विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.47.0-wmf.7 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् Event Event talk पृष्ठम्:ललितविस्तरः.pdf/२१ 104 77030 416814 173781 2026-06-16T13:20:00Z Niyatii.jain 10529 /* शोधितम् */ 416814 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Niyatii.jain" /></noinclude>" ललितविस्तरः। हस्तिमन्तं विहायसा गामिनं विकुर्वाणाधर्मिणं यदुत बोधिसत्त्वं नागराजम् । यदा च राजा क्षत्रियो मूर्धाभिषिक्तस्तद्धस्तिरत्नं मीमां- सितुकामी भवति । अथ सूर्यस्याभ्युद्गमनवेलायां तद्धस्तिरत्नमभिरुह्य इमामेव महापृथिवीं समुद्रपरिखां समुद्रपर्यन्तां समन्ततो ऽन्वाहिण्ड्य ५ राजधानीमागत्य प्रशासनरतिं प्रत्यनुभवति ॥ एवंरूपेण राजा चक्रवर्ती हस्तिरत्नेन समन्वागतो भवति ॥ कथंरूपेण राजा चक्रवर्ती अश्वरत्नेन समन्वागतो भवति ॥ अथ राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्ववदश्वरत्नमुत्पद्यते । सर्व- नीलो झषपक्षशिरसो मुञ्जकेशश्चामरवदनः स्वर्णध्वजः स्वर्णालंकारः १० हेमजालप्रतिच्छन्नः हस्तिमन्तं विहायसा गामिनं विकुर्वाणाधर्मिणं यदुत बलाहको नामाश्वराजम् । यदा च राजा क्षत्रियो मूर्धाभिषिक्तस्तदश्वरत्नं मीमांसितुकामी भवति । अथ सूर्यस्याभ्युद्गमन- वेलायामश्वरत्नमभिरुह्य इमामेव महापृथिवीं समुद्रपरिखां समुद्र- पर्यन्तां समन्ततो ऽन्वाहिण्ड्य राजधानीमागत्य प्रशासनरतिं १५ प्रत्यनुभवति । एवंरूपेण राजा चक्रवर्ती अश्वरत्नेन समन्वागतो भवति ॥ कथंरूपेण राजा चक्रवर्ती मणिरत्नेन समन्वागतो भवति ॥ अथ राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्ववन्मणिरत्नमुत्पद्यते । शुद्धनील- वैडूर्यमणिः सुपरिकर्मकृतः तस्य खलु परममणिरत्नस्याभया सर्वमन्तः- २० पुरमवभासस्फुटं भवति । यदा च राजा क्षत्रियो मूर्धाभिषिक्तस्तं मणिरत्नं मीमांसितुकामी भवति । अथ रात्र्यामर्धरात्रसमये ऽन्धका- रतमिस्त्रायां तं मणिरत्नं ध्वजाग्रे उपयित्वा उद्यानभूमिं निर्याति<noinclude></noinclude> chuv7zyjnvbf2p1gs7hqec21caz4332 पृष्ठम्:ललितविस्तरः.pdf/२२ 104 77032 416815 173783 2026-06-16T13:21:00Z Niyatii.jain 10529 /* शोधितम् */ 416815 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Niyatii.jain" /></noinclude>३] ॥ कुलपरिशुद्धिपरिवर्तः ॥ १७ सुभूमिदर्शनाय । तस्य खलु पुनर्मणिरत्नस्याभया सर्ववन्तं चतुरङ्गं बलकायमवभासेन स्फुटीभवति सामन्तेन योजने । ये खलु पुनस्तत्र मणिरत्नस्य सामन्तके मनुष्याः प्रतिवसन्ति ते तेनावभासेनास्फुट- समाना अन्योऽन्यं संजानन्त्यन्योऽन्यं पश्यन्त्येवमाहुः । उत्तिष्ठत ५ भद्रमुखाः कर्मान्तानि कारयत आपणानि प्रसारयत दिवा मन्यामहे ५ सूर्यमभ्युद्गतम् ॥ एवंरूपेण राजा क्षत्रियो मूर्धाभिषिक्तो मणिरत्नेन सम- न्वागतो भवति ॥ कथंरूपेण राजा चक्रवर्ती स्त्रीरत्नेन समन्वागतो भवति ॥ इह राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्ववत्स्त्रीरत्नमुत्पद्यते । सदृशी १० क्षत्रिया नातिदीर्घा नातिह्रस्वा नातिस्थूला नातिकृशा नातिगौरी १० नातिकृष्णा अभिरूपा प्रासादिका दर्शनीया । तस्याः सर्वरोमकू- पेभ्यश्चन्दनगन्धः प्रवाति मुखाच्चोत्पलगन्धः प्रवाति । काचिलिन्दिक- सुखसंस्पर्शा । शीतलकाले चास्या उष्णानि संस्पर्शाणि गात्राणि भवन्ति । उष्णकाले च शीतसंस्पर्शाणि । सा राजानं चक्रवर्तिनं मुक्त्वा नान्य- १५ स्मिन्मनसापि रागं करोति किं पुनः कायेन ॥ एवंरूपेण राजा चक्रवर्ती १५ स्त्रीरत्नेन समन्वागतो भवति ॥ कथंरूपेण राजा चक्रवर्ती गृहपतिरत्नेन समन्वागतो भवति ॥ इह राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्ववद्गृहपतिरत्नमुत्पद्यते । पण्डितो व्यक्तो मेधावी दिव्यचक्षुः । स तेन दिव्यचक्षुषा सामन्तेन योजनं सस्वामिकानि २० निधानानि पश्यति अस्वामिकानि निधानानि पश्यति । स यानि तानि २० भवन्ति अस्वामिकानि तानि राज्ञश्चक्रवर्तिनो धनेन करणीयं करोति ॥ एवंरूपेण राजा चक्रवर्ती गृहपतिरत्नेन समन्वागतो भवति ॥ २<noinclude></noinclude> 1a6slu71ze8vgdfscn69cwle270s3bw पृष्ठम्:ललितविस्तरः.pdf/२३ 104 77034 416816 173786 2026-06-16T13:21:57Z Niyatii.jain 10529 /* शोधितम् */ 416816 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Niyatii.jain" /></noinclude>१८] ॥ ललितविस्तरः ॥ [चतु० कथंरूपेण राजा चक्रवर्ती परिणायकरत्नेन समन्वागतो भवति ॥ इह राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्ववत्परिणायकरत्नमुत्पद्यते । पण्डितो व्यक्तो मेधावी राज्ञश्चक्रवर्तिनश्चिन्तितमात्रेण उपायमुपदर्शयितुं सेनामुद्योजयति वा ॥ एवंरूपेण राजा चक्रवर्ती परिणायकरत्नेन ५ समन्वागतो भवति ॥ एभिः सप्तरत्नैः समन्वागतो भविष्यति । चास्य पुत्रसहस्रं भवति शूराणां वीराणां वराङ्गरूपिणां परसैन्य- प्रमर्दकानाम् । स इमां महापृथिवीं ससागरपर्यन्तामदण्डाशस्त्रेणाम- दण्डेन शास्त्रेणाभिनिर्जित्याध्यावसति ॥ स चेदगारादनागारिकां प्रव्रजिष्यति तथागतोऽर्हन् न तादृशः अनन्यदेवः शास्ता देवानां च १० मनुष्याणां चेति ॥ तथान्येऽपि देवपुत्रा जम्बुद्वीपमागत्य प्रत्येकबुद्धेभ्य आरोचयन्ति स्म । रिञ्चत माषूर्षं बुद्धक्षेत्रम् । इतो द्वादशवत्सरे बोधिसत्त्वो मातुः कुक्षि मवक्रमिष्यति ॥ तेन खलु पुनर्भिक्षवः समयेन राजगृहे महानगरे गोलाङ्गुल- १५ परिवर्तने पर्वते मातङ्गो नाम प्रत्येकबुद्धो विहरति स्म । स तं शब्दं श्रुत्वा कर्दम इव शिलायां प्रस्थाय विहायसा सप्ततालमात्रमभ्युद्गम्य च तेजोधातुं समापद्याग्नेः परिनिर्वाणोऽभूत् । यत्तस्य पित्तश्लेष्म- त्वङ्मांसरुधिरं चासीत्तत्सर्वं तेजसा पर्यवदानमगच्छच्छरीरा- स्थीनि भूमौ प्रापतंस्तान्यपि च तानि ऋषिपदान्येव संज्ञायन्ते ॥ २० तेन खलु पुनर्भिक्षवः समयेन वाराणस्यां ऋषिपतने मृगदावे पञ्च प्रत्येकबुद्धशतानि विहरन्ति स्म । तेऽपि तं शब्दं श्रुत्वा विहायसा सप्ततालमात्रमभ्युद्गम्य तेजोधातुं समापद्याग्नेः परि-<noinclude></noinclude> s293kvvassg9ofqmxkxaga1uu6nqhn5 पृष्ठम्:ललितविस्तरः.pdf/२४ 104 77036 416817 173788 2026-06-16T13:24:07Z Niyatii.jain 10529 /* शोधितम् */ 416817 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Niyatii.jain" /></noinclude>३] ॥ कुलपरिशुद्धिपरिवर्तः ॥ १९ निर्वान्ति स्म । यत्तेषां पित्तश्लेष्मत्वङ्मांसास्थिरुधिरं चाभूत् तत्सर्वं तेजसा पर्यवदानमगमच्छरीरास्थीनि भूमौ प्रापतन्नृषयः पतिता इति । तत्प्रभृति ऋषिपतनसंज्ञोदपादि । अभयदानं तन्मृगाः प्रतिवसन्ति इति तद्रूपेण मृगदावस्य मृगदाव इति ५ संज्ञोदपादि ॥ ५ इति हि भिक्षवः बोधिसत्त्वस्तुषितवरभवनस्थितश्चत्वारि महाविलोकितानि विलोकयति स्म । कतमानि चत्वारि । तद्यथा । कालविलोकिंतं द्वीपविलोकितं देशविलोकितं कुलविलोकितं ॥ किं कारणं भिक्षवः बोधिसत्त्वः कालविलोकितं विलोकयति १० स्म ॥ न बोधिसत्त्व आदिप्रवृत्ते लोके सत्त्वसंवर्तनीकालसमये १० मातुः कुक्षिमवक्रामति । अथ तर्हि यदा लोके लोकः सुखितो भवति । जातिप्रज्ञायते जराप्रज्ञायते व्याधिप्रज्ञायते मरणप्रज्ञायते । तदा बोधिसत्त्वो मातुः कुक्षिमवक्रामति ॥ किं कारणं बोधिसत्त्वो द्वीपविलोकितं विलोकयति स्म ॥ १५ न बोधिसत्त्वाः प्रत्यन्तद्वीपेपूपपद्यन्ते न पूर्वविदेहे नापरगोदनीये १५ न चोत्तरकुरौ । अथ तर्हि जम्बुद्वीपे एवोपपद्यन्ते ॥ किं कारणं भिक्षवः बोधिसत्त्वो देशविलोकितं विलो- कयति स्म ॥ न बोधिसत्त्वाः प्रत्यन्तजनपदेषूपपद्यन्ते । येषु मनुष्यान्धला जडा एड़मूकजातीया अक्षमाः सुभाषितदुर्भाषिताना- २० मर्थं ज्ञातुम् । अथ तर्हि बोधिसत्त्वा मध्यदेशेषु जनपदेषूप- २० पद्यन्ते ॥<noinclude></noinclude> 4qdv00pt1jb2d7ze8x9uut97omw1r5c पृष्ठम्:ललितविस्तरः.pdf/२५ 104 77038 416818 173790 2026-06-16T13:24:59Z Niyatii.jain 10529 /* शोधितम् */ 416818 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Niyatii.jain" /></noinclude>२० ] ॥ ललितविस्तरः ॥ [ च० किं कारणं भिक्षवः बोधिसत्त्वः कुलविलोकितं विलोकयति स्म ॥ न बोधिसत्त्वा हीनकुलेषूपपद्यन्ते । चण्डालकुलेषु वा । वेणुकारकुले वा रथकारकुले वा पुल्कसकुले वा । अथ तर्हि कुलद्वये एवोपपद्यन्ते । ब्राह्मणकुले क्षत्रियकुले च । तत्र यदा ब्राह्मणगुरुको ५ लोको भवति तदा ब्राह्मणकुले उपपद्यते । यदा क्षत्रियगुरुको ५ लोको भवति तदा क्षत्रियकुले उपपद्यते ॥ एतर्हि भिक्षवः क्षत्रियगुरुको लोकः । तस्माद्बोधिसत्त्वाः क्षत्रियकुले उपपद्यन्ते ॥ सम्यक् च संप्रतीक्ष्य बोधिसत्त्वस्तुषितवरभवनस्थितश्चत्वारि महाविलो- कितानि विलोकयति स्म ॥ १० एवं चावलोक्य तूष्णीमभूत् ॥ इति हि भिक्षवस्ते देवपुत्रा १० बोधिसत्त्वसत्त्वान्यान्त्योऽन्यं परिपृच्छन्ति स्म । कतमस्मिन्कुलरत्ने कियद्रूपायां जनन्यां बोधिसत्त्वः प्रतिष्ठास्यतीति ॥ तत्र केचिदाहुः । इदं वैदेहीकुलं मगधेषु जनपदेषु आढ्यं च स्फीतं च क्षेमं सुभिक्षं चेदं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भसंस्थानस्य ॥ अपरे लाहुः । न तत्प्रतिरूपम् । १५ तत्कस्मात् । तथा हि । तन्न मातृशुद्धं पितृशुद्धं असुतं चञ्चलमनवस्थितं १५ परिजल्पकाभिश्चन्दितं न विपुलपुण्याभिषिक्तम्सत्कुलप्रदेशोपचारं तीर्थामृतह्रदतडागाकीर्णं अर्घट्टमिव प्रसवन्तावासं । तेन न तत्प्रतिरूपम् ॥ अपरे त्वाहुः । इदं पुनः कोशलकुलं महावाहनं च महापा- रिवारं च महाधनं च । तत्प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसं- २० स्थानायेति ॥ अपरेऽप्याहुः । तदप्यप्रतिरूपम् । तत्कस्माद्धेतोः । तथा २० हि । कोशलकुले मातङ्गच्युत्युपपन्नं न मातृपितृशुद्धं हीनाधिमुक्तिकं न च कुलोदितं न चापरिमितधनरत्ननिधिसमुत्थितं । तेन न तत्प्रतिरूपम् ॥<noinclude></noinclude> 8gti0o8nku519016vm8lju90o2x5ghc पृष्ठम्:ललितविस्तरः.pdf/२६ 104 77040 416819 173792 2026-06-16T13:25:56Z Niyatii.jain 10529 /* शोधितम् */ 416819 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Niyatii.jain" /></noinclude>३] ॥ कुलपरिशुद्धिपरिवर्तः ॥ २१ अपरे त्वाहुः । इदं वत्सराजकुलं आढ्यं च स्फीतं च क्षेमं च सुभिक्षं चेदं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भसंस्थानायेति ॥ अपर एवमाहुः । इदमप्यप्रतिरूपम् । किं कारणम् । तथा हि । वत्सराजकुलं प्राकृतं च चण्डं च न चोज्ज्वलिततेजस परपुरुषजनावृतं च न ५ मातृपितृसतैजः कर्माभिनिर्वृत्तं चोच्छिन्नवादी च तत्र राजा । तेन ५ तदप्यप्रतिरूपम् ॥ अपरे त्वाहुः । इयं वैशाली महानगरी आढ्या च स्फीता च क्षेमा च सुभिक्षा च रमणीया चाकीर्णबहुजनमनुष्या च वितर्दि- निर्ह्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादतलसमलंकृता च पुष्पवाटिका- १० वनराजिसंकुसुमिता च । अमरभवनपुरप्रकाशा सा प्रतिरूपास्य १० बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति ॥ अपर आहुः । साप्याप्रतिरूपा । किं कारणम् । तथा हि । तेषां नास्ति परस्परन्यायवादिनां नास्ति धर्मचरणं नोत्तममध्यवृद्धानुपालिता । एकैक एव मन्यते । अहं राजा अहं राजेति । न च कस्यचिच्छिष्यत्वमभ्युपगच्छति न धर्मत्वे । १५ तेन साप्याप्रतिरूपा ॥ १५ अपरे त्वेवमाहुः । इदं प्रद्योतकुलं महाबलं च महावाहनं च पर- चमूर्भिरप्यविजेयं च । तत्प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रति- संस्थानायेति ॥ अपरे त्वेवमाहुः । तदप्यप्रतिरूपम् । किं कारणम् । तथा हि । ते चण्डाश्चपला रौद्राश्च परुषाश्च साहसिकाश्च न च कर्मद- २० र्शिनः । तेन तदप्यप्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति ॥ २० अपर एवमाहुः । इयं मथुरा नगरी आढ्या च स्फीता च क्षेमा च सुभिक्षा चाकीर्णबहुजनमनुष्या च । राज्ञः सुबाहोः<noinclude></noinclude> lj2qt8ce14encm3qkilft9mmliaj7cw पृष्ठम्:ललितविस्तरः.pdf/२७ 104 77042 416820 173794 2026-06-16T13:26:47Z Niyatii.jain 10529 /* शोधितम् */ 416820 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Niyatii.jain" /></noinclude>२२ ] ॥ ललितविस्तरः ॥ [ च० कंसकुलजस्य शूरसेनाधिपतेः राजधानिः । सा प्रतिरूपास्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति ॥ अपरे लाहुः । साप्याप्रतिरूपा । किं कारणम् । तथा हि । स राजा मिथ्यादृष्टिकुलवंशप्रसूतो दस्युराजा न युज्यते चरमभविकस्य बोधिसत्त्वस्य मिथ्यादृष्टुकुले उपपत्तिः । तेन साप्या- ५ प्रतिरूपा ॥ ५ अपरे त्वेवमाहुः । अयं हस्तिनापुरे महानगरे राजा पाण्डव- कुलवंशप्रसूतः शूरो वीर्यवान्वराहरूपसंपन्नः परसैन्यप्रमर्दकानां तत्कुले प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति ॥ अपरे लाहुः । तदप्यप्रतिरूपम् । किं कारणम् । तथा हि । पाण्डवकुलप्रसूतिः कुलव्यतिक्र- १० माद्व्याकुलीकृता युधिष्ठिरो धर्मस्य पुत्र इति कथयति भीमसेनो १० वायो रर्जुन इन्द्रस्य नकुलसहदेवावश्विनोरिति । तेन तदपि कुलम- प्रतिरूपमस्य बोधिसत्त्वस्य गर्भसंस्थानायेति ॥ अपर आहुः । इयं मिथिला नगरी अतीव रमणीया मैथिलस्य राज्ञः सुमित्रस्य निवासभूमिः । स राजा प्रभूतहस्त्यश्वरथ- १५ पदातिबलकायसमन्वितः प्रभूताहिरण्यसुवर्णमणिमुक्तावैदूर्यशङ्खशिला- १५ प्रवालजातरूपरजतवित्तापकरः सर्वसामन्तराजाभीतबलपराक्रमी मूर्धाभिषिक्तोधर्मवत्सलः । तत्कुलं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्था- नायेति ॥ अन्य आहुः । तदप्यप्रतिरूपम् । यस्त्वसौ राजा सुमित्र एवंगुणयुक्तः किं तु वृद्धो न समर्थः प्रजोत्पादियितुमतिप्रवृद्धश्च । २० तस्मात्तदपि कुलमप्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति ॥ २० एवं भिक्षवस्ते बोधिसत्त्वस्तुलितवरभवनस्थितश्चत्वारि महाविलोकि- शजानपदेषु यानि कानिचिदुच्चोच्चानि राजकुलानि तानि सर्वाणि<noinclude></noinclude> h5ym8osfo1g1tmem44aiclg6vocovpa पृष्ठम्:ललितविस्तरः.pdf/२८ 104 77044 416821 173796 2026-06-16T13:29:00Z Niyatii.jain 10529 /* शोधितम् */ 416821 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Niyatii.jain" /></noinclude>३] ॥ कुलपरिशुद्धिपरिवर्तः ॥ २३ बाधन्ते । तानि सर्वाणि सदोषत्वाद्ग्राह्याणि । तेषां चिन्तामन- स्कारयुक्तानां मलिने चेतसि देवपुत्राणां संशयप्राप्तानां कृतनिश्चयोऽभिरूपवान् स तां महीं बोधिसत्त्वदेवपुत्र एवमव- वोचत । तस्मादेतदेव बोधिसत्त्वमुपसंक्रम्य परिपृच्छामः । ५ कीदृग्गुणसंपन्ने कुले चरमभविको बोधिसत्त्वः उपजायत इति ॥ ५ अथर्तवस्ते सर्वे कृताञ्जलिपुटा बोधिसत्त्वमुपसंक्रम्यैतदवोचन् । कीदृग्गुणसंपन्ने सत्पुरुषकुलरत्ने चरमभविको बोधिसत्त्वः प्रजायत इति ॥ अथ बोधिसत्त्वस्तेषां महतां बोधिसत्त्वगणाय देवगणाय च व्यवसायमेतदवोचत । चतुःषष्ट्याकारैः संमग्नं कुलं भवति यत्र चरमभविको १० १० बोधिसत्त्वः प्रजायते ॥ कतमैश्चतुःषष्ट्याकारैः । तद्यथा । अभिज्ञातं च तत्कुलं भवति । अक्शुद्रानुपघाति च तत्कुलं भवति । जातिसम्पन्नं च तत्कुलं भवति । गोत्रसम्पन्नं च तत्कुलं भवति । पुरुषयुगसम्पन्नं च तत्कुलं भवति । अलीनं च तत्कुलं भवति । पूर्वपुरुषयुगसम्पन्नं च तत्कुलं भवति । अभिजातपुरुषयुगसम्पन्नं च तत्कुलं भवति । १५ १५ अभिषिक्तपुरुषयुगसम्पन्नं च तत्कुलं भवति । महेशाख्यपुरुषयुगसम्पन्नं च तत्कुलं भवति । बहुस्त्रीकं च तत्कुलं भवति । बहुपुरुषं च तत्कुलं भवति । अभीतं च तत्कुलं भवति । अदीनालीनं च तत्कुलं भवति । अलुब्धं च तत्कुलं भवति । शीलवच्च तत्कुलं भवति । प्रज्ञावच्च तत्कुलं भवति । अमायाविचित्रं च तत्कुलं भवति भोगान् २० २० परिभुञ्जति । चण्डधार्मिकानिवेशनं च तत्कुलं भवति भोगान् परि- भुञ्जति । दृढमित्रं च तत्कुलं भवति । तिर्यग्योनिगतप्राणानुपरुद्धकरं च<noinclude></noinclude> 3jrpvn70n93s6rl5vxogm1q1uaemjm7 पृष्ठम्:ललितविस्तरः.pdf/२९ 104 77046 416822 173798 2026-06-16T13:30:32Z Niyatii.jain 10529 /* शोधितम् */ 416822 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Niyatii.jain" /></noinclude>२४ ] ॥ ललितविस्तरः ॥ [ च० तत्कुले भवति । छत्रं च छत्रवेदिंतं च तत्कुले भवति । अच्छन्द- गामिनं च तत्कुले भवति । अदोषगामिनं च तत्कुले भवति । अमोहागामिनं च तत्कुले भवति । अभयगामिनं च तत्कुले भवति । अनवद्यभीरु च तत्कुले भवति । अमोहाविहारि च तत्कुले भवति ॥ ५ स्थूलश्रियं च तत्कुले भवति । क्रियाधिमुक्तं च तत्कुले भवति । ५ त्यागाधिमुक्तं च तत्कुले भवति । दानाधिमुक्तं च तत्कुले भवति । पुण्यकारमति च तत्कुले भवति । दृढविक्रमं च तत्कुले भवति । महाविक्रमं च तत्कुले भवति । श्रेष्ठविक्रमं च तत्कुले भवति । ऋषि- पूजकं च तत्कुले भवति । देवतापूर्जकं च तत्कुले भवति । चैत्यपूजकं १० च तत्कुले भवति । पूर्वप्रेतपूजकं च तत्कुले भवति । अप्रतिबद्धवैरं १० च तत्कुले भवति । दशदिग्विघुष्टशब्दं च तत्कुले भवति । महापरि- वारं च तत्कुले भवति । अमितपरिवारं च तत्कुले भवति । अनुत्तरपरिवारं च तत्कुले भवति । कुलज्येष्ठं च तत्कुले भवति । कुलश्रेष्ठं च तत्कुले भवति । कुलप्रतिष्ठाप्राप्तं च तत्कुले भवति ॥ १५ महेशाख्यं च तत्कुले भवति । मातृज्ञं च तत्कुले भवति । पितृज्ञं १५ च तत्कुले भवति । श्रामण्यं च तत्कुले भवति । ब्रह्मण्यं च तत्कुले भवति । प्रभूतधनधान्यकोशकोष्ठागारं च तत्कुले भवति । प्रभूताहि- रण्यसुवर्णमणिमुक्ताजातरूपरजतवित्तापकरं च तत्कुले भवति । प्रभूतहस्त्यश्वोष्ट्रगवैडकं च तत्कुले भवति । प्रभूतदासीदासकर्मकर- २० पौरुषेयं च तत्कुले भवति । दुःप्रधर्षं च तत्कुले भवति । सुवर्च- २० सित्वं च तत्कुले भवति । चक्रवर्तिकुलं च तत्कुले भवति । पूर्वकुश- लमूलसहस्रोपचितं च तत्कुले भवति । बोधिसत्त्वकुलकुलोदितं<noinclude></noinclude> lj5085qv3og0ky9gixeo6nejrrzbld9 पृष्ठम्:ललितविस्तरः.pdf/३० 104 77048 416823 173800 2026-06-16T13:31:35Z Niyatii.jain 10529 /* शोधितम् */ 416823 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Niyatii.jain" /></noinclude>३] ॥ कुलपरिशुद्धिपरिवर्तः ॥ २५ च तत्कुलं भवति । अनवद्यं च तत्कुले भवति सर्वजातिवाददोषैः । सदेवके लोके समारके सब्रह्मके स श्रमणब्राह्मणिकाया प्रजायै ॥ एभिर्महाचतुःषष्ट्याकारैः समन्वागतं च तत्कुलं भवति यस्मिंश्चर- मभविको बोधिसत्त्व उत्पद्यते ॥ ५ द्वात्रिंशता भार्या गुणाकारैः समन्वागता सा स्त्री भवति ५ यस्याः स्त्रियाश्चरमभविको बोधिसत्त्वः कुक्षाववक्रामति । कतमैर्द्वात्रिं- शता । यदुताभिजातायां स्त्रियां कुक्षौ चरमभविको बोधिसत्त्व अवक्रामति । अभिलक्षिताया अच्छिद्रोपचाराया जातिसम्पन्नायाः कुल- सम्पन्नाया रूपसम्पन्नाया नामसम्पन्नाया आरोहपरिणाहसम्पन्नाया १० अप्रसूतायाः शीलसम्पन्नायाः क्षमसम्पन्नायाः क्षितमुखायाः प्रदक्षि- १० णग्राहिण्या व्यक्तया विनीताया विशारदाया बहुश्रुतायाः पण्डि- ताया अठढाया अमायाविन्या अक्रोधनाया अपगतर्ष्या अमत्स- राया अचञ्चलाया अचपलाया अमुखरायाः क्षान्तिसौरभ्यसम्पन्नाया ह्रीपत्रप्यसम्पन्नाया मन्दरागद्वेषमोहाया अपगतमातृग्रामदोषायाः १५ पतिव्रतायाः सर्वकारगुणसम्पन्नायाः स्त्रियाः कुक्षौ चरमभविको १५ बोधिसत्त्व अवक्रामति ॥ एभिर्महा द्वात्रिंशताकारैः समन्वागता सा स्त्री यस्याः स्त्रियाः कुक्षौ चरमभविको बोधिसत्त्वोऽवक्रा- मति ॥ न खलु पुनर्भिक्षः कृष्णपक्षे बोधिसत्त्वो मातुः कुक्षाववक्रामति । २० अपि तु शुक्लपक्षे एव पञ्चदश्यां पूर्णायां पूर्णिमायां पुष्यनक्षत्रेण २० पोषधपरिगृहीताया मातुः कुक्षौ चरमभविको बोधिसत्त्वोऽवक्रा- मति ॥<noinclude></noinclude> a95zslcv92yhsc4ix07s1w3e56hsa4g पृष्ठम्:ललितविस्तरः.pdf/३१ 104 77050 416824 173802 2026-06-16T13:33:52Z Niyatii.jain 10529 /* शोधितम् */ 416824 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Niyatii.jain" /></noinclude>२६ ] ॥ ललितविस्तरः ॥ [ च० अथ खलु ते बोधिसत्त्वाश्च देवपुत्राश्च बोधिसत्त्वसत्त्वान्तिकादि- मामेवंरूपां कुलपरिशुद्धिं मातृपरिशुद्धिं च श्रुत्वा चिन्तामनस्कारा अभूवन् । कतमत्कुलं एवं गुणसमन्वागतं भवेद्यावद्विधमनेन सत्पुरुषेण निर्दिष्टं तेषां चिन्तामनस्कारप्रयुक्तानामेतदभूत् । इदं ५ खल्वपि शाक्यकुलं आढ्यं च स्फीतं च क्षेमं च सुभिक्षं च रमणीयं चाकी- ५ र्णबहुजनमनुष्यं च । राजा शुद्धोदनो मातृशुद्धः पितृशुद्धः पत्नीशुद्धो ऽपरिक्लिष्टसंप्रतायाः स्वाकारसुविज्ञापकः पुरुषसिंहेन जिता महासम्मतकुले प्रसूतश्चक्रवर्तिवंशकुलकुलोदितोऽपरिमितधननिधिरत्नसमन्वागतः कर्म- दृक्च विगतपापदृष्टिश्च सर्वशास्त्रविषये चक्रवर्ती पूजितो मानितोः १० श्रेष्ठिगृहपत्यमात्यपारिषद्यानां प्रासादिको दर्शनीयो नातिवृद्धो १० नातिरुग्णोऽभिरूपः सर्वगुणोपेतः शिल्पज्ञः कालज्ञ आत्मज्ञो धर्मज्ञः शास्त्रज्ञो लोकज्ञो लक्षणज्ञो धर्मराजो धर्मानुशास्ता अव- रोपितकुशलानामूलानं च सत्त्वानां कपिलवस्तुमहानगरनिवास्यः । येऽपि तत्रोपपन्नास्तेऽपि तत्स्वभावा एव राज्ञश्च शुद्धोदनस्य १५ माया नाम देवी सुप्रबुद्धस्य शाक्याधिपतेर्दुहिता नतशिरस्का रूपयौ- १५ वनसम्पन्ना अप्रसूता अपगतपुत्रदुहितृका सुरूपा संलेख्यविचित्रैव दर्शनीया देवकन्येव सर्वालंकारभूषिता अपगतमातृग्रामदोषा सत्य- वादिनी अक्कर्कशा अचपला चपलानावद्या कोकिलस्वरा अमलापिनी मधुरप्रियवादिनी । अपगताखिलक्रोधमदानघदर्पप्रतिघा अमीर्षुका २० कालवादिनी त्यागसम्पन्ना शीलवती अतिसंतुष्टा पतिव्रता परपुरुष- २० चिन्तामनस्कारापगता समसहितभ्रुकर्णनासा भ्रमरवरसदृशकेशी सुल्ललाटी सुभ्रूरपगतभ्रुकुटिका स्मितमुखी पूर्वाभिलापिणी यस्याम-<noinclude></noinclude> q5pzlay6l7jvqps7ugcfrzg4w7jxs4y पृष्ठम्:ललितविस्तरः.pdf/३२ 104 77052 416825 173804 2026-06-16T13:49:27Z Niyatii.jain 10529 /* शोधितम् */ 416825 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Niyatii.jain" /></noinclude>॥ कुलपरिशुद्धिपरिवर्तः ॥ धुरवचना प्रदक्षिणाग्राहिणी अकुटिला अशठा अमायाविनी ह्रीपत्रपाचोपसम्पन्ना अचपला अचबला प्रमुदितवचना विकीर्णवचना मन्दहसिता वेषभूषाशान्तिसुरभिसम्पन्ना करचरणनयनसारथ्यबुद्धिः। मृदुतरुणहस्तपादा काचिलिन्दिकसुखसंस्पर्शा नवगलितेन्दीवरपत्रसुविशुद्धनयना रङ्गतुङ्गनासा सुप्रतिष्ठिता सेन्द्रायुधमिव यष्टिः सुविनीता सुविभक्ताङ्गप्रत्यङ्गा अनिन्दिताङ्गवयवा चारुदशना अनुपूर्वदशना स्वलङ्कृता सुमना वार्षिकी सुविशुद्धदर्शन सुविनीताङ्गी अनुपूर्वसुजातबाहुः अनुपहतगात्री गम्भीरनाभिमण्डला वृत्तसुविस्तीर्णकटिः वज्रभङ्गनकलभसदृशगात्रा गजभुजसमसमाहितसदृशबाहुरैणेयमृगसदृशजङ्घा लाक्षारससदृशचरणतला जगति नयनाभिरम्या अप्रतिहतचक्षुरिन्द्रिया सर्वजनप्रियदर्शना स्त्रीरत्नमप्रतिविशिष्टा मायानिर्मितमिव बिम्बं मायेति नामसङ्केता विश्वकर्मणैव निर्मितेवाप्सरःप्रकाशा शुद्धोदनस्य महाराजस्यान्तःपुरमध्यगता सा प्रतिरूपा बोधिसत्त्वजननी ॥ या चेयं कुलपरिशुद्धिर्बोधिसत्त्वेनावलोकिता, सा शक्या कुत एवमन्यत्र सन्दृष्टुम् ॥ तदेदमुच्यते ॥ प्रासादिको धर्ममयी च शुद्धसत्त्वः सुधर्मसिंहासने संनिषण्णः। सभायन्देवैः परिवारितः कविः संबोधिचित्तैर्महायशाभिः ॥ तत्रोपविष्टस्य बभूव चिन्ता कतमत्कुलं शुद्धसुसंप्रजातम्। यद्बोधिसत्त्वस्य प्रतिरूपजं स्यान्माता पिता कुत्र च शुद्धभावाः ॥ यत्त्वेकथं ते चुलु जम्बुद्वीपे यः क्षत्रियः शाक्यकुले महात्मा। धर्मा हि सर्वेषामनुचिन्तयन्तः श्लक्ष्णं कुलं चास्य वीतदोषे ॥<noinclude></noinclude> rho6a6j2021wvo926xoe5smu1rynmoi पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४१ 104 104792 416808 267822 2026-06-16T12:22:39Z Geeta g hegde 6704 416808 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|left=अध्यायः ८]|center=मन्वथमुक्तावलासवालता ।|right=३०७}}</noinclude> {{gap}}आत इत्यादि ॥ यदा व्याध्यादिपीडया कर्म न करोनि स्वस्थःसन् यादृग्भाषित तादृकर्म कुर्याद्वेतनं च चिरकालादपि लभेतैव ॥ २१६ ॥ {{Block center|{{bold|<poem>यथोक्तमार्तः सुस्थो वा यस्तत्कर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥ २१७ ॥</poem>}}}} {{gap}}यथोक्तमिति ॥ यत्कर्म यथाभाषितं पीडितोऽन्येन कारयेत्सुस्थो वा न कुर्यान्नापि कारयेत् किंचिच्छेषस्य कृतस्य कर्मणो वेतनं न देयम् ॥ २१७ ॥ {{Block center|{{bold|<poem>एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः । अत ऊर्ध्वं प्रवक्ष्यामि धर्म समयभेदिनाम् ॥ २१८ ॥</poem>}}}} {{gap}}एष धर्म इति ॥ एषा व्यवस्था वेतनादानाख्यकर्मणो निःशेषेणोक्ता । अतोऽन- न्तरं संविद्ध्यतिक्रमकारिणां दण्डादिव्यवस्थां वदिष्यामि ॥ २१८ ॥ {{Block center|{{bold|<poem>यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ २१९ ॥</poem>}}}} {{gap}}य इति ॥ ग्रामदेशशब्दाभ्यां तबासिनो लक्ष्यन्ते । सङ्घो वणिगादिसमूहः इदमस्माभिः कर्तव्यं परिहार्यतामित्येवंरूपं संकेतं सत्यादिशपथेन कृत्वा तन्मध्ये यो नरो लोभादिना निष्कामेत्तं राजा राष्ट्रान्निर्वासयेत् ॥ २१९ ॥ {{Block center|{{bold|<poem>निगृह्य दापयेचैनं समयव्यभिचारिणम् । चतुःसुवर्णान्षनिष्काश्छतमानं च राजतम् ॥ २२० ॥</poem>}}}} {{gap}}निगृह्येति ॥अथ चैनं संविध्यतिक्रमकारिणं निबोध्य चतुरः सुवर्णान्धनिप्कान्प्र- त्येकं चतुःसुवर्णपरिमितान् राजतं च शतमानं विंशत्यधिकरक्तिकाशतत्रयपरिमाणं त्रयमेतद्विषयलाघवगौरवापेक्षया समन्वितं व्यस्तं वा राजा दण्डं दापयेत् ॥२२० ॥ {{Block center|{{bold|<poem>एतद्दण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः। ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥ २२१॥</poem>}}}} {{gap}}एतदिति ॥ ग्रामेषु ब्राह्मणजातिसमूहेषु संविद्ध्यतिक्रमकारिणामेतद्दण्डविधिं धर्म- प्रधानो राजानुतिष्ठेत् ॥ २२१ ॥ {{Block center|{{bold|<poem>क्रीत्वा विक्रीय वा किंचिद्यस्येहानुशयो भवेत् । सोऽन्तर्दशाहात्तद्रव्यं दद्याचैवाददीत वा ॥ २२२ ॥</poem>}}}} {{gap}}क्रीत्वेति ॥क्रीत्वा विक्रीय वा किंचिद्र्व्यं विनश्वररूपं स्थिराध भूमिताम्रपट्टादि यस्य लोके पश्चात्तापो जायते न साधु मया क्रीतमिति स क्रीतं दशाहमध्ये प्रत्य- पयेत् । विक्रीतं वा गृह्णीयात् ॥ २२२ ॥ {{Block center|{{bold|<poem>परेण तु दशाहस्य न दद्यान्नापि दापयेत् । आददानो ददचैव राज्ञा दण्ड्यः शतानि षट् ॥ २२३ ॥</poem>}}}}<noinclude></noinclude> 7idisme5bi8e1a7x2oupoid3xslnzna पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४२ 104 104793 416809 267823 2026-06-16T12:26:48Z Geeta g hegde 6704 416809 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Siddharth Kamath A" />{{rh|३०८|मनुस्मृतिः।|[ अध्यायः ८}}</noinclude> {{gap}}परेणेति ॥ दशाहादूर्व क्रीतं न त्यजेत् । नापि विक्रीतं विक्रयिको बलेन दापयेत् । विक्रीतं बलेन गृह्णन्परित्यजन्राज्ञा पट् शतानि पणान् दण्ड्यः ॥२२३॥ {{Block center|{{bold|<poem>यस्तु दोपवती कन्यामनाख्याय प्रयच्छति । तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥ २२४ ॥</poem>}}}} {{gap}}यस्त्विति ॥ नोन्मत्ताया इति सामान्येनोक्तं दण्डविशेषाभिधानार्थमिदम् । उ. न्मादादिदोषानकथयित्वा दोषवती कन्यां वराय यः प्रयच्छति तस्य राजा स्वयमा- दरेण षषणवतिं पणान्दण्डं कुर्यात् । अनुशयप्रसंगेनैतत्कन्यागतमुच्यते ॥२२४ ॥ अकन्येति{{Block center|{{bold|<poem> तु यः कन्यां ब्रूयाद्वेषेण मानवः । स शतं प्राप्नुयाद्दण्डं तस्या दोषमदर्शयन् ॥ २२५ ॥</poem>}}}} {{gap}}अकन्येति ॥ नेयं कन्या क्षतयोनिरियमिति यो मनुष्यो द्वेषेण ब्रूयात्तस्या उक्त- दोषमविभावयन्पणशतं राजा दण्डं प्रकल्पयेत् ॥ २२५ ॥ {{Block center|{{bold|<poem>पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः। नाकन्यासु कचिन्नृणां लुप्तधर्मक्रिया हि ताः ॥ २२६ ॥</poem>}}}} {{gap}}युक्तश्चास्याकन्येति वादिनो दण्डः । यस्मात् पाणीति ॥ 'अर्यमणं नु देवं कन्या अग्निमयक्षत' इत्येवमादयो वैवाहिका मनुष्याणां मन्त्राः कन्याशब्द- श्रवणात्कन्यास्वेव व्यवस्थिताः । नाकन्याविषये कचिच्छास्त्रे धर्मविवाहसिद्धये व्यवस्थिता असमवेतार्थत्वात् । अतएवाह । ताः क्षतयोनयो वैवाहिकमन्त्रैः संस्क्रियमाणा अपि यस्मादपगतधर्मविवाहादिशालिन्यो भवन्ति । नासौ धर्यो विवाह इत्यर्थः । नतु क्षतयोनेवैवाहिकमन्त्रहोमादिनिषेधकमिदम् । 'या गर्भिणी संस्क्रियते' तथा 'वोढुः कन्यासमुद्भवम्' इति क्षतयोनेरपि मनुनैव विवाह- संस्कारस्य वक्ष्यमाणत्वात् । देवलेन तु-'गान्धर्वेषु विवाहेषु पुनर्वैवाहिको विधिः । कर्तव्यश्च त्रिभिर्वर्णैः समयेनाग्निसाक्षिकः' इति । गान्धर्वेपु विवाहेषु होममन्त्रादिवि- धिरुक्तः । गान्धर्वश्चोपगमनपूर्वकोऽपि भवति । तस्य क्षत्रियविषये सुधर्मत्वं मनुनोक्तम् । अतः सामान्यविशेषन्यायादितरविषयोऽयं क्षतयोनिविवाहस्थाधर्म- त्वोपदेशः ॥ २२६ ॥ {{Block center|{{bold|<poem>पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ २२७ ॥</poem>}}}} {{gap}}पाणिग्रहणिका इति ॥ वैवाहिका मन्त्रा नियतं निश्चितं भार्यात्वे निमित्तम्, मन्त्रैर्यथाशास्त्रप्रयुक्तैर्भार्यात्वेन निष्पत्तेः । तेषां तु मन्त्राणां 'सखा सप्तपदी भव' इति मन्त्रेण कल्पनया सप्तमे दत्ते पदे भार्यात्वनिष्पत्तेः शास्त्रज्ञैनिष्पत्तिर्विज्ञेया । एवंच सप्तपदीदानात्प्राग्भार्यात्वानिष्पत्तेः सत्यनुशये जह्यान्नोर्वम् ॥ २२७ ॥<noinclude></noinclude> bzfrt4tf9qn5rmkxcp1bywu6uxsi120 अनुक्रमणिका:काशिका.pdf 106 164854 416810 2026-06-16T12:42:39Z VaradaWiki 10464 नवीन पृष्ठं निर्मीत अस्ती 416810 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=काशिका |Language=sa |Volume= |Author=वामनः |Co-author1=जयादित्यः |Co-author2= |Translator= |Co-translator1= |Co-translator2= |Editor=वासुदेव-लक्ष्मणशास्त्री-पणशीकरः |Co-editor1= |Co-editor2= |Illustrator= |Publisher=चौखम्भा-संस्कृत-संस्थानम् |Address=वाराणसी |Year=1952 |Key= |ISBN= |DLI= |IA=in.ernet.dli.2015.479943 |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} q0xvus6xdbf5xy4bwisvxs3wxipnlms अनुक्रमणिका:प्रेमरसायनम्.pdf 106 164855 416811 2026-06-16T12:55:54Z VaradaWiki 10464 नवीन पृष्ठं निर्मीत अस्ती 416811 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=प्रेमरसायनम् |Language=sa |Volume= |Author=विश्वनाथपण्डितः |Co-author1= |Co-author2= |Translator= |Co-translator1= |Co-translator2= |Editor=पण्डित-विष्णुप्रसादभण्डारी |Co-editor1= |Co-editor2= |Illustrator= |Publisher=चौखम्भा-संस्कृत-संस्थानम् |Address=वाराणसी |Year=1928 |Key= |ISBN= |DLI= |IA=PremaRasayanaByVisvanathPanditSeriesNo.631928KashiSanskritSeries |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} k2t2na64zulmv9wgjga7md7oihodhda 416812 416811 2026-06-16T12:57:10Z VaradaWiki 10464 416812 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=प्रेमरसायनम् |Language=sa |Volume= |Author=विश्वनाथपण्डितः |Co-author1= |Co-author2= |Translator= |Co-translator1= |Co-translator2= |Editor=पण्डित-विष्णुप्रसादभण्डारी |Co-editor1= |Co-editor2= |Illustrator= |Publisher=चौखम्भा-संस्कृत-संस्थानम् |Address=वाराणसी |Year=1928 |Key= |ISBN= |DLI= |IA=PremaRasayanaByVisvanathPanditSeriesNo.631928KashiSanskritSeries |NLI= |Source=pdf |Image=2 |Progress=C |Pages=<pagelist /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} am6bo92l51z3sgblz21gdo7cqrlrfqe 416813 416812 2026-06-16T12:57:25Z VaradaWiki 10464 416813 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=प्रेमरसायनम् |Language=sa |Volume= |Author=विश्वनाथपण्डितः |Co-author1= |Co-author2= |Translator= |Co-translator1= |Co-translator2= |Editor=पण्डित-विष्णुप्रसादभण्डारी |Co-editor1= |Co-editor2= |Illustrator= |Publisher=चौखम्भा-संस्कृत-संस्थानम् |Address=वाराणसी |Year=1928 |Key= |ISBN= |DLI= |IA=PremaRasayanaByVisvanathPanditSeriesNo.631928KashiSanskritSeries |NLI= |Source=pdf |Image=3 |Progress=C |Pages=<pagelist /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} jghg3i6d9px8wpv066z2ogou8x0o301 अनुक्रमणिका:काव्यालङ्कारसूत्राणि.pdf 106 164856 416826 2026-06-17T11:52:18Z VaradaWiki 10464 नवीन पृष्ठं निर्मीत अस्ती 416826 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=काव्यालङ्कारसूत्राणि |Language=sa |Volume= |Author=वामनः |Co-author1= |Co-author2= |Translator= |Co-translator1= |Co-translator2= |Editor=महामहोपाध्याय-पण्डित-दुर्गाप्रसादः |Co-editor1=वासुदेव-लक्ष्मणशास्त्री-पणशीकरः |Co-editor2=काशीनाथपाण्डुरङ्गपरबः |Illustrator= |Publisher=निर्णयसागर-मुद्रणालयः |Address=मुम्बपुरी |Year=1926 |Key= |ISBN= |DLI= |IA=in.ernet.dli.2015.383507 |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} q1yrejk7cz63cjzoh759tzhsiddhmvr