विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.2 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१० 104 104759 415859 267772 2026-05-14T13:08:40Z Geeta g hegde 6704 415859 proofread-page text/x-wiki <noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|२७६|मनुस्मृतिः।|[ अध्यायः ७}}</noinclude> {{gap}}निधीनामिति ॥ निधीनां पुरातनानामस्वकीयानां विद्वद्राह्मणेतरलब्धानां सुवर्णाद्युत्पत्तिस्थानानां चार्धहरो राजा । यस्मादसौ रक्षति भूमेश्च प्रभुः ॥ ३९॥ {{Block center|{{bold|<poem>दातव्यं सर्ववर्णेभ्यो राज्ञा चौरेहृतं धनम् । राजा तदुपयुञ्जानश्चौरसाप्नोति किल्विषम् ॥ ४० ॥</poem>}}}} {{gap}}दातव्यमिति ॥ यद्धनं चौरैलॊकानामपहृतं तद्वाज्ञा चौरेभ्य आहृत्य धनस्वा- निभ्यो देयं । तद्धनं राजा स्वयमुपयुञानश्चौरस्य पापं प्रामोति ॥ ४० ॥ {{Block center|{{bold|<poem>जातिजानपदान्धर्माश्रेणीधर्मांश्च धर्मवित् । समीक्ष्य कुलधर्माश्च स्वधर्म प्रतिपादयेत् ॥ ४१ ॥</poem>}}}} {{gap}}जातीति ॥ धर्मान्ब्राह्मणादिजातिनियतान्याजनादीन् जानपदांश्च नियतदेश- व्यवस्थितानान्नायाविरुद्धान्, देशजातिकुलधांश्च 'आम्नायैरपतिपिद्धाः प्रमाणम्' इति गोतमस्मरणात् । श्रेणीधर्माश्च वणिगादिधर्मान्प्रनिनियतकुलव्यवस्थिता- ज्ञात्वा तदविरुद्धानराजा व्यवहारेषु तत्तद्धर्मान्व्यवस्थापयेत् ॥ ४१ ॥ {{Block center|{{bold|<poem>स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः । प्रिया भवन्ति लोकस्य स्खे खे कर्मण्यवस्थिताः॥४२॥</poem>}}}} {{gap}}यस्मात् स्वानीत्यादि ॥ जानिदेशकुलधर्मादीन्यात्मीयकर्माण्यनुतिष्ठन्तः, स्वे स्वे च नित्यनैमित्तिकादौ कर्मणि वर्तमानाः, दूरेऽपि सन्तः सांनिध्यनिबन्धनस्नेहा- भावेऽपि लोकस्य प्रिया भवन्ति ॥ ४२ ॥ {{gap}}प्रासङ्गिकमिदमभिधाय पुनः प्रकृतमाह- {{Block center|{{bold|<poem>नोत्पादयेत्स्वयं कार्य राजा नाप्यस्य पूरुषः । न च प्रापितमन्येन असेदर्थ कथंचन ॥४३॥</poem>}}}} {{gap}}नोत्पादयेदिनि ॥ राजा राजनियुक्तो वा धनलोभादिना कार्यमृणादिविवाद नोत्पादयेत् । तदाह कात्यायन:-'न राजा तु वशित्वेन धनलोभेन वा पुनः । स्वयं कर्माणि कुर्वीत नराणामविवादिनाम् ॥' न चार्थिना प्रत्यर्थिना वावेदितं विवादं धनादिलोभेनोपेक्षेत ॥ ४३ ॥ {{Block center|{{bold|<poem>यथा नयत्यमुक्पातैर्मृगस्य मृगयुः पदम् । नयेत्तथानुमानेन धर्मस्य नृपतिः पदम् ॥ ४४ ॥</poem>}}}} {{gap}}यथेति ॥ यथा मृगस्य शस्त्रहतस्य रुधिरपातैाधः पदं स्थान प्राप्नोति तथानु- मानेन इष्टप्रमाणेन वा धर्मस्य तत्त्वं निश्चिनुयात् ॥ ४४ ॥ {{Block center|{{bold|<poem>सत्यमर्थं च संपश्येदात्मानमथ साक्षिणः । देशं रूपं च कालं च व्यवहारविधौ स्थितः॥४५॥</poem>}}}} {{gap}}सत्यमित्यादि ॥ व्यवहारदर्शनप्रवृत्तो राजा छलमपहाय सत्यं पश्येत्तथाथै च ।<noinclude></noinclude> d41smbb9wkcvkumu4toow24vb20l1ua पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३११ 104 104760 415860 267773 2026-05-14T13:14:23Z Geeta g hegde 6704 415860 proofread-page text/x-wiki <noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|left=अध्यायः ७]|center=मन्वथमुक्तावलासवालता ।|right=२७७}}</noinclude> {{gap}}अशआदित्वान्मत्वर्थीयोऽच् । अर्थवन्तं गोहिरण्यादिधनविषयस्थं व्यवहारं पश्येत् न त्वहमनेनाक्षिनिकोचनेनोपहसित इत्यादिस्वल्पापराधम्, आत्मानं च तत्त्वनिर्णये स्वर्गादिफलभागिनं, साक्षिणः सत्यवादिनः, देशं कालं च देशकालोचितं स्वरूपं, व्यवहारस्वरूपं गुरुलघुतादिकं पश्येत् ॥ ४५ ॥ {{Block center|{{bold|<poem>सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः । तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् ॥ ४६॥</poem>}}}} {{gap}}सद्भिरित्यादि ॥ विद्वद्भिर्धर्मप्रधानैर्द्विजातिभिर्यदृश्यमानशास्त्रमनुष्ठितं तद्देशकु- लजात्यविरुद्धमादाय व्यवहारनिर्णयं प्रकल्पयेत् ॥ ४६ ॥ {{gap}}एतत्सकलव्यवहारसाधारणं परिभाषात्मकमुक्तम् । संप्रति ऋणादानमधि- कृत्याह- {{Block center|{{bold|<poem>अधमार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः । दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम् ॥ ४७ ॥</poem>}}}} {{gap}}अधमर्णार्थेति ॥ अधमर्थसियर्थं प्रयुक्तधनसियर्थ धनस्वामिना राजा बोधितो वक्ष्यमाणलेख्यादिप्रमाणप्रतिपादितं धनमुत्तमर्णस्याधमग प्रदापयेत् । अधमर्णादुत्तमाय दापयेदित्यर्थः ॥ ४७ ॥ {{gap}}कथं दापयेदित्याह- {{Block center|{{bold|<poem>यैर्यैरुपायैरर्थ खं प्राप्नुयादुत्तमर्णिकः । तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकम् ॥ ४८ ॥</poem>}}}} {{gap}}येयरिति ॥ यैर्वक्ष्यमाणैरुपायैः संप्रयुक्तमर्थमुत्तमों लभते तैस्तैरुपायैर्वशी- कृत्य तमर्थ दापयेत् ॥ ४८ ॥ {{gap}}तानुपायानाह- {{Block center|{{bold|<poem>धर्मेण व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेदर्थ पञ्चमेन बलेन च ॥ ४९ ॥</poem>}}}} {{gap}}धर्मेणेत्यादि ॥ धर्मादिना प्रयुक्तमर्थ साधयेत् । तत्र धर्मानाह बृहस्पतिः- 'सुहृ-संबन्धिसंदिष्टः साम्ना चानुगमेन च । प्रायेण वा ऋणी दाप्यो धर्म एष उदाहृतः॥' देये धनेऽधमर्णस्याविप्रतिपत्तौ व्यवहारेण । तथा च वक्ष्यति-'अर्थे- ऽपव्ययमानं तु' इति । मेधातिथिस्तु निःस्वो यः स व्यवहारेण दापयितव्यः। अन्य- कर्मोंपकरणं धनं दत्त्वा कृषिवाणिज्यादिना व्यवहारयितव्यः । तदुत्पन्नं धनं तस्मात्तु गृह्णीयादित्याह । छलादीनि त्रीण्याह बृहस्पतिः-'छद्मना याचितं चार्थ- मानीय ऋणिकावली । अन्याहृतादि वाहृत्य दाप्यते तत्र सोपधिः ॥ दारपुत्रपशू- न्हत्वा कृत्वा द्वारोपवेशनम् । यत्रार्थी दाप्यतेऽथ स्वं तदाचरितमुच्यते ॥ वध्वा स्वगृहमानीय ताडनाद्यैरुपक्रमैः । ऋणिको दाप्यते यत्र बलात्कारः प्रकीर्तितः' । मनु० २४<noinclude></noinclude> t69sftqca9r3xnw2sq1ou8lsgcrolsp पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१२ 104 104761 415862 267774 2026-05-15T11:05:29Z Geeta g hegde 6704 415862 proofread-page text/x-wiki <noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|२७८|मनुस्मृतिः।|[ अध्यायः ७}}</noinclude> {{Block center|{{bold|<poem>यः स्वयं साधयेदर्थमुत्तमोऽधमर्णिकात् । न स राज्ञाभियोक्तव्यः स्वकं संसाधयन्धनम् ॥५०॥</poem>}}}} {{gap}}य इत्यादि ॥ य उत्तमर्णः संप्रतिपन्नमर्थमधमर्णात्स्वयं बलादिना साधयति स स्वीयं धनं सम्यक्साधयन्नमास्व निवेद्य किमिति बलादिकं कृतवानसीति न राज्ञा निषेद्धव्यः ॥ ५० ॥ {{Block center|{{bold|<poem>अर्थेऽपव्ययमानं तु करणेन विभावितम् । दापयेद्धनिकस्यार्थ दण्डलेशं च शक्तितः॥५१॥</poem>}}}} {{gap}}अर्थ इति ॥ नाहमस्मै धारयामीति धनविषयेऽपह्नवानमधमणे करणेन लेख्यसाक्षिदिव्यादिना प्रतिपादितमर्थमुत्तमर्णस्य राजा प्रदापयेत् । दण्डलेशं च 'अपह्नवे तु द्विगुणम्' इति वक्ष्यमाणदशमभागदण्डाच्यूनमपि दण्डं पुरुषशक्त्या दापयेत् ॥ ५१ ॥ {{Block center|{{bold|<poem>अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि । अभियोक्तादिशेद्देश्यं करणं वान्यदुद्दिशेत् ॥ ५२ ॥</poem>}}}} {{gap}}अपेति ॥ उत्तमर्णस्य धनं देहीति सभायां प्राड्दिवाकेनोकस्याधमर्णस्य नास्सै धारयामीत्यपलापे सति अभियोक्ताऽर्थी देश्यं धनप्रयोगदेशवर्तिसाक्षिणं निर्दि- शेत् । प्रायेण साक्षिभिरेव स्त्रीमूर्खादिसाधारगनिर्णयात्माक्साक्ष्युपन्यासः। अन्यद्वा करणं पत्रादि कथयेत् ॥ ५२ ॥ {{Block center|{{bold|<poem>अदेश्यं यश्च दिशति निर्दिश्यापहृते च यः । यश्चाधरोत्तरानान्विगीतान्नावबुध्यते ॥ ५३॥ अपदिश्यापदेश्यं च पुनर्यस्त्वपधावति । सम्यक्प्रणिहितं चार्थ पृष्टः सन्नाभिनन्दति ॥ ५४॥ असंभाष्ये साक्षिभिश्व देशे संभाषते मिथः । निरुच्यमानं प्रश्नं च नेच्छेद्यश्चापि निष्पतेत् ॥ ५५ ॥ ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् । न च पूर्वापरं विद्यात्तस्मादर्थात्स हीयते ॥ ५६ ॥</poem>}}}} {{gap}}अदेश्यमिति ॥ अपदिश्येति ॥ असंभाष्य इति ॥ बहीत्यादि ॥ अदेश्यं यत्र देशेऽधमर्णस्य ऋणग्रहणकाले सर्वदावस्थानं न संभवतीति । निर्दिश्य चादेशादिकं नैतन्मया निर्दिष्टमित्यपनयति । यश्च पूर्वोक्तानान्स्वर्थान्स्वोक्तान्विरुद्धान्वावग- च्छति । यश्च मम हस्तात्सुवर्णस्य पलमनेन गृहीतमिति निर्दिश्य मत्पु- ब्रहस्ताद्गृहीतमित्येवमादिना यः पुनरपसरति । यश्च सम्यक्प्रतिज्ञातमर्थ कस्मा- त्वया रात्रावसाक्षिकं दत्तमित्येवमादि प्राड्दिवाकेन पृष्टः सन्न समाधत्ते । यश्च<noinclude></noinclude> 3mbef0ifuhwpcjas4u4ds3gkx7qu8jx पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१३ 104 104762 415863 267777 2026-05-15T11:13:12Z Geeta g hegde 6704 415863 proofread-page text/x-wiki <noinclude><pagequality level="1" user="शारदा भट्ट" />{{rh|left=अध्यायः ७]|center=मन्वथमुक्तावलासवालता ।|right=२७९}}</noinclude> {{gap}}संभाषणानह निर्जनादिदेशे साक्षिभिः सहान्योन्यं संभाषते । यश्च भाषार्थस्थिरी- करणाय नितरामुच्यमानं प्राडिवाकेन प्रश्नं नेच्छेत् । यश्च निष्पतेत् उक्ताश्च व्यवहारान्पुराऽनाख्याय यथा स्थानात्स्थानान्तरं गच्छेत् । यश्च बहीत्युक्तो न किंचिद्रवीति । उक्तं साध्यं न प्रमाणेन प्रतिपादयति । पूर्व साधनं, अपरं साध्यं, तद्यो न जानाति । असाधनमेव साधनत्वेन निर्दिशति । असाध्यमेव मानेन 'शश- शृङ्गकृतं धनुज्ञेयम्' इत्यादि साध्यत्वेन निर्दिशति स तस्मात्साध्यादर्थाद्धीयते {{Block center|{{bold|<poem>साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः। धर्मस्थः कारणैरेतैहीनं तमपि निर्दिशेत् ॥ ५७ ।।</poem>}}}} {{gap}}साक्षिण इति ॥ साक्षिणो मम विद्यन्त इत्युक्त्वा तानिर्दिशेत्युक्तो यो न निर्दि- शति तं पूर्वोक्तैरेभिः कारणैर्धर्मस्थः प्राडिवाकः पराजितं कथयेत् । 'ज्ञातारः सन्ति मेत्युक्त्वा' इति वा पाठः । अत्र छान्दसमिकारस्य पूर्वरूपत्वम् ॥ ५७ ॥ {{Block center|{{bold|<poem>अभियोक्ता न चेडूयाद्वथ्यो दण्ड्यश्च धर्मतः । न चेत्रिपक्षात्प्रयाद्धर्म प्रति पराजितः ॥ ५८ ॥</poem>}}}} {{gap}}अभियोक्तेति ॥ योऽर्थी सन् राजस्थाने निवेद्य भाषायां न ब्रूयात्तदा विष- यगौरवापेक्षया बध्यो लघुनि विषये दण्ड्यश्च धर्मतः स्यात् । प्रत्यर्थी पुनर्यदि पक्षत्रयमध्ये न ब्रूयात्तदा धर्मत एव पराजितः स्यान्न तु छलेन ॥ ५८ ॥ {{Block center|{{bold|<poem>यो यावन्निडुवीतार्थ मिथ्या यावति वा वदेत् । तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्विगुणं दमम् ॥ ५९ ॥</poem>}}}} {{gap}}य इति ॥ यः प्रत्यर्थी यत्परिमाणधनमपनयति, अर्थी वा यत्परिमाणधने मिथ्या वदति तावधार्मिकावपळुतमिथ्योक्तधनाद्विगुणं दण्डरूपं दापनीयौ । अध- मज्ञाविति वचनाज्ज्ञानपूर्वापहवमिथ्योक्तिविषयमिदम् । प्रमादादिनापलापमिथ्या- नियोगापह्नवे द्विगुणमिति शतदशमभागं वक्ष्यति ॥ ५९ ॥ {{Block center|{{bold|<poem>पृष्टोऽपव्ययमानस्तु कृतावस्थो धनैषिणा । त्र्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ ॥ ६॥</poem>}}}} {{gap}}पृष्ट इति ॥ धनार्थिनोत्तमर्णेन राजपुरुषापकर्ष कृताह्वानः प्राड्विाकेन पृष्टः सन्यदा न धारयामीत्यपह्नवानो भवति तदा नृपत्यधिकृतब्राह्मणसमक्षं व्यवरैः साक्षिभिस्त्रयोऽवरा न्यूना येषां तैरर्थिना भावनीयः ॥ ६० ॥ {{Block center|{{bold|<poem>यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः । तादृशान्संप्रवक्ष्यामि यथावाच्यमृतं च तैः॥६१ ॥</poem>}}}} {{gap}}यादृशा इति ॥ धनिभिरुत्तमर्णादिभिः ऋणादानादिव्यवहारेषु यथाविधाः<noinclude></noinclude> 57kmzzat45gr2l4yk80mrse27hu9ti0 पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/५ 104 164237 415861 2026-05-14T17:31:40Z ~2026-29096-98 10472 /* अपरिष्कृतम् */ रिक्तं पृष्ठं निर्मितम् 415861 proofread-page text/x-wiki <noinclude><pagequality level="1" user="62.118.106.110" /></noinclude><noinclude></noinclude> ikix9kx3cja49eo954bkznyp3j6rzan