल्लोकगामी पुनरेति मृत्युं || ११९ ||
यो ब्रह्मवेत्ता शिवमार्गनिष्ठस्स ब्राह्मणो मुक्तिमुपैति धन्यः |
अन्योऽपि जात्या शिवभक्तिपूर्णः स ब्राह्मणत्वं प्रतिपद्य मुक्तः || १२०
||
न शूद्रता स्याद्भगवत्यधीशे भक्तस्य दीक्षाविधिमाश्रितस्य |
अदीक्षितः शांभवभक्तिमार्गे शिवापराधाच्छ्वपचत्वमेति || १२१ ||
शिवः स्वयं ब्राह्मणदैवतं स्याज्जनार्दनः क्षत्रियवंश्यसेव्यः |
चतुर्मुखो वैश्यकुलैरुपास्यो गणेश्वरोपास्तिपरो हि शूद्रः || १२२ ||
इति स्मृतिः प्राह मनोस्तदस्य वाक्यस्य तात्पर्यमिदं हि बोध्यं |
भजेत यो योऽधिपमेव यं यं स एव तत्तत्प्रकृतिः किलेति || १२३ ||
अतः शिवं पुण्यवशादुपास्ते समस्तजातीयनरो विशेषात् |
पृ० १३३) कुलाकुल वीरशैवभेदनिरूपणम् |
स इष्यते ब्राह्मणवद्गुणाढ्यो विशेषदीक्षावशतश्चरोऽसौ || १२४ ||
शिवैकतानाः खलु सर्व एते भवन्ति सामान्यवशेन शैवाः ||
विशेषदीक्षावशतस्त एते भवन्ति वर्णा भुवि वीरशैवाः || १२५ ||
ततो निराभारपदैकदीक्षाश्चराग्रगण्यास्तु शिवावधूताः |
विरागपूर्णा यतयो मुनींद्रास्समस्तलोकं ननु पावयन्ति || १२६ ||
कुलाकुलत्वेन हि वीरशैवं द्विधा विभिन्नं कुलमार्गनिष्ठैः |
यदेव लिंगांगिभिराश्रितं स्याच्छिवोक्तरीत्या कुलवीरशैवं || १२७ ||
तथाऽकुलं नाम कुलं विखण्ड्य प्रसादसंकेतरहस्यनिष्ठैः |
तदेकदीक्षैश्च गृहीतदारैश्शिवार्चकैश्शीलयुतैरुपास्यं || १२८ ||
अनादिसिद्धं ननु वीरशैवं शिवोपदिष्टं प्रमथान्वयेऽस्मिन् |
प्रसिद्धिमेति द्विविधं च लोके विमुक्तिहेतुर्गुणतारतम्यात् || १२९ ||
पृ० १३४) श्रुतिश्चयो वक्ति शिवेति नाम स्फुटं सदीक्षः श्वपचोऽपि
सोऽयं |
गुणाधिकस्तेन सहैव भुंज्याद्वदेच्चरेत्सन्निवसेत्तथेति || १३० ||
अतः कुलत्यागवशान्न दोषः शिवात्मनां शीलवतां नराणां |
तदीयरक्षार्थमिमं ससर्ज स्वयं शिवो जंगमलिंगवंशं || १३१ ||
अनादिसिद्धस्तु चरान्वयोऽयं शिवेन मूर्ध्ना स्वयमेव सृष्टः |
अतः प्रभुर्जंगमलिंगलीलामवाप्य भक्तानवनावरक्षत् || १३२ ||
पुनः कलौ दुष्कुलबौद्धसंघैर्विनष्टशैवोद्धरणाय देवः ||
प्रभुः स एवावतरिष्यतीमे वृषेश्वराद्याश्च यथा पुरैव || १३३ ||
तथैव सा चित्कलिकावतीर्य प्रभौ समायास्यति सामरस्यं |
स षण्मुखश्छन्नघनो भविष्यत्ययं च वीरो मणिवालनाथः || १३४ ||
तथा पुरावृत्तमिदं च तिष्ये भविष्यतीहैव भविष्यतीत्थं |
श्रुतं प्रभोस्सच्चरितं मुनींद्रास्सदानुभाव्यं हृदये भवद्भिः || १३५
||
पृ० १३५) कथोपसंहृतिः |
सर्वोत्तमा वैदिकमार्गनिष्ठाः श्रेष्ठास्तु तेभ्यो ननु योगनिष्ठाः |
तेभ्योऽधिकाः शैवरता महान्तः श्रीवीरशैवास्तु ततोऽधिकास्ते || १३६
||
दीक्षैकनिष्ठास्त्वकुला महान्तः श्रीवीरशैवेऽपि ततोऽधिकास्ते |
श्रीमन्निराभारविरागनिष्ठाः श्रुत्यातिवर्णाश्रमिणः प्रसिद्धाः ||
१३७ ||
ततो महान्तः कुलवीरशैवं क्षितौ प्रतिष्ठापयितुं गणास्ते |
तदीयवंशेष्ववतीर्य तत्वं प्रकाशयंति प्रतिभाविशेषात् || १३८ ||
कलौ भविष्यन्ति महानुभावाश्शैवान्वये तत्र च वीरशैवे |
संरक्षितुं शांभवमद्वितीयं दधीचिशप्तान्वयसंभवेभ्यः || १३९
||
सूतोक्तमल्लमगुरोश्चरितं निशम्य ते शांभवाः प्रमुदिताः
परमानुभावाः |
रुद्राक्षभस्मफलवल्कलवीटिकाद्यैर्हृद्यैरुपायनशतैः प्रणतिं
प्रचक्रुः || १४० ||
सकृदपि गुरुलीलां धारयन्तः श्रुतान्ता भवजलनिधितीर्णाः
पूर्णकामा बभूवुः |
पृ० १३६) भृगुतनयमुखास्ते वीरशैवं
स्तुवन्तस्सततमचलितेष्टप्राणभावैक्यभावाः || १४१ ||
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
श्रीवीरमाहेश्वरामृतानंदसूक्तिसूत्रग्रथितपंचविंशतितत्वमौक्तिकम्
अहनीयमालायां प्रमथगणवचनपरंपरानुकूलायां
कलिकल्मषनिमग्नजनसमुद्धरणशीलायां प्रभुलिंगलीलायां
परमेश्वरप्रसादसंप्राप्तमहेश्वरीमनःसमाधानवीरशैवमहिमानुसं
धानप्रस्तुतकथोपसंहृतिकथनगतिर्नाम पंचविंशोऽध्यायः |
श्रीपरमेश्वरार्पणमस्तु |
श्रीनंदिकेश्वराय नमः ||
|| श्रीः || श्रीः ||
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
sb8ndxtpezv9ay1jjr4zjggdwnf6phm
415854
415853
2026-05-13T05:40:50Z
Shubha
190
415854
wikitext
text/x-wiki
{{header
| title = प्रभुलिङ्गलीला
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
----
MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0
Catalog number: M00621
Uniform title: prabhuliṅgalila
Description:
Notes:
Text selected by Dr. Elaine Fisher and funded by a fellowship awarded to Dr. Fisher by Stanford University.
Data entered by the staff of Muktabodha under the direction of Anirban Dash.
Revision 0: March 27, 2022
Publisher : vīraśaivaliṅgibrahmaṇagranthamala
Publication year : 1903
Publication city : Solapur
Publication country : India
----
ओं
वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला ।
ग्रंथ ६ वा.
(भविष्यत्पुराणांतर्गत)
प्रभुलिंगलीला
भाग १ ला.
वेदमूर्ति, मणूर मठाध्यक्ष मल्लिकार्जुनशास्त्री
शके १८२५, सन् १९०३
पृ० १) श्रीगणेशाय नमः । श्रीनंदिकेश्वराय नमः । अविघ्नमस्तु ।
शुभमस्तु ।
।। भविष्यत्पुराणे प्रभुलिंगलीलाप्रारंभः ।।
श्रीमद्वेदशिखैकमत्यघटनासिद्धान्तसूत्रावली-
तात्पर्यार्थमपार्थमायिकजगन्मिथ्यात्वबोधप्रदम् ।
सत्यं ज्ञानमनंतमाद्यमजरं सर्वेश्वरं शंकरं
वंदेऽहं प्रभुलिंगमूर्तिमनिशं वाऽऽन्मानसागोचरम् ।। १ ।।
कदाचिन्नैमिषारण्ये पुण्ये मुनिगणावृते ।
भागीरथीमहोदारप्रवाहपरिपोषितैः ।। २ ।।
भूषितैरतुलस्निग्धपत्रपुष्पफलव्रजैः ।
निरंतरवसंताढ्यैर्नितान्तसुखशीतलैः ।। ३ ।।
चंपकाशोकपुन्नागचंदनागरुतिंदुकैः ।
कपित्थाश्वत्थखर्जूरनारिकेलमधुद्रुमैः ।। ४ ।।
पनसप्लक्षकदलीरसालबकुलासनैः ।
पलाशोदुंबरवटैर्जंबूजम्बीरपाटलैः ।। ५ ।।
द्राक्षेक्षुदाडिमीकुंदबन्धुजीवकवेणुभिः ।
महेश्वरपदाम्भोजपूजार्हदलकोमलैः ।। ६ ।।
पृ० २) असंख्यातैरनुस्यूतैर्बिल्वद्रुमकदंबकैः ।
मल्लिकामाधवीजाजीकरवीरकुरुंटकैः ।। ७ ।।
श्यामन्तिकारुद्रजपानंद्यावर्तशमिद्रुमैः ।
अन्यैरनन्यसामान्यैर्मान्यैर्मुनिभिरन्वहम् ।। ८ ।।
अभ्रंकषैरदभ्रैस्तैर्विभ्राजितदिगन्तरैः ।
परिपक्वफलस्यन्दिरसपूरितसारणैः ।। ९ ।।
अच्छाच्छगुच्छविसरन्मकरन्दरसालसैः ।
भृंगैर्झंकारमुखरैर्नटद्विटपकोटिभिः ।। १० ।।
शारिकाकीरकिर्म्मीरमयूरपिकनादितैः ।
दिव्यैरपि च मन्दारैः पारिजातैश्च कल्पकैः ।। ११ ।।
सन्तानवृक्षप्रमुखसन्तानैरुपशोभिते ।
राजहंसकृतक्रीडैराजहंसोपशोभितैः ।। १२ ।।
भ्राजद्भिरप्सरोवृन्दैराजीवकुमुदाकरैः ।
राजते राजताद्रींद्रधवलैर्भूतिभूषितैः ।। १३ ।।
रुद्राक्षमंडपोदग्रशिखरैर्लिखितांबरैः ।
पृ० ३) नैमिषारण्यवर्णनम् ।
पर्णशालांगणप्रांशुवंशनर्तितवल्कलैः ।। १४ ।।
काषायपंक्तिकलिततरुशाखाभिरुज्ज्वले ।
कोटिकोटिमहालिंगमंगलायतनोन्नते ।। १५ ।।
सदाशिवाराधनोद्यद्धूपवासितदिक्तटे ।
हठाभ्यासिमहायोगिकृतयोगमठावृते ।। १६ ।।
लयानन्दघनाक्रांतमहागह्वरबृंहिते ।
मंत्रोपास्तिरतोदंचद्गंगाशीकरसैकते ।। १७ ।।
शिवराजमहायोगिसेविताश्रममंडपे ।
सर्वदातिथिपूजार्थसमाह्वानरवाकुले ।। १८ ।।
अध्वरीयहविर्भागागतदैवतसंकुले ।
वेदवेदान्तसिद्धान्तपाठकध्वनिनादिते ।। १९ ।।
सदा हरहरध्वानप्रतिध्वनितपुष्करे ।।
नीवारकंदमूलादिसंपूर्णबहुशाद्बले ।। २० ।।
स्फाटिकाच्छशिलासीनशिवपूजापरायणे ।
पंचाग्निमध्यविभ्राजत्तपस्विशतसंकुले ।। २१ ।।
परमार्थपदध्यातृपरहंसगणावृते ।
पृ० ४) पारमेश्वरविज्ञानपरतत्वैकचिंतकैः ।। २२ ।।
महापाशुपताघोरशैवशांभवदीक्षितैः ।।
षट्स्थलज्ञानसंपन्नैः शिवजीवैक्यतत्परैः ।। २३ ।।
श्वेताश्वतरशाखोक्तसमयाचारनिष्ठितैः ।।
भक्तैर्माहेश्वरैश्चैव प्रसादिप्राणलिंगिभिः ।। २४ ।।
शरणैरैक्यसंपन्नैर्वीरमाहेश्वरोत्तमैः ।।
शिवार्पितानि भुंजानैरनर्पितपराऽऽन्मुखैः ।। २५ ।।
जगच्छिवमयं सर्वमिति विज्ञाननिश्चितैः ।
प्राणलिंगांगसंबंधपदार्थपरिशोधकैः ।। २६ ।।
परमानंदभरितैर्निराभारैर्निरंकुशे ।
परस्परपरित्यक्तजातिवैरैरनाकुलैः ।। २७ ।।
गोव्याघ्रादिभिरेकत्र तृणांबुग्रहणोत्सुकैः ।
संवीते सकलानंदसंधानकरबंधुरे ।। २८ ।।
कामधुक् कल्पिताकल्पहेमभाजनसज्जितैः ।
षड्रसायनसारान्नपानीयैः परितोषितैः ।। २९ ।।
नानादिगंतादायातैरसंख्यैरतिथिव्रजैः ।
समाश्रितगृहद्वारवेदिकालक्षलक्षिते ।। ३० ।।
पृ० ५) सूतागमनवर्णनम् ।
नित्योत्सवसमाराध्यगणाकीर्णशिवालये ।
एवंविधाश्रमे तत्वज्ञानदूरीकृतश्रमे ।। ३१ ।।
शौनकाद्या महात्मानो मुनयः शंसितव्रताः ।
शिवज्ञानरता नित्यं शिवभक्तिरसाप्लुताः ।। ३२ ।।
शिवध्यानैकनिष्ठास्ते शिवव्रतपरायणाः ।
शिवाराधनसर्वस्वशिवमाहात्म्यदर्शिनः ।। ३३ ।।
शिवलीलानुसंधानशेमुषीमुषितांहसः ।
दैवादभ्यागतं सूतं सत्रयागदिदृक्षया ।। ३४ ।।
व्यासप्रसादसंप्राप्तत्रिकालज्ञानशालिनं ।
हस्तामलकवत्सर्वपुराणार्थानुभाविनं ।। ३५ ।।
शिवैकतानहृदयं शिवदीक्षापरायणम् ।
शिवाद्वैतानुसंधानचित्कलाकलितांतरम् ।। ३६ ।।
सदा शिवशिवेत्येव जपन्तं द्व्यक्षरं मुहुः ।
दर्शनस्पर्शनालापैर्बहिर्जनपराऽऽन्मुखम् ।। ३७ ।।
कृतेष्टप्राणभावैक्यं गुरुलिंगचरार्चकम् ।
भस्मोद्धूलितसर्वांगं फालभास्वत्त्रिपुंड्रकम् ।। ३८ ।।
पृ० ६) रुद्राक्षहारवलयमुकुटांगदकुंडलम् ।
शिवदीक्षाक्षणक्षीणपूर्वजातीयलक्षणम् ।। ३९ ।।
अक्षीणशिवयोगाढ्यमर्चनीयं द्विजातिभिः ।
कामहर्षिणमालोक्य ते महामुनिसत्तमाः ।। ४० ।।
दूरादेव समुत्थाय प्रणम्याभ्यर्च्य तं गुरुम् ।
तद्दत्तभस्मरुद्राक्षप्रसादाशीर्भिरादृताः ।। ४१ ।।
उपवेश्य सभामध्ये समुन्नतकुशासने ।।
रांकवालंकृतानल्पव्याघ्रचर्मोत्तरच्छदे ।। ४२ ।।
पृथक्पृथक् च ते सर्वे तदंघ्रिद्वयसन्निधौ ।
समर्प्य फलपुष्पादीनुपहारानतंद्रिताः ।। ४३ ।।
भक्त्या भूयः समन्तात्ते दंडवत्प्रणिपत्य च ।
तदंघ्रिन्यस्तनिटिलदूरीकृतदुरक्षराः ।। ४४ ।।
कृतांजलिपुटाः सर्वे स्थित्वा सूतं व्यजिज्ञपन् ।। ४५ ।।
ऋषय ऊचुः ।
भगवन्सर्वशास्त्रज्ञ पुराणार्थविशारद ।
वेदप्रकाशकान्येव पुराणानि महामते ।। ४६ ।।
कथितानि समस्तानि त्वयाऽस्माकं कृपानिधे ।।
तत्र शैवं भविष्यच्च लैंगं वाराहमेव च ।। ४७ ।।
स्कांदं मात्स्यं तथा कौर्मं मार्कंडेयं च वामनं ।
ब्रह्मांडं च दशैतानि त्रिलक्षग्रंथसंख्यया ।। ४८ ।।
पृ० ७) ऋषिप्रश्नवर्णनम् ।
शैवानि सात्विकानीति श्रुतानि त्वन्मुखांबुजात् ।
भविष्यन्नामके तत्र पुराणे शिवसंमते ।। ४९ ।।
कथितं शिवभक्तानां चरितं शिवयोरपि ।
यदा तिष्ये युगे पापे धर्मनिर्मूलनोद्यतैः ।। ५० ।।
पाषंडैर्बहुभिः पापैर्बौद्धचार्वाककौलिकैः ।।
देवतान्तरभक्तैश्च शिवनिंदापरायणैः ।। ५१ ।।
दधीचिना गौतमेन शप्तैर्ब्राह्मणवंशजैः ।।
दैत्यप्रकृतिभिः क्रूरैर्वैष्णवादि प्रभेदतः ।। ५२ ।।
मार्गांतरप्रविष्टैस्तैः शिवभक्तिः खिलीकृता ।
तदा प्रमथनाथानामवताराञ्च्छिवाज्ञया ।। ५३ ।।
तत्कृतप्रत्ययांस्तद्वद्दुष्टनिग्रहणानि च ।
वीरशैवशुभाचारसम्यगुद्धरणानि च ।। ५४ ।।
युगावृत्तिक्रमेणैव भविष्यदपि भूतवत् ।
कृपया परयाऽस्माकं सर्वं कथितवानसि ।। ५५ ।।
नंदीश्वरावतारेऽत्र तच्चरित्रप्रशंसने ।
प्रभुमूर्तेर्महेशस्य कल्याणाख्यमहापुरे ।। ५६ ।।
समागमनमाख्यातं नंदीशस्य सभांप्रति ।
तदाराधनतुष्टस्य प्रभोरमिततेजसः ।। ५७ ।।
शिवज्ञानोपदेशश्च वर्णितो भवता मुने ।
इदानीं श्रोतुमिच्छामः सर्वज्ञस्य महागुरोः ।। ५८ ।।
पृ० ८) प्रभुमूर्तेर्महेशस्य लीलामानंददायिनीम् ।
कलिकल्मषनिर्मग्नसमुद्धरणकौशलाम् ।। ५९ ।।
कथमेष महादेवः प्रभुमूर्त्या निरंजनः ।
भूमाववततारैतन्माहात्म्यं वक्तुमर्हसि ।। ६० ।।
तत्कथामृतधाराभिरस्मानानन्दयाधुना ।
यदि श्रीगुरुकारुण्यपात्रताऽस्मासु विद्यते ।। ६१ ।।
इति संप्रार्थितः सूतः प्रीतः संजातसंस्मृतिः ।
शिवावेशवशोत्पन्नपरानन्दलयोदयः ।। ६२ ।।
चिरं समाहितस्वान्तश्चरणध्याननिर्वृतः ।
करस्थलिंगप्रसरत्किंचिदुन्मीलितेक्षणः ।। ६३ ।।
बाह्याभ्यन्तरतौल्येन सर्वं शिवमयं स्मरन् ।
त्रैकालिकज्ञाननिधिः साक्षात्कृतजगत्त्रयः ।। ६४ ।।
तत्कृतश्रीगुरुकथाप्रश्नसंजातसंभ्रमः ।
सर्वांगसंगतोदारपुलकांकुरनिर्भरः ।। ६५ ।।
आनंदाश्रुपरिक्लिन्ननेत्रांचलसमंचितः ।
अवलोक्य मुनीन्सर्वान् स्मयमानमुखांबुजः ।। ६६ ।।
विवक्षुरपि संकोच्य हर्षगद्गदितं वचः ।
तूष्णीं मुहूर्तमास्थाय पुनः स्फुरितवाग्झरः ।। ६७ ।।
पृ० ९) सूतकृतगुरुध्यानं गुरुमहिमानुवर्णनं च ।
स्मरन् व्यासमुनिं भक्त्या गुरुं च गणनायकम् ।
मेघगंभीरया वाचा प्रोवाच वचनं शुभं ।। ६८ ।।
सूत उवाच ।
साधु साधु महात्मानो मुनयः शंसितव्रताः ।
यत्कृतार्थतमो लोके युष्माभिर्भावितोऽस्म्यहं ।। ६९ ।।
प्रश्नोऽयं भवतां सर्वजगदानन्ददायकः ।।
क्रियते येन सुदृढा गुरौ भक्तिः परात्मनि ।। ७० ।।
येषां देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तैरेव क्रियते सोऽयं प्रश्नो वेदान्तगोचरः ।। ७१ ।।
अहो सत्संगमहिमा वर्ण्यते केन वा भुवि ।।
येन श्रीगुरुमाहात्म्यकथायां चोदितोऽस्म्यहं ।। ७२ ।।
सत्संगश्च विवेकश्च निश्चलं नयनद्वयम् ।
एकेन विकलः काणो द्वाभ्यामंधः प्रकीर्तितः ।। ७३ ।।
ये शिवे श्रीगुरौ भक्ताः सत्यवाचो जितेंद्रियाः ।
लिंगांगसंगिनः शुद्धास्ते वै सन्तः प्रकीर्तिताः ।। ७४ ।।
भस्मरुद्राक्षनियताः पंचाक्षरपरायणाः ।
विश्वाधिकशिवज्ञाननिष्ठाः सन्तः प्रकीर्तिताः ।। ७५ ।।
पृ० १०) वेदे शिवे गुरौ ब्राह्मे ये भक्तास्तत्कथामृते ।
सक्ता विरक्तास्ते सन्तस्तेषां संगो हि दुर्लभः ।। ७६ ।।
अद्य मे सुदिनं जातं प्रेरितो यत्कथामृते ।
प्रभोर्भवद्भिर्मुनयः सत्यज्ञानचिदात्मनः ।। ७७ ।।
यः प्रभुः स्रष्ट्टसृष्टानां जंतूनां शिष्टवर्त्मनाम् ।
इष्टलिंगांगसाहित्यमुपदेष्टा स्वयं गुरुः ।। ७८ ।।
यः शिष्यजनरक्षार्थं स्वयं मानुष्यमास्थितः ।
प्राणं पश्चिममार्गेण धृत्वा चोद्बोध्य कुंडलीम् ।। ७९ ।।
सदा केवलकुंभेन भावं लिंगे समर्पयन् ।।
चरति स्वेच्छया भूमौ योगीव निरुपाधिकः ।। ८० ।।
तस्य माहात्म्यमतुलं शृणुध्वं कथयामि वः ।।
प्रभोर्माहात्म्यमखिलं भूतं भव्यं भवच्च यत् ।। ८१ ।।
न शक्यते मया विप्रा वक्तुं वर्षशतैरपि ।।
गुहास्थितो महादेवो यथोच्चारयतेऽत्र मां ।। ८२ ।।
तथा कथा प्रतिध्वानसदृक्षेयं समीक्ष्यतां ।
नाहं वच्मि शिवो वक्ता श्रोताऽपि स महेश्वरः ।। ८३ ।।
पृ० ११) प्रभुलीलावतारमाहात्म्यवर्णनम् ।
न यूयं मानवा विप्रा न कथेयं च लौकिकी ।
गुहेश्वरमहालिंगप्रभुमूर्तेर्गुरोरिदम् ।। ८४ ।।
लीलावतारमाहात्म्यं शृणुत श्रद्धयाऽस्तिकाः ।
कालक्षेपार्थमेतन्न वार्ताश्रवणमात्रकं ।। ८५ ।।
विशुद्धचित्ता ये भक्त्या शृण्वन्ति सततं नरः ।।
शिवस्ताननुगृह्णाति तनुचित्तार्थबंधहृत् ।। ८६ ।।
नेयं ज्ञातिजनद्वेषकृतयुद्धकथा कथा ।
न स्त्रीविषयभोगेच्छालंपटाभिकका कथा ।। ८७ ।।
नानुश्रविकसौख्यार्थकर्मकांडकथाऽपि च ।
किन्तु कुंडलिनीयोगजनितानन्दनिर्भरा ।। ८८ ।।
चिदाकाशमयात्मैक्यतृप्तिदेयं कथा शुभा ।
जन्ममृत्युजराक्रान्तजनकीटकथा नहि ।। ८९ ।।
कर्मांधकारसंगत्या शैवं धर्ममजानताम् ।
कथेयं दुर्मदांधानां न स्वेच्छाचारिणां नृणाम् ।। ९० ।।
अपि तु स्वेच्छयाऽऽरब्धलीलाविग्रहशालिनाम् ।।
चिदाकाशमयांगानां सच्चरित्रवतां कथा ।। ९१ ।।
पृ० १२) ततः शिवगुरुज्ञानभक्तिनिःश्रेणिकोपमा ।
भुक्तिमुक्तिप्रदा पुण्या कथेयं श्रूयतां द्विजाः ।। ९२ ।।
ग्रसित्वेक्षुपलाशानि छागो रोमंथमाचरन् ।।
तावन्मात्रेण संतुष्टो यथा भवति तुच्छधीः ।। ९३ ।।
तथा नीचजनो लोके स्वर्गादिसुखमुत्तमम् ।
मत्वा कर्माणि कुर्वाणो जन्म मृत्युं च विंदति ।। ९४ ।।
यथेक्षुरसमास्वाद्य सुखी भवति वारणः ।
तथा भक्तिरसं विद्वानास्वाद्यामृतमश्नुते ।। ९५ ।।
यूयं शिवपदांभोजभक्तिभाजो मुनीश्वराः ।
प्रभुलिंगमहालीलामाकर्णयत सादरम् ।। ९६ ।।
स्पर्शवेधिमये देहे यथायसविभूषणम् ।
तप्तजांबूनदमयं जायते समलंकृतम् ।। ९७ ।।
तथा वचनमत्यल्पप्रयुक्तं शोभते तराम् ।
अप्राज्ञेनापि सर्वज्ञे कल्याणगुणभाजने ।। ९८ ।।
अभिनीय नभः स्प्रष्टुमुन्नमयय भुजावुभौ ।
किमर्थमूर्ध्वमुतिष्ठेद्व्यापकं तत्समंततः ।। ९९ ।।
तथा सगुणभावेन नैर्गुण्येनापि लीलया ।
व्यापकस्य प्रभोः कीर्तिमप्राप्य मम वागियम् ।। १०० ।।
पृ० १३) किमन्यदाश्रयेत्तेन विना किंचिन्न विद्यते ।
गोवत्सो गां परित्यज्य भल्लूकीं नानुधावति ।। १०१ ।।
तथा शिवं परित्यज्य मद्वागन्यं न संश्रयेत् ।
प्रभोरीशस्य माहात्म्यं पुरा प्रमथभाषितम् ।। १०२ ।।
पुनः पुनर्युगावृत्त्या भविष्यदपि भूतवत् ।
संस्मृत्य कथयाम्यद्य शृणुध्वं यूयमास्तिकाः ।। १०३ ।।
कालो ह्यनादिरेषोऽत्र भूयो भूयः कलौ युगे ।
प्रभोः प्रमथनाथानामवताराश्च तत्क्रियाः ।। १०४ ।।
धर्मसंस्थापनार्थाय विज्ञेया आस्तिकोत्तमाः ।
यंत्रधारः प्रभुर्ज्ञेयः सर्वे यंत्राणि वै वयम् ।। १०५ ।।
यथा प्रेरयते सोऽयं तथा कुर्मो न चान्यथा ।
सिद्धवीरेश्वरस्वामी श्रीगुरुः शिवयोगिनाम् ।। १०६ ।।
बुद्धिं त्रैकालिकीं दद्यात् प्रभोर्लीलानुवर्णने ।
वाचो यतो निवर्तंते वेदाद्या मनसा सह ।। १०७ ।।
आदिमध्यान्तशून्यो यो नादबिन्दुकलातिगः ।
एषोऽयमत्यनिर्देश्यः प्राज्ञैरपि च योगिभिः ।। १०८ ।।
पृ० १४) श्रीशिवः सच्चिदानन्दो नामरूपविवर्जितः ।
निर्गुणः परमं तत्वं निर्विकल्पो निरंजनः ।। १०९ ।।
सर्गसंहारसंसर्गवर्जितो भर्ग ईश्वरः ।
वशीकृतमहामायः स्वतंत्रः परमेश्वरः ।। ११० ।।
नंदीश्वरादिप्रमथान्ब्रह्मादीन्सुरपुंगवान् ।
देवर्षीन् सनकादींश्च हृत्वाऽज्ञानतमश्च्छटाः ।। १११ ।।
अनुग्रहीतुं सुज्ञानमुद्रया पुस्तकेन च ।
घंटामृतघटाभ्यां च कमनीयाकृतिं वहन् ।। ११२ ।।
अर्धचंद्रजटाजूट आकर्णायतलोचनः ।
लंबमानलसत्कर्णः किंचिदुन्नतनासिकः ।। ११३ ।।
कंबुग्रीवः पृथूरस्को धृतनागेंद्रकुंडलः ।
नागयज्ञोपवीताढ्यो योगपट्टाभिरंजितः ।। ११४ ।।
समुन्नतभुजः श्रीमान्दीर्घरोमावलीयुतः ।
आवर्तनाभिरुचिरनितंबोरुद्वयांचितः ।। ११५ ।।
पद्मरागप्रभाजालरंजितांघ्रिद्वयांचितः ।
दक्षिणामूर्तिरूपेण साक्षात्कृत्य विराजते ।। ११६ ।।
तस्य श्रीदक्षिणामूर्तेर्वटमूलं हि मन्दिरं ।
तस्य न्यग्रोधवृक्षस्य जलं शान्तरसः स्मृतः ।। ११७ ।।
पृ० १५) परमात्मस्वरूपनिरूपणम् ।
आलवालं च सद्गोष्ठी मुलमोंकार एव च ।
वेदः प्रकाण्डो विद्याश्च जटास्ताः परिकीर्तिताः ।। ११८ ।।
तथोपनिषदः शाखा भक्तिः फलमितीर्यते ।
आनंदः फलसारः स्यादन्तर्ध्यानं प्रसाधनम् ।। ११९ ।।
चिंतात्यागो महामार्ग इति ज्ञेयं महात्मभिः ।
तस्य न्यग्रोधवृक्षस्य मूले मुनिगणावृते ।। १२० ।।
विद्यासिंहासनासीनो ज्ञानं मौनेन सद्गुरुः ।
बालोऽपि वृद्धशिष्येभ्यो य उपादिशदास्तिकाः ।। १२१ ।।
तस्य देवस्य माहात्म्यं को वा वर्णयितुं क्षमः ।
स एव देवदेवेशो भूमौ भक्तानुकंपया ।। १२२ ।।
परित्यज्य करे शूलं फणिभूषणसंहतिम् ।
भूतसंघाननेकांश्च कपालकृतभाजनः ।। १२३ ।।
कंठे विषं ललाटेऽक्षि तिरोधाय गुरुः स्वयम् ।
कृपारसार्द्रनयनः सुधामधुरभाषणः ।। १२४ ।।
मूर्तः शान्तरसः साक्षात्कान्त्या दान्त्या समुज्ज्वलः ।
मन्दस्मितमुखांभोजः कंदर्प इव सुंदरः ।। १२५ ।।
पृ० १६) किंचित्काषायललितधौतांबरविभूषितः ।
साक्षान्मोक्षप्रदातेति जनतानंददायकः ।। १२६ ।।
सर्वलोकप्रसिद्धोऽयं भक्ताभीष्टार्थसिद्धिदः ।
सिद्धवीरेश्वरो नाम्ना क्षितौ प्रत्यक्षतां गतः ।। १२७ ।।
महायोगेश्वरस्यास्य महिमानं प्रशंसितुं ।
शक्तो नंदीश्वरः साक्षान्मादृशाः शक्नुयुः कथम् ।। १२८ ।।
स एष सिद्धवीरेशः सदाचार्यशिखामणिः ।
संप्रदायद्वयं चक्रे सकलं निष्कलं च यत् ।। १२९ ।।
सर्वेषां शांभवं धर्ममुपदिश्य दयानिधिः ।
रक्षति स्म जगत् कृत्स्नमक्षयज्ञानसागरः ।। १३० ।।
जन्मभूमिरसौ सर्वकल्याणगुणसन्ततेः ।
स्वयं हि सर्वभूतात्मा चरलिंगवपुर्धरः ।। १३१ ।।
शिवभक्तजनोदारजीवरत्नसमाकृतिः ।
कविर्मायांधतमसविध्वंसनविचक्षणः ।। १३२ ।।
बौद्धचार्वाकजैनादिपरवादिनराधमैः ।
कीटैरगम्यसौलभ्यमहीरुहफलोपमः ।। १३३ ।।
परमार्थशिवाचारपट्टबंधविराजितः ।
पृ० १७) गोशालाबद्धसुरभिर्भक्तानां स्वनिकेतने ।। १३४ ।।
जैनमस्तकविन्यस्तशूलाख्यविरुदांकितः ।
दुर्मानबीजलक्ष्माभृन्मानमर्दनसाहसः ।। १३५ ।।
मृदुलस्वपदन्यासविलासैः पावयन्महीम ।
लसन् गमनचातुर्यैर्नटलिंगतनुः शिवः ।। १३६ ।।
दीयते दीक्षिते यत्तत् क्षीयते नेति वा वदन् ।
शिष्यसंरक्षणार्थाय स्वयं पर्यटति क्षितौ ।। १३७ ।।
निजपादोदकं पुण्यं प्रसादं मुक्तिसाधनम् ।
प्रयच्छति गुरुर्योऽयं भक्तेभ्यः प्रणतार्तिहा ।। १३८ ।।
आराध्यलक्षणाकार आराधकसुरद्रुमः ।
आराद्दूरी च सर्वत्र वर्तमानो जगत्त्रये ।। १३९ ।।
पादार्चकजनस्वान्तरंधकारनिरोधकम् ।
गुरुशब्दाक्षरद्वंद्वं भजन्विजयते स्वयम् ।। १४० ।।
शुद्धसत्वकलोपेतो निर्गुणोऽपि गुणाश्रयः ।
एकोऽपि जलकुंभस्थशशीवानेकतां गतः ।। १४१ ।।
उपाधिभेदैः श्रुत्या च युक्त्या च न हि वस्तुतः ।
प्रत्यक्षतारकब्रह्म परात्परतरो गुरुः ।। १४२ ।।
पृ० १८) मंत्रमूलं गुरोर्वाक्यं पूजामूलं गुरोः पदम् ।
ध्यानमूलं गुरोर्मूर्तिर्मुक्तिमूलं गुरोः कृपा ।। १४३ ।।
अणोरणीयान्महतो महीयानपि सद्गुरुः ।
प्रणवप्राणपदवी प्रणवार्थप्रदर्शकः ।। १४४ ।।
तृणीकृताणिमाद्यष्टसिद्धिर्यच्छिष्यसंततिः ।
स योगी कृतकृत्यानां स्वगृहांगणशेवधिः ।। १४५ ।।
पुण्यैकनिरतानां च स्वर्णाहितमधूपमः ।
जागरः स्वप्नसौषुप्तभ्रमावस्थाविवर्जितः ।। १४६ ।।
अवस्थात्रयसाक्षी च सहजानंदसुंदरः ।
प्राणलिंगांगसंबंधपदार्थज्ञानमादरात् ।। १४७ ।।
उपदिश्य सुशिष्येभ्यः सुखलीलानुभावनैः ।
प्रसाद्य भोगमोक्षौ द्वौ यो रक्षति महागुरुः ।। १४८ ।।
तस्मै श्रीगुरवे सुधींद्रतरवे सत्यात्मने स्वात्मने
पुण्याय श्रुतिसंमताय यतये भूम्ने परब्रह्मणे ।
भक्तव्रातसदावनैकरतये श्रीसिद्धवीरेश्वर-
स्वामींद्राय समस्तदेशिकमनःसांद्राय तुभ्यं नमः ।। १४९ ।।
पृ० १९) इति शिवगुरुवर्यस्तोत्रसंजातहर्षस्तदनु
तदनुकंपाजातसर्वार्थबोधः ।
मुनिगणमवलोक्य श्रोतुकामं समंतात्प्रभुगुरुशिवलीलां प्राह सूतो
महात्मा ।। १५० ।।
शृणुध्वमृषयः सर्वे सावधानेन चेतसा ।
वेदान्तसारसर्वस्वं न कस्याऽपि प्रकाशितम् ।। १५१ ।।
अनादिमध्यनिधनमादेराद्यं निरंजनम् ।
सर्ववेदशिखालक्ष्यमसादृश्यमनामयम् ।। १५२ ।।
एतत्तदित्यनिर्देश्यमवाऽऽन्मानसगोचरम् ।
सत्यं ज्ञानमनंतं यत्सदानंदघनं परम् ।। १५३ ।।
निर्विकल्पं निराख्यातं निरालंबं निराकुलम् ।
परं ब्रह्म परं धाम परमात्मा परायणम् ।। १५४ ।।
परात्परं परंज्योतिः परात्परपथातिगम् ।
स्वप्रकाशचिदाकाशं सर्वव्यापि सदातनम् ।। १५५ ।।
न तत्र भानुराभाति न चेदं चंद्रतारकम् ।
नेमाश्च विद्युतो भान्ति कुतोऽग्निस्तत्र भासते ।। १५६ ।।
पृ० २०) तमेव भान्तमनुभात्येतत्सर्वं विभाति च ।
तस्य भासा यतो वाचो निवर्तंते हृदा सह ।। १५७ ।।
येनेदं निखिलं व्याप्तं यद्वै वाचोऽपि वाचकम् ।
न मन्यते यन्मनसा यन्मतं न मतं भवेत् ।। १५८ ।।
अमतं यन्मतं तत्स्यादविज्ञातं विजानताम् ।
विज्ञातमविजानानामेकमेवाद्वितीयकम् ।। १५९ ।।
केवलं ब्रह्म यल्लिंगं निर्विकाराख्यमिष्यते ।
तदेव परमं तत्वं सर्वाधिष्ठानमद्भुतम् ।। १६० ।।
त्रिपाद्ब्रह्मामृतं पूर्णं निष्कलं सर्वकारणम् ।
अलिंगं लिंगमध्यस्थमद्वैतं प्रकृतेः परम् ।। १६१ ।।
निर्विकाराख्यतत्वं तदनुत्तरपराक्षरम् ।
सिसृक्षया मायामनुगृह्णाति सात्विकीम् ।। १६२ ।।
उदयं प्राप्तवांस्तस्माद्देवः सोऽयं सदाशिवः ।
महाकैलासमारूढः स एव परमः शिवः ।। १६३ ।।
सर्वानुग्राहकः सोऽयं सर्वतत्वोत्तरोत्तरः ।
अदृश्यविग्रहो देवो भावग्राह्यो मनोमयः ।। १६४ ।।
पृ० २१) पंचकारणसृष्टिक्रमोपन्यासनिरूपणम् ।
अरूपोऽयं सरूपोऽपि सकलोऽपि च निष्कलः ।
अवाऽऽन्मानसगम्योऽपि भक्त्या गम्यः परेश्वरः ।। १६५ ।।
सदाशिवात्समुत्पन्ना चिच्छक्तिः सांबिका शिवा ।
शिवानन्या परानंदा सैवोमा चित्कला मता ।। १६६ ।।
सदाशिवश्च चिच्छक्तिर्दांपत्यं स्वेच्छया गतौ ।
ताभ्यां शिवः समुत्पन्नः स एवेश्वर उच्यते ।। १६७ ।।
सोऽपि कारणकैलासवर्ती सर्वपिधायकः ।
मिश्रतत्वमयो यस्माद्देवः सकलनिष्कलः ।। १६८ ।।
शिवात्तस्मात्समुत्पन्ना स्वेच्छाशक्तिस्तयोर्द्वयोः ।
मिथुनीभूतयोर्जातः श्रीरुद्रो जगतांपतिः ।। १६९ ।।
पंचवक्त्रधरः सोऽयं पंचब्रह्मात्मको यतः ।
अष्टमूर्तिर्जगद्रक्षासृष्टिसंहारकारकः ।। १७० ।।
कार्यकैलासवर्ती यः श्रीकंठाख्यो महागणैः ।
असंख्यातैर्विहरति स्वेच्छया परमेश्वरः ।। १७१ ।।
क्रियाशक्तिः समुत्पन्ना रुद्रात्तस्मान्मुनीश्वराः ।
सैव गौरी गिरिसुता वैष्णवी दक्षकन्यका ।। १७२ ।।
गुणत्रयात्मिका देवी दुर्गा कालीति गीयते ।
पृ० २२) क्रियाशक्तेश्च रुद्रस्य मिथुनीभूतयोस्तयोः ।। १७३ ।।
प्राप्तवान्विष्णुर्जगत्पालनतत्परः ।
निद्रालस्यप्रमादादितमोगुणयुतोप्ययम् ।। १७४ ।।
रुद्रानुग्रहसंप्राप्तसत्वः सत्यसुखात्मकः ।
वैकुंठाख्यपुरे मेरौ वसन् रक्षति वै जगत् ।। १७५ ।।
विष्णोस्तस्मात्समुत्पन्ना महालक्ष्मीरिति श्रुता ।
आदिशक्तिस्तयोर्जाता मिथुनीभूतयोर्द्वयोः ।। १७६ ।।
ब्रह्मा सर्वजगत्स्रष्टा चतुरास्यो रजोन्वितः ।
जातः सत्याधिराजोऽयं परा शक्तिस्ततो ह्यभूत् ।। १७७ ।।
पश्यन्ती मध्यमा वैखर्यवस्थाभिः परा च सा ।
स्वरूपेण च वाण्याख्या जाता शक्तिश्चतुर्विधा ।। १७८ ।।
तया व्याप्तमिदं सर्वं चराचरमयं जगत् ।
ब्रह्माणी ब्रह्मणोर्जातं मिथुनीभूतयोर्द्वयोः ।। १७९ ।।
चराचरमिदं सर्वं पिंडब्रह्मांडसंज्ञितम् ।
समष्टिव्यष्टिरूपेण सर्वं शिवमयं यतः ।। १८० ।।
सदाशिवोऽपि सर्वज्ञः सर्वकर्ता जगत्पतिः ।
महेश्वरादिरूपेण स्वेच्छाशक्तिविजृंभणात् ।। १८१ ।।
सृष्ट्वा जगदिदं सर्वं तदेवानुप्रविश्य च ।
पृ० २३) समष्टिव्यष्टिरूपेण सदसच्चाभवत्प्रभुः ।। १८२ ।।
विश्वाभूतानि पादोऽस्य त्रिपाद्ब्रह्मामृतं दिवि ।
गुह्येश्वरः स एवायं महादेवो मुनीश्वराः ।। १८३ ।।
उपादानोपकरणप्रयोजनविवर्जितः ।
स्वेच्छामात्रेण सकलं सृजत्यवति हन्ति च ।। १८४ ।।
पिदधात्यनुगृह्णाति तथाप्यानंदलीलया ।
ज्ञानशक्त्योमया साकं रन्तुकामो निरुद्यमः ।। १८५ ।।
सृष्टिक्रियायां ब्रह्माणं सृष्टिस्थित्योश्च माधवम् ।
सृष्टिस्थितिलयेष्वेकं रुद्रं पशुपतिं प्रभुम् ।। १८६ ।।
अभिषिच्याकरोदीशः स्वाज्ञया तदधीश्वरान् ।
तस्माद्रुद्रोऽधिकस्ताभ्यां पशूनां पतिरीश्वरः ।। १८७ ।।
प्रत्यासत्त्या शिवस्यायं नामधामादिभिः समः ।
सूत्रधारेण महता गुहेशेनाभिनंदितः ।। १८८ ।।
पृ० २४) अध्यास्ते कार्यकैलासे शृंगे मेरोः समुन्नते ।
गुहेश्वरस्तु सर्वज्ञः सच्चिदानंदसुंदरः ।। १८९ ।।
अनेककोटिब्रह्मांडमहाभांडातिगे पथि ।
निरंजनचिदाकाशे नित्यमुक्तैः समन्वितः ।। १९० ।।
महाकैलासशिखरे प्रभुरास्ते चिदंबया ।।
ऋषय ऊचुः ।
सूत पौराणिकश्रेष्ठ ब्रूह्यस्माकमशेषतः ।
महाकैलासमाहात्म्यं यज्ज्ञात्वा मोक्षमाप्नुयात् ।। १९१ ।।
सूत उवाच ।
शृणुध्वमृषयः सर्वे सावधानेन चेतसा ।
किमस्ति शिवभक्तेषु रहस्यं भुवि मादृशाम् ।। १९२ ।।
अयं मोक्षकरः प्रश्नो भवतां योगिसंमतः ।
महाकैलासमहिमा शक्यते केन वर्णितुं ।। १९३ ।।
ध्यानस्थानेषु सर्वेषु महाकैलासवैभवं ।
ध्यात्वा तदूर्ध्वशिखरे ध्येयो देवः सदाशिवः ।। १९४ ।।
अनेककोटिब्रह्मांडान्यसंख्यातैर्महागणैः ।
रक्षितानि महेशस्य महिम्नावहितानि हि ।। १९५ ।।
तेषामनंतकोटीनां ब्रह्मांडानामथोपरि ।
निरंजनमहाकाशे निर्विकल्पे निरामये ।। १९६ ।।
पृ० २५) महाकैलासवर्णनम् ।
देशकालापरिच्छेद्ये वेद्ये वेदान्तवेदिभिः ।
महाकैलासशैलोऽयं वर्तते शंकराज्ञया ।। १९७ ।।
समुन्नतो योजनानां षष्टिकोटिभिरायतः ।
त्रिंशत्कोटिभिरानंदनिलयस्तेजसां निधिः ।। १९८ ।।
शिखरं नवरत्नाढ्यं तस्योर्ध्वं भाति सुव्रताः ।।
सदाशिवस्य नगरी वर्तते तत्र मुक्तिदा ।। १९९ ।।
विचित्ररत्नप्राकारगोपुराट्टालकावृता ।
तन्मध्ये दिव्यभवनमवाऽऽन्मानसगोचरं ।। २०० ।।
रत्नस्तंभसहस्राढ्यं राजते तस्य मध्यमे ।
रत्नपांचालिकारूपसर्वावरणशक्तिभिः ।। २०१ ।।
समुज्ज्वले महाचक्रराजसिंहासनोत्तमे ।
चिदंबरमहायंत्रलसद्बैंदवमंडले ।। २०२ ।।
वीरासने समासीनो महाशंभुः सदाशिवः ।
पंचविंशतितत्वोद्यत्पंचविंशतिसन्मुखः ।। २०३ ।।
पंचाशन्मातृकास्त्रोद्यत्पंचाशत्करमंडितः ।।
वामांकपीठिकासीनज्ञानांबालिंगनोत्सुकः ।। २०४ ।।
किरीटहारवलयकेयूरांगदकुंडलैः ।
माणिक्यखचितैरन्यैर्भूषणैरभिभूषितः ।। २०५ ।।
पृ० २६) सत्यज्ञानानंदघनः सहस्रांशुसहस्रभाः ।
लक्ष्यलक्षणशून्यश्रीरप्राकृततनुर्महान् ।। २०६ ।।
यतो वाचो निवर्तंते अप्राप्य मनसा सह ।
स एष सर्वशक्तीनामाश्रयो बहुभिर्वृतः ।। २०७ ।।
रुद्रैः सिद्धैश्च मुनिभिः सर्वैश्वर्यसमन्वितः ।
नित्यमुक्तैर्निराभासैरैक्यविज्ञानतत्परैः ।। २०८ ।।
उपास्यमानः सततं सर्वव्यापी सनातनः ।
भक्तानुग्रहणार्थाय परमात्मा विराजते ।। २०९ ।।
रत्नश्रृंगस्य परितस्तस्यान्यानि द्विजोत्तमाः ।
भान्त्येकादशश्रृंगाणि सूर्यकांतमयान्यहो ।। २१० ।।
मूर्तयस्तेषु पंचान्याः शंभोः षडपि मूर्तयः ।
पंचविंशतिसंख्याका मूर्तयोऽन्याश्च सुव्रताः ।। २११ ।।
निवसंत्येकपंचाशत्संख्याका मातृकास्तथा ।
तेषां च परितः शृंगाण्यग्निकान्तमयानि हि ।। २१२ ।।
एकोत्तरसहस्रं स्युस्तेषु ध्यायन्त ईश्वरम् ।
वसन्त्यष्टोत्तरशतं तांडवेशस्य मूर्तयः ।। २१३ ।।
सप्तकोटिमहामंत्रदेवताश्च वसन्ति हि ।।
शृंगाण्येकाधिकदशसहस्राण्यभितस्ततः ।। २१४ ।।
पृ० २७) भान्त्यच्छस्फटिकाभानि महान्ति गिरिशाज्ञया ।
तेषु विघ्नेश्वरस्कंदौ महाशास्ता च भैरवः ।। २१५ ।।
नंदिभृंगिमहाकालप्रमुखाश्च गणाधिपाः ।
धर्मश्चतुष्पाद् वृषभः कामधेनुरभीष्टदा ।। २१६ ।।
दुर्गाद्याः शक्तयो भक्ताश्चंडीशाद्यास्तथाऽनिशम् ।
पंचास्त्रमूर्तयः शैव्यो निवसंति शिवाज्ञया ।। २१७ ।।
तेषां शृंगाणि परितो रत्नकांतानि संततम् ।
लक्षमेकोत्तरं विप्रा मनोज्ञानि विभांति हि ।। २१८ ।।
प्रत्यक्शृंगगताः शिवार्चनपरास्तेषां स्थिता विष्णवो
ब्रह्माणः शिवलिंगपूजनपरास्तेषामुदीचीनगाः ।
प्राच्या शृंगगताः पुरंदरमुखा ध्यायन्ति तं लोकपा
याम्येषु प्रवसन्ति सन्मुनिगणाः श्रीदक्षिणामूर्तिगाः ।। २१९ ।।
एकोत्तरदशलक्षाण्यभितः शृंगाणि तेषां स्युः ।
सौवर्णानि मुनींद्रास्तेषु च भूताधिपाः सन्ति ।। २२० ।।
पुनरपि दशायुधानि श्रीरुद्रास्सिद्धगरुडगंधर्वाः ।
विद्याधराश्च सुरभिर्मणिकल्पकशंखपद्मनिधयश्च ।। २२१ ।।
रमणीयरुद्र-
पृ० २८ व पृ० २९ उपलब्ध नही है ।
पृ० ३०) * * * * * * * * * * * * * * * * * * *
* * * * * * * * * * * * कैलासशैलोत्तमः ।
एषोऽन्तःप्रलयेषु सत्यमहिमा संवर्धतेंऽडोपरिद्राक्
पश्यन्ति न पापलेशसहिता रक्षःप्रकृत्याश्रिताः ।। २३५ ।।
महाकैलासशैलेऽस्मिन् सच्चिदानंदनिर्भरे ।
सर्वानुग्राहको देवः सर्वव्यापी सदाशिवः ।। २३६ ।।
महेश्वरादिब्रह्मान्तसृष्टिस्थित्यंतकारकः ।
उपासकानुग्रहार्थं चिच्छक्त्या क्रीडति प्रभुः ।। २३७ ।।
स एष रुद्रं सर्वेषां सृष्टिस्थित्यंतलक्षणे ।
आधिपत्येऽभिषच्यैनं कैलासेऽस्थापयत्प्रभुः ।। २३८ ।।
सोऽपि मेरोरुदक्शृंगे ब्रह्माच्युतपुरोपरि ।
राजताद्रिरिति ख्यातो रुद्रावासः सतां गतिः ।। २३९ ।।
सदाशिवाज्ञया सोऽपि सत्यज्ञानघनात्मकः ।
महाकैलासवत् पुण्यः पुण्यात्मभिरुपास्यते ।। २४० ।।
तावन्मानोच्छ्रयायामस्तावच्छृंगसमन्वितः ।
सदाशिवस्य ये पुत्रा ये भक्ता ये महाजनाः ।। २४१ ।।
ते सर्वे रुद्रदेवस्य स्वांशैरेव तथाविधाः ।
तद्वत्प्रभुत्वं रुद्रस्य तत्प्रसादादभूद्द्विजाः ।। २४२ ।।
पृ० ३१) पंचवक्त्रधरो रुद्रः सद्योजातादिनामभिः ।
दशबाहुः शिवाख्याभिः सर्वाभिः समलंकृतः ।। २४३ ।।
तच्छक्त्याधिष्ठितः शश्वत्तच्चिह्नैरपि चिह्नितः ।।
मायामयोऽयं सकलो निष्कलः केवलः पुमान् ।। २४४ ।।
ब्रह्मविष्ण्वोरधिष्ठाता जगतः कारणं परं ।
गुणत्रयमयी माया शक्तिर्यस्य प्रशस्यते ।। २४५ ।।
वास्तवेन चिदात्मैषा गौरी गिरिवरात्मजा ।
रुद्रस्य भार्या कल्याणी शिवोमा पार्वती द्विजाः ।। २४६ ।।
तया क्रीडन्महेशोऽयं महेशस्य कृपाबलात् ।
विष्णुब्रह्मादिभिः सेव्यः श्रीकंठाख्यो जगत्पतिः ।। २४७ ।।
अध्यास्ते कार्यकैलासं जंबूद्वीपस्थमात्मना ।। २४८ ।।
इति किल कथितं वः सर्वशास्त्रार्थसारं प्रभुचरितमिदानीं
सृष्टिपूर्वं मुनींद्राः ।
पठति परमभक्त्या यः शृणोति त्रिलोक्यां स गुरुकरुणयैव
प्राप्नुयादीप्सितार्थान् ।। २४९ ।।
पृ० ३२) इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां
नैमिषारण्यवर्णनसूतागमनृषिकृतप्रश्नसूतकृतगुरुध्यानतदीयमहि
मानुवर्णनपरमात्मस्वरूपनिरूपणपंचकारणसृष्टिक्रमोपन्यासमहाक
इलासवर्णनप्रारंभगतिर्नाम प्रथमोऽध्यायः ।।
पृ० ३३) श्रीकैलासवर्णनम् ।
अथ द्वितीयोऽध्यायः ।।
ऋषय ऊचुः ।
कथितं भवता सर्वं माहात्म्यं परमेशितुः ।
महाकैलासशैलस्य प्रभुलीलां वदाऽधुना ।। १ ।।
सूत उवाच ।
श्रीसिद्धवीरगुरुपादसरोजभक्त्या निर्धूतसंसृतिभयाः
परमानुभावाः ।
शृण्वन्तु सर्वमुनयः श्रुतिसौख्यशीलां भक्ताः पदार्थविमलां
प्रभुलिंगलीलां ।। २ ।।
तया सरस्वतीशक्त्या सह शंभोरनुज्ञया ।
ब्रह्मांडसृष्टिमकरोद्ब्रह्मा लोकपितामहः ।। ३ ।।
क्षित्यादिसत्यलोकान्तं पातालाद्यतलान्तकम् ।
प्रासादन्यायतो लोकान्ससर्ज स पितामहः ।। ४ ।।
भूतसृष्टिक्रमेणैव पंचीकरणपूर्वकम् ।
सृष्ट्वा ब्रह्मांडपिंडांडे संस्थाप्य गिरिशाज्ञया ।। ५ ।।
प्रकृतौ विलयं याता ये जीवास्त्रिविधाः स्मृताः ।
गरुडाः किन्नरा यक्षा गंधर्वा मुनयः सुराः ।। ६ ।।
मनुष्या उरगा दैत्याः सोमसूर्याग्नयस्तथा ।
स्त्रीपुंनपुंसकाख्या ये जीवसंघास्तथा परे ।। ७ ।।
तेषां भोक्तृपदार्थानां भोग्यानि विविधानि च ।
भोगायतनसंघांश्च सृष्ट्वा तत्र चतुर्मुखः ।। ८ ।।
नामरूपाध्वभेदेन षट्प्रकारमिदं जगत् ।
पृ० ३४) यत्ससर्ज तदाधारो महामेरुरभूद्द्विजाः ।। ९ ।।
तदूर्ध्वशिखरे यस्तु कैलासाख्यो महागिरिः ।
महिमा वर्ण्यते केन तस्याद्भुतनिधेर्महान् ।। १० ।।
सर्वस्य सृष्टिकार्यस्य कर्तैको यः सदाशिवः ।
स एव रुद्रो भगवान्भूत्वाऽध्यास्ते गिरिं यतः ।। ११ ।।
मादृशाश्चर्मचक्षुष्काः शक्नुयुर्वर्णितुं कथम् ।। १२ ।।
शुद्धसत्वगुणः सोऽयं रजताकारतां गतः ।
देदीप्यमानः प्रभया नयनानन्दकारकः ।। १३ ।।
मूर्तः कैलासशैलोऽभूदमूर्तोऽपि शिवाज्ञया ।
तत्र भोगपुरं रम्यमानंदरसनिर्मितम् ।। १४ ।।
वेदैरलभ्यमौन्नत्यं प्राकारस्यास्य भूसुराः ।
शास्त्रैरनवगाह्यं तत्खेयगांभीर्यमीर्यते ।। १५ ।।
आगमैरनभिष्वंग्या महाट्टालसमुन्नतिः ।
अहर्निशमभेदेन प्रकाशोऽस्याप्यलौकिकः ।। १६ ।।
शुद्धभक्तिर्महाराजवीथी तस्यां विराजते ।
सोऽहंतैवमणिप्रोतदिव्यतोरणबंधनम् ।। १७ ।।
सादाख्यसूक्ष्मतत्वानि रम्यहर्म्याणि तत्पुरे ।
पृ० ३५) श्रीरुद्रसभावर्णनम् ।
ज्ञानवैराग्यसंपत्तिसांद्राणि सदनानि च ।। १८ ।।
गणनातीतमहिमा कैलासोऽयं हरालयः ।
निजानंदमयं तत्र महेशस्यास्ति मंदिरम् ।। १९ ।।
तन्मध्ये वृत्तिनिर्मुक्तचित्ताख्यद्वारशोभितम् ।
नादबिंदुकलातीतं भाति चास्थानमंडपम् ।। २० ।।
अष्टैश्वर्यकलाजुष्टरत्नकुट्टिमघट्टितं ।
अतिरोहितसुच्छायमस्ति तत्रोन्नतं सवः ।। २१ ।।
तत्राष्टमातृविलसत्प्रणवाग्रवेद्यां सुज्ञानयोगसमलंकृतदिव्यपीठे
।
भद्रासनैकरसिकः परमः सदाश्ते रुद्रो निजानुभवयोगसमाधिलीलः ।।
२२ ।।
नित्यसत्यनिरुपाधिनिरंशः शुद्धबुद्धपरिपूर्णचिदात्मा ।
निर्मलो निरुपमो निरवद्यो निर्गुणो निगमगोचर एकः ।। २३ ।।
तद्द्वारदेशमधितिष्ठति धर्मलक्ष्मीस्तद्वाजिगेहमधितिष्ठति
वेदलक्ष्मीः ।
तन्मूर्तिभावमधितिष्ठति शान्तिलक्ष्मीस्तन्मूलकोशमधितिष्ठति
मोक्षलक्ष्मीः ।। २४ ।।
प्राणापानौ तस्य बाहू निरीहौ तस्यांघ्री द्वावाद्यनादी प्रसिद्धौ ।
मूर्तिस्तस्य श्रीमदोंकारनादप्रादुर्भूतानंकशुभ्रांशुरेखा ।। २५ ।।
पृ० ३६) रुद्रस्य तस्य त्रिगुणांकवामा वामांकपीठीमधिरुह्य माया ।
वशीकृता तेन तथाऽपि साऽभूज्जगत्सिसृक्षोरभिमानहेतुः ।। २६ ।।
या संकल्पविकल्पपादयुगला लीलावती स्नेहमोहो-
द्यद्बाहुलता मदोद्धतकटिः स्यात्कामलोभस्तनी ।।
ज्ञानाज्ञानविलोचना च ममतावक्त्रा सतां मोहिनी-
मंगीकृत्य विराजते त्रिभुवनीसृष्टिस्थितिध्वंसकृत् ।। २७ ।।
समस्तसौंदर्यनिधेरमुष्याः कनद्विभूषामणिकांतयस्ताः ।
तदुल्लसद्भोगिफणामणिश्रीव्रजैर्मिलंति स्म समं समंतात् ।। २८ ।।
महेश्वरापांगविलोकनानि नितंबिनीलज्जितदृग्विलासाः ।
परैरदृश्येन पथा मिलित्वा व्रजन्ति तादात्म्यमहो मुनींद्राः ।। २९ ।।
पुरारिचारुस्मितदत्तलज्जा स्मितैः पुरंध्री स्मरमुद्गिरन्ती ।
तनोति तेनाशु मनोविकारं विकारशून्यस्य च तस्य चित्रम् ।। ३० ।।
कलंकशून्यस्य सुधाकरस्य कर्पूरसंवासितचंद्रिकेव ।
सुवर्णरेखेव सुगंधिसार्दा मूर्तिद्वयी तत्र विराजते सा ।। ३१ ।।
पृ० ३७) किंचापादतलावलंबितजटामूलालवालोल्लस-
द्गंगातुरंगतरंगसंगतमहापीठाख्यकंदांचितः ।
रत्नस्यूतविभूषणावलिदलोदन्तप्रसूनस्तया
वल्ल्येवाखिलमूलकारणवटः शंभुः स्वयं राजते ।। ३२ ।।
कैलासे कमनीयकंकणझणत्कारोल्लसच्चामरै-
रन्यैर्बीजनसाधनैरपि पतद्ग्राहैः कराभ्यां धृतैः ।
तांबूलाढ्यदुकूलयंत्रनिचयैर्भृंगारुभिश्चारुभिः
सेवंते शिवकन्यकाः पशुपतिं देवं मृडानीधवं ।। ३३ ।।
अन्याश्च रुद्रकन्याः शिवयोः समयोक्तसेवया धन्याः ।
सौंदर्यदर्शनोचितदर्पणघटनैश्च तालवृंतैस्तैः ।। ३४ ।।
नवरत्नभद्रपीठे स्थितयोः शिवयोश्च पार्श्वयोरुभयोः ।
रुद्राश्च रुद्रकन्या गणनातीता भजन्ति सर्वत्र ।। ३५ ।।
सा शक्तिरात्मदयितं त्रिभिरात्मगुणैश्च सेवितुं सततं ।
जनयांबभूव तनयान्विनयावनतानसंख्यातान् ।। ३६ ।।
तेष्वेषु त्रिविधेषु मातुरधिकप्रीत्या महत्वं गता
रुद्राः शुभ्रतनूभृतो हरिजटालालाटनेत्रान्विताः ।
पृ० ३८) अर्धांगाकलितांगना धृतवियद्गंगाः कलामौलयो
रौद्रोद्रिक्तरसा भजंत्यगणिताः सांबं सभामंटपे ।। ३७ ।।
किंचोरःस्थितकौस्तुभाः शिवपदध्यानावधानोत्सुका
लक्ष्मीशाः कुसुमासनास्त्रजनकाः पद्मायताक्षाः परे ।
सेवंतेऽच्युतकोटयोऽनवरतं सत्वोत्तमाः पुत्रकाः
सांबं सद्गुरुमादिमादिमगिरां तद्वामभागस्थिताः ।। ३८ ।।
वेदानां सदनानि चारुवदनान्युद्यन्ति मंदस्मितै-
र्बिभ्राणाः कनकोपमानतनवो वक्त्रेषु वामाभृतः ।
श्रित्वा दक्षिणभागमंबुजभुवः कुर्वंति सेवां विभो-
रीशस्यागणिता रजोगुणयुताः पुत्रास्तृतीयाः परे ।। ३९ ।।
तत्पश्चिमे गरुडकिन्नरयक्षसिद्धगंधर्वसाध्यविबुधैः
सुरनाथसंघाः ।
स्थित्वा भजन्ति परितः परिपूर्णभावाः श्रीरुद्रमाद्यमधिपं
जगतामसंख्याः ।। ४० ।।
पुरतः परितः पुटपाकपरिस्फुरदिंदुरमंदहरस्मितरुक् ।
भववाहनभावमगाधिवसन् वृषभः शुशुभेऽभिमुखं शिवयोः ।। ४१ ।।
पृ० ३९) तत्र दक्षशिरोगंडशैलायितभुजाबलः ।
भद्रकालीपतिर्वीरभद्रो रुद्रं निषेवते ।। ४२ ।।
शिवानंदस्योपमानं शंकराभ्युदयाश्रयः ।
गिरिजेशसुखः स्थित्या आलवालो मृडस्य च ।। ४३ ।।
लावण्यपूर्णवदनमुकुरः परमेशितुः ।
सत्प्रभावनिधिः साक्षात्सभिकानभिनंदयन् ।। ४४ ।।
भृंगीशोऽप्यंगजारातेर्हृदये मुदमर्पयन् ।
प्रागुदग्दिशि देवस्य तनुते नाट्यचातुरीम् ।। ४५ ।।
यां दिशं पश्यति शिवस्तत्रत्या नमिताननाः ।
यानाह किंचित्ते सर्वे वदंत्योमोममोमिति ।। ४६ ।।
स्वामिन्महाप्रसादोऽयं प्रसादोऽयमनुग्रहः ।
इत्युक्त्वा तानि तान्याशु कार्याणि घटयन्ति च ।। ४७ ।।
महादेवो यथा वक्ति वहन्ति शिरसा तथा ।
गोपतिश्रीपतिब्राह्मीपतिगीष्पतयोऽनिशम् ।। ४८ ।।
समुद्रान्सप्त चाचान्तुं न्यंचितुं कांचनाचलं ।
ब्रह्मांडभांडकुहरं करेणैव विलोडितुम् ।। ४९ ।।
यमदंष्ट्राः समुद्धर्तुं समर्था ये महाबलाः ।
पिशाचभूतवेतालास्ते कृतांजलयोऽनिशम् ।। ५० ।।
पृ० ४०) शिवाज्ञां शिरसा धृत्वा सेवमाना वसन्ति हि ।
दुर्गाविनायकौ सप्त मातृकाः कालभैरवः ।। ५१ ।।
परिवृत्य तथाहेलिप्रमुखास्तमुपासते ।
स्थिरभक्तिसमायुक्ताः समेत्योभयपार्श्वयोः ।। ५२ ।।
आदित्या वसवो रुद्रा विश्वेदेवास्तथाऽश्विनौ ।
गौतमात्रिभरद्वाजकण्वगालवकौशिकाः ।। ५३ ।।
मार्कंडेयवसिष्ठाद्यास्तत्र तत्र शिवाज्ञया ।
तद्दर्शनोत्सुका आसन्नानतांगाः समंततः ।। ५४ ।।
गौरीभूषणकान्तयः शिवफणाभृत्कुंडलादित्विष-
स्तन्मंदस्मितचंद्रिकारदरुचो भृंगीश्वरस्योज्ज्वलाः ।
रंभाद्यप्सरसां रसार्द्रमनसां हारच्छटाच्छप्रभाः
शक्रादिद्युसदां किरीटरुचयो दीव्यद्दिवादीपभाः ।। ५५ ।।
किंचोद्यत्करदीपिका शतशतच्छायाः समस्ता अमूः
केशाकेशिकथां मिथो विदधति प्रायः सभायां विभोः ।
यस्यां साभ्यधिकप्रभासमुदये संलीनसामाजिका
राजद्राजतशैलराजशिखरे ज्योतिर्मयी राजते ।। ५६ ।।
तदा गौरीमंदस्मितवदनसौंदर्यलहरी
विहारित्रैगुण्यस्फुटकलितनेत्रांबुजयुगा ।
स्वयं माया सर्वेश्वरमपि वशीकृत्य महिता प्रणम्याह प्रेम्णा
हरमभयदं स्वप्रियतमम् ।। ५७ ।।
पृ० ४१) श्रीगौरीशंकरसंवादः ।
गौर्युवाच ।
देव सभायां भवतो भावजसंहारसेवमानास्त्वां ।
येऽवस्थितास्त एते किं सर्वे चिन्मयास्त्वदात्मानः ।। ५८ ।।
किंवा जन्मविनाशौ भूयो भूयो महेश गच्छन्ति ।
उपदिश ममेति कृपया स तया पृष्टः पुनः स्मयन्प्राह ।। ५९ ।।
शिव उवाच ।
शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यमिदं वचः ।।
यच्छ्रुत्वा मुच्यते जन्तुर्जन्मसंसारबंधनात् ।। ६० ।।
मयि भक्तिर्द्विधा नृर्णां मुख्यगौणविभेदतः ।
निष्कामभक्तिर्मुख्या तु गौणी स्यात्कामसंयुता ।। ६१ ।।
नामरूपक्रियास्त्यक्त्वा ये भक्ताः कामवर्जिताः ।
मामाश्रयन्ति सततं मामेव प्राप्नुवन्ति ते ।। ६२ ।।
मंदप्रज्ञास्तु ये भक्ता अयुक्ताः फलकांक्षिणः ।
उपर्यधश्च ते देवि यातायातं प्रयान्ति हि ।। ६३ ।।
इत्युक्त्वा विररामाशु भगवांश्चंद्रशेखरः ।
पृ० ४२) देवी निशम्य मुदिता पुनश्चिंतां चकार सा ।। ६४ ।।
मदात्मकमिदं सर्वं जगत्स्थावरजंगमं ।
जाग्रत्यां मयि सर्वत्र ममाज्ञां कोऽनुलंघयेत् ।। ६५ ।।
निष्कामो मोक्षमाप्नोतीत्यक्तं यच्छंभुना वचः ।
तत्खपुष्पसमं कामो मत्पुत्रोऽसौ यतोऽधिकः ।। ६६ ।।
शिवोऽपि कामवशगो यतोऽर्धांगं हराम्यहम् ।
अहमेव परा शक्तिः सर्वस्याप्यादिकारणम् ।। ६७ ।।
सच्चिदानंदरूपस्य शिवस्य परमात्मनः ।
अनादी नामरूपे द्वे संपाद्याहं जयाम्यहो ।। ६८ ।।
सदाशिवादिब्रह्मान्तास्सेंद्राश्चामरपुंगवाः ।
मन्मायावशगाः सत्यं सर्वे विग्रहधारिणः ।। ६९ ।।
योषिन्मुखासवासक्तास्तन्मूर्तिध्यानतत्पराः ।
तदंगालिंगनासक्ता जीवंत्येव न संशयः ।। ७० ।।
स्त्रीपुंमयमिदं सर्वं मद्रूपं सचराचरम् ।
ममाभिमानः स्त्रीरूपे तत्राप्यतिशयेन यत् ।। ७१ ।।
अतोऽहमेव सर्वस्मादधिका सर्वतोमुखी ।
इत्यहंकारदुर्वारा सा माया प्रोद्धताऽभवत् ।। ७२ ।।
पृ० ४३) अल्लमशब्दनिर्वचनम् ।
अथ तस्या मतिं ज्ञात्वा सस्मारेशोऽल्लमप्रभुम् ।
सर्वव्यापिनमीशानं योगेशं सत्यचिद्घनम् ।। ७३ ।।
ऋषय ऊचुः ।
सूत सर्वार्थतत्वज्ञ शिवभक्तिसुधांबुधे ।
अल्लमप्रभुरित्युक्तः कोऽयं रुद्रेण संस्मृतः ।। ७४ ।।
प्रभुरल्लम इत्येष वाचकोऽयं महामुने ।
रूढ्या योगेन वोभाभ्यां व्युत्पत्तिस्तस्य कीदृशी ।। ७५ ।।
अव्युत्पन्नोऽथवा शब्दः श्रौतो वा लौकिकोऽथवा ।
श्रोतुमिच्छामहे सर्वे वयं कथय सुव्रत ।। ७६ ।।
सूत उवाच ।
शृणुध्वमृषयः सर्वे सावधानेन चेतसा ।
प्रभावल्लमशब्दस्य प्रवृत्तिं शास्त्रसंमताम् ।। ७७ ।।
अकारः सर्ववर्णानामादिभूतः सनातनः ।
समस्तमंत्रबीजस्य प्रणवस्यादिमोऽप्ययम् ।। ७८ ।।
अमृतत्वादमूर्तत्वादभयत्वादजत्वतः ।
अकारः प्रोच्यते ह्यात्मा श्रुतियुक्त्यनुभूतिभिः ।। ७९ ।।
यच्छब्दसंस्कृता बुद्धिर्भवेद्यच्छब्दरूपिणी ।। ८० ।।
तदादिवर्णश्रवणात्तच्छब्दार्थं स्मरेद्ध्रुवम् ।
अतोऽकारश्रुतेर्बुद्धिरजाद्यात्मकमीश्वरम् ।। ८१ ।।
पृ० ४४) अव्यक्तं भावयेदर्थमनाद्यंतं परं शिवम् ।
अकारः सर्ववाक्सैषा व्यक्ता स्पर्शोष्मभिः परा ।। ८२ ।।
नानारूपा बहुतरा भवतीति श्रुतिर्जगौ ।
अक्षराणामकारोऽसौ शिव इत्याह च स्मृतिः ।। ८३ ।।
अनुत्तरस्तथाम्नायो विश्राम्यति पराक्षरे ।
प्रणवप्रकृतिः सोऽयमकारो गीयते बुधैः ।। ८४ ।।
सर्वाऽपि मातृका तद्वदकारे जायते पुनः ।
लीयते वर्तते तस्मादकारः सर्वकारणम् ।। ८५ ।।
नामरूपप्रपंचस्य ह्यधिष्ठानं चिदात्मकम् ।
तद्ब्रह्म लक्ष्यते तस्मादकारेण मुनीश्वराः ।। ८६ ।।
अभिधानं चाभिधेयमेकं हि परमार्थतः ।
संविन्मात्रं यतः सत्तालक्षणं ब्रह्म शाश्वतम् ।। ८७ ।।
तस्माच्छब्दार्थयोरैक्यं लाघवात्पंडितोत्तमाः ।
एवं सति हि शब्दानामर्थाभिव्यंजका न च ।। ८८ ।।
अपूर्वा कल्प्यते शक्तिः प्रकाशत्वात्परात्मनः ।
एकैव सत्तासंबंधिभेदाद्भिन्ना गवादिषु ।। ८९ ।।
जातिः सैव हि शब्दार्थस्तस्यां शब्दा व्यवस्थिताः ।
एक एव हि शब्दोऽयमकाराख्यश्चिदात्मकः ।। ९० ।।
पृ० ४५) वाच्यभेदानुसारेण भिद्यते बहुधा स्वयम् ।
उपाधिविलये यद्वत्सुवर्णं कुंडलादिकम् ।। ९१ ।।
तथाखिलं शब्दजालमकारात्मकमास्तिकाः ।
तदेवैकाक्षरं ब्रह्म वेदान्तेषु विनिश्चितम् ।। ९२ ।।
श्रवणात्तस्य मननाद्ध्यानात्संदर्शनादपि ।
ये तदाकारतां प्राप्तास्त एतेंतः प्रकीर्तिताः ।। ९३ ।।
आचरंत्य इवेत्यर्थे क्विबाचारार्थ इष्यते ।
तुगागमे च तल्लोपे नुमि रूपं प्रचक्षते ।। ९४ ।।
ते च सिद्धा महाभागा वियन्मात्रशरीरिणः ।
तान् लातीत्यनुगृह्णाति या मा साऽस्यास्ति सोऽल्लमः ।। ९५ ।।
मीयते हि यया सा मा ज्ञानशक्तिः प्रशस्यते ।
सैव विद्या परानंदा मायानिर्मूलनक्षमा ।। ९६ ।।
विद्यायां रमते नित्यं मायां हेयां श्ववद्रहेत् ।
अनेनैव निरुक्तेन वीरमाहेश्वरः स्मृतः ।। ९७ ।।
प्रभुर्विश्वाधिको यस्मात्सोऽल्लमप्रभुरुच्यते ।
योगेन रूढ्या चोभाभ्यामल्लमोऽयं सनातनः ।। ९८ ।।
किंचाक्काल्लांबांबिकाद्या अंबार्थाः परिकीर्तिताः ।
पृ० ४६) सा माया रुद्रमहिषी सर्वस्याल्ला प्रकीर्त्यते ।। ९९ ।।
सभायां गर्वितां तां प्रत्युक्त्वा तत्राल्लमाल्लमा ।
इत्यल्लमाप्रभुरिति प्रोच्यते प्रमथोत्तमैः ।। १०० ।।
प्रोक्ता प्रभोर्दिव्यनाम्नः प्रवृत्तिर्मुनिपुंगवाः ।
व्युत्पत्तिश्चाधुना तस्य लीलां शृणुत सादरं ।। १०१ ।।
स्मृतोऽथ रुद्रदेवेन प्रभुर्विश्वाधिको गुरुः ।
सुज्ञानसिद्धैः सर्वज्ञैः प्रसिद्धैः सिद्धपुंगवैः ।। १०२ ।।
सेव्यमानो ललाटोद्यत्सितभस्मत्रिपुंड्रवान् ।
बहिःप्रसरदंतस्थतेजोराजिलसत्तनुः ।। १०३ ।।
आजानुबाहुः सुशिरा आनंदरसनिर्भरः ।
करांघ्रिनखरेखाभिर्ज्ञापयन्तीभिरुज्वलः ।। १०४ ।।
राजयोगैकसाम्राज्यसौभाग्यं सर्वसुंदरः ।
मायाकोलाहलमहामायामदविभंजनः ।। १०५ ।।
अविद्यातूलवातूलस्तमःसागरवाडवः ।
अज्ञानध्वांतचंडांशुः प्रधानोद्यद्गजांकुशः ।। १०६ ।।
अव्याकृतसमुन्मूलः प्रकृतिप्राणहारकः ।
अव्यक्तमूर्धपाषाणस्त्रिगुणारण्यपावकः ।। १०७ ।।
पृ० ४७) शिवसभायाःप्रभुसमागमनम् ।
इत्यादिबिरुदांकैः स्वैः संस्तुतो योगिपुंगवैः ।
मुनिभिर्मौलिघटितकृतांजलिपुटैःस्तुतः ।। १०८ ।।
सिद्धविद्याधरमरुद्यक्षगंधर्वकिन्नरैः ।
कृतपुष्पांजलिकरैस्तत्र तत्र नमस्कृतः ।। १०९ ।।
पल्यंकिकां समारुह्य माल्यैर्मंदारसंभवैः ।
अल्लमप्रभुदेवोऽसावाजगामांबराध्वना ।। ११० ।।
स द्रुतं प्रकृतिमुद्रितात्मनश्चिद्रसामृतपदैर्विनिद्रयन् ।
भद्रभद्र इव भासयन्दिशो रुद्रसन्निधिमवाप्तवान्प्रभुः ।। १११ ।।
प्रभुमागतं समधिगम्य शंकरः सभया सहैव निजसिंहपीठतः ।
अवरुह्य वागमृतधारया स्वयं बहुमानयन्स्वसभिकैरपूजयत् ।। ११२ ।।
इदमर्घ्यमर्घ्यमिदमंघ्रिसेचनं मधुपर्क एष इति शांभवोदितम् ।
वचनं निशम्य परिपालयन्दृशा शिवमाससाद तरसा कृपानिधिः ।। ११३
।।
मदनांतकोऽपि हृदये तमर्चयन् गुरुमात्मनोऽपि परमात्मभावितम् ।
निजपीठिकार्ध उपविश्य सादरं स्वयमप्यधास वदनेन भावितः ।। ११४
।।
पृ० ४८) अथ तन्महत्वपिहितात्मशांबरीं निजभामिनीमविगणयय
शंकरः ।
परिपूर्णतत्वपरमार्थतत्कथाकथनैर्निनाय घटिकार्धमात्रकम् ।। ११५
।।
विहितेष्टगोष्ठिरथ तेन शंभुना प्रभुरन्यगोचरतनुः स्वयंप्रभः ।
निरवद्यनिर्मलनिरंजनाद्वयो निरगात्क्षणेन निजयेच्छयैव सः ।। ११६ ।।
महतां निरंजनपदानुषंगिनां महिमा तथैव खलु मौनिसत्तमाः ।
भुवनावनाय पुरमाश्रयन्ति ते स्वयमंबरांगणनिरंगसंगिनः ।। ११७
।।
अथ तं महात्मभिरमात्रमात्रकैर्वरयोगिभिः सह तिरोहितं प्रभुम् ।।
अवधार्य गौर्यहह कोऽयमित्यसौ हृदि शंकयैव पतिमाह सस्मिता ।। ११८ ।।
हर देवदेव वरचिन्महोदधे गुरुरेक एव भगवान्भवान् स्मृतः ।
परिपूर्णसत्यसुखचिद्घनो महान् महतोऽप्यणोरणुतरोऽसि सर्वगः ।। ११९ ।।
मम सर्वतत्वकलिताकृतेः पतिस्त्वमखंडचिद्रसघनो विभावितः ।
इतरांस्तु वामचरणांबुजादधः पतितान्करोमि विबुधान्मुनीनपि ।। १२० ।।
अतिचित्रमेतदवगत्य कोऽप्ययं कृतपूजनो मुनिसुरासुरादिभिः ।
पृ० ४९) श्रीगौरीशंकरसंवादः ।
बिरुदांकनैरविगणयय मां स्तुतः पतिदिव्यपीठमधिरुह्य निर्भयः ।।
१२१ ।।
भवता किमर्थकलंकवर्त्मना परिपूजितो मधुरवाग्भिरादृतः ।
भयभक्तिभागसि तदा तदर्चने वद मे महेश मदमस्य वारये ।। १२२ ।।
वसति क्व वैष जटिलोऽकुतोभयः क्व च वा गमिष्यति पुनः क्व वर्तते ।
तव तेन किं किमिदमस्य सेवनं कथमिष्टतेह तव भो विभो वद ।। १२३ ।।
इति पृष्ट एष निजभार्ययार्यया स्मयमानवक्त्रसरसीरुहः शिवः ।
निजदन्तकान्तिपरिपूर्णदिक्तटो दयितामुवाच स चमत्क्रियं वचः ।। १२४ ।।
अयि बालिके शृणु मुनिः पुरा पुराविदबोधदूरनिरहंक्रियाभयः ।
निजबोधसंपदभिधात्मभार्यया सुचिरं चचार परमाद्भुतं तपः ।।
१२५ ।।
परमात्मरूपसुतकांक्षया मयि स्थिरभक्तिभाजि सुचिरं तपस्यति ।
निरुपाधिकोज्ज्वलतनुर्ममाव्ययो तनयो बभूव दयितेऽल्लमस्तयोः ।। १२६ ।।
महिमानमस्य न हि वेद्मि बालिके मुकुरं विनैव मुखमस्य सत्कृपाम् ।
पृ० ५०) अहमप्यनार्यगुणभावितः स्वयं निजकंठरत्नमिव विस्मृतिं
गतः ।। १२७ ।।
स गुरुः समस्तजगतामगोचरो निगमागमार्थनिरवद्यविग्रहः ।
मम चात्मबोधजनकोऽल्लमप्रभुः किमुतात्मनामसदृशप्रबोधवान् ।। १२८ ।।
इति शंकरे वदति सातिगर्विता पुनराह देवमहहा किमात्थ भोः ।
मम जागरे सति कुतोऽल्लमप्रभुस्त्वनुबोधशब्दजननं जगत्त्रये ।। १२९ ।।
तमहं न वेद्मि किमु सर्वतः स्थिता मम मायया जगदिदं सदावृतम् ।
मदनुग्रहो यदि जनेऽप्यकिंचने स तु वेत्ति निर्मलनिजात्मनिश्चयम् ।। १३० ।।
अथवाखिलोऽपि भवतः प्रसादतो मदधीश्वरस्य निजतत्वविद्भवेत् ।
किमिदं ममेश पुरतोऽद्य वंचनं क्व नु वाल्लमः क्व नु चिदात्मवेदनं ।।
१३१ ।।
अमतं मतं ह्यविदितं विदितं श्रुतिवाक्यमेतदहहा बिरुदैः ।
कथमात्ववेदनमुदेति यशः किमिहाल्लमस्य कथयस्यधिकं ।। १३२ ।।
पृ० ५१) यदि सर्व एव परतत्वविदः प्रभवंति हंत भुवनेषु तदा ।
परितः करीषकृतराशितलेष्वहहा पतेयुरिह वेदशिखाः ।। १३३ ।।
इति पर्वतेंद्रतनयावचनं गिरिशो निशम्य दरहासमुखः ।
प्रभुमूर्तिकीर्तिमभितः प्रभया भुवि भानयन्निदमभाषत तां ।। १३४
।।
ऋतमेव वच्मि सति मययधुना तव निष्ठुरोक्तिरथ तावदलं ।
यदि सम्यगेव न विचार्य वदेस्तव सन्निधौ न निवसत्ययमाः ।। १३५ ।।
अपि नो बिभेति स मृषालपितान्न वृथारटद्भिरपि संवदति ।
दृढबोधनैष्ठिकतयात्मपरो न हि माययैष परिभूयत आः ।। १३६ ।।
भुवि मध्यमोत्तमकनिष्ठजनैर्हृदयेषु तद्वदयमाद्रियते ।
सरसीषु यावदुदकं कमलं परिदृश्यते हि परिमाणविदाम् ।। १३७ ।।
परिपूर्णभावमनुभूय चिता कवलीकृताखिलजगद्विभवैः ।
अखिलात्मतामनुगतैः शरणैः क्रियते न कुत्र गमनागमनम् ।। १३८ ।।
पृ० ५२) शरणोत्तमस्य हृदयान्तरिदं सकलं विभाति पुरवन् मुकुरे ।
स तु नैंद्रजालिकमिदं कलयत्यृतमित्यवाप्तपरमार्थपदः ।। १३९ ।।
शरणः समस्तजगतां शरणं शरणार्थिना हि शरणो वरणः ।
शरणो ममापि मुकुटाभरणं शरणं विनाऽस्ति न हि मे शरणम् ।। १४०
।।
न हि नामरूपकृतभेदकथा गिरिजेऽल्लमस्य परमार्थविदः ।
गगनायमानतनुरेष महान्प्रभुरव्ययः सकलवेदमयः ।। १४१ ।।
इति शंकरे वदति सा गिरिजा विदिताल्लमप्रभुमहामहिमा ।
हृदयं तथाऽपि परिशीलयितुं स्मितपूर्वमाह विनयेन पतिं ।। १४२ ।।
जगदीश तावकवचो न मृषा हृदयं तथाऽपि न हि निश्चिनुते ।
मम मायया न चलितो यदि स प्रभुरित्यवैमि परमार्थमिदम् ।। १४३ ।।
तरुणीजनेषु तरलेषु धनेष्वभिलाषदूषितमना हि पशुः ।
यदि तेषु तेषु च विरागघनः स तु संमतः पशुपतिः सुतराम् ।। १४४ ।।
पृ० ५३) त्रिगुणा वसन्ति मम योगिमनस्तव चालनाय तव नो विदिताः ।
यदि तद्विलासवशगं हृदयं भवेत्तमेव गुरुमाकलये ।। १४५ ।।
वचनं निशम्य युवतेर्गिरिशो दरहासचंद्रकलया कलितः ।
पुनराह भामिनि न वेत्ति भवत्यहहाल्लमस्य महिमातिशयम् ।। १४६ ।।
सदसि प्रगल्भवचनानि बहून्यवमत्य बोधरहिता त्वमिह ।
किमु वक्षि साक्षिणि परात्मनि ते दुरहंक्रियाल्लमविभौ न भवेत् ।। १४७ ।।
त्यज दुष्प्रतिज्ञमुदितं यदि ते विजिगीषया स्य हृदयं वलते ।
परिभूतिमेष्यसि विरागकशादलिता लतेव करितुंडहता ।। १४८ ।।
महिषी निशम्य गिरिशस्य वचो मुहुराह देव निटिलाक्ष विभो ।
अलमेतदद्य शपथं कलये कलया तमेककलया विजये ।। १४९ ।।
अथ शांबरीं निजतमोविलसत्तनुमाकलयय पुरतोवनतां ।
पृ० ५४) असमानकांतिविजिताप्सरसं सरसं विलोक्य वचनं जगृहे ।। १५०
।।
ललितांगि देवसदसि त्वरया कथितं मया सशपथं गदितं ।
विदितं त्वयानुभवती महती मुनिमानसानि मथितुं प्रथिता ।। १५१ ।।
ममतावदत्र महिमोद्धरणे निपुणा त्वमेव नितरां जयसि ।
त्वयि दत्तकार्यभरया हि मया सुखमास्यते पुरहरांकतले ।। १५२ ।।
तव हावभावसविलासकलाकलगीतनृत्तसुचमत्कारणैः ।
कुसुमास्त्रसायकशरव्यतया वशयाल्लमप्रभुममोघगते ।। १५३ ।।
इति लालिता मृदुमधूक्तिसुधारसनिर्भरेण मनसांबिकया ।
अथ शांबरी कृतललाटतटांजलिरंजसाह बहुसाहसिका ।। १५४ ।।
जगदंब देवि तव दासिकया न मयास्त्यसाध्यमवनौ किमपि ।
परमात्मनोऽपि भवकल्पिकया कृपया तवाप्यघटनं घटये ।। १५५ ।।
विधिविष्णुरुद्रविबुधेंद्रमुखान्मदनालयैकशरणान् सततम् ।
पृ० ५५) मायाविजृंभणं तामसशांबरीभूलोकसमागमनं च ।
मम संविधाय महनीयधृतैः कियदल्लमस्य हृदयोद्दलनम् ।। १५६ ।।
परिचारिकां प्रति मृदुप्रियवाक्परिपाटिका किमयि तेऽभिनवा ।
भवदाज्ञयैव कृतकृत्यतमाऽस्म्यहमंब मामनुग्रहाण ततः ।। १५७ ।।
भुवि सागरेषु दिवि मेरुगुहास्वथया रसातलबिलेषु सताम् ।
हृदि वाल्लमोऽस्ति यदि तं सहसा वशमानयेंऽव तव सत्कृपया ।। १५८ ।।
यदि यत्र कुत्र विलयं कलयेदणिमादिसिद्धिमहिमातिशयात् ।
तदहं स्वरूपमनुभूय झडित्यवकृष्य चाल्लममथो वशये ।। १५९ ।।
इति माययोक्तमवधार्य वचो गिरिजानुगृह्य गमनाय भुवम् ।
क्रमुकच्छटानुगतनागलतादलपट्टिकामपि ददौ सदया ।। १६० ।।
तदनु गिरिसुताज्ञां तामसी सैव माया ।
निजशिरसि वहन्ती निश्चितात्मप्रतिज्ञा ।
रजतशिखरिश्रृंगाद्वर्त्मना खेचराणामवनितलमथागादल्लमं
जेतुकामा ।। १६१ ।।
इति निगमशिखोक्तामीप्सितार्थप्रदात्रीं प्रभुशुभगुणलीलां
श्रावयेद्यः शृणोति ।
पृ० ५६) स पुनरखिलभोगानैहिकानत्र भुक्त्वा शिवपदमथ लब्ध्वा
जन्ममृत्यु न याति ।। १६३ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
कैलासवर्णनश्रीरुद्रसभानुभावविभावनगौरीशंकरसंवादप्रयुक्ता
ल्लमशब्दनिर्वचनप्रभुसमागमनमायाविजृंभणतामसशांबरीभूलोकस्
अमागमनप्रतिपादनगतिर्नाम द्वितीयोऽध्यायः ।।
पृ० ५७) बि?व?इदेशवर्णनम् ।
श्रीनंदिकेश्वरायनमः ।।
अथ तृतीयोऽध्यायः ।।
सूत उवाच-
श्रीसिद्धेश्वरवीरदेशिकमहासम्राट्पदांभोरुह-
ध्यानानंदविधूतचित्तकलुषा ये सत्यशौचान्विताः ।
भक्ता निर्मलनित्यकृत्यनिरता मुक्तिद्रुमूलाश्रिता-
स्ते शृण्वन्तु सदाल्लमप्रभुमणेर्लीलां सुशीलादृताम् ।। १ ।।
हरेण यस्मिन् किल कार्मुकीकृते सुरोरगाः शान्तिमनूंस्तदा पठन् ।
विराजते संप्रति तस्य दक्षिणे गिरेः स कर्नाटकदेश आस्तिकाः ।। २ ।।
बि?व?इरिति तत्र प्राकृतैरुक्तनामजनपद इह भाति क्षोणिसीमंतसीमा
।
सकलजनसमूहैः सत्यभाषाभिरामैः शिवगुरुपदभक्तैः सेव्यते
धर्ममार्गैः ।। ३ ।।
आर्यैरनार्यदूरैर्निर्मलशीलैश्च निखिलभूपालैः ।
धर्मः पदैश्चतुर्भिर्दुर्मददूरेऽत्र वर्तते देशे ।। ४ ।।
पृ० ५८) तद्देशमध्ये शशिनः कलानां विभाति केलीसदनं विचित्रम् ।
महीपुरंध्रीवदनं पुरं तदालेख्यलेख्यं बनवस्यभिख्यम् ।। ५ ।।
तदीयसर्वार्थविशेषवर्णने समर्थ एकः सरसीरुहोद्भवः ।
महेशमायागुणचित्रनिर्मितौ रहस्यमेतन्नगरं मुनीश्वराः ।। ६ ।।
घनानि तत्रत्यवनानि भूरुहैः समंततोंऽकूरितपल्लवांकितैः ।।
सकुड्मलैः पुष्पशलाटुशोभितैः फलान्वितैर्नित्यवसन्तसेवितैः ।। ७ ।।
जंबीरजंबूफलपूरपूगैः खर्जूरमालूरकपित्थचूतैः ।
अशोकरंभापनसैश्च भोज्यैः पुन्नागचांपेयकनारिकेलैः ।। ८ ।।
पुनःपुनः कोकिलशारिकाशुकद्विरेफकेकिध्वनिराजकूजितैः ।
सदा स्फुटैः पाटलजाजिमल्लिकाकुरुंटकैः कोरकितैश्च केतकैः ।। ९
।।
स्यामन्तिकाभिः करवीरनन्द्यावर्तैः स्थलाब्जैर्गिरिमल्लिकाभिः ।
वासन्तिकाकांचनकेसराद्यैः सर्वेषु कालेषु च पुष्पसांद्रैः ।। १० ।।
सुगंधिपूर्णैर्युतपुष्पवाटीसहस्त्रसंख्यासमलंकृतं तत् ।
पुरं महामायिपुरारिभक्तैः सदामहाभोगपरैर्विभाति ।। ११ ।।
पृ० ५९) बनवसीनगरवर्णनम् ।
कस्तूरिकालिप्तवितर्दिकाभिर्वीथीषु वीथीषु विशालरम्यम् ।
मालासहस्रैर्मणितोरणानां सदोल्लसत्पल्लवतोरणश्च ।। १२ ।।
किंच गंधोदकक्लिन्नशीतलस्थलसंचराः ।
लसन्मलयजामोदमेदुराः पुष्पमंजरीः ।। १३ ।।
संताड्य तद्गतास्वादं स्वीकुर्वन्तः समंततः ।
फुल्लपद्माकरश्रेणीमार्गेणागत्य निर्गताः ।। १४ ।।
मंदं मंदं मधुस्फूर्त्या समागत्य वधूजनान् ।।
परिगृह्य तदीयानि हृदयानि विदार्य च ।। १५ ।।
चालयित्वोत्तरीयाणि कृत्वा परवशात्मनः ।।
तदीयप्रणयोत्पन्नकलहान्परिहाप्य च ।। १६ ।।
कलास्थानानि संस्पृश्य चोत्पाद्योत्कलिकां प्रियैः ।
पल्लवा इव तत्पुर्यां मलयानिलशावकाः ।। १७ ।।
महेशमायासर्वस्वाः संचरन्ति पदे पदे ।।
वेदशास्त्रागमाद्यासु विद्यास्वत्र द्विजोत्तमाः ।। १८ ।।
पृ० ६०) भवन्ति प्रज्ञयांभोजभवव्यासजिगीषवः ।।
अबाधयित्वा स्वजनान् परान्साधितुमुद्यताः ।। १९ ।।
विजयं प्राप्य तत्रत्या विस्फुरन्ति महीभुजः ।
नवैव संख्यया यस्य निधानानि स किंप्रभुः ।। २० ।।
असंख्यातधनैरेवमुद्धता व्यवहारिणः ।
भट्टास्तु विक्रमार्केऽपि प्रेषिता आक्रमन्ति तम् ।। २१ ।।
बलभद्रं हलभृतो ह्रिया धवलयन्ति ते ।।
वशीकुर्वन्ति मदनमपि तत्रांगनाः क्षणात् ।। २२ ।।
गजाश्वास्तत्र शक्रस्य ह्रिया पांडुरयन्ति तौ ।
दातारमपि याचन्ते तत्रत्या नार्थिनोऽधमम् ।। २३ ।।
दृष्ट्वार्थिनं न दातारस्तूष्णीं गच्छन्ति तद्गताः ।
पतिभक्तिविहीना स्त्री नाप्येका तत्र मार्गितुं ।। २४ ।।
सतीसंरक्षणादक्षो नास्ति जाल्मोऽपि तत्पुरे ।
तत्प्राकारस्य चौन्नत्यं तत्खेयस्य च निम्नताम ।। २५ ।।
पृ० ६१) मयकारराजवर्णनम् ।
विना न केऽपि जानन्ति नाकिनः कूर्मपन्नगान् ।।
सौधावलीसमुत्सेधं चर्चितुं तु न केचन ।। २६ ।।
सक्ता गृहाणां सौंदर्यं स्वर्गेऽपि न हि भूसुराः ।
मत्तेभबृंहितारावा मणिघंटाकलस्वनाः ।। २७ ।।
बंदिमागधवृंदानां वाग्विलासपरंपराः ।
गंधर्वहेषितारावा हृद्यवाद्योदितस्वराः ।। २८ ।।
कोलाहला प्रजानां च व्याप्नुवंति दिशो दश ।
रमणीये पुरे तस्मिन् ममकाराख्यभूपतिः ।। २९ ।।
मंडलाधीश्वरस्सोऽयं महाहंकारगर्वितः ।
धीरोद्धतपरीवारः कामतंत्रपरायणः ।। ३० ।।
वर्णितुं शक्यते तस्य सौभाग्यं कियदित्यहो ।
रतिराड्रूपसौन्दर्ये सुरराड्भोगसंपदि ।। ३१ ।।
ऐश्वर्ये राजराजोऽयं माने स्यात्कुरुराट् स्वयं ।।
त्यागेंऽगराजः कः स्तोतुं समर्थस्तं महीपतिम् ।। ३२ ।।
महामायाविलासानामुत्पत्तिस्थानमेव सः ।।
खड्गनिर्दलितारातिराजभिन्नार्कमंडलः ।। ३३ ।।
पृ० ६२) स्वमातुलसुतां चारुगात्रीमंबुजलोचनां ।।
त्रिजगन्मोहिनीं नाम्ना मोहिनीमप्युवाह सः ।। ३४ ।।
तौ दंपती मदोद्रिक्तौ सन्नद्धौ मदनाहवे ।
चिक्रीडतुश्चिरं कालं श्रृंगाररसपोषकौ ।। ३५ ।।
शचींद्राविव तौ नित्यं रमाशार्ऽऽन्गधराविव ।
रोहिणींदू इव रतिस्मराविव रराजतुः ।। ३६ ।।
मोहिनीममकारौ तावभिधानोचितक्रियौ ।।
मिथुनीभूय सुस्निग्धौ कामपाशेन संयुतौ ।। ३७ ।।
चित्तैकरस्यसंपन्नौ ममतालतिकावृतौ ।
दिनानि कामतंत्रेण यौवनस्थौ विनिन्यतुः ।। ३८ ।।
संतानलाभमप्राप्य चिंतापरवशावुभौ ।।
रहस्युपरतक्रीडौ विचारं चक्रतुस्तदा ।। ३९ ।।
किं राज्येन सुखेन किं रतिकथाचातुर्यशौर्येण किं
किं वा नूत्नविचित्ररत्नविलसद्भूषाविशेषैः शुभैः ।
किं मातंगरथांगतुंगतुरगैरांदोलिकाक्रीडनैः
स्वाद्वन्नैरतुलांबरैरपि तथा संतानहीनो यदि ।। ४० ।।
पृ० ६३) मोहिनीमयकारयोःपुत्रविषयकोपासनादिवर्णनम् ।
अपुत्रस्य गतिर्नास्तीत्याहुः शास्त्रविदो बुधाः ।
ब्रूते वेदोऽपि नापुत्रस्य लोकोऽस्तीति हि स्फुटम् ।। ४१ ।।
विचार्यैवं ज्योतिषिकान्पृच्छतःस्म मुहुर्मुहुः ।
शुश्रूषतस्तथा तद्ज्ञैः शाकुनानि वचांसि च ।। ४२ ।।
अर्कादिवासरेषूक्ततत्तज्जातिग्रहोपरि ।
उपश्रुतीः शुश्रुवतुर्विकीर्याप्यक्षतादिकम् ।। ४३ ।।
सामुद्रिकाणां हस्तेषु हस्तं दत्वा सुताप्तये ।
रेखास्ति वा नवा ब्रूतेत्यनुयोगं च चक्रतुः ।। ४४ ।।
विप्रश्निकायाः पुरतः स्थित्वा मुक्ताक्षतादिकम् ।।
दत्वा शूर्पेऽथ तद्दंडं गृहीत्वा पृच्छतां शुभम् ।। ४५ ।।
आर्योक्तेन प्रकारेण व्रतानि सकलान्यपि ।
उपायनप्रदानाद्यैराचरेतुरिमौ द्विजाः ।। ४६ ।।
बहुधार्थव्ययं कृत्वा दंपती पुत्रकाम्यया ।
पृ० ६४) मोहिनीममकारौ तौ मोहेन महतावृतौ ।। ४७ ।।
पिण्याकलशुनद्रव्यैर्मातंगीकृतनर्तनैः ।
पूजयामासतुर्मद्यमांसाद्यैः क्षुद्रदेवताः ।। ४८ ।।
न शिवं शिवपत्नीं तौ मूढात्मानौ जगत्पती ।
शुद्धसत्वकलापूर्णावुपासामासतुः किल ।। ४९ ।।
एवं दिनेषु गच्छत्सु मोहिनी केषुचित्स्वयं ।
तामसक्षुद्रशक्तीनां सेवया गर्भमादधे ।। ५० ।।
या तामसी महामाया संदिष्टा शिवभार्यया ।
सर्वज्ञयाऽपि देवस्य प्रभोस्तत्वं प्रकाशितुं ।। ५१ ।।
साशाद्य सद्यस्तद्गर्भमभ्रान्तभ्रान्तिभाविका ।।
प्रीतिं संपादयांचक्रे तयोरात्मानुरूपयोः ।। ५२ ।।
मायासौन्दर्यसर्वस्वमाकृष्य जनमोहिनी ।
मोहिन्याः पुत्रिका भूत्वा जज्ञे विज्ञाननाशिनी ।। ५३ ।।
तदा विविधवाद्यानां हृद्यध्वनिपरंपराः ।
शुभदंभोदगंभीराः पुरे तत्र जजृंभिरे ।। ५४ ।।
ममकारो द्विजातिभ्यः सर्वेभ्यो भूरिदक्षिणाः ।
प्रसारितकराग्रेभ्यो ददौ संभूय सस्पृहम् ।। ५५ ।।
पृ० ६५) मायोत्पत्त्या मुनीश्वरादीनां मनोविकारादिवर्णनम् ।
आशया क्षेत्रवित्ताश्वगजगोरथगोधनम् ।।
यद्यत्प्रार्थयते योयस्तस्मै तस्मै ददौ च तत् ।। ५६ ।।
गृहेषु मिथुनीभूय स्थितेभ्यो विषयेच्छया ।।
इष्टार्थानर्थिसंघेभ्यः प्रददौ मोहिनीपतिः ।। ५७ ।।
चित्रं समस्तजंतूनां मायोत्पत्तिमहोत्सवे ।
रेतांसि सुस्रुवुः सद्यः स्त्रीपुंसानां क्षणे क्षणे ।। ५८ ।।
निर्लज्जया पुमान्नारीं पुमांसं च तलोदरी ।।
आलिंग्यौष्ठं समास्वाद्य रहस्यस्थानमस्पृशत् ।। ५९ ।।
ये तु निर्वाणमार्गस्था ग्रामक्षेत्रगृहादिकम् ।
त्यक्त्वा घोराटवीः प्राप्य निराहारास्तपस्विनः ।। ६० ।।
गंगादितटिनीतीरेष्वद्रीणां गह्वरेषु च ।
सिद्धस्थलविशेषेषु तथा बिल्ववनेषु च ।। ६१ ।।
पंचाग्निमध्यभागेषु हिमान्यां जलमध्यमे ।
फलांबुपत्रैः क्षुद्बाधां वारयन्तस्तथान्वहम् ।। ६२ ।।
निरुद्धवृत्तयः स्वान्तर्ध्यायन्तः परमेश्वरम् ।
तपः कुर्वंति सततमपरित्याज्यनिष्ठया ।। ६३ ।।
पृ० ६६) तेषां शिवैकतानानि चित्तान्युत्थाय लक्ष्यतः ।
संप्राप्य वृत्तिसारूप्यं विषयौन्मुख्यमाप्नुवन् ।। ६४ ।।
वेपमानोत्तमांगानां वृद्धानां च तपस्विनां ।
निष्कलानां पलिक्नीनामप्यन्योन्यं रतिर्बभौ ।। ६५ ।।
तरूणां च गिरीणां च लतानां च तृणाश्मनां ।।
स्त्रीपुंमयानामन्योन्यप्रीत्या द्रावोऽभवत्तदा ।। ६६ ।।
मृगपक्षिपशुव्रातास्त्यक्त्वापि तृणभक्षणं ।
दिवारात्रौ च सततं मिथुनीभूय रेमिरे ।। ६७ ।।
स्थाणुभूतशरीराणां दीर्घकालसमाधिना ।
तिरोहितानां वल्मीकैर्युगावृत्तादपीदृशां ।। ६८ ।।
ऋषीणामग्निकल्पानामपि ध्यानोदितस्त्रियां ।
अधः स्खलितवीर्याणां चित्तान्युत्कंठितां ययुः ।। ६९ ।।
व्युत्थाय सर्वे मुनयः किमेतदिति विस्मिताः ।
चिंताक्रांताश्चिरं ध्यात्वा पुनरासन्बहिर्मुखाः ।। ७० ।।
अहो कष्टमहोकष्टमस्माकं किमियं दशा ।।
ययात्मज्ञानमुसृज्य विषयौन्मुख्यमाप्नुमः ।। ७१ ।।
इति चिंतापरवशाः संभूय मुनयोऽखिलाः ।
पृ० ६७) श्रीदुर्वाससंप्रति मुनीनां मनोविकारकारणजिज्ञासा ।
अमंत्रयन्त तच्छान्त्यै शान्त्यै दान्त्यै च भूसुराः ।। ७२ ।।
तदा दुर्वारसंसारदुःखाद्रिबलभेदनः ।
शैवमौनी शिवाचार्यः शिवदीक्षापरायणः ।। ७३ ।।
निराभारमहावीरशैवलिंगैक्यनिश्चयः ।
दुर्वासास्तपतां श्रेष्ठ आजगाम शिवेच्छया ।। ७४ ।।
आगतं मुनिमालोक्य मुनयो विगतज्वराः ।
पाद्यार्घ्याचमनीयाद्यैर्मधुपर्कैस्तथार्चयन् ।। ७५ ।।
उपवेश्यासने रम्ये महार्हे प्रणिपत्य तं ।
कृतांजलिपुटाः प्रोचुर्भक्त्या परमयान्विताः ।। ७६ ।।
महेशकृपयोपात्तत्रिकालार्थावबोधन ।
योगींद्र करुणासिंधो ऋषिबंधो गृहीष्व नः ।। ७७ ।।
ब्रूहि किं कारणं चित्तचलनेऽस्माकमीदृशाम् ।
वातांबुपर्णवृत्तीनां दृढवैराग्यशालिनाम् ।। ७८ ।।
गुहांतर्धर्ममेघाख्यं ध्यानं व्युत्थानमेति नः ।
वशं गच्छति कामस्य चित्तं दुर्विषयातुरम् ।। ७९ ।।
का गतिस्त्वां विनाऽस्माकं शिवज्ञानैकसागर ।
पृ० ६८) उपसर्गभयादस्मान् पाहि पाशुपताग्रणीः ।। ८० ।।
विज्ञापितो मुनिगणैरित्थं वाचंयमोत्तमः ।
दृष्ट्या विचार्य सुचिरं प्रतीच्या प्रोक्तवान्गुरुः ।। ८१ ।।
श्रूयतां वचनं सम्यगहो तापसपुंगवाः ।
ममकाराह्वयो राजा पृथिव्यामस्ति दुर्जयः ।। ८२ ।।
बनवस्याख्यनगरे मोहिनी तत्कुटुंबिनी ।
तयोः पुत्रीत्वमापन्ना जाता माया दुराशया ।। ८३ ।।
सांख्यं योगं पाशुपतं ज्ञानानि विविधानि च ।
विनाशयितुमुद्युक्ता कलिकालवशात्स्वयम् ।। ८४ ।।
इतः परं क्व वा योगः क्व तपः क्व मुमुक्षुता ।
क्व भक्तिः क्व च विज्ञानं यतो मायावशं जगत् ।। ८५ ।।
इति ब्रुवंतं दुर्वासं प्रणिपत्य भयान्विताः ।
पुनरूचुर्मुनिश्रेष्ठा निष्ठाचांचल्यनिष्ठुराः ।। ८६ ।।
ऋषय ऊचुः ।
माहेश्वरी महामाया नामरूपक्रियात्मिका ।
सदसत्त्वाद्यनिर्वाच्या याऽनाद्या श्रूयते श्रुतौ ।। ८७ ।।
यद्रूपमखिलं विश्वं यया संच्छादितं महः ।
यदुपाधिवशाज्जीवः स्वयं साक्षान्महेश्वरः ।। ८८ ।।
पृ० ६९) मुनीन्प्रतिदुर्वासकृतमायास्वरूपनिरूपणम् ।
पशुपाशविमोचिन्या दीक्षया सा विमोचिता ।
यया शिवत्वमायातं कृतकृत्या स्म ते वयम् ।। ८९ ।।
प्रारब्धमपि निर्दग्धं योगज्ञानाख्यवह्निना ।
वांतान्नाशनवत्कस्मात्प्राप्तं चलनमीदृशम् ।। ९० ।।
संभ्रष्टबीजकल्पस्य चित्तस्य शमशालिनः ।
केयं माया कुतः कुत्र ततोप्यन्या विलक्षणा ।। ९१ ।।
अजेति श्रूयते माया ज्ञाननाश्येति च स्वयं ।
जाता पृथिव्यामित्युक्ता नष्टायाश्च कुतो जनिः ।। ९२ ।।
विलक्षणायाः किं रूपं तन्निवृत्तिर्नवास्ति वा ।
सर्वं कथय नो विद्वन् रक्षास्माञ्छरणागतान् ।। ९३ ।।
एतत्प्रार्थयमानास्ते मुनयो विनयोर्जिताः ।
महर्षेरंघ्रिनिकटे निपेतुर्दंडवद्भुवि ।। ९४ ।।
तानुत्थाप्य महातेजा दुर्वासा भगवान्स्वयम् ।
माभैष्टेति समाश्वास्य पुनः प्रोवाच सस्मितम् ।। ९५ ।।
या माया त्रिगुणा चेति वेदान्तेषु प्रशस्यते ।
सा द्विरूपा ह्यविद्येति मायेति च निगद्यते ।। ९६ ।।
तमःप्रधाना मलिनसत्वा विद्या द्वयोस्तयोः ।
शुद्धसत्वमयी माया निर्मला दर्पणोपमा ।। ९७ ।।
पृ० ७०) जीवोपाधिरविद्याख्या मायोपाधिर्महेशितुः ।
सैषा विचित्रा सुदृढा बह्वंकुरसमन्विता ।। ९८ ।।
गुणभिन्नाप्यंकुरेषु तेषु भिन्ना गुणैः पुनः ।
नामरूपात्मिका बह्वी तूलाविद्या निगद्यते ।। ९९ ।।
प्रतिबिंबा अनेकाः स्युस्तत्र तत्तारतम्यतः ।
देवतिर्यऽऽन्मनुष्यांडजोद्भिज्जस्वेदजादयः ।। १०० ।।
जीवाः शिवमया एव यतश्चैतन्यबिंबिताः ।
तथाप्यल्पाश्च किंचिज्ञा यातायातं प्रयान्ति हि ।। १०१ ।।
ईश्वरस्तु महामायी यतस्तत्प्रतिबिंबितः ।
वशीकृत्य स तां देवः क्रीडते स्वेच्छया द्विजाः ।। १०२ ।।
तत्रापि गुणपर्वाणि तारतम्येन संश्रितः ।
ब्रह्मा विष्णुश्च रुद्रेशौ सदाशिव इतीर्यते ।। १०३ ।।
प्रभुः सर्वाधिकः प्रोक्तो निरंजनपदांचितः ।
स एक एव नो याति मायाया वशमास्तिकाः ।। १०४ ।।
अन्ये तु ब्रह्मविष्ण्वाद्याः कदाचित्तद्विमोहिताः ।
पृ० ७१) मुनीन्प्रति दुर्वासकृतमायाप्रभाववर्णनम् ।
पुनः प्रभोः करुणया प्रबुध्यन्ति यथातथम् ।। १०५ ।।
अविजेया ततो माया येन केनापि सुव्रताः ।
जिता मयेति येनेयं विश्वस्ता स जितो भवेत् ।। १०६ ।।
अतो मायाजये सम्यग्जागर्तव्यं बुधैरपि ।
मायापाशनिबद्धानां जीवानां का कथा पुनः ।। १०७ ।।
जीवः पशुरिति प्रोक्तः शिवः पशुपतिः स्मृतः ।
पाशबद्धो यतो जीवः पाशमुक्तो महेश्वरः ।। १०८ ।।
पशुपाशविमोचिन्या दीक्षया गुरुदत्तया ।।
भाग्येनानुगृहीतो यः स जीवः शिवतामियात् ।। १०९ ।।
अन्यस्तु कर्मतंत्रेषु बद्धः पशुरधोमुखः ।
प्रयाति सततं मोहाज्जन्ममृत्युपरंपरां ।। ११० ।।
न विद्याभिजने हेतू दीक्षायां मोक्षसाधने ।
अनुग्रहः प्रभोरेव श्रीगुरोस्तत्र कारणम् ।। १११ ।।
सैषैव माया दुर्धर्षा तामसी सर्वमोहिनी ।
कामतंत्रप्रधानैका ममकारात्मजाऽभवत् ।। ११२ ।।
अजातापि च मोहिन्यां जाता कार्यार्थमास्तिकाः ।
पृ० ७२) तत्र हेत्वन्तरं वक्ष्ये संशृणुध्वं समाहिताः ।। ११३ ।।
कदाचिद्राजते शैले देवर्षिगणसेविते ।।
सभायां योगपीठस्थं रुद्रं पप्रच्छ पार्वती ।। ११४ ।।
सा शक्तिः सर्वलोकानां शिवाऽनन्या चिदात्मिका ।
स्ववशीकृत्य तां मायामभिमानेन पश्यति ।। ११५ ।।
स्वमायया जगत्सर्वं मोहयन्ती स्वयंप्रभा ।
सृष्ट्यादिकार्येष्वीशस्य साहाययं तनुते तराम् ।। ११६ ।।
ततो रजोगुणोद्रिक्ता तमसा सात्विकीं कलाम् ।
तिरोधाय हरं दृष्ट्वा प्रश्नमेनं चकार सा ।। ११७ ।।
देवादिदेव भूलोके यो वा को वा महेश्वर ।
अस्ति किं सहजानंदसौंदर्यरसनिर्भरः ।। ११८ ।।
परवैराग्यसंपन्नं तं ममाचक्ष्व शंकर ।
परीक्षेत्तन्मनोदार्ढ्यमित्युक्तः शंभुरब्रवीत् ।। ११९ ।।
देवि साक्षात्परं ब्रह्म सच्चिदानंदविग्रहः ।
अल्लमप्रभुरेकोऽस्ति गुरुर्मम जगत्त्रये ।। १२० ।।
इत्यास्थानीस्थितैः सर्वैराश्चर्येणावधारितम् ।
पृ० ७३) मायाविलासवर्णनम् ।
वचनं देवदेवस्य श्रुत्वा मंदस्मितानना ।। १२१ ।।
आः किमेतत्कियदिति न्यक्कारेण रजोन्विता ।
देवी कृतनृचित्कारा ह्याराद्रुद्रमभाषत ।। १२२ ।।
देव्युवाच ।
किमिदं भाषसे देव मम माया दुरत्यया ।
यद्यल्लमप्रभुस्तस्या अवशः स्यात्तदोच्यताम् ।। १२३ ।।
इत्युक्त्वा तामसीं मायां स्वीयामाकृष्य सुन्दरी ।
मोहिन्याः पुत्रिकां चक्रे प्रभुमप्यभिकायितुं ।। १२४ ।।
साप्यजातापि जातेव भूमौ बनवसीपुरे ।
ममकारस्य तनया बभूव त्रिजगन्मयी ।। १२५ ।।
तस्या गुणकथा वक्तुं को वा शक्नोति मानवः ।
तथापि कांश्चिद्वक्ष्यामि शृण्वन्तु मुनिसत्तमाः ।। १२६ ।।
यक्षकिन्नरगंधर्वसिद्धविद्याधरामरान् ।
गरुडोरगमर्त्यादीन् बहुना किं महामुनीन् ।। १२७ ।।
अपांगदामभिर्बद्धान्मेषानिव निमेषतः ।
योषितां किंकरीभूतान्करोत्येव स्वलीलया ।। १२८ ।।
किंचैषा त्रिगुणा माया भुवनानि चतुर्दश ।
स्वयं ग्रसति भूयोऽपि निष्ठीवति विनिष्ठुरा ।। १२९ ।।
पृ० ७४) स्वयं महाप्रभावेण(न) मायामयमिदं जगत् ।
संहृत्य सत्वसंपूर्णो यो रुद्रोऽभूत्स्वयंप्रभः ।। १३० ।।
तस्यापि वक्षसि सदा या माया कामवर्द्धनी ।
रुद्राणीं स्थापयत्येव तस्याश्चित्रं चरित्रकम् ।। १३१ ।।
मूर्तिपंचकमप्येवं स्त्रीनेत्रविवशीकृतं ।
करोति तस्मादधिकः को वास्ति जगतां त्रये ।। १३२ ।।
तस्मान्नजयया केनापि माया वेश्याविलासिनी ।।
अविचारितसिद्धेयमसद्भावोपकल्पिका ।। १३३ ।।
श्रुतमप्यश्रुतं दृष्टमप्यदृष्टं वितन्वती ।
विभीषिका जगत्कृत्स्नं मायेयं भ्रामयत्यहो ।। १३४ ।।
भ्रान्तस्य पुरुषस्यास्य जननी तनया स्वसा ।
स्नुषा भार्या स्वयं भूत्वा विकारयति मोहिनी ।। १३५ ।।
जिगीषा यदि युष्माकं तस्याः कूटक्रियात्मनः ।
उपायमेकं वक्ष्यामि रहस्यं शृणुत द्विजाः ।। १३६ ।।
निरंजनो महादेवो गुरूणां परमो गुरुः ।
सर्वज्ञः सर्वसाक्षी यः सोऽल्लमप्रभुसंज्ञितः ।। १३७ ।।
सोऽयं चिद्गगनाकारो व्यापकोऽपि महेश्वरः ।
पृ० ७५) मनुष्यचर्मणा बद्धो गूढः पर्यटति क्षितौ ।। १३८ ।।
यः स्मरत्यनिशं चित्ते तत्र सन्निहितो गुरुः ।
मायामुन्मूल्य सहसा शिवज्ञानं प्रयच्छति ।। १३९ ।।
ततोऽल्लमप्रभुं नित्यं स्मरत श्रद्धयान्विताः ।
तन्नाममंत्रं तन्मूर्तिं पठत ध्यायतानिशम् ।। १४० ।।
स सर्वसाक्षी ध्यातृर्णां चित्ते साक्षाद्भविष्यति ।
तेन दिव्यप्रभावेण माया निर्मूलिता भवेत् ।। १४१ ।।
उपदिश्यैवमेकान्ते दुर्वासास्तपतां वरः ।
जगाम मेरुशिखरं स्वेच्छयैव महामनाः ।। १४२ ।।
मुनयोऽपि तथा कृत्वा प्रभोश्चरणचिंतनं ।
मायामुन्मूल्य चित्तानि न्यरुंधन् व्यत्थितान्यपि ।। १४३ ।।
ममकारनृपस्तत्र मोहिनी च कुटुंबिनी ।
मायायां प्रेमभरितौ बालायां सुखमापतुः ।। १४४ ।।
मानुषावप्यनिमिषौ सदातद्दर्शनोत्सुकौ ।
क्वचिन्निमीलिताक्षौ तद्रूपं दध्यतुरद्भुतम् ।। १४५ ।।
पृ० ७६) उरस्यादाय सस्नेहमालिलिंगतुरंजसा ।
प्रेम्णा समाहितस्वान्तौ न विचालयतः स्म तौ ।। १४६ ।।
अंकप्रदेशे संस्थाप्य न वियोजयतः क्षणम् ।
तद्विलासेक्षणेनैव क्षुत्तृष्णादिविवर्जितौ ।। १४७ ।।
मायैवेयं न मत्पुत्रीत्याश्चर्याविष्टमानसौ ।
मायेति नाम दधतुस्तस्यास्तत्पितरावुभौ ।। १४८ ।।
ततो धात्र्यः स्तनं दत्वा कृत्वाभ्यंगं सुगंधिभिः ।।
अभ्यषिंचन्नंजलिभिर्मंदं मंदोष्णवारिभिः ।। १४९ ।।
अनार्द्रीकृत्य मृदुलैर्धौतैरंके निधाप्य च ।।
मंडैर्हैययंगवीनैश्च पयस्तामप्यपाययन् ।। १५० ।।
अलंकृत्यांजनैर्नेत्रे ललाटे भूतिरेखया ।
धौतकौशेयपुत्रेषु शाययामासुरादरात् ।। १५१ ।।
मंदं मंदं हस्ततलैः संस्पृशन्त्यो विलासिनीं ।
अगायन्मधुरालापैरुलूलुध्वनिभिः शुभैः ।। १५२ ।।
जय बाले जगल्लीले शुभशीले गुणावले ।
जय शृंगारसर्वस्वे माये मधुरनिस्वने ।। १५३ ।।
इति तद्गुणगीतानि गायन्त्यो जयनिस्वनैः ।
आरार्त्तिकादिभिस्तस्याश्चक्रुर्मांगलिकोत्सवं ।। १५४ ।।
पृ० ७७) सौवर्णरत्नदोलायां यावन्निद्राति बालिका ।
तावत्तिष्ठन्ति दोलाग्ररज्वाकर्षणतत्पराः ।। १५५ ।।
अथ सा जाग्रती बाला दोलामंचमणिव्रजे ।
आत्मच्छायास्समालोक्य मेने सह विहारिणीः ।। १५६ ।।
सा ता हसन्ती हस्ताभ्यामालिंगितुमथोद्यता ।
क्रीडतिस्मः पितुः कक्षे मातुः कक्षे क्वचित् क्वचित् ।। १५७ ।।
मातुर्हस्तात्पितुर्हस्तं गत्वा चालिंग्य कन्धरां ।
मुखं मुखेन संयोज्य प्रमोदमुदपादयत् ।। १५८ ।।
मंजीरकिंकिणीपुंजे पदयोर्ध्वनति स्फुटं ।
मंदं मंदं तत्र तत्र पदन्यासांश्चकार सा ।। १५९ ।।
रत्नाऽऽन्गुलीयकस्तोमे कांचने कंकणद्वये ।।
काचवल्ली पुरोभागे रोचमाने समन्ततः ।। १६० ।।
मुक्तास्यूतांचलाग्रायां सक्तायामलिकोपरि ।
अश्वत्थपत्ररेखायामालोलायां मुहुर्मुहुः ।। १६१ ।।
कनत्कनकशृंगारकरवीरदलस्रजा ।
जाम्बूनदघटीदाम्ना शोभितायां तनौ भृशं ।। १६२ ।।
स्खलद्गतिविशेषैः सा चलन्ती रत्नकुट्टिमे ।
पृ० ७८) लीलया सह बालाभिः खेलति स्म मुदान्विता ।। १६३ ।।
पित्रोर्धात्रीषु सर्वासु वयस्यासु च सादरं ।
हृष्टचित्तासु मायाया बाल्यलीला व्यजृम्भत ।। १६४ ।।
उत्कंठितेषु सर्वेसु नागरेषु जनेषु च ।।
स्तुवत्सु चारुतां तस्या अतिचक्राम शैशवं ।। १६५ ।।
ततः कौमारवेलायां सा माया सर्वमोहिनी ।।
शिक्षाचार्याऽभवद्गत्यां हंसांनां हस्तिनामपि ।। १६६ ।।
कोकिलानां कलध्वाने शुकानां मृदुभाषणे ।।
तथाभूताऽथ तारुण्ये सा माया शुशुभे तरां ।। १६७ ।।
भावो मनसि वाचायां प्रसादो दृक्प्रसारणे ।
स्यान्मर्म हस्तसंज्ञायां कीलकं भृकुटौ च रुट् ।। १६८ ।।
मानोन्नतिस्तथा बुद्धौ सर्वमन्यद्भ्रमावहं ।
बभूव यौवने तस्यास्त्रिजगन्मोहनाकृतेः ।। १६९ ।।
दृष्ट्वैतद्भावशाबल्यं मूढः क्लीबोऽरसोऽथवा ।
मुनिर्वा मोहमाप्नोति किमुतान्ये रसाधिकाः ।। १७० ।।
पृ० ७९) मायासौंदर्यवैभववर्णनम् ।
इत्थं शृंगारसर्वस्वतारुण्यरसनिर्भरा ।।
त्यक्त्वा मुग्धात्वमध्यात्वे क्रमात्प्रौढात्वमागता ।। १७१ ।।
तन्नाट्यश्रीस्तद्विलासानुभूतिस्तच्चातुर्यं तत्कलाकौशलं च ।
तद्गाम्भीर्यं तद्गतिस्तत्पदोद्यज्जंघाजानूरुद्वयी श्रोणिनाभी ।। १७२ ।।
तन्मध्यं तज्जघनफलकं तन्नितम्बः कुचौ तौ पीनौ
कार्कश्यगुणनिलयौ तद्गलस्तन्मुखश्रीः ।
तन्नासाक्षिद्वयमधरदन्तावलिभ्रूललाटश्रोत्रं तत्कैशिकरुचिरता
तत्तनोः सौष्टवं च ।। १७३ ।।
असदृशमहिमायायां मायायामेव जगति नान्यत्र ।।
यत्तद्विलासलेशाल्लोकत्रययुवतिसौंदर्यं ।। १७४ ।।
ममकारोऽन्वर्थोऽभूत्तस्यां स्वान्तर्गताखिलांडायां ।
पुत्रीभूतसुतायां निजभाग्यनिधानमाननीयायां ।। १७५ ।।
राजाऽथ हेमरत्नप्रततिमहार्हाणि सोपबर्हाणि ।।
आस्थानमण्डपादीन्यगणितगेहानि विरचयांचक्रे ।। १७६ ।।
सौधप्रासादसालान्तरकलितमणिस्तम्भसाहस्रदीव्य-
द्गेहान्तर्दासदासीपरिजनविबुधामात्यभृत्यालिवर्गैः ।
पृ० ८०) मायां संवेश्य तत्तादृशविविधकला पांडितीसत्प्रवीणैः
सम्यक्शिक्षां परीक्षावधि निजतनयां कारयामास मोहात् ।। १७७ ।।
काव्यानि नाटकान्यथ वैयाकरणोचितप्रबन्धांश्च ।
संगीतभरतवीणाछन्दःकोक्कोकरत्नशास्त्राणि ।। १७८ ।।
द्यूतानि बहुविधान्यपि कुक्कुटमेषादिलावुकान्तानि ।
अतिदीर्घाभ्रंकषवेण्वादिस्तम्भाग्रनृत्यकृत्यानि ।। १७९ ।।
भूम्यन्तरिक्षदिक्तटनटनाभ्यासांश्च कारयांचक्रे ।
नागरकर्नाटान्ध्रद्राविडभाषाश्च पाठयामास ।। १८० ।।
माया स्वयं या सकलप्रपंचव्यष्ट्या समष्ट्या च विराजमाना ।।
तस्याः कियद्वर्णनमेतदेवं मानुष्यवेषाश्रयणाद्यदुक्तं ।। १८१ ।।
ममकारनृपस्ततः सुताया हृदि पाणिग्रहणक्रियां विधातुं ।।
कुलशीलकलावयस्सु रूपैरनुरूपं सुगुणं वरं निदध्यौ ।। १८२ ।।
विचार्य सुचिरं राजा वर्तमानमहीपतीन् ।
तत्रैकमपि नो मेने मायायाः सगुणं वरं ।। १८३ ।।
पृ० ८१) पितृकृतमायाविवाहविषयकवरजिज्ञासा ।
एतस्मिन्नंतरे तस्य राज्ञः कुलगुरुर्महान् ।
अहंकाराह्वयः साक्षादहंकार इवाययौ ।। १८४ ।।
तदा प्रीतमना राजा तस्मै पाद्यार्घ्यपूर्वकं ।
पूजां दत्वा स्वमात्मानं कृतकृत्यममन्यत ।। १८५ ।।
भक्त्या प्रणम्य पार्श्वस्थं पप्रच्छ कुशलं नृपं ।
आम्रेडितोक्त्याहंकारः शिष्यं विनयभूषणं ।। १८६ ।।
राजा पुनर्नमस्कृत्य कृतांजलिरथाब्रवीत् ।
गुरो युष्मत्करुणया सर्वं कुशलमेव नः ।। १८७ ।।
किंतु पुत्र्या विवाहार्थं चिंतयामि निरंतरम् ।
एषा कुमुदपत्राक्षी स्मरप्रदरकेकरा ।। १८८ ।।
कामचापभ्रूविलासा नीलचामरकुंतला ।
चतुर्थीचंद्रनिटिला नासाचंपकभासुरा ।। १८९ ।।
दाडिमीबीजदन्ताढ्या कपोलजितदर्पणा ।
श्रीकारकर्णा बिंबोष्ठी कंबुग्रीवा कलावती ।। १९० ।।
बिसकाण्डभुजादण्डा सुवर्णकलशस्तनी ।।
सिंहमध्या पृथुश्रोणी नितम्बजितसैकता ।। १९१ ।।
पृ० ८२) करभोरुस्मरक्रीडा निषंगसमजंघिका ।
कूर्मोपमानांघ्रिपृष्ठा नक्षत्रनखरोज्वला ।। १९२ ।।
रक्तारविंदांघ्रितला रंभारतिजयोद्यता ।
त्रिजगन्मोहनाकारा मदीयकुलपावनी ।। १९३ ।।
मायैषाऽस्या वरः को वा पाणिग्रहणमर्हति ।
प्रत्यहं चिन्तयाम्येतद्दयालो गुरुसत्तम ।। १९४ ।।
विचार्याज्ञापय स्वामिन् शिष्योऽहं साधु शाधि मां ।
एवमभ्यर्थितो राज्ञा मायामहिमकोविदः ।। १९५ ।।
मायावच्छन्नमेवेशं जानन्नतु निरंजनं ।
धन्यो गुरुरुवाचेदमहंकारो महीसुराः ।। १९६ ।।
कोकिलेव रसालस्य पुष्पस्येवालिसुंदरी ।
हंसीव पद्मकाण्डस्य शिवस्यार्हा तवात्मजा ।। १९७ ।।
तस्यैव मोहिनी सेयं नान्योऽर्हति महीपते ।
स एवास्या महामायी शिवोऽर्हति न संशयः ।। १९८ ।।
श्रुत्वैतद्वचनं राजा विचिंत्य क्षणमात्मनि ।
प्रणम्य दण्डवद्भूमावाचार्यं पुनरूचिवान् ।। १९९ ।।
पृ० ८३) मायाकृतशिवोपासनाप्रकारवर्णनम् ।
ममकार उवाच-
शम्भुः सर्वजगत्कर्ता वेदान्तेष्वप्यगोचरः ।
कथं सुलभतां यायात्क्षुद्राणां मादृशां गुरो ।। २०० ।।
मादृशां मलबद्धानामहंकारमहागुरो ।
कथं प्रत्यक्षतां यायादनुगृह्णातु वा कथं ।। २०१ ।।
मदीयकन्यां स्वीकृत्य स्पृशेद्वा कथमंजसा ।
संबंधितां कथं यातः सामरस्यं कथं व्रजेत् ।। २०२ ।।
यथेष्टमुपभोगाय कथमंगीकरोत्विमां ।
इत्युक्तवन्तं भूपालं शिष्यं प्रोवाच देशिकः ।। २०३ ।।
यथार्थमेतत्त्वद्वाक्यं हरः सर्वजगद्गुरुः ।
विना भक्त्या हरिब्रह्मप्रमुखानामगोचरः ।। २०४ ।।
कथा केवलमर्त्यानां कैव सत्यं महीपते ।
किंतु ब्रवीमि वेदान्तरहस्यं शृणु सन्मते ।। २०५ ।।
यस्य भक्तिर्दृढा जाता श्वपचस्यापि शंकरे ।
सत्यं तमनुगृह्णाति शिवो हृदयसंस्थितः ।। २०६ ।।
ततस्त्वं भक्तियोगेन समाराधय शंकरम् ।
अंगीकरोति विश्वेशो भवन्तं नात्र संशयः ।। २०७ ।।
इत्याज्ञप्य महीपालं समाश्वास्य मृदूक्तिभिः ।।
ययौ मायामणिगृहं ततः स तदनुज्ञया ।। २०८ ।।
पृ० ८४) अहंकारो रहस्यस्यै शैवं धर्ममुपादिशत् ।
शिवार्चनाविधानं च भक्तेर्माहात्म्यमुत्तमं ।। २०९ ।।
उपदिष्टा ततो माया गुरुणेष्टार्थसिद्धये ।
अष्टमूर्तिधरं देवं मधुकेश्वरमाश्रयत् ।। २१० ।।
विनष्टसंशया निष्ठागरिष्ठाऽष्टविधार्चनैः ।।
अष्टोपचारसंगत्या सावधाना तमर्चयत् ।। २११ ।।
चंदनाक्षतधूपस्रग्दीपनैवेद्यवाद्यकैः ।।
चंद्रानना तमानर्चत्त्रिकालं विधिपूर्वकं ।। २१२ ।।
हृत्पुण्डरीकमध्यस्थं शिवं सर्वेश्वरेश्वरं ।।
कामयन्ती प्राणनाथं नित्यं व्रतपराऽभवत् ।। २१३ ।।
इति परमरहस्यं सूतपुत्रस्य वाक्यं भृगुतनयमुखास्ते सम्यगाकर्ण्य
तुष्टाः ।।
भवभयविनिवृत्यै भावितं हि त्वयोक्तं प्रभुचरितमिदानीं ब्रूहि
सूतेत्यपृच्छन् ।। २१४ ।।
यः शृणोति शिवसंनिधौ सदा माययाऽऽचरितमीश्वरार्चनं ।।
पृ० ८५) मायाकृतशिवार्चनश्रवणफलम् ।
तस्य नाशमुपयाति सा भृशं चिन्मयस्य कृपयाऽल्लमप्रभोः ।। २१५ ।।
इत्यार्षभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
मायाविलासतदुपासनाप्रकारवर्णनगतिर्नाम तृतीयोऽध्यायः ।। ३ ।।
पृ० ८६) श्रीनंदिकेश्वराय नमः ।।
अथ चतुर्थोऽध्यायः ।।
सूत उवाच-
श्रीसिद्धवीरगुरुपादसरोजयुग्मे भक्त्या विनिर्जितमहोर्जितमोहपाशाः ।।
मुक्तीच्छया परविरक्तिपथं प्रयाताः शृण्वंतु सन्मुनिवराः
प्रभुलिंगलीलां ।। १ ।।
अहंकारेऽथ मायाया उपदिश्य गते नृपे ।।
तथैव निश्चितस्वान्ते माया शिवरताऽभवत् ।। २ ।।
एतस्मिन्नंतरे विप्राः सर्वानुग्राहकः प्रभुः ।।
अल्लमः सच्चिदानंदो महामहिमसागरः ।। ३ ।।
माया दुर्वारगर्वस्य निर्वापणकरोद्यमः ।।
अमूर्तोऽपि समूर्तोऽभूत्तदुपास्त्युचिताकृतिः ।। ४ ।।
ह्रीकरं कुसुमास्त्रस्य श्रीकरं ध्यायतां हृदि ।।
दधावत्यद्भुतं रूपं शृंगाररससीकरं ।। ५ ।।
प्रसार्य पश्यतां दृष्टिमनिमेषत्वदायकं ।।
तद्वर्तुलत्वसौंदर्यं को वा वर्णयितुं क्षमः ।। ६ ।।
विवृते वदने किंचिद्दन्तकान्तिच्छटाः परं ।।
सम्पूर्णपूर्णिमाचंद्रचंद्रिकाः प्रहसन्ति हि ।। ७ ।।
पृ० ८७) बनवसींप्रत्यागतप्रभोरवयवसौन्दर्यवर्णनम् ।
किंचिदुन्मीलिते नेत्रे वर्षतो जलजस्रजः ।।
कुलालचक्रवत्ता नो निमीलन्ति निमीलने ।। ८ ।।
हस्तपादतले रेखा अकस्मात्पश्यतां नृणां ।।
श्रेष्ठं हरिविरिंचिभ्यां कथयन्त्येनमीश्वरं ।। ९ ।।
उदितानुदितश्मश्रुरेखाननसुधाकरे ।।
कलंकरेखेवाऽऽभाति जनताश्चर्यकारिणी ।। १० ।।
षोडशाब्दीयवयसा जगन्मोहनकारकः ।।
पुपोष वेषमुतलं योषाजनमनोहरं ।। ११ ।।
सुवर्णकांचीसन्नद्धं कांचनांचलरंजितं ।।
अन्तरीयं बबन्धायं लंबितैकपुरोंचलं ।। १२ ।।
द्विपटीमुपमाशून्यां तपनीयांचलांचितां ।।
सूक्ष्मांशुनिर्मितामेकांचलमूर्ध्वं प्रसार(काश)यन् ।। १३ ।।
उरःस्थले यथा नूत्नरत्ननिष्कं प्रकाशते ।।
यज्ञोपवीतन्यायेन दधौ शृंगारवारिधिः ।। १४ ।।
यत्र पादनखच्छायाः प्रसरन्ति महीतले ।।
पृ० ८८) पद्मरागमणिश्रेणी धागधग्येन सा बभौ ।। १५ ।।
मुक्ताकुण्डलकान्तीनामत्युल्बणपरंपराः ।।
घनीभवन्त्यभिनवा गण्डयोरुभयोरपि ।। १६ ।।
तिर्यक्सुवर्णघुटिकादीप्यमानस्रजोर्द्वयं ।।
कूर्परोर्ध्वस्थले बाह्वोरलंचक्रेऽतिसुन्दरं ।। १७ ।।
जगद्बिरुदपांचालिकोल्लसत्पादहंसकौ ।।
स्पर्धेते तदधः क्षुद्रकिंकिणीभिः समन्ततः ।। १८ ।।
ईषद्वक्त्रशिखालग्नपुष्पमाल्योपशोभितं ।।
सूक्ष्मोष्णीषांचलस्यूतस्वर्णकूर्चद्वयं बभौ ।। १९ ।।
एकांगुलिशिखादत्तं वर्तुलं तिलकोत्तमं ।।
मायाकल्पितवैचित्र्याः शून्यचिह्नमिवाबभौ ।। २० ।।
नक्षत्रराजसत्कान्तिन्यक्कारिशुभलक्षणाः ।।
नक्षत्रमालाप्रमुखा हारा वक्षःस्थले बभुः ।। २१ ।।
साक्षरांगुलिमुद्राभिर्विराजितकरांगुलिः ।।
पादांगुलीयकमणिप्रभाभासितपादुकः ।। २२ ।।
विटवेषधरः साक्षाच्छृंगार इव सोऽल्लमः ।।
पृ० ८९) मधुकेशालये प्रभोर्मृदंगवादनचातुरीवर्णनम् ।
पुरीं बनवसीं प्राप तत्रत्यैरभिनंदितः ।। २३ ।।
संघीभूतैर्जनैस्तत्र परमाश्चर्यसंयुतैः ।।
चक्षुश्चषकपीतास्यसुधाकरसुधाझरः ।। २४ ।।
मधुकेशालयं गत्वा मुखमण्डपमाश्रितः ।।
तत्रत्यमतुलाकारं प्रमाणातीतमद्भुतं ।। २५ ।।
अशक्यं वादितुं येन केनापि शिवनिर्मितं ।।
ददर्श मर्दलं प्रांशुं विद्याजीविगलार्गलं ।। २६ ।।
गृहीत्वा बाहुदण्डाभ्यां निमेषाल्लघुतूलवत् ।।
निधाय चोरुफलके सज्जीचक्रे यथाविधि ।। २७ ।।
दर्शयन् वाद्यचातुर्यं साक्षान्नंदीव सोऽल्लमः ।।
चतुर्दण्डिप्रतिभया सप्रमाणं सतालकं ।। २८ ।।
वादयन् भरतन्यायैर्यथाशास्त्रं सुखावहं ।।
श्रावयामास वाद्यज्ञैः सर्वैरद्भुतमीक्षितः ।। २९ ।।
कलाभिज्ञास्तु तत्रत्याः सर्वाश्चर्यमनोहरं ।।
दृष्ट्वाध्येत्यहहेत्याहो अहो इति तथा ब्रुवन् ।। ३० ।।
पृ० ९०) स्याद्भ्रातः स्यारूत्तंस हे विद्याधिप हे पितः ।।
अंग मार्दंगिक स्वामिन् भो महामहिमन्निति ।। ३१ ।।
न श्रुतं न च वा दृष्टं विद्वद्रत्नं क्ववेदृशं ।।
साधु साधु समीचीनं सम्यगित्याहुरास्तिकाः ।। ३२ ।।
गणनामात्रपर्याप्ता वयं विद्याधिका इति ।।
त्वत्पदाब्जपरागैकलेशेनाति च नो समाः ।। ३३ ।।
अस्मद्भाग्येन दृष्टोऽयं लोकोत्तरगुणोत्तरः ।।
अदृष्टपूर्वः पुण्यात्मेत्यस्तुवन् बहुधा प्रभुं ।। ३४ ।।
श्रुत्वाऽथ माया वार्तां तां सन्निधौ मधुकेशितुः ।।
ध्यानवृत्तिमपि त्यक्त्वा सखीः प्रोवाच सुन्दरी ।। ३५ ।।
मायोवाच ।।
आल्यः किमेतदाश्चर्यं श्रुत्वैतद्वाद्यनिःस्वनं ।।
मयूरीव घनध्वानमहं नर्तितुमुत्सहे ।। ३६ ।।
तरलाक्ष्यः कदा वापि पुरे तद्वाद्यकौशलं ।।
श्रुतं किमेष सर्वज्ञो विद्याधिकशिखामणिः ।। ३७ ।।
महापुरुष इत्येष मम चित्तं प्रसीदति ।।
गत्वा तमेनं संप्रेक्ष्य यूयमायात सत्वरं ।। ३८ ।।
पृ० ९१) प्रभोर्मायाकृतविद्यासौन्दर्यवर्णनम् ।
इत्याज्ञप्तास्तदा सख्यः समेत्य मुखमण्डपं ।।
प्रभुं प्रेक्ष्य कृतार्थाः स्म इति चित्तेषु मेनिरे ।। ३९ ।।
आश्चर्येण ततो गत्वा सख्यस्तां भर्तृदारिकां ।।
प्रणम्य पूजा फलिता तवेत्याहुः स्मिताननाः ।। ४० ।।
तस्य सौंदर्यचातुर्यसौमनस्यवयांसि च ।।
श्रृंगाररसभूयिष्ठान्यादरादाचचक्षिरे ।। ४१ ।।
आकर्ण्य कर्णामृतमंबुजाक्षी तद्रूपरेखादिविलासवृत्तं ।।
संद्रष्टुकामा समुपेत्य शीघ्रं निध्याय तन्मूर्तिमवाप मोहं ।। ४२ ।।
कुसुमायुधगर्वभंजनं तत्सुकुमारं वपुरद्भुतं यदेतत् ।।
करुणामयमीक्षणं प्रसूते परमानंदसुधानिधिं समंतात् ।। ४३ ।।
विद्याऽस्ति यत्र विनयो न हि तत्र लोके यद्यस्ति सा विनयसंपदहो न विद्या ।।
विद्याविशेषविनयाविह पुण्यमूर्तौ विद्याधिके विमतहस्तिमृगाधिपे स्तः ।।
४४ ।।
एवं निध्याय निध्याय माया हर्षाश्रुलोचना ।।
कंचुकीकृतरोमांचा सखीमुखमवैक्षत ।। ४५ ।।
विज्ञाय चित्तं तन्वंग्या विनयेन विचक्षणाः ।।
पृ० ९२) पप्रच्छुरल्लमं सख्यः प्रगल्भवचसा प्रभुं ।। ४६ ।।
भो विद्वन् भव्यसंचार कस्माद्देशादिहागतः ।।
को वा जनपदो युष्मत्पदाम्भोजपवित्रितः ।। ४७ ।।
कत्यक्षरं भवन्नाम किमणूकं कियत्पदं ।।
कं देशं प्रति गन्तव्यमस्मास्वेव किमादरः ।। ४८ ।।
शिव एव किमार्यायाः प्रसन्नोऽस्मत्सखीमणेः ।।
सर्वं यथार्थमाचक्ष्व श्रोतुमिच्छाऽस्ति नः प्रभो ।। ४९ ।।
एवमुक्तोल्लमः प्रोचे स्मयमानमुखांबुजः ।।
वृत्तान्तमात्मनः सम्यगर्थगम्भीरया गिरा ।। ५० ।।
देशो मदीयोऽयमिति नास्त्येको भुवि निश्चितः ।।
किंतु सर्वेषु देशेषु संचरामि निरंतरं ।। ५१ ।।
परदेशतया ख्यातो विद्याबलसमन्वितः ।।
जगदाश्चर्यबिरुदपांचाल्यंचितपादुकः ।। ५२ ।।
यो वा को वा प्रतिद्वंद्वी विद्यायां मम भूतले ।।
निर्वापयामि तद्गर्वमलं मेति वचोऽवधि ।। ५३ ।।
पृ० ९३) प्रभुंप्रति सखीकृतमायाविद्यानैपुण्यकथनम् ।
ततोऽल्लमाल्लमा चेति प्राकृतैरभिधा कृता ।।
अल्लमः शिव एवेति साधुभिः समभिष्टुतः ।। ५४ ।।
विचराम्येक एवाहं निर्भयो निरहंकृतिः ।।
सुखगोष्ठी भवेद्यत्र तत्र तावद्वसाम्यहं ।। ५५ ।।
नास्ति यत्र सुखास्वादो निर्यास्यामि क्षणात्ततः ।।
चर्येयं मम कल्याण्य इत्युक्ताः पुनरब्रुवन् ।। ५६ ।।
भो विद्वन् कमलाक्षीयमस्माकं भर्तृदारिका ।।
मायाख्या ममकारस्य महाराजस्य नंदिनी ।। ५७ ।।
अशेषविद्यानिपुणा मुहुर्वितरणाधिका ।।
शुद्धदेशीयमार्गेण शिक्षिता नृत्तगीतयोः ।। ५८ ।।
एतस्या नृत्यचातुर्यमवलोक्य भवादृशाः ।।
शिरःकम्पं प्रकुर्वन्ति साक्षाद्रंभेति पण्डिताः ।। ५९ ।।
पठितं भारतं शास्त्रं वीणानैपुण्यमार्जितं ।।
विचित्रयति गीतानि गात्रवद्यंत्रसूत्रतः ।। ६० ।।
नानाविधैरभिनयैरर्थं व्यंजयति स्फुटं ।।
शब्दनाटककाव्यानि समभ्यस्तानि भूरिशः ।। ६१ ।।
रचयत्यष्टभाषाभिः काव्यानि विविधान्यपि ।।
बहुशास्त्रार्थतात्पर्यं सूक्ष्मदृष्ट्यावबुध्यति ।। ६२ ।।
बहुना किं समस्तासु विद्यासु निवसत्यसौ ।।
पृ० ९४) वाणी नृत्यति जिह्वाग्रे बालापि प्रौढतां गता ।। ६३ ।।
तृणवत्पश्यति धनं गुणमेव धनं सखे ।।
अनुपाधिकसौहार्दा मार्दंगिक गुणाधिके ।। ६४ ।।
तरलाक्षीमिमां नित्यमाश्रित्य यदि तिष्ठसि ।।
मणिः सुवर्णकणिकामिव त्वं शोभसे तरां ।। ६५ ।।
ददाति च यथाकामं निर्वेशं निर्विवादतः ।।
दिव्याम्बराणि धौतानि वारंवारं प्रयच्छति ।। ६६ ।।
भूषणानि समस्तानि वांछितान्यमितानि ते ।।
षड्रसायनसारान्नपानीयानि प्रदास्यति ।। ६७ ।।
एनामेणायताक्षीं त्वं समाश्रित्य वसाऽत्र भो ।।
भोगायतनमेतत्ते यथार्थय कुशीलव ।। ६८ ।।
राज्ञो विज्ञाप्य भवतो विद्याकौशलमीदृशं ।।
तेनापि बहुमानेन गौरवं कारयिष्यति ।। ६९ ।।
कारयित्वा सूत्रधारं नाट्यशालाधिनायकं ।।
नृत्यद्युवतिशिक्षायां मारिषं कर्तुमिच्छति ।। ७० ।।
गतिं त्यज हितं श्रुत्वा मिलित्वा मायया सह ।।
भुक्त्वा स्रक्चंदनादीनि सौख्यानि शुभमाप्नुहि ।। ७१ ।।
इत्युक्त्वोपरते कान्ताजनेऽसावल्लमप्रभुः ।।
पृ० ९५) राज्ञा प्रभुप्रदत्तपारितोषिकनाट्याचार्यताकथनम् ।
किमप्यनुक्त्वा गाम्भीर्यात्तूष्णीमास्त महामतिः ।। ७२ ।।
इंगितज्ञेव तत्रैका भोगिनी नाम तत्सखी ।।
हेमपात्र्याथ ताम्बूलं दापयामास मायया ।। ७३ ।।
स्वीकृत्य वीटिकां सोऽपि सिद्धवेषधरो युवा ।।
क्षणाज्जहार तच्चित्तं स्वविलासावलोकनात् ।। ७४ ।।
ततः सखीभिः सा माया प्रणिपत्य महेश्वरं ।।
तत्प्रसादात्कृतार्थेव सानन्दा प्रभुमैक्षत ।। ७५ ।।
आगत्य पार्थिवं वेगात्प्रभुणा तस्य सन्निधौ ।।
संस्थाप्याल्लममानन्दाद्ववन्दे राजनन्दिनी ।। ७६ ।।
अथ प्रभोर्महाश्चर्यात्सभ्यैरनिमिषेक्षणैः ।।
बहूकृतस्य माहात्म्यं प्राज्ञा राज्ञे व्यजिज्ञपत् ।। ७७ ।।
एषोऽल्लमो महाराज महामहिमवल्लभः ।।
सर्वासामपि विद्यानां प्रभुरीशानसन्निभः ।। ७८ ।।
इत्येतद्वचनं श्रुत्वा राजा स्वस्थानसंस्थितैः ।।
परीक्ष्य विद्यास्तास्सर्वाः सन्तोषाद्बह्वमानयत् ।। ७९ ।।
भूषणाम्बरताम्बूलजाम्बूनदविहापितैः ।।
संभाव्य नृत्यशालायामाचार्यं तं न्ययोजयत् ।। ८० ।।
संप्रेष्य स्वात्मजां राजा स्वगृहं प्रभवे स्वयं ।।
समस्तवस्तुभिर्भव्यं दिव्यं भवनमादिशत् ।। ८१ ।।
पृ० ९६) माया स्वमंदिरं प्राप्य सानन्दं ससखीजना ।।
आस्थानमण्डपे प्रोद्यन्मुक्तापीठान्तिकं ययौ ।। ८२ ।।
तत्रासीना निःश्वसन्ती मनोरथसमं मुहुः ।।
अत्युत्कण्ठावशेनैव रसोदयमसूचयत् ।। ८३ ।।
सखीः प्रोवाच तन्वंगी साकांक्षं भावगर्भितं ।।
भो सख्यः शृणुताश्चर्यं दृष्टमस्माभिरद्य यत् ।। ८४ ।।
हरनेत्रानलज्वालास्पर्शहीनांगमंगलः ।।
मार्दंगिकोऽयं कल्याण्यो मदनः स्यान्न संशयः ।। ८५ ।।
अन्यथा रूपसौंदर्यममानुषमिदं भुवि ।।
कथं सम्पद्यमानं स्याद्यस्य कस्यापि सांप्रतं ।। ८६ ।।
हृद्यता पादतलयोः श्लाघ्यता जंघयोर्द्वयोः ।।
चारुतोरुद्वयस्याऽपि कटेश्च कमनीयता ।। ८७ ।।
मनोहरत्वं मध्यस्य नाभेर्गाम्भीर्यमद्भुतं ।।
वलीनां वलनं तद्वद्रोमावल्याः सुरूपता ।। ८८ ।।
वक्षःस्थल्या विशालत्वमौन्नत्यं भुजयोरपि ।।
दैर्घ्यं बाह्वोश्च सौंदर्यं ग्रीवायाश्चुबुकाकृतिः ।। ८९ ।।
ओष्ठयोः सौकुमार्यं च दन्तपंक्त्योश्च कान्तता ।।
पृ० ९७) स्मरव्याकुलमायायाः प्रभुविषयकचिन्ता ।
श्मश्रुरेखा विलासश्च नैगनिग्यं कपोलयोः ।। ९० ।।
सुषुमत्वं नासिकाया नेत्रद्वंद्वस्य रम्यता ।।
लीला ललाटपट्टस्य भ्रुवोर्युग्मस्य वल्गुता ।। ९१ ।।
रुचिरत्वं चालकानां शक्यते केन वर्णितुं ।।
सौंदर्यसारसर्वस्वमूर्तेरस्य महात्मनः ।। ९२ ।।
इत्युक्त्वोत्पन्नशृंगारविप्रलम्भरसाप्लुता ।।
अभूद्रत्याख्यभावेन घनीभूतमनोभवा ।। ९३ ।।
आलंबनोद्दीपनाख्यविभावविवशीकृता ।।
तस्थौ मुहुस्तदीयांगसौंदर्यध्यानतत्परा ।। ९४ ।।
हृदयस्थितसंकल्पादुन्मनीकृतचेतना ।।
बभूव स्थैर्यराहित्या त्यक्तस्नानप्रसाधना ।। ९५ ।।
न भुंक्ते नापि चाचामत्यहहा दुर्दशां गता ।।
माया मायावशं नीता महामायाविनः प्रभोः ।। ९६ ।।
शययायामुपबर्हस्था हस्तेनैकाकिनी क्वचित् ।।
चिन्तयामास सुचिरं स्मरव्याकुलितेंद्रिया ।। ९७ ।।
करं कपोले संधाय विचारयति सा क्वचित् ।।
पृ० ९८) गणयत्यात्मना स्वस्य दशां शुभफलप्रदां ।। ९८ ।।
क्वचिन्मदनखेदेन नेत्रयोरश्रुपूर्णयोः ।।
निःसारयामास तदा नखाग्रैर्वारि सर्वतः ।। ९९ ।।
पादांगुष्ठेन भूपृष्ठे लिलेख च मुहुर्मुहुः ।।
सखीं प्रेषितुकामा तं लज्जयोपरतिं गता ।। १०० ।।
अशक्ता स्थापितुं चित्तमेका गन्तुमनाः स्वयं ।।
संचुकोच पुनर्माया मदने मर्मभेदके ।। १०१ ।।
एवं विरहतापेन तप्यमाना निरंतरं ।।
अवस्थातुमशक्ता सा नयोपायं व्यचिंतयत् ।। १०२ ।।
काश्चित् प्रज्ञावतीरात्मसमाना मानशालिनीः ।।
कर्पूरगंधीः सौंदर्यवतीराहूय चाब्रवीत् ।। १०३ ।।
विद्याधिकोऽल्लमः प्राज्ञस्तस्य कुत्र निवेशनं ।।
दर्शितं किल सम्यक् तज्ज्ञातं युष्माभिरालयः ।। १०४ ।।
इति प्रश्नच्छलेनैव वयस्यास्तन्मनोरथं ।।
अल्लमायत्तमित्येवं ज्ञात्वा प्रोचुरिदं वचः ।। १०५ ।।
किं पिधाय सखि ब्रूषि यथार्थं वद सांप्रतं ।।
वक्षि चेत् तत्क्षणेनैव पूरयामो मनोरथं ।। १०६ ।।
पृ० ९९) मायामनोरथनिरूपणचिन्ता ।
संशयं त्यज हृद्ग्रन्थौ मौनं जहिहि मानिनि ।।
वाचं देहीति विज्ञप्ता मनस्येवं व्यचिंतयत् ।। १०७ ।।
मयोच्यमाने महति मधुरे मन्मनोरथे ।।
अपराधत्रयं नूनं भविष्यति न संशयः ।। १०८ ।।
यद्येषा बालिका कन्या कार्यं साहसिकं महत् ।।
निर्भीका कर्तुमुद्युक्ता कियद्धूर्तेति वाग्भवेत् ।। १०९ ।।
प्रथमो ह्यपराधोऽयं परिहर्तुं न शक्यते ।।
यतो महाकुलीनाऽहं किंच राज्ञः प्रियात्मजा ।। ११० ।।
यद्येतादृशदुर्बुद्धिर्न युक्तास्या इतीरणा ।।
भविष्यति द्वितीयोऽयमपराधो न संशयः ।। १११ ।।
यदि निष्कामपुरुषं सिद्धं निर्मलचेतसं ।।
अकामनीयं कामित्वाद्भ्रांत्या व्यर्थमनोरथा ।। ११२ ।।
एवंविधाभिलाषो हि चंद्रपाणिग्रहोपमः ।।
भवेदुन्मत्तचित्तानां न प्राज्ञानां कथंचन ।। ११३ ।।
स्वैरिणी भावतः सेयं वारणीयेति चेरणा ।।
स्याच्चेत्तच्छ्रवणं नूनमपराधस्तृतीयकः ।। ११४ ।।
पृ० १००) एवं विचार्य बहुधा चिंतापरवशात्मनि ।।
न स्पष्टमूचे सा माया हृदिस्थं स्वमनोरथं ।। ११५ ।।
भावं विज्ञाय मायायास्ततस्ता वामलोचनाः ।।
दृक्संज्ञया तदान्योन्यं गत्वाऽन्यत्र व्यचिंतयन् ।। ११६ ।।
कथमस्मत्सखी माया दह्यते विरहाग्निना ।।
न जानीमो वयमिति स्वान्तस्थं गूहतेतरां ।। ११७ ।।
स्वकीयनृत्तगीतानि स्वव्याहारामृतानि च ।।
स्वचेतसि विचारांश्च स्वसंदिग्धपदानि च ।। ११८ ।।
स्वनिश्चयकथाश्चापि कदाचिन्नोपगूहते ।
अस्मत्प्राणसमा सेयं माया किमनुतप्यति ।। ११९ ।।
आबाल्यादपि विज्ञातमस्माभिस्तन्मनोगतं ।
किमर्थं गोपयत्येषा ज्ञातमेव हि नः खलु ।। १२० ।।
एवमुक्तवतीमालिं कलाख्यां सकलाभिधां ।
तथेत्युवाच ते चोभे प्रोचतुर्मधुमानिनीं ।। १२१ ।।
तत्सर्वं सा ततो ज्ञात्वा युवाभ्यां स्थीयतामिह ।
चिन्तानिवृत्त्यै मायाया उपायं चिन्तयाम्यहं ।। १२२ ।।
अहं मायावधूं गत्वा श्रुत्वा तद्वृत्तमान्तरं ।
ज्ञात्वा गमिष्याम्येकैवेत्युक्त्वा मायान्तिकं ययौ ।। १२३ ।।
पृ० १०१) सखींप्रति मायामनोरथनिरूपणम् ।
आलिंग्य तां प्रियालापैरादरान्मधुमानिनी ।
स्वेदोदकमथोन्मृज्य चुचुंब चुबुकं मुहुः ।। १२४ ।।
अक्क मह्यं समाचक्ष्व न्यक्कुरुष्व वृथा श्रमं ।।
हृदयस्था तवाद्धाहं गोप्यं किमिह ते मयि ।। १२५ ।।
आवयोरन्तरं किंचिन्नास्तीति प्रियवादिनी ।
बिभेद चित्तं सा तस्या उपायेनैवमास्तिकाः ।। १२६ ।।
एवं सा भिन्नहृदया प्रोन्नमयय शिरो भृशं ।
अपश्यन्मधुमानिन्या निमेषरहिता मुखं ।। १२७ ।।
दृष्ट्वा मनोगतं गोप्यं वक्तुं समुपचक्रमे ।।
उपक्रम्यावरुद्धाऽथ ह्रिया तूष्णीं स्थिताऽभवत् ।। १२८ ।।
तस्याः स्थितेश्च चलने विस्मयं प्राप्य हा भृशं ।
शिरःकम्पं विदधती मुहुर्दैवं निनिंद सा ।। १२९ ।।
मुहुर्वेपथुमारेभे भूयो भूयो भयाकुला ।।
हुसूर्हुसूरिति प्राणमुच्छ्वसित्यंतराविला ।। १३० ।।
कथंचिद्धृतलज्जा सा वक्तुं किंचित्समुद्यता ।
कंठे गद्गदिते तत्र तूष्णींभूताऽभवत्तदा ।। १३१ ।।
गायन्तीभिः सखीभिः सा न किंचिदपि गायति ।।
पृ० १०२) न पश्यति तथा क्रीडाशुकं मधुरभाषिणं ।। १३२ ।।
न धत्ते भूषणान्यंगलतिकायां कदाचन ।।
माधुर्यमार्दवस्यूतान्युदितानि न भाषते ।। १३३ ।।
निषेधति तथा हारं श्लक्ष्णं मधुरमप्यहो ।
विगानेऽपि सखीपाठे न निवारयति स्वयं ।। १३४ ।।
इति दुर्दशया तस्यां क्लिष्टायां मधुमानिनी ।।
मायां प्रोवाच मर्मोक्त्या मनोभेदनतत्परा ।। १३५ ।।
चन्द्रानने किमर्थं त्वमेतामाप्नोषि दुर्दशां ।।
हैययंगवीने हस्तस्ये वृथा क्रोशसि सर्पिषे ।। १३६ ।।
सुधाधारामये वर्षे नित्यं पतति मूढधीः ।
क्षुत्तृष्णाजयमज्ञात्वा यथा कृषिपरो भवेत् ।। १३७ ।।
तथैवाल्लममानन्ददायिनं त्वमजानती ।
क्लिश्नासि किं तमाश्रित्य नित्यसौख्यपरा भव ।। १३८ ।।
इत्थं माया स्वचित्तस्यमर्थं सम्यक् तदीरितं ।।
श्रुत्वोत्थाय तदाश्चर्यमवाप्यातीव हर्षिता ।। १३९ ।।
मर्मज्ञानप्रकोप्येयं सर्वज्ञेति विचार्य सा ।
अगोपयित्वा स्वात्मानं स्पर्शयित्वा ब्रवीत्सखीं ।। १४० ।।
पृ० १०३) प्रभुंप्रति मायया सखीसंप्रेषणम् ।
येन केनाप्युपायेन ह्येतदेव प्रयोजनं ।
मद्रक्षणार्थमद्यैव साधनीयं त्वया सखि ।। १४१ ।।
न साधयसि यद्येवं दोषः स्यात्तव सुव्रते ।
मित्रद्रोहात्परं नास्ति पापमित्याह चागमः ।। १४२ ।।
मनोहरवचोगुंभमाधुरीसारवाग्झरी ।
त्वमेव मद्वयस्यानामग्रणीर्मधुमानिनि ।। १४३ ।।
त्वमेवाधिकवेगेन गत्वाल्लमनिकेतनं ।।
तस्मै विज्ञाप्य मद्वृत्तं कुरु तत्संमतिं सखे ।। १४४ ।।
न चालयामि मच्चित्तं प्रभौ क्व च गुणाधिके ।
आनयेह महोपायैरानंदय ममान्तरं ।। १४५ ।।
तथेत्युक्ताऽथ सा मायामाश्वास्य मधुमानिनी ।
कलां च सकलां प्राह युवाभ्यां स्थीयतामिह ।। १४६ ।।
अप्रकाशितगोप्यार्थे वर्तेथां सकलाकले ।
मायायाः सन्निधावेव मर्मसंरक्षणोद्यते ।। १४७ ।।
युवां विश्वस्य यास्यामीत्युक्त्वा ते सकलाकले ।
तत्रैव स्थापयित्वा सा जगामाल्लममंदिरं ।। १४८ ।।
घुमघुमायमानोद्यत्पुष्पगुच्छमुपायनं ।।
पृ० १०४) तां गृहीत्वाऽऽगतां प्राज्ञो ददर्श मधुमानिनीं ।। १४९ ।।
अथोत्थायाल्लमः पीठात्प्रत्युद्गम्य शुचिस्मितः ।
अत्यन्तविनयात्साधुर्धूर्तां धूर्तक्रियां व्यधात् ।। १५० ।।
कुत्र गच्छसि पद्माक्षि गच्छ गच्छ तवाऽधुना ।।
मार्गदर्शी भवामीति सचमत्कारमब्रवीत् ।। १५१ ।।
इत्युक्तवन्तं सा प्रोचे परिहासं त्यजाभिक ।
गच्छ गच्छ गृहं वार्तामाहरामि तव प्रियां ।। १५२ ।।
एवमुक्तवती तेन सहाभ्यन्तः प्रविश्य सा ।
प्रसूनस्तबकं तस्मै ददौ स्नेहादुपायनं ।। १५३ ।।
मुकुलीकृत्य हस्तौ सा विलासेन कृतानतिः ।
प्रोचे मधुरया वाचा वाचाला वाग्विदां वरं ।। १५४ ।।
निवेशनगृहेणानेनालं तव महाप्रभो ।
मायाऽस्माकं प्रियसखी भवज्जालान्तरं गता ।। १५५ ।।
त्वामेव स्मरति सदा तवैव वार्तामालप्य स्तुतिशतमातनोति तावत् ।
स्वं स्वं ते भवति सखे भवद्वियोगं शक्नोति क्षणमपि सा न
सोढुमार्या ।। १५६ ।।
पृ० १०५) प्रभुंप्रति मायाविरहवर्णनपूर्वकमधुमानिनीप्रार्थना ।
अस्मानप्यसुसदृशीर्न संस्मरंत्यास्त्वययेव स्वकमखिलं समर्प्य सा स्वं
।
त्वत्पादद्वयमिह संस्पृशामि नूनं त्वं त्राता भव मम भाव
भावसख्याः ।। १५७ ।।
अस्माकं स्वामिनी सा सकलगुणवती सर्वसौंदर्यसारा
माया तस्यास्तु भूत्वा तदनुगुणगुणस्त्वं सुधीः प्राणनाथः ।
अस्मानेताः समस्तास्त्वदधिगतनिजस्वामिभावानुभावाः
पाहि श्रीमत्कटाक्षप्रसरदमृतधारासहस्रैरधीश ।। १५८ ।।
आगन्तुकोचितमिदं सदनं विसृज्य न्यक्कृत्य कृत्यभिहितं
त्रिदशेंद्रभोगं ।
संक्रीडितुं निरुपमानसुखामृताब्धौ मायागृहं मणिमयं
प्रविशार्यवर्य ।। १५९ ।।
इत्युक्तो मधुमानिन्या मंदस्मितमुखांबुजः ।
अज्ञात्वेव तदाकूतं प्रभुः प्रोवाच सांजलिः ।। १६० ।।
परदेशा वयं प्राज्ञे प्रभ्व्यो यूयं गुणाधिकाः ।
राज्ञः प्रियकुमारी सा माया भुवनमोहिनी ।। १६१ ।।
पृ० १०६) यूयं युवतयः कान्ते विटवेषधरा वयं ।
कथं नु युज्यतेऽस्माकं युष्मासु स्थातुमीदृशां ।। १६२ ।।
किंचाश्रित्य प्रवृत्तानामस्माकमुपजीवने ।
दूर एव सदा स्थित्वा सेवनीया भवादृशाः ।। १६३ ।।
इति ब्रुवन्तं स्मितपूर्वमारात्तमल्लमं द्राऽऽन्मधुमानिनी सा ।
पुनर्बभाषे रसिकाग्रगण्य प्रभो किमेतद्वचनीयमात्थ ।। १६४ ।।
उक्त्वाभिनीयप्रतिपादनं तन्मिथ्येव भातीति किमत्र चित्रं ।
युक्त्वा त्वयैव ह्यवलोकनीया मायागुणास्ते महिताः समस्ताः ।। १६५ ।।
यत्प्रौढनायकशिरोमणिना युवत्याः शृंगारसारहृदयोर्जितमोहलौल्यं
।
स्थित्वा पदे पद इहार्य विभावनीयं तत्सर्वमद्य फलितं तव भाति
सख्याः ।। १६६ ।।
इति किल मधुमानिन्युक्तमत्यन्तसूक्ष्मं रसभरितमुदारं वाक्यमाकर्ण्य
साधुः ।
अविदिततदभिप्रायेंगितः सन्निवेदं पुनरपि च बभाषे सोऽल्लमः
सर्वगोऽपि ।। १६७ ।।
श्रुतं भवत्या वचनं समस्तं मया यथास्वानुभवं च बुद्धं ।
पृ० १०७) अल्लममधुमानिन्योरन्योन्यसंवादः ।
तथाऽपि मन्मानसगोचरं तद्वदामि सत्यं शृणु सावधाना ।। १६८ ।।
अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति ।
मलये भिल्लपुरन्ध्री चंदनतरुकाष्ठमिंधनं कुरुते ।। १६९ ।।
अधिपतिषु तावदधिकस्पृहयाभ्याशं समेत्य कृत्येषु ।
उपजीविनामुपस्थितिरपराधायेति विबुधवार्तेयं ।। १७० ।।
अतेव सेवकानां दूरेऽवस्थानमार्जवं समये ।
सेवार्थमंतिकस्थितिरुचितमिदं खलु नृणां शुभोदर्कं ।। १७१ ।।
श्रुत्वैतद्वचनं भूयः प्राह सा मधुमानिनी ।
अलमल्लम बह्वीभिर्वृथा वाग्भिः कथंचन ।। १७२ ।।
प्राज्ञस्यैतादृशी बुद्धिर्न योग्या समयासमा ।
निश्चयं शृणु मायायाः प्रियसख्या मम प्रभो ।। १७३ ।।
त्वामेव नायकं कृत्वा नित्यसौख्यसुधार्णवे ।
रसानुभवलीलायां सदा क्रीडितुमिच्छति ।। १७४ ।।
जानुश्रिय इवाऽकुंच्य मुग्धः पश्चाद्गलत्तनुः ।
पृ० १०८) रस्ये विरसवाक्यं त्वं त्यक्त्वा गच्छ यथासुखं ।। १७५ ।।
आकर्ण्य प्रभुरिदमाह तां मृगाक्षीमस्मासु प्रियसवयास्तवाश्रितेषु ।
आदध्याद्यदि हृदयं तथाप्यधस्तात्तां कर्तुं वयमनुमन्महे कथं
भोः ।। १७६ ।।
अज्ञात्वा हृदयं प्रभोरनुचरस्तेनोन्नतस्थापित-
स्तावन्मात्रभवन्मदान्धहृदयो दृप्येत चेन्मानवः ।
तस्याधःकृतमस्तकस्य पतनं शृंगादिवाद्रेर्भवे-
देतां नीतिकथां विसृज्य स कथं वर्तेयमत्याहिते ।। १७७ ।।
तस्मान्न युक्तमस्माकं मर्यादोल्लंघनं घने ।
कथामेतादृशीं भूयो न विस्तारयितुं क्षमा ।। १७८ ।।
इति ब्रुवन्तं प्रौढिम्ना विजृंभितगुणोन्नतिं ।
प्रभुं प्रभाकरद्योतं प्राह सा मधुमानिनी ।। १७९ ।।
उपसंहर वाक्यानि वंचनार्थानि मादृशां ।
किमज्ञातमिहास्माभिरस्ति वृत्तं भवादृशां ।। १८० ।।
हृदयं तव मायाया रक्तं विटशिखामणे ।
अन्यथा सा कथं कुर्यात् त्वयि स्वात्मसमर्पणं ।। १८१ ।।
मायायास्तव चास्त्येव संबंधोऽनादिरल्लम ।
पृ० १०९) किं क्लेशयसि मे चित्तमनुगृह्णीष्व भो विभो ।। १८२ ।।
देवासुरमनुष्येषु सिद्धविद्याधरादिषु ।।
को वा मायामतिक्रम्य वर्तेत पुरुषो यदि ।। १८३ ।।
एवं दुर्दिनवर्षाभवाक्परंपरया तया ।।
पुनः पुनः प्रेर्यमाणः स वाचालितुमक्षमः ।। १८४ ।।
स्वप्रभावेण तां मायामायासयितुमुद्यतः ।
अंगीकुर्वन्निव तदा प्राह स्म स्मितपूर्वकं ।। १८५ ।।
वक्तव्यमुक्तमस्माभिस्तूष्णीमास्म ततः परं ।
त्वमेव वेत्सि मायायास्त्वदीयाया हृदि स्थितं ।। १८६ ।।
नारोपणीयो युष्माभिरपराधो मयि क्वचित् ।।
इतः परं मया किंचिदपि नोत्तरमीर्यते ।। १८७ ।।
इत्युक्तवन्तं सा प्रोचे हर्षगद्गदितं वचः ।
किमेतावदहो मां त्वं परितापितवानभूः ।। १८८ ।।
नारिकेलसमं तावद्धृदयं तव गायक ।।
अवद्यं मम चाभेद्यं विद्याविनयशेवधेः ।। १८९ ।।
विज्ञाप्य मम मायायै त्वदाचरितमीदृशं ।
भवन्तं कारयिष्यामि बुद्धिमन्तं न विस्मर ।। १९० ।।
भाव भाग्यवतां मध्ये भवानेव धुरि स्थितः ।
अथवाऽवश्यविद्यायां सिद्धो मन्त्रौषधादिभिः ।। १९१ ।।
पृ० ११०) कस्मिन्मुहूर्ते त्वद्यात्रा दैवज्ञेन निरूपिता ।
केषु वा शाकुनेषु त्वं पन्थानं प्राप्तवानसि ।। १९२ ।।
यतस्त्रिलोकमोहिन्या मायाया हृदयं भवान् ।
स्ववशं कृतवानद्धा दिनेनैकेन शीघ्रतः ।। १९३ ।।
इत्यानुकूल्यं प्रापयय स्वेनैव मधुमानिनी ।
कृतार्थयन्ती स्वात्मानं ययौ मायांगनां प्रति ।। १९४ ।।
तत्र मायावधूट्यास्तु ररंज हृदयं स्वयं ।
जुजृंभिरे तथांगानि कला ववृधिरे क्षणात् ।। १९५ ।।
यतश्चकंपे वामाक्षिभुजोरुस्तनमेकधा ।
अभीप्सितार्थलाभः स्यादिति निश्चितवत्यभूत् ।। १९६ ।।
तदा मुखविकासेन सखीं सा मधुमानिनीं ।
दृष्ट्वा समागतां हर्षादालिंग्य विवशाऽभवत् ।। १९७ ।।
अथ पुलकितगात्री प्राह तां राजपुत्री सुमुखि गमनकार्यं किं फलं
वा शलाटुः ।।
इति कृतबहुमाना जीवयन्ती वयस्यां प्रियसखि फलमेवेत्याह
निष्कृष्टमर्थं ।। १९८ ।।
पृ० १११) मधुमानिन्या मायादत्तपारितोषिककथनं ।
ततः क्रमादल्लमवाक्यरीतिमथ स्वकीयोत्तरचातुरीं च ।।
तदानुकूल्योचितनैपुणीं स्वां जगाद तस्याः पुरतः सखी सा ।। १९९ ।।
श्रुत्वा वृत्तान्तमेषा सकलमभिमतं सौख्यसिन्धौ निमग्ना
मायाऽस्यै षोडशोद्यच्छतसहितसहस्राढ्यसौवर्णमुद्रा ।
दीव्यत्कौशेयपट्टांबरमणिवलयस्वच्छमुक्ताललामा-
न्याशापूर्णं ददौ वाऽऽन्मधुरतरसुधाधारया प्लावयच्च ।। २०० ।।
तत्रत्यस्त्रीकदम्बं मधुयुवतिमथो तुष्टुवे बुद्धियुक्ती
त्वन्निघ्ने द्वे यतस्त्वं युवयुवतिजनद्वंद्वसौख्यानुकूल्ये ।
निष्णातेति प्रभूतं कलकलमथ तं तत्र तासां निवार्य
क्ष्माभृज्जानाति चेत्स्याद्विपदिति सकला गोपयामास सर्वं ।। २०१ ।।
तस्मिन्प्रसऽऽन्गे सकलावधूटी चातुर्यसंक्षेपितपूर्वरंगे ।
उदर्कलाभोदितसौख्यसांद्रा रात्रिं कथंचिद्विनिनाय माया ।। २०२ ।।
अथापरेद्युः स्मरबाणतप्तां सुखापयित्वा चटुवाग्भिरालिं ।
पृ० ११२) तया नियुक्ता मधुमानिनी सा ययौ निशायां गृहमल्लमस्य ।। २०३
।।
मधुरतरवचोभिस्तं प्रभुं प्रीणयित्वा रहसि कृतसपर्या
भोज्यवस्त्रानुलेपैः ।
अविदितनिजवृत्ता येन केनापि तन्वी शयनगृहममुष्या जारभावान्निनाय
।। २०४ ।।
अथ मायां दिव्यांबरभूषणमाल्यानुलेपतिलकाद्यैः ।।
विरचितसदलंकारामानीय तदंकमाश्वलंचक्रे ।। २०५ ।।
सख्यस्तत्तत्सेवाव्याजेनेतस्ततस्ततो जग्मुः ।।
केलीसदनकवाटं स्वयमथ मधुमानिनी पिधायागात् ।। २०६ ।।
अथ सा माया मन्मथभूतावेशाद्विजृंभितस्वान्ता ।।
अल्लममालिंग्य हठादियेष पुरुषायितक्रियां कर्तुं ।। २०७ ।।
तदा प्रभुर्नीलपयोदमध्ये विद्युल्लतेव द्युतिमात्ररूपः ।।
शक्यः समालोकितुमेव गाढं नालिंगितुं किंचिदपि स्म शक्यः ।। २०८ ।।
नीलं नभ इति लोकप्रवाद इव भाति सोऽस्तितामात्रात् ।।
तस्यां केलिरिरंसौ सगुणोऽपि स निर्गुणो यथार्थतया ।। २०९ ।।
पृ० ११३) प्रभौ रिरंसुमायानैपुण्यनैष्फल्यकथनम् ।
कुंदरदनारदांकुरनिष्पीतस्तदधरो मृषाभूतः ।।
तस्याश्चकार लज्जां निजमुखफूत्कारकारितामात्रात् ।। २१० ।।
हस्तेन हस्तमस्यामादित्सौ सोऽपि शून्यतां याति ।।
गगनग्रहणसदृक्षो भवति समक्षं तदा तदारम्भः ।। २११ ।।
दृढपीनकुचघटाभ्यां तदुरः संघट्टितुं यतेत यदा ।।
अम्बरपरिरंभणमिव स तदा दुःखाकरोति तां यत्नः ।। २१२ ।।
इति मदनमदान्धा भावितानेकबन्धा विरचितरतिनृत्या व्यर्थकृत्यैव
साऽभूत् ।।
अखिलजगति पूर्णोऽप्यल्लमो व्यक्ततीर्णो न
विकृतिमुपलेभेऽनंगतंत्रेऽतिरेफे ।। २१३ ।।
एषोऽल्लमस्य महिमा कथितो मुनींद्राः सर्वात्मनः सकलवेदशिखामयस्य
।।
शृण्वन्ति ये सततमेतमुदारभावास्ते यान्ति बन्धरहितं परमं पदं
तत् ।। २१४ ।।
पृ० ११४) इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां मायाविलासवर्णनगतिर्नाम चतुर्थोऽध्यायः ।।
पृ० ११५) अंल्लमवशंगतमायायाश्चिंतावर्णनम् ।
।। श्रीनंदिकेश्वराय नमः ।।
पंचमोऽध्यायः ।।
सूत उवाच-
श्रीसिद्धवीरगुरुमण्डलचक्रवर्तिपादाब्जभक्तिनिरताः परिभूतमायाः
।।
मोक्षार्थिनः परिहृतोर्जितकाममोहाः शृण्वन्तु सन्मुनिवराः
प्रभुलिंगलीलां ।। १ ।।
अहो चिदम्बरतनुः परेशः परमः पुमान् ।।
कथं क्रियासु किंचिज्ज्ञ इव मज्जति भो द्विजाः ।। २ ।।
वशीकृताखिलजना माया दुर्घटकारिणी ।।
वशं गतांऽल्लमस्यैवं परितापमवाप सा ।। ३ ।।
दृगादिगोचरास्तस्यास्तस्य देहेंद्रियादयः ।।
मायाया अपि मायात्वं गता हिमकला इव ।। ४ ।।
अथ संतप्तसर्वांगी भृंगीव कनकस्पृहा ।।
चिन्तामवाप तन्वंगी नितान्तान्तरदाहिकां ।। ५ ।।
भीरुर्वीरेण कलहे सन्नद्ध इव मन्दधीः ।।
पराजिताल्लमेनाहं वृथाभ्रमणमन्थरा ।। ६ ।।
हस्तेन हस्तमोष्ठाभ्यामोष्ठं पादं पदेन च ।।
देहेन देहं संबध्य न गृहीतुं क्षमाऽस्म्यहं ।। ७ ।।
अहो बत बतेत्युक्त्वा ग्लानाननसरोरुहा ।।
पृ० ११६) मुहुर्मुहुर्निःश्वसन्ती माया मूर्च्छामवाप सा ।। ८ ।।
ततो मोहाद्विनिष्क्रम्य क्रमान्निद्रामवाप्य सा ।।
तत्र स्वप्नमिवालोक्य प्रातः प्रबुबुधे ततः ।। ९ ।।
केलिगृहाद्विनिष्क्रम्य सखीनां पुरतः स्थिता ।।
खिन्ना विचलितापाऽऽन्गा जगाद स्वप्नमास्तिकाः ।। १० ।।
विलोक्यमाने पुरतः पुरा रूपमिव स्थितं ।।
प्रेम्णालिंगितुमुद्युक्तौ नास्त्यभिज्ञानमालयः ।। ११ ।।
अप्रज्ञानेन मनसि प्रतिकूले कथंचन ।।
मां न संगच्छते तावदाशैव मयि तस्य न ।। १२ ।।
सर्वावस्थासु मामेवमल्लमः स्थापयत्यलं ।।
किं करोमि क्व गच्छामि का गतिः प्राणधारणे ।। १३ ।।
एवमुक्तवतीं मायामाश्वास्याल्यः प्रियोक्तिभिः ।।
साधयामस्तवेष्टार्थमिति स्वप्नार्थमूचिरे ।। १४ ।।
अल्लमोऽयं महाभागो धीरोदात्तगुणोत्तरः ।।
वशं गमयितुं शक्यो नास्मादृशवधूशतैः ।। १५ ।।
किं तु भाग्यवशात्पुण्यामनुगृह्णाति चेत्स्वयं ।।
पृ० ११७) मायासख्योरुक्तिप्रत्युक्तिकथनम् ।
न लिप्यते पापकेन पद्मपत्रमिवांभसा ।। १६ ।।
अतः साहसिकं त्यक्त्वा तदनुग्रहकांक्षया ।।
प्रतीक्षणीयः समयस्ततः सोऽयं प्रसेत्स्यति ।। १७ ।।
वक्तृतात्पर्यसामर्थ्याल्लोके स्वप्नः फलिष्यति ।।
किंच स्वप्नोदितं सर्वं जाग्रति प्रातिकूल्यभाक् ।। १८ ।।
अतस्तात्पर्यमर्यादा तव स्वप्नस्य भामिनि ।।
त्वययाशा तस्य पूर्णास्ति स त्वां संगच्छतेतरां ।। १९ ।।
विस्रंभादस्मदुक्तार्थे स्थिरा भव वरानने ।।
इति तासां वचः श्रुत्वा माया प्रोवाच ताः पुनः ।। २० ।।
अलौकिकनटस्यास्य मायानाट्यं न वेद्म्यहं ।।
कथं वा ज्ञायते लोकैरलौकिककथेदृशी ।। २१ ।।
गृहीत इव दृश्यते न खलु गृह्यतेऽसौ कथं वशं गत इवेक्षते न
खलु कस्य वा प्रश्रितः ।।
विमोहित इवोह्यते सकलमोहकोऽस्मादृशां न मुह्यति सदेहवन्नटति हा विदेहो
ह्ययं ।। २२ ।।
पृ० ११८) स्मरवदनन्यस्तपदः स्मरकलया पूरितेन रूपेण ।।
स्मरबाणतप्तचित्ता वराननाः कर्तुमुद्यतो मायी ।। २३ ।।
त्रिदिवादिवावतीर्य क्षितितलमकलंकतेजसा नूनं ।।
चरति सुरयोनिरवनौ नहि नृर्णामीदृगद्भुतं नटनं ।। २४ ।।
अथवा पुरहर एष स्मरवैरी सिद्धपुरुषसम्राड् वा ।।
अहहा तथाऽपि कामो मामिह चूर्णीकरोतु बत तूर्णं ।। २५ ।।
इति माया कुसुमायुधमायागाढांधकारपतिताऽर्ता ।।
विलपन्ती क्रोशन्ती मूर्छन्तीति स्मरन्त्यदः सकलं ।। २६ ।।
बुध्यन्ती स्थास्यन्ती निपतन्ती भ्रमवशाद्वृषस्यन्ती ।।
विलुठन्ती चकृशन्ती भृशं तिरस्तत इतोपि धावन्ती ।। २७ ।।
एवं संकल्पाद्यैर्दशाविशेषैस्तताप सा माया ।।
तत्परितापनिवृत्त्यै सख्योऽल्लममेव भावयन्ति स्म ।। २८ ।।
द्वित्रा दिवसा एवं गतास्ततश्चावगम्य तद्वृत्तं ।।
गूढसखीमुखतस्तज्जननी मोहिन्यवाप तद्गेहं ।। २९ ।।
पृ० ११९) विदितवृत्तान्तया मात्रा कृतमायागर्हणम् ।
अर्धरात्रसमये समवेत्य प्रेक्ष्य तां निजसुतां प्रतपन्तीं ।।
विस्मिता बत बतेति जुगुप्सामाप्य लालनवचोभिरुवाच ।। ३० ।।
बाले किमित्थमौचित्यं विहाय विहसन्मुखं ।।
संशोष्य स्मरतप्तेव प्रलपन्ती कृशस्यऽहो ।। ३१ ।।
विनालंबनमुद्दीप्तिर्नोद्दीपनमृते रतिः ।।
नानुभावो रतिं हित्वा कुतः स्यात्सात्विकोदयः ।। ३२ ।।
अथवा जारभावेन कस्मिन् वा पुंसि ते मतिः ।।
लग्ना चेन्मानहानिः स्यादादौ मम ततस्तव ।। ३३ ।।
किंच त्वज्जनको राजा ममकारमहीपतिः ।।
न सोढुं शक्यते तेन ख्यातेनापयशोलवः ।। ३४ ।।
अंडीरे मण्डलाधीशपुत्रिके कुत्र ते गतः ।।
विवेकः कीरवाक्तुल्या विद्या तव कथं सहे ।। ३५ ।।
मादृशीषु महासाध्वीष्वहं लज्जाभरात्कथं ।।
मुखं पूर्णेन्दुसदृशं कलंकीकृतमावहे ।। ३६ ।।
किंचिद्वा यदि जारत्वमस्ति चेत्तद्बहिः स्फुरेत् ।।
पृ० १२०) न हि गोपयितुं शक्यं निंदिष्यंति समं समाः ।। ३७ ।।
त्वं किं करोषि किंकर्यः स्मरविद्योपदेशिकाः ।।
सख्यस्त्वां भ्रंशयन्त्येताः स्वयं भ्रष्टाः कथं सहे ।। ३८ ।।
इत्युक्त्वा तन्मुखी भूत्वा हंजे कथमिमां कथां ।।
उपदिश्य स्मरस्यास्यै कुतो निर्भीकतां गताः ।। ३९ ।।
अहो विटविटीद्वंद्वसंधानकृतनैपुणीं ।।
अभ्यस्य कुट्टिनीभावादुट्टंकितकलाकथाः ।। ४० ।।
रतिमुत्पाद्य कस्मिंश्चिद्रसपोषणतत्पराः ।।
कन्यां मदीयामन्यायात्प्रभ्रंशयितुमद्यताः ।। ४१ ।।
विदितं यदि किंचिदपि प्रभुणा भवतीरवती किमियं नु सखी ।।
श्रुतिना समदः कथमस्ति कथा मनुतिष्ठतु दुष्टतरालिजनाः ।। ४२ ।।
विद्यावन्तोऽपि भूपालाः काले माद्यन्ति निश्चितं ।।
कुपितश्चेदतो राजा स्त्रीवधं नावमन्यते ।। ४३ ।।
सकले सकलं ज्ञात्वा ग्राम्यकक्ष्यां किमाश्रिता ।।
परिहासादपि भ्रंशं शास्त्रान्न सहते विधिः ।। ४४ ।।
पृ० १२१) मोहिनीं प्रति सकलानामसखीवचनम् ।
इति सकलास्ताः सकलामविशेषविशेषतो रुषाऽऽक्षिप्य ।।
निह्नुवतीं मोहवतीं मोहिनिकामप्युवाच तां सकला ।। ४५ ।।
देवि त्वदुक्तमेवं तथापि तावन्न कुप्यसि त्वं चेत् ।।
कथये कुमारिकाया वृत्तं वृत्तस्तनोरुजघनायाः ।। ४६ ।।
नास्माकमत्र मन्तुः सन्तानस्यापि केन चागन्तुं ।।
मधुकेशालयशालामध्ये दध्यो दृशाऽल्लमं बाला ।। ४७ ।।
अर्चावसाने मम माययाऽसौ दृष्टो यदा त्वत्तनया तदादि ।।
विस्मृत्य सर्वं स्मरकार्मुकेभ्यः समर्पयामास निजं शरीरं ।। ४८ ।।
मर्मस्वशेषेषु कठोरमारप्रक्ष्वेलनक्षोदितसर्वगात्री ।।
प्राणान् बहिष्कृत्य निमेषमात्रप्रस्थापितानुच्छ्वसितीव माया ।। ४९ ।।
इत्थं व्यथासागरवारिमग्नामुद्धर्तुकामाहमभीरभीकां ।।
चकार गोप्यं स्मरकार्यसंधिं हठात्कथं वा कुरु मोहिनि त्वं ।। ५० ।।
भयं परित्यज्य भणामि सत्यं शृणुष्व राशि त्वमिहात्मजायाः ।।
पृ० १२२) मुखं कथं पश्यसि तावदेतत्कार्यं मया यद्यननुष्ठितं चेत्
।। ५१ ।।
एवं परिज्ञातवधूस्वभावा सा मोहिनी तत्सकलामुखाब्जात् ।।
आकर्ण्य पुत्रीविपदं हृदार्ता प्रेम्णा वयस्याः पुनराह तस्याः ।। ५२ ।।
हे अक्का यन्मयोक्तं कठिनतरवचस्तत्सहध्वं कुमारी-
द्रोहिण्या युष्मदीया खलु मम तनया येन केनापि तस्याः ।।
चातुर्येणाल्लमस्य स्मरसमरसुखं साधु सम्पादनीयं
मा भैष्टेष्टानुकूल्यान्मम दुहितृमणेः प्राणरक्षैव कार्या ।। ५३ ।।
शृणुध्वं महिलाः सर्वाः पशुपक्षिमृगादिषु ।।
उत्पाद्योत्पाद्य भाग्येन केनचिन्नरजन्मभाक् ।। ५४ ।।
नरजन्मसहस्रेषु दारिद्र्यं प्राप्य तत्पुनः ।।
केनचिद्राजपुत्रीत्वं प्राप्यते पुण्यकर्मणा ।। ५५ ।।
तत्र पुण्यविशेषेण योग्यभोगानुभावनं ।।
अस्ति चेज्जगतीमध्ये तत्स्याज्जन्मफलं महत् ।। ५६ ।।
अतो मत्प्रेमतनयामसंत्यज्य यथासुखं ।।
रतिसौख्यसुधावार्धौ संक्रीडयत सादरं ।। ५७ ।।
पृ० १२३) प्रभोरंगीकारे समायासर्वसखीनामन्योन्यविचारः ।
इत्युक्ता सकला राज्ञीं कृतांजलिरभाषत ।।
समयज्ञा मनस्तस्याः समाधापयितुं नयात् ।। ५८ ।।
अस्मत्सख्यास्तु मायायास्त्वया राज्ञा च चिंतितं ।।
यत्कार्यं तत्स्वतः सिद्धं भाग्यं सर्वत्र कारणं ।। ५९ ।।
श्रुत्वैतन्मोहिनी भूयः स्मितपूर्वमभाषत ।।
रहस्यमेतत्कर्तव्यं युष्माभिर्भावितात्मभिः ।। ६० ।।
निशायामेव सम्बन्धः कार्यो मायाल्लमार्ययोः ।।
न ज्ञायते यथा राज्ञा तथा चातुर्यमीर्यतां ।। ६१ ।।
इत्युक्त्वा सा ययौ माता ततोऽल्लमविभोः क्रियां ।।
विचित्रां फलसम्बंधरहितां तां विचार्य ताः ।। ६२ ।।
दृढाश्मताडनात्पाणिपीडान्यायाद्भयान्विताः ।।
मायया सह संमन्त्र्य रहस्यन्योन्यमूचिरे ।। ६३ ।।
भयलज्जे परित्यज्य विहर्तुं स्वेच्छया सदा ।।
कांक्षयास्माकमेवैष प्रयत्नो नाल्लमस्य हि ।। ६४ ।।
लक्ष्यालक्ष्यस्वरूपोऽयमल्लमो जनयन्रुचिं ।।
कामं न पूरयत्यद्धा सख्यः किं करवाम वै ।। ६५ ।।
पृ० १२४) क्व वावधिरभाग्यस्य पापः कामो हि दुर्भरः ।।
इति चिंताकुलास्वासु प्रौढवाचाऽल्लमोऽब्रवीत् ।। ६६ ।।
यूयं संघीभूय भूयो युष्मास्वेव किमण्यहो ।।
संमन्त्रयथ वक्तव्यं यथेदं ज्ञायते मया ।। ६७ ।।
तमूचुस्ताः सखे सर्वं ज्ञातमेव त्वया ननु ।।
तथाऽपि कथयिष्यामः श्रुत्वा प्रतिकृतिं वद ।। ६८ ।।
त्वदधीनात्मजेत्येतमर्थं श्रुत्वा तु मोहिनी ।।
मायाया जननी रात्राविंगितज्ञा समागता ।। ६९ ।।
प्राणप्रियामपि सुतामाक्षिप्य बहुधा च नः ।।
मन्दाक्षीकृत्य मायायाः पुरतो गर्हणोक्तिभिः ।। ७० ।।
जुगुप्सिता सुता प्रेम्णा गोपयध्वमिति क्रुधं ।।
उपसंहृत्य धिक्कृत्य गताऽस्माकं कथं रहः ।। ७१ ।।
अल्लमोऽपि सखीवाक्यं श्रुत्वा लौकिकवन्नटन् ।।
जगाद ननु भामिन्यः कथं मां गोपयिष्यथ ।। ७२ ।।
केनोपायेन मायाया अपराधो न भाव्यते ।।
राज्ञैव ज्ञायते चेद्वो रहस्यं सोढुमक्षमं ।। ७३ ।।
पृ० १२५) मायाविषये प्रभुसकलयोरुक्तिप्रत्युक्तिः ।
विचार्य साधु सकलं ब्रूत मां यद्धितं वचः ।।
इत्युक्ता सकलज्ञा सा सकलाऽल्लममब्रवीत् ।। ७४ ।।
भ्रातृभिर्भगिनीभिर्वा भार्याभिरथ वात्मजैः ।।
पुत्रिकाभिरथान्यैर्वा त्याज्या नीतिर्न भूपतौ ।। ७५ ।।
क्षोणीपतिं विना सर्वैर्विदितं कार्यमेव नः ।।
न रहस्यमिदं कर्तुं शक्यते येन केन वा ।। ७६ ।।
अतस्त्वयि गृहस्थे तु प्रियसख्या मम प्रभो ।।
यथा कथंचिद्राजाऽपि ज्ञास्यत्येव न संशयः ।। ७७ ।।
बहिर्निवेशनं गत्वा यथापूर्वं स्थिते त्वयि ।।
आह्वयिष्यामहे काले तदाऽऽगच्छ यथासुखं ।। ७८ ।।
भुक्त्वा मायां तोषयित्वा पुनर्गत्वा स्वमंदिरे ।।
एवं प्रवर्तसे चेत्त्वं गोपयिष्यामहेऽखिलं ।। ७९ ।।
इति ब्रुवाणास्तास्सर्वाः स्मयन्नाहाल्लमः पुनः ।।
विज्ञातुं तदभिप्रायं मायामपि विमोहयन् ।। ८० ।।
सकले न मृषा वच्मि विलासार्थमपि क्वचित् ।।
सत्यं ब्रवीमि सर्वज्ञे निश्चयं शृणु मे सखि ।। ८१ ।।
मायां विना न शक्नोमि किंचिद्वा वक्तुमंजसा ।।
पृ० १२६) स्वरूपमेव मे वेत्तुं न किंचिदपि शक्यते ।। ८२ ।।
न पाणिपादचलनं न श्रुतिः श्रोत्रवर्त्मना ।।
न कुत्राप्यस्ति शक्तिर्मे मनोदेहेन्द्रियादिषु ।। ८३ ।।
बहुना किं तनुर्नैव तिष्ठति प्राणमारुतः ।।
न संचरति तां त्यक्त्वा केवलात्मन्यवस्थिते ।। ८४ ।।
अमृत्वा मृतवद्भामि किं करोमि शुभानने ।
अतस्तामनुसृत्यैव वर्तनीयं सदा मया ।। ८५ ।।
इति तत्वार्थवक्तारमज्ञात्वा काममोहितं ।।
विज्ञाय सकला मोहात्पुनरल्लममब्रवीत् ।। ८६ ।।
किमिदमल्लम दैन्यवचोऽधुना मनसि धैर्यमवाप्नुहि मा कृथाः ।।
समयलंघनमिष्टफलं नृणां भवति भाग्यवशात्स्वयमंजसा ।। ८७
।।
मायायास्तव च भवेदृणानुबन्धो यद्येवं मुहुरुभयोः समागमः स्यात् ।।
तावत्त्वं मधुपतिभोगिनीसमाजे संतिष्ठ स्फुटमभिवादयन्मृदंगं
।। ८८ ।।
संकेतं तव च वदामि तत्र नित्यं मायेयं मधुपतिसेवने समेत्य ।।
सान्निध्ये तव किल शिक्षया नटन्ती सानन्दं रसकलया करिष्यते त्वां
।। ८९ ।।
पृ० १२७) मधुकेशालये प्रभोः स्थितिकथनम् ।
यदि भवति रिरंसा मादनोन्मादहेतोः परमरहसि कृत्वा तत्र
तत्रोपभोगं ।।
विषयसुखसमुद्रे डोलयात्मानमेकं मम हि कुशलता ते साधनं
सर्वकार्ये ।। ९० ।।
प्रभुरिति सकलायास्तावदाकर्ण्य वाक्यं शुभमिति मधुकेशस्यालयं
प्राप्य तस्थौ ।।
अथ नरपतिपुत्री साऽल्लमस्नेहपाशग्रथितहृदयकोशा तद्वशं प्राप
माया ।। ९१ ।।
मायाविलासकथनं श्रुतमेतदार्यास्सर्वं भवद्भिरनुमोदिततत्वभावैः
।।
शृण्वन्ति ये सततमीश्वरदत्तचित्तास्ते यान्ति शांभवपदं प्रविमुच्य
मायां ।। ९२ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
प्रभुकृतमायाविलासनिरसनचातुर्यवर्णनगतिर्नाम पंचमोऽध्यायः ।
पृ० १२८) श्रीनंदिकेश्वराय नमः ।।
षष्ठोऽध्यायः ।
सूत उवाच-
सिद्धवीरेश्वराचार्यसार्वभौमपदाम्बुजे ।।
भक्ताश्चिदमलस्वान्ताः प्रभोः शृण्वन्तु सत्कथां ।। १ ।।
इत्थं प्रभोर्वशं गत्वा माया दुर्घटकारिणी ।।
नृत्यव्याजेन तं नित्यं प्रावर्तत समाश्रिता ।। २ ।।
एवं स्थितायां रुद्राणी कदाचिद्विमलाभिधां ।।
आहूयेष्टवयस्यां तामुवाच वचनं रहः ।। ३ ।।
सखि मे तामसी माया प्रभुमल्लममात्मनः ।।
विलासैर्विषयासक्तं करिष्यामीति गां गता ।। ४ ।।
तत्राल्लममहिम्नेयं स्वयमेव वशीकृता ।।
विभीषयितुमुद्युज्य स्वयं भीतेव भाति मे ।। ५ ।।
स्वकार्यं सर्वमुत्सृज्य विस्मृत्यात्मानमेव सा ।।
अस्मदाज्ञामिवोल्लंघ्य वृथा तद्वशगाऽभवत् ।। ६ ।।
अतस्त्वं भूतलं गत्वा विमले संप्रबोध्य तां ।
त्वया सहैव मन्मायां समानय ममान्तिकं ।। ७ ।।
एवं गिरिजयाऽऽज्ञप्ता बाढमित्यभिवाद्य तां ।
संकल्पात्प्राप नगरीं ममकारमहीपतेः ।। ८ ।।
पृ० १२९) पौरजनकृतविमलासौंदर्यवर्णनम् ।
तत्र सा विमला तन्वी सौंदर्यरसशेवधिः ।
अदृष्टपूर्वा ददृशे पौरैरायतलोचनैः ।। ९ ।।
नैल्यसर्वस्वधम्मिल्लं चपले चारुलोचने ।
सुधास्रावार्द्रमधरं भुजकल्पलते मृदू ।। १० ।।
विद्युन्निभामंगयष्टिं समपीनपयोधरौ ।
ऋज्वीं रोमावलिं लक्ष्यां वेपमानावलग्नकं ।। ११ ।।
नितम्बबिंबं कंदर्परथांगजयमंगलं ।
रंभास्तम्भोपमावूरू जंघे मदनकाहले ।। १२ ।।
रज्जत्किसलयोल्लासि पदद्वंद्वं कनन्नखान् ।
दृष्ट्वा तस्याः पुरजनाः कौतुकं प्राप्य तुष्टुवुः ।। १३ ।।
अहो जगदतीतेयं का वा कमललोचना ।
वियुक्ता पंचबाणेन प्राप्ता वा भूतलं रतिः ।। १४ ।।
अलौकिकी वा कान्तेयमचंचलतडिल्लता।
भूचरी वाथ कल्याणी पूर्णेन्दो रुचिरा कला ।। १५ ।।
चेतनेयं पताका वा स्त्रीरूपा पुष्पधन्वनः ।
प्रमदाकृतिमापन्नः शृंगाररस एव वा ।। १६ ।।
पृ० १३०) इति स्तुवन्त्यां सा पौरजनतायां विलोकिता ।।
मायया मधुकेशस्य निन्ये निजगृहं गृहात् ।। १७ ।।
विविधैरुपचारैस्तामभ्यर्च्य विनयान्विता ।
विमलां तोषयामास माया विमलया गिरा ।। १८ ।।
कस्मादागमनं देशात्किं नाम तव मंगलं ।
किमेष्यन्तीह संप्राप्ता मदीयाद्भाग्यगौरवात् ।। १९ ।।
प्रियसख्या इव तव स्वान्तं स्निह्यति दर्शनात् ।।
इत्युक्ता विमला प्रोचे मायां संबोधयन्त्यलं ।। २० ।।
माये रहस्यवचनं सावधानेन मे शृणु ।
अस्मदीयजना एव तिष्ठन्त्वत्र तवांतिके ।। २१ ।।
शिवस्तुरीयः सर्वज्ञो भूमावल्लमनामतः ।।
स्वच्छन्दमवतीर्यार्ये वर्ततेऽत्र शिवालये ।। २२ ।।
अलौकिकचमत्कारैः संवादयति मर्दलं ।
तद्वशीभूय माया मे कार्यं विस्मृतवत्यभूत् ।। २३ ।।
अनिर्वाह्यप्रतिज्ञाऽपि त्यक्तलज्जा निराकुला ।
तत्रैव वर्तते भूयो नागच्छति ममान्तिकं ।। २४ ।।
पृ० १३१) अज्ञातस्वकार्यांमायामुद्दिश्य विमलोक्तिनिरूपणम् ।
अतस्तत्सन्निधिं गत्वा संप्रबोध्य विवेकतः ।।
मत्सन्निधिं प्रापय तामित्याज्ञप्ताऽहमंबया ।। २५ ।।
तत्प्रेषणवशादेव त्वामानेतुमिहागता ।
इत्युक्ता विमलां प्राह माया विस्मितमानसा ।। २६ ।।
क्वाऽहं क्वचांबिका देवी क्वानुगृह्णाति मानुषीं ।
अल्लमस्य वशं नीतां कथं जानाति मां स्वयं ।। २७ ।।
आश्चर्यमिव मे भाति सर्वं ब्रूहि यथार्थतः ।
उक्तेत्थं विमला प्रोचे मायामज्ञातनिष्ठुरां ।। २८ ।।
अचिंत्याद्भुतशक्त्या त्वं प्रभोरीशस्य मायया ।
तिरोहितात्मविभवा सर्वं विस्मृतवत्यसि ।। २९ ।।
कियती त्वं हरिब्रह्मशक्राद्याश्च शिवाज्ञया ।
अवतीर्य क्षितौ पूर्वमज्ञातनिजशक्तयः ।। ३० ।।
प्राकृता इव भार्यादिवियोगैरखिदन् खलु ।
स्वात्मानमेव नाजानन् बहुना किं शृणु प्रिये ।। ३१ ।।
न ज्ञायते यदि स्त्रीभिः स्वरूपं किं तदद्भुतं ।
इत्युक्त्वाऽऽत्मप्रबोधार्थं मायायाः स्पष्टमाह सा ।। ३२ ।।
शिवे सभायामात्मेशमल्लमप्रभुमादरात् ।
पृ० १३२) सर्वोत्तमत्वभावेन संस्तुवत्यद्रिनंदिनी ।। ३३ ।।
असूयया कियांस्तस्य महिमेति निरस्य तं ।
मदीयया माययैव विजित्याकर्षयामि तं ।। ३४ ।।
इति प्रतिज्ञयाऽत्र त्वामानिनाय महेश्वरी ।।
विस्मृता किं स्मर स्वान्ते वार्तामेतामतिस्फुटं ।। ३५ ।।
जातिस्मरत्वं संप्राप्य तावन्मात्रेण सा सखीं ।
विमलां तां बहूकृत्य प्रीत्या प्रोवाच भो द्विजाः ।। ३६ ।।
विमले विमलात्मा त्वं त्रिमलक्षयकारिणि ।।
यतो भवत्संगमतो ममाज्ञानं विनश्यति ।। ३७ ।।
कलाभिर्वर्धमानं हृत्कमलं मम रोचते ।
स्थितिश्च चलनं हित्वा निश्चला भवति प्रिये ।। ३८ ।।
अन्तश्चिन्तास्समस्ताश्च विनष्टा भ्रांतयो गताः ।
किमाश्चर्यकरं सर्वमिदं सज्जनसंगतेः ।। ३९ ।।
यदा सज्जनसंगः स्यात्स्वरूपं ज्ञायते तदा ।
अतो मज्जननी साक्षात्त्वमेव न तु भामिनी ।। ४० ।।
आस्तां तावत्प्रभोस्तस्य कथां कथय भामिनि ।
पृ० १३३) मायामुद्दिश्य विमलोक्तवल्लिगावीनगरवर्णनम् ।
तत्स्वरूपप्रभावादीन् श्रोतुं कौतूहलं हि मे ।। ४१ ।।
इति संप्रार्थिता प्रोचे विमलाऽल्लमसत्कथां ।
यथाक्रमं यथाशास्त्रं पूर्वैः पूर्वतरश्रुतां ।। ४२ ।।
विमला-
शृणु माये वनवसी वल्लिगावी पुरद्वयं ।
क्षोणीवध्वाः स्तनद्वंद्वमिव संशोभतेतरां ।। ४३ ।।
वल्लिगावी तयोः कल्पवल्लीवेष्टार्थदायिनी ।
भोगभाग्यावहा नृर्णामनौपम्यगुणाधिका ।। ४४ ।।
सकलसुजनसेव्या सम्पदौन्नत्यभव्या निगमनियमनश्रीदानसेवाधुरीणैः
।
द्विजपदजसमाजैरंचिता पूर्णकामैः सुचरितवननीवी शोभते
वल्लिगावी ।। ४५ ।।
तत्राखिलश्रीनिलयौ महेशध्यानावधानोदितदिव्यभावौ ।
अकामनिष्कामसदाप्तकामनिजात्मकामौ मुनिदम्पती स्तः ।। ४६ ।।
पुरुषो निरहंकारः सुज्ञानाम्बा तदंगना ।
तयोः को वेत्ति माहात्म्यं नाम्नैव ज्ञायते बुधैः ।। ४७ ।।
पृ० १३४) तौ दम्पती
सकलसम्पदनूनभोगभाग्यानुभूतिभिरुपात्तविरागभावौ ।
सन्तानहैन्यजनितांतरनंतचिन्ताक्रान्तौ परस्परममंत्रयतां निशान्ते
।। ४८ ।।
मानहीनवनिता न गणेया दानहीनधनिताऽपि तथैव ।
ज्ञानहीनजनमूढसपर्या ध्यानहीनजपिताऽपि तथा स्यात् ।। ४९ ।।
तद्वदेव सुतहीनजनश्रीश्चंद्रिका वनगतेव निरर्था ।
सूनुना सुमतिना भवितव्यं नौ ततो भवति नौः स हि तर्तुं ।। ५० ।।
अपुत्रस्य न लोकोऽस्तीत्याह च श्रुतिरादरात् ।
इत्युक्तवन्तं भर्तारं सुज्ञानाम्बा ततोऽब्रवीत् ।। ५१ ।।
भर्तः क एवं एष संकल्पः प्राज्ञस्य तव जायते ।
मृगतृष्णायितानंतजगज्जालैकसंसृतेः ।। ५२ ।।
सुतैः सतीभिर्धनराशिभिर्वा गृहैर्गजाश्वैर्मणिभूषणैर्वा ।
असंगचैतन्यनिरंकुशस्य पुंमात्ररूपस्य चिदात्मनः किं ।। ५३ ।।
मृषा विलासाः खलु मायिकास्ते प्रपंचरूपाः परमार्थतो न ।
अनित्यता तेष्वखिलैश्च दृष्टा नित्याऽनवद्या शिवभक्तिरेका ।। ५४ ।।
पृ० १३५) पुत्रार्थं सुज्ञानांबानिरहंकारकृतानुष्ठाननिरूपणम् ।
अनादिमायान्धतमिस्रलेपात्स्वरूपविज्ञानपथे विनष्टे ।
स्वकण्ठचामीकरवच्छिवत्वं जीवो न जानाति गतः पशुत्वं ।। ५५ ।।
अतः शिवज्ञानमवाप्य कामैर्भक्तिः शिवे संततधारयैव ।
धार्या न चान्यत्समपेक्षणीयं पुत्रादिकं सर्वमिदं वृथान्ते ।। ५६ ।।
श्रुत्वा साध्वीवचनं निरहंकारोऽपि लोकरक्षार्थं ।
तनयं विज्ञानघनं कलये शिवमित्यमन्यत स्वान्ते ।। ५७ ।।
अथ तपसा सर्वेश्वरमाराध्य तमेव पुत्रयिष्यामि ।
देवाश्चायन्नग्रे तपसा तामेव देवतामिष्टां ।। ५८ ।।
ऋषयः स्वरन्वविंदन् तपसाऽरातींस्तथानुदन् पूर्वे ।।
सर्वं प्रतिष्ठितं तपसीति श्रुतिराह परमता बुद्ध्या ।। ५९ ।।
इति संकल्प्य महात्मा जपयज्ञं तन्निदानमित्यालोच्य ।
संध्याजपनयमपसृज्यैकान्तं प्राप भार्यया सह सः ।। ६० ।।
तत्रागमोक्तविधिना परिशोध्य भूमिं व्याघ्राजिने कुशगते
सशितोर्ध्वचित्तौ ।
पृ० १३६) तौ दंपती समुपविश्य शिवव्रतस्थौ पद्मासनं
रुरुहतुर्नियमैर्यमैश्च ।। ६१ ।।
बुद्ध्या निरुद्ध्य सहसाखिलचित्तवृत्तीर्भूतानि पंच परिशोध्य
तदीयबीजैः ।
जित्वेंद्रियाण्यथ करस्थनिजेष्टलिंगे दृष्टिं निधाय
परमात्मपदात्तलक्ष्यौ ।। ६२ ।।
आकर्ण्य नादमथ चित्प्रणवान्तराले संधाय बुद्धिमपहाय विचित्रनादान्
।
प्राणं त्वपानमरुता सह योजयित्वा संबोध्य सुप्तकुलकुण्डलिनीं
त्रिकोणे ।। ६३ ।।
तस्माद्विभिन्नमुखपश्चिमनाडिकान्तर्मार्गेण षट्कमलभेदकृतोर्ध्वगत्या
।
स्थैर्येण वायुमुपवेश्य रहस्त्रिवेणीशृंगाटकान्तरमनःकमले
घटित्वा ।। ६४ ।।
उत्कील्य तत्र हृदयं बहिरंतरात्तं विस्मृत्य भेदमथ
पूर्णसुधाम्बुराशौ ।
सच्चिद्घने परशिवायितदिव्यभावे स्वानंदकेलिरसतृप्तिमवापतुस्तौ ।। ६५
।।
सौख्येन तेन परिपूरितयोस्तयोः क्षुत्तृष्णाविमोहमृतिशोकजरा न च स्युः
।
रात्रिंदिवं च न हि नो गणरात्रबोधः सर्वात्मभावितधियां हि न
भेदगन्धः ।। ६६ ।।
पृ० १३७) श्रीमदल्लमप्रभोरवतरणवैचित्र्यवर्णनम् ।
इत्थं तयोः परशिवात्मजकांक्षयैव लोकोत्तरव्रतपरायणयोस्तदानीं
।
आरूढयोगपथयोः करपद्मसंस्थलिंगप्रभेव हृदये स्म घनीबभूव
।। ६७ ।।
इत्युत्प्रेक्षाविषयमभितः प्रस्फुरत्सर्वतेजो जेतृब्रह्माभिधमभयदं
शुद्धतेजः समग्रं ।
दंपत्योर्हृत्कमलकुहरे सद्गुणं निर्गुणं तत्प्रादुर्भूत्वा
स्फटिकविशदं सर्वपूर्णत्वमाप ।। ६८ ।।
तदनुविमलतेजस्तत्तयोरग्रभागे बहिरहह मिलित्वा प्रस्फुरद्विग्रहं सत् ।
पृथगिव ददृशे स्म प्राप्तनिद्रान्तभाजोः सुत इति
मतिमात्मन्यावहद्दीप्यमानं ।। ६९ ।।
सुज्ञानाम्बानिरहंकारौ दृष्ट्वा महाद्भुतं तेजः ।
सुततामवाप शिव इति परमानंदामृतांबुधौ मग्नौ ।। ७० ।।
देवाः प्रसूनवृष्टिं दिष्ट्या कल्पद्रुमोद्भवां ववृषुः ।
नेदुः सुरदुंदुभयो ननृतुर्गन्धर्वकन्यकाप्सरसः ।। ७१ ।।
प्रमथाः प्रमदोत्कर्षात्पेठुः सिद्धान्तहृद्यगद्यानि ।
हरिविधिशक्राद्याश्च स्वात्मानुभवेन हर्षमाणाः स्युः ।। ७२ ।।
प्रभौ समस्तस्य तदावतीर्णे जगद्धितायाखिलभूमिभागे ।
पृ० १३८) स्थाणुव्रजाः पल्लविता बभूवुर्वंध्याश्च गावो
दुदुहुर्घटोध्न्यः ।। ७३ ।।
उन्मील्य चक्षुर्निरहंक्रियाख्यो मुनिर्गुहेशं स सुतायमानं ।
दृष्ट्वा निजान्तः पुनरप्यवेक्ष्य विभावयामास तयोस्तदैक्यं ।। ७४ ।।
अथात्मजायामखिलान्तरस्थं निजात्मजीभूतमवेत्य चित्ते ।।
सुविस्मितां प्रेक्ष्य समाहितात्मा चिरं निजानंदमयो बभूव ।। ७५ ।।
अयं किमात्मातपतीक्ष्णभावं विसृज्य सद्मागतपद्मबंधुः ।
किमिंदुरुत्सृज्य हिमं सुधात्मा किमग्निरानंदमयोऽस्त्यदाहः ।। ७६ ।।
इत्थं मुनिः स्वात्मगतं विचिंत्य शिवात्मतामात्मनि निश्चिकाय ।
पतिव्रता सा तनयं विभाव्य शिवं स्रवत्क्षीरकुचा बभूव ।। ७७ ।।
अथ पुलकितगात्र्यां पुत्रमालिंग्य कक्षे कलयितुमुपसृत्योत्कंठितायां
जनन्यां ।
करचरणमुखांगोपांगसंगीव बालः सुललितमुपदृष्टः
सूर्यकोटिप्रभावान् ।। ७८ ।।
तदनु मृदुलहस्तांभोजयुग्मं प्रसार्य प्रमुदितहृदि
लीलाबालमाराद्गृहीतुं ।
पृ० १३९) भार्यांप्रति निरहंकारकृताल्लमामानुषबालगुणवर्णनं ।
गगनमिव न किंचित्स्प्रष्टुमासीत्स शक्यः किमिव पुनरवाप्तुं
गाढमालिंगितुं वा ।। ७९ ।।
किमिदमिति तया सुज्ञानया सोऽनुयुक्तः पतिरधिगततत्वः प्राह तां
स्मेरवक्त्रः ।
सुत इव परमात्मज्योतिराभाति यन्नौ नहि सति सुतमात्रं विद्धि
सर्वान्तरस्थं ।। ८० ।।
न शक्यते वर्णयितुं प्रियेऽयं साकार इत्येव निराकृतिर्वा ।
स्वयंप्रभोऽसावकलः कलावाननादिरादिः पुरुषः पुराणः ।। ८ ।।
नाजात इत्याद्रियते न जातो न हेतुदृष्टान्तसमन्वितः स्यात् ।
न निर्गुणो नापि गुणी परात्मा बालो न चाबाल इति प्रतीतः ।। ८२ ।।
न भूमिरापोऽप्यनलोऽनिलो द्यौः स्प्रष्टुं क्षमन्ते परमार्थमेनं ।
नावच्छिदः कालदिगादिभिः स्यादस्यात्मनामात्मन ईश्वरस्य ।। ८३ ।।
अणोरणीयान्महतो महीयान् यः कारणं कार्यमपि स्वयं स्यात् ।
तथा स्वयं कारणकारणाख्यो बोद्धुं न शक्यो न न बुध्यते च ।। ८४ ।।
संतीव तस्याप्यखिलेंद्रियाणि न चेंद्रियार्थेषु गुणास्तदीयाः ।
पृ० १४०) न माययाऽसौ क्रियते स्ववश्यो मायां वशीकृत्य जयत्यसऽऽन्गः
।। २५ ।।
मर्माणि सर्वाण्यपि वेत्ति योऽसौ तन्मर्मवेत्ता न हि योऽपि कोऽपि ।
सौंदर्यसारः स्वयमीक्षणीयः स्प्रष्टुं न शक्यो गगनायमानः ।। ८६
।।
वेदैरनेकैरखिलैश्च शास्त्रैर्वेत्तुं न शक्यो न हि तैरवेद्यः ।
अजाच्युतेंद्रादिसुरैरसाध्यस्तैः साध्वि सोऽसाध्यतयैव साध्यः ।। ८७ ।।
जितेंद्रियाणां नियमेन नित्यं तपस्यतामेष मुनीश्वराणां ।
संलक्ष्यते कीलितवन्मनःसु न कील्यते सर्वगतो गुहेशः ।। ८८ ।।
स्तनंधयाण्डीरशकृत्करा ये सुतास्तु योनिद्वयसन्धिलग्नाः ।।
भवन्ति लोके शतशः पशूनां षडूर्मिबद्धाः सुखयन्तु तांस्ते ।। ८९
।।
सुतोऽयमस्माकमलौकिकत्वान्न यस्य कस्यापि च भूतभावि ।
कृतार्थतायै गुरुरावयोस्तु प्रत्यक्षतामेति दृशोर्गुहेशः ।। ९० ।।
इति प्रियामात्मभुवः स्वभावं निवेदयामास पतिस्ततस्तौ ।
पृ० १४१) प्रभोर्नाममीमांसा ।
स्तुत्वा शिखाभिर्निगमागमानां प्रणेमतुर्भक्तिरसानुभावात् ।। ९१ ।।
ततो निजानंदमयाम्बुराशौ निमज्य चोन्मज्य सतीपती तौ ।
अनुज्ञया तस्य कुमारजिष्णोः पुत्रोत्सवं श्रावयतः स्म पुर्यां ।। ९२ ।।
अथागतेभ्योऽखिलयाचकेभ्यो यथेष्टमिष्टार्थचयं वितीर्य ।
माता पिता चास्य सुतस्य नाम कर्तुं मनस्येवममंत्रयेतां ।। ९३ ।।
न नामरूपे न तनुक्रिया वा प्रभोरमुष्यास्ति किमस्य नाम ।
भवेत्त्रिलोकव्यवहारयोग्यं श्रुतिप्रसिद्धं श्रुतिमौलिमौलेः ।। ९४ ।।
संसारिता नास्य विचार्यमाणे नासावसंसारिपदेन सिद्धः ।
सदा शरण्यः शरणार्थिनां यद्वात्सल्यशाली शरणेषु नित्यं ।। ९५
।।
मर्त्यो न चायं महितोऽपि मह्यां यतो न वर्णाश्रमपाशबद्धः ।
निवारणीयाः खलु सर्वधर्माः श्रुत्या परे ब्रह्मणि केवलेऽस्मिन् ।। ९६ ।।
तस्मादलं शब्दनिषेधकार्थमाशब्दयोगाच्च भवेदलंमा ।
संज्ञाप्यलंमाप्रभुरित्यजस्रं भूयाज्जनाज्ञाननिरोधिकेयं ।। ९७ ।।
पृ० १४२) यद्वाऽल्लमोऽयं प्रथितः सभायां
भूयादकाराक्षरभावभाजां ।
अनुग्रहः श्रीकलनान्महेशो गुहेश्वरः श्रीगुरुरूपधारी ।। ९८ ।।
हठाद्य एषोऽल्लम इत्यमोघं पठेत नामाक्षरमादरेण ।
कठोरसंसारगिरिं विभिद्य लुठन्निजानंदनिधौ सुखी स्यात् ।। ९९ ।।
इति विचार्य गुरू त्रिजगद्गुरोर्दधतुरल्लम इत्यभिधां शुभाम् ।
प्रभुरथाल्लमदेवमहेश्वरः शिशुरिवाप तथाविधखेलनं ।। १०० ।।
नटति कुत्र च कुत्र च गायति क्व च विलासवशात्परिधावति ।
क्व च निमील्य दृशौ भृशमीक्षते क्व च परामृशते निखिलं जगत् ।।
१०१ ।।
क्व च बुधप्रकरैः स्वयमीक्ष्यते स्तुतिभिराद्रियतेऽधिकगौरवात् ।
क्व च कलाकुशलैरनुभाव्यते क्व च पितृप्रमुखैरुपलाल्यते ।। १०२ ।।
क्व च बुधाननुगत्य सकृच्छ्रुतिस्मृतिपुराणशुभागमसत्कलाः ।
क्षणमधीत्य पठत्युचितस्वरैः स्वयमपाठयदन्यवटुव्रजान् ।। १०३ ।।
पृ० १४३) प्रभोरलौकिकबाललीलावर्णनम् ।
सकलनूत्नपुरातनसत्कृतिव्रजमधीत्य तदर्थमवेत्य सः ।
अपि च शास्त्रिगणान् पुरमागतानुगतः परिशीलयति स्म तान् ।। १०४ ।।
जगति शास्त्रमतोऽधिकमस्ति वा किमथवात्र न चेति विचार्य तैः ।
न परमित्युदितोऽल्पमिति ब्रुवन् पितृकृताद्भुतशान्तिरभूत्प्रभुः ।। १०५ ।।
अहह दृष्टिरभूदिति मातृका तमभिनीय गृहान्तरडोलनं ।
निटिलकेऽस्य मषीतिलकं दधौ त्रिरपि भूतिमधूलयदंगके ।। १०६ ।।
अथ शिशूननुसृत्य विभुः स्वयं शिशुरिवाप्रतिमानविहारवान् ।
अभिनयन्निगमार्थमथाऽऽत्मनां क्वचिदगोचरगोचरतां ययौ ।। १०७ ।।
अथ फणीन्द्रपुरं प्रविशन् क्षणात्फणिफणाग्रमणीन् प्रतिगृह्य सः
।
पुनरुपेत्य निजार्भकखेलने द्युमणिभाः फणति स्म च तैः प्रभुः ।। १०८
।।
तदनु शक्रपुरं प्रविशन्क्षणात्तदुपकण्ठवने कुसुमादिकम् ।
समनुभूय मरुत्सरिदाप्लुतस्तदणिमादिगुणैः पुनराययौ ।। १०९ ।।
पृ० १४४) क्व च रवीन्दुयुगं परिगृह्य तद्रचिततालमनृत्यदयं प्रभुः ।
लसदुरोद्धृतवर्तुलतारकाकलितमौक्तिकहारललद्गलः ।। ११० ।।
क्व च सुमेरुगिरिं परिवर्तयन् करयुगे नवनीतघटीमिव ।
धृतकुलाचलकन्दुककेलिभिः स विजहार महाद्भुतवैभवः ।। १११ ।।
क्व च न पुष्पवदुज्वलमण्डलद्वयमसौ परिगृह्य सुमेलयन् ।
फणिपतिं परिवेष्ट्य तदंतरे रचितचाक्रिककेलिरभूत्प्रभुः ।। ११२।।
अयमहो ननु बालक इत्यलं त्रिभुवनाद्भुतलीलतया प्रभुः ।
सकलकारणकारणमीशितेत्यमनुताखिललोकजनावलिः ।। ११३ ।।
श्रुतिमूलकंदमृषिवृंदचिरभाग्यं हृदयारविंदगतमिंदुधरमाद्यं
।
हृतनादबिंदुकलमूर्ध्वचिदभिन्नं परिपूर्णमेतदिति भावयत तेजः ।।
११४ ।।
इति विद्वदीरितमुदारमधुरार्थं वचनं निशम्य पितरौ मुदितभावौ ।
कृतकृत्यभावमुपगत्य हृदयाब्जे निजभागधेयमिति तुष्टुवतुरेनं ।। ११५
।।
पृ० १४५) सुज्ञानांबानिरहंकारकृताल्लमस्तुतिनिरूपणम् ।
जय जय जयाल्लम भवाब्धितरणे नौर्जय जय जयाल्लम कृतार्थय सदा
नौ ।
जय जय जयाल्लम जगद्विनुतकीर्ते जय जय जयाल्लम चिदात्मनिजमूर्ते ।।
११६ ।।
जय जय जयाल्लम परेश्वर सदात्मन् जय जय जयाल्लम परात्पर चिदात्मन्
।
जय जय जयाल्लम परामृतसुधाब्धे जय जय जयाल्लम
कृतैक्यशुभलब्धे ।। ११७ ।।
जय जय जयाल्लम सुभक्तमणिसिन्धो जय जय जयाल्लम विरक्तजनबन्धो ।
जय जय जयाल्लम चिदंबरसुधांशो जय जय जयाल्लम हृदम्बुजरिरंसो
।। ११८ ।।
मज्जनक मत्सनक मत्कनकराशे मद्धृदय मत्सदय मद्गुरुवरेण्य ।
मद्विरद मद्वरद मज्जननमौले मद्विभव मत्प्रभव मत्प्रभुवतंस ।। ११९
।।
पृ० १४६) मत्करुण मत्करण मत्कमलभानो मद्वदन मत्सदन मद्विदित सूनो
।
मन्मुकुर मन्मुकुट मन्मनसिजारे मत्कुतुक मत्कतक मत्कथित सूरे ।। १२० ।।
मन्नाथ मद्गुरुस्वामिन् मदभीष्टप्रदायक ।
मल्लिंगमूर्ते मत्कीर्ते प्रसीदास्मान्प्रभोऽल्लम ।। १२१ ।।
इति संस्तुत्य संस्तुत्य जननीजनकावुभौ ।
नत्वा सद्भक्तिभावेन प्रार्थयामासतुः सुतं ।। १२२ ।।
अज्ञानध्वान्तमखिलमपसार्य कृपानिधे ।
प्रदर्श्य सुज्ञानपथं रक्षास्मान् शुभलक्षण ।। १२३ ।।
इति विज्ञापितो भक्त्या पितृभ्यां जगतः पिता ।
अनुकम्पावशादेतावल्लमप्रभुरब्रवीत् ।। १२४ ।।
हे मातर्हे पितः श्रुत्या युक्त्या च हृदि निश्चितं ।
रहस्यमेतत्तत्वार्थं श्रूयतामवधानतः ।। १२५ ।।
इष्टलिंगे स्थिरां दृष्टिमधिष्ठायान्यनिस्पृहः ।
दुष्टसंसारविभ्रान्तिमपजह्याद्दृढव्रतः ।। १२६ ।।
पृ० १४७) पित्रोः प्रभुकृतत्रिविधलिंगाराधनोपदेशः ।
प्राणलिंगे दृढं भावं स्थिरीकुर्यात्प्रयत्नतः ।
प्राणायामसुखस्वापे प्लवमानो निरंतरं ।। १२७ ।।
भावलिंगे शिवाद्वैतपरितृप्त्योन्मना भवेत् ।
इयमेव परा काष्ठा परमार्थानुभावने ।। १२८ ।।
इत्युन्मनीकीलकमल्लमेशः प्रीत्या पितृभ्यामुपदिश्य सारं ।
सुज्ञानबोधामृतसिन्धुमग्नौ कृत्वा गुरू सर्वगुरुश्चचार ।। १२९ ।।
इति गिरितनयायै शंकरः पंकजास्यै सकरुणमुपदिश्य प्रीणयामास
धन्यां ।
तदवगतमिहोक्तं यन्मया सर्वमेतत्कलय मनसि भद्रे कार्यमीषत्करं नो
।। १३० ।।
वच इति विमलायाः स्पष्टमाकर्ण्य माया कथमिति
निजकार्यव्यर्थतायास्तताप ।
पुनरपि मुनिवर्याः शम्भुमायावृता सा वशयितुमिममाशापाशबद्धा
बभूव ।। १३१ ।।
प्रभुचरितममोघं यन्मया श्रावितं वस्सकृदपि दृढभक्त्या ये
पठन्त्यामनन्ति ।
पृ० १४८) इह सकलसुखानामाश्रयीभूय भूयः प्रमथपदमथान्ते
प्राप्नुवन्त्येव सिद्धं ।। १३२ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां प्रभुलीलावतारवर्णनगतिर्नाम षष्ठोऽध्यायः
।।
पृ० १४९) मायां प्रति विमलोक्तहितोपदेशः ।
।। श्रीनंदिकेश्वराय नमः ।।
सप्तमोऽध्यायः ।।
सूत उवाच-
सिद्धवीरेश्वरानर्घ्यचरणाम्भोजभक्तितः ।
कृतकृत्या मुनिश्रेष्ठाः शृण्वन्तु प्रभुसत्कथां ।। १ ।।
अथ माया प्रभोर्दिव्यमाहात्म्यं विमलोक्तिभिः ।
विज्ञाय विमलां प्राह त्रिमलक्षयकारिणीं ।। २ ।।
विमले त्वदुपन्यस्तः प्रभुः साक्षात्परः शिवः ।
उपास्यमानः सोऽस्माकमभीष्टं किं न यच्छति ।। ३ ।।
विमला प्राह तां मायां शृणु त्रैलोक्यसुंदरि ।
जेतुकामस्य मायायाः प्रभोस्तस्य महात्मनः ।। ४ ।।
चित्तानुवृत्त्या सेवन्ते ये तेषां किं नु दुर्लभं ।
भक्तिर्विशुद्धा देवेशे भुक्तिमुक्त्युभयप्रदा ।। ५ ।।
महाराज्येऽभिषिक्तस्य ग्रामणीत्वं यथाऽधमं ।
तद्वत् प्रभुपदाम्भोजभक्तस्य कियदैहिकं ।। ६ ।।
आकर्ण्य माया तां प्रोचे प्रत्यक्षीकरणे प्रभोः ।
उपायं ब्रूहि विमले कृतार्थीकुरु मां सखि ।। ७ ।।
पृ० १५०) विमला प्राह तन्वंगीं शिवं सम्पूज्य भक्तितः ।
तेन पुण्येन सद्गोष्ठीं लभेत्तादृऽऽन्महात्मनां ।। ८ ।।
तस्मात्त्वमपि सर्वज्ञं नीलग्रीवं त्रिलोचनं ।
पूजयस्व सदा भक्त्या प्रसीदति ततः प्रभुः ।। ९ ।।
मायां प्रोवाच विमले मधुकेशमहर्निशं ।
उपास्य नालभं किंचिदपि तस्य फलं ततः ।। १० ।।
इतः परं न वक्तव्या कथेयमिति वादिनीं ।
उवाच मायां विमला माऽस्तु तेऽयं दुराग्रहः ।। ११ ।।
पतित्वाऽनवधानेन स्वयं भूमिं निनिंद या ।
तन्न्यायं त्यज दुर्बुद्धे वृथा निंदसि शंकरं ।। १२ ।।
विशुद्धबुद्धयः शम्भुं निजभक्ता भजन्ति ये ।
तेषां स्वर्णं मधुशिवः करस्थं स्वमनर्घ्यकं ।। १३ ।।
अंगणे निधिराच्छन्नवस्त्रग्रथितकांचनं ।
कामधेनुः कल्पवृक्षश्चिंतामणिरिति श्रुतः ।। १४ ।।
तं महादेवमाराध्य निजाभीष्टार्थसंततिं ।
को वा न लभते मर्त्यः किमत्राश्चर्यमीर्यते ।। १५ ।।
पृ० १५१) मायां प्रति विमलोक्तेश्वरार्चनविधाननिरूपणम् ।
ज्ञात्वाऽनुष्ठानकर्तृर्णां सद्यः फलति शंकरः ।
अज्ञात्वाऽनुष्ठितं कर्म निष्फलं भवति ध्रुवं ।। १६ ।।
अतः शास्त्ररहस्यं ते वक्ष्याम्युत्पललोचने ।
यच्छ्रुत्वा तदनुष्ठाय प्राप्नोत्युभयतः फलं ।। १७ ।।
आदौ सद्गुणसम्पन्नं गुरुनाथमुपाश्रयेत् ।
गुरूपदिष्टा विद्यैव सद्यः श्रेयः फलिष्यति ।। १८ ।।
असेवितगुरुं तेनानुपदिष्टार्चनाविधिं ।
भक्तिर्याति परित्यज्य हस्तिनीव मृगाधिपं ।। १९ ।।
आगमोक्तविधानेन पात्रद्रव्याणि शोधयन् ।
अंगहस्तमुखादीनि ज्ञात्वा संपूजयेच्छिवं ।। २० ।।
अविज्ञाय प्रमादेन शास्त्राचार्योपदेशने ।
मूढस्तामसपूजाया नैष्फल्यमधिगच्छति ।। २१ ।।
रसनायां यथा शब्दं श्रवणे च रसं यथा ।
रूपं घ्राणे दृशि स्पर्शं त्वचि गन्धमिवार्पयन् ।। २२ ।।
अविवेकेन मूढात्मा पूजाऽऽभासं करोति यः ।
निष्फलं तद्भवेत्तस्य न प्रसीदति शंकरः ।। २३ ।।
पृ० १५२) तस्मान्मुखानि विज्ञाय मृडस्य परमात्मनः ।
विवेकेनार्पयद्धीमानिति शास्त्रार्थनिर्णयः ।। २४ ।।
प्राकृतैः सहसाङीय बलात्पत्रादिकं नरः ।
लिंगाग्रे पातयित्वाथ नीचपक्वान्नमर्पयन् ।। २५ ।।
विश्वासहीनो यः कुर्याद्राजसार्चनमीशितुः ।
तस्यार्चनं न गृह्णाति प्रीत्याऽसौ राजशेखरः ।। २६ ।।
यो दानधर्मविमुखो ज्ञानविज्ञाननिंदकः ।
श्रीगुरूक्तागमविधिं विसृज्य स्वेच्छया पुनः ।। २७ ।।
करोति तामसीं पूजां तां न जिघ्रति शंकरः ।।
अतः शिवज्ञानशास्त्रपुराणागमसंहिताः ।। २८ ।।
उपदिश्य तदीयार्थान् यो बोधयति सद्गुरुः ।
कृपार्द्रचित्तं भावज्ञं विद्वांसं तं गुरुं श्रयेत् ।। २९ ।।
तदाज्ञया स्थिरीकृत्य भक्तिं जंगमसंयुतः ।
निरुद्धचित्तः सर्वेशं पूजयेद्विधिपूर्वकं ।। ३० ।।
एकाग्रचित्तः सर्वेशमुपास्ते यो महामतिः ।
निष्कामो मुक्तिमाप्नोति सकामो भुक्तिमाप्नुयात् ।। ३१ ।।
पृ० १५३) मायाय विमलोक्तशिवपूजोपदेशः ।
न दद्याद्भुक्तिदा मुक्तिं न भुक्तिं मुक्तिदायिनी ।
भुक्तिमुक्तिप्रदा सेयं शिवपूजा तु सात्विकी ।। ३२ ।।
उपास्य शंकरं सर्वे हरिब्रह्मादयः सुराः ।
तत्तल्लोकाधिपत्यानि प्राप्नुवन् वैभवैः सह ।। ३३ ।।
हस्तपादादियुग्देहं जीवहीनं सलक्षणं ।
यथा श्रीगुरुकारुण्यविहीनः कुजनस्तथा ।। ३४ ।।
चतुःशीतं समाकृष्य सीरेणापास्य कत्तृणं ।
हल्या भूमिं समीकृत्य पर्जन्येऽप्यर्धवर्षति ।। ३५ ।।
आर्द्रायामपि सार्द्रायां भूमौ जामित्वमाश्रितः ।
यो बीजं न वपत्यस्य सुक्षेत्रं वा कुतः फलेत् ।। ३६ ।।
एवं विज्ञाय विधिवद्गुरोः सम्पाद्य सत्कृपां ।
दीक्षाविशुद्धहृदयो यजेत परमेश्वरं ।। ३७ ।।
त्यक्त्वा भूतगुणान्सर्वान् पूजयेद्यदि शंकरं ।
कथं न स्यादभीष्टार्थलाभस्तस्य महात्मनः ।। ३८ ।।
हस्तसंस्थेऽप्यथादर्शे यथान्धः स्वं न पश्यति ।
पृ० १५४) तथोपदेशहीनोऽपि न सिद्धिं लभतेऽर्चकः ।। ३९ ।।
माये यदि त्वया शम्भुः पूजितः सद्विधानतः ।
पूजाफलं कुतो न स्यादुपदेशविधिर्न वा ।। ४० ।।
न गृहीतोऽथवा सम्यऽऽन्मंत्रो जाप्यविधिर्न किं ।
न ज्ञातो वा यथाशास्त्रं भक्तिः पर्याप्यते न वा ।। ४१ ।।
नास्ति वा तत्र ते श्रद्धा पूजायां सांप्रदायिकी ।
यद्यस्ति पूर्णसामग्री न भवेत्कामितं कुतः ।। ४२ ।।
इत्युक्तवत्यां सद्युक्त्या विमलायां मदोत्कटा ।
माया विभवगर्वेण लघूकृत्येदमब्रवीत् ।। ४३ ।।
एवंविधोपदेशादिप्रयासो मास्तु भामिनि ।
स्वेच्छयैव जगत्कृत्स्नं साधनीयं न चान्यथा ।। ४४ ।।
श्रुत्वैतद्वचनं साध्वी संत्यज्य विमला तदा ।
तथाविधां कथां माया मग्ना दुर्भवसागरे ।। ४५ ।।
केनोपायक्रमेणैनामुद्धरिष्यामि संकटात् ।
इति संचिंत्य मनसा युक्तिमेकां विचार्य च ।। ४६ ।।
पृ० १५५) रहसि मायाविमलयोरुक्तिप्रत्युक्तिः ।
संस्मृत्य जगदंबायास्तामाज्ञां दुरतिक्रमां ।
स्नेहेनाभिमुखीकृत्य मायां वचनमब्रवीत् ।। ४७ ।।
अनादिसिद्धा मैत्रीयमावयोर्नहि नूतना ।
त्वं वेत्सि किल पृच्छामि वाक्यमेकं वरानने ।। ४८ ।।
न वंचयितुमर्हाऽहं वंचयिष्यसि चेच्छृणु ।
आज्ञा तव मया गौर्या दत्ता त्वं मा त्रपां वह ।। ४९ ।।
यथार्थं ब्रूहि कल्याणि सत्यं हि नियमोत्तमं ।
इति तां सुदृढीकृत्य पप्रच्छ विमला रहः ।। ५० ।।
वनिते लतिकातुल्या तवेयं तनुरुत्तमा ।
मनोजबाणभिन्नेव मर्मसंधिषु लक्ष्यते ।। ५१ ।।
कथं दशेयं कल्याणि कस्मिन् जाता रतिस्तव ।
ब्रूहि तत्प्रतिकारं ते वक्ष्यामीत्युदिताऽब्रवीत् ।। ५२ ।।
कथयिष्यामि विमले कामो मूर्त इवापरः ।
स्तवनीयगुणः कश्चिदस्ति विद्याधिकोत्तमः ।। ५३ ।।
नाम्नांऽल्लम इति ख्यातो गम्भीरोदारविग्रहः ।
सर्वविद्यासु निपुणो धीरोदात्तगुणोत्तरः ।। ५४ ।।
तन्मायापंजरे लग्ना रतिराजवशं गता ।
त्यक्ताभिमाना दुश्चित्ता चिन्ताक्रान्ता चलन्मतिः ।। ५५ ।।
पृ० १५६) गतसत्वा धैर्यहीना वर्जिताखिलसंस्मृतिः ।
तूलायमाना गेहान्तःशालायां तूलिकागता ।। ५६ ।।
सखीभिः सह संच्छन्ना छिन्ना मारशरालिभिः ।
पतिता दुर्दशामेतामभूवं लघुतां गता ।। ५७ ।।
अथ सा विमला प्रोचे मायां चंद्रानने शृणु ।
सत्यं तव मनोहर्ता साक्षादल्लम एव सः ।। ५८ ।।
प्रभुर्विश्वाधिकः साक्षी मायां वश्यां चकार यत् ।
नान्यो भवति मान्योऽयं नित्यमुक्तो निरंजनः ।। ५९ ।।
न विद्धि मार्दंगिकमात्रमेनं विद्याधिकत्वं स्वत एव सिद्धं ।
ब्रूते श्रुतिश्चापि समस्तविद्याऽधीशं महेशानममुं गुहेशं ।। ६० ।।
सोऽयं प्रभुः कपटनाटकसूत्रधारः
सृष्टिस्थितिप्रलयकृज्जगताममीषां ।
कोऽयं कुतः क्व च कदा च न केन चेति विज्ञातुमल्लमगुरुर्निगमैरशक्यः
।। ६१ ।।
यस्य प्राञ्चो न जानन्ति सरूपारूपभावनां ।
स केन वा प्रकारेण वर्तमानो न लिप्यते ।। ६२ ।।
आकर्ण्य माया तां प्राह विमले किं त्वयोच्यते ।
पृ० १५७) मधुकेशालये अल्लममायाविमलानां संगमः ।
किं वेत्ति भवती वाक्यैरलंस्तावकमात्रकैः ।। ६३ ।।
परमात्मैव स प्रोक्तः प्रभुरल्लमसंज्ञितः ।
अयं नटविटैस्तुल्यो मम मार्दंगिकोऽल्लमः ।। ६४ ।।
तस्य चास्य कियद्दूरं न समीकुरु तेन तं ।
अंगारेणेव भास्वन्तं ह्रदेनेव महोदधिं ।। ६५ ।।
इत्थं मायाविमलयोरुक्तिप्रत्युक्तिनालिका ।
आसीत्तयैव संगत्या मधुकेशालयं गते ।। ६६ ।।
तत्राभ्यर्च्य महेशानं बहिर्निर्गत्य भामिनी ।
राजसेन विलासेन रंगमध्यं विवेश सा ।। ६७ ।।
अल्लमोऽपि स तां दृष्ट्वा नृत्योद्युक्तां शुचिस्मितः ।
विद्याधिकैर्विस्मयेन तत्रत्यैरभिनंदितः ।। ६८ ।।
अद्यैव वाद्यविद्याया जेया माया मयेति सः ।
तस्यां नटंत्यां चातुर्याद्वादयामास मर्दलं ।। ६९ ।।
तद्दत्तचित्तां नृत्यन्तीं मायां मदनविह्वलां ।
विमला तां तदालोक्य चिन्तयामास मानसे ।। ७० ।।
अत्र नृत्यं स्पृहा तत्र वागत्र ममता ततः ।
रीतयोऽत्रादरस्तत्र दृष्टिरत्र रतिस्ततः ।। ७१ ।।
पृ० १५८) अहो सुमहदाश्चर्यं माया नाटयतेऽखिलान् ।
मायां नाटयते सोऽयमल्लमः पल्लवाकृतिः ।। ७२ ।।
जपाकुसुमसान्निध्याल्लोहितस्फटिको यथा ।
तथैव मायासान्निध्यात्प्रभुर्दृष्टो गुणान्वितः ।। ७३ ।।
स्फटिकः कुसुमापाये यथा शुद्धोऽभिलक्ष्यते ।
विसृज्य मायामगुणो निर्मलः सर्वदैव सः ।। ७४ ।।
इति निध्याय विमला मायामन्वीक्ष्य सा पुनः ।
दर्शयित्वाऽल्लमं दृष्ट्या स्वमात्मानं प्रदर्श्य च ।। ७५ ।।
अभिनीयोभयोरैक्यं स्वयोस्तस्य पृथक्स्थितं ।
प्रणामकरणं तस्मै सूचयन्ती दृशैव सा ।। ७६ ।।
पृथिवीं गगनं चापि क्रमात्संभाव्य भामिनी ।
संज्ञयैवाब्रवीत्तस्यै स्वकर्तव्यं तदास्तिकाः ।। ७७ ।।
तूष्णीं तिष्ठति यत्रायं निधाय भुवि मर्दलं ।
पादोपसंग्रहव्याजात्तदाऽऽवाभ्यां प्रगृह्यतां ।। ७८ ।।
पृ० १५९) प्रभोः पुरतः मयानृत्यनैपुण्यवर्णनम् ।
नायं प्रभुरिति ज्ञेयो ग्रहीतुं शक्यते यदि ।
ग्रहीतो व्योमवच्छून्यो यदि स्यात्प्रभुरित्ययं ।। ७९ ।।
इत्थं विमलयाऽऽदिष्टा माया नयनभाषया ।
स्वयं तथाऽस्त्विति तथैवासूचयदिमां पुनः ।। ८० ।।
अहो दृष्ट्यैव पुरुषानार्द्रयन्ति किलांगनाः ।
दृष्ट्या माधुर्यकलया नम्रीकुर्वन्ति तान्पुनः ।। ८१ ।।
दृष्ट्यैवानंदधुरया क्षणाद्गृह्णन्ति तद्धनं ।
दृष्ट्यैव विरहाग्नीनामाचरंति समिंधनं ।। ८२ ।।
अहो चपलचित्तानां स्त्रियः पुंसां हि वागुराः ।
दृग्बाण एव नारीणां साधनं पुंपराभवे ।। ८३ ।।
दृशो मूलधनं स्त्रीणामवलंबनमप्यहो ।
इति तत्रत्यरसिकाश्चेष्टां दृष्ट्वा मिथोऽब्रुवन् ।। ८४ ।।
मायानट्याः प्रभौ दत्तचित्ताया विरहाग्निना ।
तप्तायाः सकलांगानि विकलान्यभवन् द्विजाः ।। ८५ ।।
पृ० १६०) अवधानं जहौ चेतश्चचाल मतिरप्यहो ।
तालमानं विहायैषा ननाट विषमक्रमं ।। ८६ ।।
मेलसंघट्टनं चास्या अत्यरिच्यत नर्तने ।
गीतं विजातीयगिरा स्पृष्टं विषमता गतं ।। ८७ ।।
तदानीमल्लमः सर्वं तस्या विज्ञाय चेष्टितम् ।
वृथानटनमेतन्मे किमनेनेत्यमन्यत ।। ८८ ।।
रंगमध्ये विहायोच्चैर्मर्दलं महदद्भुतं ।
निष्क्रम्य नगरात्तूर्णं ययौ स्वच्छन्दमीश्वरः ।। ८९ ।।
मायाऽथ दशमावस्था प्राप्तेव बहु दुःखिता ।
विनष्टधैर्यहृदया पपात भवि मूर्च्छिता ।। ९० ।।
कथंचिदथ विज्ञाय हा हाल्लम बतात्र मां ।
विहाय क्व गतोऽसीति तताप मुहुरात्मनि ।। ९१ ।।
न बबन्ध गलन्मौलिं पिदधे न च कंचुकं ।
सख्य एवोत्तरीयादि सज्जीचक्रुः समभ्रुवः ।। ९२ ।।
तदानीं विमला मायामभ्येत्यासांत्वयद्द्विजाः ।
क्लिश्नासि किं वृथा बाले निर्बन्धः कस्तवाऽधुना ।। ९३ ।।
येनाल्लमप्रभुर्यातस्तेन मार्गेण सत्वरं ।
पृ० १६१) प्रभुमन्वेष्टुं विमलादिभिः सह मायायाः पुराद्बहिर्गमनम् ।
सखीभिः सह सर्वाभिरावाभ्यामनुगम्यतां ।। ९४ ।।
यथा सूचीमनुगतं सूत्रं तद्वत्प्रसर्पति ।
तथानुऽसृत्य तन्मार्गं यास्यामस्तद्वदंगने ।। ९५ ।।
द्यावापृथिव्यावन्विष्य यत्र तिष्ठति सोऽल्लमः ।
गृहीत्वा तत्र तं भद्रे वशयिष्यामहे ध्रुवं ।। ९६ ।।
गमिष्यामस्त्यजालस्यं यावद्द्रक्ष्यामहे प्रभुं ।
तावन्मनोजवं माये गृहीत्वोत्तिष्ठ सांप्रतं ।। ९७ ।।
चिंतां त्यज गृहाणाशु धैर्यमित्युदितार्यया ।
बाढमित्युररीचक्रे सा मायोत्कंठिता भृशं ।। ९८ ।।
ततो विमलयाऽन्याभिः सखीभिः सह भामिनी ।
पिधाय पौरचित्तानि गन्तुं समुपचक्रमे ।। ९९ ।।
अहो मनुजनाथस्य पुत्री मर्दलवादकं ।
अनुसृत्य गतेत्येवं बभूवाऽथ जनश्रुतिः ।। १०० ।।
इत्थं मिथो भाषमाणा न निवारयितुं क्षमाः ।
स्थाणुभूताः स्थिताः सर्वे माया श्रुत्वैव सा ययौ ।। १०१ ।।
पृ० १६२) कदा द्रक्ष्येऽल्लममिति चिन्तयन्ती पदे पदे ।
त्यक्त्वा मंदगतिं माया शीघ्रेणाधावदास्तिकाः ।। १०२ ।।
तीव्रगत्या प्रधावंत्यास्तस्याः पादौ व्रणोल्बणौ ।
शुष्कीभूताऽऽतपेनाश्हु लतेव तनुरुज्ज्वला ।। १०३ ।।
क्वचिद्विपथगा माया लतावलयवेष्टिता ।
पादांगुल्योऽश्मभिश्छिन्नाः सुस्रुवुर्लोहितं बहु ।। १०४ ।।
भूमावातपतप्तायां ददाहांगारवद्रजः ।
तृष्णया कण्ठनालोऽस्याः शुशोषास्तिमितो द्विजाः ।। १०५ ।।
गच्छन्त्यां संभ्रमेणास्यां मोहिन्यां सकलात्मनां ।
तत्राश्ह्रमस्था मुनयः केचिद्दृष्ट्वा चकंपिरे ।। १०६ ।।
सौंदर्यसारसर्वस्वामालोक्येंदुमुखीं द्विजाः ।
दृष्ट्वा मृगयुमायान्तं मृगा इव यतव्रताः ।। १०७ ।।
कामः कवलयत्येव का वा गतिरिहेति ते ।
विचाल्य शंकितस्वान्ता दिशो दश पलायिताः ।। १०८ ।।
पृ० १६३) वने मायासखीकृताल्लमगर्हणम् ।
योगदण्डान् योगपट्टान् लिंगसम्पुटिकास्तथा ।
काषायाम्बरवैययाघ्रचर्मभस्मफलानि च ।। १०९ ।।
रुद्राक्षमालाजालानि पुस्तकानि कमण्डलून् ।
कराभ्यां कवलीकृत्य भीत्याऽनार्दोष्ठसंपुटान् ।। ११० ।।
पलायमानांस्तान्दृष्ट्वा प्रभुः सर्वेश्वरोऽल्लमः ।
कारुण्यायत्तचित्तोऽथ स्त्रीभ्यः संरक्षितुं मुनीन् ।। १११ ।।
स्थिरीकृत्य मनांस्येषां मुनिवेषधरो गुरुः ।
प्रत्यक्षीभूय तान्सर्वांश्चक्रे निश्चलमानसान् ।। ११२ ।।
भूयो मायानटो भूत्वा योगीशो विटवेषधृत् ।
पूर्ववद्वंचितुं मायामाजगामान्तिकं स्त्रियाः ।। ११३ ।।
तं दृष्ट्वा वनितास्सर्वा निधिं लब्ध्वेव दुर्विधाः ।
सन्तुष्टचित्ताः प्रणयाद्रोषावेशाद्बभाषिरे ।। ११४ ।।
अहो धूर्ताल्लम विभो मायामस्मत्सखीं प्रियां ।
क्लेशयित्वा त्वदायत्तां किं फलं लब्धवानसि ।। ११५ ।।
राजपुत्रीमिमां बालां जातीमिव मृदुत्वचं ।
हसंतिकायां संताप्य सारस्यं हतवानसि ।। ११६ ।।
भो हंसतूलिकातल्पनिद्रार्हायाः कथं शठ ।
पृ० १६४) शर्कराऽर्हति यानाय पद्भ्यां शरफलोपमा ।। ११७ ।।
सिंहासने वयस्याभिः सेवनीया कथं सखी ।
कुशविष्टरमारोढुं वनेऽर्हति वरानना ।। ११८ ।।
हेमपल्यंकिकारूढा वीज्यमाना सखीजनैः ।
व्यजनैर्याति या तस्या अटव्यामटनं कथं ।। ११९ ।।
नवरत्नमये गेहे क्रीडन्ती लीलया कथं ।
स्थातुं कुंजकुटीरेषु सार्वभौमसुताऽर्हति ।। १२० ।।
वयमेवापराधिन्यो नापराधस्तवाऽत्र भो ।
यतोऽविज्ञाय ते स्वान्तमदाम हृदयं तव ।। १२१ ।।
अविचार्य कृतं कार्यमपहासाय कल्पते ।
रूपं न कारणं पुंसां श्रुतिं विश्वस्य वंचिताः ।। १२२ ।।
हृदयालुरिवैतावत्कालं बालां विमोहयन् ।
तिरोधायात्मकौटिल्यं रतिमुत्पाद्य लीलया ।। १२३ ।।
कंसरीत्या विभेद्याद्य हार्दं घोराटवीं कथं ।
कृतज्ञत्वं परित्यज्य कितवत्वं समागतः ।। १२४ ।।
पृ० १६५) मायासखीभ्योऽल्लमवचननिरूपणम् ।
पुंमक्षिकार्भकस्यापि प्रवेष्टुं तावदक्षमम् ।
प्रेम्णा प्रविशितोऽसित्वं तरुणीमणिमंदिरम् ।। १२५ ।।
समर्पितात्मसर्वस्वः सख्याऽस्माकं गृहाधिपः ।
भूत्वाऽन्ते क्लेशयस्येनामहो कीर्तिः कियत्यसौ ।। १२६ ।।
अपख्यातिरियं भाव त्वया संपादिता ननु ।
त्वद्वियोगे कुतोऽस्याः स्यान्मनः कंसोपमस्थिरं ।। १२७ ।।
इत्युपालम्भवाक्यानि श्रुत्वाऽल्लमविभुः स्मयन् ।
मायावयस्याः संप्रेक्ष्य वचनं चेदमब्रवीत् ।। १२८ ।।
वृथा निष्ठुरभाषाभिरलं गच्छथ बालिशाः ।
किं वा प्राऽऽन्मायया साकं संबन्धोऽभिमतो मम ।। १२९ ।।
किं वा साप्तपदीनेन मायां संगतवानहं ।
किं वाऽद्य कलहं कृत्वा निष्क्रान्तोऽहं त्वदाश्रमात् ।। १३० ।।
मामुदासीनभावेन स्थितं दृष्ट्वा शिवालये ।
स्वयं कामयमानेयं भ्रान्ता मदनविह्वला ।। १३१ ।।
त्यक्ताभिलाषे च मयि तदा भावमजानती ।
किमर्थं प्रकटीचक्रे सखीनां पुरतो रतिं ।। १३२ ।।
स्वयमेव वृथा रत्या जारभावेन भामिनी ।
पृ० १६६) लोकापवादमतनोदहो मयि विरागिणि ।। १३३ ।।
विकारयतु मां कामं कामुकी न हि विक्रिये ।
तयाऽहं न हि कीटेन तृट्यते दीप्तमुल्मुकं ।। १३४ ।।
स्त्रियो धूर्ता इति धिया तूष्णींभावेन संस्थितिः ।
अपराध इव ज्यायानहो दुःसंगसंकटं ।। १३५ ।।
नार्यः किमेतत्कापेयमपराधं भवत्कृतं ।
मययारोप्य वृथा मोहादटवीमागता हठात् ।। १३६ ।।
भो भो नारीसमूहा इह सकलमहीमण्डले चण्डभानुः
स्फूर्त्या रीत्या कया वा विहितपरिकरश्चारुश्रृंगारवेषः ।
काषायालंबनो वा कनकमणिगणालंकृतो वाऽनपेक्षो
रुद्राक्षालंकृतो वा विषयविरहितः स्वैरमेकश्चरामि ।। १३७ ।।
सर्वं मययेव जातं मयि सकलमिदं वर्तते लोकजातं
लीनं मययेव पश्चादहमखिलगतः सूत्रवन्मौक्तिकेषु ।।
न स्पृष्टो येन केनाप्यहमभिसरता गन्धलेशेन पाश-
च्छेदार्थं भक्तिभाजां सगुण इव जनैर्लक्षितः संचरामि ।। १३८ ।।
पृ० १६७) वने मायाकृताल्लमावहेलनम् ।
योगित्वं प्राप्य लोके प्रकटयितुमहं पारहंस्यानुभावं
शैवे सर्वोत्तमत्वं श्रुतिभिरभिनुतं शाम्भवीं चापि दीक्षां ।।
धृत्वा वेषं तदीयं जगद्वनकृतौ वर्तमानः स्वतन्त्रः सोऽहं
मायाविधेयो विषमविषयभुक् कूटकारी कथं स्यां ।। १३९ ।।
इत्थं प्रभौ वदति सा परिमुह्य माया त्यक्त्वा ह्रियं
स्मरवशादविबुद्धतत्वा ।
भूयोऽपि तं त्रिभुवनैकगुरुं जगाद कामातुरस्य हि विवेककथा न जन्तोः
।। १४० ।।
भो धूर्त कामुकतया हृदयं प्रविश्य पूर्वं ममाश्रुतरतिः
कृतहार्दभावः ।।
उत्पाद्य वश्य इति विश्वसनं न लीनं किं वाऽपदिष्यसि निरस्य वचोऽधुना
त्वं ।। १४१ ।।
उन्मत्तता न हि ममाद्य न वंचनीया त्वां नोत्सृजामि शपथं कलये
त्वदंघ्र्योः ।
वाग्ब्रह्मवादमपसार्य विचार्य पूर्वं मामल्लम प्रतिगृहाण
तवैकजायां ।। १४२ ।।
पृ० १६८) कापट्यशाबरजपानृतवेषभाषा
योषावशीकरणनर्तनगीतवादाः ।
तारुण्यरोधकुहनौषधकूटकृत्यसोल्लुण्ठनभ्रमणकौत्सितकौचमाराः
।।
द्यूतेन्द्रजालमथमायिकतापहासकौटिल्यलौल्यकरलाघववंचनानि ।
पुंसां प्रसिद्धिमुपयान्त्यथ योषितां वा धर्मा इति त्रिभुवनेऽपि विदन्ति
सर्वे ।। १४४ ।।
इत्युक्तवत्यां भुवनैकरत्यां प्रभुः प्रतिद्वंद्वितया किमस्याः ।
वादान् ममेति प्रहसन्विरेमे सैव च्छलादल्लममाह माया ।। १४५ ।।
अहो मया लौकिकतामुपेत्य समर्पिते स्वात्मनि मामुपेक्ष्य ।
भवानुपन्यस्यति केवलत्वं निजं तथा चेच्छृणु मत्प्रभावं ।। १४६ ।।
अहं हरिब्रह्महरादिदेवान् महाप्रभावान् विदधाम्यधीरान् ।
महर्षिवर्यान् स्खलदूर्ध्ववीर्यान् कुर्वैऽगनालिंगनसंगतांगान् ।। १४७
।।
उरोहमाक्रम्य हरेर्वसामि हरस्य वामार्धतनुं हरामि ।
पृ० १६९) वने स्वोत्कर्षन्तीं मायां प्रति प्रभुदेवस्योक्तिः ।
करोमि वाग्बंन्धनमब्जसूतेः परे कियन्तो मम वासवाद्याः ।। १४८ ।।
आदित्यदैत्योरगसिद्धसाध्यान् गन्धर्वविद्याधरकिन्नराद्यान् ।
भृत्यान्विधाय प्रविचालयामि भवान्कियानल्लम मां विरोद्धुं ।। १४९ ।।
अतस्त्वयैषाल्लम धूर्तचर्या विशेषतोऽस्मत्पुरतो न कार्या ।
मर्यादया मद्वचनं विधेहीत्युक्तः प्रभुः साग्रह एवमूचे ।। १५० ।।
अरे जरद्वारविलासिनीव पुराकथानां कथनैर्वृथा किं ।
करोषि वाचालतया विवादं परापवादान्न विभेषि मूर्खे ।। १५१ ।।
यदि स्वसामर्थ्यमथापि माये सदात्मतत्वानुभवार्थवादैः ।
मदीयविद्यां चिदचिद्विवेकास्पदोक्तियुक्त्या विजयस्व तावत् ।। १४२ ।।
अखण्डपाण्डित्यबलेन युक्तीर्विखण्ड्य मां स्वीकुरु तावकीनं ।
सुखार्थिनी मौर्ख्यबलेन चेन्मे नखाग्रमात्रं च न चालयस्याः ।। १५३ ।।
हराच्युतब्रह्ममुखांश्च लेखान् पराभवं प्रापयितुं क्षमेति ।
दुराग्रहोक्तं वचनं न लक्षीकरोमि यत्साहसिका वधूट्यः ।। १५४ ।।
पृ० १७०) त्वया विबुद्धस्त्वयि सन्निविष्टः स्वयं सदा प्रेरयते क्रियासु ।
य ईश्वरस्तत्करुणा यदि स्याज्जयेस्तदा मान्यतया भवारिं ।। १५५ ।।
इत्यल्लमोक्तं वचनं निशम्य प्रत्युत्तरं दातुमसावशक्ता ।
अत्यन्तखिन्नात्मनि किंचिदोह्य सत्यात्मकं स्वामिनमाह माया ।। १५६ ।।
केनाविबुद्धः क्व नु सन्निविष्टः को वा स्वयं प्रेरयते क्रियासु ।
क ईश्वरस्तत्करुणा कुतः स्यात् कथं जये मान्यतया न वेद्मि ।। १५७ ।।
त्वदीयसूक्ते प्रतिवक्तुमेषा कथं विभो निष्ठुरतां प्रयातु ।
मयोच्यते चेदरुचिर्हृदि स्यान्मनोरथो मेऽस्तु यथा कथंचित् ।। १५८ ।।
पुरोन्नमादौ परिवेष्य कंसे क्षुधातुरस्यापहृतिः किमर्हा ।
कियत्यहं भाषितुमग्रतस्ते गृहाण मामल्लम पल्लवोष्ठीं ।। १५९ ।।
इतीरितां वाचमनादरेण निरस्य हस्ताभिनयेन तस्याः ।
पृ० १७१) वने स्वोत्कर्षन्तीं मायां प्रति प्रभोरुक्तिः ।
हुंकारपूर्वं पुनराह मायां मायातिगो देशिकचक्रवर्ती ।। १६० ।।
माये किमित्थं गदितुं तवार्हं श्रुत्वापि मां कामलतालवित्रं ।
भ्रान्तेर्गतोक्तौ मुसलेन शीर्षं संवेष्टयेत्युक्तिसमं भजेति ।। १६१ ।।
आपाततः स्युर्मधुरा हि कामाः स्रक्चंदनादौ विषये विषाभे ।
स्वीकृत्य तान्मूढजना इवाहो कथं विनंक्ष्यन्ति शिवैकतानाः ।। १६२
।।
ये दीक्षिताः के च न योगतंत्रे त्यक्तुं दुरन्तान्विषयानसक्ताः ।
वदन्ति जयया अनुभूतिपूर्वमित्येवमेते नहि संमता मे ।। १६३ ।।
अग्नौ हुते प्रज्वलिते यथाज्ये न शाम्यति प्रज्वलति द्विरुच्चैः ।
तथानुभूते विषये न शाम्येद्विवर्धते यद्द्विगुणं तदाशा ।। १६४ ।।
जग्ध्वा सर्षपसस्यानि वृषो न त्यजति क्षुधां ।
किं तु तस्योदरं शुष्येदुष्णिम्नाऽग्निप्रकोपतः ।। १६५ ।।
अतो विषयसंगत्या सुखलेशो न विद्यते ।
जन्तोर्विवेकहीनस्य कथंचिदपि बालिशे ।। १६६ ।।
पृ० १७२) उल्लासेन गृहं दग्ध्वा कुत्र तिष्ठेन्मदोद्धतः ।
हत्वा विवेकं कामेन कथं मायां तरेज्जडः ।। १६७ ।।
इत्यल्लमप्रभोरुक्तीरनादृत्याविवेकतः ।
माया दुराग्रहावेशाद्वक्तुं समुपचक्रमे ।। १६८ ।।
प्रसार्य वाग्मितां धूर्त ममाग्रे किं प्रभाषते ।
बहिर्विरागमात्रेण कृतकृत्यो भवानिव ।। १६९ ।।
वाचः परा च पश्यन्ती मध्यमा वैखरीति याः ।
ताः सर्वा मत्पदाम्भोजघट्टनेनोदयं गताः ।। १७० ।।
वामपादादधः सर्वे वाग्विलासा मम स्थिताः ।
त्यक्त्वा मायिक वाग्जालं भुंक्ष्व भोगान्मया सह ।। १७१ ।।
अल्लमोप्याह भो माये किं न श्रुतमिदं त्वया ।
पूर्णिमा यावदेतस्यास्तावद्भोग इतीरितं ।। १७२ ।।
वृथा किं जल्पसि भ्रान्ते हित्वा लज्जां ममांतिके ।
दुराशापाशमुत्सृज्य गृहं याहि सखीयुता ।। १७३ ।।
आकर्ण्य वाक्यमथ सा वनिताल्लमस्य निश्चित्य भावमहहेति
रुदत्यभीक्ष्णं ।
भूयोऽपि धैर्यमवलंब्य कथंचिदीशं निंदंत्युवाच वचनं
पुरतोऽल्लमस्य ।। १७४ ।।
पृ० १७३) वने मायां प्रति प्रभोरुक्तिः ।
येनापि केन विधिना परमेश्वरस्य पूजा फलिष्यति कृताखिलकामितार्थान्
।
इत्यादिसूक्तिरनृताऽभवद्य नूनं येनाहमर्चितवती शिवमेव मासं ।। १७५
।।
भक्त्या समर्प्य सकलं मधुकेश्वरस्य संप्रार्थ्य पूजितवती तव
भावबन्धं ।
नित्यं स दैवतगुरुर्हृदयेऽनुकम्पामुत्सृज्य खेदयति मामहहा कथं स्यात्
।। १७६ ।।
श्रुत्वैतदल्लमविभुः प्रहसन् बभाषे किं निंदयाऽद्रिधनुषः
फणिभूषणस्य ।
ये पूजयन्ति नियमेन जितारिवर्गास्तेषां ददाति गिरिशः
परिपूर्णसौख्यं ।। १७७ ।।
ये तामसेन हृदयेन निजेच्छयैव शास्त्रोपदेशरहिताः शिवमर्चयन्ति ।
तेनांगहीनभजनेन न लब्धकामा निंदंति दैवतगुरुं भुवि पामरास्ते
।। १७८ ।।
सौवर्णमेतदपमुद्रितमित्यभिज्ञेनोक्ते वृथा कलहकृत्किमु साधयेत्तत् ।
माये तथा त्वमपि मामथ वा महेशं निंद त्वया किमिह
साध्यमबुद्धतत्वे ।। १७९ ।।
पृ० १७४) का त्वं कुतर्कजटिले मम संगतिस्ते
वैराग्यभाग्यपरमार्थनिधेः क्व योग्या ।
गच्छ त्वमात्मनगरीमटवीं क्व वाऽथ कोऽयं सुनिश्चितमतेरभिमान
एषः ।। १८० ।।
श्रुत्वा तदुक्तमथ सा मनसाऽतिखिन्ना कामातुरा सबलमात्मभुवं
विनिंद्य ।
निःश्वस्य शश्वदुरगीव निरुद्धवीर्या पर्याकुला निजसखीहृदये पपात
।। १८१ ।।
तप्तामिवार्ककिरणैः कुमुदश्रियं तां दृष्ट्वा सखीं
स्मरशरज्वरतापखिन्नां ।
वाचा सुधामधुरया विमला रसज्ञा प्राहाल्लमप्रभुमणिं
प्रणतार्तिनाशं ।। १८२ ।।
आधार सर्वजगतां भजतां शरण्य सर्वज्ञ
सद्गुण षडूर्मिकथातिदूर ।
सत्यात्मक त्रिमलसंक्षय सर्वसाक्षिन् विज्ञापयामि कृपया मयि
पालयेमां ।। १८३ ।।
माया पुरा करुणया परिपाल्य पश्चात्त्यक्ताधुना कथय जीवति सा
कथं नु ।
ग्रामोऽथ वा भवतु ते निलयोऽटवी वा तत्रैव तावकपदं
श्रयतामियन्नः ।। १८४ ।।
पृ० १७५) वने विमलां प्रति प्रभुराजस्योक्तिः ।
यद्वा कृपां समवलंब्य महानुभाव मायां पुनर्बनवसीं नगरी
समेत्य ।
आच्छाद्य सर्वमनुगृह्य दिनानि कानि यात्रां करोतु भगवानथ को नु
दोषः ।। १८५ ।।
इत्थं कृतांजलिपुटा विनयेन नम्रा विज्ञापनां विनुतिपूर्वकमाचचार
।
तामल्लमोऽपि विमलां निजतत्त्ववेत्रीं प्राह स्मिताधरपुटः
प्रभुसार्वभौमः ।। १८६ ।।
सत्यापयेत्यभिहिते भुवि कूटवादान् शक्नोति को नु जगति व्यवहर्तुमेतैः ।
मायां भजेति कथिते शिवयोगिनस्तामस्मादृशास्तदहिताः कथमाश्रयन्ते
।। १८७ ।।
आतंचनेन दधितां पय एव याति नो जातु याति हि पयः कपटोक्तिजालैः
।
चापल्यमेति विषयेष्वबुधो न विद्वान् सम्यग्विचार्य विरमस्व तमःप्रबोधात्
।। १८८ ।।
इत्यल्लमस्य वचनं विमला निशम्य भूयस्तमाह भवता कृपया गृहीता ।
प्रागेव तेन सुकृतेन तवैव योग्या यत्स्पर्शवेधिखचितं कनकायतेऽयः ।।
१८९ ।।
पृ० १७६) तामल्लमोऽथ वचनं जगृहे त्वदुक्तं सत्यं तथापि न हि
लोष्टमहो सुवर्णं ।
मानुष्यमेत्य परमार्थपदं न किंचिद्या वेत्ति सैव खलु
लोष्टसमांतरं न ।। १९० ।।
इत्यल्लमे हृदि निरस्य वदत्यथैषा निश्चित्य तस्य परमार्थविरागभावं
।
भूयस्तमाह विमला विनयेन सख्या दुर्मानभंगभयमात्मनि सूचयन्ती ।।
१९१ ।।
निर्दोष सन्मुनिमनोहर भक्तपोष विज्ञानसागर कृपानिलयाऽल्लमार्य ।
मायां मम प्रियसखीं यदि न त्यजेथाः वाग्वैखरी न हि रुचिष्यति
हैमवत्याः ।। १९२ ।।
हेमादिशून्य भवतः किमियं जुगुप्सा देवः शिवोऽपि शिवया सुखकेलिमेतु ।
दोषो न चायमकलंकशशांककीर्तेस्संतोषणं हि शिवयोस्तव
मुख्यकृत्यं ।। १९३ ।।
स्त्रीपुंसयोर्यदि जयापजये प्रतिज्ञा तत्र स्त्रियं विजयमाकलयन् हि
धुर्यः ।
शंभोर्न हैन्यमपि किंचिदनेन विद्वन्नालोच्य पश्य मनसेत्यथ तां स
ऊचे ।। १९४ ।।
पृ० १७७) वने विमलां प्रति प्रभूक्तमायागुणदूषणम् ।
ज्ञातं मयाऽद्य विमले हृदये त्वदुक्तं स्याद्वा तथा हृदि विरागघने
पूराऽस्याः ।
मायारतिं हि चकमे विषयाभिलाषान्नो नित्यसौख्यपदवीमविवेकनिम्ना ।।
१९५ ।।
माया तमःपरिणता किल तामसीयं बीजं यदीयमवनौ निहितं स
वृक्षः ।
स्वप्नेऽपि सा विषयवासनयैव भुंक्ते स्वात्मोचितं तनुसुखं परमार्थ
एषः ।। १९६ ।।
सत्यं ब्रवीमि जलधौ सकलांबु सौधं मेरोः शिखाः क्षितितलं परितो
लताभाः ।।
सर्वे द्रुमा यदि च कल्पमहीरुहाः स्युर्माया तथाऽपि न लभेत
निजात्मबोधं ।। १९७ ।।
साऽऽहाल्लमोक्तममृतं श्रवणेन पीत्वा देवस्य चित्तमथ भाग्यबलं
वधूट्याः ।
को वेत्ति मादृशजनाः किमु भाजनानि युष्मान्पुनः पुनरनात्तभयाः
प्रवक्तुं ।। १९८ ।।
इत्यंघ्रिपद्मयुगले निटिलं निधाय भक्त्या प्रणम्य विरतां विमलां
प्रसाद्य ।
मायां विलोक्य हृदयं तदनादरेण कर्तुं निरीहमिदमाह विभुश्चिदात्मा
।। १९९ ।।
पृ० १७८) क्वांधं तमः क्व च रविः क्व च कामदर्पः क्वात्मा
परोक्षजनिका परतत्वचिंता ।
क्वाधः स्थितं क्षितितलं क्व च नाकपृष्ठं क्व त्वं क्व
निर्मलशिवाद्वयबोधवृत्तिः ।। २०० ।।
तत्प्राप्तये समुचितं पदमाशु याहीत्युक्ताल्लमेन सुदती हृदि दह्यमाना ।
आहो मयाखिलजगद्विदितं मिलित्वा बह्व्यो निशाः क्व न गमिष्यसि चेत्युवाच
।। २०१ ।।
स्वप्ने मयाऽपि बहुशो रतिकेलिकासु संक्रीडितोऽसि हृदयं तव
संश्रिताऽस्मि ।
त्यक्त्वाऽद्य मां तव गतस्य व्यथा कथंचिद्भ्रांतिर्न यास्यति सदेत्युदितो
जगाद ।। २०२ ।।
स्वप्ने त्वमाहितविषाहिरदालिदष्टा खेदेन तत्र रुदती प्रतिबुध्य पश्चात्
।
भूयोऽपि रोदिषि यदि त्वदवाप्तकामो भ्रान्त्या चलामि न हि चेन्मम
नापवादः ।। २०३ ।।
त्वं मोहपाशविवशा सुरतभ्रमेण कष्टं गता किल वृथैव
विनावलंबं ।
पृ० १७९) वने हठाद् भाषन्तीं मायां प्रति प्रभोरुक्तिः ।
निःसंगनिस्पृहतया मयि निर्विकारे किं नावबुध्यसि तदा मदनाकुलत्वं
।। २०४ ।।
तस्मात्कुचेष्टितवचोभिरलं तवेति प्रोक्ताऽल्लमेन तरुणी तमुपेत्य माया ।
आहेदमद्भुतपदैः कृतकायमानस्त्वं यातु काम इव भासि कुतोऽपि कामं
।। २०५ ।।
त्वां नोत्सृजामि शपथं कलये बलाद्वा संगृह्य यामि नगरं
मृतिरंततो वा ।
प्रख्यातिरस्तु भुवि शैलसुताप्रतिज्ञा निर्वाहमेतु न हि चेदहमंगना न
।। २०६ ।।
इत्थं विकत्थनवचः प्रभुराकलयय प्रोचे प्रहस्य नयनेन भवद्गृहे प्राक्
।
आलिंगनाय मदनातुरया त्वया मे गात्रं गृहीतमगृहीतमहो न वेत्सि ।।
२०७ ।।
अंगांगसंगतिमपेक्ष्य चिरं गलंत्या कामांधया कलितमप्यणु वा
मदंगं ।
हस्तांघ्रिलिंगमथवाऽधरवत्सकंठं नास्पृष्टमित्यह ह वेत्सि कुतो
भ्रमोऽयं ।। २०८ ।।
गच्छाश्हु गेहमिति तद्वचनं निशम्य मायाऽक्षिसंज्ञितसखीनिवहैः
सहैनं ।
मौर्ख्यादियेष निखिलात्मगतं गृहीतुं श्रीमानदृश्यपदवीं प्रययौ
स देवः ।। २०९ ।।
पृ० १८०) इति सकलमुनींद्राः श्रावितं वः समस्तं
प्रभुचरितमविद्याकर्मनिर्मूलनाढ्यं ।
पठति परमभक्त्या यः पुमान् दोषदूरः स भजति परतत्वं
सर्वसाम्राज्यसौख्यं ।। २१० ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां
विमलागमनतत्कृतप्रभुमहिमानुवर्णनतदीयलीलावतारकथनमायापराज्
अयप्रतिपादनगतिर्नाम सप्तमोऽध्यायः ।।
पृ० १८१) वने विलपन्त्याः सुताया अन्तिकं पित्रोरागमनम् ।
।। श्रीनंदिकेश्वराय नमः ।।
अष्टमोऽध्यायः ।।
सूत उवाच-
सिद्धवीरगुरुभक्तिरसार्द्रा अल्लमप्रभुकृपाजितमायाः ।
आदरेण मुनयः प्रभुलीला श्रूयतां प्रमथसंततिगुप्ता ।। १ ।।
अल्लमेऽन्तर्हिते माया शोकाब्धौ प्रविमज्जती ।
आलोक्य विमलां प्राह खिन्ना गद्गदितं वचः ।। २ ।।
कथं यास्यामि विमले पार्वत्या अहमंतिकं ।
सा मामन्वीक्ष्य विफलां कथं यातु शिवान्तिकं ।। ३ ।।
अहो कष्टमहो कष्टं प्रतिज्ञातं वृथा गतं ।
हसिष्यंति सभां मध्ये सर्वे सामाजिकाश्च मां ।। ४ ।।
इत्युक्त्वाऽऽत्मनि खेदेन विलपन्ती सखीजनैः ।
मुहुर्मुहुर्निःश्वसन्ती पपात भुवि मूर्च्छिता ।। ५ ।।
अथ राजा सुतां द्रष्टुं ममकारो बलैः सह ।
आगत्य वनमन्विष्य कुत्रचित्तां ददर्श ह ।। ६ ।।
सखीभिः सह तां क्लान्तां चिंताक्रान्तां सुतां तदा ।
दृष्ट्वा तत्पितरौ खिन्नौ समीपं प्रापतुर्द्विजाः ।। ७ ।।
पृ० १८२) हस्ताभ्यां तां समालिंग्य प्राहतुर्मोहिनीनृपौ ।
चिंतां त्यज सरोजाक्षि चित्तविभ्रमणं कुतः ।। ८ ।।
मंडलाधिपतेः पुत्रे त्वामद्योद्वोढुमीच्छति ।
अनुसृत्याटवीं प्राप्ता कथं मार्दलिकं सुते ।। ९ ।।
अहो कुमुदपत्राक्षि दुरवस्थामिमां कथं ।
अनुभावयते सोऽयं शिवस्त्वां बत निर्घृणः ।। १० ।।
अर्धरात्रे समागत्य माता तव मनस्विनी ।
बोधयामास तन्वंगि कथं न श्रुतवत्यसि ।। ११ ।।
अन्यमूर्धाभिषिक्तानामहं भर्तेति विश्रुतः ।
तादृशं मामनादृत्य कथं वैयात्यमागता ।। १२ ।।
सांप्रदायिकमर्यादां कथं वा त्यक्तुमुद्यता ।
कथं साहसिका पित्रोराज्ञामुल्लंघितुं क्षमा ।। १३ ।।
किमनेन स्थितस्यैव चिंतनीया गतिः किल ।
गताम्बुसेतुबन्धोक्तन्यायेन किमतः परं ।। १४ ।।
पृ० १८३) वने मोहिनीराज्ञोः समक्षं विमलामाययोर्भूमेस्स्वर्गगमनम् ।
मयैष क्षमितो मन्तुः शीघ्रमुत्तिष्ठ बालिके ।
पल्यंकिकां समारुह्य गम्यतां मंदिरं प्रति ।। १५ ।।
इत्युक्तवन्तं राजानमवलोक्य शुभानना ।
विमला प्रौढया वाचा विस्पष्टमिदमब्रवीत् ।। १६ ।।
त्यज राजन् सुताभ्रान्तिं मायैषा दुहितुर्गिरेः ।
सन्निधौ देवदेवस्य प्रतिज्ञामतनोत्किल ।। १७ ।।
मदीयहावभावाद्यैरल्लमप्रभुवल्लभं ।
वशयित्वा हरिष्यामीत्यद्रींद्रसुतया समं ।। १८ ।।
बहुधा वंचितोऽप्येष प्रभुः सर्वजगन्मयः ।
निर्जित्य गतवान् मायां प्रतिज्ञाऽस्या हताऽमुना ।। १९ ।।
कैलासमावां गच्छावः कार्यं नास्ति महीतले ।
राजन्विषादं संत्यज्य नगरीं गच्छ मा चिरं ।। २० ।।
इति नृपमथ पत्नीमीरितैः सांत्वयित्वा निजनियममहिम्ना निर्गते
भूमिमार्गात् ।
सुरपथि विमलेयं सुंदरी साऽपि माया क्षणमुपरि मिलित्वा जग्मतुः
शंभुशैलं ।। २१ ।।
राजाऽथ पत्नीसहितो महार्त्या क्लिश्नन्वदन्हा बत हा बतेति ।
पृ० १८४) भूमौ पतन्मूर्ध्नि रजो निषिंचन् लुठन्रुदन् पुत्रि कुतो गतेति ।।
२२ ।।
क्रुशंस्तपन्नाः किमिति प्रशुष्यन् भुग्नोभवन्नात्मनि वेपमानः ।
स्खलञ्छ्वसन् स्थातुमशक्नुवानश्चिखेद पुत्रीवीरहेण विप्राः ।। २३ ।।
तच्चारुता तत्पटुता विलासास्ते वा कथं स्युर्भुवि गोचरा नः ।
कथं नु विस्मर्तुमिमान्क्षमाः स्मः स्त्रिया सहेत्थं विललाप राजा ।। २४
।।
तदा गुरुस्तस्य समेत्य तूर्णं श्रीमानहंकार इति प्रसिद्धः ।
विवेकबोधं कृतवानहो किं वृथाऽऽत्मखेदेन गतां प्रतीति ।। २५ ।।
आज्ञां शिवस्याखिलवल्लभस्य विलंघितुं कः प्रभुरत्र जन्तुः ।
मायाऽस्मदीये सदने ह्युषित्वा भूयो गता केन च कारणेन ।। २६ ।।
जन्मादि तस्याश्चरितं विचित्रं प्रत्यक्षमस्माकममानुषं तत् ।
एतावदेवर्तमियं न पुत्री श्रुत्वाऽप्यबुद्धो विमलोदितं किं ।। २७ ।।
पृ० १८५) वने ममकाराय अहंकारगुरूक्तराजनीतिः ।
अतो न दुःखं भज राजमौले त्वया हि नीतिर्न विचालितासीत् ।
अन्वेषणार्थं वनमद्य यातं यतो न चेद्भ्रश्यतु नीतिमार्गः ।। २८ ।।
प्रभोस्तिरोधानमवेक्ष्य माया स्वयं शरीरेण सहैव यायात् ।
जगत्स्विदं संशयकारणं स्याद्विटेन नीता नृपपुत्रिकेति ।। २९ ।।
इतोऽपि नीतिर्नविचालनीया त्वया प्रवेश्या ननु राजधानी ।
पुनश्च नो यास्यसि ता यदि त्वं मनस्सु नृर्णां किल संशयः स्यात् ।। ३०
।।
राजा हि सर्वत्र पिता च माता राजा गुरुर्बंधुजनः प्रजानां ।
दुष्टान्सदा दंडयितुं च शिष्टान् जागर्ति यः पालयितुं स राजा ।।
३१ ।।
यो वा निरर्थं व्यसनाभिषंगी धर्म्यात्प्रजाः पालयितुं न शक्तः ।
संत्यज्य तं सर्वजनाः प्रयांति धर्मार्थयुक्तान्यनृपालराज्यं ।। ३२
।।
अतोऽस्मदीया भवता वियुक्ताः पुरोहितामात्यपुरोगमाश्च ।
सर्वेऽपि यास्यंति नृपालमन्यं राज्यं च नश्येत्त्वयि संकटस्थे ।। ३३ ।।
पृ० १८६) इति चित्तं समाधाय नृपस्याहंक्रियाह्वयः ।
पुरं प्रापयय मोहिन्या निजास्थाने न्यवेशयत् ।। ३४ ।।
ममकारोऽपि भूपालो मोहिन्या सह लीलया ।
पालयन्नखिलं राज्यं सुखेनोवास भूसुराः ।। ३५ ।।
तत्र सा विमला गत्वा माया च भुवनेश्वरीं ।
तत्पादांबुरुहद्वंद्वे शिरः सांजलि चक्रतुः ।। ३६ ।।
अथ मायां गिरिसुता लिखन्तीमवनौ शिरः ।
अधःकृत्य स्थितां दृष्ट्वा मेने व्यर्थीकृतक्रियां ।। ३७ ।।
मत्वाऽल्लमं जेतुमशक्यमंबाप्युल्लासहीना हृदि निःश्वसन्ती ।
पत्युः सभां गन्तुमवाप्तलज्जा सेहे न गेहेऽपि तिरोहितेव ।। ३८ ।।
श्रुत्वा वृत्तान्तमेतत्पुररिपुरपि तत्पार्वतीमंदिरान्तः-
शालामभ्येत्य लीलावपुरथ कृपया प्रीणयन्सान्त्ववादैः ।
भूयोऽप्यस्यास्त्वहंतामपि शिथिलयितुं ख्यापयन्नल्लमस्य
प्रज्ञामज्ञानहर्तुः सकलसुरगुरोरित्थमार्यां बभाषे ।। ३९ ।।
पृ० १८७) अंतःपुरे गौरीशंकरयोरुक्तिप्रत्युक्तिः ।
अशनिशतमपि स्याच्छक्यमुद्भिद्य पक्तुं गरलभृदपि घोरः शक्यते वा
गृहीतुं ।
अयि सुनिशितदंष्ट्रोद्घाट्यते वापि मृत्योर्विकलयितुमशक्यं गौरि
चेतोऽल्लमस्य ।। ४० ।।
क्व माया क्व प्रभोर्धैर्यमविमृश्य कृतं त्वया ।
तथापि मानसे चिन्तां परित्यज धरात्मजे ।। ४१ ।।
श्रुत्वा पत्युर्वचः प्रोचे किंचिल्लज्जानतानना ।
स्त्रीस्वभावाच्छलोक्त्येव गौरी गिरिवरात्मजा ।। ४२ ।।
प्रेषितां यन्मया मायां मन्मयीमवनीतलं ।
त्वमल्लमतया स्थित्वा जितवानसि भो विभो ।। ४३ ।।
प्रतिज्ञातं निरूढं ते निर्जिताऽस्मि त्वयाप्यहं ।
इति ब्रुवाणां तामीशोऽप्यभिमानितयाऽब्रवीत् ।। ४४ ।।
त्वदीयं तामसगुणं स्त्रियं कृत्वा महीं प्रति ।
प्रेषयंत्या त्वयैव त्वं निर्जिताऽसि वृथा श्रमात् ।। ४५ ।।
सहजानंदसौंदर्यसर्वस्वनिधिमल्लमं ।
मनुष्यमात्रं विज्ञाय मायां प्रेषितवत्यहो ।। ४६ ।।
पृ० १८८) प्रभोर्निरंजनस्याग्रे स्थातुं वा शक्नुयात्कथं ।
मायेयं मनुजस्येव किंचिज्ज्ञस्य जडात्मिका ।। ४७ ।।
नास्य कायगुणाः सन्ति सर्वज्ञस्य महात्मनः ।
न चेंद्रियार्थसंबंधो न संकल्पादिकाः क्रियाः ।। ४८ ।।
अविज्ञाय चिदात्मानमल्लमं सर्वसाक्षिणं ।
कृतो किंचित्करो मोहाज्जेष्यामीति दुराग्रहः ।। ४९ ।।
एवं ब्रुवति देवेशे भूयो भूयो जुगुप्सिता ।
देवी विभुमुवाचेत्थं किं ताडयसि वाक्शरैः ।। ५० ।।
छित्वा नासां तदुपरि दातव्यं किं नु दर्पणं ।
अलं मदपराधानां गणनेन कियत्यहं ।। ५१ ।।
कारुण्यांभोनिधे शंभो क्षांत्या मां परिपालय ।
इति विज्ञापितो देवो जगादांबां शुचिस्मितः ।। ५२ ।।
सुस्थिरा भव कल्याणि चिन्तां नैतावता कुरु ।
पृ० १८९) शिवोक्त्या पार्वतीप्रेषितसात्विककलावतारः ।
यथा कथं चित् त्वद्दैन्यं निवारयतु स प्रभुः ।। ५३ ।।
तच्छ्रुत्वा पार्वती देवी दंडवत् प्रणिपत्य सा ।
कथं निवृत्तदैन्या स्यामिति संप्रार्थितोऽब्रवीत् ।। ५४ ।।
सात्विकी निर्मला देवी मदभिन्ना चिदात्मिका ।
ध्येया योगिहृदब्जेषु या कला त्वयि वर्तते ।। ५५ ।।
तां कर्मरहितां कृत्वा भक्तिवैराग्यनिर्भरां ।
स्त्रीरूपां प्रेषय भुवं तस्या वश्यो भवेत्प्रभुः ।। ५६ ।।
यत्र भक्तिः प्रभुस्तत्र भक्तिः सत्वे च निर्मले ।
अतस्त्वत्सात्त्विककलामनुगृह्णाति स प्रभुः ।। ५७ ।।
निजस्वरूपं कृपया दर्शयित्वा महान्प्रभुः ।
आह्लादयिष्यति चिरं भवत्याः सात्विकीं कलां ।। ५८ ।।
इत्युक्ता सा महादेवी प्रसादोऽयं महानिति ।
प्रेषयामास धरणीं स्वकीयां सात्विकीं कलां ।। ५९ ।।
तदानंदभरादम्बा पुषोषांगानि निर्भरं ।
तां दृष्ट्वा वृषभेशान ईशानं तावदब्रवीत् ।। ६० ।।
एतावत्किमियं गौरी खिन्नांगेषु कृशाऽभवत् ।
अधुना किं प्रहृष्टात्मा पुपोषांगानि सर्वतः ।। ६१ ।।
पृ० १९०) वृषभेंद्रवचः श्रुत्वा तात्पर्यं चावगाह्य सः ।
महात्माऽयमिति ज्ञात्वा सर्वेषां पुरतोऽब्रवीत् ।। ६२ ।।
महात्मन् वृषभश्रेष्ठ कल्याणगुणभाजन ।
त्वयाऽस्ति समता कस्य यतस्त्वं समताश्रयः ।। ६३ ।।
समर्थस्त्वं जगद्भर्तुं भर्तुं मामधिको यतः ।
इति पाठकवद्देवस्तुष्टाव वृषभेश्वरं ।। ६४ ।।
श्रुत्वा सामाजिकाः केचिन्निनिंदुस्तमसूयया ।
श्रुत्वोपालंभवाक्यानि ताटस्थ्यं जगृहे वृषः ।। ६५ ।।
ततोऽप्यतीव हृष्टात्मा स्मरारिः सद्गुणप्रियः ।
बहुमान्यावलोक्याऽथ निंदकांस्तानुवाच ह ।। ६६ ।।
युष्माभिरीर्ष्याविवशैः कृतानि श्रुत्वाप्यसौ दूषणभाषणानि ।
मुक्ताफलं छन्नमिवाध्युदास्ते मानेन किं वा न वदत्यहो वः ।। ६७ ।।
महामुनीनामपि शान्तिरेषा न विद्यते तावदयं हि धन्यः ।
पृ० १९१) भूमाववताराय नंदिने शंकर वचनम् ।
इतीश्वरस्तानुपदिश्य धर्मस्वरूपमाहूय वृषेन्द्रमाह ।। ६८ ।।
नंदिन्महानंदकरस्त्वमेषां वृंदारकाणामपि वंदनीयः ।
मंदाधिकारेण कलौ मनुष्या वंदारुतां मत्पदयोस्त्यजन्ति ।। ६९ ।।
मानुष्यमुद्धर्तुमतो महीयान् मन्मूलमूर्तिः परशंभुरेव ।
सुज्ञानदेव्यां निरहंक्रियस्य पुत्रो बभूवाल्लम इत्यमेयः ।। ७० ।।
त्वं सत्वशुद्धोन्नतपुण्यराशिर्भक्तान्वये भूमितलेऽवतीर्य ।
वर्तस्व तत्रानुभवैकगोष्ठ्या द्राक् सावधानोऽप्यनवद्यभक्त्या ।। ७१ ।।
तत्राल्लमस्त्वन्निकटं समेत्य तुभ्यं स्वयं भक्त्यवधानमार्गं ।
रहस्यविज्ञानमपि प्रसाद्य चित्तं समाधास्यति तावकीनं ।। ७२ ।।
तवात्मनश्चाथ निवार्य भेदं कृतार्थयिष्यत्यचिरात्प्रभुस्त्वां ।
भवान् कृतार्थोऽपि जगत्समग्रं कृतार्थयेति स्वयमादिदेश ।। ७३ ।।
शिवाज्ञयोमित्यृषभेश्वरेऽस्मिन्नंतर्हितेऽथात्मगणान्समीक्ष्य ।
उवाच शंभुः प्रभुनंदिनोर्या भविष्यति स्वानुभवैकगोष्ठी ।। ७४ ।।
पृ० १९२) तां यूयमप्याश्ववधार्य मत्या चित्तेषु ये संशयशंकवस्तान्
।
उन्मूल्य विज्ञानसुनिश्चितार्था भक्तिं विधत्त प्रथितां पृथिव्यां ।। ७५
।।
इति किल गणनाथानीश्वरस्तत्र मुख्यान्सकरुणमुपदिश्यान्तःपुरं प्राप
गौर्याः ।
प्रमथकुलपतीनां सप्ततिः सप्तशत्या सह धरणिमथागादीश्वराज्ञा
ह्यलंघ्या ।। ७६ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
मायानिर्याणशिवकृतगौरीसमाधानचित्कलावतारलीलाप्रेरणवृषभेश्व्
अरमहिमानुवर्णनतदवतारप्रारंभसूचनप्रमथगणभूलोकसमागमनप्र्
अतिपादनगतिर्नामाष्टमोऽध्यायः ।।
इति प्रथमभागः समाप्तः ।।
ओं
वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला ।
ग्रंथ ७ वा
(भविष्यत्पुराणांतर्गत)
प्रभुलिंगलीला
भाग २ रा
हा (महाराष्ट्रतात्पर्यासह)
वेदमूर्ति मणूरमठाध्यक्ष मल्लिकार्जुनशास्त्री
यांनीं पुणे येथें
रावजी श्रीधर गोंधलेकर यांचे जगद्धितेच्छु छापखान्यांत
छापवून सोलापूर येथें प्रसिद्ध केला ।
शके १८२५, सन १९०३
पृ० १) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायां द्वितीयभागप्रारंभः ।
अथ नवमोऽध्यायः ।
सूत उवाच
वीरेश्वरांघ्रिभजनाभिरता मुनींद्रास्सारं कथासमुदये
प्रमथावतारं ।।
व्यासोपदिष्टमधिकृत्य वदामि यूयं श्रुण्वंतु भक्तरसिकाः
प्रभुलिंगलीलां ।। १ ।।
आज्ञयाथ गिरिजाधिपतेस्ते प्रज्ञया परमया प्रमथेंद्राः ।।
वीरशैवविमलात्मसु जातास्तत्र तत्र पृथिवीमधिरूढाः ।। २ ।।
विजयते वसुधारमणीशिरोमणिवदुज्वलसालसमुन्नता ।।
उडुतटीनगरी नगरीतिभिः कनकसौधगृहैरुपशोभिता ।। ३ ।।
तस्यामगण्यगुणसन्मणिरोहणाद्रिर्नाम्ना बभूव विमलो विमलस्वभावः ।।
भार्या च तस्य सुमतिः पतिदेवतानामग्रेगणेयमहिमा बहुमाननीया ।। ४
।।
सा सात्विकी गिरिजया प्रहिता कलेमामात्मोदयोचितशुभाचरितां विचार्य ।।
पृ० २) तद्गर्भशौक्तिकपुटे पिहिताथ जज्ञे मुक्तेव
मुक्तिदमहेश्वरभक्तिसांद्रा ।। ५ ।।
तां चित्कलामिव विलोक्य विलोकनीयां तद्बंधुवृंदमहहा गिरिजैव
साक्षात् ।।
सत्वं शरीरमनुगृह्य धरातलेऽस्मिऋन्नाविर्बभूव शिशुरित्यभितो
ननंद ।। ६ ।।
दीक्षाभिषेकसमयोचितपट्टिकावत्फाले पिता विरचयन् सितभूतिरेखां ।
तस्या बबंध गलपीठतटेऽथ लिंगं हस्ते शिरस्यपि समर्प्य
समर्चनीयं ।। ७ ।।
सुज्ञानभक्तिपरिपूर्णमना भव त्वमित्याशिषा सह रहस्युपदिश्य कर्णे
।।
पंचाक्षरं परमपावनमादरेण माहेश्वरानुपचचार महानुभावः ।।
८ ।।
कला महेशभामिन्यास्सात्विकीयमिति स्वयं ।।
महादेवीति नामास्या विदधे विबुधोत्तमः ।। ९ ।।
नामोचितार्यता हृद्या विद्येव विनयान्विता ।।
आरूढभक्तिः शुशुभे सारूढा संप्रदायिनां ।। १० ।।
अन्ये प्रमथनाथास्ते तत्र तत्र स्थले स्थले ।।
पृ० ३) श्रीसिद्धराममाचार्ययोरवतारकथनम् ।
भक्तान्वयेषु संजाता भक्तिनिष्ठामधिष्ठिताः ।। ११ ।।
नीरागा निर्मलाचारा निर्भया निरुपद्रवाः ।।
न्यायसंपादितानर्थान् जंगमेभ्यः समर्पयन् ।। १२ ।।
वर्णनीया धरास्थल्यां स्वर्णलाख्या महापुरी ।।
स्वर्णगर्यधिका भाति पूर्णा सर्वसमृद्धिभिः ।। १३ ।।
मुग्धाख्यो मुग्धभक्तोऽभूत्तत्रैको मुग्धया स्त्रिया ।।
लिंगजंगमयोः कुर्वन्नाराधनमतंद्रितः ।। १४ ।।
तस्यात्मजोऽभूत्प्रमथः प्रबुद्धः श्रीसिद्धरामाभिधया प्रसिद्धः ।।
वृद्धोऽभवन्भक्तिविरक्तिबोधैः श्रद्धालुरुद्यच्छिवयोगतंत्रे ।। १५ ।।
परिमलिकाह्वयनगरे हरभक्तकुलाग्रणीर्महाविद्वान् ।।
मणिवालमाचय इति प्रथितः प्रमथः परापराभिज्ञः ।। १६ ।।
परवादिमत्तदन्तिप्रकरमहासिंहबिरुदविख्यातः ।।
वरमाहेश्वरपट्टाधीश्वर इत्येष विश्रुतो जयति ।। १७ ।।
भविनामपि शिवभक्तिं सुविमलदृष्ट्या ददाति यः पुंसां ।।
संशोध्य भक्तहृदयान्यवतीत्येतत्किमद्भुतं जगति ।। १८ ।।
पृ० ४) शिवभक्तगणैः सततं शिवशास्त्रविचारमेव कुर्वाणः ।।
शिवयोगी स विरेजे भुवि माचय एव माचयो विदुषां ।। १९ ।।
कर्नाटदेशे नगरी मतल्लीवल्लीव गोशाखिनि भागवाटी ।।
तस्यां प्रसिद्धो वसुधामरेंद्रो भक्ताग्रणीर्मादनमंत्रिनामा ।। २० ।।
तस्योत्तमाचारवती वधूटी मादांबिका नाम पतिव्रताशीत् ।।
तयोः समाराधयतोः सुतार्थं नंदीश्वरोऽभूत्तनयः प्रसन्नः ।। २१
।।
वर्षत्रयं गर्भगतस्स तस्यास्समाधिमास्थाय शिशुः ककुद्मान् ।।
जज्ञेऽथ लोकत्रयरक्षणाय स्वर्भेरिकानिःस्वनपुष्पवर्षैः ।। २२ ।।
उन्मील्य चक्षुर्मुकुलीकृतांगः शिशुर्न चांचल्यमवाप किंचित् ।।
यदा तदाऽभ्येत्य तु संगमेशो दधौ तदंगे सहजेष्टलिंगं ।। २३ ।।
स्वभक्तिसाम्राज्यमहाधिपत्ये पट्टाभिषेकं हृदयेन कुर्वन् ।।
धृत्वा ललाटे भसितं सुदीप्तं नाम्नाथ चक्रे बसवं तमीशः ।। २४
।।
तन्मस्तके हस्ततलं निधाय मायां निरस्योपदिदेश कर्णे ।।
पृ० ५) श्रीबसवराजस्य संगमेशकृतलिंगधारणदीक्षाकथनम्
पंचाक्षरं सप्रणवं सतत्वं सकीलकं सार्थमथो महेशः ।। २५ ।।
अंतर्धिमाप स्मरशासनोऽथ स्वान्तानि तत्रत्यवधूजनानां ।।
उन्मीलितानीव निमीलितानि स्थित्वापि भूत्वाऽथ सुविस्मितानि ।। २६ ।।
दयानिधिः शंकर एव साक्षादागत्य पुत्रस्य महाद्भुतस्य ।।
संजातमात्रस्य दधार लिंगं कंठे तदा क्वापि न दृष्टपूर्वं ।।
२७ ।।
अन्योन्यमेवं ब्रुवतीषु तासु स्त्रीषु क्षणेनैष शिशुः ककुद्मान् ।।
विचालयामास करांघ्रिमुख्यान्यंगान्यथोन्मीलितचक्षुरासीत् ।। २८ ।।
पितापि संस्कृत्य सुतेष्टिनाम निष्क्रान्तिभक्ताशनजालकैस्तं ।।
तत्तत्क्रियोक्तोचितकाल एव पुत्रायितं नंदिनमेव मेने ।। २९ ।।
महेशदत्तं बसवाभिधानमाकर्ण्य पित्रापि तथैव चक्रे ।।
दिने दिने सोपि कुमारचंद्रश्चंद्रः कलावानिव वृद्धिमाप ।। ३० ।।
अध्यापकाध्येतृसमाजमेत्य सकृत्तदीयश्रवणेन बालः ।।
समस्तवेदागमशास्त्रजालं गृहीतवान् सार्थपदं सलीलं ।। ३१ ।।
पृ० ६) शास्त्रागमानामथ वेदाराशेर्वेदांतराशेरपि निश्चयेन ।।
तात्पर्यतः सार बभुत्सुतायां भक्तिर्महेशे परमेति दध्यौ ।। ३२ ।।
अथ गर्भाष्टमे काले दंपती हृष्टमानसौ ।।
बसवस्योपनयनं कर्तुकामौ बभूवतुः ।। ३३ ।।
तद्विज्ञायाऽथ बसवः पित्रा संवाद्य निस्पृहः ।।
नागाम्बिकां स्वभगिनीं प्राह स्म स्वानुरागिणीं ।। ३४ ।।
उपाध्यायो गुरुः स्वामी ममाचार्यश्च देशिकः ।।
अल्लमप्रभुरेवैकः स हि मामुपनेष्यति ।। ३५ ।।
ममोपनेता नास्त्यन्यः प्रभुं सर्वेश्वरं विना ।।
गृहान्निष्क्रमणं योग्यमक्कास्माकं शिवात्मनां ।। ३६ ।।
इत्युक्त्वाऽथ तया साकं बसवः स शिवोपमः ।।
निष्क्रम्य मंदिरात्तूर्णं ययौ कर्पटिसंगमं ।। ३७ ।।
तत्र श्रीसंगमेशस्य समाराधनतत्परः ।।
भक्तैः कतिपयैः साकं न्यवसत्कान्यहान्ययं ।। ३८ ।।
वृषभेंद्रं महेशाने प्रेषयत्यवनीं प्रति ।।
ये वैरस्येन तत्रोचुर्विश्वासरहितं वचः ।। ३९ ।।
तदा तत्प्रांतदेशेषु ते सर्वे परवादिनः ।।
जाता बौद्धादिवंशेषु तत्रापि कलहोद्यताः ।। ४० ।।
तेषु मुख्यतमो धूर्तो बीजलो नाम भूपतिः ।।
पृ० ७) कल्याणपुरीम्प्रति बसवराजागमनकथनम्
शशास कल्याणपुरं सर्वकल्याणकारणं ।। ४१ ।।
तत्रालये महेशस्य शिलाशासनमुन्नतं ।।
स्थापितं येन केनापि लिपिर्न ज्ञायतेऽद्भुता ।। ४२ ।।
बीजलस्तां लिपिं दृष्ट्वा विभेदयितुमक्षमः ।।
लिपिज्ञान् भूतले सर्वान्समाहूयाप्यदर्शयत् ।। ४३ ।।
तैरप्यबुद्धस्तल्लिप्यां शिलायांबीजलो नृपः ।।
भूयः प्रतिज्ञामकरोद्भेरीवादनपूर्वकं ।। ४४ ।।
यो वा को वाऽद्भुतामेतां लिपिं वाचयति क्षितौ ।।
स्वराज्याधिपतिर्भूयात्सप्रधानाग्रणीरिति ।। ४५ ।।
बलदेवोऽथ तन्मंत्री वीरशैवान्वयोत्तमः ।।
बसवस्याधिकां प्रज्ञां श्रुतवानतिथिव्रजैः ।। ४६ ।।
राज्ञे विज्ञाप्य मंत्रींद्रो गत्वा कर्पटिसंगमं ।
बहुधा तं समाधाय ह्यानिनाय पुरं प्रति ।। ४७ ।।
गीतवादित्रनृत्यादिवैभवैरागतं नृपः ।।
प्रत्युज्जगाम बसवं माहेश्वरगणावृतं ।। ४८ ।।
प्रापयय नगरीं स्वीयां राजा देवालये स्थितं ।।
शासनं दर्शयित्वाऽस्मै वाचयेति व्यजिज्ञपत् ।। ४९ ।।
पृ० ८) पपाठाऽभ्यस्तवत्तूर्णं बसवो दिव्यशासनं ।।
अवगाह्यास्य तात्पर्यं राजा लेभे महानिधिं ।। ५० ।।
धनानां दशकोटीनां लाभात्संतोष्य पार्थिवः ।।
संप्रार्थ्य बसवं चक्रे मंत्रिपट्टाधिनायकं ।। ५१ ।।
दंडनाथोऽस्य संप्रीतो बलदेवो नृपाज्ञया ।।
गंगाम्बिकां सुतां तस्मै ददौ प्रार्थनपूर्वकं ।। ५२ ।।
उद्वाह्य वीरशैवोक्तमार्गेण बसवेश्वरः ।।
राज्ञः प्रार्थनया सर्वां वसुधां पालयन् स्थितः ।। ५३ ।।
दृऽऽन्मात्रेण जगत्सर्वं सृजत्यवति हन्ति च ।।
वोढुस्तस्य कियान्भारो भूखण्डवहने द्विजाः ।। ५४ ।।
बाह्याभ्यन्तरतौल्येन समाधिं सर्वदा भजन् ।।
कटाक्षानुगृहीतैः स्वैः पालयामास मेदिनीं ।। ५५ ।।
माहेश्वरैरसंख्यातैर्नित्यं कृतशिवार्चनः ।।
प्रसादान्नानि भुंजानो वीरशैवं व्यवर्धयत् ।। ५६ ।।
भगिनी तस्य नागाम्बा बसवस्योत्तमाशया ।।
तेनोपदिष्टमार्गेण शैवं धर्ममपालयत् ।। ५७ ।।
पृ० ९) श्रीचन्नबसवाभ्युदयकथनम् ।
ब्रह्मचर्यव्रतपरा परवैराग्यनिर्भरा ।।
परापरविभागज्ञा परमं शैवमाश्रयत् ।। ५८ ।।
कदाचिद्बसवः श्रीमान् जंगमप्रवरैः सह ।।
आराध्य बुभुजे भक्त्या प्रसादान्नं महेशितुः ।। ५९ ।।
तद्भुक्तिकाले बसवस्य वक्त्रात्प्रसादशिक्थानि तु पंचषाणि ।।
दैवात्पृथिव्यां चलितानि दृष्ट्वा नागाम्बिका निश्चलभक्तिनिष्ठा ।। ६०
।।
स्वयं समुद्गृह्य शिवेच्छयैव संस्पर्शयंत्यंजलिनेक्षणे द्वे ।।
भक्त्याऽवधानेन समाहितात्मा प्रसादबुद्धया बुभुजे कृशांगी ।। ६१ ।।
तेनैव पुण्येन गृहीतगर्भा साक्षात्कृतेनाथ शिवेन तन्वी ।।
निवृत्तसंदेहपदा यथार्हं च्छन्नाभिधं सा सुषुवे तनूजं ।। ६२ ।।
स बालेवेश्वरचिह्नितानि वहन् शरीरे जगदद्भुतात्मा ।।
तिरोदधे लौकिकरक्षणाय भूयस्ततछन्न इति प्रसिद्धः ।। ६३ ।।
बसवोपमसौशील्यभक्तिज्ञानगुणोदयैः ।।
स च्छन्नबसवो नाम्ना ख्यातो माहेश्वरोत्तमः ।। ६४ ।।
अधीत्य सर्वशास्त्राणि सर्वान्वेदागमानपि ।।
बसवादेव तच्छिष्यश्छन्नोऽभूद्दंडनायकः ।। ६५ ।।
पृ० १०) षट्स्थलक्रमविज्ञानी समर्पणविधानवित् ।।
सावधानलसद्भक्तिस्सर्वमंत्ररहस्यवित् ।। ६६ ।।
अशेषशैवतंत्रार्थसिद्धान्तज्ञानपारगः ।।
वेदांतशास्त्रं व्याचष्ट स्पष्टं शिष्टैरभिष्टुतः ।। ६७ ।।
अधीत्य बुध्वाऽनुष्ठाय भक्तेभ्यः शास्त्रविस्तरं ।।
संक्षिप्योपदिदेशैष सारमुद्धृत्य सर्वतः ।। ६८ ।।
प्रतिभूर्भक्तरक्षार्थं भक्तो बसवयोगिनः ।।
स च्छन्नबसवो रेजे प्रच्छन्न इह षण्मुखः ।। ६९ ।।
प्रादुर्बभूव बसवस्य कुमाररत्नं रत्नाद्रिचापवरभक्तकिरीटरत्नं ।।
तं संगमेश्वर इति प्रथितं पुपोष गंगांबिका शुभगुणा
गुहमंबिकेव ।। ७० ।।
लोके प्रसिद्धिमगमद्बसवो महेशः पाषाणपादपपशुत्वनिवृत्तयेऽस्य ।।
चिंतामणिं मनसि कल्पतरुं कराब्जे गेहांगणे समवयत्सुरभिं तथेति
।। ७१ ।।
पृ० ११) बसवशब्दनिर्वचनपूर्वकं तस्यवितरणवैचित्र्यकथनं ।
वस्वाख्ययाऽष्टवसवोऽष्टविभूतिनाथाः स्वर्णानि दिव्यमणयश्च भुवि
प्रसिद्धाः ।।
तान्वाति गंधयति गच्छति चेति नाम्नाप्यन्वर्थकेन वसुवो वबयोरभेदात् ।।
७२ ।।
तस्माद्वसूनि सुबहूनि च यस्य सन्ति संकल्पमात्रबशगा मणयश्च सर्वे
।।
भृत्या इवाष्टबसवो निधिदर्शने स्युस्तस्यार्थ्यभीष्टफलनाय कियान् हि
भारः ।। ७३ ।।
शंभुः समस्तजगदुद्धरणाय तस्मै संप्रेषणावसर एव धरां प्रति
स्वं ।।
ऐश्वर्यवीर्यनिजबोधविरागकीर्तिश्रीषट्कमेव भगवान्प्रददौ समग्रं
।। ७४ ।।
राज्यं च बीजलनृपालमणेः समग्रं स्वायत्तमेव स तु भृत्यसमो
बभूव ।।
तस्मान्निरंतरमसावखिलार्थिदाता भक्त्या चकार
गुरुजंगमलिंगपूजां ।। ७५ ।।
विद्वत्कविद्विजभटावलियाचकानां यद्यत्सुवर्णमणिवस्त्रगजाश्ववृंदं
।।
गोभूमिधान्यशयनासनगेहकन्यापल्यंकिकाप्रभृति तत्तदभीष्टमादात्
।। ७६ ।।
नित्यं चरार्चनपरो निजयोगनिष्ठो निर्वाणमार्गनिरतो नियमव्रतस्थः ।।
पृ० १२) निःसंगभक्तिभरितो निगमांतवेत्ता निर्मायिकान्तरसवो बसवो
रराज ।। ७७ ।।
भक्तौ विरक्तौ बसवः स एकः प्रसिद्ध इत्यम्बुधिवेष्टितोर्व्यां ।।
श्रुत्वास्य कीर्तिं शिवयोगिवर्यास्संद्रष्टुकामाः समुपाययुस्तं ।। ७८ ।।
बहिर्जनकरस्पृष्टभांडेष्वग्राह्यताधिया ।।
विशेषनियमैर्युक्ता व्रतस्थाः केचिदागताः ।। ७९ ।।
अदीक्षितगृहद्रव्यपाके विमुखतां गताः ।।
मुख्यव्रतसमाचाराः केचिदाजग्मुरास्तिकाः ।। ८० ।।
हस्तेन परपाकान्नमस्पृशन्तो दृढव्रताः ।।
स्वहस्तपाकनिरतास्समाजग्मुः समेत्य तं ।। ८१ ।।
भरितार्पणनिष्ठा ये भव्यशीला महोन्नताः ।।
भक्त्या बसवमंत्रींद्रं द्रष्टुकामाः समाययुः ।। ८२ ।।
आगलाच्छादनरताः सर्वांगाच्छादकाः परे ।।
पादुकव्रतनिष्ठा ये घ्राणाच्छादनिकव्रताः ।। ८३ ।।
दर्शनस्पर्शनालापैर्बहिर्जनपराऽऽन्मुखाः ।।
सूर्यांशुदूषितांभोभिरनर्चनपराः परे ।। ८४ ।।
पृ० १३) कल्याणंप्रत्यनेकदेशवास्तव्यवीरमाहेश्वरागमनकथनं ।
अकृष्टपच्यान्नरताः कृष्टपच्यपराऽऽन्मुखाः ।।
स्वयमानीतपुष्पाद्यैः शिवार्चनरताः परे ।। ८५ ।।
कृतकद्रुमसंजातपत्रपुष्पपराऽऽन्मुखाः ।।
विना जंगमलिंगस्य पूजामनशनव्रताः ।। ८६ ।।
एवभुक्तोपवासादिचांद्रायणपरायणाः ।।
क्षीराहारा मिताहारा अष्टग्रासाशनाः परे ।। ८७ ।।
अधः शयननिष्ठाश्च ब्रह्मचर्यव्रताः परे ।।
अर्चनावधिजिह्वांबुगिलने विमुखाः परे ।। ८८ ।।
विनार्चनांगमन्यत्र पानीयविमुखाः परे ।।
तांबूलचंदनालेपस्रगादिविमुखाः परे ।। ८९ ।।
शिखासूत्रादिरहिता लिंगैकनियताः परे ।।
कालत्रयार्चकाः केचिच्चतुष्कालार्चकाः परे ।। ९० ।।
षाट्कालिकार्चनरताः स्थिरार्चाविमुखाः परे ।।
सर्वांगोद्धूलितसदाभसितव्रतवर्तिनः ।। ९१ ।।
पृ० १४) केचित्सर्वस्वसमयसदाचारसमन्विताः ।।
इष्टलिंगमनोनिष्ठा द्विस्त्रिरष्टविधार्चकाः ।। ९२ ।।
अन्ये च शिवशास्त्रोक्तमहाव्रतपरायणाः ।।
ते सर्वे बसवेशस्य मंदिरं द्रष्टुमागताः ।। ९३ ।।
तांस्तान्समीक्ष्य संतुष्टो बसवो वसुवासवः ।।
तत्तदर्हक्रमैर्न्यायादर्चयामास सादरं ।। ९४ ।।
तत्कारितात्मसेवाभिर्हृष्टचित्ताः परस्परं ।।
स्तुवन्तो बसवाधीशमाशीर्वचनपूर्वकं ।। ९५ ।।
नीत्वा दिनानि कतिचिच्छास्त्रश्रवणतत्पराः ।।
शिवानंदामृताम्भोधिमग्नास्तत्रैव संस्थिताः ।। ९६ ।।
स्वस्वकार्याणि विज्ञाप्य केचिद्याचनतत्पराः ।।
तद्दत्तममितद्रव्यमादाय स्वदिशं गताः ।। ९७ ।।
निर्लज्जा निर्भया धूर्तास्तत्र ये विटजंगमाः ।।
बहुद्रव्याणि याचन्ते तेषां संख्या न विद्यते ।। ९८ ।।
वादार्थं तत्र ये याता बहवः परवादिनः ।।
तान्सर्वानन्नपानाद्यैर्निवेश्य भवनेषु सः ।। ९९ ।।
प्रत्यहं वादशालायामाह्वयन्नुचितासने ।।
पृ० १५) बसवेशकृतपरवादिनिरसनकथनम् ।
बहूकृत्य स्वकीयैस्तान् वादयामास पंडितैः ।। १०० ।।
स्वयं माध्यस्थ्यमास्थाय तत्परान् वा पृथऽऽन्नयान् ।।
युक्तिमेव बहूचक्रे न तु वाग्जालमास्तिकाः ।। १०१ ।।
वैदिकैरथ संवादे प्राप्ते समयमर्मवित् ।।
कदाचित् स्वयमेवायं चक्रे वादमहोत्सवं ।। १०२ ।।
मुखभंगं विधायान्ते न्यायेन परवादिनां ।।
अद्यास्तु श्वः परश्वो वा विचार्योत्तरमीर्यतां ।। १०३ ।।
इत्युक्त्वा तावदेतेषामन्नपानादि दापयन् ।।
जितास्मो दीक्षयेत्यस्मानुक्तो भक्तांश्चकार तान् ।। १०४ ।।
पंडितानामभीष्टार्थान् दत्वा शिवरतात्मनां ।।
गजाश्वांदोलिकाछत्रचामरैः पर्यपूजयत् ।। १०५ ।।
भक्तानाराध्य बसवो विनयेन विचक्षणः ।।
ब्रुवंस्त्वदीयोऽहमिति स्वात्मार्पणपरोऽभवत् ।। १०६ ।।
हृद्यहंकाररहितो मूर्तः शांतरसो यथा ।।
शिवभक्तिमयं चक्रे जगत्स्थावरजंगमं ।। १०७ ।।
तत्काले मनुजाः शिवैकनिरताः सर्वेऽपि मोक्षार्थिनः
पृ० १६) कल्याणे तरवो यथा सुरभिलाः श्रीचंदनोन्मिश्रिताः ।।
अन्ये चंदनतां भजन्ति वयमप्येवं प्रभोः संगते-
र्मुक्तास्तत्कृपया भवेम कथमित्यन्तः सदा मेनिरे ।। १०८ ।
कदा वा कल्याणे कनकमणिसौधेऽल्लमविभुं
वयं दृष्ट्वा सद्यः परमशिवसायुज्यपदवीं ।।
भजेमेति स्वातीजलधरपयः शुक्तय इव
प्रसादं वांच्छन्तः सकलशिवभक्तास्तदुषिताः ।। १०९ ।।
इति सकलमुनींद्राः शौनकाद्या धरण्यां प्रमथजनिचरित्रं यन्मया
सम्यगुक्तं ।।
तदपगतरजस्का ये पठन्ति प्रभाते त इह जननमृत्यू नैव गच्छन्ति
धन्याः ।। ११० ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
बसवादिप्रमथावतारवर्णनगतिर्नाम नवमोऽध्यायः ।।
पृ० १७) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ दशमोऽध्यायः
सूत उवाच-
सिद्धवीरेश्वरस्वामिपादभक्तिपरायणाः ।।
श्रुण्वन्तु मुनयः सर्वे प्रभुलीलां शुभावहां ।। १ ।।
अथ तस्या महादेव्या अक्काया अखिलात्मनां ।।
अंगानि बाल्यमुत्सृज्य क्रमाद्यौवनमाश्रयन् ।। २ ।।
कोमले वयसि हेमलतांग्याः कामजिच्चरणभक्तिरिवासीत् ।।
रामणीयकविनीलकचालिर्व्याममानमतिरिच्य सुदीर्घा ।। ३ ।।
ईक्षितुं हरमिवाधिकहर्षादीक्षणे च सकलाननपूर्णे ।।
अर्चितुं प्रमथनाथमिवास्तां तत्करौ विकसितोल्ललिताब्जे ।। ४ ।।
युग्मसाम्यमिव बोधविरागौ जग्मतुः सपदि तत्कुचकुंभौ ।।
ज्ञप्तिवृत्तिरिव साक्षिणि लक्ष्ये सौक्ष्म्यमाप युवतेरवलग्नं ।। ५ ।।
पृ० १८) वर्धमानमभवद्गुरुभक्त्या सार्धमेव वनितोरुनितंबं ।।
चित्तवृत्तिरिव चालनमस्याः शीघ्रतां पदगतिर्विससर्ज ।। ६ ।।
यौवनेन पितरौ जितरंभांतामवेक्ष्य तनयां पतिरस्याः ।।
रूपशीलसुगुणैरनुरूपं को नु वेति हृदि चिन्तयतः स्म ।। ७ ।।
एकदा विजितकौशिकसंपत्कौशिकस्तदनुराडुडुतट्याः ।।
आययौ मदगजोपरि राजा राजवीथिषु विहारपरः सन् ।। ८ ।।
हेमवेत्रधरमागधवृंदैर्दण्डकोरुबिरुदावलिगद्यैः ।।
स्तूयमानमभितः प्रभुमीक्षांचक्रिरे पुरजनाः परितस्तं ।। ९ ।।
यावदेव विमलस्य सुताक्कां तं विलोकितुमिवेषददृश्या ।।
वीथिमागतवती किल दैवात्तावदेव सुदतीं स ददर्श ।। १० ।।
मन्मथोऽपि परमर्मविभेदी कौसुमेषुमधिपे समयुंक्त ।।
भामिनीदृगिषुभिन्नशरीरे रन्ध्रमेव मृगयन्ति हि दुष्टाः ।। ११ ।।
मूर्च्छितोऽथ नृपतिर्हृदये तां भावयन्मुहुरपि प्रतिबुद्धः ।।
बाह्यमार्गमपसृज्य निवृत्तः स्वं गृहं प्रतिययौ स्मरवश्यः ।। १२ ।।
तत्र कस्य दुहिता मम दृष्टा कामिनी मदनकल्पलतेव ।।
पृ० १९) महादेवीमुद्वोढुमनःकौशिकस्य तद्विषयाप्तैस्सह जिज्ञासा ।
तां विचार्य कथयेति रहस्ये चारमाह नृपतिर्हृदयज्ञं ।। १३ ।।
सोऽपि तत्र सुविचार्य नगर्यां भूय एव नृपतिं समुपेत्य ।।
देव सा हरधरान्वयभर्तुर्नंदिनीति विमलस्य जगाद ।। १४ ।।
अथ राजा विचार्यान्तः कथं साधयितुं क्षमा ।।
सैषेत्याप्ततमैः साकं मंत्रयामास मंत्रिभिः ।। १५ ।।
तैर्यद्यदुक्तं तत्सर्वं विचार्य प्रियवादिभिः ।।
स्वयं सिद्धान्तयामास नीतिज्ञ इव भूपतिः ।। १६ ।।
आनीयेत बलात्सा चेद्दृऽऽन्मनःप्रीतिपूर्वकं ।।
न संगमिष्यते मां तद्रसभंगो भविष्यति ।। १७ ।।
प्रजाश्च क्षोभमेष्यंति मर्यादां त्यक्तवान्नृपः ।।
इत्यपख्यातिरपि मे वज्रलेपायते ध्रुवं ।। १८ ।।
तस्मात्तत्पितरावर्थैरसंख्यातैरभीप्सितैः ।।
प्रीणयित्वा यथान्यायं संग्राह्या कन्यकामणिः ।। १९ ।।
इति निश्चित्य राजन्यैरप्युपश्लोक्य भूषितः ।।
पृ० २०) असिक्नीराह्वयित्वाह सादरं समयोचितं ।। २० ।।
हरधृद्विमलार्यस्य कन्यां कमललोचनां ।।
मदीयां न्यायतः कर्तुं भारो हि भवतीर्गतः ।। २१ ।।
साम्ना दानेन भेदेन चातुर्येणैव केवलं ।।
स्त्रियो वशयितुं शक्या न दण्डेन कदाचन ।। २२ ।।
इत्याज्ञप्य रसावेशात्तासां तद्गमनोचितं ।।
ताम्बूलाम्बरभूषादि दापयामास भूपतिः ।। २३ ।।
राजन्महाप्रसादोऽयमिति ता मुदिताननाः ।।
जग्मुर्विलासवैखर्या हरधृद्विमलालयं ।। २४ ।।
विमलेनाऽऽदृताः सत्यो यथोचितमथांगनाः ।।
इष्टगोष्टीप्रसंगेन प्रीणयित्वा तमब्रुवन् ।। २५ ।।
राजाऽस्माकं तव सुतां महादेवीसमाह्वयां ।।
राज्यलक्ष्मीसमां कर्तुमस्मान्प्रेषयति स्म वः ।। २६ ।।
रत्नहेमाम्बरग्रामगजाश्वादीनि भूरिशः ।।
अभीष्टवस्तुजातानि युष्माकं दास्यति प्रभुः ।। २७ ।।
यावत्पर्याप्तमतुलं यौतकं प्रार्थ्यते त्वया ।।
ददाति तत्तदखिलमुदर्कश्च भविष्यति ।। २८ ।।
पृ० २१) विमलस्य सन्निधावन्तःपुरचारिणीनांसंदेशनिरूपणम् ।
कृताभिषेकां त्वत्पुत्रीं सर्वालंकारशोभितां ।।
सर्वस्वकर्त्रीं कृत्वांऽके स्थापयिष्यत्यसंशयः ।। २९ ।।
सर्वराज्याधिपत्येऽस्य प्राधान्यं भज सांप्रतं ।।
मण्डलाधीश्वरायाऽद्य दत्वा पुत्रीं महामते ।। ३० ।।
इत्युक्तो विमलस्ताभिर्हसित्वा पुनरब्रवीत् ।।
अलं राज्ञे सुतां दत्वा कुलं त्यक्तुमनुत्तमं ।। ३१ ।।
कथमाजन्मशुद्धानां प्रमथानां कुलोद्भवः ।।
बहिर्जनवदर्थार्थी राज्ञे दास्यामि नंदिनीं ।। ३२ ।।
विक्रीय जननीं दासीं क्रीणन्निव कथं कुलं ।।
विहत्य धनमाशासे विद्वानपि दुराशयः ।। ३३ ।।
विक्रीयेत प्रभोश्चित्तं यदि त्यक्षामि नीवृतं ।।
विपुला पृथिवी देशो विशालोऽस्ति शिवात्मनां ।। ३४ ।।
विमलस्य वचः श्रुत्वा विहस्य सुदतीजनाः ।।
सुमतीं तत्प्रियां दृष्ट्वा वचनं चेदमब्रुवन् ।। ३५ ।।
आर्ये नृपालतिलकाय सुतां समर्प्य संप्राप्तभाग्यविभवो विहरन् सुखेन
।।
पृ० २२) स्थातुं न वांच्छति विसृज्य समृद्धिमेतां कुत्राप्यसौ
जिगमिषत्यथ को विवेकः ।। ३६ ।।
राजा रिरंसत इहैव बलाद्यदीमां को निग्रहीतुमिममार्यतमं समर्थः
।।
ज्ञात्वेति संमततया स्वयमेव तस्मै नो दातुमिच्छति पतिस्तव को विवेकः ।।
३७ ।।
इति प्रकारैर्बहुभिः प्रजल्पिता वधूरिमौ वीक्ष्य शिवः सतां गुरुः ।।
स सर्वसाक्षीति तदा तदुत्तरं प्रदाय किं वा कुरुतामिति स्थितौ ।। ३८ ।।
अथ स्त्रियस्ताः पुनराहुरात्मजां समाह्वय स्वां यदि साऽस्मदुक्तिभिः ।।
समाहिता चेदनुमन्यतां त्वया न चेद्गमिष्याम इमा यथागतं ।। ३९ ।।
निशम्य वाचं विमलस्तथेति तास्सुतामनःप्रीतिकरो यतःस्वयं ।।
तदंतिकं प्रेषयति स्म सांत्वयन्निदं रहस्येव विचार्यतामिति ।। ४० ।।
अथ किमिति ततस्तास्तद्गृहं प्राप्य देवीं मृदुलमथुरवाचा प्रोचुरक्कां
रहस्ये ।।
नरपतिहृदि वांच्छां तस्य सौंदर्यरेखां सरससुगुणसंपत्साधुतां
प्रौढतां च ।। ४१ ।।
पृ० २३) महादेवीं प्रति दूतीकृतकौशिकगुणवर्णनम् ।
अयि मगधकलिंगावन्तिवंगांगचोलप्रमुखनृपतिकन्या भूपतेरस्य देव्यः
।।
तदधिकगुणमान्या त्वं महच्छब्दपूर्वा भव भवनपतित्वं प्राप्य
देवीति धन्या ।। ४२ ।।
अपि च तव समंताद्बांधवास्सर्वसंपद्विजितदिविजनाथा भोगभाजो
भवन्तु ।।
त्वमपरिमितभाग्या वर्णितुं केन शक्या शपथमिह वदामः पादयोः
पार्थिवस्य ।। ४३ ।।
इदमपि च रहस्यं ते वदामः क्षितींद्रो मदगजमधिरुह्योद्गृह्य
बाह्यालिमार्गं ।।
त्वयि गतनृपवीथ्यां त्वां तदाऽऽलोक्य सद्यः स्मरशरदलितात्मा स्वं
च किंचिन्न वेत्ति ।। ४४ ।।
त्वयि सुतनु नृपोऽयं दत्तचित्तो न जातु स्मरति विहितकार्यं
किंचिदप्यप्रमादात् ।।
न कलयति कथं वा भोजनादौ प्रसक्तिं परिजनविदितोऽपि प्रेक्षते
निर्निमेषं ।। ४५ ।।
स्मरति किमपि हस्तेनादधानः कपोलं हितजनपरिपृष्टो नैव
किंचिद्ब्रवीति ।।
पृ० २४) ह्रियमनुसरतीव त्वत्कथां वक्तुमन्तः समय इह भवत्यास्तं
वशीकर्तुमार्ये ।। ४६ ।।
अलमिह बहुवाग्भिस्त्वं महादेवि चित्ते स्वहितमनुसरैतद्यद्वयं
चोपदिष्टाः ।।
कलमधुरनिनादान् को वदेत्कोकिलानां पदगमनविलासान् वक्ति को
हंसिकानां ।। ४७ ।।
इह सकलजनानां बंधुरात्मात्मनो हि त्वमपि कुरु यथेष्टं सम्यगालोच्य
बाले ।।
इति युवतिजनैः सा लालिता नैव तूष्णीं भवितुमिह ममार्हो यत्प्रमादः
स्वकानां ।। ४८ ।।
इति किल सकलज्ञा चिंतयन्ती तदाक्वा हृदि किमपि निधाय प्राह ता
राजदूतीः ।।
मम हितमिदमार्यास्तद्वचस्तावदेनं नरपतिमिह किंचित्
प्रष्टुकामाऽहमस्मि ।। ४९ ।।
तदधिपमतिशीघ्रं यूयमत्रानयध्वं मम वचनममुष्मै रोचते
चेत्तदूर्ध्वं ।।
भवतु च भवितव्यं तद्भवेद्यत्तु भावीत्यविदितकृतिवाचः किं भवत्यो
महत्यः ।। ५० ।।
वचनमथ सुदत्या राजदूत्यो निशम्य प्रतिवचनमनुक्त्वा
च्छोटिकामात्रकालात् ।।
नरपतिमुपनीय स्थापयन्ति स्म तस्यास्सविधमधिपतिस्तां प्राह
मंदस्मितास्यः ।। ५१ ।।
पृ० २५) महादेवीकौशिकराजयोरुक्तिप्रत्युक्तिकथनम् ।
सुमुखि तव यदिष्टं तत्करिष्यामि नूनं तव वचनमकृत्वा दुष्कृतं
प्राप्नुवानि ।।
शपथमिह वदामि त्वत्पदांभोजयोरित्युदितमथ निशम्य प्राह बाला
नृपालं ।। ५२ ।।
विनयवचनजालैः किं वृथा राजमौले मम हि वचनमेकं
यत्त्वयाऽवश्यकार्यं ।।
यदि तु तदभिमत्या सप्रतिज्ञं विदध्यास्त्वमखिलमपिकार्यं नः
प्रतिज्ञातमेव ।। ५३ ।।
यदि विमतमतिः स्यान्मद्वचस्यास्तदानीं नृपतिलक भवन्तं रंतुकामं
विसृज्य ।।
विहतविषयरागाऽहं गमिष्यामि वेगात्क्वनु मुनिहितवेषेत्युक्त ऊचे
पुनस्तां ।। ५४ ।।
संदेहं त्यज मानिनि स्वहृदये यद्वाक्यमूरीकृतं
तन्निर्वर्त्य यथार्थमेव सदये चित्तं समाधाय ते ।।
पश्चात्त्वद्रतिकेलिकासुखमहं लप्स्ये बलाच्चेद्यदि
प्रायश्चित्तशतैर्ममास्ति वनिते पापस्य नो निष्कृतिः ।। ५५ ।।
अनृतं मद्यपानं च मातापित्रोर्विरोधनं ।।
वृथा सर्वप्राणिहिंसा स्त्रीणां बंदीनिवेशनं ।। ५६ ।।
पृ० २६) परबाधा परस्त्रीणां रिरंसा गुरुदूषणं ।।
स्वार्थं परार्थहननं गोप्यापहरणं तथा ।। ५७ ।।
पत्योः पैशुन्यकरणं विशिष्टद्रोहवर्तनं ।।
उपकर्तर्यपकृतिस्तथा प्रत्यनुपक्रिया ।। ५८ ।।
दत्तस्य पुनरादानं दाने प्रत्यूहचिंतनं ।।
बहिष्कर्तव्यताहेतुकृतघ्नत्वमिति प्रिये ।। ५९ ।।
निषिद्धा चरणान्येतत्कर्तृर्णां या गतिर्नृणां ।।
सैव भूयान्मम तव प्रतिज्ञातार्थभंजने ।। ६० ।।
सत्यं पश्य महादेवि न कार्या कालयापना ।।
अन्तःपुरं ममाऽद्यैव गन्तव्यं शुभचिंतया ।। ६१ ।।
इति संप्रार्थिता राज्ञा देवी वचनमब्रवीत् ।।
गम्यतां भवता राजन् आगमिष्याम्यतः परं ।। ६२ ।।
पितरौ संमतौ कृत्वा सुतरामितरानपि ।।
चतुरत्वेन यास्यामि न तु रोधो भवेद्ध्रुवं ।। ६३ ।।
इति राजानमाजानपरिशुद्धा निवर्त्य तं ।।
आराध्य भक्त्या देवेशं स्वात्मार्पणमथाकरोत् ।। ६४ ।।
शिवनिष्ठागरिष्टां तां सकलज्ञां निजात्मजां ।।
पृ० २७) महादेव्याः कौशिकगृहगमनकथनम् ।
विज्ञाय पितरौ तूष्णीं बभूवतुरनिंदितां ।। ६५ ।।
अथ राजा गृहं गत्वा भूषणानि महान्ति सः ।।
दिव्याम्बराणि चानिन्ये सौवर्णानि निजांतिकं ।। ६६ ।।
पल्यंकिकां रत्नमयीं रम्यां ताम्बूलपेटिकां ।।
पतद्ग्रहं च भृंगारं शृंगाररसपूरितं ।। ६७ ।।
चामरं व्यजनादर्शछत्रचित्रकपात्रिकाः ।।
किंकरीस्तानि बिभ्राणाः सज्जीचक्रे महीपतिः ।। ६८ ।।
अन्तःपुरे मणिमये सौधे केलिकथोचितं ।।
प्रसूनमंडपं दिव्यं कारयामास शिल्पिभिः ।। ६९ ।।
गुरुणा कुसुमास्त्रेण धृतप्रतिसरो नृपः ।।
प्रेषयामास तन्वंगीमानेतुं सर्ववैभवैः ।। ७० ।।
आहूता ताभिरब्जाक्षी प्रतिश्रुत्य तथेति सा ।।
अलंकृतांगी प्रययौ भूषांबरविशेषकैः ।। ७१ ।।
दिव्यमाल्यानुलेपाढ्या सर्ववैभवसंयुता ।।
पल्यंकिकां समारुह्य राज्ञोऽन्तःपुरमाविशत् ।। ७२ ।।
अवलोक्य स्त्रियः सर्वा दृष्ट्वा श्रियमिवागतां ।।
पृ० २८) मंगलारार्तिकाद्यैस्तामुपचारैः समर्चयन् ।। ७३ ।।
राजा विनयसम्पन्नो भर्महर्म्यं प्रवेश्य तां ।।
तत्र गारुत्मतमये पीठे समुपवेशयत् ।। ७४ ।।
रंभामिवोरुविजितरंभां कुंभस्तनोन्नतां ।।
पश्यन्मदविकारेण नृपतिस्तामथाब्रवीत् ।। ७५ ।।
महादेवि समागच्छ मम शययां विभूषय ।।
सोढुं कथमहं शक्नोम्येवं तिष्ठसि चेत्पृथक् ।। ७६ ।।
इति ब्रुवन् यदा राजा ग्रहीतुं तावदुद्यतः ।।
तदैव देवी सा राजंस्तिष्ठ तिष्ठेति चाब्रवीत् ।। ७७ ।।
विस्मृतं वा त्वया पूर्वमुक्तं मद्वचनं मम ।।
प्रदाय त्वत्प्रतिज्ञातं ततो मां स्प्रष्टुमर्हसि ।। ७८ ।।
निवार्यमाणो भूपालो ग्रहीतुं तावदक्षमः ।।
हृदिस्थं वद मे देवि करोमीति तथाऽब्रवीत् ।। ७९ ।।
प्रजानाथं महादेवी प्राह पार्थिववल्लभ ।।
मत्समः शिवभक्त्या चेत्तदा मां स्प्रष्टुमर्हसि ।। ८० ।।
श्रुत्वैतत्प्राह तां राजा सा मे मास्तु कदाचन ।।
मदनस्यैव भक्तोऽहं न भक्तस्तद्रिपोः क्वचित् ।। ८१ ।।
इति ब्रुवन्तं निध्याय ध्यायन्ती हृदि शंकरं ।।
पृ० २९) शैवदीक्षाविमुखं कौशिकं प्रति महादेवीकृतगर्हणकथनम् ।
लक्ष्यीकृत्य तृणं मध्ये महादेवी तमब्रवीत् ।। ८२ ।।
अहो मूढजनो लोके शिवभक्तिविवर्जितः ।।
जिह्वया नैव गृह्णाति भोज्यमन्नं रसाप्लुतं ।। ८३ ।।
स्नानानुलिप्तोऽपि पुमान्भूषांबरविभूषितः ।।
शिवभक्तिविहीनश्चेद्दारुप्रतिकृतिर्हि सः ।। ८४ ।।
अतस्त्वं पृथिवीपाल शिवदीक्षाविवर्जितः ।।
लिंगांगसंगहीनश्चेत्कथमंगीकरोम्यहं ।। ८५ ।।
त्वययेव त्वद्वचो लीनं मयि मद्वचनं स्थितं ।।
अहं शिवार्पितस्वान्ता गमिष्यामि यथासुखं ।। ८६ ।।
इत्युक्तवत्यां श्रीमत्यां सुदत्यां स महीश्वरः ।।
चकमे रतिमेवान्तः केवलं न रतिं शिवे ।। ८७ ।।
यथाऽर्कतेजो घूकस्य मूकस्य वचनामृतं ।।
मक्षिकायाश्च सौरभ्यं शान्तिः कोपाकुलात्मनः ।। ८८ ।।
नारिकेलमलर्कस्य च्छिन्ननासस्य दर्पणं ।।
औषधं रोगदुष्टस्य न रुच्युत्पादकं भवेत् ।। ८९ ।।
तथैव नरनाथस्य विषयासक्तचेतसः ।।
शिवभक्तिर्मुक्तिहेतुः सती नाभिमताऽभवत् ।। ९० ।।
अत एव महादेवीमहीपालकयोस्तयोः ।।
संप्राप्तकेलिग्रहयोस्संबंधः समभज्यत ।। ९१ ।।
पृ० ३०) अथ देवी शिवावेशान्निःसंग इव संयमी ।।
जांबूनदांबराण्यंगे धृतानि प्रत्यमोचयत् ।। ९२ ।।
दृष्ट्वा तदद्भुतं राजा भूताविष्टा किमंगना ।।
भ्रान्ता पैत्याधिका चित्तविकला वेत्यचिंतयत् ।। ९३ ।।
अथोचे भामिनि भ्रान्ते निरस्य श्रियमंघ्रिणा ।।
कुत्र वा गन्तुमुद्युक्ता लोके दृष्टचरी नृणां ।। ९४ ।।
इत्युक्तवन्तं राजानमनन्वीक्ष्य महामनाः ।।
देव्यपस्मारिणी वाद्धा स्वैरं त्यक्तत्रपाऽभवत् ।। ९५ ।।
हस्तेन लिंगं सुदृढं गृहीत्वा सर्वांगमुद्धूल्य विभूतिपुंजैः ।।
आपार्ष्णिदीर्घाधिककेशपाशीराच्छादयद्दिव्यशरीरमक्वा ।। ९६ ।।
स्वर्भानुवक्त्रादिव राजबिंबं निष्क्रम्य गेहादथ गन्तुकामां ।।
रामां समुद्वीक्ष्य नृपस्य कामः कामोऽपि कामं हृदयाच्चचाल ।। ९७ ।।
व्यामोहमुत्सृज्य विवेकिरीत्या भाषां स्वकीयां हृदि चिंतयानः ।।
तूष्णीं बभूवेव महाप्रभावात्तस्याश्चिरं भीतमना नृपालः ।। ९८
।।
देवी विनिष्क्रम्य गृहान्नृपस्य वीथिं गता तत्र च बंधुवर्गैः ।।
पृ० ३१) महादेव्यास्तत्पित्रोरुक्तिप्रत्युक्तिकथनम् ।
मातापितृभ्यां च समागताभ्यां संप्रार्थिता स्वात्मगृहं प्रवेष्टुं
।। ९९ ।।
उद्वाहसम्पत्कलया समेतां त्वां द्रष्टुमस्माकमहो न भाग्यं ।।
वैराग्यवेषेण मुनिव्रता वा गेहेऽस्मदीये सुखमास्व बाले ।। १०० ।।
घोराटवीशैलगुहाः प्रवेष्टुं कथं नु शक्नोषि महानुभावे ।।
अंतःशिवध्यानरता गृहे वा वर्तस्व नः पालय तावकीनान् ।। १०१ ।।
इत्थं वदत्सु निजबंधुषु सा हसन्ती प्राहोपतापकथया किमु
मुग्धमिश्राः ।।
साऽहं भवत्तनुभवा न भवामि यूयं चैषाऽस्मदीयशिशुरित्यमतिं
त्यजध्वं ।। १०२ ।।
देहं मदीयमिदमर्पितमीश्वराय नाथो गुरुः प्रभुरिति प्रथितस्त्रिलोक्यां
।।
अन्वेषणार्थमिह याम्यहमस्य साक्षात्कृत्यैव तत्करुणया शिवतामुपैमि
।। १०३ ।।
श्रुत्वैतदद्भुतवचः पितरौ प्रहृष्टौ संस्तुत्य साधु तनये
सरसीरुहाक्षि ।।
वैराग्यसंपदधिकाऽवहिता न किंचित्कन्यात्वतोऽसि विहता यशसावृतेति ।।
१०४ ।।
अस्मद्गृहे हरधरान्वयसंप्रदाये जाता शिवं धवयतीति मदीयभाग्यं
।।
गच्छ त्वदीयमहिमोचितदेशिकेंद्रमाविश्य चेति गृहमापतुराप्तवर्गैः ।।
१०५ ।।
पृ० ३२) इत्थं पितृप्रमुखबंधुजनांच्छिवात्मा तत्वोपदेशवचनैर्हृदि
तोषयित्वा ।।
अक्वाऽथ तेन वपुषा शिवसामरस्यप्राप्त्यै ययो मृगयितुं गुरुवर्यमार्या
।। १०६ ।।
गत्वाऽटवीषु कुलपर्वतगह्वरेषु पुण्यस्थलीषु कमलाकरमंडलेषु ।।
भक्ताश्रमेष्वथ नदीनदसैकतेषु देवालयेषु च विभुं मृगयांबभूव
।। १०७ ।।
कुत्रापि वारिनिधिवेष्टितभूतलेऽस्मिन्नन्वेषयंत्यखिललोकगुरुं मृगाक्षी
।।
वाताशनैव विचचार जनैः समस्तैस्संस्तूयमानविभवा विमलार्यपुत्री
।। १०८ ।।
इति कथितमशेषज्ञानविद्यानिधानं दुरिततरुलवित्रं
चित्कलायाश्चरित्रं ।।
पठति परमभक्त्या पाठकाद्वा शृणोति श्रियमयमिह भुक्त्वा
मुक्तिमाप्नोति चान्त्ये ।। १०९ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां
महादेवीलीलावतारप्रशंसनतदीयवैराग्यमहिमानुवर्णनगतिर्नामदश
मोऽध्यायः ।।
पृ० ३३) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ एकादशोऽध्यायः ।
सूत उवाच ।।
श्रीसिद्धेश्वरवीरदेशिकवरश्रीपादुकासंश्रिता
भक्त्या दुर्विषयेंद्रियारिजयिनः पापौघदूरस्थिताः ।।
कालातीतमहाप्रभावविदिताः कालांतकार्चोदिताः
मौनींद्राः श्रुणुताल्लमप्रभुमुनेर्लीलां सुशीलादृतां ।। १ ।।
अथाल्लमो भक्तजनालिमानसेष्वबोधगाढांधतमिस्रमामृजन ।।
प्रकृष्टविद्योपदिदिक्षुरादरात्तनुं निजानंदमयीं दधौ गुरुः ।। २ ।।
चिदंबरात्माऽपि निजेच्छया तनुं जगद्धितार्थं परिगृह्य सोऽल्लमः ।।
जगाम कल्याणपुरं शिवार्थिभिः प्रपूरितं तद्बसवेन पालितं ।। ३ ।।
विलोकयामास पथि प्रभुः स्वयं सरोवरं फुल्लसरोजमंडितं ।।
दिवानिशायां कुमुदैर्विकस्वरं क्रमेण सूर्यैंदुकरोपलालितं ।। ४ ।।
निपीय भृंगाः कमलासवं सदा मदाद्भुजंगा इव वार्क्षमासवं ।।
पृ० ३४) अशक्नुवन्तो गमनाय कुत्र वा भ्रमन्ति तत्र भ्रमरा यतोऽभवन् ।।
५ ।।
स्वभावसिद्धा ननु संगतिर्द्वयोर्निबद्धपद्मासनहंसयोः सदा ।।
इति प्रकाशीकृतये सदाशते तदीयपद्माशिषु हंसपंक्तयः।। ६ ।।
त्रिलोककान्ताकुचवर्तुलाकृतेर्जयाय तत्रैव रथांगपंक्तयः ।।
तपः समाधाय दिवातपाहतास्समाश्रिताश्चक्रसमाह्वयं भुवि ।। ७ ।।
तदीयकल्लोलविशालडोलिकास्वितस्ततः क्रीडनतत्पराः सदा ।।
निजार्थकप्रत्यायिनो हि सारसा भजन्ति सत्यां सरसाभिधानतां ।। ८ ।।
तदीयरम्योभयपार्श्वविस्तृतं वनं मनोहारि विराजते परं ।।
लवंगमालूररसालचंदनैरशोकभूर्जासनकैतकीवटैः ।। ९ ।।
तथाऽतिमुक्तक्रमुकार्जुनागरुद्रुमैश्च जंबूपनसेक्षुचंपकैः ।।
कपित्थखर्जूरकदल्युदुंबरैरथद्रुपुन्नागमुखैश्च शोभितं ।। १० ।।
तदन्यशाखिप्रकरैश्च वल्लिभिर्विशालशाखोल्ललितोरुपल्लवैः ।।
पृ० ३५) वने कृषिपरं गोगार्यं दृष्ट्वा प्रभुकृततदीयकर्मनिरसनम् ।
प्रसूनसौगंध्यनिरांध्यवैभवैः फलोज्वलैः कोरकितैश्च शोभितं ।।
११ ।।
शुकैः पिकैः केकिगणैरलिव्रजैर्ध्वनद्भिरत्यन्तमनोहरस्वरैः ।।
सुखश्रुतिक्ष्मारुहभूरिसंकुलं विराजते दोहदधूपधूपितं ।। १२ ।।
वनस्य संरक्षयिताऽस्य सज्जनो बभूव गोगाह्वयभक्तपुंगवः ।।
निजेष्टलिंगार्पितसर्वसत्क्रियो विनिष्ठितो जंगमलिंगपूजने ।। १३ ।।
तदैव गोगः कदलीः सरस्तटे वने प्रतिष्ठापयितुं ससाधनः ।।
भुवं समुत्क्रष्टुमुपक्रमक्रमात्समुद्यतस्तं प्रददर्श सोऽल्लमः ।। १४ ।।
विचिंतयामास हृदि प्रभुर्जना अहो प्रखिद्यन्ति वृथा क्रियापराः ।।
श्रमस्तु तेषां ग्रहणार्थमुंदुरोर्महागिरेः खात इव भ्रमोदितः ।। १५
।।
श्रमेण कर्माणि करोति मानवस्ततश्च लोकान्तरभोगलंपटः ।।
पुनस्तदन्ते जनिमाप्य कर्मठः प्रपद्य मृत्युं पुनरेति जन्म सः ।। १६ ।।
बिभेति नो जातु जनो यदेतयोः परंपराया अपि दुःखभाजनः ।।
पृ० ३६) इति स्मरन् गोगमवाप रक्षितुं प्रदिश्य तस्मै शिवभक्तिगोपितं ।।
१७ ।।
समीपगस्तच्छरणार्थितां ब्रुवन्पुनस्तथोक्तः शरणेन तेन सः ।।
शरण्य कुत्राऽगमनं कुतो गतिस्तवेति पृष्टः पुनराह तं प्रभुः ।। १८
।।
श्रयन्ति यन्निश्चलभक्तिनिष्ठिताः शिवैकतानाः स्थलमत्र ते वयं ।।
समेत्य भिक्षां शिवभक्तिलक्षणां सदाऽर्थयन्तो विचराम विष्टपे ।।
१९ ।।
अहं हि नाम्नाऽभवमल्लमप्रभुर्न यत्र कुत्रापि कुटीरमस्ति मे ।।
न च क्रिया वा न तपो न साधनं न संस्थितिश्चेत्युदितोऽवदत्स तं ।। २०
।।
प्रभो महात्मन् नटलिंगविग्रह त्वमेव भावज्ञ इति प्रसिद्धिमान् ।।
भवादृशां पर्यटनं किमीदृशं प्ररोचते पैत्यविकारिणामिव ।। २१ ।।
सुभक्तदत्तोचितकांचनादिभिस्समर्च्य भक्त्या गुरुलिंगजंगमान् ।।
ततः प्रसादान्नभुजां किमासनं न युज्यते भक्तकथाप्रसंजनैः ।। २२
।।
सदा धरापर्यटनैः किमार्जितं पुनः किमार्जिष्यत इत्युदीरितः ।।
प्रभुर्विहस्याह च को भवानहो यथार्थवादीति पुनस्तमाह सः ।। २३ ।।
पृ० ३७) गोगार्यं प्रति प्रभुकृतकृषिकर्मनिरसननिरूपणम् ।
प्रभो दयालो श्रुणु वर्तनं मम स्वकायिकप्राप्तधनैः समाचरन् ।।
यथोचितं जंगमलिंगपूजनं भजे तदीयामृतशिक्थमादरात् ।। २४ ।।
करोमि नित्यं चरलिंगभाषितं तदीयधर्मं शिरसा वहन्नहं ।।
जनैः श्रुतो गोग इति प्रसीद मे त्वदीयभृत्योऽस्मि कृतस्वयंकृषिः ।। २५
।।
प्रकृष्टविज्ञाननिधिर्भवान्गुरुः समस्तलोकस्य चराचरात्मनः ।।
प्रदिश्य मेऽज्ञस्य रहस्यमैश्वरं दयाम्बुधे रक्ष भयाद्भवोदितात् ।। २६
।।
तमेनमव्याजकृपानिधिः प्रभुः शशास गोगं व्यवसायतत्परं ।।
शिवार्थिनां नार्हमिलाप्रकर्षणं खनित्रकुत्कीललवित्रधारणं ।। २७
।।
कृषिक्रियाया ननु जीवहिंसनं शिवो नु गृह्णाति न जीवहिंसकं ।।
अनुग्रहं तस्य विना न मोक्षणं भजेत पाशात्पशुतां प्रयाति सः ।।
२८ ।।
बहिर्जनानामिव भक्तिशालिनां न युक्तमेतद्व्यवसायवर्तनं ।।
परं सदुद्योगवतां यथार्थतः प्रवर्तनेनैव धनार्जनं शुभं ।। २९
।।
यथोक्तलाभेन समार्जिताद्धनाद्विधाय नित्यं गुरुजंगमार्चनं ।।
पृ० ३८) फलं परित्यज्य धिया शिवार्पणात्समेति कैलासमतोऽपुनर्भवं
।। ३० ।।
फलाभिलाषी गुरुलिंगजंगमान् समर्च्य सालोक्यमपि प्रपद्य सः ।।
पुनः पुनर्जन्ममृती समश्नुते ततो रहस्यं कथयामि केवलं ।। ३१ ।।
श्रुणुष्व गोगार्य सुनिश्चलात्मना यथैति कैवल्यपदं निरामयं ।।
अकर्मभक्त्या शरणः परायणं सकीलकं तत्वरहस्यमंजसा ।। ३२ ।।
नरो निहंत्येव निजात्मघातुकं हरींद्रमुख्याश्च सुरास्तथाविधाः ।।
निहत्य तैः कांश्चिदपि स्वयं हता न घातुकं यो हतवान् न वेद्मि तं
।। ३३ ।।
निहन्ति यः प्राणिगणानघातुकांत्स्वघातुकानामपि तं महेश्वरः ।।
स एव शिक्षत्यखिलात्मनां गुरुस्ततो न हिंस्याद्भुवि यं च कं च न ।।
३४ ।।
मनोवचःकायकृतस्य कर्मणः शुभाशुभस्यानुभवाय कल्पते ।।
शरीरिणोऽवश्यतया फलद्वयं हरस्य गर्भेऽपिहितस्य वा श्रुतेः ।। ३५ ।।
ततो नराः कर्मरताः पुनः पुनः फलानुभूत्यै जनिमृत्युसंततिं ।।
पृ० ३९) गोगार्यानुग्रहाय प्रभुदर्शितसमाधिस्थलनिरूपणम् ।
समाश्रयन्ते सति तद्विनाशने किमीशभक्त्या कृपयाऽथवा गुरोः ।। ३६ ।।
न नश्यति द्राग्यदि भोगवासना चरप्रसादानुभवेन किं फलं ।।
विरक्तिशून्यो यदि भक्ततां व्रजेन्न तं विमूढं शरणा हसन्ति किं ।।
३७ ।।
कुतो भजन्तो गुरुलिंगजंगमानुपाधिशून्यैकसपर्यया जनाः ।।
अवाप्य भक्तिं परमां स्थिरीकृतां भजन्ति निर्वाणपदं न बालिशाः
।। ३८ ।।
इति प्रभौ गोगमकारणप्रिये परापदेशेन हितोपदेष्टरि ।।
उवाच गोगः प्रभूमीश मादृशां कथं कथाऽयश्चणकोपमेदृशी ।।
३९ ।।
अथाल्लमस्तं कृपयाभिरक्षितुं विचिंत्य दृष्टान्तपुरःसरं चिरं ।।
अतींद्रियज्ञाननिधिः समाधिना ददर्श तत्रैव रहस्यमद्भुतं ।। ४० ।।
इदं प्रदर्श्याद्य समाधिनिष्ठितं विधाय च प्राणसमाख्यलिंगके ।।
प्रयासकृत्यानि निरस्य पालयाम्यथेति संकल्प्य पुरोऽस्य तस्थिवान् ।। ४१ ।।
निधेहि गोगार्य खनित्रमत्र ते विलोक्यतेऽधः शिखरं हिरण्मयं ।।
विचित्रमत्रास्ति दृढं निखन्यतामिति प्रभूक्त्या स ददर्श तत्तथा ।। ४२
।।
ससंभ्रमं चख्नतुरत्र तावुभौ क्रमात्समीक्ष्याथ समाधिमंडपं ।।
पृ० ४०) मनोहरं दीप्तिभिरंतरं ततः प्रविश्य तत्रत्यमवेक्ष्य विस्मितौ
।। ४३ ।।
बहिः सुविस्मृत्य समौनमुद्रया दृशा निदिध्यासनयाऽनिमेषया ।।
विरागसुज्ञानशमादिसंपदा समाहितं पूरुषरत्नमुत्तमं ।। ४४ ।।
तदंतरंगं सुपरीक्ष्य वीक्षितुं प्रविश्य चांतर्गृहमादरादुभौ ।।
विलोकयामासतुरंगलिंगयोश्चिदैक्यभावेन गुणातिगं गुरुं ।। ४५ ।।
तथा महालिंगमयासुलीनसन्मनोंऽगमप्यंगगुणैरसंगतं ।।
मनुष्यपांचालिकया समाकृतिं प्रभुः स मेनेऽनिमिषार्यदेशिकं ।। ४६ ।।
स गोगमाहाल्लमदेवसत्प्रभुस्सुभक्तिनैश्चल्यनिदर्शनं त्विदं ।।
शिवो न संतुष्यति पामरार्चनैर्विनैकधा निश्चलभक्तिमीदृशीं ।। ४७
।।
न शक्यते कर्तुमियं निराकुला जनैः परैर्नैष्ठिकभक्तिरुज्वला ।।
कथंविधाऽहो स्थिरता कथंविधा सुभक्तिनिष्ठाऽस्य कथंविधा
धृतिः ।। ४८ ।।
कथंविधाऽस्याद्भुतशक्तिरुत्तमा कथं हि गांभीर्यमहो कथं स्थितिः
।।
कथं हि लिंगैक्यसुखानुभावनं कथं शिवाद्वैतरहस्यमद्भुतं ।। ४९
।।
पृ० ४१) गोगार्याय प्रभुप्रदर्शितसन्मार्गनिरूपणम् ।
इति प्रभोस्तन्महिमानुभावनं निशम्य गोगः परिपूर्णमानसः ।।
अनेन रूपेण समेत्य भृंगिराट् स एव साक्षात्कृत इत्यमन्यत ।। ५० ।।
नमः समस्तप्रमथान्वयेंदवे समाधिसाक्षात्कृतचंद्रमौलये ।।
तिरस्कृताशेषजगद्विभूतये नमो नमस्तेऽनिमिषाय भृंगिणे ।। ५१ ।।
इति स्तुवन्तं प्रभुराह गोगमप्यहो नु सद्भक्तिपथं किलेदृशं ।।
सदेष्टलिंगैक्यपदप्रदायकं सुगोप्यमस्माकमिदं निदर्शनं ।। ५२ ।।
इदं हि लोकद्वयसौख्यदामलप्रकृष्टविज्ञाननिदानकीलकं ।।
इदं हि गोगार्य दुरिंद्रियेभहृन्मदस्य निर्वापणहेतुरंकुशं ।। ५३ ।।
अनेन मार्गेण यतव्रता जना भवन्ति नित्यानुभवामृताप्लुताः ।।
अमुं परित्यज्य भजन्ति भो जना जनिं मृति दुर्व्यवसायवर्तिनः ।। ५४ ।।
न वेषमात्रान्निजभक्तिवर्जिता भजन्ति लिंगैक्यपदं क्रियापराः ।।
यदिक्षुसाम्यात्प्रचरन्न वेणुकं निवारयेत्कुक्षिगतां क्षुदुष्णतां ।। ५५
।।
पृ० ४२) अहो नु भाग्यं मम दुर्विधो निधिं
यथाक्षदृक्पंगुरिवांघ्रिमप्यहं ।।
भजामि लब्ध्वाऽनिमिषार्यदर्शनं कृतार्थतां गोग भवत्समागमात् ।।
५६ ।।
यथा समन्वेष्य लताऽध्वनि स्थिता हठात्पदेऽन्वेषयितुः सुवेष्टिता ।।
तथाऽद्य भूमौ चरतः शिवात्मनां दिदृक्षया मेऽनिमिषोऽवलोकितः ।। ५७
।।
इति स्वसामर्थ्यमचिंत्यवैभवः पिधाय संभाव्य नटन्मनुष्यवत् ।।
गुरुर्गुरूणां गुरुशिष्यवर्तनं प्रकाशयंच्छिष्यवदेष तुष्टुवे ।। ५८
।।
जगद्गुरो मद्गुरुनाथ सन्मुने कृपानिधे भक्तनिधे शमांबुधे ।।
महानुभावानुगृहाण तावकस्वरूपदृष्ट्याऽनिमिषार्य मां शिशुं ।।
५९ ।।
कृतार्थयैनं घनलिंगनिष्टयेत्यसौ गुरुः शिष्य इवेममर्थयन् ।।
दिदेश गोगाय गुरौ स्थिरां रतिं जना हि शिष्टाचरणानुवर्तिनः ।। ६०
।।
अथाल्लमस्यानिमिषार्यसद्गुरोः करात्समुत्प्लुत्य समीपवर्तिनः ।।
लगत्ययस्कान्तशिलेव सूचिकां समुज्वलं हस्ततलं प्रसर्पणं ।। ६१ ।।
पृ० ४३) गोगार्यकृताल्लमसंयमिसंस्तवनिरूपणम् ।
प्रभोश्चिदानंदखनेः कलैव यद्बभूव मूर्त्याऽनिमिषस्य तत्पुनः ।।
तदिष्टलिंगेन सहैव दृग्गताप्यवाप तत्प्राणकलैक्यमल्लमे ।। ६२ ।।
विलोक्य गोगोऽनिमिषाल्लमावुभौ सुविस्मितोऽचिंतयदात्मनि स्वयं ।।
अहो महत्वं सुविचित्रमेतयोरिमौ सुधींद्रौ विदतुर्नचापरः ।। ६३ ।।
हरोऽथवायं प्रभुरल्लमः स्वयं नरो न येनानिमिषेष्टलिंगकं ।।
प्रभौ महेशे परिपूर्णचिद्घने ययौ किलैक्यं किमहो बहूक्तिभिः ।। ६४ ।।
इति स्तुवन्नल्लममेत्य दण्डवत्प्रणम्य गोगः परिपूर्णभक्तिमान् ।।
व्यजिज्ञपत्सद्गुरुनाथ तावकस्वरूपवेत्ता न जगत्त्रयोदरे ।। ६५ ।।
त्वमेव निःसंगनिरंजनोऽद्वयो यदैक्यमंगेऽनिमिषस्य लिंगकं ।।
तवाप तस्मान्निजरूपमव्ययं भवानहो वेत्ति न चान्यगोचरः ।। ६६ ।।
अनुग्रहाद्देव तवाद्य दृष्टवान् महानुभावानिमिषार्यदेशिकं ।।
यदीक्षणादीश्वरभक्तिरुज्वला ह्युदेति साक्षात्करणैकसाधनं ।। ६७ ।।
इदं सुनिष्पन्नममेयमंगलं ममाविरासीत्सुकृतं पुरातनं ।।
त्वदात्मनां मूर्तममूर्तमादरादमुं शिशुं रक्षितवान् प्रभो भवान् ।।
६८ ।।
पृ० ४४) कदापि नो विस्मरणीय एष मे महोपकारो विहितस्त्वया मुने ।।
क्षितौ सदीक्षं खलु भक्तरक्षणे भवादृशामागमनं महात्मनां ।।
६९ ।।
इति स्तुतः प्रीतमनाः प्रभुः स्वयं सकीलकं तस्य च लिंगसंगतिं ।।
प्रबोध्य चांचल्यमुदस्य चेतसः शिशु कृपापात्रममन्यतात्मनः ।। ७० ।।
वरं वृणीष्वेति वदत्ययं प्रभौ प्रणम्य गोगः पुनराह सांजलिः ।।
गुरोऽस्मि गर्भीकृतसर्वकल्पनं प्रदिश्य लिंगांगसुखं कृतार्थितः ।।
७१ ।।
इतः परो नास्ति वरो ममेप्सितस्तथापि याचे गुरुनाथ सांप्रतं ।।
गृहाण वेषं गुरुजंगमोचितं सुभक्तरक्षार्थमितःपरं क्षितौ ।। ७२
।।
ममाभिलाषोऽयमिहांगलिंगयोः पृथक्त्वमैक्यं च यथार्थतः स्फुटं
।।
स्ववाक्यमात्रेण निबोद्धुमक्षमं प्रदर्श्य साक्षादुपदिश्य रक्ष नः ।।
७३ ।।
महाजनाचारपरंपरागतं शिवेन सिद्धान्तितमागमादिषु ।।
स्वयं सदाचार्यसमाचरन्विधिं निदर्शनेनैव जगद्धितं कुरु ।। ७४ ।।
पृ० ४५) प्रभुकृतगोगार्यप्रशंसाकथनम् ।
इदं नु मत्प्रार्थनमित्युदीरितः प्रभुर्मुदा गोगमवेक्ष्य सस्मितः ।।
उवाच साधो विषयान्परित्यजन् कृतार्थतामेषि परार्थसाधनः ।। ७५ ।।
त्वमेव निष्कामतया महान्गुरुर्यदद्य भक्तावनमात्रतत्परः ।।
वरं वरं याचितवान्नचावरं परोऽसि भक्तेषु हरस्य सन्मते ।। ७६ ।।
क्षितौ दरिद्रा धनमाप्य सादरं किमु प्रयच्छन्ति दरिद्रकोटये ।।
परं तु कुत्रापि निधाय गोपितं स्वयं च भोक्तुं न हि शक्नुवन्ति ते ।। ७७
।।
भवांस्तु निष्ठां शिवभक्तिलक्षणामवाप्य तृप्तोऽनुभवामृताप्लवैः
।।
समस्तभक्तावलिरक्षणोद्यतो वरं वरेण्यं वृतवानहो महान् ।। ७८ ।।
यतो नु गोगार्य विरागसंपदो गुणाधिको लोकहितप्रवर्तनः ।।
गुरोर्गुरूणामपि मे गुरुर्भवानिति स्म दत्तात्मवरोऽसि निश्चितं ।। ७९ ।।
इति ब्रुवन्नल्लमदेवदेशिको दधौ महिम्ना शरणोचितं वपुः ।।
समस्तभक्तावलिरक्षणोद्यतं शिवार्थिनां प्रत्ययकारणं परं ।। ८०
।।
बभौ करे लिंगमथांगसंगतं सितत्रिपुण्ड्रस्मितभस्मलेपनं ।।
पृ० ४६) कटीतटीसूत्रकषायरंजितप्रफुल्लकौपीनकमल्लमप्रभोः ।। ८१
।।
निजेष्टलिंगाहितदृष्टिरान्तरे निमेषशून्या दृशि सन्मनःस्थितिः ।।
मनःस्थितौ कीलितसन्मरुद्गतिर्निरंजनस्यास्य रराज सद्गुरोः ।। ८२ ।।
विनिद्ररुद्राक्षसुकंठमालया दधन्महाजंगमदेशिकाकृतिं ।।
जगाम भक्तावनदीक्षयाऽनिशं प्रभुः शिवध्यानसुखानुभावनः ।। ८३
।।
अथ गुरुशरणोक्त्या त्याजितायासकृत्यो दृढतरशिवभक्त्या मंदिरं
प्राप्य गोगः ।।
समुचितशुभवृत्याऽऽराधयन्भक्तलोकानभजत निजलिंगे पूर्णदृष्ट्या
समाधिं ।। ८४ ।।
इति शिवशरणानामिष्टनिष्ठैकसारं चरितमघविदूरं
गोगभक्तान्वयेन्दोः ।।
पठति मनति चित्ते यः शृणोति प्रपत्या प्रभुरिह परसौख्यं
प्राज्यमस्मै ददाति ।। ८५ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
गोगदेवोपदिष्ठलिंगैक्यरहस्यमहिमानुवर्णनगतिर्नामैकादशोऽध्यायः
।।
पृ० ४७) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ द्वादशोऽध्यायः
श्रीवीरेश्वरसिद्धदेशिकमणिश्रीपादपद्मार्चना-
सक्त्यान्तर्दृढबोधसम्पदुदितास्संत्यक्तबाह्योत्सवाः ।।
च्छिन्नानित्यशरीरमोहलतिका धैर्येण मृत्युंजया
भक्ता मुक्तिवधूमनोहरकलाः शृण्वन्तु लीलां प्रभोः ।। १ ।।
अथाल्लमप्रभुर्भक्तान्भवाब्धेः प्रापयंस्तटं ।।
वारयन् विषयास्वादविषपानाच्चचार सः ।। २ ।।
अभ्यासयंच्छिवज्ञानशर्करास्वादमन्वहं ।।
पूर्णविज्ञानभरितांश्चकार शरणान् क्रमात् ।। ३ ।।
योऽभूत्प्रमथसंतानकलशांऽभोधिचंद्रमाः ।।
ब्रह्मणोऽपि गणेयत्वादजगण्य इति श्रुतः ।। ४ ।।
केन चित्कारणेनासौ भूमौ मानुष्यमाश्रितः ।।
एकान्तभक्तिनिरतः कंचित्कालं निनाय सः ।। ५ ।।
धन्यानामन्वये जातो विहृत्यान्ते स्वलीलाया ।।
लिंगसंगविलीनांगो बभूव प्रमथाग्रणीः ।। ६ ।।
पृ० ४८) तस्याग्रजाऽथ मुक्तायी शिवाचारसमन्विता ।।
अनुजादर्शनक्लेशाद्विललापातिदुःखिता ।। ७ ।।
तद्विज्ञाय प्रभुः सोऽयं प्रत्यग्दृष्ट्या कृपानिधिः ।।
मुक्तायीमात्मशरणां भक्तां सान्त्वयितुं ययौ ।। ८ ।।
तया विनम्रशिरसा क्लिश्यंत्या प्रणतः प्रभुः ।।
तामुवाचाल्लमः स्वामी किं दुःखस्येति कारणं ।। ९ ।।
मुक्तायी तमुवाचेत्थं प्रभोऽल्लम निबोध मे ।।
वृत्तान्तं नगरेऽन्यत्र मातुलो मेऽस्ति दूरतः ।। १० ।।
तस्यास्ति पुत्रिका काचिन्नवयौवनशालिनी ।।
शिवभक्तं विना नान्यं भजे पतिमिति स्थिता ।। ११ ।।
विचार्य तत्पिताऽऽगत्य मद्गृहं भ्रातरं मम ।।
अजगण्यं समालोक्य प्रार्थयामास मातुलः ।। १२ ।।
भागिनेय मदीयेन भाग्येनागत्य मद्गृहं ।।
ऊढ्वा मत्तनयां साध्वीं गार्हस्थ्यं परिपालय ।। १३ ।।
ममापि पुत्रो नान्यस्ते शिवैक्यं पितरौ गतौ ।।
अतो निवस मद्गेहे मदीयं स्वं तवैव तत् ।। १४ ।।
भगिनी तव मुक्तायी भक्तिव्रतपरायणा ।।
गेहे तिष्ठतु भक्तानामाराधनपरान्वहं ।। १५ ।।
पृ० ४९) अल्लमं प्रति मुक्तायीकृतस्वानुजवृत्तांतकथनम् ।
श्रुत्वैतन्मातुलवचो वक्तुमुत्तरमक्षमः ।।
मुखमालोकयामास मम भ्राता सहोदरः ।। १६ ।।
अहं विभिन्नहृदया तमवोचं कथं सहे ।।
वियोगं तव सोदर्य स्थातुं वा कथमुत्सहे ।। १७ ।।
अन्योन्यं शक्यते ज्ञातुं कथं वृत्तान्तमावयोः ।।
हानिवृद्ध्यादिकं सर्वमित्युक्तः प्राह मां प्रभो ।। १८ ।।
अग्रजे किमु ते भ्रान्तं चित्तं विस्मृतमेव वा ।।
मयोपदिष्टं विज्ञानं स्त्रीस्वभावादुताऽधुना ।। १९ ।।
नापेक्ष्यं शिवभक्तानां संयोगजनितं सुखं ।।
वियोगजनितं वापि दुःखं क्व च न विद्यते ।। २० ।।
अपेक्षणीयं भक्तानां सर्वदा सर्वथाऽपि नः ।।
ज्योतिर्मये महालिंगे शिवजीवैक्यमंजसा ।। २१ ।।
तादृग्विधैक्ये संप्राप्ते क्व वा मम हठाद्भुवि ।।
अक्क मुक्तायि ते वच्मि प्रज्ञानं किंचिदात्मनः ।। २२ ।।
विशीर्णं त्वयि मध्नंत्यां दधिभांडं भविष्यति ।।
यदा तदैव मे विद्धि शिवैक्यमिति निश्चितं ।। २३ ।।
इति चित्तं समाधाय मम गत्वा स मातुलः ।।
उद्वाह्य तत्सुतां तस्थावजगण्यस्तदालये ।। २४ ।।
पृ० ५०) गुप्तभक्तिपरो विद्वान् केनाप्यविदितक्रियः ।।
मनःपूर्णशिवानंदोऽप्यसौ लौकिकवत्स्थितः ।। २५ ।।
अहो मम कथं भर्ता शिवभक्तो न रोचते ।।
भग्नप्रतिज्ञा जातेति तद्भार्या चिंतिताऽभवत् ।। २६ ।।
एवं स्थितायां भार्यायां चिंतयंत्यामहर्निशं ।।
दैवात्कदाचिद्द्वारेऽस्य ललाटं दारुणा हतं ।। २७ ।।
तदा नमः शिवायेति तन्मुखोदीरितं वचः ।।
निशम्य सुदती भर्तुर्गुप्तभक्तिं बुबोध सा ।। २८ ।।
अथाजगण्यो मद्भक्तिर्मानुष्ये प्रकटीकृता ।।
न मया स्थेयमत इत्यदृश्यत्व ययौ किल ।। २९ ।।
तदैव दधिभांडं मे व्यशीर्यत यदृच्छया ।।
श्रुतं च पथिकैरित्थं कथं जीवितुमुत्सहे ।। ३० ।।
मत्प्राणपदमुत्कृष्टं मत्सप्तपुरुषाश्रयः ।।
मद्भ्रातृरत्नं मद्ज्ञानप्रदायकमहो गतं ।। ३१ ।।
उपदेक्ष्यति मे को वा सविशेषचरार्चनं ।।
शिवभक्तिरहस्यं वा शीलव्रतपरंपरां ।। ३२ ।।
को वा करुणया नित्यं कारयिष्यति सत्क्रियाः ।।
पृ० ५१) मुक्तायीं प्रति प्रभुकृततत्वोपदेशः ।
गुरुः स्वामी मम गतो रक्षको मां विहाय सः ।। ३३ ।।
इति तस्याः सकरुणं वचः श्रुत्वा दयानिधिः ।।
परितापं परिहरन् बोधयामास तां प्रभुः ।। ३४ ।।
अलं मुक्तायि हृदये परितापेन मानिनि ।।
बोधयामि यथाशास्त्रं तत्त्वं दुःखापहं श्रुणु ।। ३५ ।।
केन चित्कारणेनोर्व्यामवतीर्य गणाधिपाः ।।
स्वस्य कार्याणि निर्वर्त्य कैलासं यान्ति ते पुनः ।। ३६ ।।
न ते भवन्ति कस्यापि भ्रातरोऽवरजास्सुताः ।।
लीलामानुष्यमास्थाय भ्रामयन्त्यबुधान्जनान् ।। ३७ ।।
अस्तु तावदिमे सर्वे जन्तवोऽपि जगत्त्रये ।।
मितान्यहानि विधिना स्थित्वोर्ध्वं यान्ति तत्क्षणात् ।। ३८ ।।
महेश्वराज्ञया सर्वे चलन्ति प्रपतन्ति च ।।
तदाज्ञां न विना किंचिज्जगत्स्थावरजंगमं ।। ३९ ।।
प्रायेणावसरे प्राप्ते जंतूनां न हि शक्यते ।।
निमिषं निमिषार्धं वा स्थातुं विश्वंभरास्थले ।। ४० ।।
हरिब्रह्मादयो देवा अपि स्वस्वमितायुषः ।।
न प्राप्तकालाः स्थास्यन्ति घटिकार्धमथापि वा ।। ४१ ।।
पृ० ५२) यावदायुर्ललाटेऽस्य पूर्वकर्मानुसारतः ।।
लिखितं तावदेतेन स्थीयते न ततःपरं ।। ४२ ।।
येन केन निमित्तेन युद्धरोगव्रतादिना ।।
मृत्युर्यस्य विनिर्दिष्टः स तेन म्रीयते ध्रुवं ।। ४३ ।।
सृष्टिस्थितिप्रलयकृत्स एव परमेश्वरः ।।
नान्योऽस्ति कस्य चित्कश्चिद्व्याजोऽन्यश्च तदिच्छया ।। ४४ ।।
अतोऽलं चिंतया प्राज्ञे किं वृथा तां परित्यज ।।
इत्युक्ता प्राह मुक्तायी मुक्तायनमथाल्लमं ।। ४५ ।।
अस्मद्वंशेऽवतीर्णोऽयमजगण्यो ममानुजः ।।
अस्मान् संरक्ष्य बहुधा नास्मदीयः कथं भवेत् ।। ४६ ।।
त्वदुक्तवाक्यतात्पर्यं त्वयैव ज्ञायते प्रभो ।।
न किंचिदपि मे ज्ञातमित्युक्तः प्रभुरब्रवीत् ।। ४७ ।।
श्रुणु मुक्तायि तत्सर्वं विवृणोमि तवाऽधुना ।।
क्व वंशः क्व च संबन्धो यातायातं प्रपद्यतः ।। ४८ ।।
जन्तोरनेकवंशेषु तत्तत्कर्मानुसारतः ।।
कस्य वा सुखदुःखादि कोऽन्योऽनुभवितुं क्षमः ।। ४९ ।।
म्रीयते केन वा सार्धं कोऽन्यो भ्राताऽथ वा सुतः ।।
इहान्यत्रापि सर्वत्र स्वात्मैव सवात्मनो हितः ।। ५० ।।
पृ० ५३) अन्यस्मिन्नन्वये जातो दीयतेऽन्यस्य कस्य चित् ।।
जन्मवंशं परित्यज्य वंशोऽन्यस्तेन गृह्यते ।। ५१ ।।
इहैव सर्वथा स्त्रीणां सर्वत्राप्यन्वयच्युतिः ।।
वंशांतरगृहीतिश्च दृश्यते सर्वसंमतं ।। ५२ ।।
संयोगश्च वियोगश्च कर्मायत्तावुभौ नृणां ।।
दम्पत्योः सुतपित्रोर्वा भ्रात्रोश्च मरणावधि ।। ५३ ।।
पोष्यपोषकभावश्च बाध्यबाधकता तथा ।।
कर्मणैव भवेन्नृर्णां तस्मात्कर्म परित्यजेत् ।। ५४ ।।
कर्मणा कर्मणां नाशो न हि ज्ञानं विना क्व चित् ।।
शिवैकतानता नृर्णां ज्ञानं कर्मौघनाशनं ।। ५५ ।।
अतः साधनसम्पत्या शिवज्ञानं समाश्रयेत् ।।
साधनानि च चत्वारि शास्त्रेषु विहितानि हि ।। ५६ ।।
नित्यानित्यविवेकः स्यादिहामुत्र फलारतिः ।।
शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति श्रुतेः ।। ५७ ।।
शमो दमः फलत्यागस्तितिक्षाश्तिक्यमेव च ।।
ततश्चित्तसमाधानमिति षट्कं प्रकीर्तितं ।। ५८ ।।
नित्यमात्मसुखं सर्वमनित्यं स्वर्गमानुषं ।।
नित्यानित्यविवेकाख्यं प्रथमं साधनं त्विदं ।। ५९ ।।
अतेव स्वर्गमर्त्यसुखवैराग्यमीर्यते ।।
पृ० ५४) द्वितीयं शांतिदांत्यादि तृतीयं तेन जायते ।। ६० ।।
ततो मुमुक्षुता तुर्यं शिवैक्योत्कृष्टता मतिः ।।
एवं साधनसम्पन्नो ज्ञानं माहेश्वरं श्रयेत् ।। ६१ ।।
एक एव महेशोऽयं मायाविद्याद्युपाधितः ।।
ईश्वरत्वं च जीवत्वं स्वयमेवाप्तवान्प्रभुः ।। ६२ ।।
अनादिसिद्धा मायेयं बहुरूपा प्रवर्तते ।।
रजस्तमःसत्वगुणा सैवाविद्या प्रशस्यते ।। ६३ ।।
गुणांशभेदाद्भिन्नेयं नानारूपा भवेद्ध्रुवं ।।
समष्टिव्यष्टिरूपेण तत्रेशः प्रतिबिंबितः ।। ६४ ।।
स्थूलं सूक्ष्मं कारणं च देहत्रयमुदाहृतं ।।
जीवस्य चेश्वरस्यापि व्यष्ट्या चैव समष्टितः ।। ६५ ।।
पंचीकृतमहाभूतसंभवं स्थूलमीर्यते ।।
अपंचीकृतभूतोत्थं सूक्ष्मं मायाऽत्र कारणं ।। ६६ ।।
विराट् समष्टिस्थूलात्मा व्यष्ट्यात्मा विश्व उच्यते ।।
हिरण्यगर्भः सूक्ष्मात्मा व्यष्टिस्तैजस उच्यते ।। ६७ ।।
ईश्वरः कारणात्मा स्याद्व्यष्टिः प्राज्ञ इति स्मृतः ।।
देहत्रये विलीने स्यादैक्यं जीवेशयोर्ध्रुवं ।। ६८ ।।
ततः पाशुपतं ज्ञानं देहबंधविमोचकं ।।
दीक्षया गुरुणा सम्यक् बोधितः शिवतामियात् ।। ६९ ।।
पृ० ५५) अनाद्यविद्यया बद्धो जीवः संसारितां व्रजन् ।।
अन्तःकरणसंबंधात्तत्खेदात्खिद्यति स्वयं ।। ७० ।।
घटसंवृतमाकाशं नीयमाने घटे यथा ।।
दृश्यते नीयत इव तद्वज्जीवो नभोपमः ।। ७१ ।।
अन्तःकरणसंबंधात्कर्मणां तारतम्यतः ।।
जरायुजांडजोद्भिज्यस्वेदजत्वं प्रपद्यते ।। ७२ ।।
यथाऽर्करश्मयो भेदात्प्रसरंतीह सर्वतः ।।
तथा शिवोऽपि सर्वत्र हेयोपादेयवर्जितः ।। ७३ ।।
जीवः शिवः शिवो जिवः इति निघ्यायतां सदा ।।
प्रयच्छति महेशानः शिवत्वमिति हि श्रुतिः ।। ७४ ।।
शिवो ब्रह्मादिदेहेषु सर्वज्ञ इति भासते ।।
देवतिर्यऽऽन्मनुष्येषु किंचिद्ज्ञस्तारतम्यतः ।। ७५ ।।
किंचिद्ज्ञत्वं च सार्वज्ञमुपाधिपरिकल्पितं ।।
उपाधिविलये साक्षी चिन्मात्रोऽयं सदाशिवः ।। ७६ ।।
देही नित्यः शिवानन्यो जरामरणवर्जितः ।।
पृ० ५६) अध्रुवं देहमित्येतल्लोकसाधारणं मतं ।। ७७ ।।
आस्तां तावच्छास्त्रचर्चा रहस्यं श्रुणु शांभवं ।।
माहात्म्यं शिवभक्तानां शक्यते केन वर्णितुं ।। ७८ ।।
येषामाशौचगन्धोऽपि नास्ति जातमृतागतः ।।
तेषां जन्ममृतिप्राप्तं सुखदुःखं कथं भवेत् ।। ७९ ।।
लिंगैक्यप्राप्तिरेवैषां मंगलानां च मंगलं ।।
न प्राकृतवदेतेषां रोदनादि कथं च न ।। ८० ।।
हृद्यवादित्रताम्बूलनृत्यगीतादिभिः सह ।।
समाधियात्रा कर्तव्या माहेश्वरकुलोद्भवैः ।। ८१ ।।
विशेषतोऽजगण्योऽयं प्रमथानां कुलाग्रणीः ।।
न जातो वा पुरा शून्यो न मृतोऽन्ते तनुं त्यजन् ।। ८२ ।।
चिन्मयो गगनाकारः सदाऽस्त्येव निरामयः ।।
त्यक्तलौकिकसख्योऽयमैक्यमाप गुहेश्वरे ।। ८३ ।।
न चिंतनीयो मुग्धांब सोऽजगण्यः शिवैक्यभाक् ।।
निराकारोऽन्तरात्माश्ते त्वयि मययखिलात्मसु ।। ८४ ।।
अजगण्ये विभुत्वेन स्थिते सर्वत्र मानिनि ।।
पृ० ५७) केयं वियोगचिन्तेति प्रोक्ताऽल्लममथाब्रवीत् ।। ८५ ।।
भवन्तोऽपि महान्तोऽत्र ते च सन्तो निरंतराः ।।
एकरूपास्ततो यूयं वित्त सूक्ष्मां भवद्गतिं ।। ८६ ।।
विदन्तु सर्पाः सर्पाणां गतिमन्ये विदन्ति किं ।।
महान्तो महतां तद्वदात्माऽस्माकं न तुष्यति ।। ८७ ।।
अथाजगण्ये सर्वज्ञे कृतार्थत्वं गते प्रभो ।।
गतमोहगतिः का वा ममेत्युक्तोऽब्रवीत्प्रभुः ।। ८८ ।।
उडुपेनेव पुरुषो नदीं भक्तो महेशितुः ।।
तीर्त्वा कर्मांबुधिं धैर्याद्ज्ञानतीरं प्रयाति सः ।। ८९ ।।
श्रुत्वैतदथ मुक्तायी प्रभुमल्लममब्रवीत् ।।
शंकोदेति मम स्वान्ते च्छित्वा तामनुशाधि मां ।। ९० ।।
कथमुत्पत्तिशिष्टानि शक्यन्ते त्यक्तुमल्लम ।।
बाह्यानि जडकर्माणीत्युक्तस्तां पुनरब्रवीत् ।। ९१ ।।
अक्क मुक्तायि श्रुणु मे वचनं सांप्रदायिकं ।।
स्तन्यमेव हि बालानां जीवनं जन्मनोदितं ।। ९२ ।।
तान्पुनः क्षीरपानेन वशयित्वा शनैः शनैः ।।
विस्मारयन्ति तत्स्तन्यं जनन्यः पुत्रवत्सलाः ।। ९३ ।।
ततः क्रमाद्गुडक्षीरपाचितं मृदुलं हविः ।।
पृ० ५८) अभ्यासयित्वा क्षीराणि विस्मारयति मातृका ।। ९४ ।।
ततः शनैः शनैरन्नं यथाऽभ्यासयते शिशून् ।।
तथैव श्रीगुरुकृपा भक्तं पालयते क्रमात् ।। ९५ ।।
चित्तं निधापयित्वाऽऽदौ शिवकर्मसु संततं ।।
बाह्यानि जडकर्माणि त्याजयंतीह देशिकाः ।। ९६ ।।
त्यक्तसंसारकर्माऽसौ भक्त्या कर्माणि सूक्ष्मयन् ।।
ज्ञानेन सर्वकर्माणि नाशयित्वैक्यमाप्नुयात् ।। ९७ ।।
इत्यल्लमोक्तमाकर्ण्य मुक्तायी भक्तवल्लभम् ।।
प्रणम्य विनयेनेत्थं पप्रच्छ स्मितपूर्वकं ।। ९८ ।।
ग्रन्थानधीत्य विद्वांसो देहभाजोऽस्मदादिवत् ।।
विचार्य युक्त्या तात्पर्यं प्रौढिम्नोपदिशन्ति ते ।। ९९ ।।
श्रोत्रं प्रसार्य वाग्जालं तेषां श्रुत्वाऽन्यदेहिनः ।।
हा हेति परितुष्यन्ति किं ते लिंगांगिनो नराः ।। १०० ।।
अल्लमः प्राह तां साध्वि शिवैक्यप्राप्तिसाधनं ।।
बोधोपदेशं श्रुणु मे सावधानेन चेतसा ।। १०१ ।।
ऐक्यं मुक्तिः सामरस्यं कैवल्यं ब्रह्मभूयकं ।।
सायुज्यमिति पर्याया मोक्षस्य श्रुतिसंमताः ।। १०२ ।।
जीवद्विदेहभेदेन मुक्तिः सा द्विविधा मता ।।
जीवंस्तनुगुणत्यागाज्जीवन्मुक्तिरितीर्यते ।। १०३ ।।
पृ० ५९) तनुत्रयं परित्यज्य शिवैक्यं प्राप्य निर्गुणः ।।
विदेहमुक्त इत्युक्तः प्रारब्धान्ते न संशयः ।। १०४ ।।
ज्ञानेन निश्चलीभूता भक्तिर्ध्यानेन निर्मला ।।
क्षयित्वा वासनाः सर्वाः प्रयच्छत्युन्मनीं शुभां ।। १०५ ।।
तत्रैकं कीलकं वच्मि श्रुणु मुक्तायि सांप्रतं ।।
रहस्यं योगशास्त्रे च सूत्रितं परमार्थतः ।। १०६ ।।
अस्मादृशांस्त्यक्तगुणान्गुरून्भावय निर्मलान् ।।
सदाऽऽत्मनि दृढं भक्त्या चित्तं भवति निर्मलं ।। १०७ ।।
सद्भावभावनावेशात्सदा भ्रमरकीटवत् ।।
त्यक्वा तनुगुणान्साध्वि निर्मलज्ञानमाप्नुहि ।। १०८ ।।
मुक्तायी प्राह सर्वात्मन्नल्लमप्रभुवल्लभ ।।
कथं तनुगुणांस्त्यक्त्वा तन्वा जीवन्प्रवर्तते ।। १०९ ।।
प्रभुराह यथा भ्रष्टबीजं दग्धपटं तथा ।।
त्यक्तकायगुणः काये वर्तते मुक्त एव सः ।। ११० ।।
यथा संभ्रष्टबीजानि न सस्योत्पत्तये भुवि ।।
न रुच्युत्पादकान्नाय न बंधायागुणा तनुः ।। १११ ।।
पृ० ६०) यथा दग्धपटस्यापि नामरूपं च दृश्यते ।।
सम्यग्विचार्यते कस्याप्यर्थस्य न भवेत्क्षमं ।। ११२ ।।
तथा शिवज्ञानवह्निदग्धकर्मपरंपराः ।।
तनुत्रयविनिर्मुक्ताः प्राप्नुवन्ति परं पदं ।। ११३ ।।
प्रभुं पप्रच्छ मुक्तायी यूयं निर्देहिनः कथं ।।
यतस्ताल्वोष्ठसंधानाद्वक्त्रान्निःसरति ध्वनिः ।। ११४ ।।
प्रभुराह पुनः स्नेहादहं सगुणनिर्गुणः ।।
यतो वदन्नप्यवदन्न लिप्ये तद्गुणागुणैः ।। ११५ ।।
आहतोऽनाहतश्चेति द्विविधः शब्द ईर्यते ।।
आहतो भूतगगनेऽनाहतः स्याच्चिदंबरे ।। ११६ ।।
चिदंबरमयांगानां जीवन्मुक्तशरीरिणां ।।
न च केनापि संबन्धो निर्मलत्वाददेहिनां ।। ११७ ।।
यदि देहगुणः शब्द इति चेत्पृथिवी तनुः ।।
तदन्यस्मिन्नपि कथं गगने गर्जितध्वनिः ।। ११८ ।।
आकाशस्य गुणः शब्द इति चेत्तच्छरीरि किं ।।
नीलं नभ इति भ्रांत्या रोचते तच्छरीरिवत् ।। ११९ ।।
पृ० ६१) अतो न शंकितुं शक्यं मादृशेषु चिदात्मसु ।।
सर्वसाधारणं वक्ष्ये रहस्यं विद्धि तत्तथा ।। १२० ।।
मायामेघो जगन्नीरं वर्षत्वेष यथा तथा ।।
चिदाकाशस्य नो हानिर्न वा लाभ इति स्थितिः ।। १२१ ।।
इति वेदान्तसिद्धान्तरहस्यं प्रभुणोदितं ।।
अवधार्य मनस्यार्या प्रणम्योत्थाय तुष्टुवे ।। १२२ ।।
नमोऽल्लमाय प्रणतार्तिहारिणे नमोऽस्तु भक्तालिमनोविहारिणे ।।
मदन्तरंगावनभव्यकीर्तये नमोऽस्तु साक्षात्कृतलिंगमूर्तये ।। १२३ ।।
भवद्गुणान्वर्णयितुं कियत्यहं यदादिमध्यान्तपरीक्षणक्षमाः ।।
भवन्ति वेदागमशास्त्रकोटयो भयाकुलाः कंपनकर्षणादिभिः ।। १२४ ।।
ममाजगण्यस्य वियोगजं प्रभो विहाय दुःखं निजसौख्यवारिधौ ।।
विहर्तुमात्मैक्यविनिश्चलस्थितिं कृपानिधे मामुपदिश्य पालय ।। १२५ ।।
इति प्रपन्नां शरणं प्रभुः स्वयं प्रसन्नचेताः करुणारसान्वितः ।।
पृ० ६२) अथानुजग्राह स वेधदीक्षया
शिरःस्पृशन्दिव्यकटाक्षवीक्षया ।। १२६ ।।
दिदेश वाचाऽपि न चालय क्व वा सुशान्तिदान्तिभ्रमसंततिं त्यज ।।
अहंममत्वेन कदापि संस्पृश स्थिरत्वसाम्येन वियोजय क्व चित् ।। १२७ ।।
न जातु कामाद्यरिषट्कमात्मना परामृशोन्मूलय सर्वथाऽपि तत् ।।
विवर्धयैतां निजभक्तिमेव सा ददाति मुक्तिं परमंब नास्त्यतः ।। १२८
।।
इति तनुगुणजालं सर्वमुन्मूल्य सम्यऽऽन्निरुपमनिजबोधानंदतत्त्वोपदेशात्
।।
निजचरणसरोजध्यानदत्तावधानामतनुत शिवचिन्तामार्यमुक्तायिकां
तां ।। १२९ ।।
अथ कचमुपगृह्येवारुरुक्षुर्महीध्रं प्रभूगुरुकृपयैव
ब्रह्मरन्ध्रात्क्षणेन ।।
बहिरमितचिदभ्रं प्राग्विनिर्गत्य गत्या तदभजत शिवैक्यं तत्र
मुक्तायिकान्ता ।। १३० ।।
सुखममितमवाच्यं तत्र सा याममात्रं स्वविदितमनुभूय
श्रीगुरोराज्ञयैव ।।
पुनरपि बहिरन्तर्मध्यमध्यास्त तन्वी करधृतनिजलिंगे
दृक्कलामुद्गिरंती ।। १३१ ।।
अथ सकलममुष्यै बाह्यमन्तश्च लक्ष्यान्न हि परमिति बुद्धिं रोचयामास
देवः ।।
पृ० ६३) प्रभुकृततत्वोपदेशेन मुक्तायया ज्ञानप्राप्तिः ।
अमनुत कृतकृत्यामात्मनाऽऽत्मानमेषा
प्रभुचरणमहिम्नाश्वादितैक्यानुभावा ।। १३२ ।।
इत्थं प्रभौ पदनखांशुकणैरमुष्या हार्दं तमोऽपहरति
क्षितिमण्डले सा ।।
भक्तव्रजैरभिनुताऽखिलपावनीति लीलेव तस्य जयति स्म गुरोः सुशीला ।।
१३३ ।।
इति मुनिहितमुक्ताययंबिकायाश्चरित्रं
कथितमखिलशास्त्रप्रक्रियासारचित्रं ।।
पठत मुदितचित्ताः शौनकाद्या मुनींद्राः
सकलसुजनचित्तानंदसंधानपात्रं ।। १३४ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
मुक्ताययात्मविद्योपदेशवर्णनगतिर्नाम द्वादशोऽध्यायः ।।
पृ० ६४ खाली है।
पृ० ६५) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ त्रयोदशोऽध्यायः ।
सूत उवाच-
मुनीश्वराः सिद्धगुरुप्रसादतः समाहिताखंडितखंडसंविदः ।।
अखंडविज्ञानपदप्रतिष्ठितास्सुखेन लीलां श्रुणुताल्लमप्रभोः ।। १
।।
तदनु सोऽल्लमदेशिकसत्तमः क्षितितले शिवभक्तगणान्बहून् ।।
परमशांभवबोधसुधाप्लुतान्विरचयन्विचचार निजेच्छया ।। २ ।।
प्रभुरयं स्वयमद्वय एव सन्गुरुमहेश्वरजंगमरूपधृत् ।।
सगुणनिर्गुणभावमगोचरः प्रकटयन्विजहार महीतले ।। ३ ।।
या स्वर्णला नाम पुरी धरण्यां तस्यां प्रसिद्धः खलु सिद्धरामः ।।
आराध्य भक्त्या गिरिजाधिनाथं स्वराज्यसाम्राज्यसुखं प्रपेदे ।। ४ ।।
किंचालिके नेत्रमभेद्यगात्रं निध्यादिसिद्धिं जगति प्रसिद्धिं ।।
अभीप्सितार्थानखिलागमार्थाऽनन्ते च कैलासमनंतसौख्यं ।। ५ ।।
स कृत्तिवासोवरदानगर्वितो भटाश्वमुख्यैर्बहुभिर्बलैर्वृतः ।।
पृ० ६६) धनव्ययायैव शिवालयान्मठान् बहुप्रकारैर्भुवि चित्रयन्
स्थितः ।। ६ ।।
सखंडसंविद्वशगः समीहितः स्वपिण्डविज्ञानकलैकमात्रतः ।।
अखण्डबोधामलभक्तिवर्जितः कृतार्थतामेत्य बहुक्रियापरः ।। ७ ।।
न वेदशास्त्रागमचिन्तयाऽथ वा न योगसांख्योचितसाधुनिष्ठया ।।
निनाय कालं क्व चिदप्यसौ महान्प्रयासशिल्पक्रिययैव केवलं ।। ८ ।।
प्रभुर्दयालुस्तदयोग्यवर्तनं समाधिनाऽऽलोक्य शिवैक्यचिन्तया ।।
समुद्धरिष्यामि तमेनमित्यसौ ययौ क्षणार्धेन सुवर्णलापुरीं ।। ९ ।।
पुरोपकण्ठं समुपेत्य तद्गणैरपारसंभारततिं सुसंभृतां ।।
ददर्श सेतुं लवणार्णवे पुरा निबद्धुकामैरिव रामकिंकरैः ।। १० ।।
मृच्चूर्णदारूपलशर्कराणां तथेष्टकानां सिकताततीनां ।।
राशीन्समालोक्य गुरुस्तदीयैः संपादितान्कंपितमौलिरूचे ।। ११ ।।
प्राप्तं क्व कर्मेदृगमुष्य सूरेर्द्वासप्ततिस्यूतसहस्रनाडीः ।।
संशोध्य तन्मारुतपूरणोत्थं कफादिदूरीकरणं किमेतत् ।। १२ ।।
पृ० ६७) प्रभुकृतसिद्धरामकर्मावहेलनम् ।
यद्वा नियम्यासुगतिं विभिद्य ग्रंथित्रयं बन्धसमीकृतिः किं ।।
किं निर्मलाखंडितपूर्णदृष्ट्या खंडोपलब्ध्यैक्यविभावनं वा ।।
१३ ।।
वोढुः परादिक्रिययैष राशीन् कृत्वा मृदाद्यैर्भुवि कीर्तिकामः ।।
जाड्येन बद्धः स्वविचारशून्यो व्यर्थं कदध्वोपगतः स रामः ।। १४ ।।
सिद्धोऽहमित्येष कलत्रमात्रं त्यक्त्वाधिकां संसृतिमाप चित्रां ।।
उत्सृज्य कार्पासजसूत्रबन्धं हैमीं दृढां शृंखलिकामिवाहो ।। १५
।।
अत्यल्पसंसारमसौ विसृज्य बाह्यक्रियालंपटतामवाप ।।
तं सिद्धरामाभिधया प्रसिद्धमाकर्ण्य सिद्धा न हि लज्जिताः किं ।। १६
।।
आश्रित्य संसारभयान्महेशं हा कष्टसंसारमवाप रामः ।।
भीतो यथा माहिषपादघातात्प्राप्तोऽपसृत्येव गजांघ्रिदेशं ।। १७ ।।
निंदन्तमित्थं स्वगुरुं कटूक्त्या तं देशिकेंद्रं चरलिंगमूर्तिं ।।
पृ० ६८) दृष्ट्वा तदीयाः परिचारिवर्गा निवारयामासुरतीव रोषात् ।। १८
।।
निवारितस्तैरपि सोऽल्लमप्रभुः पुनः पुनस्तन्निकटे निनिंद तं ।।
तदीयभृत्याः परिवृत्य सत्वरं प्रभुं गृहीतुं परितः समुद्यताः ।।
१९ ।।
अहो किमेष प्रलपत्यमंगलं निगृह्यतामद्य निबध्य शिक्ष्यतां ।।
शिलाभिरुद्यल्लगुडैश्च ताड्यतां स्थिते तु तूष्णीमधिकं प्रजल्पते ।।
२० ।।
पितामहश्रीपतिवासवादयोऽप्यशक्नुवाना भृशमीक्षितुं दृशा ।।
महोन्नतं मद्गुरुनाथमेष किं प्रदूषयत्यागतभिक्षुजंगमः ।। २१ ।।
वृथोपहासोक्तिचणः कुचेष्टितैरयं गुरुस्वामिसमो भवेत्कथं ।।
शशी कलंकीति हसन् बकः क्व वा जगत्त्रयानंदकरो भविष्यति ।। २२ ।।
इति प्रगल्भोक्तिभिरात्मनिग्रहे समुद्यतानुग्रभयंकरान्प्रभुः ।।
समीक्ष्य तद्रक्षणतत्परो मुहुर्विहस्य मर्मस्पृशमादधे गिरं ।। २३ ।।
भवद्गुरोर्ज्ञानमहो वृथा गतं शिलामृदायत्तमयं प्रमोषकः ।।
पृ० ६९) सिद्धरामान्तेवासिनां पुरतः प्रभुकृततत्कर्मावहेलनम् ।
स्वयं विनष्टः परनाशको हठात्क्रियोपदेशाद्भवतोऽप्यवंचयत् ।। २४
।।
अंधेन नीताः पतिता यथान्धाः कूपे तथैवास्य च शिष्यवर्गाः ।।
यूयं क्रियाम्भोधिजले निमग्नाः प्रबोधहीनाः पतिता ह्यधोऽधः ।। २५ ।।
प्रत्यग्ज्योतिर्मयमनुपमं सच्चिदानंदलिंगं
साक्षात्कृत्य प्रशमितभिदास्तन्मयावस्थयाऽन्तः ।।
जीवन्मुक्त्या सुखितुमकलाः प्राप्य तादात्म्यसिद्धिं
भ्रान्ता व्यर्थं ग्रथितमतयो बाह्यकर्मण्यजस्रं ।। २६ ।।
ज्योतिर्मयं द्युमणिभास्वरमात्मलिंगं मृद्दारुलोहसिकताश्मसु
सन्निधाप्य ।।
प्रासादकुंडगृहगोपुरमंडपादिनिर्मित्सया फलमहो शिवयोगिनां किं ।।
२७ ।।
युष्माकमीदृगवबोधकथा कथं स्याद्युष्मद्गुरुं सपदि गच्छत
सिद्धरामं ।।
आहूय तं मम पुरः प्रणिधत्त तूर्णं पाण्डित्यमस्य यदि तर्हि
भवेत्प्रसंगः ।। २८ ।।
यद्युत्तरं किमपि दातुमशक्नुवानः कोपेन शेषमथ पूरयितुं यतेत ।।
किं नो वदेम वयमुत्परराम इत्यास्तावद्गुरुस्तु भवतां भवताद्गिरिर्वा ।।
२९ ।।
पृ० ७०) इत्युक्तवत्युदितरोषकषायितास्तच्छिष्याः
कटीतटनिबद्धपटीदृढांगाः ।।
देवं गृहीतुमुपचक्रमुरल्लमेंद्रं पादैः पदौ करतलैश्च करौ
निपीड्य ।। ३० ।।
आहाल्लमो गगनवत्क्व च तैरगृह्यो हा सिद्धरामगुरुशिष्यगणा भवन्तः
।।
युष्माकमौपयिकमेव हि युद्धतत्त्वं सस्यादिनीं न खलु गां विसृजन्ति
वत्साः ।। ३१ ।।
युष्मद्गुरोरपि कथा कलहैकनिष्ठा तद्वन्मयेह कलहाय पदं भवन्तः
।।
कर्षन्ति सत्फलमहो गुरुसेवयाऽऽप्तं युष्माभिरित्यभिहिता जगदुः पृनस्ते
।। ३२ ।।
आहो भवान् परिहृतोऽपि पलायनार्थं किं भिक्षुकाधम पलायति
नोच्चनीचैः ।।
त्यक्त्वा पुनः पुनरपि प्रतिवादिरीत्या मन्नाथमेव बत दूषयतीव भाति
।। ३३ ।।
गच्छाशु तुच्छवचनानि विसृज्य तूर्णं नो गच्छसीह यदि मूर्खतयैव
भिक्षो ।।
व्यर्थं व्यथामनुभविष्यसि कोपशीलैरस्माभिरित्यभिहितः
प्रभुरब्रवीत्तान् ।। ३४ ।।
युष्माभिरर्भकतमैर्न हि साहशिक्यं शक्येत कर्तुमिह वः
पृथुवोद्रुरामः ।।
पृ० ७१) अल्लमं निर्बन्धितुं सिद्धरामशिष्याणामनेकप्रयत्नप्रसक्तिः ।
आहूयतां बलवता कलहोऽपि योग्यः शीघ्रं प्रयात तमिति
प्रभुणोदितास्ते ।। ३५ ।।
अत्याग्रहेण दृढमल्लमनिग्रहाय सज्जीकृता जगृहुरेनमिवातियत्नात् ।।
स्वामी बभूव गगनायितमूर्तिरार्ता व्यर्थप्रयासमभजन्किल
रामशिष्याः ।। ३६ ।।
ते विस्मिताः पुनरपि ग्रहणाय सर्वे संभूय चक्रुरतियत्नमथाल्लमस्तैः
।।
दृष्टो गृहीत इव दूरगतो जहास भूयोऽपि रूपमुपदर्श्य समीपमागात्
।। ३७ ।।
तैर्व्यामसंयमपरैरवलंबितांगाः पार्श्वस्थितस्तदनु तैः
परिवर्त्यमानैः ।।
दृष्टो हसन्सविधगैः पुनरप्यदृष्टो दूरेऽवतिष्ठति ततोऽन्यत एव
भूयः ।। ३८ ।।
इत्थं बहुप्रसरणैर्वलयावधानैः स्वामी चकार
हतशक्तितयाऽलसांस्तान् ।।
तैः सिद्धरामगुरुशिष्यगणैर्गृहीतुं शक्यः क्व चापि न बभूव
बहुप्रकारैः ।। ३९ ।।
अथ कुपितमनस्का रामशिष्याः समेताः
प्रलयसमयधाराघोरपाषाणवर्षैः ।।
पृ० ७२) इममिह गुरुनिंदादूषितास्यं निहत्य श्रवणजनितदोषं
वारयामेति मत्वा ।। ४० ।।
प्रभुतिलकमवर्षन् बालिशाः शैलवृष्टिं दिशि दिशि परिवार्य
प्राकृता दुर्मदान्धाः ।।
क्षितितलमगमत्सा नाल्लमं प्राप किंचिद्गगनमिव समन्ताद्व्यापकं
निर्विकारं ।। ४१ ।।
अथ पुनरपि रोषात्कुंतबाणासिशूलक्षुरपरिघमुखातिक्रूरघोरायुधानि
।।
नरपशुभिरमुष्मिन्सच्चिदानंदमूर्तौ प्रणिहितपतितानि प्राप्नुवन्
व्यर्थभावं ।। ४२ ।।
यत्पांचभौक्तिकतनुर्न गुरुर्गुरूणां चिन्मात्रमूर्तिरतेव न लोभजालैः
।।
पाषाणवृष्टिभिरशक्यतया प्रहर्तुं व्यर्थीचकार
हतविक्रमरामशिष्यान् ।। ४३ ।।
दुष्टानपि प्रभुरसावथ तानवेक्ष्य शांतिं चकार हृदये न तु
कोपलेशं ।।
निर्वैरघातसमघातनिहंत्रघाता यन्नीचमध्यममहोत्तमलोकधर्माः ।।
४४ ।।
यद्यप्यधीशितुरिहेदृशदुर्मदान्धा दण्ड्यास्तथाऽपि यदि
कोपकृशानुलेशः ।।
पृ० ७३) सिद्धरामस्य सेनाभिस्सह प्रभोर्युद्धवैचित्र्यकथनम् ।
जायेत तेन भवनत्रयमेकधैव दह्येत मूषकरुषा गृहदाहवत्तत् ।। ४५
।।
इत्थं विचार्य जगतां गुरुरल्लमेंद्रस्तूष्णीं बभूव पुनरप्यथ
रामशिष्याः ।।
गत्वा निवेद्य कलहोन्मुखमाशु चक्रुस्सैन्याधिपं
शतसहस्रमहाबलाढ्यं ।। ४६ ।।
तस्याज्ञयैव
चतुरंगबलान्यसंख्यान्युत्पातवच्चरणधूतधरापरागैः ।।
आच्छाद्य बिंबमरविंदसखस्य तूर्णं पूर्णं विनिर्ययुरमुं प्रति
राजधान्याः ।। ४७ ।।
दृष्ट्वा सैन्यशतानि सोऽल्लमविभुः स्वस्मिन्पुरा पातित-
प्रोच्चप्रस्तरपर्वतोपरि हसन्नारुह्य पश्यंस्थितः ।।
सेनास्तं परिवव्रुरात्तपरशुप्रासासिकुंतादिकै-
स्सन्नद्धास्सकलायुधैरथ गजैरश्वैरसंख्यैर्युताः ।। ४८ ।।
आलोक्याथ समीपगान् प्रभुमणिस्तांस्तान्महासैनिका-
न्नेकोऽपि प्रथितात्मवैभववशात्तत्तत्समानाकृतीन् ।।
बिभ्रत्पूरुषविग्रहांच्छतसहस्नानेकलक्षाधिकां-
श्चक्रे तैः सह वीररौद्ररसिकैर्युद्धं विचित्रक्रियः ।। ४९ ।।
पत्तिं पदातिवदसौ रथिनं रथीव सादीव सादिनमथो गजिनं गजीव ।।
पृ० ७४) एकैकशः पृथगुपेत्य विहाररीत्या चिक्रीड भीकरवपूः
सुचिरं रणाग्रे ।। ५० ।।
तत्तत्प्रयुक्तनिखिलायुधजालमाशु च्छित्वा क्षणेन न हि
तान्हतवान्महात्मा ।।
वाग्भर्त्सनेन सकलानजयद्विचित्रं मातेव पुत्रकलहोद्यतपाणिरेषः ।। ५१
।।
अन्तर्मदं सकलमप्यपहाय तेषामप्येकमत्र न जघान दयांबुराशिः ।।
हन्याद्धरिः पुरहरोऽपि सुदर्शनेन नायं सुदर्शनगुरुर्हतवान् रिपूंश्च
।। ५२ ।।
योगीश्वरस्यास्य महामहत्वं नो भूतभाव्येष रणे सपत्नान् ।।
अहिंसयन्नेव जिगाय चित्रं कुत्रापि नास्तीति ननंदुरार्याः ।। ५३ ।।
तच्छिष्यवर्गास्त्वसहिष्णवस्तत्सामर्थ्यमन्वीक्षितुमप्यनीहाः ।।
विज्ञाप्य रामाय सुशिक्षणीयो भिक्षुर्हठादित्यनुजग्मुरेनं ।। ५४ ।।
ते दण्डवत्तं प्रणिपत्य भूमौ व्यजिज्ञपन् प्राजंलयोऽथ रामं ।।
यः कश्चिदस्मन्निकटं समेत्य त्वां जंगमोऽदूषयदेकवीरः ।। ५५ ।।
पृ० ७५) युद्धोद्धतप्रभोःपुरतः सिद्धरामस्य स्वोत्कर्षोक्तिकथनम् ।
तेनाथ नाथाः कलहाय गत्वा रोषाद्वयं भग्नमनोरथाः स्मः ।।
वक्तुं न युक्तं तदवाप्तदैन्यं जानातु युष्मच्चरणारविंदं ।। ५६ ।।
त्वां वोढृरामाभिध इत्यनर्हं यज्जंगमोऽत्रापजहास गर्वात् ।।
तदेव नः खेदयति प्रभोऽस्मान् यन्निंदयामास ततो न खेदः ।। ५७ ।।
श्रुत्वा तदीयं वचनं स रामो विहस्य को वा मयि हास्यकारः ।।
ब्रह्मा हरिर्वा बलभेदनो वा किं वालिकाक्षो न हि जंगमोऽयं ।। ५८ ।।
भिक्षाटने पर्यटतः कुतो वा किं जंगमस्यास्त्यपहासचेष्टा ।।
इत्थं ब्रुवंच्छीघ्रगतिः स रामस्तस्थौ समागत्य पुरोऽल्लमस्य ।। ५९ ।।
क्रोधारुणाक्षोऽल्लममाह रामः को वा भवान् दैवहतः कुभिक्षो ।।
विनिंद्य मां लोकगुरुं कथं वा विच्छिन्नजिह्वोऽनुचरैर्न भूयाः ।। ६० ।।
अहो कथं जंगम इत्युपेक्ष्य स्थिते मदीयैः किल तान् प्रताड्य ।।
मामप्यनादृत्य करोषि धौर्त्ये ह्युन्मूलये सावटुनाडिजिह्वां ।। ६१ ।।
पृ० ७६) इति ब्रुवन्तं स्वनिपातनाय रुषा समुद्यन्तममुं समीक्ष्य ।।
प्रभुः स्मयन्सर्वजनाभिनंद्यः समत्वसौंदर्यखनिस्तमाह ।। ६२ ।।
सिद्धान्वयोद्धारक साधु साधु स्वरूपमेतद्धि भवादृशानां ।।
तपस्वियोग्यं सहनं विसृज्य किं साहसं कर्तुमुपक्रमेथाः ।। ६३ ।।
पिपीलिकादिक्रिमिकीटहिंसाभयात्पदं वर्त्मनि दृष्टिपूतं ।।
न्यस्यन्ति रागादिभयात्सदैव चित्तं निरुंधन्ति शिवैकतानाः ।। ६४ ।।
इत्यल्लमे वक्तरि साधुवाचां रोषादश्रुण्वन्निदमाह रामः ।।
अविद्यमाने मयि साहसिक्यं सैन्ये मदीये कृतमास्त्वयाऽहो ।। ६५ ।।
साधारणानां यमिनां पुरस्ताद्वक्तव्यमेतत्कपटोक्तिजालं ।।
न शक्यते मन्निकटेऽभिधातुं दह्येत लोको दलितेऽलिकेक्ष्णि ।। ६६ ।।
रामोक्तिमाकर्ण्य विभुस्तमूचे विहस्य साधूक्तमहो त्वया प्राक् ।।
नेत्राग्निकीलैः कति वाऽत्र दग्धाः किमाततायित्वमिदं बुधार्हं ।। ६७ ।।
भो सिद्धरामार्य तव प्रसिद्ध हिंसैव सिद्धा ननु संप्रदाये ।।
पृ० ७७) प्रभुकृतसिद्धरामपराभवपरिपाठी ।
अहो न दृष्टाश्रुतपूर्वचर्या युष्मादृशाः कुत्र च योगिवर्याः ।। ६८ ।।
पापौघराशिर्भवता गृहीता कोपो धनत्वेन न योगिनस्ते ।।
अर्हन्ति गोष्ठीं भवपाशबद्धान् विहाय राशीकृतपापकोपान् ।। ६९ ।।
श्रुत्वाऽल्लमोक्तं हृदि सिद्धरामः कोऽसावविज्ञातमदीयशक्तिः ।।
ब्रूते छलोक्तीरिति फालनेत्रं चित्रं नटद्भ्रूकुटिरुन्मिमेष ।। ७० ।।
जाज्वल्यमानो निटिलात्तदाऽग्निर्निर्गत्य गन्वाऽल्लमपादमूलं ।।
स्प्रष्टुं न शक्तः परिवृत्य सर्वान् ददाह तत्रत्यजनांच्छिखाभिः ।।
७१ ।।
कोलाहलस्तत्र बभूव सर्वे रुदन्त इत्थं जगदुस्तदोच्चैः ।।
हा हाऽयमज्ञातपरात्मशक्तिः प्रभुं द्विषन् दाहयति स्म सर्वं ।। ७२ ।।
निजोष्ठनाशाय दरिद्रकोपो भवेदिति प्राकृतसिद्धमेतत् ।।
आलातमादाय निजोत्तमांगं कण्डूयते को नु जगत्यभिज्ञः ।। ७३ ।।
कोपोल्बणं सोढुमशक्नुवानो नीव्रे निधायोल्मुकमुज्वलं तं ।।
पृ० ७८) गेहं दहंतं परितः कृशानुं को वा पुनस्तं
शमयेद्विमूढः ।। ७४ ।।
नेत्रं पुरा दर्शयितुर्ललाटे पादे पुनर्दर्शयिताऽधिकोऽस्ति ।।
दंदह्यमानां चटुलाग्निकीलैः सुवर्णलां यः शमयेत् स योगी ।। ७५ ।।
इत्थं प्रजाऽऽक्रोशवचांसि श्रुत्वा तूष्णीमशक्त्यैव बभूव रामः ।।
आकर्ण्य संरक्षितुमल्लमेंद्रो दयार्द्रचित्तः प्रशमोन्मुखोऽभूत् ।। ७६ ।।
अंभोनिधेस्तन्मथनात्समुत्थं लोकत्रयीदाहककालकूटं ।।
उग्रो यथैवाशमयत्प्रभुस्तं सुवर्णलादाहकमाशुवह्निं ।। ७७ ।।
तदद्भुतं वीक्ष्य स सिद्धरामः श्रीसिद्धवीरेश्वर एव साक्षात् ।।
समागतो रक्षितुमस्मदादीनित्यागतोऽभूद्विनयात्समीपं ।। ७८ ।।
मां बुद्धिहीनं शरणं प्रपन्नं पाहीति भक्त्या पदयोः पपात ।।
न ह्युत्थितोऽभूत्सदयो गुरुस्तं हस्तेन धृत्वोत्थितमाशु चक्रे ।। ७९ ।।
तमाह किं राम शिवव्रतानामस्मादृशामीदृगकार्यमर्हं ।।
पृ० ७९) श्रीसिद्धरामकृताल्लमस्तुतिकथनम् ।
पूजायशोलाभनिमित्तमाहो किमात्मलाभस्मरणं प्रशस्यं ।। ८० ।।
इति ब्रुवन्तं परिपूर्णभावं प्रणम्य भक्त्या च भयेन रामः ।।
तुष्टाव दुष्टावनमिष्टदं तं शिष्टाग्रगण्यं बहुधा विनीतः ।।
८१ ।।
स्मरारिरिति भावना न हि तवोचिता सद्गुरो
यदर्धकृतदेहया गिरिजयाऽसि नालिंगितः ।।
मुरांतक इतीरणा न तव युज्यते मायिक-
स्तमःप्रचुरनिद्रया स्वपिति सो हि शययां गतः ।। ८२ ।।
स्वरूपमुपमीयते जगति केन वा तावकं
निरंजनमनामयं निरुपमाद्वयं निर्गुणं ।।
अमेयमहिमोदयं प्रशमविक्रमोपाश्रयं
भवन्तमिह भावये कपिलसिद्धयोगीश्वरं ।। ८३ ।।
सदैव निजपोषकं यदनुयाति मेषोऽप्यहो
भवन्तमखिलात्मनां गुरुमहं क्रियानिष्ठुरः ।।
उपेक्ष्य गतवानहं विबुधनिंदितां द्रोहितां
कृपानिलय मां प्रभो कृपणमीदृशं पालय ।। ८४ ।।
पृ० ८०) ददौ मम महेश्वरो विधिवशाल्ललाटे दृशं
तया खलु खलात्मतामनुभवन्भृशं गर्वितः ।।
प्रबोधविधुरो धुरा दुरितमाचरन् दुष्करं
तदद्य विनिवर्त्य मामुपदिशाऽऽत्मबोधं गुरो ।। ८५।।
स्तुवन्निति स पादयोः प्रभुमणेः पपातांचित-
स्तनौ पुलकराजिभिर्नयनयोश्च बाष्पांबुभिः ।।
तदंतरमथाल्लमः समधिगम्य तापात्पुनः
सुनिर्मलमिति स्मयन्नभिदधे स तं रक्षितुं ।। ८६ ।।
अहो तव मुखोदितैः कटुवचोभिरुच्छ्रुंखलैर्न
किंचिदपि मे मनः सुविमलं शिशो कुप्यति ।।
कृपैव मम जायते यदबुधेषु तिष्ठेदिति
प्रसह्य निजपाणिना प्रणतमभ्युदस्थापयत् ।। ८७ ।।
अथोत्थिततनुर्ह्रिया स्वयमधो मुखः स्वामिना
किमार्य हृदि चिंतया तव हितोपदेशाय मां ।।
समागतमवेहि मा मुखमधः कुरु श्रावये
रहस्यमिति भावितः क्षणमथोन्मुखस्तुष्टुवे ।। ८८ ।।
समस्तजगतां पते सकलकारण श्रीगुरो
भवान्प्रभुरपि स्वयं सपदि जंगमाकारभृत् ।।
समागतितीदृशी कथमुदेति बुद्धिर्मम
प्रतारितमतेस्तया त्रिगुणमायया सर्वतः ।। ८९ ।।
पृ० ८१) सिद्धरामं प्रति प्रभूक्तसल्लक्षणनिरूपणम् ।
प्रभुः पुनरुवाच तं बहुविधैरहो भूतले
चरन्ति विबुधोत्तमाः कृतकवेषभाषादिभिः ।।
न तेषु हृदि शक्यते रचितुमुच्चनीचात्मकं
विकल्पनमणु क्वचिच्छरणसेवकानां नृणां ।। ९० ।।
क्षितावपि च केवलं हृदि विभावयेज्जंगमा-
कृतिं स्ववयवोज्वलां सगुणलिंगमूर्तिं परां ।।
समुन्नतसुवेषभृज्जगति वंचको वर्तते
न वेषपरिपूर्णता भवति पूर्णविज्ञानिनः ।। ९१ ।।
ततोऽत्र न हि कारणं महति वेषभाषादिकं
प्रबोधकलनैव सा हृदयसंधिलग्ना परा ।।
अतींद्रियतयान्यहृन्न खलु शक्यते बोद्धुमि-
त्यतः कमपि दूषयेन्न हि तदेव दोषार्जनं ।। ९२ ।।
एकं प्रदूष्य पुनरेकतरं प्रभूष्य वैषम्यवर्तनमिदं शरणस्य
नार्हं ।।
किं त्वीषितैककलया सकलं सदैव व्याप्नोति सर्वसमदृष्टिरतो हि योग्या
।। ९३ ।।
गोब्राह्मणप्रततये शुभमस्तु नित्यं लोकास्तथैव सुखिनः सततं
भवन्तु ।।
इत्याशिषं हि सुजनाः प्रवदन्ति सर्वे नाकर्णितं नु भवता ननु
सिद्धराम ।। ९४ ।।
पृ० ८२) श्रुत्वाल्लमस्य वचनं विनयेन रामः प्रोवाच देव बत मे
गतवासरेषु ।।
नो मध्यमाधममहाजनभेदचिंताजीर्णा कदापि तत एव न बोधदृष्टिः
।। ९५ ।।
युष्मत्पदाम्बुरुहदर्शनपुण्यलब्धा प्रज्ञा ममापि
कलयत्यखिलात्मसाम्यं ।।
नातः परं प्रविचलामि मतेरमुष्यास्सोऽहं यथेत्थमनुशाधि
कृपांबुराशे ।। ९६ ।।
विज्ञापयन्तमिति तं प्रभुराह रामं वैराग्यभाग्यमवलंब्य दिने
दिनेंऽग ।।
अभ्यासदार्ढ्यमवधारयतः क्रमेण चित्तं स्थिरं भवति
सात्विकसेवनेन ।। ९७ ।।
चित्ते स्थिरे भवति शान्तिरपारसौख्यसंपादिका शमवतो न हि
भेदबुद्धिः ।।
भेदभ्रमेऽथ शिथिले निखिलांतरस्थं ज्योतिः परं स्वयमुदेति समं
समन्तात् ।। ९८ ।।
तस्यैकरूप्यमरिमित्रजनावियातां योषिच्छिले गृहवने स्वपरौ स्वलोष्टू
।।
हीनाधिके च हठराजपदैकनिष्ठो यः शान्तिमाप हृदये
निजसौख्यहेतुम् ।। ९९ ।।
तावत्त्यजेन्न हि पुमान् हठराजयोगं नापि त्वरेत सहसाऽऽत्मनि योगसिद्धौ
।।
व्यग्रोऽलसोऽपि न भवेत्परिवर्द्धयेच्च मर्यादयैव समतां न भजेत यावत्
।। १०० ।।
पृ० ८३) स्वोद्धारार्थं सिद्धरामकृतप्रभुमहिमानुवर्णनम् ।
इत्थं प्रयासमपहाय विरागहीनो यो योगसिद्धिमभिवांछति शीघ्रगत्या
।।
भ्रष्टोविनष्टधिषणः स भवेत्ततोऽस्य श्रीमद्गुरूपसदनेन
कृतार्थता स्यात ।। १०१ ।।
गुरूपदेशेन विना न योगो न बोधवैराग्यतपोबलानि ।।
गुरूपदेशेन विना न किंचिच्छ्रयेत्ततः श्रीगुरुनाथमादौ ।। १०२ ।।
प्रभोर्निशम्य श्रुतसारवाक्यं प्रणम्य तं प्रांजलिराह रामः ।।
गुरुर्गुरूणां परमो दयालो त्वमेव मां श्रीगुरुनाथ शाधि ।। १०३ ।।
त्वत्तोऽधिको वा न गुरुः समो वा योगीन्द्र विद्याविभवेन लोके ।।
लिंगावधानं सुलभोपदेशात्त्वमेव संभावयिता न चान्यः ।। १०४ ।।
गुरो भवद्दर्शनमेव मे भवंत्यमोघदिव्याखिलयोगसिद्धयः ।।
भवत्पदस्पर्शनमेव सांप्रतं समत्वमित्याशु गृहाण मां प्रभो ।। १०५
।।
मुक्तिस्तवैव करुणार्द्रकटाक्षदृष्टिः स्वामिन् कृतार्थयितुमेहि मठं
मदीयं ।।
मल्लेश्वरं करुणयैव विलोक्य लिंगं मामुद्धराशु
गुरुमण्डलसार्वभौम ।। १०६ ।।
पृ० ८४) श्रुत्वैतदल्लमविभुः पुनराह रामं योगीश्वरस्य न हि
सर्वगतस्य भेदः ।।
ग्रामे वने वरगृहे गिरिगह्वरे वा चक्रांगतूलशयनेऽथ शिलातले वा ।।
१०७ ।।
सद्बोधकानि निखिलानि वचांसि तस्य तद्वर्तनं च सकलं
शिवभक्तिमार्गः ।।
स्थैर्यं सुनिर्मलतपश्चरणं तदीयं तच्चिंतनं च
परतत्वकलानुभूतिः ।। १०८ ।।
रामो व्यजिज्ञिपदमुं विनयाभिरामः स्वामिन् कियांस्तव पुरः
प्रतिवक्तुमेषः ।।
यत्रैव तत्र भवतः प्रसरेन्निजेच्छा तद्वेद्मि दिव्यपटमूलसभानिकायं
।। १०९ ।।
श्रीमत्पदाम्बुजपरागकणः क्षणं वा यत्र स्थिरो लगति सैव
भवेत्सुधर्मा ।।
स्थित्वा मनीषितनिजाश्रयपुण्यदेशे शिष्यस्तवास्म्यनुगृहाण दयाम्बुधे
मां ।। ११० ।।
त्वत्सेवकं करुणया जनमेनमेनो निर्द्धूय सद्गुरुविभो कुरु दीनबंधो ।।
पादाम्बुजप्रसरदेकरजःकणेन देहीश सद्गतिमनुग्रहदृक्कणेन ।। १११ ।।
दुष्टोऽप्ययं तव कटाक्षवशादिदानीं शिष्टो भवत्वखिललोकगुरो
गृहाण ।।
पृ० ८५) प्रभुसिद्धरामयोरुक्तिप्रत्युक्तिः ।
लोहं रसेंद्रकणवेधवशात्क्षणेन प्रत्यक्षतः किमिह तत्कनकायते न
।। ११२ ।।
इत्थं वदन्तमभितः शरणागतं तं बोधाधिकारिणमथ प्रतिपद्य
चित्ते ।।
स्वामी तथापि गुरुशिष्यपथप्रचारं लोके प्रकाशयितुमाह स
सिद्धरामं ।। ११३ ।।
अन्तर्मुखं स्थिरतया सह योजयित्वा चित्तं प्रमत्तकरणानि विधेयभावं
।।
नीत्वोत्तमाचरणवच्छरणेषु संविद्बीजं वपेन्न हि बहिर्जनतोषरोर्व्यां
।। ११४ ।।
बीजं प्रधानमपि धीनिधिना समुप्तं सुक्षेत्र एव फलतीह न चेतरत्र
।।
यद्याशया वपति दुष्टतले तदेव नश्येदिति स्म गदितः पुनराह रामः ।।
११५ ।।
भो आदिनाथ न बहिष्कुरु मामनाथं नाथो भवाह्नि जगतां
भवदंघ्रिसेवा ।।
जन्मान्तरार्जितमदुत्कटपुण्यलब्धा किं वा विधूय दुरितं चरितं न
दध्यात् ।। ११६ ।।
भो श्रीगुरुस्वामिपदाभिषिक्त त्वत्पादसेवोदितदिव्यधाम्ने ।।
न खण्डसंविन्न च कर्मकांडः प्ररोचतेऽतः परमीश मह्यं ।। ११७ ।।
अतःपरं मे परमार्थबन्धो गतिस्तवैवांघ्रिसरोजयुग्मं ।।
पृ० ८६) श्रुतिस्मृतिश्चापि न वाक्यतस्ते गतः प्रपत्तिं त्वयि रक्ष रक्ष
।। ११८ ।।
इति ब्रुवन्नश्रुपरीतनेत्रो रोमांचितैः कंचुकिताखिलांगः ।।
पपात रामो भुवि दण्डवत्तत्पादाम्बुजाश्लिष्टकराब्जयुग्मः ।। ११९ ।।
अथाल्लमगुरुः कृपाभरितदिव्यचित्तान्तरो
निधाय करपंकजं शिरसि तं समुत्थापयन् ।।
समीपमुपनीय सन्मधुरवाक् पितेवात्मजं
जगाद परिलालयन् निजकृपांबुधौ लोलयन् ।। १२० ।।
ये संत्यहो चतुरशीतिगणेयलक्षसंख्यातभेदघटिता भुवि
जंतुवर्गाः ।।
तेषां स एव शिवयोगिवरो मुमुक्षुर्यत्त्विंद्रियाणि परिशिक्षयितुं
समर्थः ।। १२१ ।।
रामः कृतांजलिरुवाच तुरींद्रियाणि रूपाधिरूढविषयाननुसृत्य
यांति ।।
श्वानः शशानिव तदीयजयः कथं स्यात् स्वामिन्कृपानिलय
मामनुशाधि सम्यक् ।। १२२ ।।
आहाल्लमः श्रुणु मनः सकलेंद्रियाणां राजा
तदीयविषयोन्मुखतानिरोधे ।।
पृ० ८७) आत्मोन्मुखं ह्यनुसरन्ति तदिंद्रियाणि श्रेष्ठं यथा मधुकरं
सरधास्तथैव ।। १२३ ।।
रामः श्रीगुरुमाह देव यदि तच्चित्तं निजव्यापृते-
र्व्यावृत्तं न भवेत्तदा धनचयं संपाद्य दारान्सुतान् ।।
पुष्णन्नर्थिजनेष्टदः क्रतुतपोदानादिधर्मांश्चरन्
देवागारवनीतटाककृतिभिः पुण्यैर्न किं श्रेयसे ।। १२४ ।।
श्रुत्वाऽऽहाल्लम एष लौकिकनृणां पंथा हि साधारणो
नो लिंगैक्यसुसावधानमनसां कैवल्यसिद्धिप्रदः ।।
किंतु क्लेशकरः कृषीवलसमास्ते कर्मठाः कर्मणां
बीजावापसधर्मणां फलमहो सस्योपमं भुंजते ।। १२५ ।।
लिंगानुसंधानसमाधिभाजां नो जातु धर्मैकरतिः प्रशस्ता ।।
देवालयारामतटाकमुख्या ध्यानस्य सर्वाः कृतयोंऽतरायाः ।। १२६ ।।
न नित्यसौख्यानुभवस्य हेतुः क्रिया यशोलाभनिमित्तभूता ।।
पूजादिकामैः कृतकर्मदंभा नार्हंति तद्ध्यानकलैकमात्रं ।। १२७ ।।
मांसाशयाऽयःकृतयंत्रशंकुं मीनो ग्रसित्वा मृतिमेति मूढः ।।
पृ० ८८) ब्रह्मादिजीवो विषयाभिलाषात्प्राप्नोति तद्वज्जनिमृत्युदुःखं ।।
१२८ ।।
अतः परित्यज्य समस्तकर्माण्यखण्डचिज्ज्योतिषि लीनचित्तः ।।
शिवानुसंधानसमाधिशाली समाप्नुयान्निर्विषयैकसौख्यं ।। १२९ ।।
ध्यानावधानी यदि बाह्यकर्मा स्मरेन्मनाग्वा तदवाप्य वृद्धिं ।।
आच्छादयेद्ध्येयकलां यथैव धान्यौषधीं दुष्टतृणं विवृद्धं ।।
१३० ।।
चिल्लिंगमूर्तेरवलोकनं यः प्रत्यक्षतः स्वानुभवैकसिद्धं ।।
उत्सृज्य कर्माऽऽचरते फलार्थी पिधाय नेत्रे निपतेत्स कूपे ।। १३१ ।।
ध्याताऽपि कर्माचरणे प्रवृत्तो ध्यानं न सिध्येद्दृढमत्यभावात् ।।
मध्ये यदा मृत्युहतः स योगी भ्रष्टः कथं वा भविता न जाने ।। १३२
।।
श्रुत्वाथ रामो गुरुनाथ विद्वन् लोके यथा मृत्युमतीत्य मर्त्यः ।।
जीवेत केनापि पथा स सूक्ष्मो यद्यस्ति तं ब्रूहि ममेत्युवाच ।। १३३ ।।
स्वाम्याह चार्द्रावसरे सुकृष्टे क्षेत्रे तृणानामिव बीजवापं ।।
चित्ते स्थिरे कर्मरतिं विहाय तत्वैकदृष्टिर्विधिनाप्यवध्यः ।। १३४ ।।
ब्रह्मावलोकनपरं परिहृत्य कर्म सर्वान्तरायजयसाधनयोगनिष्ठं ।।
पृ० ८९) श्रीसिद्धरामायाल्लमकृततत्वोपदेशः ।
ब्रह्मादयोऽपि न विचालयितुं समर्थाः काले कदाऽपि
दिविजास्सुविनिश्चितोऽयं ।। १३५ ।।
किं चेषदंगविकलं भुवि कर्मतंत्रं नो किंचिदस्य फलतीति हि
शास्त्रनिष्ठा ।।
मूर्तिश्च भोगरहिता विहितप्रतिष्ठा न्यूनातिरेकवशतः खलु
देवतायाः ।। १३६ ।।
विज्ञाय चैवमिह सज्जति कर्मकाण्डे को वाऽवबुद्धगुणदोषकथो मुमुक्षुः
।।
वेदाभिमानजटिलो यदि कर्मनिष्ठस्तस्य क्व चापि न भवेत्परतत्वलाभः
।। १३७ ।।
अस्त्यंतरं बहिरिति द्वयमस्य जन्तोस्सर्वस्य चांतरखिलानुभवैकवेद्या ।।
विज्ञानदीपकलिका विलसत्यमोघा संदृश्यते बहिरशेषमृषाप्रपंचः
।। १३८ ।।
तस्माद्बहिः प्रवहणं हृदयस्य भंक्त्वा विज्ञानदीपकलिकोन्मुखमेव
चित्तं ।।
अंतःपथाकलितवृत्तिपरः सदैव कुर्वीत धीनिधिरहो श्रुणु सिद्धराम
।। १३९ ।।
भो सिद्धराम बहिरंतरपि द्विरूपा हृन्मारुतस्य गतिरत्र तु रेचकाख्या
।।
पृ० ९०) बाह्यान्तरंगविषया ननु पूरकाख्या ते द्वे हृदब्जनिलये
विदधीत लीने ।। १४० ।।
अभ्यासरुद्धपवनद्वयमध्यनाडीमार्गेण मेरुशिखरं प्रतिपद्य योगी ।।
ज्योतिः परं य इह पश्यति दिव्यलिंगं साक्षात्स एव कृतकृत्यतमो
महेशः ।। १४१ ।।
लिप्तो विषेण बहिरप्यनवाप्तमृत्युस्तद्वद्बहिर्विषयसंगतिरागसेन ।।
पीत्वा विषं तु न हि जांगलिकेन रक्ष्यो न ब्रह्मणोऽपि विषयानुभवी
तथैव ।। १४२ ।।
रामेह के च न गता ननु साधकत्वं मोहाद्दुरन्तविषयानपरित्यजन्तः ।।
संपाद्य दोषमिव योगमणिप्रभाया भ्रष्टा भवंत्युभयतः पतिता
दुरीहाः ।। १४३ ।।
ये घोरसंसारदवाग्निमध्ये पापच्यमानाः शरणं प्रपन्नाः ।।
श्रेयःपदं योगमहो न तेषामर्हः पुनर्दुर्विषयाभिलाषः ।। १४४ ।।
कुक्षिंभराः के च न योगिवेषं संधाय काषायकमंडलाद्यं ।।
मंत्रौषधाद्यैः किल वंचयंति संभाषणं वाऽप्युचितं न तेषां
।। १४५ ।।
विषयेंद्रियाणि विषमाण्यपरित्याज्यान्यपि स्वयं त्यक्त्वा ।।
शिवयोगिनः कृतार्था निजसुखनिरता न यांति वैकल्यं ।। १४६ ।।
पृ० ९१) श्रीसिद्धरामायाल्लमकृततत्वोपदेशः ।
पतितः पंके करिराडवलंब्य बलं स्वकीयमेव दृढं ।।
स्वयमुत्थितः श्रयेत्तटमितरः कः शक्नुयात्तमुद्धर्तुं ।। १४७ ।।
त्वं राम शैवदीक्षाप्रक्षीणरजस्तमोविमोहोऽपि ।।
त्यक्तान्तर्निजमार्गः कर्मपथे बहिरहो प्रवृत्तोऽसि ।। १४८ ।।
निगमागमान्तनिष्ठस्त्वमिह परित्यज्य कर्मतंत्राणि ।।
परिभवहेत्वरिजयतस्सद्यो मुक्तिं भजस्व रामार्य ।। १४९ ।।
ज्ञानाज्ञाने द्वे इह हेतू मोक्षस्य बंधनस्यापि ।।
भक्तिर्ज्ञानं कर्माज्ञानमकर्मैव मुक्तिरित्युक्ता ।। १५० ।।
ज्ञानेन कर्मनाशे मुक्तिः फलितैव सहजसिद्धा सा ।।
कण्ठे चामीकरमिव नास्मिन्नर्थेऽस्तु संशयः कश्चित् ।। १५१ ।।
ज्ञानी कर्मासक्तो यदि भवति शुने ददत्स पक्वान्नं ।।
पूतिश्रोणापानं कुरुते मूढो विवेकराहित्यात् ।। १५२ ।।
लिंगानने सकलवस्तुचयं समर्प्य भुंजन् रसार्पणपरो हृदि तत्प्रसादं
।।
पृ० ९२) निष्कर्मतां समुपयाति स एव मायाभर्तेति राम विदितो बहुना
किमत्र ।। १५३ ।।
सर्वेंद्रियाणि बलवंति यदा तदैव मृत्योर्जये मतिमुपेत्य निरस्तमोहः ।।
ध्यानावधाननिरतः परिहृत्य बाह्यं सच्चित्सुखात्मपरिणाममुपैति राम
।। १५४ ।।
भ्रान्तिं विसृज्य विभवेषु निरस्तकर्मा निर्मायिको
निरतधारणयात्मनिष्ठः ।।
ऐक्यं विभाव्य शिवजीवकलाद्वयस्य निर्लेपरूपपरमो भव सिद्धराम ।।
१५५ ।।
चित्तं वृत्तिसहस्त्रसंकुलमिदं कृत्वैकवृत्याश्रयं संस्थाप्येष्टपरे
दृढं सुविमलं तत्प्राणलिंगे पुनः।।
संबध्य स्थितधीर्दृशं सुनिपुणां संधाय लक्ष्यात्मिकां तृप्तिं
प्राप्नुहि भावलिंगकलनात्संगं समस्तं त्यजन् ।। १५६ ।।
लिंगांगसंबंधपदार्थबोधाल्लिंगांगसंबंधपदैक्ययोगात् ।।
लिंगं त्वमेवासि न चास्ति भेदः सत्यं सदा साधय सिद्धराम ।। १५७ ।।
लोके कशाताडनपार्ष्णिघातघेंकारशब्दाः खलु दुष्कुलस्य ।।
पृ० ९३) श्रीसिद्धरामायाल्लमकृतवीरशैवदीक्षादिनिरूपणम् ।
कुलीनवाजी मुखरज्जुकृष्ट्या चित्तानुवृत्या प्लवतेऽधिपस्य ।। १५८ ।।
श्रीवीरशैवागमदीक्षितः सन्ब्रह्मानुसंधानपरो भवेद्यः ।।
स एव योगी न गुरुर्गुरूणां सुनिश्चितोऽयं सकलागमार्थः ।। १५९ ।।
सिद्धराम निगमागमशास्त्रप्रक्रियापटलवक्रतयाऽलं ।।
श्रीगुरूक्तशिवतत्वसमुद्यद्योगमार्गनिपुणो भव नित्यः ।। १६० ।।
इत्युदीर्य कृपया गुरुवर्यस्तत्र चिद्यवनिकां परिकल्प्य ।।
आसने समुपवेश्य रहस्ये दीक्षया तमकरोत्कृतकृत्यं ।। १६१ ।।
फालपट्टलिखितं परिमृज्य स्वांघ्रिणाऽथ भसितैः कृतरेखः ।।
मस्तकोपरि निधाय च हस्तं दृष्टिपूतमकरोद्वपुरस्य ।। १६२ ।।
श्रीशांभवीं समुपदिश्य च दिव्यमुद्रां वेधेन चिन्मयतनुं विरचयय
रामं ।।
देहेंद्रियादिरहितं सहितं विबोध्य लिंगे निमग्नहृदयं सदयं चकार
।। १६३ ।।
इत्थं स जीवपरमैक्यहितोपदेशं तस्मै ददौ प्रभुरमुष्य हृदि क्षणेन
।।
अर्चांचितेव सुदृढं स्थिरतामवाप ज्योतिःकलैव निजनिर्मलबोधरूपा ।।
१६४ ।।
तस्याथ मानससरो विललास तूर्णं हंसोऽपि तत्र विहरन् परितृप्तिमाप
।।
पृ० ९४) सौषुम्नसीम्नि विकसन्नवचक्रवीथीमुल्लंघ्य चिद्गगनसौख्यमवाप
रामः ।। १६५ ।।
अन्तः समाधिमधिगत्य शिवैक्यनिष्ठामास्वाद्य हृद्यनुपमामथ
सिद्धरामः ।।
विस्मृत्य बाह्यमखिलं विनिनाय कं चित्कालं प्रभोः करुणया
परमामृताब्धौ ।। १६६ ।।
भूयो बहिः करतलस्थनिजेष्टलिंगे सद्भावलिंगनिलयादसुलिंगमेत्य ।।
दृष्टिं स्थितानुभवसौख्यमसौ विभाव्य हर्षात्पपात पदयोः
प्रभुलिंगमूर्तेः ।। १६७ ।।
हर्षाश्रुपूर्णनयनः पुलकांकितांगस्सर्वं शिवात्मकमिदं जगदेव
पश्यन् ।।
भक्त्या प्रणम्य रभसादथ कंपमानः प्राह प्रभुं
प्रतिकृतांजलिरेष रामः ।। १६८ ।।
भावत्कपादसरसीरुहसन्मरंदसेवावशादवगता शिवयोगसिद्धिः ।।
अज्ञानगाढतिमिरं सकलं विनष्टं विज्ञानदीपकलिकेह चकास्ति चित्ते
।। १६९ ।।
पूतोऽस्मि सत्करुणया तव देशिकेंद्र जाता प्रभोऽद्य हि
ममाभिमतार्थसिद्धिः ।।
नीतो वशं तव जगत्त्रितयैकबंधो बंधो न मे निजकलानवबोधहेतुः ।।
१७० ।।
पृ० ९५) श्रीसिद्धरामायाल्लमकृतमंगलाशीर्वचनम् ।
प्रभुसिद्धरामयमिनोस्संवादं द्रष्टुमागतास्सिद्धाः ।।
अन्तर्धाय तदानीमित्थममन्यंत चेतसा सर्वे ।। १७१ ।।
क्व गतं नु सिद्धराम स्वान्ते जटिलं समग्रमौद्धत्यं ।।
निर्यातः केन पथा गर्वस्सर्वंकषस्तथाऽखर्वः ।। १७२ ।।
कर्माकांक्षा क्व नु वा संक्षिप्ता कीर्तिकामना तद्वत् ।।
लीना कुत्राऽसहनं कुत्र च शिथिलं क्षणादहो चित्रं ।। १७३ ।।
अथ वा सज्जनसंगतिमहिमाखिलसिद्धिकारणं पुंसां ।।
संगौषधं हि सन्तः कृतकृत्योऽयं प्रभोर्यतः संगात् ।। १७४ ।।
अथ विनयेन कृतांजलिमेनं प्रभुरादरात्समालिंग्य ।।
स्वयमनुजग्राह वरान् वचसा मधुरेण चेतसा सदयं ।। १७५ ।।
चेतःशुद्धिः शंकरे भक्तिनिष्ठा ज्ञानस्थैर्यं योगसिद्धिः समग्रा
।।
वांच्छासिद्धिः कायसिद्धिर्गुरूणां कारुण्याप्तिः सन्तु ते सिद्धराम ।।
१७६ ।।
इत्यल्लमप्रभुवरे कृपयेष्टसिद्धीराज्ञापयत्यवनमयय शिरोऽथ रामः
।।
बाढं कृतार्थ इति सौख्यसुधांबुराशौ मन्नो बभूव
परिपूर्णशिवैक्यभावः ।। १७७ ।।
इति सकलमुनींद्राः सिद्धरामस्य चित्रं चरितमभिहितं वः
श्रोत्रभीष्टार्थदायि ।।
पृ० ९६) इह मुदितमनस्का ये पठन्त्यामनन्ति प्रभुरधिकमभीष्टं
सिद्धिसौख्यं ददाति ।। १७८ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां सिद्धरामोपदेशगतिर्नाम त्रयोदशोऽध्यायः ।।
पृ० ९७) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ चतुर्दशोऽध्यायः
श्रीवीरेश्वरसिद्धदेशिकमहासम्राड्पदांभोरुह-
ध्यानासक्तहृदंबुजाश्चरगुरुश्रीलिंगपूजारताः ।।
संदष्टेंद्रियदुर्विकाररहितास्सद्भोगमोक्षार्थिनः
पुण्या भक्तगणाः प्रमादरहिताः शृण्वन्तु लीलां प्रभोः ।। १ ।।
सद्भक्तिं बसवाधिपस्य बहुशः श्रुत्वा सुधीभ्यः प्रभु-
स्संतुष्यान्तरचिंत्यवैभवघनस्तं द्रष्टुमुत्कंठितः ।।
निर्यन् स्वर्णलिकापुरान्निजपदश्रद्धान्वितेनान्वितो
रामेणाथ ययौ तदीयनगरं कल्याणनाम्ना श्रुतं ।। २ ।।
मध्येमार्गमनर्गलार्ककिरणैरप्राप्यगर्भस्थला-
नारामान्पनसाम्रपूगकदलीजम्बीरजंबूवटैः ।।
तालाशोककपित्थपाटलमुखैरन्यैरनन्योपमान्
वापीकूपसरांसि च प्रतिपदं कुल्याश्च पश्यन्ययौ ।। ३ ।।
पृ० ९८) क्रीडोद्यानतटाकपुष्करनदीशालीक्षुरंभावली-
र्जाजीकुंदकुरंटकादिसुमनोवाटीः पृथक्कल्पिताः ।।
रुदाक्षागरुनारिकेलबदरीखर्जूरवाटीः पुनः
पश्यंच्छीतलचंदनाद्रिमरुतां व्रातैर्ययौ सेवितः ।। ४ ।।
मार्गे मार्गे पुष्पवाटीषु वाताः पांथश्रान्ति वारयन्तः समंतात् ।।
सेवन्ते स्म स्वामिनं श्रीगुरूणां मंदं मंदं स्वागताश्चंदनाद्रेः
।। ५ ।।
कस्तूरीभिर्लिप्तवेदिस्थलानि स्वादूशीरैः कल्पितैः कायमानैः ।।
रम्याणि स्युस्तत्र चित्राणि मार्गे पांथस्वान्तानंदसंधायकानि ।। ६ ।।
मध्ये मध्ये धर्मशाला विशाला मार्गस्थानां सन्निवेशाः प्रदेशाः ।।
स्थातुं योग्याः षड्रसान्नादिपूर्णा रेजुश्चित्रं सत्रशालाः प्रपाश्च
।। ७ ।।
बालानां नवनीतदुग्धकलशैर्डोलाशतैः पालिका
याश्शालाः शिशुकान्प्रपोष्य सुखितान्कृत्वाऽथ तत्र स्वयं ।।
भुक्त्वाऽभीष्टरसायनान्नममलं पानीयमास्वाद्य
तत्पर्यंकेषु महाटवीषु च सुखं संविश्य पान्थाः स्थिताः ।। ८ ।।
प्रातः संगवमध्यसायसमयेष्वन्तस्तथा रात्रिषु
प्रीत्याह्वानरवास्सदाऽतिथिगणानव्याजमैत्रीजुषां ।।
पृ० ९९) प्रभुकृतबसवेशपालितदेशवर्णनम् ।
अश्रूयन्त वने वने प्रतिपदं भुक्त्यर्थमिष्टाशनै-
स्सन्तुष्टानुपचारवाऽऽन्मधुरिमा नो शक्यते भाषितुं ।। ९ ।।
आहो श्रीबसवेशभाग्यमहिमाधर्मस्वरूपः स्वयं
भूत्वा भूमितले कलिं परिहरन् कृत्वाऽदिमं सद्युगं ।।
पुण्यात्मा निजपादपद्मभजनान्निर्धूतदोषात्मनां
सर्वेषामुभयत्र सौख्यकलनां सद्यः स्वयं यच्छति ।। १० ।।
इत्यागन्तुकवाग्धुनीमनुपमां शृण्वन्प्रभुः सर्वगः
पश्यंस्तद्बसवेशधर्मविभवं नेत्रोत्सवं भावयन् ।।
वाण्यानंदसमग्रया शुभगुणांस्तस्याधिकं वर्णयन्
हा हा श्रीबसवेशदिव्यमहिमेत्यत्यादरं तुष्टुवे ।। ११ ।।
आनंदात्प्रभुरस्य कीर्तिमतुलां गायंच्छिरःकंपनै-
रालप्यानुभवादिवाथ रचयन्नाट्यं समन्तात्स्तुवन् ।।
रामं प्रत्युपपादयन्ननुपदं मत्तोऽधिको भक्त
इत्याहो श्रीबसवेशभक्ततिलकेत्यन्तः परं तुष्टुवे ।। १२ ।।
भक्तानां महिमा पितामहमुखैर्नो वर्णितुं शक्यते
किंचिन्नांतरमस्ति भक्तशिवयोर्भक्तोऽधिको वा शिवात् ।।
पृ० १००) भक्तानामपि मुक्तिदः स्वयमयं सच्चित्सुखात्मा यतो
धर्मः श्रीबसवेश्वरोऽखिलगुरुर्वेदान्तकल्पद्रुमः ।। १३ ।।
स्वाम्येवं बसवेशभक्तिमतुलां रामाय संबोधयन्
कल्याणालयमाजगाम नगरं कल्याणनाम्ना श्रुतं ।।
तत्प्राकारबहिःप्रदेशनिकटे क्रोशद्वयीमात्रतः
सांद्रास्तत्र ददर्श रम्यसुमनोवाटीः समन्तात्प्रभुः ।। १४ ।।
तद्गारुत्मतरत्नकुट्टिमतलान्याकीर्णमुक्तामणि-
श्रेणीतुल्यमशोकपादपगलत्पुष्पोज्वलानि प्रभुः ।।
किंचानंगनिषंगरंगदतुलस्निग्धाम्रमालूरस-
न्मंदारप्रमुखानुदारविटपिस्तोमान्ददर्शाल्लमः ।। १५ ।।
चित्रं तत्र जगाम स त्रिभुवनश्रीदेशिकेंद्रः स्फुटं
कल्याणोपवने द्विजैः शुकमुखैस्सर्वागमान्तःस्थितैः ।।
नादब्रह्मपरं गृणद्भिरुदितान्याकर्णयन्नीश्वर
श्रीशंभो शिव शंकरेति सततं प्रोच्चस्वरैः सर्वतः ।। १६ ।।
गन्धाकर्षणचातुरी न भवतां किं गंधवाहत्वमि-
त्याक्रोशत्स्विव झंकृतैरलिगणेष्वानंदसंधायिनः ।।
आकृष्टाखिलपुष्पसौरभघनाः कर्पूररंभावटा-
पृ० १०१) कल्याणनगरवर्णनम् ।
स्तत्राध्वश्रमपश्यतोहृतिचणाश्चेरुर्मरुड्डिंभकाः ।। १७ ।।
पदे पदे योगमठा हठार्थिनां मठे मठे शिष्यगणा गुणाधिकाः
।।
गुणे गुणे शांभवशास्त्रचिंतना प्रभोरतन्वन्नधिकं मुदं हृदः ।।
१८ ।।
समस्तकल्याणनिधानमीदृशं दृशाऽनुजग्राह जगद्गुरुः स्वयं ।।
प्रभुः स कल्याणपुरं पुरंदरत्रपाकरं प्रोन्नतहेमगोपुरं ।। १९ ।।
विशालशालोन्नतिमस्य भानुमद्रथाश्वमुख्याः प्रविदन्ति नेतरे ।।
द्विषन्मृगस्तोमभयंकरायते यदुज्वलद्व्याघ्रमुखाख्यगोपुरं ।। २० ।।
हरस्य वास्तव्यगृहायते पुरं यतः सुराद्रिः शिवदर्शनोत्सुकः ।।
समागतस्तिष्ठति हाटकोज्वलत्कवाटसौधोन्नततोरणच्छलात् ।। २१ ।।
प्रविश्य तद्द्वारमतीत्य तद्गणं सुवक्रधारावलयैर्विशंकते ।।
जनः पुनर्निष्क्रमणाय शीलितोऽप्यहो नवीनः किमु तत्प्रवेशने ।। २२ ।।
पृ० १०२) न पण्यवीथीगणभाग्यवैभवं बृहस्पतिर्वर्णयितुं क्षमो
भवेत् ।।
यदुद्यदभ्रंकषरत्नराशयो हसन्ति मेरुं गिरिशेन कुंचितं ।। २३ ।।
युगः कलिर्येन कृतः कृताह्वयः पुरं चिरं तद्बसवेन पालितं ।।
न वर्णितुं शक्यमहो महीशितुः सुभक्तिनिष्ठेव तदाकृतिः स्फुटं ।।
२४ ।।
न हि प्रवेष्टुं परवादिभिः क्षमं परैश्च यत्तत्परिखा दुरत्यया ।।
महोत्पलं तत्र च पंकजायितं रसातलस्त्रीकुचयक्षकर्दमैः ।। २५ ।।
राजन्ते बसवेंद्रचातकमुखे सौख्याप्तये वर्षितुं
सत्कारुण्यरसं प्रभुर्घनतरः सोऽयं समायास्यति ।।
द्रष्टुं तत्र विमानपंक्तिरमरैस्संप्रेषितेतीव त-
त्पुर्यट्टालकपर्वतेषु परितश्चैत्यानि हैमान्यहो ।। २६ ।।
वादार्थागतबादरायणमधः कुर्वन्ति तत्र द्विजा
राजानो न हि रूढितो रिपुजयं युद्धेष्वकृत्वा पुनः ।।
वैश्यास्तु व्यवहारभारसमयेऽप्यव्याकुला धर्मत-
स्सर्वेऽन्येऽपि च शूद्रकादिनिवहा न्याये स्वके निष्ठिताः ।। २७ ।।
पृ० १०३) बसवालयं प्रति प्रभोरागमनम् ।
मातंगाश्वजवः पुरे गणयितुं न ब्रह्मणा शक्यते कामो वेत्ति
पटुस्तनोन्नतिमतीं बिंबाधरीणां द्युतिं ।।
सर्वत्र व्रतनिष्ठया नियमिनां सज्जंगमानां
गृहाण्यावासाशनदाननिर्जितमहामेरूणि चारूण्यभुः ।। २८ ।।
तत्पत्तनं निजपदांबुजघट्टनेन चित्रं पवित्रितजगत्त्रितयो विवेश ।।
स्वाम्यल्लमस्तत इतश्चरणांगुलीषु विन्यस्तमस्तकसमस्तजनः कृपावान्
।। २९ ।।
घंटापथे परमजंगमलिंगमूर्ते रामस्य हस्तमवलंब्य महानुभावः
।।
आगत्य तद्बसवगेहसमीपशालामभ्याययौ सविनयं भजमानभक्तः ।। ३०
।।
तद्द्वारमण्डपगतौ प्रभुसिद्धरामावालोक्य तावमनुताखिलयोगिवर्गः ।।
नत्वा शिवः सगुणनिर्गुणरूपधारीत्यत्रागतः प्रथयितुं
बसवेंद्रभक्तिं ।। ३१ ।।
अत्रांतरे हठपदार्पणनामधेयो भक्ताग्रणीः प्रभुमवंक्ष्य
तदंघ्रिमौलिः ।।
गत्वा व्यजिज्ञिपदमुं बसवेश्वराय लिंगार्चनैकरतये गणसंघमध्ये
।। ३२ ।।
पृ० १०४) श्रुत्वाऽल्लमं स्वगृहमागतमार्यमिश्रो
ब्रह्मावलोकनसुधांबुनिधौ निमग्नः ।।
साक्षादमन्यत शिवं करपीठपूजासंतुष्टमागतममुं
चरलिंगमूर्त्या ।। ३३ ।।
प्रोवाच तं बसवमंत्रिवरोऽर्पणार्य साक्षात्सदाशिवगुरुः
प्रभुलिंगमूर्तिः ।।
अत्राऽऽगतः करुणयैव वयं कृतार्थाः शीघ्रं प्रयाहि तमिहानय
देशिकेंद्रं ।। ३४ ।।
श्रुत्वा वचो हठपदार्पणभक्तमौलिस्तस्यागतः प्रभुमणिं
रचितप्रणामः ।।
भक्त्या व्यजिज्ञिपदमुं शरणार्थितोक्त्या स्वामिन् विशांतरिति तं
पुनराह देवः ।। ३५ ।।
क्वान्तः क्व वा बहिरहो सकलात्मभावसंतुष्टनिर्मलधियां
शरणोत्तमानां ।।
नास्माकमागमनमौपयिकं प्रभूणां लोकाभिमानबहुता महतां
गृहाणि ।। ३६ ।।
आकूतगर्भितमिदं वचनं निशम्य च्छेकोर्पणः सविनयं
भयभक्तिनम्रः ।।
स्थित्वा स्वयं सविध एव गुरूत्तमस्य संप्रेष्य तत्स बसवं त्वरितं
चकार ।। ३७ ।।
लिंगार्चनं लघुतया सुसमाप्य विद्वानुत्थाय तत्र बसवो
भयकंपितांगः ।।
पृ० १०५) प्रभावपराधिनो बसवस्य माचयस्य चोक्तिप्रत्युक्तिः ।
चिंतां चकार हृदि हा विधिदुर्विपाकाद्गर्वांधतामनुगतोऽस्मि
कृतापराधः ।। ३८ ।।
यद्वा पुनः किमपि वक्तुमनास्तदन्यद्वक्ताऽस्मि किं विकलितो गुरुभक्तियुक्त्या
।।
हा हाऽल्लमप्रभुवरो मम देशिकेन्द्रो नांगीकरोति सदनं सदयं
प्रवेष्टुं ।। ३९ ।।
भक्तिर्गता क्व नु ममाऽद्य जगद्गुरूणां जाता मनस्यरुचिरित्थमहो मयीति
।।
चिंताविलं बसवमंत्रिवरं समीक्ष्य जानश्नुवाच हृदयं
मणिवालभक्तः ।। ४० ।।
अत्रागतः करुणयाऽल्लमदेशिकेन्द्रो भक्तावनैकचतुरः स्वयमेव साक्षात्
।।
विज्ञाय चैवमधुना बसवार्य तूर्णं प्रत्युद्गमं न
कृतवान्यदयुक्तमेतत् ।। ४१ ।।
तं प्राह सोऽथ बसवो मणिवालसूरे भो माचयार्य वचनं तव सत्यमेतत्
।।
मद्रीतिरब्धितरणोद्यतसाहसिक्ये विस्मृत्य देहमविचालितपाणिकल्पा ।। ४२ ।।
नष्टं विवेकनयनं दुरदृष्टतम्या प्रत्युद्गमं न कृतवानविलंबितं
यत् ।।
क्रुद्धे शिवे गुरुरवत्यभवो न रक्षेत्क्रुद्धे गुरौ तु शिव एव गुरुस्तु सोऽयं
।। ४३ ।।
इत्थं ब्रुवन्सभयसंभ्रमवेपमानस्सर्वैर्गणैः प्रभुसमीपमुपेत्य
साकं ।।
स्वामिन् क्षमस्व करुणांबुनिधेऽल्लमेंद्र श्रीमद्गुरो प्रभुवरेति पदोः
पपात ।। ४४ ।।
पृ० १०६) सर्वापराधकृतमेनमनाथबन्धो
नाघ्रातशास्त्रनिगमागमगंधलेशं ।।
दीनं भवत्पदयुगं शरणं प्रपन्नं मां पाहि पाहि दयया
जगदेकवंद्य ।। ४५ ।।
अज्ञानसागरगतोऽयमहं विशुद्धविज्ञानरत्ननिधिरेष भवान्महात्मा ।।
विश्वस्य रंजकतयाऽहमिह प्रवृत्तस्त्वं निर्मलात्मघन एष निरंजनोऽसि
।। ४६ ।।
सोऽहं पशुः पशुपते भवपाशबद्धः पत्युर्हि निघ्नमवनं
त्रिजगत्पशूनां ।।
आलोकितुं मम गुणानलमार्तबन्धो रक्ष त्वदीयगुणमद्य गुरो वितीर्य ।।
४७ ।।
इत्थं स्तुवन्स बसवोऽल्लमपादपद्मद्वंद्वे पतन्निजगणैस्सह नोदतिष्ठत्
।।
स च्छन्नवीरबसवः समये विधिज्ञो विज्ञापनां समतनोत्प्रभवे
प्रभूणां ।। ४८ ।।
पुत्रेषु कुत्र जननीजनकौ जगत्यामागस्विषु प्रतिपदं त्यजतः कृपां
तां ।।
माता पिता गुरुरधीश्वर इष्टबन्धुर्दाता त्वमेव बसवस्य
सदाऽल्लमेंद्र ।। ४९ ।।
तस्मादमुष्य जगदेकगुरोऽपराधान्सर्वान्क्षमस्व कृपयेति स भक्तिनम्रः
।।
पृ० १०७) प्रभोः पुरतः माचयार्यकिन्नरार्ययोः प्रार्थना ।
पादाभिषेचनविधिं प्रमदांबुपूरैरोमांचकंचुकितसर्वतनुश्चकार ।।
५० ।।
अत्रान्तरे स मणिवालकमाचयार्यो दंडप्रणामशतकैः प्रभूमर्चयित्वा
।।
भक्त्या व्यजिज्ञिपदमुं बहुयुक्तियुक्तं मौलौ कृतांजलिपुटो
महनीयवाचा ।। ५१ ।।
युद्धे परित्यजति चेत्करलाघवं तद्दोषाय साधनचणः सुगुरोः पुरस्तात्
।।
अभ्यासदार्ढ्यसमये खुरलीगृहान्तर्भ्रंशे तु बोधनममुष्य गुरोर्हि
युक्तं ।। ५२ ।।
बालो हि देव बसवः किल भक्तिमार्गे युष्मद्बलं समवलंब्य पटुः
प्रवृत्तौ ।।
ज्ञानक्रियाविमलभक्तिपथान्प्रबोध्य भक्तावमुं स्थिरयितुं भवतां हि
भारः ।। ५३ ।।
इत्थं प्रवक्तरि गुरोर्धुरि माचयार्ये तत्रान्तरे
सकलभक्तगणाभिनंद्यः ।।
विज्ञप्तिमाचरदमुं प्रति किन्नरार्यः सर्वेश्वरं
प्रभुमथाल्लमदेवदेवं ।। ५४ ।।
यन्निश्चयो निजतनुस्तनुरित्यजस्रं लिंगस्य तद्वदपि जंगम एव जीवः ।।
स्वस्येति तस्य बसवस्य भवत्पदाब्जद्वंद्वस्य न क्वचन भेदकथा प्रभो
स्यात् ।। ५५ ।।
स्वामिंस्तथापि यदि तत्र भवान्यतेथाः भक्तिं परीक्षितुममुष्य
दृढां त्वमित्थं ।।
पृ० १०८) तत्कारणं भवदमोघकृपार्द्रदृष्टेर्हैन्यं न जातु बसवस्य
जगद्धितार्थिन् ।। ५६ ।।
बालस्य देव जननी हनुताडनेन भूयोऽपि पाययति किं न पयस्तदस्य ।।
संरक्षणाय न भवेत्किमु तद्वदेषा शिक्षाऽपि रक्षितुममुं
निजभक्तिदार्ढ्यात् ।। ५७ ।।
विज्ञापयत्यथ गुरुं प्रति किन्नरार्ये सर्वे गणास्तमनुसृत्य
कृतप्रणामाः ।।
विन्यस्तमस्तकनिजांजलयो विशुद्धाः प्रस्तावयोग्यवचनं
बभणुस्तमीशं ।। ५८ ।।
आम्नायशास्त्रनिगमागमसंहिताद्या विद्या भवत्पदयुगं न विदन्ति
साक्षात् ।।
ज्ञातुं तथा न मुनयो मनवो महत्वं कारुण्यलेशमपहाय गुरोः
समर्थाः ।। ५९ ।।
ये तर्ककर्कशविवादचणा भवन्तं ते शक्नुवन्ति न करस्थमपि गृहीतुं
।।
यत्रास्ति भक्तिरमला परमेश्वरस्य तत्रैव तिष्ठति भवानतिगोप्यरीत्या
।। ६० ।।
सांख्याः प्रधानमिति योगचणाः पुमानित्याम्नायिनो नियतिरित्यथ
पांचरात्राः ।।
वैकुण्ठ इत्यभिदधत्यखिलागमान्तसिद्धान्तसारहृदयास्तु शिवं
भवन्तं ।। ६१ ।।
पृ० १०९) प्रभोः पुरतः सिद्धरामस्य प्रार्थना ।
तादृग्विधः सकलकारणमीशिता त्वं यन्निर्गुणोऽपि गुणवानिव
शुद्धसत्वः ।।
भूमाववातर इदं बसवार्यमौलेस्संरक्षणाय खलु लोकगुरो महात्मन् ।।
६२ ।।
स्तुत्वैवमीश्वरगणेषु नतोत्तमांगेष्वंगानुषंगिपुलकांकितकंचुकेषु
।।
रामः प्रणम्य वचनं विनयाभिरामः प्राहाल्लमप्रभुवरं
प्रकृतोपयुक्तं ।। ६३ ।।
लोके समस्तनिजभक्तगणावनाय धृत्वा स्वयं सुलभजंगमलिंगलीलां
।।
आगत्य राजसपराजिततेजसामप्यस्मादृशां विमलबोधपदप्रदोऽसि ।। ६४ ।।
युष्मत्पदैकशरणांच्छरणानमूंस्त्वं संरक्षितुं किल समागतवान्
दयालो ।।
भूयस्तवास्य बसवेश्वरभक्तिनिष्ठा न्यूनातिरेकगुणदोषकथा कथं
स्यात् ।। ६५ ।।
मानावमानसुखदुःखगुणागुणाद्यं यन्नास्ति देव तव सर्वविकल्पजालं
।।
तस्मादनेन नटनेन किमेनमेनः संक्षाल्य देव बसवं परिपाहि भक्तं
।। ६६ ।।
नाहं ब्रवीमि बसवादितरत्र किंचित्क्षन्तव्यमाग इति तत्पदयोः पपात ।।
उत्थाप्य पाणिकमलेन स सिद्धरामं प्राहाल्लमप्रभुवरः
पशुपाशहन्ता ।। ६७ ।।
पृ० ११०) राम त्वया न विदितं जगतीह भक्तैर्विक्रीयतेऽन्यदपरं
ग्रथितं हि कक्षे ।।
वाचा वदन्ति परमार्थपदानि किंचिन्नैवाचरन्ति वचनार्थसमं स्वयं तु
।। ६८ ।।
आर्याः किमप्युपदिशन्ति गृहं प्रयाते यज्जंगमे सविनयं तमनर्चयन्तः
।।
यत्नेन केवलकरस्थितलिंगपूजां भक्तिच्छलेन कुरुतेति विरुद्धबोधान् ।।
६९ ।।
वाचं निशम्य बसवो जगदेकबंधोर्भक्त्या गृहीतचरणः शरणं
भवेति ।।
प्रोवाच देव भवतामवतारलीला भक्तावनाय खलु संप्रति बद्धदीक्षा
।। ७० ।।
मायां विधूय भवता परिपालितोऽभूद्गोगः कृषीवलतया किल गां गतो
यः ।।
आयासकृत्यमपहाय बभूव गोगो लक्ष्यं गतः शिवपुरात्पृथिवीं
गतोऽपि ।। ७१ ।।
मुक्ताययपाकृतजगद्विषयात्मबोधान्मुक्ताऽभवत्किल भवत्कृपयैव देव ।।
एषोऽपि रामशरणः समताप्तजीवन्मुक्तिः समाहितमतिः समभूत्त्वयैव
।। ७२ ।।
इत्थं त्वन्महिमानुभावमतुलं श्रुत्वाहमुत्कंठितो
भक्तेभ्यः क्व नु वागमिष्यति गुरुर्मुक्तोऽखिलैः संशयैः ।।
जीवामि क्व नु तत्कृपामृतरसैरित्यंबुदं चातकः
पृ० १११) प्रभुं प्रति श्रीबसवेशप्रार्थना ।
पक्षीव स्पृहया स्थितोऽद्य भवतः पादाम्बुजं दृष्टवान् ।। ७३ ।।
कारुण्येन समेत्य मामिह यदि श्रीमान्परित्यक्ष्यसे
का वा मेऽत्र गतिर्विचित्रमहिमन् किं स्पर्शवेधीरसः ।।
संपश्यत्ययसो गुणं मम तनुः सर्वापि राशीकृता
दोषैः किं शितिमास्ति वा मृगयितुं पिण्याकशाके प्रभो ।। ७४ ।।
मा निंदन्त्वथ ताडयन्तु बहुलं कुप्यंतु वा संप्रति
श्रीमत्पादयुगं त्यजामि न कदेत्यानन्दबाष्पोद्गमैः ।।
च्छन्नश्रीबसवेन वीरबसवं पादौ गृहीत्वा दृढं
भक्तैरप्यखिलैः स्तुवन्तम धिकं प्रोवाच देवोऽल्लमः ।। ७५ ।।
वाक्येषु स्फुटमीक्षितेऽत्र भवतां भक्तिर्न वृत्तौ क्वचि-
त्तत्साम्यं न हि यत्र वर्तनवचः सद्भावनासु स्थिरं ।।
तत्र क्वापि च न प्रसीदति शिवो युष्मादृशां भक्तित-
स्साक्षी सर्वजगद्गुरुस्सहि सदा सर्वान्तरंगस्थितः ।। ७६ ।।
इत्युक्त्वोपरतं प्रभुं स बसवो भक्ताश्च संतुष्टुवुः
स्वामिन् सत्करुणारसार्द्र भगवन्भक्तिं स्थिरां देहि नः ।।
संप्राप्तुं गुरुलिंगजंगमकृपां तत्कीलकानुग्रहा-
दस्मानद्य कृतार्थयोपदिश नः शैवं रहस्यं गुरो ।। ७७ ।।
पृ० ११२) प्रभुरिति बसवेशप्रार्थनां निश्चितार्थां
सकलजनहितार्थं स्वात्मनीनां निशम्य ।।
सदयमथ तदीयस्वस्तिकान्तः प्रवेष्टुं
सकरुणमुपदेष्टुं स्वान्तरंगीचकार ।। ७८ ।।
इति कथितमृषीन्द्रास्साधुकल्याणपुर्यां
प्रभुचरितममोघं सर्वकल्याणहेतुं ।।
पठति परमभक्त्या यः शृणोति प्रभाते
प्रभुरधिकममुष्मै भोगमोक्षौ ददाति ।। ७९ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
प्रभुकल्याणागमनबसवसंदर्शनतदनुग्रहौन्मुख्यप्रतिपादनगतिर्नामच
तुर्दशोऽध्यायः ।।
पृ० ११३) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ पंचदशोऽध्यायः ।
सूत उवाच-
श्रीसिद्धेश्वरपादसेवनरता लिंगैक्यनिष्ठापरा
बाह्यान्तःकरणप्रचाररहिताश्शेषप्रसादार्थिनः ।।
मौनींन्द्राः प्रभुलिंगमूर्तिमुरलीश्रीशंकरब्रह्मणो-
स्संवादामृतदिव्यशांभवकला लीला प्रभोः श्रूयतां ।। १ ।।
स्थित्वाप्यस्थिरतां गतं स्थिरंहृदं भूत्वा भवं कारणं
गत्वा चाप्यगतं पवित्रचरितं व्याप्यं पुनर्व्यापकं ।।
भक्तानां सुलभं तथाप्यसुलभं तं देशिकेंद्रं प्रभुं
स्तुत्वाऽन्तर्गृहमल्लमं स बसवः प्रावेशयद्भक्तितः ।। २ ।।
भक्तिं भावयतां मनस्सु बसवस्यानादिसिद्धां स्थिरां
भक्तानां प्रगुणैर्गणैः परिवृतः कक्षान्तरं प्राविशन् ।।
तत्रापश्यदसौ प्रसादविलसत्कुंडाख्यवाप्यास्तटे
तिष्ठन्तं मुरलीरवश्रुतिकलासंधायिनं शंकरं ।। ३ ।।
सारे प्रसादकुण्डस्य तीरे परमपावने ।।
पृ० ११४) दूरे दुरितगन्धस्य य आस्ते भवनाशने ।। ४ ।।
तं दिव्यमूर्तिं दलिताखिलार्तिं महाप्रभावं परमैक्यभावं ।।
प्रभुश्चिरं शंकरसिद्धवर्यं मुमोद पश्यन्मुरलीविधिज्ञं ।। ५ ।।
सर्वं जगन्मरुसमं हृदि लाति योऽयं तद्वन्मृषामरुमरीचिवदार्यवर्यः
।।
के चित्ततो मरुलशंकरदेवनामेत्याचक्षते तमथ लोकगुरुर्ददर्श ।। ६ ।।
तं दिव्यपुरुषरत्नं यत्नात्प्रभुरीक्ष्य हर्षभरितोऽभूत् ।।
सोऽपि माहत्मा चाल्लममवलोक्य पदाम्बुजं हृदा दध्यौ ।। ७ ।।
उत्थाय योगपीठाद्भयभक्तिभ्यां समीपमागत्य ।।
दण्डप्रणाममकरोत्प्रभुपदयोर्मरुलशंकरो योगी ।। ८ ।।
स्तुत्वाऽथ सिद्धरामं प्रति शरणार्थ्यहमिति ब्रुवन्विनयात् ।।
शृण्वत्सु निखिलभक्तेष्विदमूचे प्रभुमुदारधीर्मरुलः ।। ९ ।।
अद्य श्रीगुरुमूर्तिमाहतरजःस्फूर्तिं श्रुतिख्यातस-
त्कीर्तिं निर्गतजूर्तिमाश्रितमनःपूर्तिं समस्तार्तिहं ।।
अस्मत्कल्पतरुं जगत्त्रयगुरुं श्रीमत्प्रभुं दृष्टवा-
नाहो निर्गलितापवर्गसरणौ भ्रान्तिर्ममात्यन्तिकी ।। १० ।।
पृ० ११५) श्रीसिद्धरामं प्रति प्रभुकृतमुरलीशंकरमाहात्म्यम् ।
इत्युक्तं प्रभुराकलयय वचनं प्रोचे पुनः शंकरं
त्यक्त्वा ब्रह्मकपालमैंदवकलां वैयाघ्रचर्मांबरं ।।
भोगीन्द्राभरणं मृगं डमरुगं साक्षात्कृतं शंकरं
वेद्मि श्रीमरुलाभिधानपिहितं त्वामेव सच्चिद्धनं ।। ११ ।।
रामं प्राह तदाऽल्लमः शृणु सखे साक्षादयं शंकरो
नैनं वेद महान्तमेष बसवो नित्यं स्वगेहे स्थितं ।।
भक्तिज्ञानविरागपूर्णकलशस्सोऽयं प्रसादाव-
धान्येषः श्रीगुरुरीश्वरो विजयते गूढः क्षितौ पर्यटन् ।। १२ ।।
रूपं शब्दरसौ च गन्धमतुलं स्पर्शं च तैरिंद्रियैः
पंचैताननुभूयमानविषयानिच्छानुभूतिं विना ।।
एष स्वानुभवैकनिश्चलधिया लिंगार्पितान्भावय-
न्पूर्णात्मा कुरुते प्रसादभजनं नित्यावधानो गुरुः ।। १३ ।।
बाह्याचारपरैरगम्यमहिमा क्षीरेषु सर्पिर्यथा
सोऽयं भाति तिलेषु तैलवदहो लोको न जानात्यमुं ।।
यो वा कोऽपि जनो विनैव मथनं भक्ता हि नैतादृशा
पृ० ११६) ज्ञायन्ते परितश्चरंति धरणावुन्मत्तवन्मूकवत् ।। १४ ।।
सन्त्येके बहवः स्वभूषणपरा ये वेषभाषान्विता
लोके स्वोदरपूरणैकनिरताः कापट्यधौर्त्योदिताः ।।
प्रायस्तानधुनाऽर्चयंति न मुनीन् विज्ञानिनो दांभिकाः
पूजाडंबरता हि तामसधियां नान्तर्विशुद्धिर्नृणां ।। १५ ।।
केनेशानमुपास्यतामिह पथा वर्तेत मुक्तिः करे
संपद्येत कथं नु साधकतमा सा सावधानस्थितिः ।।
इत्थं हृद्यविचार्य भक्तिसरणिं सर्वाधिकां प्रेप्सतां
रीतिः सागरशैवलोपरि पदं न्यस्येव पारं गतिः ।। १६ ।।
रजस्तमोवृत्तिसरूपभाजश्चरभ्रुवास्तीर्णभवाः कथं स्युः ।।
कथं गुणान्वाऽथ तनोस्त्यजन्ते न नाममात्राच्छरणः शरण्यः ।। १७
।।
इति ब्रुवन्तं प्रभुदेवदेवं स सिद्धरामो विनयादुवाच ।।
प्रभो समाराधयितुं विदित्वा वयं विमूढाः कथमीश्महे त्वां ।। १८
।।
पशून् भवन्तं कारणं प्रपन्नाननुग्रहीतुं बिरुदस्त्वदीयः ।।
पृ० ११७) मुरलीशंकरविषये प्रभुसिद्धरामयोस्संलापः ।
तमेव गर्भाकृतसर्वमन्तोर्विचार्य नः पालयितुं तवार्थः ।। १९ ।।
भवत्कृपालाभकथैव निष्ठा भवेद्गरिष्ठा नियमव्रतानां ।।
त्वदीयकारुण्यविहीनजन्तोस्समस्तपुण्यानि च नो फलंति ।। २० ।।
स्वयं निजानंदरसैकपूर्णं हृदन्तरस्थाननटन्महेशं ।।
बहिः सदोन्मादिवदेव लक्ष्यं कथं वयं स्मो मरुलं प्रबोद्धुं ।। २१ ।।
मरुलब्रह्ममहत्वं परिशीलयितुं क ईशते मनुजाः ।।
हरिदश्वकिरणसरणिं कथमिव घूका निरीक्षितुं शक्ताः ।। २२ ।।
अथ सिद्धरामवचनं प्रभुराकलयन्पुनः स्मयन्नूचे ।।
रामार्य साधु सूक्तं भवता भवतापहारिणा भजतां ।। २३ ।।
आगत्य सहाऽस्माभिर्लब्ध्वाप्यस्मच्छिवैक्यविज्ञानं ।।
त्यक्त्वाऽस्मद्वाग्रीतिं दृढसमरसभक्तिमेव बध्नासि ।। २४ ।।
दृढभक्तिबंधनिपुणो मामनुकूलयसि युक्तियुक्तपदैः ।।
समता समाधिसरणिस्फुरणं तव जातमेतदेव वरं ।। २५ ।।
ग्राह्यं हि युक्तियुक्तं वचनं बालेन भाषितं वाऽपि ।।
पृ० ११८) त्वमधीतसकलतंत्रो मम हि स्पृहणीयवाक्यसारोऽसि ।। २६ ।।
रामः प्रभोरुदारामर्थगभीरां गिरं समाकर्ण्य ।।
तच्चरणनिहितनिटिलो भयविनयाभ्यां व्यजिज्ञपद्देवं ।। २७ ।।
प्रभुसार्वभौम मामिह गौरवसारेण पातयन्नित्यं ।।
किमिति प्रभूषयस्यलमाश्रितमेनं कृपानिधे पाहि ।। २८ ।।
महिमाऽस्य मरु?शंकरयतिराजन्यस्य देवमान्यस्य ।।
श्रवणामृतायमानो भवता गुरुनाथ वर्ण्यतां तावत् ।। २९ ।।
इति विनयावनतं तं पतिरिदमूचे जगद्धितं वचनं ।।
शृणु सावधानहृदयो मरु?आर्यस्यास्य दिव्यमहिमानं ।। ३० ।।
जानामीति ज्ञानमुत्सार्य बाह्यं ज्ञानान्तस्थं ज्ञानमेनं निबोध ।।
प्रत्यग्दृष्टिः प्रत्ययौघे विलीने यस्य स्थैर्यं यात्यहो नित्यलिंगे ।। ३१
।।
ऐक्यं यो यातीष्टलिंगेन साकं दृष्ट्या स्थैर्ये ज्ञानमयया य ईष्टे
।।
जन्मस्थानं शांतिदांत्योस्तमेनं विद्धि भ्रान्त्युच्चाटने धीरचित्तं ।।
३२ ।।
क्रीडोद्यानं शैवधर्मोत्कराणां स्वांगैः श्रीलिंगप्रसादावधानी
।।
हिंसाभीत्या कुक्षिपूर्त्युद्यमांस्तांत्सर्वांस्त्यक्त्वा मौनमुद्रां
दधाति ।। ३३ ।।
पृ० ११९) मरु?शंकरविषये प्रभवे बसवेशवचनम् ।
गत्वा नित्यं जंगमाराधकानां लिंगश्रीगुर्वर्चकानां गृहाणि ।।
भुक्त्वा तेषामेष शेषप्रसादं धत्ते देहं तुल्यधीर्लोष्टहेम्नोः ।। ३४
।।
हैन्यं दैन्यं क्वापि वा नास्त्यमुष्मिन् कामक्रोधौ स्थातुमारादशक्तौ ।।
धत्ते सोऽयं प्रातिशौक्र्यं मदास्थाव्यामोहानां लोभमात्सर्ययोश्च ।। ३५
।।
कौत्सित्योद्यद्वृत्तिसन्तानपालेर्मूर्धांगोद्यत्प्रोच्यपाषाणपातः ।।
सिद्धोऽयं सर्वांगलिंगप्रसादी नैनं किंचिद्वेंद्रियार्थाः स्पृशन्ति
।। ३६ ।।
इत्थं प्रभौ सपदि वक्तरि सिद्धरामं श्रुत्वा सुविस्मितमना
बसवाधिनाथः ।।
निध्याय तं मरु?शंकरमल्लमेंद्रं प्रत्याह तत्र
भगवान्परमार्थदृष्टिः ।। ३७ ।।
यद्वद्विवस्वदुदये कमनीयरत्नच्छाया दृशोऽपि सविशेषतया प्रसर्पेत् ।।
तद्वद्भवच्चरणदर्शनलब्धपुण्याद्देदीप्यमानतनुमेनमपश्यमार्यं ।।
३८ ।।
पश्यामि शंकरमुनिं त्रिविधप्रसाददीक्षाधुरंधरममुं
करुणापयोधिं ।।
पृ० १२०) यद्येव देव भवदीयकटाक्षदृष्ट्या सोऽहं कृतार्थतम एव
महानभूवं ।। ३९ ।।
इत्युक्तवन्तमथ तं बसवं जगाद देवोऽल्लमः श्रुणु सखे बसवार्य
विद्वन् ।।
भक्तो भवादृगिह कुत्र च नास्ति लोके मत्तोऽधिकस्त्वमसि भाग्यनिधे
महात्मन् ।। ४० ।।
चित्तं परीक्षितुमियत्समयं मया त्वं नानाप्रकारवचनैरवमानितोऽसि ।।
आहो तथाऽपि न चलत्यणु वा त्वदीयं चेतो मरुत्प्रसरणैर्मणिदीपिकेव ।।
४१ ।।
उच्छ्रुंखलानि वचनानि मयैव तावत्त्वामीरितानि न भवान् प्रतिवक्ति किं
चित् ।।
दान्तिक्षमाधृतिदयाशमसौमनस्यविज्ञानभक्तिभयकल्पतरुस्त्वमेव ।। ४२
।।
इत्थं वदन्तमवदद्बसवोऽल्लमेंद्रं श्रीमत्प्रभो न भवतः
स्तुतिपात्रमेषः ।।
अत्युन्नतोपरि निवेशनमल्पजन्तोर्जायेत केवलमधः पतनाय नूनं ।। ४३ ।।
त्वं यंत्रधार इह लोकगुरोऽहमेकं यंत्रं भवत्करधृतेषु
बहुष्वधीश ।।
यंत्रक्रिया हि सकला भुवि यंत्रिनिघ्ना स्तोत्रं तवार्हति जडो न
चिदात्मनोऽयं ।। ४४ ।।
पृ० १२१) प्रभवे सिद्धरामोक्तबसवेशवर्णनम् ।
तं प्रत्युवाच सगुरुर्बसवार्य नूनं च्छायाश्रयो हि तव
भक्तितरोरमीषां ।।
दीक्षावतां यदविमुक्तगयाप्रयागकेदारपुष्करघनं भवनं तवेदं
।। ४५ ।।
वाक्यं प्रभोस्तदवधार्य स सिद्धरामः प्राहाल्लमं जगदधीश्वर
सत्यमेतत् ।।
उक्तं त्वयैष बसवो गुणरत्नराशिर्नैतस्य कोऽपि सदृशोऽस्ति जगत्त्रयेऽपि
।। ४६ ।।
स्वामिंस्तवाद्य कृपया पुनरेष धन्यः सामोदहेमसदृशः प्रतिभाति
मान्यः ।।
लीलावतारफलमस्य सुसिद्धमासीत्काले भवंति खलु भाग्यवतां
शुभानि ।। ४७ ।।
श्रीमन्महेश्वरपदांबुजभक्तिभाजामाद्यो यदेष बसवः
प्रमथव्रजानां ।।
तत्स्मो वयं च कृतिनः स्मितपुष्पमालासंदर्भतः शिरसि धार्यत एव
मुस्ता ।। ४८ ।।
अद्यप्रभृत्यखिललोकपवित्रचर्या धुर्या भवेत्प्रमथसंततिरस्मदीया ।।
यच्छंभुभक्तिपरिपूर्णमहासमुद्रो भद्रो विभाति बसवो भवतः
कटाक्षात् ।। ४९ ।।
इत्थं स्तुवत्यनुपमात्मनि सिद्धरामे प्राह प्रभुः श्रुणु सखे
बसवेश्वरस्य ।।
पृ० १२२) स्तोतुं गुणानसमदृऽऽन्न समर्थभावं प्राप्नोति के वयममी
जगदेकदेशाः ।। ५० ।।
तावत्सखे मरुलशंकरयोगिमौलेर्लिंगैक्यनैष्ठिकधृतिं कथयामि
किंचित् ।।
आकर्णयावहितमानसपद्मसद्मा यच्छृण्वतां हृदि पदं निदधाति
शंभुः ।। ५१ ।।
आमद्यैंद्रियजालमाशु विषयानाच्छिद्य सद्यः परं
जित्वान्तःकरणं क्षणेन सकलां चिन्ताशतानां ततिं ।।
उन्मूल्योर्ध्वचिदभ्रलिंगममलं धृत्वान्तरंगे पुन-
श्च्छित्वा भ्रान्तिपरंपरां विजयते श्रीमानयं शंकरः ।। ५२ ।।
यो निद्रामपसार्य कुण्डलमयीं देवीं परां चित्कला-
मुत्थाप्यानृजुतां विहाप्य विलसच्चिद्बिंदुना स्वोन्मुखीं ।।
कृत्वा ग्रंथिविभेदनेन कमलान्युत्क्रम्य घण्टारवं
शृण्वन्योजयते चिदभ्रकमले श्रीलिंगमूर्त्यैव तां ।। ५३ ।।
एकीकृत्य दुरत्ययांस्तनुमनःप्राणानतीतांहसो
लिंगे संगरसः पुमानविकलं स्वात्म्यैक्यमुद्भावयन् ।।
पंचब्रह्मकलामयं प्रणवमप्यान्तं विलीनं स्मरन्
पृ० १२३) श्रीबसवादिप्रमथकृतप्रभुस्तवनम् ।
शान्तान्ते चिरमुन्मनीसुखमयं प्राप्तो गुहेशप्रियः ।। ५४ ।।
इत्थं श्रीमरुलाख्यशंकरयतेर्लिंगैक्यनिष्ठां परां
शृण्वन्तो बसवादिभक्तनिवहास्संजातकौतूहलाः ।।
आश्चर्येण पुनःपुनः प्रभुवचश्चित्तेऽनुसन्धाय तं
प्रोचुः प्रांजलयो विनम्रशिरसो गीर्भिस्तुवन्तो गुरुं ।। ५५ ।।
भो श्रीमत्प्रभुसार्वभौम भवतो लीलां जगत्पावनीं के वा वर्णयितुं
क्षमास्त्वमधुना सर्वेश्वरोऽप्यादरात् ।।
कांश्चिल्लालनया वचोभिरमृतैराप्लाव्य कांश्चित्तथा
कांश्चिद्भावनया बलेन कतिचिद्गृह्णासि कांश्चाशिषा ।। ५६ ।।
अस्मान्भक्तजनाननुग्रहदृशा संभाव्य निर्धूय तां
मायां संप्रति सावधानहृदयान् कर्तुं चिदात्मा भवान् ।।
लीलाविग्रहमावहन्विजयते को वा परिच्छेत्तुम-
त्रेष्टे तावकशक्तिमद्भुतकथामिच्छां स्वतंत्रां विभो ।। ५७ ।।
एवं स्तुवत्यखिलभक्तगणे तदीयसौगुण्यवर्णनमिषेण महाप्रभुस्तं ।।
प्राग्जन्मकोटिजनिताखिलपुण्यलभ्यलिंगांगसंगविदुषं मरुलं चकार
।। ५८ ।।
भाग्येन सत्प्रभुकृपामवलंब्य निष्ठो लिंगांगसंगपदतत्वमवाप्य
चित्ते ।।
नैर्मल्यमाप निगमान्तपदार्थबोधाच्छ्रीमानसौ
मरुलशंकरमौनिचंद्रः ।। ५९ ।।
पृ० १२४) इति मरुलयतीन्द्रानुग्रहोद्योगरम्यं प्रभुचरितमिदानीं
श्रावितं यन्मयैतत् ।।
पठति लिखति चित्ते भावयत्याश्रुणोति प्रभुरखिलममुष्मै
वांच्छितार्थं ददाति ।। ६० ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
मरुलशंकरमहिमानुवर्णनगतिर्नाम पंचदशोऽध्यायः ।।
पृ० १२५) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ षोडशोऽध्यायः
सूत उवाच-
श्रीमद्वीरेशसिद्धान्वयगुरुचरणाम्भोजसेवाधुरीणाः
स्वेष्टप्राणैक्यभावान्वितहृदयगुहापूर्णभक्तिप्रवीणाः ।।
कर्मभ्रान्तिं विसृज्य स्फुटतरविमलज्ञाननिष्ठा गरिष्ठा
भक्ताः श्रुण्वन्तु लीलां प्रभुगुरुमहिमानंदसंधानशीलां ।। १ ।।
इत्थं स्तुवन्मरुलशंकरदेवचर्यामार्यः प्रभुस्सकलभक्तमनांसि कुर्वन्
।।
संविस्मितानि बसवेंद्रगृहं प्रविश्य स स्पर्शवेधिमयवेदिमथारुरोह ।।
२ ।।
भक्त्या सहैव बसवस्य विनूत्नरत्नसिंहासने समुपविश्य तदीयपूजां ।।
पाद्यार्घ्यमाल्यमधुपर्कमुहुःप्रणामस्तोत्रोपचारसहितां जगृहे
कृपावान् ।। ३ ।।
तं भक्तिनम्रशिरसा मनसा प्रसन्नं देवं प्रणम्य
बसवेश्वरदण्डनाथः ।।
सन्तुष्टुवे सकलशिष्टजनान्तरंगसन्तुष्टिहेतुमधुरार्थपदैर्वचोभिः
।। ४ ।।
त्वां नित्यनिर्मलनिरंजननिर्विकल्पनिर्वाणनिर्गुणपदैरुदितं स्वभावात्
।।
पृ० १२६) भक्तावनाय सगुणाश्रयमाश्रयामि सर्वार्तिहं
भुवनपावनदिव्यमूर्तिं ।। ५ ।।
स्वामी गुरुः प्रभुरभीष्टकरः शरण्यः प्राणेश्वरः प्रमथराट्
परमार्थदाता ।।
त्राता सखाप्तवचनः सविता सवित्री बंधुस्त्वमेव सकलं मम देवदेव
।। ६ ।।
स्तोतुं कियानहमहो भगवन्तमाद्यं वेदैरवेद्यविभवं मनसाऽप्यगम्यं
।।
स्वेच्छाविलासपरिकल्पितनामरूपचित्रप्रपंचकलनं शिवमद्वितीयं ।। ७
।।
इत्थं स्तुवन्प्रभुकटाक्षनिरीक्षणेन मत्वा कृतार्थतममेष
महानुभावः ।।
स्वात्मानमाह परमार्थपदाप्तशंकाप्रोन्मूलनाय गुरुमाहितभक्तियुक्तिः
।। ८ ।।
जात्यंधहस्तविलसन्मुकुरेण मूकस्वप्नानुभूतकुशलेन च साम्यमेति ।।
युक्तिप्रबोधरहिते मयि वर्तमाना भक्तिः शिवेऽपि भगवन्ननुशाधि मां
त्वं ।। ९ ।।
श्रीमद्गुरुप्रभुवरेण्य कटाक्षदृष्ट्या वृष्ट्येव मामनुगृहाण
परामृतस्य ।।
पृ० १२७) विज्ञापयते श्रीबसवाय प्रभोरादरोक्तिः ।।
सेयं क्रियेयमिह भक्तिरयं प्रबोध इत्यादरादुपदिश त्रितयं विविच्य ।।
१० ।।
विज्ञापयंतमथ तं बसवं प्रपन्नं स्वामी प्रसन्नहृदयोऽल्लम
इत्युवाच ।।
वेदागमस्मृतिपुराणकलारहस्यः प्रश्नः कृतो हि भवता
प्रमथाग्रगण्य ।। ११ ।।
चिन्मूर्तिरप्यहह कारणपूरुषस्त्वं दिव्यां तनुं
निजविलासवशाद्बिभर्षि ।।
मां प्रष्टुकाम इव लोकहितार्थमासीस्त्वययेव नित्यसुखबोधतनौ समस्तं
।। १२ ।।
अज्ञातांशोऽस्ति किं ते त्रिभुवनभवने वाऽऽन्मये वा प्रपंचे
विद्यास्थाने समस्ते त्रिपुटितकलया रोरवीषि त्वमेव ।।
धर्मः श्रुत्यैव साक्षाद्वृषभ इति परं स्तूयसे सर्वसाक्षिन्
पृच्छामच्छामकार्षीस्त्वमिह शुभमते मां बहूकर्तुमेतां ।। १३ ।।
अप्यग्नेः क्षुन्निवृत्यै किमिह मम सखे पाकयत्नेन भाव्यं
किं वा द्रष्टुं विभाव्यं दिनमणिमधिकस्फूर्तिमद्दीपदीप्त्या ।।
दिव्यज्ञानैकराशेर्बसवबुधमणेर्भक्तिमर्मातिरिक्त-
न्यूनत्वे शोधनीये किमिह ननु मया शक्यते वा कथं तत् ।। १४ ।।
पृ० १२८) इत्युक्तो बसवस्तमाह स गुरुं स्वामिन्बहूकृत्य मा-
मित्थं किं त्यजसि त्वया परिहृतो यास्यामि वा क्व न्वहं ।।
दासोऽहं तव दासदासपदयुग्दासानुदासात्मनां
कारुण्याम्बुनिधे त्वमेव भगवन्मां पाहि पाहि प्रभो ।। १५ ।।
आर्द्रायां भुवि बीजावापसमये बीजानि तत्रोचिता-
न्युप्त्वा प्रावरणं विधाय परितः संरक्ष्य पश्वौघतः ।।
सस्यांकूरचयं समृद्धमचिरादुत्खाय संपश्यतः
किंचिद्वास्ति कृषीवलस्य फलितं किं मंदबुद्धेः प्रभो ।। १६ ।।
तस्मादस्मदबोधगाढतिमिरं दूरेऽवसार्य प्रभो
विज्ञानांकुरमुत्थितं करुणया देवस्य संरक्षितुं ।।
स त्वं तत्वपदालवालवलये बोधोपदेशामृतं
संसिंचन्ननुभूतिसत्फलभुजं कृत्वानुगृह्णीष्व मां ।। १७ ।।
इति विज्ञापयन्तं तं बसवं प्रभुरात्मना ।।
अनुगृह्य कृपादृष्ट्या वक्तुं समुपचक्रमे ।। १८ ।।
यथामृतात्परं नास्ति भोग्यवस्तु महत्तरं ।।
तथा सहजलिंगैक्यादन्यो मोक्षपथो न हि ।। १९ ।।
भवाम्बुधौ निमग्नानां शोकमोहहतात्मनां ।।
अपारजन्ममृत्यूनां जन्तूनां गणनैव का ।। २० ।।
पृ० १२९) श्रीबसवराजाय प्रभुकृततत्वोपदेशः ।
चतुःसंख्याधिकाशीतिलक्षभिन्नशरीरिणां ।।
सर्वेषां पुण्यपापे द्वे मर्त्यानामेव केवलं ।। २१ ।।
लब्ध्वा मनुष्यतां यावन्नांगवैकल्यमाश्रयेत् ।।
दुर्वासनाः परित्यज्य शिष्टवर्त्म विवेकतः ।। २२ ।।
प्रबोध्य झडिति स्वप्नादज्ञानाख्यादहो बत ।।
वृथा जन्मेदृशं जातं विरज्येत ममेत्ययं ।। २३ ।।
साधये साधुसंगेन संवित्पदमिति स्थिरां ।।
धृतिं यः साधयेन्नित्यं स भवेत्साधकोत्तमः ।। २४ ।।
संपद्दशायां संपाद्यौ त्यागभोगौ विवेकिना ।।
मरुत्प्रसारसमये विवेच्या धान्यतस्तुषाः ।। २५ ।।
तद्वत्करांघ्रिमुख्यांगदार्ढ्यकाले मनीषिणा ।।
यत्नः कालजयोपाये कर्तव्यो गतिमिच्छता ।। २६ ।।
निगमागमशास्त्रार्थं तस्माद्विज्ञाय तत्पथं ।।
अचालयित्वाऽनुष्ठाय भूयाद्गुरुकृपास्पदं ।। २७ ।।
स्वकीयतां तनुमनोधनेषु प्रथमं त्यजेत् ।।
च्छिंद्यान्मदं यथा भूयो न प्ररोहेत्कथंचन ।। २८ ।।
संप्राप्तः सदसद्विवेककलनां दृष्टेष्टलिंगं पुर-
श्चेतोलिंगतया दृशा परमया पश्येत्प्रतीच्या यतः ।।
पृ० १३०) तद्विज्ञाय गुरुप्रसादघटितश्रीमुद्रया मर्मभृ-
द्बाह्यान्तर्द्युतिरैक्यमेव कलयेत्प्राणेष्टयोः पूर्णदृक् ।। २९ ।।
लिंगं हस्ततले यदैव घटितं तस्मिन्क्षणे तत्तनुं
लिंगेऽस्मिन्विदधीत नैव मृगयेद्वस्त्रं बहिच्छादने ।।
चित्पुष्पार्चनमेव तस्य कलयेन्नो बाह्यपुष्पार्चनं
यो वा वस्त्रयते तनुत्रयमिदं लिंगस्य स स्याद्गुरुः ।। ३० ।।
श्रुणु बसवार्य लिंगवसनत्वमुपैति तनु-
त्रितयमिदं यदि स्फुरितलिंगनिमग्नमनाः ।।
स भवति विस्मृतात्मतनुरात्मरतिः सततं
परसुखपारवश्यपरमार्थपदात्तगतिः ।। ३१ ।।
सहजसमाधिसौख्यमनुभूय निरस्तजग-
द्व्यवहृतिरैक्यभावपरिभूतपरात्मभिदः ।।
यदि न समर्थतां स्थिरयितुं हृदयं लभते
बसव समाचरेत्स शिवलिंगसदापचितिं ।। ३२ ।।
सविशेषलिंगपूजामवधारय भावनात्मिकां दिव्यां ।।
अवधानेन हृदब्जे भवपाशच्छेदनार्थिभिर्वेद्यां ।। ३३ ।।
पृ० १३१) सकलचराचरविततेः क्वचिदपि हिंसा यथा न संभवति ।।
कृपया तथैव वर्तनमभयदमभवस्य मज्जनं भवति ।। ३४ ।।
एतेऽन्येऽमी स्वीया इति भेदभ्रान्तिवर्जनाच्चित्ते ।।
वहनं हि परमशान्तेर्महतो देवस्य चंदनालेपः ।। ३५ ।।
कर्मफलसंगवर्जनमर्म ज्ञात्वा सुनिर्मले शैवे ।।
कर्मण्यशुक्लकृष्णे निर्ममतावृत्तिरक्षताश्शम्भोः ।। ३६ ।।
अश्रान्तवृत्तिसंततिमालिन्यविशोधनेन चित्तस्य ।।
नैर्मल्यादवधानं समुचितपुष्पोपहार ईशस्य ।। ३७ ।।
देहत्रयदुष्टगुणान् ज्ञानाग्नौ प्रक्षिपन्परामृश्य ।।
दग्ध्वा तद्गतधूपैः सद्वासनयैव धूपयेल्लिंगं ।। ३८ ।।
तापत्रयवर्तियुतं तनुपात्रे तामसाख्यतैलाक्तं ।।
दीपं महेश्वराय ह्रीश्रीपतये समर्पयेद्विबुधः ।। ३९ ।।
स्वात्मानं सुखदुःखवर्जितमुमाधीशस्य नैवेद्यमि-
त्यार्याः साधु वदन्ति के चिदथ वा मत्या स्थिरीभूतया ।।
भक्त्या कल्पितरत्नपात्रनिहितस्वाद्वन्नपानादिभि-
र्देवस्यानुपमैः पदार्थरचनैर्नित्योपहारं जगुः ।। ४० ।।
पृ० १३२) आनन्दबाष्पैः परिकल्प्य शम्भोर्हस्तोदकं सत्वरजस्तमांसि ।।
अस्पृश्य वृत्तिस्त्रिगुणान्सदैव ताम्बूलमित्याहुरधीश्वरस्य ।। ४१ ।।
इत्थं मुख्यार्पणं नित्यं कुर्वतां शिवयोगिनां ।।
प्राणलिंगांगसंबंधानुभवः सुलभो भवेत् ।। ४२ ।।
श्रुण्वैतद्बसवार्य निश्चलधिया यत्प्राणलिंगं सदा धार्यं
तद्वसनायितत्रितनुभिः प्रावेष्ट्य धृत्वा दृढं ।।
संवित्सूत्रनिबद्धमेतदनिशं निर्वाणसिद्धस्थले धृत्वा
भक्तिविरक्तिपूर्णहृदयो जागर्ति धन्यो जनः ।। ४३ ।।
तनुत्रयं तच्छिवसूत्रबंधाद्यथा न विश्लेषमुपैति नित्यं ।।
तथेष्टलिंगं स्थिरयत्यजस्रं स एव शिष्टः शिवयोगिवर्यः ।। ४४ ।।
संवेष्ट्येष्टप्राणभावाख्यलिंगान्यंगेषु त्रिष्वंशुकीभावितेषु ।।
स्थूले सूक्ष्मे कारणे च क्रमेण ह्येकैकस्मिन्भावयेद्ग्रंथियुग्मं ।। ४५ ।।
इत्थं षड्भिर्ग्रंथिभिः सांद्रबंधं नो चांचल्यं याति
लिंगत्रयं च ।।
बाह्ये स्थूले ग्रंथियुग्मं दृढं चेच्चत्वार्यन्तःस्थानि तानि स्थिराणि
।। ४६ ।।
वस्त्राण्यंगान्यंग तद्ग्रंथयोऽपि प्रोक्तान्यार्यैः षट्
स्थलान्यात्मविद्भिः ।।
पृ० १३३) ग्रंथौ ग्रंथौ भावशुध्या स्थिरात्मा पूर्वं जित्वा तत्परं
याति धन्यः ।। ४७ ।।
भक्तमाहेश्वरौ तद्वत्प्रसादिप्राणलिंगिनौ ।।
शरणैक्यगतौ चेति स्थलषट्कं जगुर्बुधाः ।। ४८ ।।
स्थूलांगग्रथितेष्टलिंगकलितौ तौ भक्तमाहेश्वरौ
सूक्ष्मप्राणगतं प्रसादिसहितं तत्प्राणलिंगिस्थलं ।।
संप्राप्तं शरणैक्यसुस्थलयुगं भावाह्वयं कारणे
तद्द्वंद्वं बसवार्य यः स्थिरतया प्राप्तः स भक्ताग्रणीः ।। ४९ ।।
बसव तनुत्रयांशुकदृढग्रथितस्थलषट्कबंधुर-
स्थिरतरलिंगसूत्रपरिशीलितचित्कलयाऽवधानतः ।।
सततसमाहितोऽर्चयति यः शिवमद्वयमात्मसात्कृतं
स हि शिवयोगिराट् सकललोकगुरुः परिपूर्णभावनः ।। ५० ।।
मोक्षार्थितामुपगतः शिवलिंगमेव प्राणो ममेति यदि
शास्त्ररहस्यवित्स्यात् ।।
मांगल्यसूत्रघटितां शिवलिंगमूर्तिं नांगे कदापि विरहेत्बसवार्य
सोऽयं ।। ५१ ।।
पूजाक्रियासु बसवार्य निजेष्टलिंगे रूपं पदार्थनिचयस्य समर्प्य
पश्चात् ।।
तत्प्राणलिंगभरितां रुचिमस्य कृत्वा तृप्त्यर्पणं च कलयेदथ
भावलिंगे ।। ५२ ।।
यो नित्यमंग गुरुलिंगचरप्रसादपादोदकैः परमपावनतां प्रयाति ।।
पृ० १३४) सोऽयं विशुद्धशिवभक्तिरसाधिकारी ब्रह्माच्युताद्यसुलभं
लभते शिवैक्यं ।। ५३ ।।
इष्टलिंगाय हृदयं स्वेष्टश्रीगुरवे तनुं ।।
इष्टाय जंगमायार्थमर्पयेद्भक्तिमांश्छिवे ।। ५४ ।।
दृढयित्वा स्थिरां वृत्तिं श्रद्धया जंगमार्चकः ।।
निरुद्धचित्तवृत्तिर्यस्स ज्ञानी शुद्धभक्तिमान् ।। ५५ ।।
समस्तसत्क्रियास्वेष्टलिंगे धीरः समर्पयन् ।।
मायां विलासान्ममताहंतादीन्परिमार्जयेत् ।। ५६ ।।
यद्येवं प्राणलिंगस्य ध्यानधारणयोः क्षमः ।।
नो चेदनीशस्तद्धर्तुं विद्वानपि हृदंबुजे ।। ५७ ।।
आराधयेद्बहिस्तस्मादिष्टलिंगं सदा बुधः ।।
सर्वसिद्धिकरं यस्मात्प्राणलिंगं स्थिरं भवेत् ।। ५८ ।।
मोक्षार्थी बसव स्वेष्टलिंगाराधनमुत्सृजन् ।।
प्राणलिंगं यदि ध्यायेदामकुंभजलं हि तत् ।। ५९ ।।
केवलप्राणलिंगार्चा न निश्चलति मानसे ।।
वाऽऽन्मात्रेण वृथा ध्यायी नश्येद्बसव तद्ध्रुवं ।। ६० ।।
अतः प्राणलिंगं दृढीकृत्य सत्यप्रबोधप्रमोदप्रपूर्णांबुराशौ ।।
स्वयं क्रीडितुं यस्सदेच्छत्यसौ तत्समाराधयेज्ञ्ज्ञानवानिष्टलिंगं
।। ६१ ।।
पृ० १३५) इदं साधनं मुख्यमेकं प्रशस्तं सदा
ज्ञानिनामप्यभीष्टार्थदायी ।।
परं मंगलं मंगलानां यदेतत्करे स्वेष्टलिंगार्चनं शुद्धभक्त्या
।। ६२ ।।
ततः सावधानेन तत्प्राणलिंगे समीकृत्य कृत्यानि विस्मृत्य मत्या ।।
महायोगसाम्राज्यपट्टाभिषिक्तो भजेदात्मनो लिंगतादात्म्यसिद्धिं ।। ६३
।।
अविज्ञाय यो लिंगतादात्म्यमेवं बहिः पूजनैर्भिन्नभावं त्यजेन्न ।।
स केन प्रकारेण वाराध्य देवं न सद्भक्तिसन्मार्गसौख्यं लभेत ।। ६४
।।
स चानादिसंसारमोहांबुराशिं न तर्तुं क्षमेत क्रियामात्रतृप्तः ।।
अतः सामरस्यानुभूत्यै रहस्यं विजानीत सद्भक्तगोष्ठिप्रसंगात् ।। ६५
।।
कुर्याद्गुरूपसदनं शिवभक्तितत्वं विज्ञातुमेव शिवभक्तगणान्भजेत
।।
भुंजीत भक्तिभरितः शिवभक्तशेषं तद्दास्यमेव कलयेद्बसवार्य
नित्यं ।। ६६ ।।
यस्यैव भक्तचरणोदकतत्प्रसादतद्वंदनार्चनतदीयपथप्रचारान् ।।
नित्यं न संश्रयति संसृतिपाशबंधान्मुक्तिं न याति बसवार्य स
दंभभक्तः ।। ६७ ।।
पृ० १३६) विश्वासमुत्सृजति जंगमपादतीर्थशेषप्रसादभजने यदि
वर्जनीयान् ।।
कांश्चिद्विवर्ज्य न हि वर्जयतीह कांश्चिद्दंभक्रियः स न शिवे
दृढभक्तिमेति ।। ६८ ।।
सत्यं च शौचमथ शान्तिदमावहिंसां नित्यव्रतस्थिरधिया न
दृढीकरोति ।।
यो न त्यजेत मदमत्सरलोभमोहक्रोधादिकं स बसवार्य न शीलवान् स्यात्
।। ६९ ।।
नोत्सृज्य जन्ममरणाध्वगतिप्रसक्तकर्माटवीपटलपर्यटनं न जित्वा ।।
मायां च निर्मलचिदंकुरितांगलिंगसंबंधतत्वरहितो बसवार्य
बाह्यः ।। ७० ।।
कुक्षिंभरेर्बसव शीलवतां च मध्ये तद्वेषधारणचणस्य मदाविलस्य
।।
वाग्ब्रह्मवादचतुरस्य दुराग्रहस्य भक्तिः शिवे दृढतरं घटिता
कथं स्यात् ? ।। ७१ ।।
यस्येष्टलिंगभजनारतिरस्ति नित्यं रीत्या कयाऽस्य सुमतेरथ
भावशुद्धौ ।।
चित्प्राणलिंगचरणस्फुरणं स्वतः स्याद्यत्पूर्वभूमिविजयेन जिता परा
स्यात् ।। ७२ ।।
पृ० १३७) तदिष्टलिंगार्चनमंजनं स्यादन्तर्महालिंगनिधेः प्रकाशे ।।
इति ब्रुवन्तं बसवः प्रभुं तं विलोक्य पप्रच्छ विनीतभावः ।। ७३ ।।
श्रीमद्गुरोऽनेकविधप्रचारस्त्वया य आचार्यविधिर्ममोक्तः ।।
असौ न पर्याप्ततमः क्वचिद्वा कृतः प्रबोद्धः परमार्थतः किं ।। ७४ ।।
सदा क्रियासक्तमतेः कदा स्यात् प्रबोधचिंता भुवि साधनेन ।।
सदा खुरल्यां रटतः कदा वा भवेत्स वीरप्रथनप्रसंगः ।। ७५ ।।
निशम्य वाचं बसवस्य देवः प्रसाददृष्ट्या प्रभुरेवमूचे ।।
यैः कैश्चिदुक्ता बहुभिः क्रियास्ताः श्रुताश्च नाभ्यासमृते फलन्ति ।।
७६ ।।
क्रियाफलं भक्तिरियं विशुद्धा ज्ञानं भवेच्छांभवमद्वितीयं ।।
ज्ञात्वाप्यनुष्ठानविवर्जितश्चेन्न साधवस्तं बहुमानयन्ति ।। ७७ ।।
आलस्यमुत्सृज्य सदार्चयेत्तं महेश्वरं सत्क्रिययैव भक्तः ।।
निर्विघ्नमीशप्रणिधानमेव प्रोन्मूलयिष्यत्यरिवर्गमन्तः ।। ७८ ।।
आशां तनौ शान्तमतिर्विहाय धृतिं समास्थाय सदेष्टलिंगे ।।
निष्ठां दृढीकर्तुमशक्नुवानो यदि त्यजेत्तं विरसेन भक्तिः ।। ७९ ।।
पृ० १३८) भक्तिं स्थिरीकर्तुमना यदि स्यात्कुर्वीत सर्वा अपि सत्क्रियास्ताः
।।
धनानि सर्वाणि समर्प्य देवे तद्भक्तिवृन्देऽनुचरेत्स भक्तः ।। ८० ।।
कामेन लोभस्तत एव जातः क्रोधस्ततस्तान्परिवृत्य धीरः ।।
सर्वार्पणं सत्क्रिययैव कृत्वा वैराग्यभाग्येन भजेत भक्तिं ।। ८१ ।।
श्रुत्वैतदूचे बसवोऽल्लमेंद्रं स्वामिंस्तथा चेदवधारणीयं ।।
मद्वर्तनं वाक्यगतापराधं सर्वं क्षमित्वा जगदेकबन्धो ।। ८२ ।।
सुवर्णसंघे कणसंमितं वा सुवस्त्रवृन्दे गुणसंमितं वा ।।
सुधान्यराशावणुसंमितं वा न वंचितं स्यान्मम सद्गणेषु ।। ८३ ।।
यदि गुरुषु मदीयो वंचितश्चेद्धनांशश्चरणकमलयोस्ते दूरतामेष
यातु ।।
इति बसवमुखोत्थं धीरमाकर्ण्य वाक्यं सशपथमिदमूचे तं
पुनस्सोऽल्लमेन्द्रः ।। ८४ ।।
रजतगिरिसुमेरूभूतयोऽष्टौ सुरद्रुस्सुरभिरमररत्नं दुग्धसिन्धुश्च
सर्वं ।।
शिवशिवगणनिघ्नं वस्तुजातं त्वदुक्तं बसव न खलु युक्तं दीयते
यन्मयेति ।। ८५ ।।
पुनरपि बसवस्तं सद्गुरुं प्राह युक्तं गुरुवर भवदुक्तं वस्तुतोऽहं
तथापि ।।
पृ० १३९) श्रीबसवराजाल्लमार्ययोरुक्तिप्रत्युक्तिपरिपाटी ।
व्यवहृतिमवलंब्य स्वामिनोऽग्रे वदामि स्वमतिनिहितमर्थं सर्वथा
निश्चयेन ।। ८६ ।।
केनापि रूपेण समेत्य देवो गणोऽथ वा याचितुमुत्सहेत ।।
किं वा ददाम्येव तनुं मनोऽर्थं नो चेदहं स्यान्न भवत्कृपार्हः ।। ८७
।।
श्रुत्वाह भूयः स्मयमानवक्त्रः प्रभुः किमेतद्बसव ब्रवीषि ।।
भ्रमादुताहंक्रिययाऽपनीत्या तनुं मनोऽर्थं प्रददामि चेति ।। ८८ ।।
कुतस्तवैते तनुमानसार्थाः महेश्वरावास्यमिदं हि सर्वं ।।
अहो विवेकं परिहृत्य भक्तेर्विरुद्धमेतद्बसव ब्रवीषि ।। ८९ ।।
तस्मादहंकारगुणं विसृज्य निर्मायिको निर्मलभक्तिमार्गं ।।
यदि स्थिरीकर्तुमनास्तदादौ विधेहि लक्ष्यं बहिरिष्टलिंगं ।। ९० ।।
सदाभिमुख्येन निजेष्टलिंगे निधाय दृष्टिं बहिरंतरस्थं ।।
भजैकधैवाष्टविधार्चनेन प्रवेष्टसिद्ध्यष्टकमाशु भूयात् ।। ९१ ।।
निशम्य वाचं बसवोऽब्रवीत्तं प्रभो त्वयोदीरितमिष्टलिंगं ।।
समर्च्य सद्भक्तिमवाप्नुहीति प्रागत्र तस्याष्टविधत्वमुक्तं ।। ९२ ।।
न कर्मजाड्येऽभिरतिर्ममास्ति न शुष्कतर्कोऽस्ति परंपरायां ।।
अतः प्रभो भक्तिरहस्यमेव प्रसीद तत्साधनमर्चनं मे ।। ९३ ।।
पृ० १४०) यदिष्टलिंगार्चनयैव देव प्रपद्यते भक्तिरहस्यमन्तः ।।
ततः शिवज्ञानितया कथं स्याच्छिवः स्वयं वानुगृहाण तन्मे ।। ९४ ।।
प्रभुस्तमूचे बसवार्य वक्तुं न शक्यते कौसुमसौरभं तत् ।।
द्विरेफवद्भावनयाऽनुभाव्य भजेत्स्वयं भक्तिरसं रसज्ञः ।। ९५ ।।
अन्तर्बहिर्मध्यगतत्रिलक्ष्यभावेष्टसत्प्राणकलैक्यभावः ।।
निरंतरं भक्तिरसैकमग्नो भजेष्टलिंगं परमार्थमेकं ।। ९६ ।।
पूर्वार्जिता चेद्दृढमेव भूमिः प्रकाशते चोत्तरभूमिका सा ।।
व्युत्पन्नसद्भक्तिसमग्रभावः स्वयं शिवः स्यात्परमः पुमान्यः ।। ९७ ।।
श्रुणुष्व सम्यग्बसवार्य पूर्वं दण्डेन संसाध्य चिरं खुरल्यां ।।
ततः प्रविष्टः समरं तरस्वी जयेद्रिपून्प्रासगदासिमुख्यैः ।। ९८ ।।
तथेष्टलिंगांगसदानुषंगाद्विज्ञाय तत्कीलकमादधीत ।।
भक्तिं स्थितां ज्ञानपथानुषक्तामहो गरीयान्बसवैष पन्थाः ।। ९९
।।
अहो न सामान्यमिदं त्रिलोक्यां महेशसाक्षात्करणं हि साध्यं ।।
तदर्थमाचारविधिं विधेहि ब्रुवन्तमित्थं बसवोऽब्रवीत्तं ।। १०० ।।
गुरो समास्वाद्य सुधां रसज्ञा रसान्तरास्वादकथां न हीच्छेत् ।।
पृ० १४१) तथैव युष्मत्करुणारसाब्धौ मज्जन्नहं नास्मि जडक्रियार्हः
।। १०१ ।।
वृथा कालक्षेपं न कुरु गुरुभूमण्डलपते कृपापात्रं कृत्वा कलय
निजलिंग्यैक्यशरणं ।।
अमुं युष्मत्पादांबुजसमरसानंदमिति तद्वचः श्रुत्वा देवः
स्मितवदनपूर्णेन्दुरवदत् ।। १०२ ।।
मनोवृत्तिं तावत्तव बसव विज्ञातुमियता प्रबन्धेनावोचं न खलु
मणिदीपो मरुदरैः ।।
चलत्यंग त्वंगत्त्वदुरुतरलिंगैक्यकलने समस्त्रैलोक्ये वा न भवति
महात्मन्ननु सखे ।। १०३ ।।
कलामिंदोर्धर्तुं शिरसि शिव एवार्हति परं परो नार्हस्तद्वत्त्वमपि
निजलिंगैक्यकलनात् ।।
महाकैवल्याख्यामृतरसपरानंदभरितस्त्वदन्यो यः को वा न हि
बसवयोगिंस्त्रिभुवने ।। १०४ ।।
भवन्नामैवैतद्बसव इति वर्णत्रययुत्तं त्रिवृत्कृत्या युक्तं
त्रिपुटमिदमाह त्रिभुवनं ।।
त्वदैश्वर्योद्भूतं प्रकटयदशेषाश्रय विभो
बलित्वात्सुज्ञानाद्वरवितरणात्त्वं हि बसवः ।। १०५ ।।
भवन्नाम स्तुत्वा भवदुरुगुणाकर्णनचणो भवन्मन्त्राभ्यासे
भवदमलसंकीर्तनपरः ।।
भवद्रूपं ध्यात्वा भवदभवभक्तिं विशदयन्भवाम्भोधिं तीर्त्वा
बसव शिवसायुज्यमयते ।। १०६ ।।
पृ० १४२) करेण भूताडनवच्छरेण गिरौ शरव्येऽभ्यसनक्रियावत् ।।
हरे परे ब्रह्मणि दिव्यदृष्टेश्चिरं प्रसारस्तव नेंगतेऽयं ।। १०७ ।।
यदा शिवो मामवनीप्रदेशं प्रति प्रयातुं हृदयेऽर्थयत्सः ।।
तदैव लोकोद्धरणाय नंदिंस्त्वां प्रेषयामास महीं महेशः ।। १०८ ।।
वस्वष्टकं सकलरत्नचयं धनानि सर्वाणि कान्तिनिवहं त्वयि
सन्निवेश्य ।।
नंदिन् भवन्तमवतारयदीश्वरस्तत्त्वन्नामधेयमभवद्बसवस्त्रिलोक्यां ।।
१०९ ।।
त्वययागते क्षितितलं बसवार्यमौले माया तदैव चलिता भयकंपितांगी
।।
आहो गता भगवता विजितं शिवेन देवी च सात्विकगुणा शुभतां प्रयातु
।। ११० ।।
प्रभुरिति बसवेंद्रं भावयित्वा वचोभिस्सकलगणसमूहान्भावयामास
धन्यान् ।।
श्रुतमिह मुनिवर्याः स्वेष्टलिंगैक्यसारं कलिकलुषशतघ्नं
भावयन्तां भवन्तः ।। १११ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां इष्टलिंगावधानगतिर्नाम षोडशोऽध्यायः ।।
पृ० १४३) श्रीनंदिकेश्वराय नमः
श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम्
अथ सप्तदशोऽध्यायः ।
सूत उवाच-
श्रीसिद्धेश्वरदेशिकेन्द्रपदपद्माराधनादिष्टलिं-
गार्चाधीनविशिष्टशीलसहिता प्राणं त्वपाने स्थिरं ।।
संयम्यास्तसमस्तवृत्तिनिवहाश्चित्प्राणलिंगांगिनो
भक्ता मुक्त्यभिलाषिणो गतभवाः श्रुण्वन्तु लीलां प्रभोः ।। १ ।।
अथाक्वा सा देवी प्रभुगुरुमशेषावनितले
विचिन्वत्येकाकी न्यखिलमुनिपुण्याश्रमकुले ।।
बिलेष्वद्रींद्राणां विपिननिवहे योगमठिका-
स्वपश्यन्ती भूयोप्यहह मृगयामास बहुधा ।। २ ।।
तनौ कार्श्यं पीडां चरणतलयोरस्मृतवती
क्षणं वा कुत्रापि स्थितिमलभमाना निरशना ।।
अहोरात्रं वृष्ट्यातपहिमविभागं न दधती
गलन्निद्रालस्या प्रतिनगरमागान्मृगयितुं ।। ३ ।।
ततो दैवान्मार्गे बसवनगरायातशरणैः
प्रभोर्वृत्तं श्रुत्वा हृषिततनुरेषा धृतिमती ।।
हृदब्जान्तर्ज्योतिर्बहिरपि च साक्षाद्भवति
मे कृतार्थास्मीत्यस्मादविशदथ कल्याणनगरं ।। ४ ।।
पृ० १४४) महादेवी दीव्यद्बसवभवनं प्राप्य सहसा
सभायां चिन्तामण्यभिरचितसिंहासनगतं ।।
गुरुस्वामीश्रीमच्छरणचरणांभोजयुगलं
विलोक्यानंदाश्रुस्फुरितनयनाऽभूत्पुलकिता ।। ५ ।।
अहो चित्रं तत्र भ्रमर इव चांपेयकुसुमं
महामोदस्फूर्त्या निरुपममसाधारणरसं ।।
महादेवीचेतः प्रभुपदयुगं प्राप्य सहसा
समाक्रष्टुं शक्यं न तदभवदत्रैव खचितं ।। ६ ।।
तदा देवी चित्ते क्षुधितमनुजस्यामृतनदी
यथा लब्ध्वांऽधस्येक्षणततिरभूद्रोमविततिः ।।
तथैवान्तस्तापप्रशमकरदिव्यौषधमिदं
पदद्वंद्वं साक्षादभवदिति भाग्यादमनुत ।। ७ ।।
अथ ब्रह्मावेशादखिलपुरुषार्थैकभरणं
शरण्यं लोकानां शरणजनचित्तैकशरणं ।।
स्वयं दृष्ट्वा दृष्ट्या गुरुमपि गुरूणां प्रभुगुरुं
पपाताक्वा भूमौ चरणनिकटे दण्डवदियं ।। ८ ।।
प्रणम्य देवी चरणांबुजाधः क्षणं समास्थाय समाहितात्मा ।।
पृ० १४५) महादेवीकृतप्रभुस्तुतिपरिपाटी ।
पुनस्समुत्थाय गुरुं विलोक्य विलोक्य पश्चात्प्रणनाम भूयः ।। ९ ।।
उत्थायोत्थाय भूयः प्रभुवदनसुधाधामपीयूषधारां
पायं पायं प्रणामप्रचरणनिपुणा श्रीगुरोर्दिव्यमूर्तिं ।।
ध्यायं ध्यायं हृदब्जे समुदितपरमानंदसंदोहमग्ना
दिष्ट्या दृष्टो गुरुर्मे प्रभुरिति सुदती तुष्टुवे हृष्टचित्ता ।। १० ।।
प्रभवे विभवे मनोभुवे ते करवै श्रीगुरवे नमो नमोऽस्मै ।।
शरणं करुणानिधे भवास्याः परिपूर्णोऽसि परायणः परात्मन् ।। ११
।।
निगमागमशास्त्रवाग्विलासा महिमानं न हि शक्नुवन्ति यस्य ।।
कथितुं तमगम्यदिव्यरूपं कलये संप्रति भाग्यगौरवेण ।। १२ ।।
प्रभुः परायणं परं प्रभुः परायणं परं प्रभुः परायणं
परं पुनः पुनर्वदाम्यहं ।। १३ ।।
प्रभुरेव समस्तजगज्जनिता प्रभुरेव जगत्परिपालयिता ।।
प्रभुरेव जगत्परिमार्जयिता प्रभुरेव तुरीयपरात्मगुरुः ।। १४ ।।
प्रभुरेव गुरुः प्रभुरेव शिवः प्रभुरेव निरंजननित्यगुरुः ।।
प्रभुरेव विधिः प्रभुरेव हरिः प्रभुरेव शिवः प्रभुरेव परः ।। १५ ।।
पृ० १४६) प्रभुता भरिता भुवनत्रितये प्रभुता शिवता शिवता प्रभुता
।।
प्रभुता शिवता गुरुतैकरता प्रभुरेव शिवः शिव एव गुरुः ।।
इति स्तुवन्ती परितश्चरन्ती पुनर्नटन्ती शरणान्नमन्ती ।।
शरण्य पाहीति मुहुर्वदन्ती तदन्तिके सा प्रणनाम भूयः ।। १७ ।।
अथाल्लमस्तामबलायमानां विशुद्धभक्तिं कृपया विलोक्य ।।
अनुग्रहेणात्मनि संविभाव्य प्रभुस्तमूचे बसवेंद्रमार्यं ।। १८ ।।
इयं महादेव्यवधारयैनां प्रमाणतः सप्तवितस्तिकायां ।।
विशुद्धभक्तिस्फुरणं त्वपारं विजृम्भतेऽहो बसवार्य पश्य ।। १९ ।।
लज्जाभिमानौ परिहृत्य धीरा हृन्मोहपाशच्छिदियं विमुच्य ।।
बंधानशेषानरिजैत्रशीला दिगंबरी भाति विरागपूर्णा ।। २० ।।
इत्थं प्रभुस्तं बसवं प्रबोध्य स्वयं ततश्चेतसि सन्निधिस्थां ।।
संभाषणीयेयमिति प्रसादादाह स्म देवीमखिलैकनाथः ।। २१ ।।
तारुण्यलावण्यसुरूपरेखा विराजते तन्वि तवांगयष्ट्याम् ।।
पृ० १४७) अल्लममहादेव्योस्संवादः ।
अनंगलीलाधनुरुज्वलायां तथापि धैर्यं तव किं विरागे ।। २२ ।।
स्त्रीणामपूर्वं हि दिगंबरीत्वं विवस्त्रभावाद्भुवि वर्तनं यत् ।।
विलोक्य लोका भवतीं हसन्ति किमर्थमित्थं सद आगतासि ।। २३ ।।
आकर्ण्य वाक्यं जगदेकबन्धोरक्वा महादेव्यवदद्गुहेशं ।।
संपूर्णभावस्य परात्मनोऽहं सती किमर्थं मम वस्त्रबंधात् ।। २४ ।।
संबंधो मम किं मनस्तनुधनासंगक्रियाया ह्रिया
का मे कामकथा त्रिनेत्रचरणांभोजद्विरेफात्मनः ।।
दुरापास्तसमस्तचित्तविकृतेर्वेषेण वा किं मम
स्वामिन्वेत्यखिलं भवानिति तया प्रोक्तोऽब्रवीदल्लमः ।। २५ ।।
दृश्या त्वं न हि दृश्यते पशुपतिर्दृग्रूप एवेष्यते
दृश्यादृश्यतया विरुद्धपथयोस्तेजस्तमस्तुल्ययोः ।।
संबद्धः कथमज्ञता यदि भुवि स्त्रीणां तथा त्वं न हि
प्रायो लोकविरुद्धभावकलिता वाग्ब्रह्मवादिन्यसि ।। २६ ।।
देवी प्राह गुरो विमर्श्य कलया साकारया संवृतो
पृ० १४८) नीरूपोऽपि परप्रकाशचरणस्साकारवद्भाति यत् ।।
तत्साकारनिराकृतिद्वयमिदं संवित्स्वरूपं महः
संविज्ञाय शिवैकरस्यकलया वृत्तास्मि मूर्त्ताप्यहं ।। २७ ।।
निराकारं यद्वत्सततमपि साकारघटितं
तथा साकारं तन्निरवयवचैतन्यघटितं ।।
विचाराद्ब्रह्मान्यन्न खलु सकलं कीलकमिदं
विशेषेण ज्ञात्वा तदुभयगताहं समरसात् ।। २८ ।।
श्रुत्वा तद्वचनं प्रभुः पुनरपि प्रोवाच बाले वृथा
क्षीरे सर्पिरिव प्रकाशचरणं मययेव भातीति यत् ।।
उक्तं तन्न हि संगतं समरसश्रीभक्तिनिष्ठां विना
निर्लज्यं कुतले दिगंबरतया संचारमात्रेण किं ।। २९ ।।
आकर्ण्य प्रभुणोदितं तमवदद्देवी प्रणम्यादात्स्वा-
मिन्नल्लमसार्वभौम हतदुर्मायांधकारावृते ।।
युष्मद्दिव्यपदाब्जदर्शनवशात्सान्निध्य एवास्ति
तज्ज्योतिर्लिंगपरात्ममूर्तिरमलेत्येषा मनीषा मम ।। ३० ।।
इत्थं नित्यमनन्यभावहृदयां त्वामेव सर्वेश्वरं
ध्यायन्तीं भवदीयदिव्यचरणश्रीपादुकासंश्रितां ।।
पार्थक्येन विलोक्य वाक्यशठनैर्भीतिं समुत्पादयन्
पृ० १४९) तत्वविषयेऽल्लममहादेव्योस्संवादः ।
किं वा त्यक्ष्यसि दूर एव कियता कालेन वेत्सीति तत् ।। ३१ ।।
दूरेस्त्येव समीपतो न हि शिवः कालेन तद्भूयसा
ज्ञातव्यः परमप्रयासविधिनेत्येवं प्रकारान्तरात् ।।
मामुच्चाटयसि प्रभो कथमहं कं वा गुरुं प्राप्य
तज्जाने ब्रह्म परात्परं परशिवं त्वत्पादपद्मादृते ।। ३२ ।।
इत्यालपन्तीं कृपया गुहेशस्तां वीक्ष्य देवीं पुनरप्युवाच ।।
यस्यामतं तस्य मतं न वेद प्रतीपमेतद्भुवि वेत्ति योऽसौ ।। ३३ ।।
अतः शिवे भक्तिरतीव दूरेत्युक्तेव सत्याशु समीप एव ।।
समीपगा भक्तिरितीरणे स्यादत्यन्तदूरे बसवो हि तज्ञ्ज्ञः ।। ३४ ।।
लोके प्रसिद्धः कृतकृत्यभावादेषोऽधिकःस्याद्बसवो महात्मा ।।
तस्मात्त्वमेतन्मुखतस्तमर्थं जानीहि देवीत्युदिताऽब्रवीत् सा ।। ३५ ।।
देवाधिदेव बसवो मम सद्विवेकश्छन्नाह्वयस्तु बसवो गुरुरिष्टलिंगं ।।
स्वामिंस्त्वमेव मम जंगम एव रामः
श्रीमान्मदंगमभवन्मणिवालनाथः ।। ३६ ।।
तस्मादनन्यसुलभं मम सौख्यमेतल्लोकेऽल्लमप्रभुगुरो तव दासदासाः ।।
पृ० १५०) एतत्पदांबुरुहसेवकदासदास्याः कैवल्यसिद्धिरमला
करसंस्थिता मे ।। ३७ ।।
संदर्शनेन शरणांघ्रिसरोरुहाणामुत्सारिताः करणदुष्टगुणा
मदीयाः ।।
श्रीमच्छरण्य शरणार्थितया निरस्ता माया पुनर्जननमृत्युकरी विहेया
।। ३८ ।।
नित्यं महेशशरणांच्छरणं भजामि नातः परं हृदि
बिभेम्यरिवर्गतोऽहं ।।
इत्थं निरस्तममता निरहंक्रिया सा नैर्मल्यभक्तिपरिपाकवती बभूव ।।
३९ ।।
दुर्भ्रान्तिसन्ततिमधः पदयोर्निपात्य शुद्धान्तरंगभरितां
विमलार्यपुत्रीं ।।
देवीं विलोक्य हरभक्तगणास्समस्ताः स्वान्ते परामिव कलां बहु
मानयन्तः ।। ४० ।।
स्त्रीजन्म बोधरहितं खलु तत्प्रपद्य त्यक्त्वा विकारमखिलं मदनं
समूलं ।।
उन्मूल्य निश्चलतया समचित्तवृत्तिस्सौंदर्यसारखनिरप्यहहा विरक्ता ।।
४१ ।।
तारुण्यपूर्णवयसा विलसत्स्वरूपा लज्जाकरे सविधवेश्मगतौ च काले ।।
इत्थं मनस्तनुधनेष्वभिलाषशून्या मान्या विराजति सुविस्मृतलोकभावा
।। ४२ ।।
पृ० १५१) महादेव्यै प्रभूक्ततत्वोपदेशः ।
जीर्णांगसंगिपलितैः परिवेपमानशीर्ष्णा च नास्ति हि नृणां भुवि
वृद्धभावः ।।
नैश्चल्यचित्तपरिपाकबलप्रयुक्तं वृद्धत्वमाकृतिशिशोरपि
शास्त्रसिद्धं ।। ४३ ।।
कालं कियन्तमपि जीवनमज्ञभावाद्व्यर्थं पशोरिव जनस्य
विमूढसाम्यात् ।।
तस्मादनश्वरमहेश्वरसामरस्या देवीति तुष्टुवुरलं बसवादयस्तां ।।
४४ ।।
ज्ञात्वाऽल्लमो हृदि मुदैव तदीयचित्तविश्रान्तिमद्भुततमां मयि
भक्तिनिष्ठां ।।
तत्तत्वनिर्णयबुभुत्सुतयागतेमां संबोधयामि तमिति प्रभुराह देवीं ।।
४५ ।।
ज्ञानं तवाद्य वरवर्णिनि पूर्णमासीन्माहेश्वरं
शरणपुंगवदर्शनेन ।।
आयत्तमात्रसुगुणात्मबला यदैव स्वायत्ततां गुरुकृपाऽपि तदैव याति ।।
४६ ।।
एतद्द्वयीमपि सुसाधयितुं क्रमेण घोराटवीपटलपर्यटनं गतासि ।।
इत्थं विरागभरिता भुवनेऽखिलेऽस्मिंश्छक्नोति को नु भवतीव तपो
विधातुं ।। ४७ ।।
आर्ये किमत्र बहुना वचनेन सम्यक् क्षीरं श्रुतं ननु विधाय सुकौशलेन
।।
आतंचनेन दधितां यदि भावयेत तस्माद्धृतं न पयसो भुवि केवलात्तत्
।। ४८ ।।
पृ० १५२) तद्वद्विवेकसरणेः क्रमशो
विरागस्वभ्यासतोऽवगमयन्परिपाकमन्तः ।।
दीक्षावशादयमहं त्वमिति भ्रमोत्थं भेदं व्यपोह्य
कलयेच्छिवतत्वबोधं ।। ४९ ।।
तत्सावधानसमनिश्चलयोगदृष्ट्या ज्योतिः परं हृदि विभाव्य
निरंतरायं ।।
निध्यायतः स्फुरति तत्परमप्रकाशलिंगं स्वतोऽधिगतनिर्मलधर्ममेघं
।। ५० ।।
देवि त्वमद्य तव निर्मलभावभूमौ बीजं समुप्य शिवतत्वमयं निषिच्य
।।
तद्धर्ममेघसलिलैः प्रणवांकुराग्रज्योतिः सुमाहितशिवैक्यफलं
गृहाण ।। ५१ ।।
अंगान्तरस्थितसुलिंगमखंडभासा बाह्यान्तरस्थमखिलं ग्रसति
प्रपंचं ।।
तद्देवि विस्मृतनिजांगकथा तदैव चिद्दिव्यलिंगसहजैक्यमवाप्नुहि त्वं ।।
५२ ।।
इत्यल्लमप्रभुगुरुस्तनुचित्तवायून्देव्याश्चिदग्निवलये हृदि हावयित्वा ।।
सर्वातिशायि निजनिर्गुणनित्यतत्वे लीनं चकार शिवजीवविकल्पमाशु ।। ५३
।।
इति निरुपमलीलानित्यनिर्वाणनिष्ठा धृतिपरमुपदेशं
देशिकेन्द्रात्प्रपद्य ।।
अय इव कनकत्वं स्पर्शवेधिप्रभावाद्भवलवमपहाय प्राप तेजोविभूतिं
।। ५४ ।।
पृ० १५३) प्रभूपदिष्टाया महादेव्याः श्रीगिरिं प्रति गमनम् ।
शरणजननमस्यां भावयन्ती नमन्ती पुनरपि पदपद्मं
श्रीगुरोस्संस्मरन्ती ।।
पुलकितमृदुगात्री नेत्रयोर्बाष्पपूर्णा प्रभुतिलकमथाक्वा भक्तिनम्रा
ववन्दे ।। ५५ ।।
तदनुमतिमवाप्य श्रीमती निर्ययौ सा तदनु बसवगेहाद्भक्तचित्तैः
सहैव ।।
रहसि कृतसमाधिर्नाशये दुष्टमायामिति हितमतिरागाच्छ्रीगिरिं
योगनिष्ठा ।। ५६ ।।
अथ गिरिशिखरेन्द्रे सिद्धपीठे विशुद्धे स्थिरमतिरधिरुह्य श्रीगुरुं
सर्वपूर्णं ।।
हृदयकमलमध्ये भावयन्ती
समन्ताद्दृढतरशिवयोगादंगलिंगैक्यमाप ।। ५७ ।।
इति सकलमुनीन्द्राः श्रीमहाक्वांबिकायाः
प्रभुपरिचितजीवन्मुक्तिनिष्ठा कथेयं ।।
श्रवणपुटनिपीता भक्तियोगं प्रसूते सुरतरुलतिकेवाभीष्टमप्यातनोति
।। ५८ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
महादेव्यागमनतदनुग्रहवर्णनगतिर्नाम सप्तदशोऽध्यायः ।।
ओं
वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला ।
ग्रंथ ८ वा.
(श्रीव्यासकृतभविष्यत्पुराणांतर्गत)
प्रभुलिंगलीला
भाग ३ रा.
हा (महाराष्ट्र तात्पर्यासह)
वेदमूर्ति, मणूर मठाध्यक्ष मल्लिकार्जुनशास्त्री
यांनीं मुंबी येथील
शके १८२६, सन १९०४
पृ० १) ।। भविष्यत्पुराणे प्रभुलिंगलीलायां ।।
तृतीयभागप्रारंभः ।
।। श्रीनंदिकेश्वराय नमः ।।
अष्टादशोऽध्यायः ।।
सूत उवाच-
श्रीसिद्धवीरेशपदाम्बुजेहा भक्त्या महेशस्य विनष्टमोहाः ।
त्यक्ताशयाः श्रीगुरुसत्कृपायाः शृण्वन्तु धीराः प्रभुलिंगलीलां
।। १ ।।
अक्कामहादेव्यमलान्तरंगं देवः समाधाय शिवात्मबोधात् ।
भक्तिस्थलं ज्ञानपथोपदेशात्कर्तुं स्थिरं हृद्बसवस्य मेने ।। २ ।।
अथाल्लमस्तं बसवं विलोक्य प्रसाददृष्ट्या परतत्वनिष्ठां ।
उपादिदृक्षुः स्वयमेव साक्षाद्गुरुः परात्मा वचनं बभाषे ।। ३ ।।
सदेष्टलिंगं भजतः सुनिष्ठया दृढा हि भक्तिर्गुरुलिंगजंगमे ।
त्रिलिंगभक्तेर्दृढभावतः स्थिरा मनोगतिः प्राणसुलिंगसंगता ।। ४
।।
चित्प्राणलिंगार्पितचित्तवृत्तिं शक्नोति न स्प्रष्टुमियं हि माया ।
अत्येति मायां तु यदा तदैव निर्वाणमार्गो बसवार्य भाति ।। ५ ।।
पृ० २) श्रुत्वा गुरूक्तं बसवस्तमूचे प्रभो महात्मन् परिहाप्य मायां ।।
चित्प्राणलिंगांगविवेकतो मे कैवल्यमोक्षक्रममादिशेति ।। ६ ।।
दीक्षागुरुस्तं प्रभुराह भूयो लीक्षा वसन्तूधसि दीर्घकालं ।
ताः क्षीरलेशं न पिबन्ति तद्वद्दाक्षायणीशं बहिरर्चयन्तः ।। ७ ।।
अन्तः परं ज्योतिरमेयलिंगं सन्तः शिवं संततमर्चयन्ति ।
लिंगावधानाय सदान्तरंगे भक्तिर्मृषा सैव न या क्षमेत ।। ८ ।।
द्रुमेषु पुष्पाणि सरस्सु वारि शैलेषु पत्राण्यटवीषु गन्धाः ।
धान्यानि नैवेद्यकृते वसन्ति सस्येषु बाह्यार्चनतत्पराणां ।। ९ ।।
एतानि संपादितुमर्चनायै यद्यापयेत्केवलमेव कालं ।
तत्सर्वधा भेदधियोऽस्य जन्तोरैक्याय जायेत न भक्तिदार्ढ्यात् ।। १० ।।
स्वायत्तमेतत्खलु सर्वजन्तोर्यत्केवलं साधनसंविधानं ।
गुरोः कृपायत्तमथान्तरंगे लिंगार्चनं तन्नहि दंभभक्त्या ।। ११ ।।
पृ० ३) बसवस्योपदिशन्तमल्लमं प्रति सिद्धरामस्य वचनम् ।
न दांभिकानां बहु मानयेऽहं भक्तिं प्रवातस्थितदीपकल्पां ।
पारं न यात्येव तदीयभक्तिर्वैराग्यहीनस्य यतेः कथेव ।। १२ ।।
रुध्वा केवलकुंभकेन मरुतः कायं वशीकृत्य यः
क्षुत्तृष्णादिरिपून्निहत्य सहसा जित्वेंद्रियाणां गणं ।
चित्तं वृत्तिविवर्जितं पय इव क्षीरे समारोपयेल्लिंगे स्वात्मनि
सिद्धरामवदसौ ज्ञानं लभेच्छांभवं ।। १३ ।।
श्रुत्वा तद्वचनं प्रभोर्विनयतस्तं सिद्धरामोऽब्रवीद्देव
श्रीगुरुसार्वभौम कथमित्याज्ञापयेस्त्वद्भटं ।
उर्व्यां त्वत्पदकिंकरेषु समतां नो शक्नुयां केन वा प्राप्तुं मेरुतृणे
तृणामरगिरी त्वन्निग्रहानुग्रहात् ।। १४ ।।
स्वामिन्मे बसवार्य एव परमाचार्यो गुरुः स्यान्मम च्छन्नाख्यो
मणिवालमाचयघनो मज्जंगमोऽहं शिशुः ।
भक्तानां परमेश्वरस्य विमलज्ञानैकसंधायिनां तस्मादत्र
कियानहं भगवतो देवस्य वाग्गारैवे ।। १५ ।।
पृ० ४) इत्युक्तः प्रभुरभ्यधात्प्रगुणयंस्तं साधु साध्वित्ययं बुद्धं
संप्रति सिद्धराम भवतो वात्सल्यमत्यद्भुतं ।
भक्तेष्वित्थमुमाधवस्य महिमा शक्येत केनोदितुं वेदाद्यैश्च न वेद्य एव
बसवाद्यासंख्यभक्तावलेः ।। १६ ।।
यस्य श्रीपदपद्मवर्णनचणा वेदादयो वाग्गणा जाने स
प्रमथाग्रणीर्बसव इत्याख्यां जगत्पावनीं ।
नंदीशः स्वयमुद्वहन्क्षितितले भक्तिं शिवे निर्मला ख्यातां
कर्तुमवातरत्कलिजनैराच्छादितां तुच्छकैः ।। १७ ।।
इति प्रभुस्तद्बसवेंद्रसद्गुणानभिष्टुवन्राममुखान्गणान्प्रति ।
पुनस्तमूचे प्रणतं कृतांजलिं तदाभिमुख्याद्विकसन्मुखांबुजः ।। १८
।।
वदामि युक्तिं बसवावधारय प्रवृष्टसद्भक्तिपथानुभावने ।
मनुष्व लिंगांगमिदं स्वमंगकं तदुज्वलल्लिंगमभेदतोऽर्चय ।। १९ ।।
लिंगोपभोगभरितः परमप्रसादी संसाधयाशु निरुपाधिकचित्समाधिं ।
पृ० ५) श्रीबसवाय प्रभुकृतप्राणलिंगतत्वोपदेशः ।
तत्साधनत्रितयमात्मनि बोधबीजं ध्यानं तदादि मननं श्रवणं
तदादि ।। २० ।।
वाक्यार्थबोध इति हि श्रवणं तदर्थयुक्तिप्रसाधनमिदं मननं वदन्ति
।
यत्प्राणलिंगविषयं सगुणप्रधानं तद्ध्यानमित्यभिहितं
निरवद्यकीर्ते ।। २१ ।।
एष प्रपंचविषयः खलु पूर्वयोगस्तत्ते ब्रवीमि परमुत्तरयोगतंत्रं ।
तत्साधनं श्रुतिमिमां बसवार्य तुर्यावस्थां वदन्ति मननं शृणु
मौनमुद्रां ।। २२ ।।
ध्यानं तु निर्गुणनिरंजननिर्विकारवृत्तिः सदैव फलितं
परमात्मलिंगे ।।
संधिः स्थिरा मतिरहो जपयज्ञ इष्टस्सोऽहं तमेव भज
पूर्णसमाधिमेकं ।। २३ ।।
वाक्कायहृत्त्रयमिदं स्ववधानमत्या कृत्वैकगत्यविकलं
घनलिंगमूर्तेः ।
ध्यानालयी भवनगोप्यमिदं विदित्वा यो भक्तिमान्विजयते स परं
स्वतंत्रः ।। २४ ।।
तस्यात्मलिंगनिरतार्चनतत्परस्य तत्वत्रयं गुरुचरेष्टपदं निजान्तः ।
दीव्यत्प्रसादचरणाम्बुविधानशीलान्यत्रैव संति सकलानि च साधनानि
।। २५ ।।
पृ० ६) चिद्रूपसाधनचयैः परमात्मलिंगं संपूज्य यः
समरसस्त्रिपुटीं निरस्य ।
लिंगांगसंगपरमार्थशिवैक्यभावादानंदमेव भजतः किमु
बाह्यतन्त्रैः ।। २६ ।।
अन्तस्थचिन्मयपरात्परदिव्यलिंगं यो वा न वेद बसवार्य स मां न वेत्ति
।
तद्बाह्यकर्म परमात्मनि सन्निवेश्य निष्कामतोऽन्तरमलं मृगयेत लिंगं
।। २७ ।।
श्रीलिंगजंगमगुरूत्तमतत्प्रसादपादोदकानि परिपूर्णतयाऽन्तरंगे ।
यावन्न भांति करसंगिनिजेष्टलिंगं तावद्भजेत
परमार्थपदाभिलाषी ।। २८ ।।
तत्साधुबोधितपदार्थगतिर्निरस्तव्याध्यादिरात्मनि समः स्तुतिनिंदयोश्च ।
दुःखे सुखेऽप्यविकृतिः समतां दधानो भक्तो भजेद्बसव
तद्भवबंधमोक्षं ।। २९ ।।
पंचेंद्रियाणि विषयेषु मनो विहारद्वाराणि तान्यथ विरागबलान्निरुध्य
।
तेभ्यो निवर्त्य हृदयं परमात्मलिंगे संधाय निश्चलसमाधिरयं हि
भक्तः ।। ३० ।।
यावन्मनः प्रचलनं न जहाति तावन्नात्मानुभावमवगच्छति तेन भक्तिं
।
पृ० ७) श्रीबसवाय प्रभुकृतप्राणलिंगतत्वोपदेशः ।
नो याति भक्तिरहितो गिरिशं न पश्येत्तद्दर्शनोत्सुकमृते न हि मुक्तिमेति ।।
३१ ।।
वल्गानिरोधनवशात्तुरगः स्थिरत्वं वायोर्निरोधनवशान्मनसः
स्थिरत्वं ।
तद्वायुरोधनवशेन निरुद्धचित्तो देहस्थकारणमियाद्भुवि वीरशैवः ।।
३२ ।।
माया नाम मनो मनःपरिणतिर्वायुः स वायुः परं
कायोभून्मनसः स एव सततं कायं स्वयं पीडयन् ।
भक्त्यंकूरसमुद्गमं न सहते कुत्रापि वा तत्क्रमा-
ज्जेता तस्य भवेद्यदीह बसवः क्षोण्यां स भक्ताग्रणीः ।। ३३ ।।
चेतश्चित्रपतत्रिणो निजदृशौ पादाविडापिंगला-
नाडीसंस्थितमारुतद्वयमिदं पक्षत्रयं प्रोच्यते ।
प्राणापानसमाह्वयं नयनयोर्दृष्टिद्वये स्थापिते
नैश्चल्येन मरुन्न याति चलनं चित्तं स्थिरं स्यात्ततः ।। ३४ ।।
चित्ते निश्चलतां गते निरुपमं चिद्बिंदुरत्नं स्फुर-
त्यस्मिन्सुस्थिरतां गते विजयते तत्कालकर्मादिकं ।
कार्यं तस्य च मूलकारणमियं माया समुन्मूलिता
नश्येद्विश्वसनीयमार्य बसव स्थैर्यं भजात्मन्यलं ।। ३५ ।।
उप्त्वा लिंगनिमित्तमन्नविलसद्बीजं सदंगस्थले
पृ० ८) संसिच्योदकपानतः सह सदा तद्धातुभिः सप्तभिः ।
संवर्ध्योर्जितबीजभूरुहफलं बिंद्वात्मनावस्थितं
यो दत्वांगगुणाय लिंगमनयल्लिंगावधान्येव सः ।। ३६ ।।
भित्त्वाऽऽधारप्रमुखविलसच्चक्रषट्कं क्रमेण
ज्ञात्वा तत्र स्फुरितमनसा षट्स्थलान्यात्मयोगी ।
क्षित्यम्ब्वग्नीन् पवनगगने चित्तमत्र प्रयोगा-
न्षड्विज्ञायाप्यविकृतमना भक्तिमान्यस्तटस्थः ।। ३७ ।।
चेतःषष्ठानि भूतान्यथ बसवमुने दैवतानां च षट्कं
षड्वर्णानक्षराण्यप्यमलशिवमहामंत्रगोप्यानि तेषु ।
षट्चक्रेषु प्रबुध्वा तदुपरि गमने यस्समर्थः कृतार्थः
सोऽयं पारं गतः स्यात्परशिवविमलज्ञाननिर्वाणभक्तेः ।। ३८ ।।
वदामि तत्वं गुरुलिंगसंगतस्थलानि विद्वन्गुदगुह्यनाभयः ।
तदूर्ध्वनाभिर्हृदयं गलाम्बुजं त्रयं तदेतच्चरलिंगमंदिरं ।। ३९
।।
भ्रुवोः सुमध्यं ह्यविमुक्तसंज्ञितं ततः परं ब्रह्मबिलं च तद्द्वयं
।
महेशलिंगस्थलमित्यवेत्य तत्प्रसादवान्स्याद्बसवार्य भक्तिमान् ।। ४० ।।
पृ० ९) श्रीबसवायाल्लमकृतप्राणलिंगतत्वोपदेशः ।
सुवस्तु तद्बिंदुमयं गुरूल्लसन्मुखानले पक्वमथार्य पूरयन् ।
तदात्मविज्जंगमलिंगसंमुखे महेशलिंगाय समर्पयेत्ततः ।। ४१ ।।
तदीयशेषामृतमात्मसात्कृतं स्वयं समास्वाद्य बहीरसांस्त्यजन् ।
चिरं निजानंदनिमग्नमानसः समाधिरूढो बसवार्य भक्तिमान् ।। ४२ ।।
भूम्यम्ब्वग्निसमन्वितो गुरुसुतो विद्युन्मरुद्व्योमगः
श्रीमज्जंगमसंविधानभरितश्चित्तात्मसंधानवान् ।
श्रीलिंगैक्यसुभक्तिमांन् स्थितिमिमां जानाति यः पुण्यवा-
नेष श्रीबसवाग्रणीस्त्रिविधसद्भक्तो भवेत्सांप्रतं ।। ४३ ।।
भूम्यम्बुस्थलवांस्तु कर्मभरितो भक्तोऽग्निवायुस्थल-
स्थायी तद्गगनस्थलान्वितमनास्सुज्ञानवानित्यलं ।
ज्ञात्वा भक्तमहेश्वरादिपदवीमारुह्य तीर्त्वा परं
यः प्राप्नोति निरंजनं स बसव ज्ञेयो गुरूणां गुरुः ।। ४४ ।।
शक्तिस्थानमपानगुह्ययुगलं भक्तिस्थलं नाभिहृ-
द्द्वंद्वं मुक्तिकलास्थलं किल गलभ्रूमध्ययुग्मं ततः ।
ज्ञात्वेत्थं परिहृत्य शक्तिगुणमप्यालिंग्य भक्तिं दृढां
भावज्ञो बसवार्य मुक्तिमतुलां गच्छेत्तदूर्ध्वं स्वयं ।। ४५ ।।
पृ० १०) आत्मानं स्वयमात्मनैव यदि वेत्त्यात्मस्थिता शक्तिर-
प्यात्मन्येव च भक्तिरात्मनि दृढा मुक्तिश्च तत्कारणं ।
ज्ञप्तिश्चात्मनि तस्य भाति तदयं यः स्वात्मनैवात्मवि-
न्मान्यः स्याद्बसवार्य चेतसि मया भक्ताग्रणीर्लिंगवान् ।। ४६ ।।
इत्यल्लमप्रभुगुरुर्बसवाधिपस्य तत्पूर्वपश्चिमविधानरहस्यसिद्धं ।
योगोपदेशमतुलासनलक्ष्यमुद्राभ्यासोचितं समनुगृह्य जगाद भूयः ।।
४७ ।।
भक्तिं संततमात्मनैव खचितां कृत्वा वियुक्तां न कु-
र्वात्मज्ञैः सह युक्तिमद्भिरतुलां गोष्ठीमजस्रं भज ।
नाधःस्रोतसि धेहि वृत्तिकलनं चेतस्तदूर्ध्वाध्वना
संगृह्याशु निरंजनस्थलमिदं स्थैर्येण संप्रापय ।। ४८ ।।
चिन्तां संत्यज दिव्यलिंगभरितां दृष्टिं स्थिरीभावय
स्वात्मन्येव परामृतैक्यलहरीसाम्राज्यलक्ष्मीं भज ।
अस्मद्वागुपदिष्टतत्वमधुना मा विस्मरारूढवा-
नूर्ध्वं तस्य वदामि सारमतुलं लिंगैक्यतत्वं महत् ।। ४९ ।।
पृ० ११) यत्रेशांघ्रिसरोजभक्तिभरितास्तत्पारकांक्षान्विता-
स्तिष्ठंत्यप्रतिमानुभावकलनागोष्ठीप्रसंगात्सदा ।
गत्वा तत्र तदीयभक्तिसरणेर्मर्मोपदेशाद्भवं
निर्माष्टुं बसवार्य मुक्तिगतये यास्याम्यहं लीलया ।। ५० ।।
इति सकलगणानां शृण्वतामल्लमेन्द्रस्सदसि बसवनाथं प्राह
कारुण्यसांद्रः ।
भजत मुनिवरेण्याः प्राणलिंगांगयोगं
प्रभुचरणसरोजध्याननिष्ठाश्च यूयं ।। ५१ ।।
पठति परमभक्त्या प्राणलिंगांगयोगप्रकटनपटुसारं सच्चरित्रं
प्रभोर्यः ।
श्रुतमपि बुधवक्त्राद्धारयेद्वा स्थिरात्मा सुलभतरममुष्य
प्राणलिंगैक्यसौख्यं ।। ५२ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
प्राणलिंगानुसंधानगतिर्नामाष्टादशोऽध्यायः ।।
पृ० १२) ।। श्रीनंदिकेश्वराय नमः ।।
एकोनविंशतितमोऽध्यायः ।।
सूत उवाच-
सिद्धश्रीगुरुवीरनाथपदपद्माराधका निस्पृहाः
सिद्धा वृद्धितधातुबद्धकुतनोर्दोषैर्निषिद्धात्मनः ।
रुद्धानर्थरजस्तमोगुणभरा बुद्धात्मतत्वाः कृत-
श्रद्धा मुक्तिकथासु भक्तिरसिकाः शृण्वन्तु लीलां प्रभोः ।। १ ।।
प्रभुरप्यथ भक्तसन्ततिं बसवेंद्रं च कृपाविलोकनैः ।
अनुगृह्य स गन्तुमिच्छया वचनं प्राह हितं मिताक्षरं ।। २ ।।
बसवप्रमुखा गणाधिपा गमनेच्छा मम जायते भुवं ।
अथ यूयमपि स्थिरां मतिं कुरुतास्मत्कथितात्मभावने ।। ३ ।।
गुरुलिंगचरार्चनक्रमैस्सततं साधुसमागमोत्सवैः ।
परमार्थपदानुभावनैर्हृदि कालं नयतात्मवित्तमाः ।। ४ ।।
इति वाक्यसुधापयोनिधिप्रसरैस्ताननुभावयन्प्रभुः ।
प्रमदाम्बुविलोचनैर्गणैः प्रणतोऽभूत्पुलकांकुरांकितैः ।। ५ ।।
पृ० १३) गमनसमयेऽल्लमस्य बसवादिभ्य आशीर्वचनम् ।
विनयान्वितसिद्धरामसन्मुनिमादिश्य सुवर्णलापुरीं ।
गमनं कुरु साधकोत्तमेत्यमनस्काधिपतिर्ययौ क्षणात् ।। ६ ।।
अनुसृत्य सहागतान्पुनर्गमनेच्छारहितान्गणान्प्रभुः ।
अवलोक्य पथि स्थितश्चिरं कृपया प्राह निजांघ्रिसंश्रितान् ।। ७ ।।
भुवि भक्तगणानशेषतः समयानुग्रहणेन रक्षितुं ।
अवतीर्य वयं क्व च स्थले न वसामो दिवसाधिपो यथा ।। ८ ।।
अभवस्य निरंजनस्य मे भवतामेष कृते तनूद्यमः ।
अनुसंधिविधौ हि चेतसो न बहिर्योगवियोगसंभ्रमः ।। ९ ।।
अहमेव हि जंगमाकृतिर्न भिदा जंगमलिंगयोस्ततः ।
मम रूपमवेश्य जंगमं भजताश्वेव भवेन्ममागमः ।। १० ।।
इति भक्तमनांसि भावयन्प्रभुदेवः सुसमाहितान्यलं ।
भवतां भवभक्तिरूर्जिता भवतादाशिषमित्यमन्यत ।। ११ ।।
समुपेत्य च नित्यसत्यतां सततं जंगमलिंगभृत्यतां ।
पृ० १४) कृतकृत्यतमा भवन्त्विति प्रभुराशीर्वचनं जगाद सः ।। १२ ।।
विनिवर्त्य गणाधिपान्पुरं बसवादीनसमानवैभवः ।
प्रययौ जयवानुदग्दिशास्थितभक्तावनतत्परो गुरुः ।। १३ ।।
बसवादिगणाश्च सद्गुरुस्मृतिनिर्धूतरजोगुणा गृहान् ।
प्रतिपद्य पुनः पुराधिकं चरलिंगार्चनतत्परा बभुः ।। १४ ।।
पुनरागमनप्रतीक्षणे प्रभुदेवस्य सदा समाहिताः ।
दिवसानि नयन्त ईश्वरे परमोत्कंठितया गणा स्थिताः ।। १५ ।।
तदनु प्रभुराट् पथि व्रजन्सुदृशा यानवलोकयेद्गिरीन् ।
त इमे कनकाचलायितास्सुरकल्पद्रुलताद्रुवीरुधः ।। १६ ।।
अमृतांबुधयः सरोवरप्रकराः स्पर्शसुवेधिनो धराः ।
खनयो मणिसूनवः स्वयं बभुरुत्कृष्टगुणाद्भुतं जगत् ।। १७ ।।
अथ देशगतास्तमागतं प्रभुमाकर्ण्य सुभक्तिसंयुताः ।
सह वाद्यरवेण भस्मसत्फलतांबूलभृतः समाययुः ।। १८ ।।
पृ० १५) श्रीशैलवर्णनम् ।
पदयोः प्रणतान्कृपानिधिर्हृदि लिंगैक्यमथानुभावयन् ।
अनुगृह्य च तैस्समं ययौ शिवगोष्ठीकथनैर्यथातथं ।। १९ ।।
पथि यत्र निषेदिवान्प्रभुः शिवभक्तैः सह तत्र तत्र सः ।
दिवि दुंदुभिनिःस्वनैस्समं सुमवृष्ट्या भरितोऽभवद्भृशं ।। २० ।।
अमृतोपमसारवन्त्यलं तदुपस्पृष्टसरोजलान्यभुः ।
दिनमेकमथोषितं परं प्रयतः क्षेत्रमभूद्धरास्थलं ।। २१ ।।
सदुघेध्वनिरध्वनि व्रजन् प्रभुदेवः परमेश्वरालयं ।
स ददर्श समस्तसिद्धिदं प्रथितं श्रीगिरिराजमंजसा ।। २२ ।।
यदमेयगुणान्प्रशंसितुं न हि शक्नोति फणाधरेश्वरः ।
तपसा किल पर्वतेश्वरः स्वयमैश्वर्यविजृंभितो बभौ ।। २३ ।।
रसवादवयोनिरोधने जगदाकर्षणमंजनौषधे ।
यददर्शनवश्यतादिकं सकलं सिध्यति तत्र मंत्रिणां ।। २४ ।।
जगदद्भुतमूलिका क्रियाऽमृतसंजीवनिकाद्यमौषधं ।
पृ० १६) सकलार्थसुसिद्धयस्सुधारसकुण्डानि च तत्र संति हि ।। २५ ।।
सुरधेनुनिधानकल्पकद्रुमचिंतामणिमुख्यसिद्धिदः ।
असमानतया शिवागमे जयति श्रीगिरिरेव भूतले ।। २६ ।।
महिमा खलु पर्वतेशितुर्लतिका यत्र नटंति भूरुहः ।
प्रहसन्ति शिला वदन्त्यहो तरवः पुष्टतराः फलंत्यरं ।। २७ ।।
गिरिशृंगगता महाह्रदाः प्रददत्यम्बुनिषेवणान्नृणां ।
तनुसिद्धिमथाभिषेचनाद्भुवि जातिस्मरतां विशेषतः ।। २८ ।।
इतरेतरवैरमुत्सृजन् सततं चित्रमृगव्रजोद्भुतः ।
विचलत्यचलेंद्रमौलिषु प्रमदं द्रष्ट्टदृशां विभावयन् ।। २९ ।।
अपि सन्ति विचित्रमद्रिराट्शिखराण्यश्वधियाऽऽरुरोह यः ।
गमयन्ति तमाशु यानि तन्मनसा चिन्तितमुज्ज्वलं स्थलं ।। ३० ।।
गिरिराजि लसन्ति सर्वतः प्रविशज्जन्तुततेर्निमेषतः ।
अतलादिपथप्रदर्शकान्यहहा दिव्यबिलान्यसंख्यतः ।। ३१ ।।
पृ० १७) अल्लमप्रभुगोरक्षयोः समागमः कुशलप्रश्नं च ।
बहुना किमु साधकोत्तमाः किमु वा साधितुमुद्यता भुवि ।
गिरिराजमुपेत्य निष्ठया प्रतपंतीप्सितमाप्नुवन्ति ते ।। ३२ ।।
अथ तत्र गिरौ समस्तसिद्धीरहमाप्तोऽखिलयोगवान्किलेति ।
वसति स्म समाययौ प्रभुस्तं हृदि गोरक्षमुनिं परामृशन् सन् ।। ३३ ।।
रोगार्तसन्निधिमिवामृतमादिनाथस्संजीवनीव लतिका व्यसुसन्निधानं ।।
गोरक्षनाथनिकटं प्रभुराप शीघ्रं
सुज्ञानसंपदुदयोर्जितपुण्यराशिः ।। ३४ ।।
तं देवमागतमवेक्ष्य ससंभ्रमोऽयं गोरक्षनाथमुनिरात्महितं
विचिंत्य ।
उत्थाय सांजलिपुटः प्रणतोर्घ्यपाद्याद्यभ्यर्चनं
समतनोद्विनयोक्तिसारैः ।। ३५ ।।
बृश्यासने समुपवेश्य सुभक्तिनम्रः पप्रच्छ देव कुत आगमनं कुतो वा ।
गन्तव्यमद्य भवदागमनस्य किं वा स्यात्कारणं मम कृपानिलयाभिधेहि
।। ३६ ।।
युष्माकमागमनमद्य मदीयभाग्यादित्यौचितीपरिचितं वचनं निशम्य ।
मायां निरस्य तरसाऽनुजुघृक्षुरेनं प्राचुर्यधुर्यवचसा प्रभुराह
देवः ।। ३७ ।।
पृ० १८) गोरक्ष भो वयममी भुवि जन्ममृत्युत्रस्तान्सुसाधकतमान्
घनचिन्मयांगान् ।
लिंगैक्यबोधकथया सुधया विधातुं वेदागमोक्तविधयाऽविरतं चरामः
।। ३८ ।।
इत्याकलयय वचनं प्रभुलिंगमूर्तेर्यल्लौकिकोक्तिभिरयं परमार्थमाह ।
मां ज्ञातवानिव पुरेत्यथवा गुरुः स्याद्गोरक्षनाथ इति चिंतितवान्
हृदन्ते ।। ३९ ।।
पप्रच्छ च प्रभुमसावनघ त्वदीयं दृष्टं पुरेव न हि सम्यगवैमि
रूपं ।
भात्यन्यवन्नहि पुरातनवेषभाषा नैसर्गिकीं तव न वेद्मि विशिष्य
वृत्तिं ।। ४० ।।
आस्तां हृदन्तरविवेककथा कथंचिद्विज्ञाय बाह्यमथ पूजयितुं हि
योग्यः ।
लोके जनोऽल्लम इतीरितमस्य बुद्ध्वा गोरक्षमाह सहसा प्रहसन्मुखाब्जः ।।
४१ ।।
स्वात्मानमेव न हि वेत्ति तमोभरेण योऽसौ परस्य हृदयं कथमत्र विद्यात्
।
क्षुद्बाधया प्रतिगृहं भुवि पर्यटेद्यः क्षुण्णाशनौषधमयं
कथमेव दद्यात् ।। ४२ ।।
पृ० १९) गोरक्षं प्रति प्रभोः सांकेतिकवचनम् ।
अन्धस्य हस्तभरिते मुकुरेऽपि किं स्यात्साध्यं तथैव बहिरक्षियुगे
स्थितेऽपि ।
विज्ञाननेत्ररहितस्य फलं किमस्ति साधारणं विषयवर्तनमाः
पशूनां ।। ४३ ।।
वाक्चातुरीप्रकटनैकपरा हि धूर्तास्तेषां प्रबोधगरिमा कथमभ्युदेति
।
देहात्मवाद इव भाति शरीरमेव संसाधनीयमिति मूढमतिः पशूनां
।। ४४ ।।
काये स्थिरे सति हि साध्यतमा विमुक्तिः काये कदाऽपि शिथिले नहि
मुक्त्युपायः ।
तत्कायसिद्धिरधिकेति तदर्थचिन्ता कापालिकं मतमिति प्रवदन्ति तज्ज्ञाः
।। ४५ ।।
त्वऽऽन्मांसमज्जरुधिरास्थिशिरालिमेदोबीभत्सदुर्भरमिदं मलमूत्रसिक्तं
।
देहं मदीयमिति तत्र कृताभिमानः कापालिकस्य निजभक्तिरसः कथं
स्यात् ।। ४६ ।।
श्रुत्वाऽल्लमोदीरितमत्युदारं गोरक्षनाथः पुनराह देवं ।
शृणुष्व सिद्धांतविधिं महात्मन्यत्साधकाः सिद्धिसुखं प्रयान्ति ।।
४७ ।।
पृ० २०) अभ्याससंपत्तिवशेन कायो यस्य स्थिरः स्यात्तमुदारशक्तिं ।
माया न संस्प्रष्टुमपि क्षमेत मृत्युः पुरःस्थातुममुष्य भीतः ।। ४८
।।
प्राप्नोति कायोऽक्षरतां निकामं वयं तु वाग्जालकथां न विद्मः ।
तत्कायसिद्धिं तव दर्शयामः पश्येति चोक्तः प्रभुराह भूयः ।। ४९ ।।
गोरक्ष किं वक्षि तनोः स्थिरत्वे किं नित्यता स्यादवशिष्टशक्तिः ।
माया कथं वा विजिता भवेत्सा मोक्षः कथं वाऽस्तु मृतेरभावः ।। ५०
।।
क्षरं समस्तं किल भूतजातं कूटस्थ एवाक्षर इत्युदीर्य ।
क्षराक्षरेशो हरशब्दवाच्यस्तद्भक्तिमानेष्यति मोक्षलक्ष्मीं ।। ५१ ।।
तस्मात्तनोरक्षयतां न विद्धि भ्रांत्या तनुर्नंक्ष्यति तावकीना ।
इत्युक्तवन्तं प्रसमीक्ष्य देवं गोरक्षनाथः सहसाऽब्रवीत्तं ।। ५२ ।।
कथां परित्यज्य बहुप्रकारां गृहाण तूर्णं निशितं कृपाणं ।
निधेह्यवष्टभ्य बलं त्वदीयं मदीयकायेऽत्र तदीयधारां ।। ५३ ।।
पृ० २१) योगसिद्धिपरीक्षायां प्रभुगोरक्षयोः संवादः ।
मदीयकाये यदि रोममात्रं त्रुट्येत चेत्तर्हि न कायसिद्धिः ।
अहं च लोके न भवामि सिद्धस्सत्यं ब्रुवे प्रत्ययमाशु पश्य ।। ५४ ।।
गोरक्षमालोक्य वदन्तमित्थं प्राह प्रभुश्छेदनभेदनाद्यैः ।
परीक्षणं ह्यासुरमामनन्ति मतं न चास्मद्गुरुसंमतं तत् ।। ५५ ।।
छिद्येत चेत्तावकमंगमेतत्तदा कथं स्याद्भुवि सिद्धिमान्कः ।
एवंविधोक्तिः सुविवेकजा किं सद्धर्ममार्गः किमु मृत्यभावः ।। ५६ ।।
अस्मादृशानां पुरतो न चेत्थं वक्तव्यमात्मा मरणादिधर्मैः ।
न स्पृश्यते संगतयेति चोक्तो गोरक्षनाथः प्रभुमाह भूयः ।। ५७ ।।
संदेहवार्तो परिमुच्य सद्यस्संताडयैनं मम वज्रकायं ।
खड्गेन मे नास्ति विनाशलेशः सिद्धिं प्रकाशीकुरु मामकीनां ।। ५८ ।।
ममाभिलाषं परिपूरयैनं न खड्गधाराहतिमंतरेण ।
चेतो नु तुष्येदिति मामकीनं निर्बध्यमानो हठयोगिनाऽभूत् ।। ५९ ।।
एतस्य चित्तं विकलं न भूयात्खड्गं शरीरे निदधामि बाढं ।
पृ० २२) मृतो यदि स्यादसिना विभिन्नः स्रक्ष्यामि गोरक्षयमीन्द्रमन्यं ।।
६० ।।
इति प्रभुस्तत्करदत्तखड्गं स्वीकृत्य दृष्ट्वा निशितं विधाय ।
मुष्ट्यात्सरौ तस्य दृढं गृहीत्वा धारां विधून्वन् निदधौ तदंगे
।। ६१ ।।
तदाहतिस्फूर्जितघोरशब्दाच्चचाल भूरद्रिगणश्चकम्पे ।
नाच्छिद्यतांगे क्व नु लोममात्रं रराण वज्राहतशैलवत्तत् ।। ६२ ।।
नाथो जगाद यमिनं न हि सिद्धिरेषा माया प्रपंचजटिलीकरणं
तनोस्ते ।।
संपादितं खलु वृथा यदयं रराणशब्दोऽस्ति यत्र मृतिरत्र
यथार्थमेतत् ।। ६३ ।।
किं वाक्सहस्रकथनैः प्रलयं विजित्य कायस्य सिद्धिरिति या स मृषा
प्रवादः ।
इत्यल्लमः करतलस्थितखड्गमुष्टिं त्यक्त्वा न्यपातयदमुं
प्रहसन्पृथिव्यां ।। ६४ ।।
हा सिद्धयः कथमिमाः प्रलयार्त्युदर्कास्तत्तत्प्रमाणविधयास्त्यखिलस्य
कालः ।
यत्कायसिद्धिपदशब्दितमस्ति वस्तु तत्तद्ब्रवीमि शृणु वेदशिखारहस्यं
।। ६५ ।।
पृ० २३) अल्लमोपरि गोरक्षस्य खड्गप्रहारकथनम् ।
वातातपाग्न्यशनिवृष्टिहिमैरपीड्यो यो रुग्जरामरणवर्जितदिव्यदेहः ।
संबंधवर्जनधियात्मन ईश्वरस्य पूर्णं समाधिमधिरुह्य स एव योगी
।। ६६ ।।
भूतानि तद्गतगुणांश्च विजित्य बाह्यस्पर्शेष्वसक्तहृदयः
समहेमलोष्टः ।
दृष्टोऽपि दैहिकगुणैर्ह्रिदि तैरजुष्टो यः कायसिद्धिभरितोऽस्ति स एव
योगी ।। ६७ ।।
इत्थं वदन्तमवलोक्य गुरुं गुरूणां गोरक्षनाथमुनिरस्य
वचःप्रणाली ।
काचित्तदद्य धृतिदार्ढ्यमहं परीक्ष्य संभावयामि महनीयतयेति मेने
।। ६८ ।।
संगृह्य तं सुनिशितं करवालमुद्यद्धाराविधूननचणः करलाघवेन
।
सव्यापसव्यविधयाशु बिभेद मूर्तिं सर्वत्र चित्रगतिरेष विभोर्नभोवत् ।।
६९ ।।
तेनाहतं गगनवत्प्रभुदेहमासीदीषत्क्षतेरपि तदा विषयं सुरूपं ।
निःशब्दमप्रतिमकान्तिविकारशून्यं दृष्ट्वा यमी स बहुधा विचचार
भूयः ।। ७० ।।
पृ० २४) उत्प्लुत्य मूर्धनि निपत्य पदद्वयेऽपि पार्श्वस्थितो
भुजकटीयुगलेक्ष्णयापि ।
सर्वत्र चित्रगतिरात्तविधूतखड्गो रोम्णां च संधिषु चकार
करप्रसारं ।। ७१ ।।
पक्षीव निश्चलतया गगनप्रदेशे स्थातुं पुरा बहुलकंपितपक्ष्मयुग्मः
।
उत्प्लुत्य खे पुनरपि प्रणिपत्य भूयश्चोत्प्लुत्य पार्श्वचलितः स्थिरतां
प्रपेदे ।। ७२ ।।
आश्चर्यमेतदिति तस्य महामहत्वं विज्ञाय संयमिवरो भयभक्तिनम्रः ।
नत्वाल्लमेंद्रमपसृज्य करस्थ खड्गं संताडयन्निजकपोलयुगं
बभाषे ।। ७३ ।।
गुरुस्वाम्यस्माकं भवसि न हि चेत् सिद्धिरतुला तनोरित्थंरूपा भवति
भुवने कस्य यमिनः ।
न चैतावन्मात्रो भजति जगदाश्चर्यकृदिदं महत्वं
वेदान्तप्रथितपरमाद्वैतफलितं ।। ७४ ।।
मद्देहमेतदसिखंडितमाशु चक्रे निर्घोषणं खणिति निर्दलिताण्डभित्ति
।
पृ० २५) अल्लमं प्रति गोरक्षस्य पुनरुक्तिः ।
देव त्वदंगमिदमंबरवद्विभाति निःशब्दमेव कथमद्य ममाभिधेहि ।। ७५
।।
गोरक्षमाह गुरुराट् शृणु सावधानः काये घनीभवति सापि घनैव
माया ।
एतद्द्वयेपि सुघने भवति प्रपंचच्छाया स्थिरा क्व नु तदा तनुसिद्धिरेषा
।। ७६ ।।
तस्मान्निरस्यति यदा हृदि कायमायेच्छाया विनश्यति तदा खलु सिद्धिरेषा
।
कैवल्यलक्षणवती भवति प्रसिद्धेत्युक्तः प्रणम्य पुनरल्लममाह योगी
।। ७७ ।।
भो आदिनाथ मम कारणदेशिकेंद्र दातुं ममाप्रतिमसिद्धिरहस्यमेतत् ।
अत्यादरादनुगृहीतविलासभाषावेषस्त्वमागत इति स्म न वेद्मि किंचित् ।।
७८ ।।
देव क्षमस्व कृपयाऽद्य ममापराधं दासोऽस्मि तेऽहमिति तत्पदयोः पपात
।
उत्थाप्य तं प्रभुरनुत्थितमस्य चित्तं कृत्वा
शिवानुभवपूर्णमथाब्रवीच्च ।। ७९ ।।
लोहं यथैव पुटपाकवशाद्विभाति तद्वद्विरागपरिपाकवशात्फलाप्तिः
।
गोरक्षनाथमिति सत्कृपयाल्लमेंद्रे पश्यत्यनुग्रहदृशा विचचाल रागः
।। ८० ।।
पृ० २६) तेनैव सार्धमभिदुद्रुवुरस्य
तावन्मात्सर्यदंभमदमुख्यमहोपसर्गाः ।
संभाषणादपगतौ तदबोधगर्वौ तद्धस्तमस्तकतयाऽपससार माया ।।
८१ ।।
संप्रार्थयत्प्रभुमपारकृपाम्बुराशिं गोरक्षसंयमिवरो जगदेकबन्धो ।
धन्योऽस्मि तावकपदाब्जपरागलेशसंस्पर्शनादधिकमप्यहमद्य याचे ।। ८२
।।
आज्ञापयोत्तमगतिं मम भक्तबन्धो बन्धो हि सिद्धपदवीरितकायसिद्धिः ।
इत्यर्थयन्तमनुगृह्य परार्थवेषस्तोषं पुपोष वचनामृतधारयास्य ।।
८३ ।।
गोरक्ष साधु शृणु किं बहुनोदितेन यावन्न संत्यजति मायिककायसंगं
।
आत्मा न तावदुदयात्तनुसिद्धिरेका बोधस्य केवलमसाधनमेव जन्तोः ।। ८४
।।
यद्युत्सहेत हृदयं तनुसिद्धिमोक्षं सत्साधनद्वयमिदं सममेव लब्धुं
।
पृ० २७) योगसिद्धिपरीक्षायां प्रभुगोरक्षकयोः संवादः ।
तर्हि द्वयोरपि गती परिहृत्य भक्त्या श्रीमद्गुहेश्वरपदाम्बुरुहे भजस्व
।। ८५ ।।
शीतापनोदमिव पाककथाप्रवृत्तो भक्तो गुहेशपदयोस्तु समस्तसिद्धिं ।
आप्नोषि तं परिचरेति गुरूपदिष्टो निष्ठामवाप्य हृदये गुरुमाह योगी
।। ८६ ।।
स्वामिन् गुहेश इति कोऽयमपूर्व उक्तस्सोऽयं क्व वा वसति खेलति
किंप्रकारः ।
तं केन वात्र विधिना यमहं भजेयं ब्रूहीति तेन
विनयादुदितोऽब्रवीत्तम् ।। ८७ ।।
गोरक्ष संशृणु गुहेश्वरशब्दवाच्यो नान्यो मदस्ति भुवनत्रितयेऽपि
नूनं ।
निःसंशयो भव मनस्यकलंकवर्त्मा मामेव भावय सदाऽऽत्मसमाहितोऽसि
।। ८८ ।।
नाम्ना गुहेति परमात्मनिवासभूमिस्तस्यां सदा पतिरहं निवसामि नूनं
।
तन्नाम मामकमिदं कुहनानृमूर्त्या सर्वत्र साधु विहरामि बुधावनाय
।। ८९ ।।
तस्मादहं सकलभूतहृदंतराले तिष्ठामि वल्लभतयेति भजन्ति ये
मां ।
तेषां च निर्मलधियां मम नास्ति भेदस्सोऽहं तथैव सततं हृदि
भावयस्व ।। ९० ।।
पृ० २८) मायाप्रपंचकलनं सकलं त्विदंता
तत्संगतोपहितजीवचितिस्त्वहन्ता ।
सोऽहंतया द्वयमिदं प्रविलाप्य पूर्णाहंतामये शिवपदे
स्थितिरित्युपास्तिः ।। ९१ ।।
इत्थं निरंतरमुपास्तिरता हि जीवन्मुक्तिं भजन्ति भुवि
केवलभक्तिनिष्ठाः ।
तस्माद्गुहेश्वरमुपास्व निजात्मबुद्ध्या कैवल्यमाप्नुहि
बुधेत्युदितोऽब्रवीत्सः ।। ९२ ।।
अध्यात्मशास्त्रकृतवासनयाऽलमार्य त्वं चेद्गुहेश्वर इदं किमु
लिंगमंगे ।
चिज्ज्योतिषस्तव निरंजननिर्गुणस्य भेदोऽस्ति किं भ्रमकृतो निकृतोपयुक्तः
।। ९३ ।।
गोरक्षमाह गुरुरस्म्यहमद्वितीयो भक्तेष्वनुग्रहदृशा धृतविग्रहः सन् ।
चित्प्राणलिंगमपि हस्ततले बिभर्मि
श्रेष्ठैरनुष्ठितमिहान्यजनोऽनुतिष्ठेत् ।। ९४ ।।
लोकोपकारकृतये बहिरिष्टलिंगं धृत्वा चरामि न भिदा मम तावता
स्यात् ।
पृ० २९) योगसिद्धिपरीक्षायां प्रभुगोरक्षकयोः संवादः ।
अन्तर्बहिःस्फुरितदिव्यपरप्रकाशलिंगैक्यसंगतिमुदा हरतः स्ववेषात् ।।
९५ ।।
विज्ञानभक्तिसुविरक्तिमतां मतानि विच्छेदकान्यखिलसंशयबन्धनानां
।
सोऽहं पुरा रचितवान्यदसीति कोटिसंख्यायुतानि वचनानि जगद्धितार्थं
।। ९६ ।।
तानि श्रुतिस्मृतिपुराणशुभागमार्थतात्पर्यसंग्रहतया सुविभावितानि ।
शृण्वंति ये त इह साधनतारतम्यान्मुक्तिं प्रयान्ति हतकिल्बिषचेतनास्ते
।। ९७ ।।
धात्र्यां खुरल्युदितसाधनसाधकार्थो नानाविधायुधधरो हि
परोपकृत्यै ।
तद्वन्ममापि समयोचितवेषभाषानैश्चल्यभंजनकृते न भवन्ति योगिन् ।।
९८ ।।
येषां यथा हृदयवृत्तिरहं तथैव तेषां विमुक्तिपथमाशु
समादिशामि ।
तद्वन्ममापि समयोचितवेषभाषास्संतीव वस्तुत इमा न निरंजनस्य ।। ९९
।।
धात्र्यामहं सकलभक्तविरक्तचित्तक्षेत्रेषु भक्तिशिवबोधसुबीजराजिं ।
पृ० ३०) वप्तुं दधामि शरणोचितयोगमुद्रां गोरक्ष तेन मम भेदकथा
कुतः स्यात् ।। १०० ।।
के वागताः क्व नु कथं किमिति स्वचित्ते स्याच्चेद्विकल्पकलनं कथमस्य
भक्तिः ।
सर्वं मयीति शिवसौख्यसुधाब्धिमग्नो भक्तिं भजेत परमां
गुणगंधशून्यां ।। १०१ ।।
सोऽहं तदेतदिति तद्वदहं ममेति नोदेति यद्वदभिमानलवस्तथैव ।
वर्ते जलान्तरसरोरुहपत्ररीत्या निर्लेपतामनुभवामि सदैव योगिन् ।। १०२ ।।
ये त्वंगलिंगयुगसंगतिबोधनिष्ठास्तेषां हि षट्स्थलविवेकितया
मतोऽस्मि ।
संगं विसृज्य परिपूर्णशिवैक्यभावा ये चिन्मयाश्चिदहमेव भवामि
तेषां ।। १०३ ।।
ज्ञेयो मदीयमहिमैष न संशयोऽत्र स्याच्चेत्तवाद्य स परीक्ष्य
समाधिमेहि ।
उक्त्वेति नीलजलदान्तरविद्युदुद्यल्लिंगे विलीनहृदयोऽथ समाहितोऽभूत् ।।
१०४ ।।
गोरक्षयोगिनि तदा प्रभुहस्तलिंगं स्वीकर्तुमिच्छति करेण बलाद्गृहीत्वा
।
पृ० ३१) गोरक्षं प्रत्यल्लमकृततत्वोपदेशः ।
स्पृश्यं न दृश्यमपि तद्गगनायमानमासीत् सविस्मितमनाः प्रभुमाह
भीतः ।। १०५ ।।
युष्माकमीश महिमा निगमैरवेद्यः कोवाल्पधीरयमहं परिशीलनेऽस्य ।
साम्यं भजेत गजदन्तपरीक्षयेदं तन्नाथ मामनुग्रहाण हितोपदेशात्
।। १०६ ।।
शिष्यो हि सद्गुरुवरेण परीक्षणीयो नो जातु शिष्यबटुकेन गुरुः
परीक्ष्यः ।
तद्रक्ष मां प्रभुगुरो शिवदीक्षयेति गोरक्षनाथविनुतोभवदक्षरेशः
।। १०७ ।।
दीक्षाममुष्य कृपयान्तरनुग्रहीतुं शिक्षाक्रमैस्तमथ लक्षविधैः
परीक्ष्य ।
प्रक्षीणसिद्धिजडिमग्रथनाय तस्मै मोक्षप्रदं
समदिशद्गुणशून्यतत्वं ।। १०८ ।।
गोरक्षकः प्रभुगुरोरुपदेशमात्रात्सामोदहेमसदृशो विरराज विप्राः ।
किंचाल्लमांबुधिकृपामृतपानतृप्तः सिद्धीस्तदैव सकलाः
शिथिलीचकार ।। १०९ ।।
मायां निहत्य निजकायगुणान् विजित्य स्थूलं च सूक्ष्ममुभयं क्रमशो
ग्रसित्वा ।
पृ० ३२) स्थित्वाथ कारणतनौ विससर्ज वज्रकायभ्रमं चिदमलाभ्रतनुः
स योगी ।। ११० ।।
गोरक्षको भ्रमरकीटनयेन सद्यः कारुण्यतः प्रभुगुरोरुपलब्धविद्यः ।
मुक्तो बभौ परशिवाद्वयबोधसिद्ध्या जीवन्नपि
प्रतिनिवृत्तमृषाप्रपंचः ।। १११ ।।
संगं विसृज्य भविभिर्भवबंधमुक्तश्चिह्नानि शैवविहितानि तनौ
गृहीत्वा ।
अद्यापि तिष्ठति रसातलमाश्रितोऽयं गोरक्षसंयमिवरः
शिवभक्तियुक्तः ।। ११२ ।।
इति भृगुसुतमुख्याः सुव्रताः श्रीगिरींद्रे
प्रभुकृतशिवदीक्षादक्षगोरक्षचर्या ।
श्रवणपुटनिपीता भुक्तिमुक्ती प्रसूते तदधिकरुचि यूयं धारयध्वं
शृणुध्वं ।। ११३ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
गोरक्षानुग्रहवर्णनगतिर्नामैकोनविंशोऽध्यायः ।।
पृ० ३३) श्रीनंदिकेश्वराय नमः ।।
अथ विंशोऽध्यायः ।।
सूत उवाच-
श्रीसिद्धवीरशरणा लिंगजंगमदेहिनः ।
मुमुक्षवो मुनिगणा लीलां शृण्वन्तु सत्प्रभोः ।। १ ।।
इत्थं गोरक्षनाथस्य सारविद्योपदेशनात् ।
संपाद्य कृतकृत्यत्वं सिद्धनाथपदं ददौ ।। २ ।।
तेन श्रद्धान्वितेनाथ सत्कारैः परिपूजितः ।
तदाश्रमाद्विनिष्क्रम्य ययावन्यत्र भूसुराः ।। ३ ।।
लोकैकपावनीं लोलतरंगां मंगलप्रदां ।
पातालगंगामुत्संगे ददर्श श्रीगिरेः प्रभुः ।। ४ ।।
तस्यास्तटभुवि प्रोद्यत्पर्णशालाविराजितं ।
मुन्याश्रमं ददर्शाग्रे धन्यैर्मान्यतमं महत् ।। ५ ।।
रसालसालपनसखर्जूरार्जुनकेसरैः ।
किंशुकप्रमुखैर्नानाद्रुमैरत्यन्तशोभितं ।। ६ ।।
पुण्ये तत्राश्रमे व्याघ्राः क्रीडन्ति हरिणैः समं ।
चुंबन्ति बभ्रुवदनं मूषकास्तैश्च चुंबिताः ।। ७ ।।
करिणस्तत्र पंचास्यैस्सख्यं कुर्वन्ति संततं ।
पृ० ३४) मार्जारैः कीरशिशवो हास्यलीलां वितन्वते ।। ८ ।।
सहैव निवसन्त्यत्र मयूराश्च भुजंगमाः ।
अन्ये प्रतीपजातीयास्सजातीया इवासते ।। ९ ।।
समागतं प्रभुं दृष्ट्वा तेन मार्गेण भूसुराः ।
प्रत्युद्गम्य कृतार्थाः स्म इति चित्तेषु मेनिरे ।। १० ।।
मुनयोऽल्लममर्घ्याद्यैः पूजयित्वोन्नतासने ।
उपवेश्य स्तुतिशतैः स्तुत्वा स्तुत्यं तमूचिरे ।। ११ ।।
प्रभो सर्वज्ञ भाग्येन जातं त्वद्दर्शनं हि नः ।
रक्षणीया वयं सर्वे त्वया सद्गतिदर्शिना ।। १२ ।।
परीक्ष्य गोरक्षयतिं दीक्षां दत्वा सुरक्षितं ।
कृतवानिति विज्ञाय त्वां द्रष्टुं तावदुत्सुकाः ।। १३ ।।
प्रतीक्षमाणास्सततं भवदागमनं वयं ।
तदाद्युत्कंठितस्वान्ता निवसामोऽत्र सद्गुरो ।। १४ ।।
अनुग्रहोऽयं भवतां यदत्रागमनं शुभं ।
फलितं हि तपोऽस्माकमद्यैवानुगृहाण नः ।। १५ ।।
स त्वं तत्वरहस्यार्थमुपदिश्य कृपाम्बुधे ।
शिष्यत्वेनानुगृह्णीष्व मुनीनस्मान्भवार्दितान् ।। १६ ।।
पृ० ३५) अल्लमस्य सर्वैऋषिभिस्साकं संभाषणम् ।
इति संप्रार्थितः सर्वैर्मुनिभिर्जातकौतुकः ।
प्रभुः प्रसन्नहृदयो बभूवानुग्रहेच्छया ।। १७ ।।
तेषां प्रार्थयतां प्रभुर्यमवतां कायाम्बुधौ संस्थितं
चेतोदिव्यमणिं तदूर्ध्वपदवीमानीय लिंगाह्वये ।
शाणे साधु निघृष्य तत्र जनयन् ज्ञानप्रकाशं परं
सन्निष्ठाह्वयवज्रसूचिभिदया चक्रे बिलं तस्य सः ।। १८ ।।
संधायात्र च बुद्धिसूत्रममलं तल्लोलतां वारय-
न्भेदं चाहमिदं त्वमित्यनुसृतं प्रोल्लंघ्य तं प्रापयन् ।
पश्चात्पश्चिमवाहिनीं स्थलकुलेष्वाज्ञातमास्थापय-
न्मौनींद्रान्प्रणवानुसंधिसुखितान्कृत्वाऽब्रवीदल्लमः ।। १९ ।।
इमामशुक्लकृष्णाख्यामविज्ञाय क्रियां हृदि ।
कृपां न लभते शंभोश्चिदम्बरनटेशितुः ।। २० ।।
विना महेश्वरकृपामन्तरंगं न शुध्यति ।
अन्तः शुद्धिमृते भ्रान्तिर्न नश्यति मुनीश्वराः ।। २१ ।।
अनुत्सृज्य मनोभ्रान्तिं न शिवज्ञानमर्हति ।
तद्विना नहि मोक्षोऽस्ति श्रुतियुक्त्यनुभूतिभिः ।। २२ ।।
पृ० ३६) तच्छ्रुत्वा मुनिवर्यैस्तैः प्रार्थितः शिवदीक्षया ।
कृतार्थीकृत्य तान्सर्वान्पुनर्वचनमब्रवीत् ।। २३ ।।
कैवल्यमुक्तेर्मौनींद्राः कीलकं साधकोचितं ।
सदैव हृदि लिंगैक्यसावधानतया स्थितिः ।। २४ ।।
इत्थमाज्ञाप्य तैर्भक्त्या पूजितो गुरुरल्लमः ।
ददर्श पुरतो गच्छन्महाविपिनमग्रतः ।। २५ ।।
भानुमद्दीप्तिलेशस्याप्यप्रवेश्यं यदंतरं ।
लतापटलसंस्यूतनीरन्ध्रतरुमण्डलं ।। २६ ।।
तत्कुंजाः कुंजरौघानां विहारावासतां गताः ।
चरन्ति यत्र सिंहाश्च व्याघ्रखड्गादयो मृगाः ।। २७ ।।
तिर्यग्भिरपि तैर्देवः सेव्यमानो व्रजन्पथि ।
अग्रे ददर्श मृगयुं क्रूरमाकारनिष्ठुरं ।। २८ ।।
दारुकोटरयंत्राणि वैययाघ्रशकटानि च ।
ग्रंथिकीलितसूत्राणि श्येनबभ्रुशुनां गणान् ।। २९ ।।
तथा शशकजालानि शिक्यानि यवनीपटान् ।
पृ० ३७) व्याधं प्रति अल्लमस्य हितोपदेशः ।
मृगयासाधनान्यन्यान्यानयन्तं महावलं ।। ३० ।।
नेत्रपात्रोरुगात्राणां मृगाणां चित्रवर्त्मनां ।
गणानाशु जघानैष पत्रिणैकेन लुब्धकः ।। ३१ ।।
करिणः सिंहवत्सिंहांस्तथा शरभवच्छरैः ।
मारयामास बहुधा मृगानिव मृगादनः ।। ३२ ।।
अन्यानि जन्तुसन्तानान्येकैकेन शरेण सः ।
जघान लीलयाऽटव्यां किरातः कालमृत्युवत् ।। ३३ ।।
तं वीक्ष्य राक्षसाकारमल्लमो हृद्यमन्यत ।
अनेन जन्तुविततिर्हतासावन्तकातिथिः ।। ३४ ।।
वीक्ष्योपेक्ष्य कथं यास्यामेतत्कार्यं कथंचन ।
निवार्यमनुगृह्यैव क्रौर्यमस्येत्यथाब्रवीत् ।। ३५ ।।
अहो किमिदमुत्सृज्य मृगयासौख्यमान्तरं ।
वृथा क्लिश्नासि बहुधा बहिर्मृगयुतां गतः ।। ३६ ।।
प्रभोर्वाक्श्रवणेनैव तद्दर्शनहतैनसः ।
तस्याभून्मतिरुत्कृष्टा महत्संगो हि तादृशः ।। ३७ ।।
उवाच स प्रभुं हर्षात्प्रणम्य पदपद्मयोः ।
पृ० ३८) भक्त्या परमया युक्तस्त्यक्तशस्त्रः कृतांजलिः ।। ३८ ।।
मामन्तर्मृगयासौख्यमुपदिश्य कृपानिधे ।
कृतार्थयेति विज्ञप्तः प्रभुः प्राह कृतानतिं ।। ३९ ।।
कायः काननमत्र तिष्ठति मृगोऽहंकारनामा शुन-
स्तद्ग्रासैकचणान्मनो निगलतो बध्वेंद्रियाण्यत्यजन् ।
नीत्वा वायुनिरोधजालवलयं सुज्ञानदृक् तं मृगं
धृत्वा धैर्यधनुर्विवेकमृगयुस्तद्वेधदक्षो भवेत् ।। ४० ।।
सोऽहंभावशरं शरासनगुणे संधाय तं पातयं-
स्तेन ज्ञानधनंजये सुरुचिरं पक्त्वा शिवस्यार्पयन् ।
भक्षेदित्युपदिश्य सद्गुरुवरस्तेनापि तत्कारय-
न्नानंदामृतसिंधुमग्नहृदयं चक्रे किरातं क्षणात् ।। ४१ ।।
इत्थं किरातमनुगृह्य ततोऽवरुह्य श्रीपर्वतादथ तदुत्तरदेशमार्गे ।
गच्छन्प्रभुर्निजपदांबुजदर्शनेन संक्षीणपूर्वकलुषान्
व्यतनोदशेषान् ।। ४२ ।।
ये मानिनीस्तनभराहितदृग्विलासाः कामस्य किंकरजना
रतिसौख्यलुब्धाः ।
ते चापि तं प्रभुमवेक्ष्य विवेकनिम्नाः सन्मानतः सुगतिमेव
ययाचिरेऽद्धा ।। ४३ ।।
पृ० ३९) नानाजनपदगतजनानामल्लमकृतनानाविधोपदेशः ।
तानल्लमोऽप्यतनुतान्तरकुण्डलिन्याः शक्तेः प्रबोधनवशाद्युवतेः
शुभांग्याः ।
गोष्ठ्या विरक्तिभरितान् विकसद्विहारानानन्दमग्नहृदयानवनौ विचित्रं
।। ४४ ।।
अन्यांस्तथानुसरतो रससिद्धिकामानात्मीयबिंदुमयदिव्यरसं निरुध्य ।
अन्तर्दृढं भजत सिद्धिसुखं तदीयमित्यादिदेश
भगवानखिलांतरात्मा ।। ४५ ।।
संप्रार्थितो रसघुटीपटुसिद्धिमन्यैः प्राह प्रभुः स्मितमुखो रस एव
बिंदुः ।
निष्पंदवायुरतुलौषधमात्मचित्तं मूषाऽग्निरेव मणिपूरपदं विदन्तु
।। ४६ ।।
धृत्यैव तस्य परिपाकवशेन जाता सैवोन्मनी रसघुटी
स्फुटमात्मसिद्धा ।
लब्ध्वैव तां हरमहेशसदाशिवोर्ध्वस्थानाप्तिरेव निजसिद्धिरियं हि
नित्या ।। ४७ ।।
इत्यल्लमः क्षितिजनानुपदिश्य सारं संरक्ष्य तानथ गतः पुरतो
ददर्श ।
अन्यत्र वन्यफलपुष्पसमग्रमग्र्यं मुन्याश्रमं
श्रमनिवारकमाश्रितानां ।। ४८ ।।
पृ० ४०)
माकंदचंदनकपित्थरसालसालमालूरचंपकमुखाखिलशाखिसांद्रं ।
सत्यव्रतैः समयिभिः कृतनित्यकृत्यनैमित्तिकादिनियमैः परितः परीतं
।। ४९ ।।
यत्राह्वयन्ति विरुतैरतिथीनिवासन्माकंदशाखिषु पिका मधुरैः
समंतात् ।
आगच्छतात्त
पिबताध्वमखण्डसौख्यास्सत्कंदमूलफलसाररसान्मदीयान् ।। ५० ।।
तृष्णां निवारयत निर्मलवारिपूरैरागच्छतेति सरसीषु समाह्वयन्तः
।
आभान्ति हंसकलहंसरथांगरंगत्क्रौंचादिपक्षिनिवहा
ललितैर्निनादैः ।। ५१ ।।
वृद्धेषु तापसवरेषु गृहीतकीशहस्तावलंबनपरेषु नदीनदादीन् ।
गच्छत्सु तत्र तदुपर्यनुयान्ति कीराश्छायार्थमेव
विकसन्निजपत्रसांद्राः ।। ५२ ।।
यस्मिंस्तपःकृशमुनींद्रजटाभरैस्तैः
संताडितोच्छ्वसितभोगिगणश्रमाम्भः ।
प्रोत्सादयन्ति मदहस्तिघटाः स्वकीयश्रोत्रछलव्यजनवीजनतः समन्तात्
।। ५३ ।।
पृ० ४१) वनपशुकृतमुनिसेवनवर्णनम् ।
मासोपवासमुखघोरतरव्रतस्थान् यत्रासनस्थिरतया रहितान् विलोक्य ।
तिष्ठंति पृष्ठत उपेत्य बलार्थमेषां व्याघ्राः
स्वपृष्ठभृततत्तनवो महान्तः ।। ५४ ।।
पंचाग्निमध्यतपसा परितप्यमानान् दृष्ट्वा मुनीनिभगणः
करपूरिताम्भः ।
आनीय तत्सविधदेशमहो समन्तात्संसेचयत्यनुदिनं विनयेन नम्रः ।। ५५
।।
वाचंयमेषु जरठेष्वथ यत्र मौंजीनिर्मित्सयोद्यतकरेषु
गृहीतदर्भाः ।
आगत्य तांस्तदुपयुक्ततया विदार्य यच्छंति तत्करतले स्वयमच्छभल्लाः
।। ५६ ।।
हंसाश्च यत्र बिसकाण्डचयं विभज्य
चंचूभिरंचदतिसूक्ष्मतदीयतंतून् ।
आकृष्य ऋष्यधिपभावितयज्ञसूत्रकृत्यै ददत्युदितभक्तिरसास्तदानीं
।। ५७ ।।
छात्रेषु यत्र समिदाहरणालसेषु नश्येद्बताग्निरिति वृद्धकपिव्रजोऽपि ।
आनीय तत्र समिधः स्वयमादधाति बर्ही स्वबर्हविसरैर्ज्वलितं करोति ।।
५८ ।।
यत्रावधाननिपुणाः शिवयोगनिद्रां संप्राप्नुवन्ति मुनयो
हतकर्मपाशाः ।
पृ० ४२) तत्पर्णवेश्मनिकटे सततं मृगेंद्रा रक्षार्थमेव निवसन्ति हि
जागरूकाः ।। ५९ ।।
वेदत्रयं पठति यत्र तदर्थबोधमभ्यस्यति स्फुटमुपन्यसनं च
वाग्भिः ।
तर्कादिशास्त्रसमितेर्विदुषां समूहे कुर्वत्यनूच्चरति कीरगणस्समन्तात्
।। ६० ।।
मंत्रागमार्थरसिकोदितसामगानैः
श्रौषड्वषट्प्रमुखतांत्रिकघोषणैस्तत् ।
आलिंपताचरत रंगलतां विधत्तेत्यर्घ्यादिशोधनमुदाररवैश्च रेजे ।।
६१ ।।
किंचातिथीन् कुतपकालसमागतांस्तानभ्यर्च्य मृष्टमशनं प्रयता
ददध्वं ।
इष्टं व्रतिभ्य इति चार्चयतेति भिक्षूनश्रूयतात्र बटुकान् प्रतिगौरवी
वाक् ।। ६२ ।।
रुद्राक्षभस्मविलसद्वपुषां मुनीनामत्यद्भुतांतरतपस्सु समाहितानां
।
कर्षन्ति तानवयवान्हरिणा निजांगैर्हर्षेक्षणाम्बु च पिबन्ति
शुकीशुकाद्याः ।। ६३ ।।
पृ० ४३) मुनीन् दृष्ट्वाऽल्लमस्य स्वमनसि विचारः ।
एवंविधं मुनिवनं रुचिरं विलोक्य हृद्यल्लमोऽमनुत तेषु कृतानुकम्पः ।
आहो प्रयासबहुलाल्पफलं हि कर्म कुर्वन्त्ययोमयविभूषणवद्वृथाऽमी
।। ६४ ।।
ग्रामान्गृहाणि च विसृज्य महाटवीषु
स्थित्वाप्यथेश्वरपदाम्बुजयोरकृत्वा ।
ध्यानं प्रबोधरहितास्तृणपर्णभाजो यज्ञादि कर्म बहुलं पटतां
प्रयान्ति ।। ६५ ।।
आहो न सन्ति शयनासनभोजनादौ घोराटवीषु रमणीयगृहाण्यमीषां
।
नाच्छादनाय कमनीयदुकूलशाट्यो वल्कानि कर्कशतराणि तु कष्टमेतत्
।। ६६ ।।
धर्तुं न रत्नखचितोज्ज्वलभूषणानि रुद्राक्षतामरसबीजसरान् विना
स्युः ।
नित्याग्निहोत्रकृतभूतिमृतेन चैषां
श्रीचंदनागरुमृगीमदमुख्यगन्धाः ।। ६७ ।।
क्षुत्तृष्णयोः प्रशमनाय तरुहदादीनाश्रित्य घोरतपसा किमु
साध्यमेषां ।
स्वर्लोकसौख्यमनुभूय तु भूय एव क्षोणीं गताः किमु पुनर्न पतंति
मायां ।। ६८ ।।
पृ० ४४) मायाऽऽत्मतत्वविदुषा प्रथमं हि जेया
तत्साधनौपयिकदिव्यकलामबुध्वा ।
एतद्भयानकजडाधिककर्मपाशैर्बंधं स्वयं द्रढयितुं प्रमदः
किमेषां ।। ६९ ।।
स्नानं यदि त्रिषवणं भुवि मुक्तिहेतुर्मीनादयो जलचराः किमु
मुक्तिभाजः ।
नश्येद्भवः स्वयमधःकरणेन शीर्ष्णस्तर्हीदृशी हि जतुका किमु
बंधमुक्ता ।। ७० ।।
किं मौनमात्रविजिता भवतीह माया मीनग्रहाय न बकः किमु मौनमास्ते
।
शास्त्राण्यधीत्य सकलानि किमार्जितव्यं कीराः पठन्ति न
किमप्युदितानुसारात् ।। ७१ ।।
किं वायुभक्षणपरो भुवि मोक्षमेति व्याला ग्रसन्ति पवनं न किमास्तथा
चेत् ।
तत्कर्मजाड्यभरितादपसर्पतीयं माया कदापि नहि तेन विना न बोधः
।। ७२ ।।
ज्ञानं विना न खलु कर्मशतैश्च मोक्षो मायापसारणमृते नहि
बोधलेशः ।
माया क्रिया हि तदिदं रभसादबुध्वा भ्रान्त्या
क्रियामनुसरन्त्यविवेकनिम्नाः ।। ७३ ।।
पृ० ४५) मुनीन् प्रत्यल्लमस्य तत्वोपदेशः ।
वापीतटस्थितशिशुर्हि कृपान्वितेन ग्राह्यस्तथैव मुनयोऽपि मुमुक्षवोऽमी
।
तत्वोपदेशविधिनैव नयान्मयानुग्राह्या इति प्रभुरवोचत तान् विलोक्य ।। ७४
।।
किं संकटेन भवतामृषयः क्रियाया नानंत्यमस्ति फलितस्य
बहुप्रयासात् ।
मोक्षाप्तये सुलभमेव वदाम्युपायं श्रद्धान्विताः शृणुत
भाग्यवशान्मदुक्तं ।। ७५ ।।
श्रुत्वा प्रभोर्वचनमुत्कलिकाधिरूढैस्संप्रार्थितोऽथ
मुनिभिश्शुभकांक्षिभिस्तैः ।
आज्ञापयात्महितमार्य वयं हि शिष्या मोक्षैकसाधनमिति प्रभुराह
भूयः ।। ७६ ।।
येनापि केन विधिना भजतामहिंसामुख्यं विमुक्तिगतिसाधनमामनंति ।
तत्कर्मयोगघटिता भवतां हि हिंसा त्याज्या सदैव खलु सा
शिवयोगिवर्यैः ।। ७७ ।।
हिंसंति ये जगति संप्रति जन्तुवर्गांस्तानंतकस्तदनु सत्यमिदं हिनस्ति
।
तत्कर्मजाड्यमिदमुत्सृजतान्तरंगे विज्ञानकर्मकृतिमर्म वदाम्यमोघं ।।
७८ ।।
पृ० ४६) अन्तर्यागविधीरितः पशुरहंकारो मरुत्पूरणं
रज्जुर्यूप इतीर्यते मन इदं विज्ञानमग्निः सुधा ।
चांद्री सोमलतारसो ग्रहगणाः सौषुम्नचक्राण्यमू-
न्यात्मासौ यजमान ईप्सितफलं मोक्षैकसिद्धिर्भवेत् ।। ७९ ।।
इत्यन्तर्मखतत्वबोधघटिताः कर्माणि निर्मूल्य ते
भूयो निर्मलशैवयोगभरितज्ञानाख्ययज्ञे दृढं ।
दीक्षां प्राप्य गुरुप्रभोः करुणया निर्धूतहृत्संशया
मायापाशमतीत्य नित्यपरमानंदाम्बुधौ रेमिरे ।। ८० ।।
संध्याजपश्रवणशास्त्रविचारयोगनिष्ठाग्निहोत्रनिगमाध्ययनार्यपूजा
ः ।
सर्वाः क्रियाः परशिवे परिपूर्य पूर्णास्तेऽन्तर्विचारपरमा मुनयो
बभूवुः ।। ८१ ।।
प्रभुगुरुकरुणापांगेक्षणैरीक्षितास्ते सपदि
विगतबन्धास्संप्रदायैकनिष्ठाः ।
परशिव इति देवं पंडितास्ते विदित्वा पुनरपि कृतपूजाः प्राहुरेनं
मुनींद्राः ।। ८२ ।।
गुरुवर भुवि मायोत्पत्तिकाले मुनीनां सकलनिगमकृत्येष्वाहतेषु त्वमेव ।
पृ० ४७) मुनिकृतप्रभुस्तुतिवर्णनम् ।
हृदयकुहरवासी तावदस्मानरक्षीरिदमपि विदितं नः साधु दुर्वासैव
।। ८३ ।।
परमपुरुष युष्मत्सेवयाऽद्वैतमुक्तिः करतलकलिता न कारणं
भाग्यमत्र ।
इति मुनिभिरधीशः स्तूयमानः समन्तादनुमतिमथ दत्वा
स्वान्तरन्तर्हितोऽभूत् ।। ८४ ।।
अथ पुनरपि भक्तान्रक्षितुं तत्र तत्र स्वयमपि
परिदृश्यस्साधुचित्तैक्यवश्यः ।
चरगुरुशिवलिंगाराधनं साधकानां प्रतिपदमुपदिश्य श्रीगुरुः
संचचार ।। ८५ ।।
त्रिपुरभिदनुमत्या ये गणा भूमिभागे विदितसकलवृत्ताः
पूर्वविज्ञानयुक्ताः ।
इह जनिमलभन्त ब्राह्मणाद्यन्ववायेष्वधिकृतशिवदीक्षास्ते प्रभुं
प्राप्य हृष्टाः ।। ८६ ।।
प्रमथकुलमिदं नः पावनं लोकरक्षाकरधृतशिवदीक्षं नास्ति
भेदोस्य किंचित् ।
अकुलमपि कुलानामग्रतः पूजनीयं भवतु मधुवशादित्यब्रवीद्देवदेवः
।। ८७ ।।
अधिगतशिवदीक्षा अन्यकर्मस्वसक्ता
जगदवनधुरीणाश्चारुगार्हस्थ्यधर्माः ।
पृ० ४८) दृढपरमविरागा ये निराभारदीक्षा यतिमुनिमतरीत्या ते
भवन्तीत्युवाच ।। ८८ ।।
चरगुरुशिवलिंगाराधनार्थं स तेषां प्रतिदिनमखिलार्थानार्जितुं
कायिकानि ।
तदनुगुणविधानि स्वैरमाज्ञाप्य देवो भुवनमखिलमेतद्वीरशैवं चकार
।। ८९ ।।
व्यवहृतिमवलंब्याप्येष भक्तान्ववायो मम
चरणसरोजध्याननिर्धूतदोषः ।
भवतु हृदयनिष्ठां तामसीं तां च जित्वा चरगुरुशिवलिंगाराधने
जागरूकः ।। ९० ।।
इति गुरुरुपदिश्य स्वात्मतत्वोपदेशं शिवमतहितरीत्या
स्वान्तरन्वग्रहीत्तान् ।
तदनु तदनुमत्या ते परं शीलवन्तस्सततमभवभक्त्या वर्द्धमाना
बभूवुः ।। ९१ ।।
कथितमखिलमेतत्साधकानुग्रहार्थं प्रभुगुरुचरितं वः शौनकाद्या
मुनींद्राः ।
पठति परमभक्त्या यः शिवाराधनान्ते प्रभुरधिकममुष्मै
वांच्छितार्थं ददाति ।। ९२ ।।
इत्यार्षे श्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
साधकानुग्रहवर्णनगतिर्नाम विंशोऽध्यायः ।
पृ० ४९) नंदिकेश्वराय नमः ।।
अथ एकविंशोऽध्यायः ।।
श्रीसिद्धेश्वरवीरदेशिकपदाम्भोजार्चनातत्पराः
श्रुत्वा भक्तिरहस्यमेव गुरुणा तेनोपदिष्टं महत् ।।
नंदीशो बसवाह्वयः समतनोद्यच्छून्यसिंहासनं
तच्छ्रोतुं रसिकाः प्रभोश्चिदमला लीलाऽनुसंधीयतां ।। १ ।।
अथात्र कल्याणपुरेऽल्लमप्रभोर्महोपदेशात्प्रतिभासमृद्धिमान् ।।
प्रवृत्तिमार्गं बसवः परित्यजन्निवृत्तिमार्गैकरसो बभूव सः ।। २ ।।
ततोऽस्य कामाद्यरिनाट्यवैभवं विभग्नमासीद्गलिता गुणोद्धतिः ।।
दृगिंद्रियाणां प्रमदो लयं गतो मदास्तथाष्टौ दलिताः पलायिताः
।। ३ ।।
षडूर्मयः स्थातुमितो भयान्वितास्तथैव कर्मेंद्रियधैर्यमाहतं ।।
गतोऽस्य षड्भावविकारसंभ्रमो मनस्तु तस्य स्तुतिनिंदयोः समं ।। ४ ।।
तदंतरंगं शिवयोगसत्क्रियासदासमभ्यासधुरीणतां ययौ ।।
जितोपसर्गस्य गुरोरनुग्रहाद्बभूव संतोषसमृद्धिरात्मनः ।। ५ ।।
पृ० ५०) स्वयं ततोऽन्तर्मुखमार्गमाश्रितः प्रबोध्यतां कुण्डलिनीं
क्रमादयं ।।
क्षणादृजूकृत्य तदीयवक्रतां ययौ तदाधारमहागृहांगणं ।। ६
।।
ततोऽस्य तद्द्वारकवाटबाह्यतो निहत्य कामं जितकालतां गतः ।
प्रविश्य तत्रोपरि हृत्सरोरुहे भवभ्रमोच्चाटनतत्परोऽभवत् ।। ७ ।।
तदूर्ध्वगो भ्रूयुगमध्यमण्डले सुबिंदुरत्नं स्थिरतामवापयन् ।
निजानुभूत्या बसवोऽन्वभूच्चिरं प्रबोधसाम्राज्यसुखं हृदन्तरे ।। ८ ।।
अथैष योगः सगुणो वशंगतः कथं पुनर्निर्गुणयोगसाधनं ।
गुरुः कदाऽऽगत्य ममोपदेशनं करिष्यतीत्यंतरचिंतयच्चिरं ।। ९ ।।
कदाऽल्लमोऽमेयमहाप्रभाववान् गृहं समायास्यति भाग्यतो मम ।
कदा मदीयान्तरसंशयच्छिदा प्रभूपदेशादचिराद्भविष्यति ।। १० ।।
मदन्तरंगस्थितमीदृशं सुखं कदा भवेद्वा सहजं कृपावशात् ।
पृ० ५१) शून्यसिंहासननिर्माणोपक्रमः ।
चिदंबरेशस्य महानटात्मनः कथं निरालंबतया प्रवर्तनं ।। ११ ।।
स केन वेषेण कयाऽपि भाषया क्व केन रूपेण गुरूद्वहः स्वयं ।
समागमिष्यत्यथ तद्विभावने ममास्ति किं वा सदुपायचिन्तनं ।। १२ ।।
मयाऽप्रमत्तेन सदाऽवधार्यमित्ययं कृतोहः प्रभुणा पुरात्मनः ।।
अनुग्रहोक्तं गुणयोगमाश्रयन्नुपासनामेव दृढीचकार सः ।। १३ ।।
स इत्थमात्मन्यवलोक्य शांभवीप्रपंचमभ्यंचितभद्रपीठवत् ।
विभाव्य तत्राल्लमसद्गुरूत्तमं निवेश्य सद्भक्तिरसादपूजयत् ।। १४ ।।
हृदन्तरस्थं सुदृढं विभाव्य तद्बहिश्च पूजार्थममुष्य सद्गुरोः ।
स शून्यसिंहासनमेकमद्भुतं सुशिल्पिना कारयितुं समुद्यतः ।। १५ ।।
स तप्तजांबूनदराशिमुज्ज्वलं महार्घरत्नौघचयं समानयन् ।
क्षितौ क्रियाकौशलवत्सुशिल्पिनस्समाह्वयामास विचार्य पंडितैः ।। १६ ।।
तदाज्ञया निर्ममिरे सुशिल्पिनः सुधांशुकान्तोपलकुट्टिमं पुरः ।
तथास्य सोपानततीर्हरिन्मणीसुहीरगोमेधिकवालवायजैः ।। १७ ।।
पृ० ५२) क्रमेण तस्योपरि यत्ननिर्मिता सुवर्णरत्नालिभिरुन्नतोन्नताः ।
पृथग्यथान्यायमवेक्ष्य शिल्पिभिः प्रदीप्तसप्तावरणोरुभित्तयः ।। १८
।।
तदन्तरालेषु धगद्धगायिताः प्रकीलिताः स्युर्नवरत्नपंक्तयः ।
अनन्यसामान्यमशोभताद्भुतं चिदभ्रपीठं बसवेन निर्मितं ।। १९ ।।
बहिर्नवद्वारसुशोभितं पुरं तदन्तरे द्वारचतुष्टयोज्ज्वलं ।
तदुन्नतद्वारयुगान्तरालयं रराज तद्द्वारमथोर्ध्वमेककं ।। २० ।।
तदन्तराधारसुलिंगनाभिहृद्विशुद्धिसद्भ्रूयुगमध्यचित्रितं ।
क्रमेण षट्चक्रपथं निधाप्य तच्छिरस्यधुर्ब्रह्मबिलाख्यचक्रकं ।। २१
।।
धराम्बुबर्हिर्मरुदभ्रमण्डलान्युपर्यधो जीवपरौ न्यधापयन् ।
सुभक्तमाहेश्वरमुख्यषट्स्थलान्यनुक्रमात्पीठवरे न्ययोजयन् ।। २२ ।।
क्षितौ तु काठिन्यमथाम्बुनि द्रवं सदौष्ण्यमग्नौ चलनं प्रभंजने ।
पृ० ५३) शून्यसिंहासनरचनावर्णनम् ।
तथावकाशं गगने च शून्यतां विचित्रमात्मन्यपि स न्यधापयन् ।। २३ ।।
इडोत्तरे दक्षिणतश्च पिंगला सुषुम्नया मध्यगया प्रकल्पिते ।
तयोर्द्वयोश्चंद्रदिवाकरावुभौ यथा स्वयं संचरतस्तथाहि तौ ।। २४ ।।
रराज वीधीपुरि तालुमूलसत्पदोत्तरद्वादशिकान्तभूमिगा ।
चिदंबरं तच्छिखरोपरि स्फुरन्महार्हसिंहासनमुन्नतं बभो ।। २५ ।।
सुशून्यसिंहासनमध्यमे महान्सदाशिवाख्यस्तरुरस्ति निस्तुलः ।
यदस्य मूलं प्रणवः परः स्वयं लतास्तु पंचाक्षरदिव्यचित्कलाः ।।
२६ ।।
सुमानि वर्णानि पदानि सत्फलान्यमुष्य नादो हि विमुक्तिदो रसः ।
स्वरः प्रकाण्डस्सकलार्थदायको महाद्रुमो रत्नमयो विराजते ।। २७ ।।
महाद्रुमस्यास्य लतेव संगता फणींद्रमूर्धन्यमणिद्युतिर्यथा ।
बभौ स्वयं ज्योतिरमेयचित्कलाशिखेव दीव्यच्छिवतत्वभूरुहः ।। २८ ।।
अहो समस्तानि च साधनान्ययं स्वयं प्रपेदे बसवो विमुक्तये ।
पृ० ५४) स पंचभूतोर्ध्वमहाचिदंबरे चतुर्दशामूनि जगन्त्यवासयत् ।।
२९ ।।
समस्ततत्वोपरि शून्यपीठिकां जगन्नुतां कारयति स्म सोद्भुतां ।
अहो विचित्रं सकलाश्च देवता यथातथं स्थापयति स्म तत्पुरे ।। ३० ।।
यदत्र नाडीस्सकलाश्च तद्गता मरुन्मयी कुण्डलिनीः सशक्तिकाः ।
निधापयामास सुभक्तिसत्कलास्तथा क्रियाज्ञानकलाश्च मर्मवित् ।। ३१ ।।
सबीजनिर्बीजसमाधियोगयोर्महारहस्योचितकोणनिर्मितिं ।
स्वयं यथादृष्टमकारयन्महानसौ शरण्यो बसवो जगत्त्रये ।। ३२ ।।
भिदा न पिण्डाण्डयुगस्य केवलं विमृश्यतां साधुभिरित्ययं बुधः ।
विकासयामास बहिर्निजान्तरं ययेत्थमस्तूयत सोऽखिलैर्जनैः ।। ३३ ।।
चिदभ्रसिंहासनमीदृशं महत् गुहेश्वराराधनदिव्यसाधनं ।
निजात्मरूढं बसवो विनिर्मितं विभाव्य संतुष्टमना बभूव सः ।। ३४
।।
पृ० ५५) शून्यसिंहासनं दृष्ट्वा बसवेश्वरस्य विचारः ।
यदत्र चित्रं सकलं हृदि स्थितं नयेन विज्ञाय धियाऽधिरोहणे ।
समर्थ एकः प्रभुरेव नान्य इत्यमन्यतानंदनिमग्नमानसः ।। ३५ ।।
य एव धीरः स्वयमेत्य मद्गृहं महत्वमस्य प्रतिबुध्य निर्भयः ।
समाधिरोक्ष्यत्ययमेव मे प्रभुः स्वरूपबोधेऽयमुपाय एव नः ।। ३६ ।।
इति प्रतिज्ञाय मतौ व्रती भृशं बुधैकगोष्ठ्या समयं नयन्नयम् ।
समागतानां विदुषां प्रदर्शयंश्चिदभ्रपीठं बसवाधिपः स्थितः
।। ३७ ।।
गतिर्हि लिंगं भुवि मानसौकसः स्वरो हि लिंगं मधुरो पिकस्य सः ।
शुकस्य वाग्लिंगमनूदिताक्षरा प्रभोस्तु लिंगं यदिहाधिरोहणं ।। ३८
।।
विना न सूर्यद्युतिमक्षिगं तमो विनश्यति क्षोणितले यथा तथा ।
विना प्रभोर्दर्शनमीश्वरस्य मे न जातु माया कुटिला विनश्यति ।। ३९ ।।
पृ० ५६) इति स्वयं चेतसि निश्चयं गतः प्रतीक्षमाणः स्वगुरोः
समागमं ।
पुरेव भक्त्या चरलिंगपूजनं समाचरन्नास्त स दण्डनायकः ।। ४० ।।
तत्काले बसवाधिपस्य भवनं भुक्त्यर्थमेके गता
केचिद्वेषधराश्च याचनपराः केचित्तु वेश्यारताः ।
तद्योग्यांबरभूषणादि बसवादाकृष्टुमप्यागता
ये तेषां गणनैव नास्ति नियता लक्षोपलक्षाधिकाः ।। ४१ ।।
तेष्वेकोऽपि न दिव्यपीठममलं द्रष्टुं न शक्नोति त-
त्पृष्टस्तत्र स येन केन बसवो वेत्तीति वक्ति स्फुटं ।
तेनैतत्कथमद्भुतं नियमितं ज्ञातुं कथं शक्यते
लोके दृष्टचरं जनैरनुभवज्ञानं विनेति ब्रुवन् ।। ४२ ।।
आहो चिद्गगनासनं निरुपमं ब्रह्मादिभिर्वा कथं
ज्ञातुं चेतसि वा निमज्य बहुधा शक्येत लोकोत्तरं ।
एको वेत्ति बुधाग्रणीस्स बसवो यद्वाऽल्लमो देशिक-
स्सर्पा एव विदंतु तद्गतिमिति प्रोचुश्च सर्वे चराः ।। ४३ ।।
मंत्रे नादलये हठे परिचितास्सद्यंत्रतंत्रोर्जिता
वेदान्तेष्वधिकास्तथैव कुशलाः षड्दर्शनज्ञानिनः ।।
पृ० ५७) बसवस्य प्रभोरागमनविषयकोत्कण्ठावर्णनम् ।
ये दृष्ट्वांऽबरपीठमद्भुततमं दूरान्नमस्कृत्य ते
दुर्ज्ञेयो बसवेश्वरस्य महिमेत्यूचुः शिरःकंपनैः ।। ४४ ।।
क्व नु गृहमधिगत्य श्रीगुरुर्मे दयालुर्ललितगगनपीठं
तावदारोक्ष्यतीति ।
तदमलनिजमूर्त्तिध्याननिष्ठागरिष्ठो बसवविबुधमौलिः
स्वान्तरुत्कंठितोऽभूत् ।। ४५ ।।
इति कथितममोघं शून्यपीठीमहत्वं पठति परमभक्त्या यस्सदा
सन्मुनीन्द्राः ।
प्रभुगुरुकृपयैव प्राप्तसर्वार्थसिद्धिस्स महितशिवभक्तिः
स्थैर्यमायाति धन्यः ।। ४६ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां
शून्यसिंहासनमहिमाऽनुवर्णनगतिर्नाम एकविंशोऽध्यायः ।।
पृ० ५८) श्रीनंदिकेश्वराय नमः ।।
अथ द्वाविंशतितमोऽध्यायः ।।
सूत उवाच ।।
श्रीसिद्धवीरेश्वरदेशिकेंद्रश्रीपादुकाभक्तिरता मुनींद्राः ।
निर्देहतत्वस्य यतींद्रमौलेः प्रभोरमेयस्य कथां शृणुध्वं ।। १ ।।
प्राणेश्वरे दूरगते सुसाध्वी यथा सपुष्पा फलकांक्षिणी स्त्री ।
रत्युल्बणं सोढुमशक्नुवाना चिंतां तदीयागमने करोति ।। २ ।।
तथा प्रभोरागमनेऽनुभूतिस्सुखाभिलाषी बसवाधिनाथः ।
सबीजयोगोदितभक्तिपूर्णश्चिंतां दुरन्तां हृदये ततान ।। ३ ।।
अहो तदारोहणयोग्यमुद्यच्चिदभ्रपीठं रचितं मयैतत् ।।
गतास्ततो द्वादशवत्सराश्च प्रभुर्महात्मा न समागतोऽभूत् ।। ४ ।।
प्राणेश्वरेऽस्मिन्ममता मदीया नो याति पारं कथमप्युदीर्णा ।
आगत्य वैकल्यमदो निरस्य चित्तस्य देवः क्व दयां करोति ।। ५ ।।
अर्चावदीशश्शिवयोगमर्म स्वान्ते मदीयेऽधिगमयय सम्यक् ।
पृ० ५९) बसवेशस्य प्रभोरागमनविषयकचिंतावर्णनम् ।
अनुग्रहिष्यत्यखिलान्तरात्मा कदा नु संधास्यति वा मुदं हृत् ।। ६ ।।
प्रज्ञाबलान्मत्कृतदिव्यपीठं राज्ञा यथाज्ञातसुभृत्य कृत्यं ।
तथाऽल्लमेन्द्रानधिरोहणेन वृथा कथं स्यादथवेश्वराज्ञा ।। ७ ।।
इत्थं हृदन्तर्बसवो विचिंत्य स्वयं बहिःस्थातुमनौचितीति ।
एकान्तमासाद्य यथोपदेशं प्राणान् रुरोधासनबन्धधीरः ।। ८ ।।
अर्थेभ्य आहृत्य दशेंद्रियाणि तानि क्रमात्स्थूलतनोर्वियोज्य ।
लिंगानुसंधैक्यपदे सुसूक्ष्मे संस्थापयामास समाधिनिष्ठः ।। ९ ।।
जिता यतः पूर्वसबीजभूमिः प्रभोः कृपायास्तत एव धीरः ।
अवाप्तनिर्बीजसमाधिभूमिश्चिरं निजानंदमयो बभूव ।। १० ।।
समाधिसौख्यानुभवेन नित्यं व्युत्थानकालेऽपि जगत्समस्तं ।
लिंगात्मकं नान्यदिति स्थिरात्मा पुनःपुनश्चापि समाहितोऽभूत् ।। ११ ।।
कदाचिदागत्य समाधिकाले सुनिर्मलेऽन्तर्मुखदर्पणेऽस्य ।
प्रभुः स्फुरन्प्रीतमना विभूतिं दधौ स्वयं निर्मलतत्वरूपां ।। १२ ।।
पृ० ६०) महाप्रसादोऽयमिति प्रभोस्तद्विभूतिमादाय स दण्डनाथः ।
आनंदबाष्पांचितनेत्रपद्मो बभूव भक्त्या पुलकांकितांगः ।। १३ ।।
अन्तर्हितोऽभूत्प्रभुरल्लमोऽथ व्युत्थाय सद्ध्यानसमाधियोगात् ।
विस्फूर्जदत्यूर्जितदक्षनेत्रभुजांगयष्टिर्बसवो बभूव ।। १४ ।।
स भागिनेयं सुगुणाभिधेयं छन्नाह्वयं सज्जनताविधेयं ।
स्वयं समाहूय समाधिदृष्टं विस्पष्टमस्मै कथयांबभूव ।। १५ ।।
यो वेदशास्त्रादिभिरप्यवेद्यस्सोऽयं परं ज्योतिरनादिराद्यः ।
परः शिवोऽस्मत्प्रभुरागतोऽस्मान्नानंदयिष्यत्यचिरेण देवः ।। १६ ।।
इत्थं तदाज्ञापितमात्मनीनं छन्नाभिधोऽयं बसवो निशम्य ।
आनंदलीलामृतपारवश्यात्प्रत्युद्गमोद्युक्तमना बभूव ।। १७ ।।
उत्कण्ठितस्तत्क्षण एव सोऽयमाहूय तान्कर्मकरानशेषान् ।
प्रसाधनायास्य पुरस्य शीघ्रमाज्ञापयामास विभुः समन्तात् ।। १८ ।।
पुरीमलंचक्रुरिमे समन्तात्संमार्ज्य धूलीः परवीथिकासु ।
पृ० ६१) कल्याणनगरस्वच्छताकरणम् ।
सत्कृत्य गन्धोदकसेचनेन पुष्पाणि सर्वत्र तथोपजह्रुः ।। १९ ।।
प्रासादसौधोपरि गोपुरेषु सालेष्वथाट्टालकतोरणेषु ।
सुवर्णकुंभोपरि दर्पणोद्यद्ध्वजावलीसन्नहनं प्रचक्रुः ।। २० ।।
तदुत्सवं पौरजनाः समन्तादाकर्ण्य तत्तद्भवनांगणेषु ।
कस्तूरिकाम्भोभिरथानुलिप्य व्यचित्रयन्मौक्तिकरंगवल्लीः ।। २१ ।।
भित्तीरलंकृत्य विचित्रजालैस्सर्वत्र रत्नोज्ज्वलहेमदण्डान् ।
संस्थाप्य तत्रोपरि दीप्यमाना वितानपंक्तेः परितो बबन्धुः ।। २२ ।।
मुक्तावलिस्वच्छगुलुच्छरेखाः सन्नह्य तद्वन्मणिमालिकाश्च ।।
मध्ये कनद्वर्तुलदर्पणालीर्वितानगर्भेषु विनिन्युराढ्याः ।। २३ ।।
रंभोज्ज्वलस्तंभविराजितानि द्वाराणि जांबूनदवस्त्रकूर्चैः ।
सपल्लवैस्सन्मणितोरणैश्च विभूषयामासुरभूतपूर्वं ।। २४ ।।
गृहे गृहे प्रोन्नतकेतनानि प्रबध्य वीथीषु च वाद्यघोषैः ।
यथेनरश्मिः प्रसरेन्न किंचित्तथा बबन्धुर्मणितोरणानि ।। २५ ।।
पृ० ६२) घुमंघुमामोदलसत्प्रसूनप्रवालरत्नावलिभिः समन्तात् ।।
धूपैश्च कस्तूरिसुगंधिलेपैरलंप्रचक्रुः पुरि पण्यवीथीः ।। २६ ।।
कल्याणमेतन्नगराधिराजं समस्तकल्याणगुणाभिरामम् ।
लक्ष्मीसरस्वत्युपलाल्यमानं लक्ष्यं बभूवामरपुंगवानां ।। २७ ।।
महोत्सवस्तद्बसवाधिपस्य गृहे सुधर्माधिपतेरिवासीत् ।
उघे हरेति ध्वनिभिर्गणानां लघूकृतोऽभून्मथितांबुराशिः ।। २८ ।।
तदाऽल्लमो मे प्रभुरागमिष्यत्यहो कदा कैस्सह किं प्रकारः ।
न बुध्यते संप्रति कुत्रवीथ्यामिति स्म दध्यौ बसवो हृदब्जे ।। २९ ।।
स्थातुं न युक्तं सदने विधेयः प्रत्युद्गमो द्रागिति भक्तसंधैः ।
स दण्डनाथः सकलैः सभायां विनिर्ययावल्लमदत्तचित्तः ।। ३० ।।
प्रत्युज्जगाम बसवो मणिवालनाथश्रीमाचयार्यवरकिन्नरसंयमिभ्यां ।
सच्छन्नवीरबसवः प्रभुलिंगमूर्तेरासेवितो हठपदार्पणसूरिणा सः
।। ३१ ।।
पृ० ६३) बसवस्य प्रभोः प्रत्युद्गमनवर्णनम् ।
अन्यैरनन्यहृदयैरभितो गजाश्वारूढैर्गणैः परिवृतो
गणनातिगैस्तैः ।
भण्डारिवीरबसवः प्रययौ नृपालवृन्दैरमंदविभवैरपि
पृष्ठभागे ।। ३२ ।।
संसेवितो नवभिरात्मसमप्रधानैरन्यैर्भटप्रकरमागधबंदिवृन्दैः ।
संस्तूयमानबिरुदावलिगद्यपद्यो हृद्यल्लमांघ्रियुगुलं कलयन्ययौ सः
।। ३३ ।।
तत्रोन्नताकृतिभिरुज्वलवेत्रहस्तैर्विज्ञाततत्तदवनीधवतारतम्यैः ।
आहो प्रयात धुरि तिष्ठत सावधानं दूरे तथाऽपसरतेति
वचोऽभ्यधायि ।। ३४ ।।
संबाधवारणपरैः परिसेव्यमानः
संचाल्यमानरणदंदुककुन्तहस्तैः ।।
उत्पत्य तानुपनिगृह्य कृताट्टहासैरुक्त्वा स्वनाम पटुवीरभटैर्ययौ
सः ।। ३५ ।।
खेटैः ससंभ्रमतया धृतखड्गखेटैर्भूयः कृतांजलिपुटैश्च
निजाभिमुख्यात् ।
दूरस्थितैः सविधगैश्च विनम्रकायैः पृष्टैर्नटद्गतिगतैश्च
भटैर्ययौ सः ।। ३६ ।।
पृ० ६४)
अर्काश्वसंयमपरैर्जवनैर्महाश्वैरैरावणस्फुरणवारणवारणौघै.
ह् ।
संख्यातिगैरतुलपुष्परथैरनेकैस्साकं ययौ बसवमंत्रिवरो मनस्वी ।।
३७ ।।
चित्रांबराणि रमणीय तराणि धृत्वा भक्तस्त्रियः
कलशदर्पणपाणिपद्माः ।
सद्भूषणा निटिलभास्वरभूतिरेखा जग्मुः पुरो बसवमंत्रिवरस्य
बह्व्यः ।। ३८ ।।
भावप्रबोधनिपुणाः कवयस्तथैव तत्राशु
कल्पितगुणाद्भुतकाव्यपाठैः ।
अप्रीणयन् हृदयमस्य तथा रसज्ञा
नाट्यक्रमैर्भरतशास्त्रकलाप्रवीणाः ।। ३९ ।।
छत्रैर्विचित्रकलशैः
सितचामरौघैर्देदीप्यमानवलयैर्व्यजनालवट्टैः ।।
वर्णानुरंजितमुहुर्मुहुरास्तृतां च संवीज्यमानपटकूर्चशतैर्ययौ
सः ।। ४० ।।
रामाः पुरंदरवधूविजयाभिरामसद्रामणीयकनिजावयवाभिरामाः ।
पृ० ६५) बसवस्य प्रभुं प्रति प्रत्युद्गमनवर्णनम् ।
नीराजनोद्यतकराहितहेमपात्राश्चित्रं विचेरुरुभयत्र पुरोऽस्य मार्गे ।। ४१
।।
पादौ सरोरुहजितौ पदकंकणान्तर्मुष्टेरपूर्णमवलग्नमभूच्च यासां
।।
ता निर्भरोरुजघनस्तनभारधुर्या
धैर्याद्ययुर्विधृतसाधनपाणिपद्माः ।। ४२ ।।
चंचन्मदालसदपांगदृशः स्मितास्याश्चेष्टाविलासभरिताः
सरसोक्तिसाराः ।।
मिथ्यावचःकपटसत्यमृषाप्रमोहा वाराऽऽन्गनाश्च बसवं
पुरतोऽनुजग्मुः ।। ४३ ।।
इत्थं महाविभवनिर्जितराजराजे प्रत्युद्गमोद्यतगतौ बसवाधिराजे ।
ये तत्र संति कतिचित्परवादिबौद्धास्ते तद्विभूत्यसहनादभजन्जुगुप्सां
।। ४४ ।।
गत्वाऽथ बीजलनृपं परवादिनस्ते कानि प्रकल्प्य वचनानि मृषैव
धूर्ताः ।
ज्ञातप्रभूद्गमनवार्ततया तदीयमुन्मादिवर्तनसमं कथयांबभूवुः
।। ४५ ।।
स्वप्ने विलोक्य परिपक्वफलानि वृक्षे तस्मात्प्रबुध्य पुनरत्तुमिहेच्छतीव ।
पृ० ६६) दृष्ट्वा हठेन शुभसूचनमात्रमेष भ्रान्त्या तनोति
जगदद्भुतदांभिकत्वं ।। ४६ ।।
राजा निशम्य वचनं स्वमताभिमानात्किंचित्प्रकुप्य हृदये पुनरप्युवाच ।
आहो मदीयनगरे मयि वर्तमाने त्यक्त्वा ममानुमतिमेष कथं विधत्ते ।। ४७
।।
स्वप्ने तु किंचिदिह भस्मनि दीयमाने भ्रान्तिं धराधरसमां बसवः
प्रपेदे ।
भक्तोऽथवा भजतु लोकविरुद्धमर्थं सत्यं स एव भवतां किमु तेन
हानिः ।। ४८ ।।
वेत्ति स्वमेव महिमानमसौ स्वकीयं नो जात्वलौकिकमिदं वयमत्र विद्मः ।।
विज्ञायते च सकलैः पुनरेतदन्ते दृष्ट्वैव तावदधुना ननु भिद्यतां
सः ।। ४९ ।।
उक्त्वेत्थमेव नृपतिः पिशुनान्स्वकीयांस्तूष्णीं बभूव
मनसाऽऽहितरोषपूरः ।।
विज्ञाय तन्नृपतिचित्तमसौ महात्मा चिन्तां चकार महतीं
बसवाधिनाथः ।। ५० ।।
पृ० ६७) कुत्सितरूपेण प्रभोः कल्याणनगरं प्रत्यागमनम् ।
नायाति किं मम गुरुः प्रभुरल्लमेन्द्रो लोकेऽपहास्यचरितोऽस्म्यथवा
महेशः ।।
सर्वत्र चास्ति मयि किं निगमागमानां कर्ता स एव भगवान्परवादिजेता
।। ५१ ।।
इत्थं विचिंतयति भक्तकुलावतंसे हंसोल्लमोन्तरमवेत्य तदा तदीयं ।।
शीघ्रं न यामि यदि भूमिविभुर्जनाश्च भक्तं हसन्ति न तथास्त्विति
साधु मेने ।। ५२ ।।
मत्वेति चिन्मयवपुः स्वयमप्यधीशः प्रोन्मत्तवेषभृदयं
गुरुमण्डलेन्द्रः ।।
साक्षाद्बभूव बसवादिगणाधिनाथैर्ज्ञेयो न
पामरजनैर्विषयैकलुब्धैः ।। ५३ ।।
ह्रस्वांगसंगततनुः कुटिलांघ्रिरीषच्छ्मश्रूः कषायितकचो
गडुवक्रकण्ठः ।।
क्षुभ्यत्कटिर्बहुलरोमततिः
कुदृष्टिराक्रोशवाक्चलगतिर्विकृताट्टहासः ।। ५४ ।।
नीलापसारविकसद्व्रणराजिरन्तर्ध्यायन्रुदन्परिहसन्कृशलंबकर्णः ।।
लालाक्षरन्मुखबिलः प्रभुराजगाम भुंगीश्वरः
स्वयमिवाश्रितवत्सलोऽसौ ।। ५५ ।।
पृ० ६८) इत्थं प्रभुर्नगरमेत्य विनिंदतोऽपि
कांश्चिज्जनान्प्रतिवदन्स्वयमाशिषैव ।।
कांश्चित्प्रताडनपरान् स्तुतिमेव चक्रे गायज्जनान्प्रति जगौ नटतो
ननाट ।। ५६ ।।
कांश्चिच्च भूषणपरान्प्रतिभूष्य तत्र
कांश्चिन्नियुद्धचतुरान्प्रतियुध्य धीरः ।।
कांश्चिन्नमस्कृतिपरान्प्रति नम्रमूर्धा कांश्चिद्विकारवदनान्विकृतिं
चकार ।। ५७ ।।
बालान्विलोक्य पुरि बालवदेव देवश्चिक्रीड कुत्र च पपात धरातलेऽसौ ।।
उत्थाय शीघ्रमभवोऽर्भकवच्च केषां केषां च
वृद्धवदभूत्परिदृश्यमानः ।। ५८ ।।
दृष्टः कदा रसिकवत्क्व च मूढतुल्यो दृश्यः कदा गगनवत्क्व च
निर्विकारः ।।
दूरे क्वचित्क्व च समीपगतः कदाचित्सर्वत्र सर्वग इति प्रथयन्स्वशक्तिं
।। ५९ ।।
इत्थं प्रभोर्विहरतो महिमावबोधः कस्यापि नाभवदथो बसवेश्वरस्तं
।।
पृ० ६९) अल्लमप्रभोर्दर्शनोत्सववर्णनम् ।
गूढं निधिं भुवि यथांजनसिद्धयोगी तद्वत्सुनिर्मलधियाऽल्लममेव
मेने ।। ६० ।।
उत्कण्ठितः स हृदये पुलकांकितांगः
स्वानंदबाष्पलहरीपरिपूर्णनेत्रः ।।
भक्तैः समं सविधमेत्य निधाय भस्मताम्बूलमाल्यनिचयं पदयोर्ननाम
।। ६१ ।।
भक्तांगना विनयभक्तियुतास्समेत्य दीव्यन्निजाभरणदीप्तिभिरुल्ललत्सु ।।
दन्ताक्षिहस्तरुहरश्मिषु चारुगीतैर्नीराजनानि विदधुः
प्रभुलिंगमूर्तेः ।। ६२ ।।
वाद्यध्वनिस्फुरणमत्यधिकं बभूव
चाटुप्रबंधमपठद्भटबंदिवृंदं ।।
पौरास्समेत्य विनयेन ववंदिरेऽमुं भंगं मुखेषु परवादिगणाः
प्रपेदुः ।। ६३ ।।
कल्याणपट्टणमिति प्रथितं पृथिव्यां
यद्द्वादशप्रथितयोजनविस्तृतं तत् ।।
सर्वं प्रभूत्तमसमागमने बभूव कल्याणदीपकरपौरसतीसमेतं ।। ६४
।।
भक्तव्रजे प्रमुदिते शरणार्थितोक्त्या भक्त्या कृतांजलिपुटे परितः
स्तुवत्सु ।।
पृ० ७०) पौरव्रजेषु धृतचामरसत्पताकाचित्रातपत्रवलयैः
प्रभुराजगाम ।। ६५ ।।
प्रत्युन्नतांसपरिवर्तनचातुरीषु नारीषु संभृतविलोकनसंभ्रमासु ।।
संवर्धितत्रिभुवनाद्भुतवैभवं तद्गेहं विवेश बसवस्य
गुहाधिनाथः ।। ६६ ।।
गंगांबिकाप्रभृतितद्रमणीमणीषु भक्त्या प्रणम्य
जयमंगलशब्दपूर्वं ।।
आरार्तिका विदधतीषु गृहं प्रविश्य
देवश्चिदभ्रमणिपीठसमीपमागात् ।। ६७ ।।
दृष्ट्वा प्रहृष्य गुरुरात्मनि शून्यपीठं सर्वान्निवर्त्य च
समागतपौरसंघान् ।।
शिष्यप्रभावमधिगम्य गणेषु पश्यत्स्वारोहणाय विदधे
मतिमल्लमेंद्रः ।। ६८ ।।
सर्वात्मनः सगुणनिर्गुणयोगसंविद्रूपस्य तस्य भुवनत्रयसंविधातुः
।।
चित्रं किमल्लमगुरोरिति भक्तसंघेष्वन्तः स्तुवत्सु गुरुरासनमारुरोह ।।
६९ ।।
द्वासप्ततिप्रथितनाडिसहस्रबद्धं बुध्वा नरांगमिह कीलितपुत्रिकावत्
।।
यो नाटयेत्किमिदमस्य तथापि लोके प्रख्यापनाय बसवाधिपदिव्यकीर्तेः ।।
७० ।।
पृ० ७१) प्रभोः शून्यसिंहासनोपर्यधिरोहणोपक्रमः ।
आधारभूतमिदमेव हि षट्स्थलानामित्यभ्रपीठमुपदर्श्य गुरुस्तदीयं
।।
सत्कीलकं समुपदिश्य गणाधिपेभ्यस्तन्मूलपीठमवलंब्य समारुरोह ।।
७१ ।।
तत्रस्थगोप्यमुपदिश्य ततः परस्तादेकैकभूमिमधिरुह्य गुरुः क्रमेण ।।
तत्तद्रहस्यमपि ताननुभाव्य दीव्यत्सिंहासनाग्रमभवः स्वयमाविवेश ।।
७२ ।।
षड्भूतषट्कमलषट्स्थलषड्विधांगषड्भक्तिषट्चरणषड्विधव
र्णमालाः ।।
षट्छक्तिषड्द्युतिषडंबरषट्प्रयोगान्सम्यग्दिदेश
शिवभक्तगणानधीशः ।। ७३ ।।
तत्तन्निवेशनविधानचमत्क्रियायां भक्ताग्रगण्यबसवस्य निवेदितायां ।।
देवेन ते शिवगणाश्चलदुत्तमांगा नासाग्रदत्तनिभृतांगुलयो बभूवुः
।। ७४ ।।
शक्त्याऽन्वितानि परिहृत्य स
कुण्डलिन्याश्चण्डांशुपावकसुधाकरमण्डलानि ।।
आसेदिवानकुलचक्रघने सुषुम्नाद्वाराग्रजाग्रदतुलांबरपीठशृंगे ।।
७५ ।।
तत्रागमान्तचरणे प्रणवोपधाने वाक्यैश्चतुर्भिरपि निर्मितपट्टबन्धे
।।
पृ० ७२) सद्ब्रह्मपंचकसकंचुकहंसतूले पंचार्णमंचफलके
प्रभुराविवेश ।। ७६ ।।
श्रीमत्प्रभोः समुपवेशनतस्तदैव सर्वाः क्रमेण निहिता बसवेन
पूर्वं ।।
तास्ताः सचेतनतयाऽखिलशक्तयोऽत्र
स्वांगैश्चलद्भिरभजन्जगदीशमेनं ।। ७७ ।।
अत्यद्भुतं तदवलोक्य भयेन केचिद्दूरं गताः कतिचनात्मविदो विधिज्ञाः
।।
साक्षाच्छिवोऽल्लम इति प्रणता बभूवुः स्वात्मन्यवाप बसवः परमं
प्रमोदं ।। ७८ ।।
भूयः प्रणम्य बसवो निगमान्तवाक्यैस्तुष्टाव भक्तिभरितो
गुरुसार्वभौमं ।।
सच्छन्नवीरबसवः परमावधानी स्वात्मार्पणं समतनोत्प्रभवे
प्रभूणां ।। ७९ ।।
अत्रान्तरे हठपदार्पणमाचयार्यौ भूमौ प्रणेमतुरमुं
प्रतिपारवश्यात् ।।
अन्ये च किन्नरमुखा भयभक्तिनम्रा दण्डप्रणामशतकैश्शरणं
प्रपन्नाः ।। ८० ।।
पृ० ७३) अल्लमप्रभोः शून्यसिंहासनोपर्यधिरोहणम् ।
येऽन्ये प्रभोर्विरचितं बसवेन पीठं द्रष्टुं पुरीमधिगताः
शिवभक्तसंघाः ।।
कल्याणपट्टणनिवासिगणाश्च सर्वे तत्रागतास्सपदि
जंगमलिंगवर्याः ।। ८१ ।।
संचार्य भूमिमखिलां समुपागता ये ते दण्डनाथबसवेन
कृतोपचाराः ।।
नित्यं वसन्ति रमणीयमठेषु वृद्धाः श्रद्धान्विताः
प्रभुमुपाययुरुत्सवेन ।। ८२ ।।
सर्वे च ते कृतनमस्कृतयः पुरोऽस्य स्थित्वा प्रभोः स्तुतिशतान्यभितो
वितेनुः ।।
हर्षेण केचिदथ गीतपदैरगायन् नाट्यं प्रचक्रुरपरे कृतहस्ततालाः
।। ८३ ।।
विद्याः श्रुतिस्मृतिपुराणमुखास्समस्ता यस्यादिमध्यचरमान्न
विदन्त्यतीतः ।।
यो नादबिंदुकलिकास्तमधीशमेनमारोहयद्गगनपीठमसौ महात्मा ।। ८४
।।
को वेत्ति दिव्यमहिमानममुष्य लोके सर्वोत्तमस्य बसवस्य जगद्धितस्य ।।
इत्यन्तरंगपरिपूर्णपरप्रमोदास्सर्वे प्रतुष्टुवुरुघे जयशब्दपूर्वं ।।
८५ ।।
स्वामी तदाऽल्लमगुरुर्बसवाधिनाथं संवीक्ष्य निश्चलदृशो
भयसामरस्यात् ।।
पृ० ७४) अन्तस्तरंगितसुखानुभवानुरागादाह स्म भक्तनिवहेषु मिषत्सु
सत्सु ।। ८६ ।।
लिंगार्चनप्रतिभया विमलान्तरंगध्यानावधानपरिशीलननिष्ठया च
।।
सज्जंगमार्चनविधानसदैकरीत्या लोकोत्तरो बसब एव घनो न चान्यः ।।
८७ ।।
आहो जयिन् बसव भक्तितनो महात्मन्नाहो फलिन् बसव भक्तमनःप्रसन्न ।।
आहो महिन् बसव सद्गुणरत्नधामनाहो वशिन् बसव भाग्यवतां वरेण्य ।।
८८ ।।
इत्यल्लमे स्तुवति सद्गुरुसार्वभौमे भक्त्या ह्रिया च बसवः
प्रणतोत्तमांगः ।।
साष्टांगदण्डनतिभिः स्तुतिभिः प्रभुं तं स्तुत्यं
विचित्रपदवाक्फणितिर्नुनाव ।। ८९ ।।
भक्तेषु चित्रलिखितेष्विव विस्मितेषु तत्पारवश्यकलया बसवे स्थितेऽस्मिन् ।।
स्थानान्यतीत्य सकलानि गुरुर्गुरूणां संविन्मयो गगनपीठगतो बभूव
।। ९० ।।
इति सकलमुनीन्द्राः शून्यसिंहासनोद्यच्चरितमखिलमेतच्छ्रावितं
शास्त्रासारं ।।
पृ० ७५) कथानकश्रवणपठनफलम् ।
पठति परमभक्त्या नित्यमेकान्तनिष्ठः श्रवणपथगतं वा
भावयेद्यः स धन्यः ।। ९१ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां
प्रभुसमागमनतदीयशून्यसिंहासनाधिरोहणवर्णनगतिर्नाम
द्वाविंशोऽध्यायः ।।
पृ० ७६) श्रीनंदिकेश्वराय नमः ।।
त्रयोविंशोऽध्यायः ।।
सूत उवाच ।।
श्रीसिद्धिवीरगुरुमण्डलचक्रवर्तिपादाम्बुजातभजनाभिरता मुनीन्द्राः
।।
नित्यव्रताचरणनिर्मलशीलवन्तः शृण्वन्तु भक्तिभरिताः
प्रभुलिंगलीलाम् ।। १ ।।
गगनपीठशिखाग्रचिदम्बरस्थगितयंत्रलसद्दहरान्तरे ।।
अधिवसन्तमनंतगुणाश्रयं प्रभुमगाद्बसवो भयभक्तिमान् ।। २ ।।
सविधमेत्य तमर्चितुमुद्यतो विविधसाधनसंभृतितत्परैः ।।
निजगणैर्भजमानहृदंबुजैः प्रभुमपूजयतागममार्गतः ।। ३ ।।
अपचितिं बसवे प्रभुमूर्तये सपदि कुर्वति तद्भगिनीसुतः ।।
बसवतुल्यगुणः शिवयोगिराडतनुताखिलसाधनसंभृतिं ।। ४ ।।
हठपदार्पणकिन्नरमाचयास्सुजनमौलिगमारघनादयः ।।
अपि च भाचरसाधुमुखा गणा विनयभक्तियुताः परिवव्रिरे ।। ५ ।।
क्षितितलस्थितभक्तगणेऽखिले दधति विस्मयमर्चनगौरवात् ।।
पृ० ७७) सर्वेषामल्लमचरणांतिके सन्निवेशनम् ।
विभवनिर्जितवासववैभवः स बसवः प्रभुमूर्तिमपूजयत् ।। ६ ।।
अथ तदीयमहार्चनवैभवं पुरि विलोकितुमुत्सुकतां गताः ।।
अनुययुर्बसवाधिपमंदिरं शिवगणाः प्रगुणा गणनातिगाः ।। ७ ।।
य इह वेश्मनि तस्य दिने दिने घनरसायनभोजनतत्पराः ।।
बहुलजंगमलिंगगणाश्च ते समधिगम्य गुरून्समलोकयन् ।। ८ ।।
भसितभूषितसल्ललितांगसंगतहराक्षसरा मननव्रताः ।।
कपिलवर्णजटाभरबंधुरा धृतसितातपवारणपाणयः ।। ९ ।।
विमलशीलयुताश्च विलंबितश्रुतिपुटाः पटुदीप्तितनूभृतः ।।
करकमण्डलुजाप्यमणिस्रजश्चरगणा धृतकंबलकंधराः ।। १० ।।
निरुपमानहरप्रतिविग्रहास्समुपगत्य चिदंबरविष्टरे ।।
स्थितगुरोश्चरणासनसन्निधौ विनयतोऽन्यवसन्बसवाग्रतः ।। ११ ।।
बसवदण्डपतौ प्रभुगोष्ठिभिश्चरगणार्चनभोजनसत्क्रियाः ।।
सपदि विस्मरति क्षुधिताश्च ते विकलिताः स्वयमात्मसु मेनिरे ।। १२ ।।
पृ० ७८) अहह धीरमतिर्बसवः कथं गतविवेकतयाऽस्मदुपेक्षणं ।।
वितनुते बत भक्तिरियत्यभूत्स्थितमतिक्षतिवत् पठनोद्यमे ।। १३ ।।
उदितचित्तविकारवदैंद्रजालिकममुं विकटासनसंस्थितं ।।
भ्रमवशादवलोक्य वशं गतो वसतु तेन सहायमिदं कियत् ।। १४ ।।
इति विशंक्य मनःसु चरव्रजे झडिति तत्रगते बसवेश्वरः ।।
हृदि विचार्य चिरं स्फुरदुल्मुकन्यसनवानिव तापमुपाययौ ।। १५ ।।
क्व नु गता मतिरद्य ममापि वाक्च्युतिरभूदबुधोऽस्म्युदरे मदात् ।।
विघसकामनयाऽऽगतजंगमाः प्रतिगताः कथमेष समाह्वये ।। १६ ।।
अहह किं नु निधाय मुखं पुनः प्रतिसमाह्वयितुं प्रयतेय तान् ।।
मम महानपराध इयान् कियानिति कथं कथितुं बत शक्यते ।। १७ ।।
इयदनेहसि मद्रचितं वृथाजनि चरामरपूजनमन्ततः ।।
व्रतशतं सुकृतं ननु भज्यते क्वचिदपि व्यभिचारवशाद्यथा ।। १८ ।।
भ्रमणमुल्बणमाप मदंतरं किमिति जीवनमेतदपार्थकं ।।
पृ० ७९) जंगमागतैति चिंतितबसवेश्वराय प्रभुकृतसमाश्वासनम् ।
इति विचिंत्य गुरोः पुरतश्चिरं सभयगद्गदमाह सभांगणे ।। १९ ।।
महित षण्णवतीष्टसहस्रभूर्यधिकलक्षगणार्हमिदं कृतं ।।
सकलरस्यपदार्थकदंबकं पुरभिदेऽर्पयितुं क्व गणान् ह्वये ।। २० ।।
इति वचो बसवस्य मिताक्षरं स्मितमुखः प्रभुरेव निशम्य तं ।।
प्रतिजगाद शिशो हृदि चिन्तया किमुदितं तव साधु समर्थये ।। २१ ।।
अहमपूर्णसहस्रचतुष्टयद्विगुणलक्षगणाधिकतृप्तये ।।
अलमहो क्षुधितोऽस्मि नियच्छ मे कवलमद्मि ततो विजयी भवान् ।। २२ ।।
इति निपीय गुरोर्वचनामृतं स बसवो भयसंभ्रमसंभृतः ।।
वनितया बलदेवतनूजया सह यथोचितमर्चितवान् प्रभुं ।। २३ ।।
स्वरमणीरमणीयकरद्वयीघटितहेमघटात्तहिमांबुभिः ।।
प्रभुगुरोः पदयोरभिषेचनं प्रविदधे बसवो वसुवासवः ।। २४ ।।
विमलमर्घ्यजलं करपद्मयोः प्रतिनिधाय तथाऽऽचमनं मुखे ।।
सुरभिचंदनसत्कुसुमाक्षतैः श्रुतिपदैः सममर्चितवान् प्रभुं ।। २५ ।।
पृ० ८०) घुमघुमायितधूपमथार्पयन् कपिलधेनुघृताक्तसुवर्तिभिः ।।
धगधगायितकांचनपात्रकैरभिदधे धुरि दीपसहस्रकं ।। २६ ।।
तदनु दीव्यदमूल्यमणिस्फुरच्चरणवर्तुलकांचनविष्टरे ।।
उपदधे पुटपाकसमुल्लसत्कनकनिर्मितभोजनभाजनं ।। २७ ।।
कनकरत्नविनूत्नधगद्धगच्चषकपंक्तिमुपास्य समन्ततः ।।
वनितया परिवेषमकारयत्प्रभुगुरोर्बसवो लसदाननः ।। २८ ।।
तनुतरोज्ज्वलशालिसुतण्डुलान्परिविमृश्य दृगुत्सवकारिणः ।।
अमिलितप्रतिशिक्थमनुष्णिकं परिणतं मृदुलान्नमसौ न्यधात् ।। २९ ।।
अनतिशीतलषड्रसपूरितं ललितशाकचयं प्रियया समं ।।
स परिवेषयति स्म सपायसं सकलभक्ष्यगणैः सह चोष्यकैः ।। ३० ।।
तदनु हस्तजलं स्वयमाज्ञया ददति तद्बसवे प्रभुवल्लभः ।।
गुरुतरान् कवलानगिलत्क्षणात्स परिगृह्य न किंचिदशेषयत् ।। ३१ ।।
स च विलोक्य तदा बसवो मुदा परिकरैः सह संभृतमोदनं ।।
पृ० ८१) अल्लमस्याद्भुतभोजनप्रकारवर्णनम् ।
दयितया परिगृह्य रयादयं परिविवेष पुनः पुनरश्नतः ।। ३२ ।।
अथ विबुध्य हृदा बसवेश्वरः पृथुलकांचनपात्रचतुष्टयं ।।
धुरि निधाप्य बहूनि महौदनान्यविकलं प्रणिनाय स तान्यलं ।। ३३ ।।
स चतुरः करलाघववज्जनान्प्रतिनियम्य ततः परिवेषणे ।।
सपदि मध्यगतः स्वयमाहृतान्युपनिनीय मुहुस्तमभोजयत् ।। ३४ ।।
समधिकं त्वरया परिभुंजति प्रभुगुरावथ दण्डपतिः स्वयं ।।
विपुलधौतपटोपरि संदधे बहुलसत्कदलीदलविस्तृतिं ।। ३५ ।।
कति च नात्र महौदनसंहतेः प्रतिसमाहरणे परिवेषणे ।।
कति च नोज्ज्वलशाकसमुन्नये कति नियोजयति स्म गणान्स्वकान् ।। ३६ ।।
कति च नोद्यदपूपनिधापने कति च सूपरसाद्यधिरोपणे ।।
कति च फाणिततेमनमर्जिकारससमानयने विनियुक्तवान् ।। ३७ ।।
फलरसाज्यपयोमधुदध्युरुस्फुटघटानयने कति चार्पणे ।।
परिनियम्य तदा हृततद्गणं प्रभुमभोजयदात्मनि भक्तिमान् ।। ३८ ।।
श्रमजलाप्लुतधावनतत्परैर्गणशतैरुपनीतमयं प्रभुः ।।
पृ० ८२) सकलभोज्यपदार्थगणं क्षणात् प्रबुभुजे जगदद्भुतवर्तनः ।।
३९ ।।
अपि च माषवटान् घृतपाचितानतिरसान्सरसान्यवपिष्टकान् ।।
तिलगुडात्तघुटीवटुकान्बहून्हृदयमोदकमोदकमंटपान् ।। ४० ।।
मृदुलवर्तुलसूपसुपूपकान् जलघटोपरि पक्वघुटीगणान् ।।
मधुरसार्कशलाटुसमाह्वयान्सुखिवटून् घृतभावितपिष्टकान् ।। ४१ ।।
सुगुणभूरिगणान्सरसक्तुकान्रुचिरचक्रिलपैठरफेनिकान् ।।
गरगरध्वनिकान्वरकार्पणान्घृतपयःक्वथनात्तघुटीव्रजान् ।। ४२ ।।
अपि च भक्ष्यगणान्बहुचित्रितान् पृथुलवैणवपात्रशताहृतान् ।।
पृथगुपाहितपर्वतसन्निभान् स बुभुजे क्षणमात्रत ईश्वरः ।। ४३ ।।
वसुकटाहशतैरथ राजतैर्धगधगायितदीप्तिसमुज्ज्वलैः ।।
बहुभिराहृतगोघृतपायसान्युपनिगृह्य करेण पपौ प्रभुः ।। ४४ ।।
कटुरसाम्लघटान्मधुदुग्धदध्यमितसत्कलशांश्च निपीय सः ।।
पृ० ८३) बहुलचित्रविधान्नरसायनानयमभुंक्त विभुर्निमिषार्धतः ।। ४५
।।
लवणशाकशलाटुसुलेह्यसल्ललितचोष्यपदार्थकदंबकं ।।
सकलमाशु विघस्यबुभुक्षया पुनरपि प्रभुरेनमलोकयत् ।। ४६ ।।
मनसि विस्मयसंभ्रमसंभृतस्स बसवश्चलनं किल नाप्तवान् ।।
अथ जगाद महानसनायकान् सकलवस्तु समानयतेत्ययं ।। ४७ ।।
हृदयमस्य विबुध्य च पाचका बहुचमत्क्रिययाच्छुटिकार्धतः ।।
सकलभोज्यततिं परिपाच्य तत्प्रभुगुरोः परिवेषणमाचरन् ।। ४८ ।।
गिरिसमानपदार्थचयं पुनः परिसमाप्य पलाशमरिक्तयत् ।।
प्रभुरसौ बसवस्तु समादिशद्विपणिवीथिचयं परिचारकान् ।। ४९ ।।
अनुगतास्त इमाः कदलीफलान्यतुलचूतफलानि बहूनि च ।।
पनसलांगलिकर्कटिगोस्तनीप्रमुखसत्फलसंततिमानयन् ।। ५० ।।
अपि च खण्डशितामधुशर्कराद्यखिलभोज्यपदार्थचयं क्रमात् ।।
निजपुरापणिसंस्थितमाहृतं प्रभुरथाहृतवान्क्षणमात्रतः ।। ५१ ।।
पृ० ८४) तदनु हस्तविलेहनतत्परं गुरुवरं प्रसमीक्ष्य भयाकुले ।।
बसवमंत्रिवरे गणपुंगवास्त्वरितमात्मगृहान्प्रतिपेदिरे ।। ५२ ।।
बसवकार्यसमर्थनतत्परास्सपदि भक्तगणाः स्वगृहस्थितान् ।।
सकलभोज्यपदार्थगणान्बहून्गुरुवरान्तिकमाशु विनिन्यिरे ।। ५३ ।।
कवलमात्रमभूत्प्रभुभोजने[जेमने] सकलभक्तकुलाहृततत्कुलं ।।
सदसि वीक्ष्य जना हृदि विस्मिताः कलकलध्वनिभिः स्वयमूचिरे ।। ५४ ।।
गगनचुंबिमहोन्नतजिह्विकाप्रसरणेन गुरुः किल विश्वभुक् ।।
हरिविधींद्रमुखैरपि शक्यते किमशनं कृततृप्तिनिवेदितुं ।। ५५ ।।
बसवनाथ इदं किमकारयद्भ्रमवशादिव हात्र कथं भवेत् ।।
इति वदत्सु जनेषु निशम्य तत्सदसि दण्डपतिः पुनरुद्यतः ।। ५६ ।।
नरपतेः प्रभुतैव निजा यतस्तदखिलानपि कर्मकरान् ह्वयन् ।।
नगरधान्यचयं समुपानयत्सकलमप्यनिवर्तितवर्तनः ।। ५७ ।।
पृ० ८५) सुमनषष्टिकशालियवाश्वणुप्रथिततोक्यसुतंडुलपर्वतान् ।।
अपि च कोद्रवकंगुधराधरांश्चणकमाषमसूरकलार्यकान् ।। ५८ ।।
तिलमयष्टकयावकमुद्गकान् वरकबर्बरखल्वगवेधुकान् ।।
अपि च साम्यकुलुत्थकयावनालकगणानलसंदमुखान् बहून् ।। ५९ ।।
त्वरितपाककृतौ विनियोजयन्नयुतलक्षगुणाधिकपाचकान् ।।
अपि सुपक्कमपक्वमधाशयत्प्रभुवरं बहुलौदनपर्वतं ।। ६० ।।
सकलवस्तुचये समुपाहृते प्रभुवरेण तदा बसवेश्वरः ।।
परवशो बहुधान्यसमृद्धिमन्नृपतिकोशचयं च समर्पयत् ।। ६१ ।।
अहह चित्रमभून्मनसार्पितान्यगणितान्यपि सर्वगतः प्रभुः ।।
पुरि महान् बुभुजे तुषवर्जितं स्वयमुपाश्रित एव चिदंबरं ।। ६२ ।।
रसफलौदनधान्यविवर्जितं पुरमभूत्सकलं निमिषार्धतः ।।
अथ विलोक्य गणा बभणुः प्रभुं क्षुदनिवृत्तिविदीर्णनिजाननं ।। ६३ ।।
पृ० ८६) अहह यः क्षुधितः प्रलये पुमान् न परितृप्तिमवापमहाप्रभुः ।।
कमलजाण्डशतैरपि सांप्रतं स कथमेष्यति तृप्तिमियत्त्वदैः ।। ६४ ।।
सकलपूर्णपरात्परसद्धनप्रमदनित्यनिरंजनसंविदः ।।
प्रभुगुरोः क्षुधितस्य कियत्पुरं परिमितं प्रभवेत्परितृप्तये ।। ६५ ।।
भवति वाडववह्निसमिंधने जगति वापि जलैः शमयेत्कथं ।।
किमथ वा करकांबुकदंबकैः प्रभुगुरोः क्षुदपीह तथौदनैः ।। ६६
।।
श्रुतिशतैः स्तुत एष हि विश्वतोमुखतया ननु विश्वत ईक्षणः ।।
अपि च विश्वकरः किल विश्वतः पदतलोऽखिलविश्वभुगीश्वरः ।। ६७ ।।
कथममुष्य भवेज्जगदीशितुर्जगति वस्तुचयैः परितर्पणं ।।
इति गणेषु वदत्सु भिया ह्रिया स बसवोऽभवदानतमस्तकः ।। ६८ ।।
बहुविचारभराविलमानसे बसवमंत्रिवरे समये तदा ।।
पृ० ८७) बसवकृतमाचयसमयज्ञताकथनम् ।
तमवदन्मणिवालकमाचयस्सदसि तद्भगिनीसुतसंमतः ।। ६९ ।।
असदृशं समरांगणमागतो भटवरः किमु गच्छति पृष्ठतः ।।
तनुमनोधनसाधुसमर्पणात्त्वमपि तर्पय तद्वदमुं गुरुं ।। ७० ।।
हुसुहुसूरिति किं परितप्यसे हृदि शुचा क्व गता प्रतिभा तव ।।
इति स माचयदेववचोबलाद्बसवराट् बुबुधे समयोचितं ।। ७१ ।।
विदितकृत्यतयोल्लसदाननस्त्रिकरणैक्यसमाहितमानसः ।।
स बसवो मणिवालघनं स्तुवन् समपदद्धितवागुपदेशकं ।। ७२ ।।
अयि जयिन् मणिवाल दयानिधे जय जयामलभक्तिसुधांबुधे ।।
अघनिवारणकारण यद्भवान् मम हितार्थमिलां त्रिदिवाद्गतः ।। ७३ ।।
उपगतोऽस्यथ वैव शिवाज्ञया प्रमथनाथ पुरात्परमेशितुः ।।
हितवचः समये मम संकटे त्वमुपदेष्टुमकारणवत्सलः ।। ७४ ।।
पृ० ८८) त्वमथवा मयि रक्षकतां गतो मम भरस्त्वदधीनतया स्थितः
।।
त्रिसमयेषु च जन्मनि जन्मनि प्रमथनाथ भजामि कृतार्थतां ।। ७५ ।।
इति वदन्निजदेहमधीशितुर्निरुपमित्युपहारवदास्तिकाः ।।
अमनुतात्मनि कल्पयितुं तथा स च युवा बसवस्तदनुव्रतः ।। ७६ ।।
सितमुभौ भसितं दधतौ मुदा धृतहराक्षमणिस्रगलंक्रियौ ।।
असदृशींद्रियसंयमतत्परौ रुरुधतुर्दशवायुगती क्षणात् ।। ७७ ।।
तनुगुणान्परिहृत्य शिवात्मताकलिततत्वसुवासनयान्वितौ ।।
दलितवृत्तिसुचित्तमथान्तरस्फुरितमार्गनिरर्गलमापतुः ।। ७८ ।।
बसवदण्डपतिस्तदनु प्रभोस्सविधदेशमुपेत्य कृतांजलिः ।।
उपनिषद्वचनैरुपबृंहणैस्सह नुतिं विदधे परमास्तिकः ।। ७९ ।।
त्वयि समस्तमिदं जगदत्र च त्वमखिले परिपूर्णतया स्थितः ।।
पदमिदं तव सर्वपदादधस्तव शिरस्तु तथोच्छ्रितमुच्छ्रितात् ।। ८० ।।
पृ० ८९) बसवकृतप्रभुस्तवनम् ।
तव न चादिरधीश न मध्यमं न चरमं निगमागमसंहतिः ।।
परिविमृग्य न वेत्ति भवत्पदं न मनसापि विचिंतयितुं क्षमं ।। ८१ ।।
दिश इमा दश दीर्घभुजास्तव द्युमणिवह्निसुधाद्युतयो दृशः ।।
मरुत उच्छ्वसितान्युदरं नभः पदयुगं पृथिवीति निगद्यते ।। ८२ ।।
अहमहं क्रिययाद्य भुजिक्रिया घटिततृप्तिकृते तव चागुरुं ।।
अकरवं कथितुं नहि शक्यते मम महानपराध इयानिति ।। ८३ ।।
कमलजाण्डशतानि तवोदरे कमलकेसरसन्निभतां ययुः ।।
क्षुदपनोदनमोदनपूरणात्कथमहं करवै परमेशितुः ।। ८४ ।।
यदशनं निदधामि तवेति तद्वचनमल्पमधीश सहस्व मे ।।
करुणया तव भैक्ष्यतयाऽद्य नौ परिग्रहाण तनुद्वयमल्लम ।। ८५ ।।
यदि भवेदशनीयमिहावयोस्तनुयुगं ननु तर्हि भवेव तौ ।।
करणदोषनिराकरणात्पुनर्मरणजन्मजितौ सुखनिर्वृतौ ।। ८६ ।।
इति वदत्ययमल्लमवल्लभो बसवमंत्रिवरे पुनराह तं ।।
पृ० ९०) स्मितमुखो नहि वाच्यमिदं त्वया श्रुतिविदा मयि पूर्णनिरंजने ।।
८७ ।।
क्षुदसुधर्मतया तृडपि स्फुटा नहि चिदात्मन ईशितुरस्ति मे ।।
अथ कुतो व्यसनानि निराशिषः किमुत कामकथा स्मरवैरिणः ।। ८८ ।।
बसवनाथ जगद्विदितां भवच्छरणदासतया स्थितिमूर्जितां ।।
इह निशम्य भवन्तमवेक्षितुं ननु समागत इत्यवगच्छ मां ।। ८९ ।।
न किमपि त्वयि दातरि याचितुं गृहमवाप्नुवमद्य महामते ।।
अनितरोपमभक्तिविजृंभणं तव निरीक्षितुमागतवानहं ।। ९० ।।
स्वमुखमेव सुनिर्मलदर्पणे बसवनाथ यथा पृथगीक्षते ।।
मयि च तद्वदपेक्षितमीक्षते तव हृदा शरणाञ्छरणार्थिना ।। ९१ ।।
इति निशम्य गुरोर्वचनं पुनर्बसवराडिदमाह महाप्रभो ।।
क्व जडबुद्धिरहं क्वनुचित्तयस्त्वमखिलात्मसु जीवनतां गतः ।। ९२ ।।
चरणभक्तिरतेषु जगद्गुरो तव कियानहमल्पविहायितः ।।
पृ० ९१) अल्लमकृतबसवप्रशंसनम् ।
पदपरागतया स्थितिरेव मे भुवि कटाक्षवशादनुगृह्यतां ।। ९३ ।।
मयि दया यदि देव समर्पितां तनुमवापय भोज्यपदार्थतां ।।
यदि न तादृशभाग्यममुष्य चेत्किमपि तंत्रमिहास्ति न मे स्वतः ।। ९४ ।।
इति वदन्तमवेक्ष्य गुरुश्चिरं स्थिरहृदं बसवं स्मयदाननः ।।
अभिदधे गुरुपुत्र महामते न भवतास्ति समो भुवनत्रये ।। ९५ ।।
तनुमनोधनमामकतां त्यजन्गुरुचरेशपदार्चनतत्परः ।।
निरुपमामलभक्तिरसाप्लुतस्त्वदितरो न भवेद्भुवनत्रये ।। ९६ ।।
परिहृताष्टमदः क्रिययेष्टहृद्विमललिंगरतोंऽगगुणांस्त्यजन् ।।
गतभवो विषयेंद्रियनिर्जयी त्वमभजो ममभोज्यपदार्थतां ।। ९७ ।।
अहह साधुहृदार्पणमात्रतः सपदि तृप्तिरभून्मम सन्मते ।।
न कुरु संशयमत्र निधीयतां बसवहस्तजलं त्वरया त्वया ।। ९८ ।।
पृ० ९२) इति गुरोर्वदतः स्वयमुत्तरं सदसि वक्तुमयं भयसंयुतः ।।
कलशमानयतात्मसतीयुतः परिमलोदकपूर्णहिरण्मयं ।। ९९ ।।
अथ वितीर्य जलं प्रभुमूर्तये मुखकरांघ्रिविशोधनपूर्वकं ।।
सुरभिवीटिकया मुखवासनामरचयद्बसवो भयभक्तिमान् ।। १०० ।।
स्रगनुलेपसुधूपनिरूपणैर्जयजयध्वनिवाद्यरवैः समं ।।
रचितमंगलदीपशतैः प्रभुं स्तुतिनमस्कृतिभिर्बसवोऽर्चयत् ।। १०१ ।।
हृदि मुदा तदनु प्रभुरब्रवीद्बसवनाथ भवद्भवनान्तरे ।।
प्रतिदिनं विघसार्हगणाः परं क्षुधमवापुरमूंस्तरसाऽऽह्वय ।। १०२
।।
सुपरिपक्वमथान्नमवारितं बसव भोजय तान्स्वयमश्नुहि ।।
परिजनैः श्रम आशु निवार्यतामिति नतोऽभिहितो विनयान्वितः ।। १०३ ।।
अथ गतो बसवो गणसन्निधिं प्रणिपतञ्छरणार्थितया पुरः ।।
उपनिधाप्य विभूतिसुवीटिका विनयपूर्वमभाषत भूसुराः ।। १०४ ।।
पृ० ९३) चरगणैः साकं बसवस्योत्तरप्रत्युत्तरं च ।
शिवगणाः क्षुधिताः स्थ यतः परं मम महानपराध इहागतः ।।
अवत मामनुगृह्य गृहागतास्सकरुणं कृतनित्यशिवार्चनाः ।। १०५ ।।
अभिहिता बसवेन चराः पुनर्जगदुरार्य सषड्रसमोदनं ।।
उदरपूर्णमपूर्वमिवासिताः परमसौख्यमवाप्नुम सांप्रतं ।। १०६ ।।
बसव नाद्यवदन्यदिने क्व वाप्यधिकतृप्तिरियत्यनुभाविता ।।
अयमहो महिमैव तवाथवा प्रभुगुरोर्महिमा नहि गोचरः ।। १०७ ।।
गलमरुत्किल जीर्णकृदद्य नः सुरभिगन्धयुतः प्रसरत्ययं ।।
तदपि पूर्णतया परितृप्तितः क्षुदपनोदकृतं मुदमाप्नुमः ।। १०८ ।।
अथ घुमंघुमिताल्लममूर्तिसल्ललितगन्धसुवासितदिक्तटाः ।।
चरतनोरधिगम्य विजृंभिताः स बसवो हृदि विस्मयमाप्तवान् ।। १०९ ।।
विदिततद्गणतृप्तिरपि स्वयं सविनयं बसवः पुनरब्रवीत् ।।
पृ० ९४) चरगणा गृहमेत्य कृपान्विता भजत भोजनमाशु यथा पुरा ।।
११० ।।
इति वदन्तमवेक्ष्य कृतांजलिं चरगणा बभणुर्बसवाग्रणीं ।।
क्षुधमपोह्य भवन्महिमैव नः किमु करोति विलज्जितमानसान् ।। १११ ।।
भवतु वा महिमा जगदद्भुतः प्रभुगुरोर्भुवि साधनतैव नः ।।
चरगणेषु य एव महोन्नतो महिमवान्स गुरुर्भुवनत्रये ।। ११२ ।।
तमखिलेश्वरमेकगुरुं प्रभुं यदभजस्त्वमिदं भजनं हि नः ।।
स जठरे जननीव सुतं जगत्त्रयमिदं परिरक्षति पूर्णदृक् ।। ११३ ।।
तदनुभूतपदार्थरसार्पणादुदरगा वयमस्य च तर्पिताः ।।
तदिह तस्य विभोरशनार्पणं भवति सर्वचरार्पणमीदृशं ।। ११४ ।।
यदिह तृप्तिरभूत्प्रभुसद्गुरोस्सकलजंगमतृप्तिरियं हि सा ।।
न हि कथानुभवोऽयमहो महान् करधृतस्य मणेर्मुकुरेण किं ।। ११५ ।।
प्रथममानमिहेंद्रियकं स्फुटं तदनुमानमुखं ह्यनुजीवति ।।
पृ० ९५) चरगणात्प्रत्यागतस्य बसवस्य प्रभोरुपदेशेनाद्वयसुखानंदः
।
वचनमात्रमिदं बसवेंद्र नो विदितसारघनो हि भवान्बुधः ।। ११६ ।।
इति निशम्य चरोक्तिमयं पुनः प्रभुसमीपमुपेत्य कृतानतिः ।।
तदुदितं विनयात्तमजिज्ञिपन्मुहुरपि प्रकृतौपयिकं जगौ ।। ११७ ।।
घनदयांबुनिधे चरदेशिकैस्तव न भेदकथा कियति प्रभो ।।
मयि तु निष्ठुरतोभयमध्यगे भवतु वा चरणं शरणं व्रजे ।। ११८ ।।
इति निशम्य गुरुर्बसवोदितं पुनरुवाच यथार्थमिदं शृणु ।।
न हि भिदाऽस्ति मम क्व च जंगमैः सममतौ त्वहमेव भवान् सखे ।। ११९
।।
मतिभिदैव भिदां परिकल्पयत्यमलचित्तु कदापि न भिद्यते ।।
तदिह नौ नहि भेदकथा क्वचित्सुखमुपास्व चिदैक्यमखंडितं ।। १२० ।।
इति तदाल्लमदेशिकसत्तमे समुपदेष्टति मंत्रिकुलोत्तमः ।।
मुकुलिताक्षियुगोऽद्वयभावनासुखमुपास्त चिरं पुरतः प्रभोः ।। १२१ ।।
प्रभुमथ बसवेन्द्रं प्रेक्ष्य भक्ताः समन्तात्समुदितशिवभावास्साधु
साध्वित्यवोचन् ।।
पृ० ९६) महति महसि तस्मिन्भेरिभांकारघोषैर्जयजयनिनदोऽभूद्भो उघे
इत्यपूर्वः ।। १२२ ।।
इति कथितमृषींद्राः श्रीगुरोर्यन्महत्वं सकलनिगमसारं
रक्षकस्येश्वरस्य ।
पठति परमभक्त्या यः शृणोति स्थिरात्मा प्रभुरधिकममुष्मै
वाञ्छितार्थं ददाति ।। १२३ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां
बसवेश्वरकृतप्रभुसमाराधनतदीयभोजनमहिमानुवर्णनगतिर्नाम
त्रयोविंशोऽध्यायः ।।
पृ० ९७) अथ चतुर्विंशोऽध्यायः ।।
।। श्रीनंदिकेश्वराय नमः ।।
सूत उवाच ।।
सिद्धश्रीवीरनाथेश्वरचरणयुगध्याननिर्धूतदोषा
भाषावेषाद्यनीहा गुरुचरपुरभिल्लिंगशृंगार्चनांगाः ।
मुक्त्यर्थाः शुद्धभावाः स्वतनुधनमनोरागशून्या विरक्ता
भक्ताः शृण्वन्तु लीलां प्रभुशरणगुरोः सत्कथाभिर्विशालां ।। १
।।
ततः सकलशांभवप्रकरमंघ्रिपीठांतिक-
स्थितं समवलोक्य तं शिवरहस्यबोधाप्तये ।
जगद्गुरुवाच भोः शृणुत शास्त्रसारं परं
मनोविलयनं विना नहि शिवैक्यसिद्धिर्नृणां ।। २ ।।
मनः सृजति सर्वमप्यथ च वर्द्धयत्येव
तद्घनीभवदहंक्रियामुकुरबिंबितं मूर्तिमत् ।
तदेव ननु कारणं जगति बंधमोक्षद्वये
दृढं च शिथिलं क्रमात्तदिह नाशयेत्सर्वथा ।। ३ ।।
मनोविलयनं विना नहि शिवात्मबोधोदयः
शिवानुभवमन्तरा नहि भजेत माया क्षयं ।
पृ० ९८) शिवाद्वयसुखं तमस्ततिसमूलघातं विना
न सिध्यति विबुध्यतां शिवगणैरिदं शांभवं ।। ४ ।।
निशम्य गुरुणोदितं बसवमंत्रिराडब्रवी-
त्प्रभोऽल्लम समस्तसंशयनिवृत्तयेऽमी गणाः ।
भवच्चरणसेवया शिवरहस्यतत्वं परं
प्रबोद्धुमभितो वसन्त्युपदिशानुगृह्णीष्व नः ।। ५ ।।
वचो बसवसूरिणः प्रभुगुरुर्निशम्यादरा-
द्रदद्युतिदरस्मितच्छुरितदिक्तटः सोऽब्रवीत् ।
तनुः परमपावनी प्रभवतीष्टलिंगार्चना-
न्मनः सुविमलं सदासुमयलिंगसंधानतः ।। ६ ।।
गणेंद्र भवतां महाव्रतमिदं सुशीलादृतं
विमुक्तिकरमस्ति किं परमिहोपदेश्यं मया ।
यदिष्टमिह दृष्टमात्मनि तथा स्मृतं वाखिलं
शुभं भवतु सर्वदा शिवकृपावशादेव वः ।। ७ ।।
इति प्रभुगुरुर्गणप्रततये कृताशीर्वचा
विहृत्य समटाट्यया पुनरथागमिष्याम्यहं ।
ब्रुवन्निति गतोद्यतोऽभवदुपेत्य वेगात्ततः
स दण्डपतिरग्रहीत्प्रभुपदाब्जयुग्मं दृढं ।। ८ ।।
पृ० ९९) बसवेशप्रार्थनां श्रुत्वा प्रभोः प्रीतिपूर्वं गणानुद्दिश्य
भाषणम् ।
जगाद भयभक्तिमान्गुरुकृपांबुधेऽस्मन्मनः-
प्रबोधपदसंशयानिह निवार्य संरक्षितुं ।
दुरन्तभववारिधेर्गमयितुं च पारं भर-
स्तवैव तदमी वयं शरणमागताः श्रीगुरुं ।। ९ ।।
विमुक्तिपथमादरादनुगृहाण नान्यद्गुरो
श्रियैव सह वर्द्धते हतधियां हि माया भृशं ।
क्रियाऽपि खलु यावती फलमभीप्सता दीयते
जनेन ननु भुज्यते जडधियैव तावच्चिरं ।। १० ।।
अतो विभवसंपदा फलदकर्मणा वाप्यलं
चिदंग शिवलिंगनिर्मलनिरंतरध्यानतः ।।
निधाप्य पथि पश्चिमे पदमचंचलं सद्गुरो
गमागमकृतां व्यथां धुरि निवार्य संरक्ष नः ।। ११ ।।
प्रार्थयति बसवनाथे प्रभुरथ कृपया गणान्समन्वीक्ष्य ।
अधिकारिण इति मत्वा तत्वज्ञानोपदेशने प्राह ।। १२ ।।
यूयं भक्तिक्रिययोः पारं गत्वा कृतार्थतां याताः ।
नैष्कर्म्यसिद्धिमतुलां प्रार्थितवन्तः परं पदं प्राप्तुं ।। १३ ।।
पृ० १००) भवतामधिकारवतां शिवतत्वरहस्यमेव वक्ष्यामि ।
शृणुतावहितस्वान्ता इति संबोध्याशु वक्तुमारेभे ।। १४ ।।
प्रभुरुवाच-
मृषा दृश्यं विश्वं यदि हृदि मृषैवेति कलये-
च्छ्रुतेर्माया नश्येत्तदनु स भवेदिंद्रियजयी ।।
व्यथायां नष्टायां करणजनितायां विषयदु-
र्व्यतीहारो नश्येद्गतविषयगंधो जितरिपुः ।। १५ ।।
तुषाद्युत्सादान्ते पुनरपि विवेकेन नु शिला-
निरासे संशिष्येत्स्वयमिह यथा तण्डुलचयः ।
तथा दुःसंकल्पप्रकटितमनोवृत्त्यपचये
ततो वृद्धिं यायाद्विमलतरसुज्ञानविभवः ।। १६ ।।
प्रबोधे संपूर्णे हतविषयगंधस्य महतो
भिदा नश्येद्ध्येयं त्विदमिदमुपादेयमिति सा ।
विकल्पानां हेतुः किल मन इदं तस्य विजये
प्रपंचो मिथ्या स्यादयममृतसाम्राज्यमयते ।। १७ ।।
अवस्थास्तिस्रस्तास्तिसृषु तनुषु त्रीनपि गुणा-
नजस्रं जीवांस्त्रीनधिगमयदावर्तयति यत् ।
पृ० १०१) गणान् प्रति प्रभुकृतशिवतत्वरहस्योपदेशः ।
महासंसारे स्वर्नरकसुखदुःखादिबहुले
मनस्तज्जेता स्यात्त्रयमिदमतीतः परशिवः ।। १८ ।।
मनो यावद्बाह्यप्रसरणचणं तावदखिलः
प्रपंचः सत्योऽयं भवति नहि मुक्तेः क्व च कथा ।
सुरत्वं मर्त्यत्वं सृजति ननु तिर्यक्त्वमपि त-
त्कदा वा निश्चेष्टं न भवति जये तद्बसवराट् ।। १९ ।।
बहिर्द्वास्संचारं त्यजदखिलमन्तर्हृदतया
मनः प्रत्यक्तत्वे यदि भवति लीनं स्थिरपदं ।
जगन्मिथ्याभूतं भवति हि तदानंदभरितः
स्वयं सुज्ञानी स्याद्बसव स गुरूणामपि गुरुः ।। २० ।।
प्रतीयेत स्वान्ते स्मृतमिदमशेषं यदि जग-
द्बहिर्दृश्याकारं भवति मन एवानृतपदं ।
तदन्तस्थं कर्तुं यदि परमशक्तस्तदनुगो
भवेत्स्वेच्छाचारी बसव नृपशुं विद्धि तमिमं ।। २१ ।।
अहो मायापाशो भवति यदि हाशा यदि तया
मनश्चेत्संबद्धं भवति सकलः क्लेशनिचयः ।
पृ० १०२) भवोऽयं तद्बद्धो भयमधिकमाप्नोति विजयी
य आशायास्सोऽयं बसव गतदोषो हतभवः ।। २२ ।।
इदं मे स्यान्मा स्यादिदमिति विकल्पोपकलितं
स्वसंकल्पं जीवस्त्यजति न हि यावत्पशुतया ।
न तावच्छुऽऽन्मोहाद्यरिनिकरपीडाक्षयमिया-
त्ततस्तत्त्यागे स्याद्बसव स हि नित्यः पशुपतिः ।। २३ ।।
क्षणार्धं कुत्रापि स्थितिमलभमानं मन इदं
सदा सर्वार्थान्संस्मरति न हि पर्यायगणना ।
स्वभावोऽयं तस्य प्रभवति हि तेनैव सकल-
प्रपंचव्यासंगप्रतिफलितगंधव्यतिकरः ।। २४ ।।
यद्वासनाभिरभिवृद्धिमवाप्य कामं संचालितो भ्रममुपैत्ययमन्तरात्मा
।
तन्मानसं ग्रसति यः स्थिरधीर्निगृह्य धन्योऽयमेव
बसवेत्युदितोऽब्रवीत्सः ।। २५ ।।
बसव उवाच-
मनो ग्रसेदित्युदितं भवद्भिः कथं मनोग्रासचणं मनः स्यात् ।
गुरो यदि स्यात्परिहृत्य लौल्यं तन्निश्चलत्वं ग्रसनं तथास्तु ।। २६ ।।
पृ० १०३) बसवेश्वराय प्रभोः प्रत्युत्तरं ।
यद्यन्य एव ग्रसतीति चेतः स्वामिंस्तथा चेत्स किमेष जीवः ।
किमन्तरात्मा किमु वा परात्मा ममादिशेत्युक्त इदं स ऊचे ।। २७ ।।
प्रभुरुवाच-
आत्मान्तरात्मेति तथा परात्मेत्येको महेशः कथितो न चान्यः ।
आत्मा त्रयोऽन्तःकरणानुकारी स्वाध्यस्त तद्धर्मतया स जीवः ।। २८ ।।
स एव निष्कृष्टतयान्तरात्मा शुद्धो मनोग्रासचणो यदा स्यात् ।
तदा परात्म्यैक्यमवाप्य पूर्णः स्वयं शिवानंदघनो विभाति ।। २९ ।।
मनो न यावद्वशमेति तावद्यत्नेन तन्निग्रहणाय भाव्यं ।
मनो ग्रसामीति मनः प्रयत्नात्स्वयं ग्रसेत्तद्बसवार्य नूनं ।। ३० ।।
मायामयैर्वृत्तिशतैर्मिलित्वा तत्साधकान्खेदयति ह्यवश्यं ।
अतस्तदाहत्य वितुष्य धैर्याद्भ्रमान्निवृत्तिर्ग्रसनं हि तस्य ।। ३१ ।।
मनो ग्रसेद्यो महितप्रभावो विकारदूरः स हि साधुरूपः ।
वक्तुं न शक्योऽयमिति प्रभूक्तिं श्रुत्वाऽब्रवीच्छन्नमनीषिवर्यः ।। ३२
।।
पृ० १०४) छन्नबसव उवाच-
गुरो मनो नाशयितुं तदेतल्लक्ष्येण भाव्यं ननु साधकस्य ।
तादृग्विधं लक्ष्यमिहोपदिश्य कृतार्थयास्मान् प्रभुचक्रवर्तिन् ।। ३३ ।।
प्रभुरुवाच-
छन्नोक्तिमाकर्ण्य गुरुस्तमूचे प्रश्नस्त्वदीयो न हि सारभूतः ।
तथापि शाखाग्रशशीव लक्ष्यो बालप्रबोधार्थमुपाय एषः ।। ३४ ।।
लक्ष्यप्रभेदा बहुधोपदिष्टाश्शास्त्रेषु योगागमशांभवेषु ।
यल्लक्ष्यतेऽन्तर्बहिरन्तरेषु तत्स्यात्प्रतीच्छायतयैव गौणं ।। ३५ ।।
लक्ष्योक्तिभिर्लक्ष्यमिदं न लक्ष्यं लक्ष्यं हि निर्लक्ष्यतयैव लक्ष्यं
।।
सच्चित्सुखानंदघनैकलक्ष्यं मायां निरस्यात्मतयैव लक्ष्यं ।। ३६ ।।
कटाक्षदृष्ट्याऽमृतसूक्तिसारैरन्वग्रहीच्छन्नघनं गुहेशः ।।
आरादयस्कान्तमणेरिवासौ सूचीपरत्या बसवो युवाशीत् ।। ३७ ।।
अत्रान्तरे माचयदेवनाथः श्रीनाथपादाब्जयुगं प्रणम्य ।।
पृ० १०५) माचयाय प्रभोः प्रत्युत्तरम् ।
भक्त्या नतांगः सुविनीतवेषः प्रश्नं प्रचक्रे प्रतिबुद्धतत्वः ।। ३८
।।
मणिवालमाचयदेव उवाच-
यत्तत्वं श्रुतिवागगोचरतमं यद्भावनादुर्लभं यद्ध्यानाविषयं
यदंगरहितं यत्स्याददृश्यं दृशां ।।
तच्छून्यं परतत्वमीश्वर कथं बुध्वा महाभक्तितो नित्यत्वं लभते
वदेत्यभिहितः प्रोचे गुरुर्माचयं ।। ३९ ।।
प्रभुरुवाच-
सत्यज्ञानसुखस्वरूपममलं पूर्णं परं ब्रह्म तत्सर्वत्रास्ति तथापि
बाह्यकरणैर्बोद्धुं न शक्यं क्वचित् ।।
मायाजाड्यभरोऽस्ति यावदखिलो देहाभिमानो महांस्तावन्नास्ति कथैव
वस्तुविषये दृश्यं हि नश्यं जगत् ।। ४० ।।
जाग्रत्स्वप्नसुषुप्तयस्त्रितनुषु प्रोतास्त्यवस्थास्सदा
स्वात्मज्ञानविवर्जितं विदधते संभ्राम्य जीवं मुहुः ।।
दुःसंकल्पविकल्पजालविवशः संसारनिद्रां गतो नश्येत्सोऽयमतो
जयेन्नियमवान्नादाववस्थात्रयं ।। ४१ ।।
पृ० १०६) तुर्याह्वयेन सहजेन सदाधिरूढो यो नाशयेत्त्रयमिदं
पशुतानिदानं ।।
सोऽयं महेश्वरतयात्मनि बोधपूर्णस्तत्वं प्रयाति
परमात्मसुखानुभूत्या ।। ४२ ।।
देहत्रयं स्वयमिति भ्रममुज्जिहानश्चिन्मात्र एव परिशिष्यति यः
शिवार्थी ।।
वेदान्ततत्वमतिसूक्ष्मतमं विदित्वा नित्यत्वमेति स पुमानहमेव विद्वन् ।। ४३
।।
श्रुत्वा गुरूक्तमथ माचयदेवचित्तं तत्रैव कीलितमभूत्परमार्थतत्वे
।।
तद्वासनास्ति सकलाः परिहृत्य सत्यज्ञानात्मसौख्यमनुभूय समाहितं
सत् ।। ४४ ।।
चंद्राशुसंघटितचांद्रशिलेव सांद्रस्वानंदसारसुखितं
मणिवालचेतः ।।
विज्ञाय तत्र बसवादिगणास्समस्ता
निःसंशयार्थमवदन्गुरुसार्वभौमं ।। ४५ ।।
बसवादिप्रमथगणा ऊचुः-
स्वामिन्मृषा तनुमनःकरणादि सर्वं यद्यात्मनो नहि घटादिव देव
बाह्यं ।।
तर्ह्यस्य को नु परिहारविधौ प्रयत्नो व्यर्थो विदेहनिजमुक्तिकथाप्रसंगः
।। ४६ ।।
पृ० १०७) बसवादिगणेभ्यो प्रभुदत्तप्रत्युत्तरम् ।
यन्नास्ति बाह्यकरणादिकमेव सर्वं बध्येत तर्हि किमनेन पुमानसंगः ।।
बन्धो न चेत्कथममुष्य मुमुक्षुता स्याद्ब्रूहीति तैरभिहितः प्रभुराह
भूयः ।। ४७ ।।
प्रभुरुवाच-
शृण्वन्तु भक्तनिवहा न हि युक्तिसाध्या माया दुरन्तपिशुना
सदसद्विलक्षा ।।
सा कल्पयन्त्यविरतं ह्यसतोऽपि भावान्निःसंगमेव पुरुषं स्ववशं
करोति ।। ४८ ।।
तत्कार्यभूतमखिलं किल दृश्यजातं स्वापप्रपंचसदृशं नहि
वस्तुतोऽस्ति ।।
यावत्प्रबोधमिदमस्तिवदेव भाति शुक्तौ यथैव रजतं तदिदं
मृषात्वं ।। ४९ ।।
तस्मादनादिजटिलभ्रमवारणाय भक्तिं महेश्वरपदांबुरुहे भजेत ।।
सोऽयं त्रिपात्प्रणवशृंगगतः परात्मा पादोऽस्य
विश्वभुवनोदरभूतजातं ।। ५० ।।
पृ० १०८) आहो वसंतमिव चंदनमंदवाताः सर्वे गणा
बसवमंत्रिणमाश्रयन्तः ।।
सुज्ञानयोगवशगाः स्वयमर्थयन्ते लिंगैक्यमेव न पदांतरमंतरंगे
।। ५१ ।।
वाग्ब्रह्मवादचतुरान्न जहाति माया नाद्वैतसिद्धिरभवस्य कृपां
विनास्ति ।।
भक्तिं विना परशिवो न दयां करोति चित्तस्य निश्चलतया न विनास्ति
भक्तिः ।। ५२ ।।
तस्मात्प्रसह्य सहसा विजयेत रागद्वेषौ स्थिरा भवति धीस्तत एव
भक्तिः ।।
तां सुस्थिरां कलयितुं न
भजेद्विकल्पसंकल्पजालमणिवास्थितधीर्मुनींद्राः ।। ५३ ।।
नान्तर्भावं नामरूपक्रियाणां लिंपेल्लुंपेत्तामहंतां दुरन्तां ।।
इत्थं देहप्राणचित्तादिधर्मांस्त्यक्त्वा मोहांभोधिमत्येति विद्वान् ।। ५४ ।।
आस्तां तावद्बसव भवता लोकरक्षार्थमेव
प्रश्नव्याजात्प्रकटितमभूद्वेदसिद्धान्ततत्वं ।।
त्वं सर्वज्ञस्त्रिभुवनगुरुस्त्वत्समो नास्ति लोके
लिंगैक्यश्रीसमरसकलानिष्ठया विश्वबंधो ।। ५५ ।।
पृ० १०९) प्रभुकृत बसवेशप्रशंसा बसवप्रत्युत्तरंच ।
बसव भवदीयपरमार्थशिवनिष्ठामसदृशतया क इह वर्णयितुमीष्टे
।।
वसति सकलं त्वयि चिदात्मनि महात्मन् लससि गुणवानिव
गुणैरनभिभूतः ।। ५६ ।।
इत्यल्लमप्रभुगुरोर्वचनं निशम्य तत्पादपद्मयुगुलं शिरसा प्रणम्य ।।
भक्त्या कृतांजलिपुटः पुनराह देवं किंचिद्विनम्रवदनो
बसवाधिनाथः ।। ५७ ।।
किंचिज्ज्ञेऽस्मिन्नवगुणगणे श्रैष्ठ्यमारोप्य किंवा संसाराब्धौ
पुनरपि महामोहगर्ते निपात्य ।।
यातायातं परिकलयितुं श्रीगुरो नैव युक्तं सम्यग्दृष्ट्या समरसय
मां साधु तत्वोपदेशात् ।। ५८ ।।
यन्नारिकेलमिह खण्डितुमप्यशक्यं दन्तैस्तदेव गिलितुं द्विरदेन जीर्णं
।।
तद्वत्त्वमेव कवलीकृतसर्वतत्वो देहीव सन्नपि विदेहतया विभासि ।। ५९ ।।
सर्वे वयं हि पशवस्तव पाशबद्धा देवो भवान्पशुपतिः पुरुषः
पुराणः ।।
जीवो भवत्करुणयैव महेश्वरत्वं प्राप्नोति सद्गुरुवरेत्युदितोऽब्रवीत्सः
।। ६० ।।
पृ० ११०) प्रभुरुवाच-
अध्यात्मविद्यामूर्तिस्त्वमधिकारीव वर्तसे ।।
संप्रदायप्रकाशार्थं लोके श्रीगुरुशिष्ययोः ।। ६१ ।।
विधिवत्कथिता विद्या हृद्या वेदान्तसम्मता ।।
खचितास्तु सदा स्वान्ते शान्ते बसव तावके ।। ६२ ।।
तुष्यत्यात्मा ममात्यन्तं तवांतिकगतो यतः ।।
न स्तोत्रपरिपाटीयं मर्म जानामि यत्तव ।। ६३ ।।
पंचाक्षरीमनननिर्जितपंचभूततत्तद्गुणप्रकरसंचितपंचकोशाः ।।
त्वामाश्रयन्ति सततं शरणाः शरण्यं मौलिर्भवाह्नि
शशिमौलिमहागणानां ।। ६४ ।।
त्वद्भावनैव बसवार्य गुरुं करोति लिंगं करोति च तथा तव भावनैव
।।
सा जंगमं च कुरुते शपथं करोमि त्वययेव नूनमभवस्य भवान् हि
मूर्तिः ।। ६५ ।।
अक्वैव सा तव मनःस्मृतिरात्मनीना सच्छन्नवीरबसवो मणिवालनाथः
।।
ज्ञप्तिः स भाचरसुधीः प्रथितो विवेकः शीलं तथार्पणमुनिस्तव
किन्नरोंगं ।। ६६ ।।
पृ० १११) बसवेशाल्लमयोः परस्परप्रार्थनाश्ह्वासनं च ।
मूर्तिः समस्तशिवभक्तगणात्मनिष्ठा चैतन्यमेव हि भवान्बसवार्य
नूनं ।
शक्नोति को नु भवदीयमहाप्रभावं स्तोतुं भुवीत्यभिहितो
बसवोऽब्रवीत्तं ।। ६७ ।।
बसव उवाच-
प्रभोऽल्लम भवत्पदांबुरुहसेवनामात्रतो
भवत्करुणयैव संप्रति कृतार्थतामाश्रये ।।
वृथा भवति किं भवद्वचनमागमान्ताधिकं
परंतु शरणार्थ्यहं कमपि देव याचे वरं ।। ६८ ।।
जगत्यखिलभक्तसंततिमिमां कटाक्षश्रिया-
ऽनुगृह्य शुभदीक्षया परमशंभुजीवैक्यतः ।।
जनुर्मृतिपरंपरां परमपोद्य रक्ष प्रभो
प्रसीद परमेश्वरेत्यभिहितोऽभ्यधात्तं गुरुः ।। ६९ ।।
प्रभुरुवाच-
बसव तथास्तु तावक महाप्रतिभाविभवै-
र्विहितशुभोदयाञ्छिवगणान्सुगुणानुगुणान् ।।
विमलशिवैक्यतत्वमुपदिश्य कृतार्थयतो
मम हि भवेत्प्रयत्न इव हेमसुगंधिकृतः ।। ७० ।।
पृ० ११२) स्वप्ने दुःखानुभूत्या विकलितमनसः सौख्यदायी प्रबोधो
यद्वत्तद्वत्पंचप्रकटितजडधीवासनासंवृतानां ।।
बोधान्निर्वाणमार्गो भवतु करुणयेत्यादिशंस्तांश्च सर्वां-
श्चक्रेऽन्तेवासिनः श्रीगुरुरथ बसवप्रार्थितोनुग्रहार्थं ।। ७१ ।।
यस्य यस्य हृदये यथा यथा रोचते तदनुसारतः क्रमात् ।।
साधु तत्तदधिकारमामृशन् बोधयन्नुपदिदेश सद्गुरुः ।। ७२ ।।
देहचित्तधनमोहसंगतिं त्याजयन्विमलभक्तिबोधयोः ।।
स्थापयन्नतनुतांगलिंगयोः सद्विवेकपरमोपदेशनं ।। ७३ ।।
लिंगैक्यलीनहृदयान्सदयं चकार भक्तव्रजांस्त्वमहमित्यपसार्य
भेदं ।।
ब्रह्माद्वयं श्रुतिशतैरनुभावयित्वा साक्षाच्चकार हृदि
वेधवशात्परोक्षं ।। ७४ ।।
ज्ञानादिरूपघटितत्रिपुटीनिरासे द्रष्टुं च वक्तुमवलोकितुमप्यशक्यं
।।
यत्पूर्णनिर्मलनिरन्तरनित्यसत्यं तद्ब्रह्मतत्वमनुभावयति स्म तांस्तान्
।। ७५ ।।
निर्मायिके निरुपमे परमे पदेऽस्मिन्स्वामी न्यधापयदमुं बसवाधिनाथं ।।
पृ० ११३) शिवगणानां लिंगैक्यसौख्यवर्णनम् ।
तस्मिन्क्षणे शिवगणाः सहजानुभूत्या लिंगैक्यसौख्यमभजन्
प्रभुसत्कटाक्षात् ।। ७६ ।।
वृक्षस्य मूलजलसेचनतो विवृद्धिं शाखाः प्रयान्ति हि यथा
बसवेंद्रमूलात् ।।
तद्वद्गणाः प्रभुकृपामवलंब्य तूर्णं पूर्णं
समाधिमभजन्परतत्वनिष्ठाः ।। ७७ ।।
नानाविधा बहुलवर्णभृतोऽन्तरिक्षे नीरंध्रमेघनिवहाः पवमानवेगात्
।।
यद्वत्प्रयान्ति हृदयेषु तथैव माया देवोपदेशविभवाद्विलयं प्रयाता
।। ७८ ।।
भंडारिवीरबसवाधिपमाचयार्यनागाम्बिकाहठपदार्पणकिन्नरार्याः
।।
छन्नादयः शिवगणास्समवाप्य जीवन्मुक्तिं प्रभोः करुणया
न्यवसन्सुखेन ।। ७९ ।।
इति सकलमुनीन्द्रा मोक्षलक्ष्मीविलासप्रकरणमुदितं वः श्रीगुरोः
सच्चरित्रं ।।
पृ० ११४) पठति परमभक्त्या शुद्धचित्तः पुमान्यः प्रभुरधिकममुष्मै
वांछितार्थान् ददाति ।। ८० ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां
प्रभुलिंगलीलायां मनोलयोपदेशगतिर्नाम चतुर्विंशोऽध्यायः ।।
पृ० ११५) अथ पंचविंशोऽध्यायः ।।
श्रीनंदिकेश्वराय नमः ।।
सूत उवाच ।।
श्रीसिद्धवीरेश्वरपादसेवानिष्ठाः शिवज्ञानरता मुनीन्द्राः ।।
अज्ञानदूरा हरभक्तिसान्द्राः शृण्वन्तु लीलां प्रभुलिंगमूर्तेः ।। १
।।
इत्थं भक्तगणान्सर्वान्प्रभुर्लिंगैक्यनिष्ठया ।।
कृतार्थीकृत्य तैस्साकं कंचित्कालं निनाय सः ।। २ ।।
ततः कल्याणनगराद्विनिष्क्रम्य महागुरुः ।।
भक्तानुग्रहणार्थाय चचार पृथिवीमिमां ।। ३ ।।
सर्वेभ्यो भक्तसंघेभ्यो लिंगैक्यानुग्रहात्प्रभुः ।।
निवर्त्य मायां दुर्ज्ञेयां ददौ मोक्षं कटाक्षतः ।। ४ ।।
सद्भक्तमानसोदंचत्कमलाकरसंततौ ।।
हंसो बभूव भगवान्नल्लमप्रभुवल्लभः ।। ५ ।।
तत्र कैलासशैलेंद्रे श्रीमानिंदुकलाधरः ।।
वृत्तान्तमखिलं तस्यै महादेव्यै न्यवेदयत् ।। ६ ।।
श्रुत्वा प्रभुकथावृत्तमशेषं शेषभूषणात् ।।
देवी प्रमुदितस्वान्ता तमेनं पर्यपृच्छत ।। ७ ।।
पृ० ११६) प्राणनाथ तवादेशात्सा कला सात्विकी मम ।।
तावकं शुद्धचैतन्यमनुसंप्रेषिता मया ।। ८ ।।
तद्वृत्तं मम न ज्ञातं सम्यगाज्ञापय प्रभो ।।
इति संप्रार्थितस्तस्यै कथयामास शंकरः ।। ९ ।।
आकर्णय सरोजाक्षि तावकी सात्विकी कला ।।
अक्वा महादेव्यभवत्प्रभावर्पितमानसा ।। १० ।।
प्रभुस्तु शुद्धचैतन्यं ममात्मा मूलकारणं ।।
समभूल्लोकरक्षार्थमल्लमो नाम योगिराट् ।। ११ ।।
तदनुग्रहसंप्राप्तलिंगैक्यज्ञाननिर्वृता ।।
अक्वा महादेव्यगमच्छ्रीगिरिं योगिसंश्रितं ।। १२ ।।
येंऽशाः प्रमथनाथानां ते च्छन्नबसवादयः ।।
अवतीर्णाः प्रभौ दत्तचित्तास्ते पृथिवीतले ।। १३ ।।
तत्तद्वंशेषु संभूतास्ते ते प्रमथनायकाः ।।
प्रभूपदिष्टलिंगैक्या बभूवुर्मोक्षकांक्षिणः ।। १४ ।।
तत्तत्कायिकसंप्राप्तधनैर्गुरुचरेश्वरान् ।।
समर्चयन्तः सततं जीवन्मुक्तिमवाप्नुवन् ।। १५ ।।
द्वितीयशंभुः सर्वज्ञः श्रीनंदीशोऽस्मदाज्ञया ।।
मह्यां मद्भक्तिमुद्धर्तुं मादाम्बानंदनोऽभवत् ।। १६ ।।
पृ० ११७) शिवकथितबसवेशचरितम् ।
मादनाराध्यपुत्रोऽसौ बसवाख्यो महामतिः ।।
कल्याणनगराधीशमंत्रिसाम्राज्यमाप्तवान् ।। १७ ।।
स्पर्शवेधिकरस्सोऽयं परवादिमतापहः ।।
वीरशैवान्वयोद्धर्ता बभूव परमास्तिकः ।। १८ ।।
मद्भक्तनायकमणिस्सोऽर्थ्यभीष्टार्थदायकः ।।
भक्ताधीनानि कृतवान्मनस्तनुधनान्यलं ।। १९ ।।
असंख्यातैश्शिवगणैस्सुखगोष्ठीप्रसंगतः ।।
कालं नयन्नयं धीरस्तस्थौ कल्याणपट्ट(त्त)ने ।। २० ।।
आगंतुकैर्यतिवरैः प्रभोर्माहात्म्यमद्भुतं ।।
श्रुत्वा तद्दत्तहृदयो बभूव बसवाधिपः ।। २१ ।।
कदा यास्यति मद्गेहमल्लमप्रभुवल्लभः ।।
कदा हृत्संशयाः सर्वे च्छेत्स्यन्ते तत्प्रसादतः ।। २२ ।।
कदा गुरुचरेशार्चारहस्यक्रममुत्तमं ।।
प्राणलिंगांगसंबंधं चोपदेक्ष्यति सद्गुरुः ।। २३ ।।
इति भक्तगणैस्साकं बसवेशो विधूदयं ।।
चकोर इव सोत्कण्ठं चकमे प्रभुदर्शनं ।। २४ ।।
पृ० ११८) अथाल्लमेशो वात्सल्याद्गौर्वत्समिव तं हृदि ।।
संस्मृत्य कल्याणपुरीमाजगाम जगद्गुरुः ।। २५ ।।
बसवप्रमुखैर्भक्तैः कृतपूजाविधिः स्वयं ।।
अनुजग्राह भगवानात्मज्ञानमचंचलं ।। २६ ।।
अनिर्वाच्यं परं तत्वमनुभाव्य गणान्गुरुः ।।
चिल्लिंगलीनसद्भावांश्चक्रे सम्यक्प्रबोधनात् ।। २७ ।।
वीरशैवोल्लमविभुर्लिंगे सर्वं प्रदर्शयन् ।।
सारं समनुजग्राह बसवादिगणेश्वरान् ।। २८ ।।
इत्युक्तवति देवेशे गिरिराजन्यकन्यका ।।
पप्रच्छ जनिताशंका शंकरं लोकशंकरं ।। २९ ।।
देवाल्लमः सर्वमयो नामरूपादिवर्जितः ।।
मतानि षट् सामान्यस्य वीरशैवे कथं रतिः ।। ३० ।।
शिवः प्राह महादेवीं शृणु मत्प्राणवल्लभे ।।
जानीहि परमाद्वैतं वीरशैवस्य वैभवं ।। ३१ ।।
रौद्रवैष्णवदौर्गार्कस्कांदगाणेश्वरात्मकं ।।
मतषट्कं पृथग्भिन्नं तांत्रिकैरुपपादितं ।। ३२ ।।
पृ० ११९) मतषट्के वीरशैवमतस्य प्राधान्यम् ।
द्वैतप्रधानं वेदान्तविरुद्धमसमंजसं ।।
धर्मार्थकामफलदं तत्तल्लोकैकसाधनं ।। ३३ ।।
पुनरावृत्तिहेतुत्वान्न मुक्तिः सा कथंचन ।।
परंतु बंधहेतुः स्यात्तत्तल्लोकगतिर्नृणां ।। ३४ ।।
न कर्मफलमुत्सार्य निर्मलामृतसाधनं ।।
मतषट्कं भवेद्देवि भेदज्ञानप्रधानकं ।। ३५ ।।
मीमांसकमतं यत्तु कर्मकाण्डमनिंदिते ।।
हिंसाप्रधानं तत्स्वर्गनरकादिफलप्रदं ।। ३६ ।।
दुर्मदान्धाः प्रकुर्वन्ति हिंसां स्वर्गार्थिनो नराः ।।
न जीवहिंसकान्मूढाननुगृह्णाति शंकरः ।। ३७ ।।
अनुग्रहं विना शंभोः कृपा न प्रसरेत्प्रिये ।।
विना शिवकृपां मुक्तिर्दूरापास्ता न संशयः ।। ३८ ।।
अतो नैष्कर्म्यसिद्ध्यैव वीरशैवे रतिर्भवेत् ।।
वीरशैवं हि वेदान्तसिद्धं मोक्षैकसाधनं ।। ३९ ।।
पृ० १२०) यावद्भेदमतिस्तावत्संसारो नैव नश्यति ।।
भेदबाधकमद्द्वैतं वीरशैवाख्यमद्रिजे ।। ४० ।।
अंगलिंगैक्यसंबंधाद्वीरशैवो भवेन्नरः ।।
जीवोंऽगलिंगमीशः स्यात्तयोरैक्यं हि संगतिः ।। ४१ ।।
शिवजीवैक्यविज्ञानमज्ञातार्थो हि लौकिकैः ।।
अज्ञातार्थे फलवति श्रुतेस्तात्पर्यमीर्यते ।। ४२ ।।
श्रुत्येकगम्यमद्वैतं वीरशैवाख्यमंगने ।।
भेदस्त्वाबालगोपालविदितो लौकिको मतः ।। ४३ ।।
तस्माद्वेदान्तविज्ञानसुनिश्चितधियां नृणां ।।
महात्मनां विरक्तानां वीरशैवे मतिर्भवेत् ।। ४४ ।।
वीरशैवोदिताद्धर्माल्लिंगैक्यज्ञानमाश्रिताः ।।
मोक्षं प्रयांति परमं पुनरावृत्तिवर्जितं ।। ४५ ।।
इत्युक्तवन्तं प्राणेशमवलोक्य गिरींद्रजा ।।
स्नेहात्कृतांजलिपुटा नमस्कृत्येदमब्रवीत् ।। ४६ ।।
अद्वैतिनो वीरशैवास्त्वहंब्रह्मेति निश्चिताः ।।
आराधयन्ति वा ते त्वां तूष्णीं तिष्ठन्ति वा विभो ।। ४७ ।।
पृ० १२१) वीरशैववर्तनक्रमस्वरूपवर्णनम् ।
यथा निःसंशयं चेतस्तथा कुरु ममेश्वर ।।
इति पृष्टो महादेवो जगाद वरवर्णिनीं ।। ४८ ।।
वीरशैवक्रमं धर्म्यं शृणु कल्याणि सांप्रतं ।।
येन विज्ञातमात्रेण शिवजीवैक्यमाप्नुयात् ।। ४९ ।।
भावाद्वैतं क्रियाद्वैतं वीरशैवे प्रशस्यते ।।
अद्वैतं भावयेच्चित्ते क्रियायां द्वैतमाश्रयेत् ।। ५० ।।
बाह्यकर्माणि संत्यज्य ममार्चनविधीरिताः ।।
सत्क्रियास्सकला नित्यं वीरशैवः करोत्यलं ।। ५१ ।।
मययेव सकलं कर्म समर्प्य दृढभावनः ।।
नाकांक्षति फलं किंचिद्वीरशैवो विरागवान् ।। ५२ ।।
मनस्तनुधनाकांक्षां त्यजन्नात्मसतीसुतान् ।।
समर्पयति यो मह्यं वीरशैवस्स उच्यते ।। ५३ ।।
यस्तु पंचेंद्रियभ्रान्तिं त्यक्त्वान्तकमलक्षयन् ।।
न शिवान्यदिति ज्ञानी स वीरः शैव उच्यते ।। ५४ ।।
एकमेव परं ब्रह्मेत्यन्यदेवाननर्चयन् ।।
पृ० १२२) लिंगैक्यमेव यः पश्येद्वीरमाहेश्वरः स वै ।। ५५ ।।
मतोद्धरणवेलायां दृष्टप्रत्ययपूर्वकं ।।
यः सिद्धान्तयते तत्वं स वीरः शांभवः स्मृतः ।। ५६ ।।
भक्त्या मां पूजयत्येव न वांच्छति फलं क्वचित् ।।
मद्दत्तमपि नादत्ते वीरशैवः स योगिराट् ।। ५७ ।।
गृहीतं न त्यजत्यार्ये व्रतं प्राणात्ययेऽपि च ।।
लिंगैक्यज्ञानसंपन्नः स भवेद्वीरशाम्भवः ।। ५८ ।।
सदांगे कीलयेल्लिंगं संगदोषविवर्जितः ।।
इष्टप्राणैक्यभावेनस योगी वीरशैवराट् ।। ५९ ।।
जातकं मृतकं वापि सूतकं यस्य नोभवेत् ।।
सदाशिवसमावेशात्स योगी वीरशाम्भवः ।। ६० ।।
शिवोद्देशकृतं पाकं भविनां नैव दर्शयेत् ।।
बहिर्जनेभ्यो नो दद्याद्वीरशैवो महेश्वरि ।। ६१ ।।
आचारो वीरशैवस्य वर्णितुं केन शक्यते ।।
गिरा गीष्पतिना वापि ब्रह्मणा विष्णुनाऽथवा ।। ६२ ।।
पृ० १२३) वीरशैवस्य माहात्म्यवर्णनम् ।
इत्युक्त्वोपरते कान्ते शांकरी विस्मयान्विता ।।
पुलकांकितगात्री तं पुनः प्रोवाच शंकरं ।। ६३ ।।
मन्नाथ वीरशैवास्ते सततं लिंगधारिणः ।।
सालम्बा इव भासन्ते निरालम्बाः कथं वद ।। ६४ ।।
कथं तनुमनोर्थेषु ममता नास्ति तादृशां ।।
आज्ञापयेत्यभिहितो गिरिजां गिरिशोऽब्रवीत् ।। ६५ ।।
माहात्म्यं वीरशैवस्य शृणुष्वावहिता सती ।।
तनुत्रितयसंसक्तां मनोवृत्तिपरंपरां ।। ६६ ।।
दीक्षात्रयेण संत्यज्य त्रिलिंगानां त्रिभिः क्रमात् ।।
अंगैरैक्यं पुनश्चैक्यं तेषां संभाव्य धीरधीः ।। ६७ ।।
भक्तमाहेश्वरादीनां सोपानानां परंपरां ।।
समारुह्यांगलिंगास्यहस्तज्ञानपुरस्सरं ।। ६८ ।।
सर्वाश्शक्तीः समीकृत्य लिंगैक्यसरणीं भजन् ।।
अब्धौ पतत्करकवद्व्योमव्याप्तसमीरवत् ।। ६९ ।।
वह्नौ मिलच्चंद्रकवत्स्वात्मलीनतनुत्रयः ।।
पृ० १२४) तादात्म्यसिद्धिं लभते गुरोः करुणया बुधः ।। ७० ।।
वस्तुज्ञानात्तस्य नास्ति संगो देहेंद्रियादिभिः ।।
पार्श्वर्स्थैर्दृश्यमानोऽपि जीवन्मुक्तस्य योगिनः ।। ७१ ।।
इति शम्भोर्वचः श्रुत्वा नत्वा गिरिवरात्मजा ।।
ज्ञात्वा भावरहस्यं तत्कृतार्थाऽस्मीत्यमन्यत ।। ७२ ।।
दण्डवत्प्रणमन्तीं तां खण्डेंदुधर ईश्वरः ।।
बाहुभ्यां सम्परिष्वज्य प्रीणयामास भामिनीं ।। ७३ ।।
मायाजयकृतामीर्ष्यां परित्यज्याल्लमप्रभौ ।।
जगद्गुरुरयं साक्षादित्यमन्यत पार्वती ।। ७४ ।।
अस्मद्भक्तगणान्सर्वानरक्षीदल्लमप्रभुः ।।
मोक्षं दत्वेत्युमाशंभू हृदये मुदमापतुः ।। ७५ ।।
गौरीमहेश्वरौ रम्ये कैलासशिखरीश्वरे ।।
अल्लमानन्दभरितौ सुखगोष्ठ्या स्थितौ द्विजाः ।। ७६ ।।
अत्राल्लमस्तरुणवृद्धजनान्नृपालान्बालान्दरिद्रनिवहान्धनिकान्सुशीलान्
।।
गोब्राह्मणानखिलजंतुगणानशेषश्रेणीरनुग्रहवशात्सततं पुपोष ।।
७७ ।।
पृ० १२५) सूतं प्रति मुनीनां रहस्यतत्वविषयकप्रश्नः ।
जगदखिलमधीशः शांभवानंदपूर्णं सकलफलसमृद्ध्या
सौख्यसंपत्समेतं ।।
सकरुणमनुगृह्य श्रीगुरुः स्वेच्छयैव प्रकटितगुणमूर्तिः पावयामास
भूमिं ।। ७८ ।।
इयमखिलमुनीन्द्राः श्रीगुरोर्दिव्यलीला गणचरितविशाला
व्यासमौनिप्रसादात् ।।
हृदयकमलवासिश्रीमहेशाज्ञयोक्ता प्रभवतु पठितृर्णां
भोगमोक्षानुकूला ।। ७९ ।।
सूतोक्तं प्रभुलिंगमूर्तिचरितं श्रुत्वा मुनीन्द्राः परं
ब्रह्मानंदसुधांबुधौ चिरतरं संपाद्य डोलायिताः ।।
सानंदैकरसास्तमेनमभितः स्तुत्वा प्रणम्यादरात् जीवन्मुक्तिमवाप्नुवन्
परशिवे सर्वं समर्प्यांजसा ।। ८० ।।
श्रुत्वा चित्रं चरित्रं पुनरपि मुनयः सूतपुत्रं विलोक्य स्वामिन्
विस्पष्टमस्मन्मतिखचितमिदं प्रष्टुकामा रहस्यं ।।
वक्तव्यं तत्त्वयाऽपि प्रकटितकृपया लोकसंरक्षणार्थं शास्त्रार्थं
स्वात्मनीनं सकलमपि मनस्याकलययेत्यपृच्छन् ।। ८१ ।।
पृ० १२६) चतुर्मुखः सर्वमिमं प्रपंचं ससर्ज सर्वेशितुराज्ञयेति ।।
त्वयोक्तमादौ श्रुतिभिश्च सूक्तं पुरेव धातासृजतात्मनेति ।। ८२ ।।
तदीयसृष्ट्यां सुरमानुषाद्याः समस्तजीवास्सुखमोक्षकामाः ।।
श्रयन्ति सर्वेश्वरमेव सर्वे किमर्थमन्येऽधिपतिं महात्मन् ।। ८३ ।।
पुराणभागेषु भवन्मुखेन श्रुतेषु सर्वेषु च तत्र तत्र ।।
विधींद्रविष्ण्वादिसुराश्रितानां पृथऽऽन्नयानां कथिताः कथास्ताः
।। ८४ ।।
तथा द्विजक्षत्रियवैश्यशूद्राः सलोमजाताः प्रतिलोमजाश्च ।।
श्रुतास्तथैवाश्रमिणश्च तेषां विभिन्नधर्माः पृथगर्थभाजः ।।
८५ ।।
शिवैकतानाः शरणाः प्रसिद्धाः श्रुतास्तथा तेषु महानुभावाः ।।
गृहीतवर्णाश्रमधर्मनिष्ठास्तथा निराभारपदाभिषिक्ताः ।। ८६ ।।
प्रभुस्तु सर्वं जगदेतदीशश्चकार साक्षादिह वीरशैवं ।।
श्रुतिर्हि सर्वत्र गतौ प्रमाणं तदेकरूप्यं कथमीश भाव्यं ।। ८७ ।।
इदं हि सर्वं परिमृश्य विद्वन्समस्तशास्त्रेष्वविरुद्धतत्वं ।।
पृ० १२७) शिवकृत सृष्टिविषयकवर्णनम् ।
त्वयोपदेश्यं करुणांबुराशे मनस्समाधातुमिहास्मदीयं ।। ८८ ।।
मुनीनिति प्रार्थयतो विलोक्य प्रसाददृष्ट्या शिवयोगिवर्यः ।।
समस्तशास्त्रार्थरहस्यतत्वं प्रकाशयन्नाह गुरूपदिष्टं ।। ८९ ।।
अहो मुनीद्राः परतत्वनिष्ठाः शृणुध्वमात्मन्यवधानयुक्ताः ।।
भवत्कृतं प्रश्नमिमं भवान्या समाददे * * * * [टीप- ताडपत्री
पुस्तकांत तीं अक्षरें फाटून गेलीं होतीं सबब न समजल्यामुलें
तेथें फुल्या घातल्या आहेत ।] क्तं ।। ९० ।।
कालो ह्यनादिः शिवसृष्टमेतत्प्रपंचजातं सकलं हृदैव ।।
तदाज्ञयावान्तरसृष्टयस्ताः कृताः क्वचिद्विष्णुविधातृमुख्यैः ।। ९१
।।
अनंतवेदेष्वपि तत्र तत्र पुराणभागेषु तथागमेषु ।।
निरूप्य तत्तत्कृतसृष्टिभेदान् प्रधानतः शांभवसृष्टिरुक्ता ।। ९२
।।
महेश्वराज्ञामवलंब्य सर्वे सृजन्तु धात्रादय ईश्वरस्तान् ।।
शिवोऽनुगृह्णाति ततो महेशं स्वकारणं तेऽपि समाश्रयन्ते ।। ९३ ।।
विश्वाधिको रुद्र इति श्रुतिश्च ब्रूते प्रभुं स्वात्मनि विश्वसेव्यं ।।
करोति तस्मै श्रुतिरेव साक्षात्सदा नमस्कारसहस्रजातं ।। ९४ ।।
पृ० १२८) अतः शिवे भक्तिरचंचलैव समस्तलोकस्य विमुक्तिहेतुः ।।
मायाविमुक्तिः खलु मुक्तिरुक्ता प्रभुं विना तां विजयेत को वा ।। ९५ ।।
उपास्य सर्वे प्रभुमेव देवाः प्रकृष्टलिंगैक्यपदं प्रपन्नाः ।।
अनुग्रहाद्विष्णुमुखाश्च देवास्समाश्रिताः कैश्चिदमुष्य शंभोः ।। ९६
।।
पदं प्रयच्छन्ति पदार्चकेभ्यः स्वकीयमेवाब्जभवाच्युताद्याः ।।
न तत्र लिंगैक्यसुखे ततोऽमी पुनः प्रयात्येव जनिं मृतिं च ।। ९७ ।।
य ईश्वरांशत्वधिया श्रयन्ते स्वकर्मशक्तेरिह विष्णुमुख्यान् ।।
प्रपद्य ते तद्भवनं तदुक्तेर्महेश्वरोपास्तिरता भवन्ति ।। ९८ ।।
सदाशिवैक्यानुभवैकगोष्ठ्या तदीश्वरेणैव समाहितास्ते ।।
प्रपद्य दीक्षां प्रलये प्रसक्ते भजन्ति तेनैव सहेश्वरत्वं ।। ९९ ।।
ये तु स्वतंत्रानिह मुक्तिहेतूनाश्रित्य तान्विष्णुमुखान्भजन्ति ।।
गत्वापि ते तत्पदमाशु नष्टाः पुनः प्रयांत्येव भवांबुराशिम् ।। १००
।।
जितेंद्रियास्ते यदि सात्विकेन हृदाभजन् विष्णुमुखानबुद्ध्वा ।।
पृ० १२९) शिवमहत्ववर्णनम् ।
आवृत्य तत्तत्पदतोऽपि तेऽमी बुध्यन्ति संस्कारवशान्महेशं ।। १०१ ।।
ते जन्मजन्मन्यथ शैवनिष्ठाः क्रमाद्भविष्यन्ति हि वीरशैवाः ।।
पदं प्रयास्यन्ति शिवैक्यमन्ते समस्तवेदान्तनिगूढमेतत् ।। १०२ ।।
ये निंदकाः शांभवशंभुभक्तेर्दुराग्रहाद्विष्णुमुखान्भजन्ते ।।
त्यक्ताश्च ते तैः प्रविशन्ति सत्यं तमोऽन्धमेवात्र न संशयः स्यात् ।।
१०३ ।।
पुराणभागेषु तु विष्णुमुख्याः प्रकाशिताश्शंभुपदाब्जभक्त्या ।।
महानुभावाः खलु तेऽपि धन्याः प्रसीदतीशः खलु भक्तभक्त्या ।। १०४
।।
क्वचिद्यदा भागवतादिभागे न्यूनत्वमुक्तं हरिपद्मजाभ्यां ।।
रुद्रस्य तज्ज्ञेयमसंख्यरुद्रेष्वेकस्य कस्याऽपि गुरुप्रसादात् ।। १०५ ।।
तमोगुणाधिक्यवशेन विष्णुब्रह्मादिदेवा अपि शंभुमीशं ।।
क्वचिद्विरुध्येशहतास्तदेषां न दूषणं यद्गुणमाश्रयन्ति ।। १०६ ।।
पृ० १३०) प्रभोस्तु तस्याखिलकारणस्य प्रमत्ततत्तन्निजभृत्यसंघान् ।।
विशिष्य संशिक्ष्य विवेकदानं कर्तव्यमेवार्तिहरस्य तेषां ।। १०७ ।।
अतो महान्तो बहुजन्मपुण्यप्रभावलब्धाधिकभाग्ययोग्याः ।।
महेश्वरं कारणकारणं तं समाश्रयन्त्येव सदाशिवाख्यं ।। १०८ ।।
तदीयभक्तत्वधिया हरींद्रविधातृमुख्यानपि भावयन्ति ।।
महेश्वरे सर्वमखण्डदृष्ट्या लीनं प्रकुर्वन्ति समाधिनिष्ठाः ।। १०९
।।
महात्मनां शंकरभक्तिनिष्ठा तदंशसाम्याद्भुवि मध्यमानाम् ।।
अथाधमानामितरत्र भक्तिर्भवेन्नृणां कर्मवशान्मुनीन्द्राः ।। ११० ।।
वर्णाश्रमाश्चापि शिवाज्ञयैव श्रुत्योदितास्सर्वजगत्प्रसिद्धाः ।
देहस्य धर्माः खलु सर्व एते न ह्यात्मनः सर्वगताद्वयस्य ।। १११ ।।
आज्ञा श्रुतिस्तस्य महेश्वरस्य स्वयं विधत्तेऽखिलकर्मजालं ।
पृ० १३१) जनानविद्यादिमतोऽधिकृत्य शुक्लं निषेधत्यपि कृष्णकर्म ।। ११२
।।
भक्तिं विरक्तिं तदशुक्लकृष्णं दीक्षां विधत्ते च मुमुक्षुसंघान् ।
विरक्तिदार्ढ्ये सकलं विहाय शिवैक्यनिष्ठां परमां विधत्ते ।। ११३ ।।
यथाधिकारं प्रसमीक्ष्य विद्वान् गुरूपदिष्टः श्रुतिसिद्धमर्थं ।
समाश्रयेत्सत्क्रियया विशुद्धौ चित्तस्य विज्ञानपथं प्रयायात् ।। ११४ ।।
आज्ञापि नोल्लंघयितुं हि शक्या कर्मत्यजेदित्यपि सैव सिद्धा ।
अतो विरक्तः शिवदीक्षितोऽसौ प्रसाध्य भक्तिं विसृजेत कर्म ।। ११५ ।।
यद्ब्राह्मणो मुख्यतया प्रसिद्धः सर्वेषु वर्णेषु शिवस्तथैव ।
सर्वोत्तमो ब्राह्मण इत्युपास्यस्तद्ब्राह्मणैर्ब्राह्मण एव सोऽयं ।। ११६ ।।
जात्या प्रकृत्या द्विविधः स वेद्यो यो ब्राह्मणो ब्राह्मणभक्तियुक्तः ।
तद्भक्तिशून्यो न हि जातिमात्रात्स ब्राह्मणो ब्राह्मणमत्र मानं ।। ११७ ।।
यो ब्राह्मणः स्याद्विमलः प्रकृत्या स एव शास्त्रेष्विह जंगमः स्यात् ।
पृ० १३२) द्विजस्तु जात्या शिवतत्वहीनो न संमतो ब्राह्मण इत्ययं नः ।।
११८ ।।
यथोक्तकर्माचरणैकमात्राद्द्विजः स पित्रादिगतिं प्रयाति ।
अकर्मशैवोऽन्यसुरेषु भक्तस्तल्लोकगामी पुनरेति मृत्युं ।। ११९ ।।
यो ब्रह्मवेत्ता शिवमार्गनिष्ठस्स ब्राह्मणो मुक्तिमुपैति धन्यः ।
अन्योऽपि जात्या शिवभक्तिपूर्णः स ब्राह्मणत्वं प्रतिपद्य मुक्तः ।। १२०
।।
न शूद्रता स्याद्भगवत्यधीशे भक्तस्य दीक्षाविधिमाश्रितस्य ।
अदीक्षितः शांभवभक्तिमार्गे शिवापराधाच्छ्वपचत्वमेति ।। १२१ ।।
शिवः स्वयं ब्राह्मणदैवतं स्याज्जनार्दनः क्षत्रियवंश्यसेव्यः ।
चतुर्मुखो वैश्यकुलैरुपास्यो गणेश्वरोपास्तिपरो हि शूद्रः ।। १२२ ।।
इति स्मृतिः प्राह मनोस्तदस्य वाक्यस्य तात्पर्यमिदं हि बोध्यं ।
भजेत यो योऽधिपमेव यं यं स एव तत्तत्प्रकृतिः किलेति ।। १२३ ।।
अतः शिवं पुण्यवशादुपास्ते समस्तजातीयनरो विशेषात् ।
पृ० १३३) कुलाकुल वीरशैवभेदनिरूपणम् ।
स इष्यते ब्राह्मणवद्गुणाढ्यो विशेषदीक्षावशतश्चरोऽसौ ।। १२४ ।।
शिवैकतानाः खलु सर्व एते भवन्ति सामान्यवशेन शैवाः ।।
विशेषदीक्षावशतस्त एते भवन्ति वर्णा भुवि वीरशैवाः ।। १२५ ।।
ततो निराभारपदैकदीक्षाश्चराग्रगण्यास्तु शिवावधूताः ।
विरागपूर्णा यतयो मुनींद्रास्समस्तलोकं ननु पावयन्ति ।। १२६ ।।
कुलाकुलत्वेन हि वीरशैवं द्विधा विभिन्नं कुलमार्गनिष्ठैः ।
यदेव लिंगांगिभिराश्रितं स्याच्छिवोक्तरीत्या कुलवीरशैवं ।। १२७ ।।
तथाऽकुलं नाम कुलं विखण्ड्य प्रसादसंकेतरहस्यनिष्ठैः ।
तदेकदीक्षैश्च गृहीतदारैश्शिवार्चकैश्शीलयुतैरुपास्यं ।। १२८ ।।
अनादिसिद्धं ननु वीरशैवं शिवोपदिष्टं प्रमथान्वयेऽस्मिन् ।
प्रसिद्धिमेति द्विविधं च लोके विमुक्तिहेतुर्गुणतारतम्यात् ।। १२९ ।।
पृ० १३४) श्रुतिश्चयो वक्ति शिवेति नाम स्फुटं सदीक्षः श्वपचोऽपि
सोऽयं ।
गुणाधिकस्तेन सहैव भुंज्याद्वदेच्चरेत्सन्निवसेत्तथेति ।। १३० ।।
अतः कुलत्यागवशान्न दोषः शिवात्मनां शीलवतां नराणां ।
तदीयरक्षार्थमिमं ससर्ज स्वयं शिवो जंगमलिंगवंशं ।। १३१ ।।
अनादिसिद्धस्तु चरान्वयोऽयं शिवेन मूर्ध्ना स्वयमेव सृष्टः ।
अतः प्रभुर्जंगमलिंगलीलामवाप्य भक्तानवनावरक्षत् ।। १३२ ।।
पुनः कलौ दुष्कुलबौद्धसंघैर्विनष्टशैवोद्धरणाय देवः ।।
प्रभुः स एवावतरिष्यतीमे वृषेश्वराद्याश्च यथा पुरैव ।। १३३ ।।
तथैव सा चित्कलिकावतीर्य प्रभौ समायास्यति सामरस्यं ।
स षण्मुखश्छन्नघनो भविष्यत्ययं च वीरो मणिवालनाथः ।। १३४ ।।
तथा पुरावृत्तमिदं च तिष्ये भविष्यतीहैव भविष्यतीत्थं ।
श्रुतं प्रभोस्सच्चरितं मुनींद्रास्सदानुभाव्यं हृदये भवद्भिः ।। १३५
।।
पृ० १३५) कथोपसंहृतिः ।
सर्वोत्तमा वैदिकमार्गनिष्ठाः श्रेष्ठास्तु तेभ्यो ननु योगनिष्ठाः ।
तेभ्योऽधिकाः शैवरता महान्तः श्रीवीरशैवास्तु ततोऽधिकास्ते ।। १३६
।।
दीक्षैकनिष्ठास्त्वकुला महान्तः श्रीवीरशैवेऽपि ततोऽधिकास्ते ।
श्रीमन्निराभारविरागनिष्ठाः श्रुत्यातिवर्णाश्रमिणः प्रसिद्धाः ।।
१३७ ।।
ततो महान्तः कुलवीरशैवं क्षितौ प्रतिष्ठापयितुं गणास्ते ।
तदीयवंशेष्ववतीर्य तत्वं प्रकाशयंति प्रतिभाविशेषात् ।। १३८ ।।
कलौ भविष्यन्ति महानुभावाश्शैवान्वये तत्र च वीरशैवे ।
संरक्षितुं शांभवमद्वितीयं दधीचिशप्तान्वयसंभवेभ्यः ।। १३९
।।
सूतोक्तमल्लमगुरोश्चरितं निशम्य ते शांभवाः प्रमुदिताः
परमानुभावाः ।
रुद्राक्षभस्मफलवल्कलवीटिकाद्यैर्हृद्यैरुपायनशतैः प्रणतिं
प्रचक्रुः ।। १४० ।।
सकृदपि गुरुलीलां धारयन्तः श्रुतान्ता भवजलनिधितीर्णाः
पूर्णकामा बभूवुः ।
पृ० १३६) भृगुतनयमुखास्ते वीरशैवं
स्तुवन्तस्सततमचलितेष्टप्राणभावैक्यभावाः ।। १४१ ।।
इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां
श्रीवीरमाहेश्वरामृतानंदसूक्तिसूत्रग्रथितपंचविंशतितत्वमौक्तिकम्
अहनीयमालायां प्रमथगणवचनपरंपरानुकूलायां
कलिकल्मषनिमग्नजनसमुद्धरणशीलायां प्रभुलिंगलीलायां
परमेश्वरप्रसादसंप्राप्तमहेश्वरीमनःसमाधानवीरशैवमहिमानुसं
धानप्रस्तुतकथोपसंहृतिकथनगतिर्नाम पंचविंशोऽध्यायः ।
श्रीपरमेश्वरार्पणमस्तु ।
श्रीनंदिकेश्वराय नमः ।।
।। श्रीः ।। श्रीः ।।
</poem>
== स्रोतः ==
*[https://muktalib7.com/DL_CATALOG_ROOT/digital_library.htm मुक्तबोधपुस्तकालयः]
[[वर्गः:तन्त्रग्रन्थाः]]
c98tmf5jrj6m7uf9pfljnmp39liih3n